श्रीमद्भागवतम् पदच्छेद - स्कंध १
१.१
जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञ: स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय: ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥
जन्म-आदि अस्य यतः अन्वयात् इतरतः च अर्थेषु अभिज्ञः स्व-राट् तेने ब्रह्म हृदा यः आदि-कवये मुह्यन्ति यत् सूरयः तेजः वारि मृदाम् यथा विनिमयः यत्र त्रि-सर्गः अमृषा धाम्ना स्वेन सदा निरस्त कुहकम् सत्यम् परम् धीमहि
धर्म: प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वर:
सद्यो हृद्यवरुध्यतेऽत्र कृतिभि: शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥
धर्मः प्रोज्झित कैतवः अत्र परमः निर्मत्सराणाम् सताम् वेद्यम् वास्तवम् अत्र वस्तु शिवदम् ताप-त्रय उन्मूलनम् श्रीमत् भागवते महा-मुनि कृते किम् वा परैः ईश्वरः सद्यः हृदि अवरुध्यते अत्र कृतिभिः शुश्रूषुभिः तत्-क्षणात्
निगमकल्पतरोर्गलितं फलं
शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुका: ॥ ३ ॥
निगम कल्प-तरोः गलितम् फलम् शुक मुखात् अमृत द्रव संयुतम् पिबत भागवतम् रसम् आलयम् मुहुः अहो रसिकाः भुवि भावुकाः
नैमिषेऽनिमिषक्षेत्रे ऋषय: शौनकादय: ।
सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥
नैमिषे अनिमिष-क्षेत्रे ऋषयः शौनक-आदयः सत्रम् स्वर्गाय लोकाय सहस्र समम् आसत
त एकदा तु मुनय: प्रातर्हुतहुताग्नय: ।
सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥ ५ ॥
ते एकदा तु मुनयः प्रातः हुत हुत-अग्नयः सत्-कृतम् सूतम् आसीनम् पप्रच्छुः इदम् आदरात्
त्वया खलु पुराणानि सेतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६ ॥
ऋषयः ऊचुः त्वया खलु पुराणानि स-इतिहासानि च अनघ आख्यातानि अपि अधीतानि धर्म-शास्त्राणि यानि उत
यानि वेदविदां श्रेष्ठो भगवान् बादरायण: ।
अन्ये च मुनय: सूत परावरविदो विदु: ॥ ७ ॥
यानि वेद-विदाम् श्रेष्ठः भगवान् बादरायणः अन्ये च मुनयः सूत परावर-विदः विदुः
वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।
ब्रूयु: स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥
वेत्थ त्वम् सौम्य तत् सर्वम् तत्त्वतः तत् अनुग्रहात् ब्रूयुः स्निग्धस्य शिष्यस्य गुरवः गुह्यम् अपि उत
तत्र तत्राञ्जसायुष्मन् भवता यद्विनिश्चितम् ।
पुंसामेकान्तत: श्रेयस्तन्न: शंसितुमर्हसि ॥ ९ ॥
तत्र तत्र अञ्जसा आयुष्मन् भवता यत् विनिश्चितम् पुंसाम् एकान्ततः श्रेयः तत् नः शंसितुम् अर्हसि
प्रायेणाल्पायुष: सभ्य कलावस्मिन् युगे जना: ।
मन्दा: सुमन्दमतयो मन्दभाग्या ह्युपद्रुता: ॥ १० ॥
प्रायेण अल्प आयुषः सभ्य कलौ अस्मिन् युगे जनाः मन्दाः सुमन्द-मतयः मन्द-भाग्याः हि उपद्रुताः
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागश: ।
अत: साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।
ब्रूहि भद्रायभूतानां येनात्मा सुप्रसीदति ॥ ११ ॥
भूरीणि भूरि कर्माणि श्रोतव्यानि विभागशः अतः साधो अत्र यत् सारम् समुद्धृत्य मनीषया ब्रूहि भद्राय भूतानाम् येन आत्मा सुप्रसीदति
सूत जानासि भद्रं ते भगवान् सात्वतां पति: ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥
सूत जानासि भद्रम् ते भगवान् सात्वताम् पतिः देवक्याम् वसुदेवस्य जातः यस्य चिकीर्षया
तन्न: शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।
यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥
तत् नः शुश्रूषमाणानाम् अर्हसि अङ्ग अनुवर्णितुम् यस्य अवतारः भूतानाम् क्षेमाय च भवाय च
आपन्न: संसृतिं घोरां यन्नाम विवशो गृणन् ।
तत: सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ १४ ॥
आपन्नः संसृतिम् घोराम् यत् नाम विवशः गृणन् ततः सद्यः विमुच्येत यत् बिभेति स्वयम् भयम्
यत्पादसंश्रया: सूत मुनय: प्रशमायना: ।
सद्य: पुनन्त्युपस्पृष्टा: स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥
यत् पाद संश्रयाः सूत मुनयः प्रशमायनाः सद्यः पुनन्ति उपस्पृष्टाः स्वर्धुनी आपः अनुसेवया
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मण: ।
शुद्धिकामो न शृणुयाद्यश: कलिमलापहम् ॥ १६ ॥
कः वा भगवतः तस्य पुण्य श्लोक-ईड्य कर्मणः शुद्धि-कामः न शृणुयात् यशः कलि मल-अपहम्
तस्य कर्माण्युदाराणि परिगीतानि सूरिभि: ।
ब्रूहि न: श्रद्दधानानां लीलया दधत: कला: ॥ १७ ॥
तस्य कर्माणि उदाराणि परिगीतानि सूरिभिः ब्रूहि नः श्रद्दधानानाम् लीलया दधतः कलाः
अथाख्याहिहरेर्धीमन्नवतारकथा: शुभा: ।
लीला विदधत: स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥
अथ आख्याहि हरेः धीमन् अवतार कथाः शुभाः लीला विदधतः स्वैरम् ईश्वरस्य आत्म मायया
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥
वयम् तु न वितृप्यामः उत्तम-श्लोक विक्रमे यत् शृण्वताम् रस ज्ञानाम् स्वादु स्वादु पदे पदे
कृतवान् किल कर्माणि सह रामेण केशव: ।
अतिमर्त्यानि भगवान् गूढ: कपटमानुष: ॥ २० ॥
कृतवान् किल कर्माणि सह रामेण केशवः अतिमर्त्यानि भगवान् गूढः कपट मानुषः
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
आसीना दीर्घसत्रेण कथायां सक्षणा हरे: ॥ २१ ॥
कलिम् आगतम् आज्ञाय क्षेत्रे अस्मिन् वैष्णवे वयम् आसीनाः दीर्घ सत्रेण कथायाम् स-क्षणाः हरेः
त्वं न: सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।
कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥
त्वम् नः सन्दर्शितः धात्रा दुस्तरम् निस्तितीर्षताम् कलिम् सत्त्व-हरम् पुंसाम् कर्ण-धारः इव अर्णवम्
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।
स्वां काष्ठामधुनोपेते धर्म: कं शरणं गत: ॥ २३ ॥
ब्रूहि योग-ईश्वरे कृष्णे ब्रह्मण्ये धर्म वर्मणि स्वाम् काष्ठाम् अधुना उपेते धर्मः कम् शरणम् गतः
१.२
व्यास उवाच
इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणि: ।
प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १ ॥
व्यासः उवाच इति सम्प्रश्न संहृष्टः विप्राणाम् रौमहर्षणिः प्रतिपूज्य वचः तेषाम् प्रवक्तुम् उपचक्रमे
सूत उवाच
यं प्रव्रजन्तमनुपेतमपेतकृत्यं
द्वैपायनो विरहकातर आजुहाव ।
पुत्रेति तन्मयतया तरवोऽभिनेदु-
स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
सूतः उवाच यम् प्रव्रजन्तम् अनुपेतम् अपेत कृत्यम् द्वैपायनः विरह कातरः आजुहाव पुत्र इति तत्-मयतया तरवः अभिनेदुः तम् सर्व भूत हृदयम् मुनिम् आनतः अस्मि
य: स्वानुभावमखिलश्रुतिसारमेक-
मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् ।
संसारिणां करुणयाह पुराणगुह्यं
तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥
यः स्व-अनुभावम् अखिल श्रुति सारम् एकम् अध्यात्म दीपम् अतितितीर्षताम् तमः अन्धम् संसारिणाम् करुणया आह पुराण गुह्यम् तम् व्यास-सूनुम् उपयामि गुरुम् मुनीनाम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
नारायणम् नमः-कृत्य नरम् च एव नर-उत्तमम् देवीम् सरस्वतीम् व्यासम् ततः जयम् उदीरयेत्
मुनय: साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् ।
यत्कृत: कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥
मुनयः साधु पृष्टः अहम् भवद्भिः लोक मङ्गलम् यत् कृतः कृष्ण सम्प्रश्नः येन आत्मा सुप्रसीदति
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।
अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥ ६ ॥
सः वै पुंसाम् परः धर्मः यतः भक्तिः अधोक्षजे अहैतुकी अप्रतिहता यया आत्मा सुप्रसीदति
वासुदेवे भगवति भक्तियोग: प्रयोजित: ।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ७ ॥
वासुदेवे भगवति भक्ति-योगः प्रयोजितः जनयति आशु वैराग्यम् ज्ञानम् च यत् अहैतुकम्
धर्म: स्वनुष्ठित: पुंसां विष्वक्सेनकथासु य: ।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥
धर्मः स्वनुष्ठितः पुंसाम् विष्वक्सेन कथासु यः न उत्पादयेत् यदि रतिम् श्रमः एव हि केवलम्
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृत: ॥ ९ ॥
धर्मस्य हि आपवर्ग्यस्य न अर्थः अर्थाय उपकल्पते न अर्थस्य धर्म-एक-अन्तस्य कामः लाभाय हि स्मृतः
कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता ।
जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभि: ॥ १० ॥
कामस्य न इन्द्रिय प्रीतिः लाभः जीवेत यावता जीवस्य तत्त्व जिज्ञासा न अर्थः यः च इह कर्मभिः
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
वदन्ति तत् तत्त्व-विदः तत्त्वम् यत् ज्ञानम् अद्वयम् ब्रह्म इति परमात्मा इति भगवान् इति शब्द्यते
तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२ ॥
तत् श्रद्दधानाः मुनयः ज्ञान वैराग्य युक्तया पश्यन्ति आत्मनि च आत्मानम् भक्त्या श्रुत गृहीतया
अत: पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागश: ।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ १३ ॥
अतः पुम्भिः द्विज-श्रेष्ठाः वर्ण-आश्रम विभागशः स्वनुष्ठितस्य धर्मस्य संसिद्धिः हरि तोषणम्
तस्मादेकेन मनसा भगवान् सात्वतां पति: ।
श्रोतव्य: कीर्तितव्यश्च ध्येय: पूज्यश्च नित्यदा ॥ १४ ॥
तस्मात् एकेन मनसा भगवान् सात्वताम् पतिः श्रोतव्यः कीर्तितव्यः च ध्येयः पूज्यः च नित्यदा
यदनुध्यासिना युक्ता: कर्मग्रन्थिनिबन्धनम् ।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ १५ ॥
यत् अनुध्या असिना युक्ताः कर्म ग्रन्थि निबन्धनम् छिन्दन्ति कोविदाः तस्य कः न कुर्यात् कथा रतिम्
शुश्रूषो: श्रद्दधानस्य वासुदेवकथारुचि: ।
स्यान्महत्सेवया विप्रा: पुण्यतीर्थनिषेवणात् ॥ १६ ॥
शुश्रूषोः श्रद्दधानस्य वासुदेव कथा रुचिः स्यात् महत्-सेवया विप्राः पुण्य-तीर्थ निषेवणात्
शृण्वतां स्वकथा: कृष्ण: पुण्यश्रवणकीर्तन: ।
हृद्यन्त:स्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७ ॥
शृण्वताम् स्व-कथाः कृष्णः पुण्य श्रवण कीर्तनः हृदि अन्तः स्थः हि अभद्राणि विधुनोति सुहृत् सताम्
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८ ॥
नष्ट प्रायेषु अभद्रेषु नित्यम् भागवत सेवया भगवति उत्तम श्लोके भक्तिः भवति नैष्ठिकी
तदा रजस्तमोभावा: कामलोभादयश्च ये ।
चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९ ॥
तदा रजः तमः भावाः काम लोभ आदयः च ये चेतः एतैः अनाविद्धम् स्थितम् सत्त्वे प्रसीदति
एवं प्रसन्नमनसो भगवद्भक्तियोगत: ।
भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २० ॥
एवम् प्रसन्न मनसः भगवत्-भक्ति योगतः भगवत् तत्त्व विज्ञानम् मुक्त सङ्गस्य जायते
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया: ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१ ॥
भिद्यते हृदय ग्रन्थिः छिद्यन्ते सर्व संशयाः क्षीयन्ते च अस्य कर्माणि दृष्टे एव आत्मनि ईश्वरे
अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥
अतः वै कवयः नित्यम् भक्तिम् परमया मुदा वासुदेवे भगवति कुर्वन्ति आत्म प्रसादनीम्
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-
र्युक्त: पर: पुरुष एक इहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चिहरेति संज्ञा:
श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्यु: ॥ २३ ॥
सत्त्वम् रजः तमः इति प्रकृतेः गुणाः तैः युक्तः परः पुरुषः एकः इह अस्य धत्ते स्थिति-आदये हरि विरिञ्चि हर इति संज्ञाः श्रेयांसि तत्र खलु सत्त्व तनोः नृणाम् स्युः
पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमय: ।
तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम् ॥ २४ ॥
पार्थिवात् दारुणः धूमः तस्मात् अग्निः त्रयी मयः तमसः तु रजः तस्मात् सत्त्वम् यत् ब्रह्म दर्शनम्
भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥
भेजिरे मुनयः अथ अग्रे भगवन्तम् अधोक्षजम् सत्त्वम् विशुद्धम् क्षेमाय कल्पन्ते ये अनु तान् इह
मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।
नारायणकला: शान्ता भजन्ति ह्यनसूयव: ॥ २६ ॥
मुमुक्षवः घोर रूपान् हित्वा भूत-पतीन् अथ नारायण कलाः शान्ताः भजन्ति हि अनसूयवः
रजस्तम:प्रकृतय: समशीला भजन्ति वै ।
पितृभूतप्रजेशादीन्श्रियैश्वर्यप्रजेप्सव: ॥ २७ ॥
रजः तमः प्रकृतयः सम-शीलाः भजन्ति वै पितृ भूत प्रजेश-आदीन् श्रिया ऐश्वर्य प्रजा ईप्सवः
वासुदेवपरा वेदा वासुदेवपरा मखा: ।
वासुदेवपरा योगा वासुदेवपरा: क्रिया: ॥ २८ ॥
वासुदेवपरं ज्ञानं वासुदेवपरं तप: ।
वासुदेवपरो धर्मो वासुदेवपरा गति: ॥ २९ ॥
वासुदेव पराः वेदाः वासुदेव पराः मखाः वासुदेव पराः योगाः वासुदेव पराः क्रियाः वासुदेव परम् ज्ञानम् वासुदेव परम् तपः वासुदेव परः धर्मः वासुदेव पराः गतिः
स एवेदं ससर्जाग्रे भगवानात्ममायया ।
सदसद्रूपया चासौ गुणमयागुणो विभु: ॥ ३० ॥
सः एव इदम् ससर्ज अग्रे भगवान् आत्म-मायया सत् असत् रूपया च असौ गुण-मय अगुणः विभुः
तया विलसितेष्वेषु गुणेषु गुणवानिव ।
अन्त:प्रविष्ट आभाति विज्ञानेन विजृम्भित: ॥ ३१ ॥
तया विलसितेषु एषु गुणेषु गुणवान् इव अन्तः प्रविष्टः आभाति विज्ञानेन विजृम्भितः
यथा ह्यवहितो वह्निर्दारुष्वेक: स्वयोनिषु ।
नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥
यथा हि अवहितः वह्निः दारुषु एकः स्व-योनिषु नाना इव भाति विश्व-आत्मा भूतेषु च तथा पुमान्
असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभि: ।
स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥
असौ गुण-मयैः भावैः भूत सूक्ष्म इन्द्रिय आत्मभिः स्व-निर्मितेषु निर्विष्टः भुङ्क्ते भूतेषु तत्-गुणान्
भावयत्येष सत्त्वेन लोकान् वै लोकभावन: ।
लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३४ ॥
भावयति एषः सत्त्वेन लोकान् वै लोक-भावनः लीला अवतार अनुरतः देव तिर्यक् नर-आदिषु
१.३
सूत उवाच
जगृहे पौरुषं रूपं भगवान्महदादिभि: ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥
सूतः उवाच जगृहे पौरुषम् रूपम् भगवान् महत्-आदिभिः सम्भूतम् षोडश-कलम् आदौ लोक सिसृक्षया
यस्याम्भसि शयानस्य योगनिद्रां वितन्वत: ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पति: ॥ २ ॥
यस्य अम्भसि शयानस्य योग-निद्राम् वितन्वतः नाभि ह्रद अम्बुजात् आसीत् ब्रह्मा विश्व सृजाम् पतिः
यस्यावयवसंस्थानै: कल्पितो लोकविस्तर: ।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥
यस्य अवयव संस्थानैः कल्पितः लोक विस्तरः तत् वै भगवतः रूपम् विशुद्धम् सत्त्वम् ऊर्जितम्
पश्यन्त्यदो रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥
पश्यन्ति अदः रूपम् अदभ्र चक्षुषा सहस्र-पाद ऊरु भुज-आनन अद्भुतम् सहस्र मूर्ध श्रवण अक्षि नासिकम् सहस्र मौलि अम्बर कुण्डल उल्लसत्
एतन्नानावताराणां निधानं बीजमव्ययम् ।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादय: ॥ ५ ॥
एतत् नाना अवताराणाम् निधानम् बीजम् अव्ययम् यस्य अंश अंशेन सृज्यन्ते देव तिर्यक् नर-आदयः
स एव प्रथमं देव: कौमारं सर्गमाश्रित: ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥
सः एव प्रथमम् देवः कौमारम् सर्गम् आश्रितः चचार दुश्चरम् ब्रह्मा ब्रह्मचर्यम् अखण्डितम्
द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्त यज्ञेश: सौकरं वपु: ॥ ७ ॥
द्वितीयम् तु भवाय अस्य रसातल गताम् महीम् उद्धरिष्यन् उपादत्त यज्ञेशः सौकरम् वपुः
तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य स: ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यत: ॥ ८ ॥
तृतीयम् ऋषि-सर्गम् वै देवर्षित्वम् उपेत्य सः तन्त्रम् सात्वतम् आचष्ट नैष्कर्म्यम् कर्मणाम् यतः
तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तप: ॥ ९ ॥
तुर्ये धर्म-कला सर्गे नर-नारायणौ ऋषी भूत्वा आत्म-उपशम उपेतम् अकरोत् दुश्चरम् तपः
पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥
पञ्चमः कपिलः नाम सिद्धेशः काल विप्लुतम् प्रोवाच आसुरये साङ्ख्यम् तत्त्व-ग्राम विनिर्णयम्
षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥
षष्ठम् अत्रेः अपत्यत्वम् वृतः प्राप्तः अनसूयया आन्वीक्षिकीम् अलर्काय प्रह्लाद-आदिभ्यः ऊचिवान्
तत: सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।
स यामाद्यै: सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२ ॥
ततः सप्तमे आकूत्याम् रुचेः यज्ञः अभ्यजायत सः याम-आद्यैः सुर-गणैः अपात् स्वायम्भुव-अन्तरम्
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रम: ।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३ ॥
अष्टमे मेरुदेव्याम् तु नाभेः जातः उरुक्रमः दर्शयन् वर्त्म धीराणाम् सर्व आश्रम नमस्कृतम्
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपु: ।
दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तम: ॥ १४ ॥
ऋषिभिः याचितः भेजे नवमम् पार्थिवम् वपुः दुग्ध इमाम् ओषधीः विप्राः तेन अयम् सः उशत्तमः
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५ ॥
रूपम् सः जगृहे मात्स्यम् चाक्षुष उदधि सम्प्लवे नावि आरोप्य मही मय्याम् अपात् वैवस्वतम् मनुम्
सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभु: ॥ १६ ॥
सुर असुराणाम् उदधिम् मथ्नताम् मन्दराचलम् दध्रे कमठ रूपेण पृष्ठे एकादशे विभुः
धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ १७ ॥
धान्वन्तरम् द्वादशमम् त्रयोदशमम् एव च अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया
चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।
ददार करजैरूरावेरकां कटकृद्यथा ॥ १८ ॥
चतुर्दशम् नार-सिंहम् बिभ्रत् दैत्य-इन्द्रम् ऊर्जितम् ददार करजैः ऊरौ एरकाम् कट-कृत् यथा
पञ्चदशं वामनकं कृत्वागादध्वरं बले: ।
पदत्रयं याचमान: प्रत्यादित्सुस्त्रिपिष्टपम् ॥ १९ ॥
पञ्चदशम् वामनकम् कृत्वा अगात् अध्वरम् बलेः पद-त्रयम् याचमानः प्रत्यादित्सुः त्रि-पिष्टपम्
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रि:सप्तकृत्व: कुपितो नि:क्षत्रामकरोन्महीम् ॥ २० ॥
अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहः नृपान् त्रिः-सप्त कृत्वः कुपितः निः क्षत्राम् अकरोत् महीम्
तत: सप्तदशे जात: सत्यवत्यां पराशरात् ।
चक्रे वेदतरो: शाखा दृष्ट्वा पुंसोऽल्पमेधस: ॥ २१ ॥
ततः सप्तदशे जातः सत्यवत्याम् पराशरात् चक्रे वेद-तरोः शाखाः दृष्ट्वा पुंसः अल्प-मेधसः
नरदेवत्वमापन्न: सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यत: परम् ॥ २२ ॥
नर देवत्वम् आपन्नः सुर कार्य चिकीर्षया समुद्र निग्रह-आदीनि चक्रे वीर्याणि अतः परम्
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी राम कृष्णौ इति भुवः भगवान् अहरत् भरम्
तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति ॥ २४ ॥
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर द्विषाम् बुद्धः नाम्ना अञ्जन-सुतः कीकटेषु भविष्यति
अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पति: ॥ २५ ॥
अथ असौ युग-सन्ध्यायाम् दस्यु प्रायेषु राजसु जनिता विष्णु यशसः नाम्ना कल्किः जगत्-पतिः
अवतारा ह्यसङ्ख्येया हरे: सत्त्वनिधेर्द्विजा: ।
यथाविदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥ २६ ॥
अवताराः हि असङ्ख्येयाः हरेः सत्त्व-निधेः द्विजाः यथा अविदासिनः कुल्याः सरसः स्युः सहस्रशः
ऋषयो मनवो देवा मनुपुत्रा महौजस: ।
कला: सर्वे हरेरेव सप्रजापतय: स्मृता: ॥ २७ ॥
ऋषयः मनवः देवाः मनु-पुत्राः महा-ओजसः कलाः सर्वे हरेः एव स-प्रजापतयः स्मृताः
एते चांशकला: पुंस: कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥
एते च अंश कलाः पुंसः कृष्णः तु भगवान् स्वयम् इन्द्र-अरि व्याकुलम् लोकम् मृडयन्ति युगे युगे
जन्म गुह्यं भगवतो य एतत्प्रयतो नर: ।
सायं प्रातर्गृणन् भक्त्या दु:खग्रामाद्विमुच्यते ॥ २९ ॥
जन्म गुह्यम् भगवतः यः एतत् प्रयतः नरः सायम् प्रातः गृणन् भक्त्या दुःख-ग्रामात् विमुच्यते
एतद्रूपं भगवतो ह्यरूपस्य चिदात्मन: ।
मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥
एतत् रूपम् भगवतः हि अरूपस्य चित्-आत्मनः माया गुणैः विरचितम् महत्-आदिभिः आत्मनि
यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभि: ॥ ३१ ॥
यथा नभसि मेघ-ओघः रेणुः वा पार्थिवः अनिले एवम् द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः
अत: परं यदव्यक्तमव्यूढगुणबृंहितम् ।
अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भव: ॥ ३२ ॥
अतः परम् यत् अव्यक्तम् अव्यूढ गुण-बृंहितम् अदृष्ट अश्रुत वस्तुत्वात् सः जीवः यत् पुनः-भवः
यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥
यत्र इमे सत्-असत् रूपे प्रतिषिद्धे स्व-संविदा अविद्यया आत्मनि कृते इति तत् ब्रह्म-दर्शनम्
यद्येषोपरता देवी माया वैशारदी मति: ।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४ ॥
यदि एषा उपरता देवी माया वैशारदी मतिः सम्पन्नः एव इति विदुः महिम्नि स्वे महीयते
एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पते: ॥ ३५ ॥
एवम् जन्मानि कर्माणि हि अकर्तुः अजनस्य च वर्णयन्ति स्म कवयः वेद-गुह्यानि हृत्-पतेः
स वा इदं विश्वममोघलील:
सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
भूतेषु चान्तर्हित आत्मतन्त्र:
षाड्वर्गिकं जिघ्रति षड्गुणेश: ॥ ३६ ॥
सः वा इदम् विश्वम् अमोघ-लीलः सृजति अवति अत्ति न सज्जते अस्मिन् भूतेषु च अन्तर्हितः आत्म-तन्त्रः षाट्-वर्गिकम् जिघ्रति षट्-गुण-ईशः
न चास्य कश्चिन्निपुणेन धातु-
रवैति जन्तु: कुमनीष ऊती: ।
नामानि रूपाणि मनोवचोभि:
सन्तन्वतो नटचर्यामिवाज्ञ: ॥ ३७ ॥
न च अस्य कश्चित् निपुणेन धातुः अवैति जन्तुः कुमनीषः ऊतीः नामानि रूपाणि मनः-वचोभिः सन्तन्वतः नट-चर्याम् इव अज्ञः
स वेद धातु: पदवीं परस्य
दुरन्तवीर्यस्य रथाङ्गपाणे: ।
योऽमायया सन्ततयानुवृत्त्या
भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥
सः वेद धातुः पदवीम् परस्य दुरन्त-वीर्यस्य रथ-अङ्ग-पाणेः यः अमायया सन्ततया अनुवृत्त्या भजेत तत्-पाद सरोज-गन्धम्
अथेह धन्या भगवन्त इत्थं
यद्वासुदेवेऽखिललोकनाथे ।
कुर्वन्ति सर्वात्मकमात्मभावं
न यत्र भूय: परिवर्त उग्र: ॥ ३९ ॥
अथ इह धन्याः भगवन्तः इत्थम् यत् वासुदेवे अखिल लोक-नाथे कुर्वन्ति सर्व-आत्मकम् आत्म भावम् न यत्र भूयः परिवर्तः उग्रः
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
उत्तमश्लोकचरितं चकार भगवानृषि: ।
नि:श्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ॥ ४० ॥
इदम् भागवतम् नाम पुराणम् ब्रह्म-सम्मितम् उत्तम-श्लोक चरितम् चकार भगवान् ऋषिः निःश्रेयसाय लोकस्य धन्यम् स्वस्ति-अयनम् महत्
तदिदं ग्राहयामास सुतमात्मवतां वरम् ।
सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ॥ ४१ ॥
तत् इदम् ग्राहयाम् आस सुतम् आत्मवताम् वरम् सर्व वेद इतिहासानाम् सारम् सारम् समुद्धृतम्
स तु संश्रावयामास महाराजं परीक्षितम् ।
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ ४२ ॥
सः तु संश्रावयाम् आस महा-राजम् परीक्षितम् प्राय-उपविष्टम् गङ्गायाम् परीतम् परम-ऋषिभिः
कृष्णे स्वधामोपगते धर्मज्ञानादिभि: सह ।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदित: ॥ ४३ ॥
कृष्णे स्व-धाम उपगते धर्म ज्ञान आदिभिः सह कलौ नष्ट-दृशाम् एषः पुराण-अर्कः अधुना उदितः
तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजस: ।
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।
सोऽहं व: श्रावयिष्यामि यथाधीतं यथामति ॥ ४४ ॥
तत्र कीर्तयतः विप्राः विप्र-ऋषेः भूरि तेजसः अहम् च अध्यगमम् तत्र निविष्टः तत्-अनुग्रहात् सः अहम् वः श्रावयिष्यामि यथा-अधीतम् यथा-मति
१.४
व्यास उवाच
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।
वृद्ध: कुलपति: सूतं बह्वृच: शौनकोऽब्रवीत् ॥ १ ॥
व्यासः उवाच इति ब्रुवाणम् संस्तूय मुनीनाम् दीर्घ सत्रिणाम् वृद्धः कुल-पतिः सूतम् बहु-ऋचः शौनकः अब्रवीत्
शौनक उवाच
सूत सूत महाभाग वद नो वदतां वर ।
कथां भागवतीं पुण्यां यदाह भगवाञ्छुक: ॥ २ ॥
शौनकः उवाच सूत सूत महा-भाग वद नः वदताम् वर कथाम् भागवतीम् पुण्याम् यत् आह भगवान् शुकः
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।
कुत: सञ्चोदित: कृष्ण: कृतवान् संहितां मुनि: ॥ ३ ॥
कस्मिन् युगे प्रवृत्ता इयम् स्थाने वा केन हेतुना कुतः सञ्चोदितः कृष्णः कृतवान् संहिताम् मुनिः
तस्य पुत्रो महायोगी समदृङ्निर्विकल्पक: ।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
तस्य पुत्रः महा-योगी सम-दृक् निर्विकल्पकः एकान्त-मतिः उन्निद्रः गूढः मूढः इव ईयते
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं
देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति
स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टे: ॥ ५ ॥
दृष्ट्वा अनुयान्तम् ऋषिम् आत्मजम् अपि अनग्नम् देव्यः ह्रिया परिदधुः न सुतस्य चित्रम् तत् वीक्ष्य पृच्छति मुनौ जगदुः तव अस्ति स्त्री-पुम् भिदा न तु सुतस्य विविक्त दृष्टेः
कथमालक्षित: पौरै: सम्प्राप्त: कुरुजाङ्गलान् ।
उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ६ ॥
कथम् आलक्षितः पौरैः सम्प्राप्तः कुरु-जाङ्गलान् उन्मत्त मूक जडवत् विचरन् गज-साह्वये
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
संवाद: समभूत्तात यत्रैषा सात्वती श्रुति: ॥ ७ ॥
कथम् वा पाण्डवेयस्य राजर्षेः मुनिना सह संवादः समभूत् तात यत्र एषा सात्वती श्रुतिः
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ८ ॥
सः गो-दोहन-मात्रम् हि गृहेषु गृह-मेधिनाम् अवेक्षते महा-भागः तीर्थी कुर्वन् तत् आश्रमम्
अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि न: ॥ ९ ॥
अभिमन्यु-सुतम् सूत प्राहुः भागवत-उत्तमम् तस्य जन्म महा-आश्चर्यम् कर्माणि च गृणीहि नः
स सम्राट् कस्य वा हेतो: पाण्डूनां मानवर्धन: ।
प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम् ॥ १० ॥
सः सम्राट् कस्य वा हेतोः पाण्डूनाम् मान-वर्धनः प्राय-उपविष्टः गङ्गायाम् अनादृत्य अधिराट् श्रियम्
नमन्ति यत्पादनिकेतमात्मन:
शिवायहानीय धनानि शत्रव: ।
कथं स वीर: श्रियमङ्ग दुस्त्यजां
युवैषतोत्स्रष्टुमहो सहासुभि: ॥ ११ ॥
नमन्ति यत्-पाद निकेतम् आत्मनः शिवाय हानीय धनानि शत्रवः कथम् सः वीरः श्रियम् अङ्ग दुस्त्यजाम् युवा ऐषत उत्स्रष्टुम् अहो सह असुभिः
शिवाय लोकस्य भवाय भूतये
य उत्तमश्लोकपरायणा जना: ।
जीवन्ति नात्मार्थमसौ पराश्रयं
मुमोच निर्विद्य कुत: कलेवरम् ॥ १२ ॥
शिवाय लोकस्य भवाय भूतये ये उत्तम-श्लोक-परायणाः जनाः जीवन्ति न आत्म-अर्थम् असौ पर-आश्रयम् मुमोच निर्विद्य कुतः कलेवरम्
तत्सर्वं न: समाचक्ष्व पृष्टो यदिह किञ्चन ।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३ ॥
तत् सर्वम् नः समाचक्ष्व पृष्टः यत् इह किञ्चन मन्ये त्वाम् विषये वाचाम् स्नातम् अन्यत्र छान्दसात्
सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
जात: पराशराद्योगी वासव्यां कलया हरे: ॥ १४ ॥
सूतः उवाच द्वापरे समनुप्राप्ते तृतीये युग पर्यये जातः पराशरात् योगी वासव्याम् कलया हरेः
स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचि: ।
विविक्त एक आसीन उदिते रविमण्डले ॥ १५ ॥
सः कदाचित् सरस्वत्याः उपस्पृश्य जलम् शुचिः विविक्ते एकः आसीनः उदिते रवि-मण्डले
परावरज्ञ: स ऋषि: कालेनाव्यक्तरंहसा ।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥
पर-अवर ज्ञः सः ऋषिः कालेन अव्यक्त रंहसा युग-धर्म व्यतिकरम् प्राप्तम् भुवि युगे युगे
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।
अश्रद्दधानान्नि:सत्त्वान्दुर्मेधान् ह्रसितायुष: ॥ १७ ॥
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।
सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् ॥ १८ ॥
भौतिकानाम् च भावानाम् शक्ति-ह्रासम् च तत्-कृतम् अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसित आयुषः दुर्भगान् च जनान् वीक्ष्य मुनिः दिव्येन चक्षुषा सर्व वर्ण-आश्रमाणाम् यत् दध्यौ हितम् अमोघ-दृक्
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥
चातुः होत्रम् कर्म शुद्धम् प्रजानाम् वीक्ष्य वैदिकम् व्यदधात् यज्ञ सन्तत्यै वेदम् एकम् चतुः-विधम्
ऋग्यजु:सामाथर्वाख्या वेदाश्चत्वार उद्धृता: ।
इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥
ऋग्-यजुः-साम-अथर्व-आख्याः वेदाः चत्वारः उद्धृताः इतिहास पुराणम् च पञ्चमः वेदः उच्यते
तत्रर्ग्वेदधर: पैल: सामगो जैमिनि: कवि: ।
वैशम्पायन एवैको निष्णातो यजुषामुत ॥ २१ ॥
तत्र ऋग्-वेद-धरः पैलः साम-गः जैमिनिः कविः वैशम्पायनः एव एकः निष्णातः यजुषाम् उत
अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनि: ।
इतिहासपुराणानां पिता मे रोमहर्षण: ॥ २२ ॥
अथर्व अङ्गिरसाम् आसीत् सुमन्तुः दारुणः मुनिः इतिहास-पुराणानाम् पिता मे रोमहर्षणः
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।
शिष्यै: प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥ २३ ॥
ते एते ऋषयः वेदम् स्वम् स्वम् व्यस्यन् अनेकधा शिष्यैः प्रशिष्यैः तत्-शिष्यैः वेदाः ते शाखिनः अभवन्
त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।
एवं चकार भगवान् व्यास: कृपणवत्सल: ॥ २४ ॥
ते एव वेदाः दुर्मेधैः धार्यन्ते पुरुषैः यथा एवम् चकार भगवान् व्यासः कृपण-वत्सलः
स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥
स्त्री शूद्र द्विज-बन्धूनाम् त्रयी न श्रुति-गोचरा कर्म-श्रेयसि मूढानाम् श्रेयः एवम् भवेत् इह इति भारतम् आख्यानम् कृपया मुनिना कृतम्
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजा: ।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं तत: ॥ २६ ॥
एवम् प्रवृत्तस्य सदा भूतानाम् श्रेयसि द्विजाः सर्वात्मकेन अपि यदा न अतुष्यत् हृदयम् ततः
नातिप्रसीदद्धृदय: सरस्वत्यास्तटे शुचौ ।
वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २७ ॥
न अतिप्रसीदत् हृदयः सरस्वत्याः तटे शुचौ वितर्कयन् विविक्त-स्थः इदम् च उवाच धर्म-वित्
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नय: ।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥
भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शित: ।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥
धृत-व्रतेन हि मया छन्दांसि गुरवः अग्नयः मानिताः निर्व्यलीकेन गृहीतम् च अनुशासनम् भारत व्यपदेशेन हि आम्नाय-अर्थः च प्रदर्शितः दृश्यते यत्र धर्म-आदिः स्त्री-शूद्र-आदिभिः अपि उत
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभु: ।
असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तम: ॥ ३० ॥
तथापि बत मे दैह्यः हि आत्मा च एव आत्मना विभुः असम्पन्नः इव आभाति ब्रह्म-वर्चस्य सत्तमः
किं वा भागवता धर्मा न प्रायेण निरूपिता: ।
प्रिया: परमहंसानां त एव ह्यच्युतप्रिया: ॥ ३१ ॥
किम् वा भागवताः धर्माः न प्रायेण निरूपिताः प्रियाः परमहंसानाम् ते एव हि अच्युत प्रियाः
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यत: ।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३२ ॥
तस्य एवम् खिलम् आत्मानम् मन्यमानस्य खिद्यतः कृष्णस्य नारदः अभ्यागात् आश्रमम् प्राक् उदाहृतम्
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनि: ।
पूजयामास विधिवन्नारदं सुरपूजितम् ॥ ३३ ॥
तम् अभिज्ञाय सहसा प्रत्युत्थाय आगतम् मुनिः पूजयाम् आस विधि-वत् नारदम् सुर-पूजितम्
१.५
सूत उवाच
अथ तं सुखमासीन उपासीनं बृहच्छ्रवा: ।
देवर्षि: प्राह विप्रर्षिं वीणापाणि: स्मयन्निव ॥ १ ॥
सूतः उवाच अथ तम् सुखम् आसीनः उपासीनम् बृहत्-श्रवाः देवर्षिः प्राह विप्रर्षिम् वीणा-पाणिः स्मयन् इव
नारद उवाच
पाराशर्य महाभाग भवत: कच्चिदात्मना ।
परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
नारदः उवाच पाराशर्य महा-भाग भवतः कच्चित् आत्मना परितुष्यति शारीरः आत्मा मानसः एव वा
जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम् ।
कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
जिज्ञासितम् सुसम्पन्नम् अपि ते महत्-अद्भुतम् कृतवान् भारतम् यः त्वम् सर्व-अर्थ परिबृंहितम्
जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम् ।
तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥
जिज्ञासितम् अधीतम् च ब्रह्म यत् तत् सनातनम् तथापि शोचसि आत्मानम् अकृत-अर्थः इव प्रभो
व्यास उवाच
अस्त्येव मे सर्वमिदं त्वयोक्तं
तथापि नात्मा परितुष्यते मे ।
तन्मूलमव्यक्तमगाधबोधं
पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥
व्यासः उवाच अस्ति एव मे सर्वम् इदम् त्वया उक्तम् तथापि न आत्मा परितुष्यते मे तत् मूलम् अव्यक्तम् अगाध-बोधम् पृच्छामहे त्वा आत्म-भव आत्म-भूतम्
स वै भवान् वेद समस्तगुह्य-
मुपासितो यत्पुरुष: पुराण: ।
परावरेशो मनसैव विश्वं
सृजत्यवत्यत्ति गुणैरसङ्ग: ॥ ६ ॥
सः वै भवान् वेद समस्त गुह्यम् उपासितः यत् पुरुषः पुराणः पर-अवर-ईशः मनसा एव विश्वम् सृजति अवति अत्ति गुणैः असङ्गः
त्वं पर्यटन्नर्क इव त्रिलोकी-
मन्तश्चरो वायुरिवात्मसाक्षी ।
परावरे ब्रह्मणि धर्मतो व्रतै:
स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥
त्वम् पर्यटन् अर्कः इव त्रि-लोकीम् अन्तः-चरः वायुः इव आत्म साक्षी पर-अवरे ब्रह्मणि धर्मतः व्रतैः स्नातस्य मे न्यूनम् अलम् विचक्ष्व
श्रीनारद उवाच
भवतानुदितप्रायं यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
श्री-नारदः उवाच भवता अनुदित-प्रायम् यशः भगवतः अमलम् येन एव असौ न तुष्येत मन्ये तत् दर्शनम् खिलम्
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिता: ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णित: ॥ ९ ॥
यथा धर्म-आदयः च अर्थाः मुनि-वर्य अनुकीर्तिताः न तथा वासुदेवस्य महिमा हि अनुवर्णितः
न यद्वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद्वायसं तीर्थमुशन्ति मानसा
न यत्र हंसा निरमन्त्युशिक्क्षया: ॥ १० ॥
न यत् वचः चित्र-पदम् हरेः यशः जगत् पवित्रम् प्रगृणीत कर्हिचित् तत् वायसम् तीर्थम् उशन्ति मानसाः न यत्र हंसाः निरमन्ति उशिक्-क्षयाः
तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधव: ॥ ११ ॥
तत् वाक् विसर्गः जनता अघ विप्लवः यस्मिन् प्रति-श्लोकम् अबद्धवति अपि नामानि अनन्तस्य यशः अङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः
नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुत: पुन: शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
नैष्कर्म्यम् अपि अच्युत भाव वर्जितम् न शोभते ज्ञानम् अलम् निरञ्जनम् कुतः पुनः शश्वत् अभद्रम् ईश्वरे न च अर्पितम् कर्म यत् अपि अकारणम्
अथो महाभाग भवानमोघदृक्
शुचिश्रवा: सत्यरतो धृतव्रत: ।
उरुक्रमस्याखिलबन्धमुक्तये
समाधिनानुस्मर तद्विचेष्टितम् ॥ १३ ॥
अथो महा-भाग भवान् अमोघ-दृक् शुचि श्रवाः सत्य-रतः धृत-व्रतः उरुक्रमस्य अखिल बन्ध मुक्तये समाधिना अनुस्मर तत्-विचेष्टितम्
ततोऽन्यथा किञ्चन यद्विवक्षत:
पृथग्दृशस्तत्कृतरूपनामभि: ।
न कर्हिचित्क्वापि च दु:स्थिता मति-
र्लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥
ततः अन्यथा किञ्चन यत् विवक्षतः पृथक् दृशः तत्-कृत रूप नामभिः न कर्हिचित् क्वापि च दुःस्थिता मतिः लभेत वात-आहत नौः इव आस्पदम्
जुगुप्सितं धर्मकृतेऽनुशासत:
स्वभावरक्तस्य महान् व्यतिक्रम: ।
यद्वाक्यतो धर्म इतीतर: स्थितो
न मन्यते तस्य निवारणं जन: ॥ १५ ॥
जुगुप्सितम् धर्म-कृते अनुशासतः स्वभाव-रक्तस्य महान् व्यतिक्रमः यत्-वाक्यतः धर्मः इति इतरः स्थितः न मन्यते तस्य निवारणम् जनः
विचक्षणोऽस्यार्हति वेदितुं विभो-
रनन्तपारस्य निवृत्तित: सुखम् ।
प्रवर्तमानस्य गुणैरनात्मन-
स्ततो भवान्दर्शय चेष्टितं विभो: ॥ १६ ॥
विचक्षणः अस्य अर्हति वेदितुम् विभोः अनन्त-पारस्य निवृत्तितः सुखम् प्रवर्तमानस्य गुणैः अनात्मनः ततः भवान् दर्शय चेष्टितम् विभोः
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-
र्भजन्नपक्वोऽथ पतेत्ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां स्वधर्मत: ॥ १७ ॥
त्यक्त्वा स्व-धर्मम् चरण-अम्बुजम् हरेः भजन् अपक्वः अथ पतेत् ततः यदि यत्र क्व वा अभद्रम् अभूत् अमुष्य किम् कः वा अर्थः आप्तः अभजताम् स्व-धर्मतः
तस्यैव हेतो: प्रयतेत कोविदो
न लभ्यते यद्भ्रमतामुपर्यध: ।
तल्लभ्यते दु:खवदन्यत: सुखं
कालेन सर्वत्र गभीररंहसा ॥ १८ ॥
तस्य एव हेतोः प्रयतेत कोविदः न लभ्यते यत् भ्रमताम् उपरि अधः तत् लभ्यते दुःखवत् अन्यतः सुखम् कालेन सर्वत्र गभीर रंहसा
न वै जनो जातु कथञ्चनाव्रजे-
न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।
स्मरन्मुकुन्दाङ्घ्र्युरपगूहनं पुन-
र्विहातुमिच्छेन्न रसग्रहो जन: ॥ १९ ॥
न वै जनः जातु कथञ्चन आव्रजेत् मुकुन्द-सेवी अन्यवत् अङ्ग संसृतिम् स्मरन् मुकुन्द-अङ्घ्रि उपगूहनम् पुनः विहातुम् इच्छेत् न रस-ग्रहः जनः
इदं हि विश्वं भगवानिवेतरो
यतो जगत्स्थाननिरोधसम्भवा: ।
तद्धि स्वयं वेद भवांस्तथापि ते
प्रादेशमात्रं भवत: प्रदर्शितम् ॥ २० ॥
इदम् हि विश्वम् भगवान् इव इतरः यतः जगत् स्थान निरोध सम्भवाः तत् हि स्वयम् वेद भवान् तथा अपि ते प्रादेश-मात्रम् भवतः प्रदर्शितम्
त्वमात्मनात्मानमवेह्यमोघदृक्
परस्य पुंस: परमात्मन: कलाम् ।
अजं प्रजातं जगत: शिवाय त-
न्महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥
त्वम् आत्मना आत्मानम् अवेहि अमोघ-दृक् परस्य पुंसः परमात्मनः कलाम् अजम् प्रजातम् जगतः शिवाय तत् महा-अनुभाव अभ्युदयः अधिगण्य-ताम्
इदं हि पुंसस्तपस: श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धिदत्तयो: ।
अविच्युतोऽर्थ: कविभिर्निरूपितो
यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२ ॥
इदम् हि पुंसः तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धि दत्तयोः अविच्युतः अर्थः कविभिः निरूपितः यत् उत्तमश्लोक गुण-अनुवर्णनम्
अहं पुरातीतभवेऽभवं मुने
दास्यास्तु कस्याश्चन वेदवादिनाम् ।
निरूपितो बालक एव योगिनां
शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
अहम् पुरा अतीत-भवे अभवम् मुने दास्याः तु कस्याश्चन वेद-वादिनाम् निरूपितः बालकः एव योगिनाम् शुश्रूषणे प्रावृषि निर्विविक्षताम्
ते मय्यपेताखिलचापलेऽर्भके
दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।
चक्रु: कृपां यद्यपि तुल्यदर्शना:
शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥
ते मयि अपेत अखिल चापले अर्भके दान्ते अधृत-क्रीडनके अनुवर्तिनि चक्रुः कृपाम् यद्यपि तुल्य-दर्शनाः शुश्रूषमाणे मुनयः अल्प-भाषिणि
उच्छिष्टलेपाननुमोदितो द्विजै:
सकृत्स्म भुञ्जे तदपास्तकिल्बिष: ।
एवं प्रवृत्तस्य विशुद्धचेतस-
स्तद्धर्म एवात्मरुचि: प्रजायते ॥ २५ ॥
उच्छिष्ट-लेपान् अनुमोदितः द्विजैः सकृत् स्म भुञ्जे तत् अपास्त किल्बिषः एवम् प्रवृत्तस्य विशुद्ध-चेतसः तत् धर्मः एव आत्म-रुचिः प्रजायते
तत्रान्वहं कृष्णकथा: प्रगायता-
मनुग्रहेणाशृणवं मनोहरा: ।
ता: श्रद्धया मेऽनुपदं विशृण्वत:
प्रियश्रवस्यङ्ग ममाभवद्रुचि: ॥ २६ ॥
तत्र अनु अहम् कृष्ण-कथाः प्रगायताम् अनुग्रहेण अशृणवम् मनः-हराः ताः श्रद्धया मे अनुपदम् विशृण्वतः प्रियश्रवसि अङ्ग मम अभवत् रुचिः
तस्मिंस्तदा लब्धरुचेर्महामते
प्रियश्रवस्यस्खलिता मतिर्मम ।
ययाहमेतत्सदसत्स्वमायया
पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
तस्मिन् तदा लब्ध रुचेः महा-मते प्रियश्रवसि अस्खलिता मतिः मम यया अहम् एतत् सत्-असत् स्व-मायया पश्ये मयि ब्रह्मणि कल्पितम् परे
इत्थं शरत्प्रावृषिकावृतू हरे-
र्विशृण्वतो मेऽनुसवं यशोऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर्महात्मभि-
र्भक्ति: प्रवृत्तात्मरजस्तमोपहा ॥ २८ ॥
इत्थम् शरत् प्रावृषिकौ ऋतू हरेः विशृण्वतः मे अनुसवम् यशः अमलम् सङ्कीर्त्यमानम् मुनिभिः महा-आत्मभिः भक्तिः प्रवृत्ता आत्म रजः तम उपहा
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनस: ।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
तस्य एवम् मे अनुरक्तस्य प्रश्रितस्य हत एनसः श्रद्दधानस्य बालस्य दान्तस्य अनुचरस्य च
ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् ।
अन्ववोचन् गमिष्यन्त: कृपया दीनवत्सला: ॥ ३० ॥
ज्ञानम् गुह्यतमम् यत् तत् साक्षात् भगवता उदितम् अन्ववोचन् गमिष्यन्तः कृपया दीन-वत्सलाः
येनैवाहं भगवतो वासुदेवस्य वेधस: ।
मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
येन एव अहम् भगवतः वासुदेवस्य वेधसः माया अनुभावम् अविदम् येन गच्छन्ति तत्-पदम्
एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
एतत् संसूचितम् ब्रह्मन् ताप-त्रय चिकित्सितम् यत् ईश्वरे भगवति कर्म ब्रह्मणि भावितम्
आमयो यश्च भूतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
आमयः यः च भूतानाम् जायते येन सुव्रत तत् एव हि आमयम् द्रव्यम् न पुनाति चिकित्सितम्
एवं नृणां क्रियायोगा: सर्वे संसृतिहेतव: ।
त एवात्मविनाशाय कल्पन्ते कल्पिता: परे ॥ ३४ ॥
एवम् नृणाम् क्रिया-योगाः सर्वे संसृति हेतवः ते एव आत्म विनाशाय कल्पन्ते कल्पिताः परे
यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
यत् अत्र क्रियते कर्म भगवत् परितोषणम् ज्ञानम् यत् तत् अधीनम् हि भक्ति-योग समन्वितम्
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
कुर्वाणाः यत्र कर्माणि भगवत् शिक्षया असकृत् गृणन्ति गुण नामानि कृष्णस्य अनुस्मरन्ति च
ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नम: सङ्कर्षणाय च ॥ ३७ ॥
ओं नमः भगवते तुभ्यम् वासुदेवाय धीमहि प्रद्युम्नाय, अनिरुद्धाय अन्द् सङ्कर्षणाय नमः च
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् ।
यजते यज्ञपुरुषं स सम्यग्दर्शन: पुमान् ॥ ३८ ॥
इति मूर्ति अभिधानेन मन्त्र-मूर्तिम् अमूर्तिकम् यजते यज्ञ पुरुषम् सः सम्यक् दर्शनः पुमान्
इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशव: ॥ ३९ ॥
इमम् स्व-निगमम् ब्रह्मन् अवेत्य मत् अनुष्ठितम् अदात् मे ज्ञानम् ऐश्वर्यम् स्वस्मिन् भावम् च केशवः
त्वमप्यदभ्रश्रुत विश्रुतं विभो:
समाप्यते येन विदां बुभुत्सितम् ।
प्राख्याहि दु:खैर्मुहुरर्दितात्मनां
सङ्क्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥
त्वम् अपि अदभ्र श्रुत विश्रुतम् विभोः समाप्यते येन विदाम् बुभुत्सितम् प्राख्याहि दुःखैः मुहुः अर्दित-आत्मनाम् सङ्क्लेश निर्वाणम् उशन्ति न अन्यथा
१.६
सूत उवाच
एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च ।
भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवतीसुत: ॥ १ ॥
सूतः उवाच एवम् निशम्य भगवान् देवर्षेः जन्म कर्म च भूयः पप्रच्छ तम् ब्रह्मन् व्यासः सत्यवती-सुतः
व्यास उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।
वर्तमानो वयस्याद्ये तत: किमकरोद्भवान् ॥ २ ॥
व्यासः उवाच भिक्षुभिः विप्रवसिते विज्ञान आदेष्टृभिः तव वर्तमानः वयसि आद्ये ततः किम् अकरोत् भवान्
स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।
कथं चेदमुदस्राक्षी: काले प्राप्ते कलेवरम् ॥ ३ ॥
स्वायम्भुव कया वृत्त्या वर्तितम् ते परम् वयः कथम् च इदम् उदस्राक्षीः काले प्राप्ते कलेवरम्
प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम ।
न ह्येष व्यवधात्काल एष सर्वनिराकृति: ॥ ४ ॥
प्राक् कल्प विषयाम् एताम् स्मृतिम् ते मुनि-सत्तम न हि एषः व्यवधात् कालः एषः सर्व निराकृतिः
नारद उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।
वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५ ॥
नारदः उवाच भिक्षुभिः विप्रवसिते विज्ञान आदेष्टृभिः मम वर्तमानः वयसि आद्ये ततः एतत् अकारषम्
एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।
मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ ६ ॥
एक-आत्मजा मे जननी योषित् मूढा च किङ्करी मयि आत्मजे अनन्य-गतौ चक्रे स्नेह-अनुबन्धनम्
सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती ।
ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७ ॥
सा अस्वतन्त्रा न कल्पा आसीत् योग-क्षेमम् मम इच्छती ईशस्य हि वशे लोकः योषा दारु-मयी यथा
अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया ।
दिग्देशकालाव्युत्पन्नो बालक: पञ्चहायन: ॥ ८ ॥
अहम् च तत् ब्रह्म-कुले ऊषिवान् तत् उपेक्षया दिक्-देश काल अव्युत्पन्नः बालकः पञ्च हायनः
एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।
सर्पोऽदशत्पदा स्पृष्ट: कृपणां कालचोदित: ॥ ९ ॥
एकदा निर्गताम् गेहात् दुहन्तीम् निशि गाम् पथि सर्पः अदशत् पदा स्पृष्टः कृपणाम् काल-चोदितः
तदा तदहमीशस्य भक्तानां शमभीप्सत: ।
अनुग्रहं मन्यमान: प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
तदा तत् अहम् ईशस्य भक्तानाम् शम् अभीप्सतः अनुग्रहम् मन्यमानः प्रातिष्ठम् दिशम् उत्तराम्
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।
खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
स्फीतान् जन-पदान् तत्र पुर ग्राम व्रज आकरान् खेट खर्वट वाटीः च वनानि उपवनानि च
चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् ।
जलाशयाञ्छिवजलान्नलिनी: सुरसेविता: ।
चित्रस्वनै: पत्ररथैर्विभ्रमद्भ्रमरश्रिय: ॥ १२ ॥
चित्र-धातु विचित्र अद्रीन् इभ-भग्न भुज द्रुमान् जलाशयान् शिव जलान् नलिनीः सुर-सेविताः चित्र-स्वनैः पत्र-रथैः विभ्रमत् भ्रमर-श्रियः
नलवेणुशरस्तन्बकुशकीचकगह्वरम् ।
एक एवातियातोऽहमद्राक्षं विपिनं महत् ।
घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १३ ॥
नल वेणु शरः तन्ब कुश कीचक गह्वरम् एकः एव अतियातः अहम् अद्राक्षम् विपिनम् महत् घोरम् प्रतिभय-आकारम् व्याल उलूक शिव अजिरम्
परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षित: ।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रम: ॥ १४ ॥
परिश्रान्त इन्द्रिय आत्मा अहम् तृट्-परीतः बुभुक्षितः स्नात्वा पीत्वा ह्रदे नद्याः उपस्पृष्टः गत श्रमः
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रित: ।
आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १५ ॥
तस्मिन् निर्मनुजे अरण्ये पिप्पल उपस्थे आश्रितः आत्मना आत्मानम् आत्म-स्थम् यथा-श्रुतम् अचिन्तयम्
ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरि: ॥ १६ ॥
ध्यायतः चरण-अम्भोजम् भाव-निर्जित चेतसा औत्कण्ठ्य अश्रु-कल अक्षस्य हृदि आसीत् मे शनैः हरिः
प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृत: ।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १७ ॥
प्रेमा अतिभर निर्भिन्न पुलक अङ्गः अति-निर्वृतः आनन्द सम्प्लवे लीनः न अपश्यम् उभयम् मुने
रूपं भगवतो यत्तन्मन:कान्तं शुचापहम् ।
अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ १८ ॥
रूपम् भगवतः यत् तत् मनः कान्तम् शुचा-अपहम् अपश्यन् सहसा उत्तस्थे वैक्लव्यात् दुर्मनाः इव
दिदृक्षुस्तदहं भूय: प्रणिधाय मनो हृदि ।
वीक्षमाणोऽपि नापश्यमवितृप्त इवातुर: ॥ १९ ॥
दिदृक्षुः तत् अहम् भूयः प्रणिधाय मनः हृदि वीक्षमाणः अपि न अपश्यम् अवितृप्तः इव आतुरः
एवं यतन्तं विजने मामाहागोचरो गिराम् ।
गम्भीरश्लक्ष्णया वाचा शुच: प्रशमयन्निव ॥ २० ॥
एवम् यतन्तम् विजने माम् आह अगोचरः गिराम् गम्भीर श्लक्ष्णया वाचा शुचः प्रशमयन् इव
हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥
हन्त अस्मिन् जन्मनि भवान् मा माम् द्रष्टुम् इह अर्हति अविपक्व कषायाणाम् दुर्दर्शः अहम् कुयोगिनाम्
सकृद् यद्दर्शितं रूपमेतत्कामाय तेऽनघ ।
मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ २२ ॥
सकृत् यत् दर्शितम् रूपम् एतत् कामाय ते अनघ मत् कामः शनकैः साधुः सर्वान् मुञ्चति हृत्-शयान्
सत्सेवयादीर्घयापि जाता मयि दृढा मति: ।
हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २३ ॥
सत्-सेवया अदीर्घया अपि जाता मयि दृढा मतिः हित्वा अवद्यम् इमम् लोकम् गन्ता मत्-जनताम् असि
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २४ ॥
मतिः मयि निबद्धा इयम् न विपद्येत कर्हिचित् प्रजा सर्ग निरोधे अपि स्मृतिः च मत् अनुग्रहात्
एतावदुक्त्वोपरराम तन्महद्
भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।
अहं च तस्मै महतां महीयसे
शीर्ष्णावनामं विदधेऽनुकम्पित: ॥ २५ ॥
एतावत् उक्त्वा उपरराम तत् महत् भूतम् नभः-लिङ्गम् अलिङ्गम् ईश्वरम् अहम् च तस्मै महताम् महीयसे शीर्ष्णा अवनामम् विदधे अनुकम्पितः
नामान्यनन्तस्य हतत्रप: पठन्
गुह्यानि भद्राणि कृतानि च स्मरन् ।
गां पर्यटंस्तुष्टमना गतस्पृह:
कालं प्रतीक्षन् विमदो विमत्सर: ॥ २६ ॥
नामानि अनन्तस्य हत-त्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् गाम् पर्यटन् तुष्ट-मनाः गत-स्पृहः कालम् प्रतीक्षन् विमदः विमत्सरः
एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मन: ।
काल: प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २७ ॥
एवम् कृष्ण-मतेः ब्रह्मन् न आसक्तस्य अमल-आत्मनः कालः प्रादुरभूत् काले तडित् सौदामनी यथा
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिक: ॥ २८ ॥
प्रयुज्यमाने मयि ताम् शुद्धाम् भागवतीम् तनुम् आरब्ध कर्म निर्वाणः न्यपतत् पाञ्च-भौतिकः
कल्पान्त इदमादाय शयानेऽम्भस्युदन्वत: ।
शिशयिषोरनुप्राणं विविशेऽन्तरहं विभो: ॥ २९ ॥
कल्प-अन्ते इदम् आदाय शयाने अम्भसि उदन्वतः शिशयिषोः अनुप्राणम् विविशे अन्तः अहम् विभोः
सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षत: ।
मरीचिमिश्रा ऋषय: प्राणेभ्योऽहं च जज्ञिरे ॥ ३० ॥
सहस्र युग पर्यन्ते उत्थाय इदम् सिसृक्षतः मरीचि-मिश्राः ऋषयः प्राणेभ्यः अहम् च जज्ञिरे
अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रत: ।
अनुग्रहान्महाविष्णोरविघातगति: क्वचित् ॥ ३१ ॥
अन्तः बहिः च लोकान् त्रीन् पर्येमि अस्कन्दित व्रतः अनुग्रहात् महा-विष्णोः अविघात गतिः क्वचित्
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥
देव दत्ताम् इमाम् वीणाम् स्वर ब्रह्म विभूषिताम् मूर्च्छयित्वा हरि-कथाम् गायमानः चरामि अहम्
प्रगायत: स्ववीर्याणि तीर्थपाद: प्रियश्रवा: ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३३ ॥
प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः आहूतः इव मे शीघ्रम् दर्शनम् याति चेतसि
एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहु: ।
भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३४ ॥
एतत् हि आतुर-चित्तानाम् मात्रा स्पर्श इच्छया मुहुः भव-सिन्धु प्लवः दृष्टः हरि-चर्य अनुवर्णनम्
यमादिभिर्योगपथै: कामलोभहतो मुहु: ।
मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ ३५ ॥
यम-आदिभिः योग-पथैः काम लोभ हतः मुहुः मुकुन्द सेवया यद्वत् तथा आत्मा अद्धा न शाम्यति
सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३६ ॥
सर्वम् तत् इदम् आख्यातम् यत् पृष्टः अहम् त्वया अनघ जन्म कर्म रहस्यम् मे भवतः च आत्म तोषणम्
सूत उवाच
एवं सम्भाष्य भगवान्नारदो वासवीसुतम् ।
आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनि: ॥ ३७ ॥
सूतः उवाच एवम् सम्भाष्य भगवान् नारदः वासवी सुतम् आमन्त्र्य वीणाम् रणयन् ययौ यादृच्छिकः मुनिः
अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वन: ।
गायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत् ॥ ३८ ॥
अहो देवर्षिः धन्यः अयम् यत् कीर्तिम् शार्ङ्ग-धन्वनः गायन् माद्यन् इदम् तन्त्र्या रमयति आतुरम् जगत्
१.७
शौनक उवाच
निर्गते नारदे सूत भगवान् बादरायण: ।
श्रुतवांस्तदभिप्रेतं तत: किमकरोद्विभु: ॥ १ ॥
शौनकः उवाच निर्गते नारदे सूत भगवान् बादरायणः श्रुतवान् तत् अभिप्रेतम् ततः किम् अकरोत् विभुः
सूत उवाच
ब्रह्मनद्यां सरस्वत्यामाश्रम: पश्चिमे तटे ।
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धन: ॥ २ ॥
सूतः उवाच ब्रह्म-नद्याम् सरस्वत्याम् आश्रमः पश्चिमे तटे शम्याप्रासः इति प्रोक्तः ऋषीणाम् सत्र-वर्धनः
तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।
आसीनोऽप उपस्पृश्य प्रणिदध्यौ मन: स्वयम् ॥ ३ ॥
तस्मिन् स्वे आश्रमे व्यासः बदरी षण्ड मण्डिते आसीनः अपः उपस्पृश्य प्रणिदध्यौ मनः स्वयम्
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।
अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ ४ ॥
भक्ति योगेन मनसि सम्यक् प्रणिहिते अमले अपश्यत् पुरुषम् पूर्णम् मायाम् च तत् अपाश्रयम्
यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ ५ ॥
यया सम्मोहितः जीवः आत्मानम् त्रि-गुण-आत्मकम् परः अपि मनुते अनर्थम् तत् कृतम् च अभिपद्यते
अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ ६ ॥
अनर्थ उपशमम् साक्षात् भक्ति-योगम् अधोक्षजे लोकस्य अजानतः विद्वान् चक्रे सात्वत संहिताम्
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।
भक्तिरुत्पद्यते पुंस: शोकमोहभयापहा ॥ ७ ॥
यस्याम् वै श्रूयमाणायाम् कृष्णे परम पूरुषे भक्तिः उत्पद्यते पुंसः शोक मोह भय अपहा
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।
शुकमध्यापयामास निवृत्तिनिरतं मुनि: ॥ ८ ॥
सः संहिताम् भागवतीम् कृत्वा अनुक्रम्य च आत्म-जम् शुकम् अध्यापयाम् आस निवृत्ति निरतम् मुनिः
शौनक उवाच
स वै निवृत्तिनिरत: सर्वत्रोपेक्षको मुनि: ।
कस्य वा बृहतीमेतामात्माराम: समभ्यसत् ॥ ९ ॥
शौनकः उवाच सः वै निवृत्ति निरतः सर्वत्र उपेक्षकः मुनिः कस्य वा बृहतीम् एताम् आत्म-आरामः समभ्यसत्
सूत उवाच
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरि: ॥ १० ॥
सूतः उवाच आत्मारामाः च मुनयः निर्ग्रन्थाः अपि उरुक्रमे कुर्वन्ति अहैतुकीम् भक्तिम् इत्थम्-भूत गुणः हरिः
हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणि: ।
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रिय: ॥ ११ ॥
हरेः गुण आक्षिप्त मतिः भगवान् बादरायणिः अध्यगात् महत् आख्यानम् नित्यम् विष्णु-जन प्रियः
परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम् ।
संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥
परीक्षितः अथ राजर्षेः जन्म कर्म विलापनम् संस्थाम् च पाण्डु-पुत्राणाम् वक्ष्ये कृष्ण-कथा-उदयम्
यदा मृधे कौरवसृञ्जयानां
वीरेष्वथो वीरगतिं गतेषु ।
वृकोदराविद्धगदाभिमर्श-
भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥
भर्तु: प्रियं द्रौणिरिति स्म पश्यन्
कृष्णासुतानां स्वपतां शिरांसि ।
उपाहरद्विप्रियमेव तस्य
जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥
यदा मृधे कौरव सृञ्जयानाम् वीरेषु अथो वीर-गतिम् गतेषु वृकोदर आविद्ध गदा अभिमर्श भग्न उरु-दण्डे धृतराष्ट्र-पुत्रे भर्तुः प्रियम् द्रौणिः इति स्म पश्यन् कृष्णा सुतानाम् स्वपताम् शिरांसि उपाहरत् विप्रियम् एव तस्य जुगुप्सितम् कर्म विगर्हयन्ति
माता शिशूनां निधनं सुतानां
निशम्य घोरं परितप्यमाना ।
तदारुदद्वाष्पकलाकुलाक्षी
तां सान्त्वयन्नाह किरीटमाली ॥ १५ ॥
माता शिशूनाम् निधनम् सुतानाम् निशम्य घोरम् परितप्यमाना तदा अरुदत् वाष्प-कल-आकुल-अक्षी ताम् सान्त्वयन् आह किरीटमाली
तदा शुचस्ते प्रमृजामि भद्रे
यद्ब्रह्मबन्धो: शिर आततायिन: ।
गाण्डीवमुक्तैर्विशिखैरुपाहरे
त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६ ॥
तदा शुचः ते प्रमृजामि भद्रे यत् ब्रह्म-बन्धोः शिरः आततायिनः गाण्डीव-मुक्तैः विशिखैः उपाहरे त्वा आक्रम्य यत् स्नास्यसि दग्ध-पुत्रा
इति प्रियां वल्गुविचित्रजल्पै:
स सान्त्वयित्वाच्युतमित्रसूत: ।
अन्वाद्रवद्दंशित उग्रधन्वा
कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥
इति प्रियाम् वल्गु विचित्र जल्पैः सः सान्त्वयित्वा अच्युत-मित्र-सूतः अन्वाद्रवत् दंशितः उग्र-धन्वा कपि-ध्वजः गुरु-पुत्रम् रथेन
तमापतन्तं स विलक्ष्य दूरात्
कुमारहोद्विग्नमना रथेन ।
पराद्रवत्प्राणपरीप्सुरुर्व्यां
यावद्गमं रुद्रभयाद्यथा क: ॥ १८ ॥
तम् आपतन्तम् सः विलक्ष्य दूरात् कुमार-हा उद्विग्न-मनाः रथेन पराद्रवत् प्राण परीप्सुः उर्व्याम् यावत्-गमम् रुद्र-भयात् यथा कः
यदाशरणमात्मानमैक्षत श्रान्तवाजिनम् ।
अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मज: ॥ १९ ॥
यदा अशरणम् आत्मानम् ऐक्षत श्रान्त-वाजिनम् अस्त्रम् ब्रह्म-शिरः मेने आत्म-त्राणम् द्विज-आत्म-जः
अथोपस्पृश्य सलिलं सन्दधे तत्समाहित: ।
अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥
अथ उपस्पृश्य सलिलम् सन्दधे तत् समाहितः अजानन् अपि संहारम् प्राण-कृच्छ्रे उपस्थिते
तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वतोदिशम् ।
प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥
ततः प्रादुष्कृतम् तेजः प्रचण्डम् सर्वतः दिशम् प्राण-आपदम् अभिप्रेक्ष्य विष्णुम् जिष्णुः उवाच ह
अर्जुन उवाच
कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर ।
त्वमेको दह्यमानानामपवर्गोऽसि संसृते: ॥ २२ ॥
अर्जुनः उवाच कृष्ण कृष्ण महा-बाहो भक्तानाम् अभयङ्कर त्वम् एकः दह्यमानानाम् अपवर्गः असि संसृतेः
त्वमाद्य: पुरुष: साक्षादीश्वर: प्रकृते: पर: ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥
त्वम् आद्यः पुरुषः साक्षात् ईश्वरः प्रकृतेः परः मायाम् व्युदस्य चित्-शक्त्या कैवल्ये स्थितः आत्मनि
स एव जीवलोकस्य मायामोहितचेतस: ।
विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥
सः एव जीव-लोकस्य माया-मोहित चेतसः विधत्से स्वेन वीर्येण श्रेयः धर्म-आदि लक्षणम्
तथायं चावतारस्ते भुवो भारजिहीर्षया ।
स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥ २५ ॥
तथा अयम् च अवतारः ते भुवः भार जिहीर्षया स्वानाम् च अनन्य-भावानाम् अनुध्यानाय च असकृत्
किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् ।
सर्वतोमुखमायाति तेज: परमदारुणम् ॥ २६ ॥
किम् इदम् स्वित् कुतः वा इति देव-देव न वेद्मि अहम् सर्वतः मुखम् आयाति तेजः परम दारुणम्
श्रीभगवानुवाच
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।
नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥
श्री-भगवान् उवाच वेत्थ इदम् द्रोण-पुत्रस्य ब्राह्मम् अस्त्रम् प्रदर्शितम् न एव असौ वेद संहारम् प्राण-बाधे उपस्थिते
न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् ।
जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥
न हि अस्य अन्यतमम् किञ्चित् अस्त्रम् प्रति अवकर्शनम् जहि अस्त्र-तेजः उन्नद्धम् अस्त्र-ज्ञः हि अस्त्र-तेजसा
सूत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुन: परवीरहा ।
स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ २९ ॥
सूतः उवाच श्रुत्वा भगवता प्रोक्तम् फाल्गुनः पर-वीर-हा स्पृष्ट्वा आपः तम् परिक्रम्य ब्राह्मम् ब्राह्म-अस्त्रम् सन्दधे
संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।
आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥
संहत्य अन्योन्यम् उभयोः तेजसी शर संवृते आवृत्य रोदसी खम् च ववृधाते अर्क वह्नि-वत्
दृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान् प्रदहन्महत् ।
दह्यमाना: प्रजा: सर्वा: सांवर्तकममंसत ॥ ३१ ॥
दृष्ट्वा अस्त्र तेजः तु तयोः त्रीन् लोकान् प्रदहत् महत् दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत
प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् ।
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ ३२ ॥
प्रजा उपद्रवम् आलक्ष्य लोक व्यतिकरम् च तम् मतम् च वासुदेवस्य सञ्जहार अर्जुनः द्वयम्
तत आसाद्य तरसा दारुणं गौतमीसुतम् ।
बबन्धामर्षताम्राक्ष: पशुं रशनया यथा ॥ ३३ ॥
ततः आसाद्य तरसा दारुणम् गौतमी-सुतम् बबन्ध अमर्ष ताम्र-अक्षः पशुम् रशनया यथा
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।
प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षण: ॥ ३४ ॥
शिबिराय निनीषन्तम् रज्ज्वा बद्ध्वा रिपुम् बलात् प्राह अर्जुनम् प्रकुपितः भगवान् अम्बुज-ईक्षणः
मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि ।
योऽसावनागस: सुप्तानवधीन्निशि बालकान् ॥ ३५ ॥
मा एनम् पार्थ अर्हसि त्रातुम् ब्रह्म-बन्धुम् इमम् जहि यः असौ अनागसः सुप्तान् अवधीत् निशि बालकान्
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥
मत्तम् प्रमत्तम् उन्मत्तम् सुप्तम् बालम् स्त्रियम् जडम् प्रपन्नम् विरथम् भीतम् न रिपुम् हन्ति धर्म-वित्
स्वप्राणान् य: परप्राणै: प्रपुष्णात्यघृण: खल: ।
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यध: पुमान् ॥ ३७ ॥
स्व-प्राणान् यः पर-प्राणैः प्रपुष्णाति अघृणः खलः तत्-वधः तस्य हि श्रेयः यत् दोषात् याति अधः पुमान्
प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम ।
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥
प्रतिश्रुतम् च भवता पाञ्चाल्यै शृण्वतः मम आहरिष्ये शिरः तस्य यः ते मानिनि पुत्र-हा
तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।
भर्तुश्च विप्रियं वीर कृतवान् कुलपांसन: ॥ ३९ ॥
तत् असौ वध्यताम् पापः आततायी आत्म बन्धु-हा भर्तुः च विप्रियम् वीर कृतवान् कुल-पांसनः
सूत उवाच
एवं परीक्षता धर्मं पार्थ: कृष्णेन चोदित: ।
नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥
सूतः उवाच एवम् परीक्षता धर्मम् पार्थः कृष्णेन चोदितः न ऐच्छत् हन्तुम् गुरु-सुतम् यद्यपि आत्म-हनम् महान्
अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथि: ।
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥
अथ उपेत्य स्व शिबिरम् गोविन्द प्रिय सारथिः न्यवेदयत् तम् प्रियायै शोचन्त्यै आत्म-जान् हतान्
तथाहृतं पशुवत् पाशबद्ध-
मवाङ्मुखं कर्मजुगुप्सितेन ।
निरीक्ष्य कृष्णापकृतं गुरो: सुतं
वामस्वभावा कृपया ननाम च ॥ ४२ ॥
तथा आहृतम् पशु-वत् पाश-बद्धम् अवाक्-मुखम् कर्म जुगुप्सितेन निरीक्ष्य कृष्णा अपकृतम् गुरोः सुतम् वाम स्वभावा कृपया ननाम च
उवाच चासहन्त्यस्य बन्धनानयनं सती ।
मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरु: ॥ ४३ ॥
उवाच च असहन्ती अस्य बन्धन आनयनम् सती मुच्यताम् मुच्यताम् एषः ब्राह्मणः नितराम् गुरुः
सरहस्यो धनुर्वेद: सविसर्गोपसंयम: ।
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥
स-रहस्यः धनुः-वेदः स-विसर्ग उपसंयमः अस्त्र ग्रामः च भवता शिक्षितः यत् अनुग्रहात्
स एष भगवान्द्रोण: प्रजारूपेण वर्तते ।
तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसू: कृपी ॥ ४५ ॥
सः एषः भगवान् द्रोणः प्रजा-रूपेण वर्तते तस्य आत्मनः अर्धम् पत्नी आस्ते न अन्वगात् वीरसूः कृपी
तद् धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् ।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णश: ॥ ४६ ॥
तत् धर्म-ज्ञ महा-भाग भवद्भिः गौरवम् कुलम् वृजिनम् न अर्हति प्राप्तुम् पूज्यम् वन्द्यम् अभीक्ष्णशः
मा रोदीदस्य जननी गौतमी पतिदेवता ।
यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहु: ॥ ४७ ॥
मा रोदीत् अस्य जननी गौतमी पति-देवता यथा अहम् मृत-वत्सा आर्ता रोदिमि अश्रु-मुखी मुहुः
यै: कोपितं ब्रह्मकुलं राजन्यैरजितात्मभि: ।
तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ ४८ ॥
यैः कोपितम् ब्रह्म-कुलम् राजन्यैः अजित आत्मभिः तत् कुलम् प्रदहति आशु स-अनुबन्धम् शुचा-अर्पितम्
सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।
राजा धर्मसुतो राज्ञ्या: प्रत्यनन्दद्वचो द्विजा: ॥ ४९ ॥
सूतः उवाच धर्म्यम् न्याय्यम् स-करुणम् निर्व्यलीकम् समम् महत् राजा धर्म-सुतः राज्ञ्याः प्रत्यनन्दत् वचः द्विजाः
नकुल: सहदेवश्च युयुधानो धनञ्जय: ।
भगवान् देवकीपुत्रो ये चान्ये याश्च योषित: ॥ ५० ॥
नकुलः सहदेवः च युयुधानः धनञ्जयः भगवान् देवकी-पुत्रः ये च अन्ये याः च योषितः
तत्राहामर्षितो भीमस्तस्य श्रेयान् वध: स्मृत: ।
न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
तत्र आह अमर्षितः भीमः तस्य श्रेयान् वधः स्मृतः न भर्तुः न आत्मनः च अर्थे यः अहन् सुप्तान् शिशून् वृथा
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुज: ।
आलोक्य वदनं सख्युरिदमाहहसन्निव ॥ ५२ ॥
निशम्य भीम गदितम् द्रौपद्याः च चतुः-भुजः आलोक्य वदनम् सख्युः इदम् आह हसन् इव
श्रीभगवानुवाच
ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हण: ।
मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥
कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम् ।
प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥
श्री-भगवान् उवाच ब्रह्म-बन्धुः न हन्तव्यः आततायी वध-अर्हणः मया एव उभयम् आम्नातम् परिपाहि अनुशासनम् कुरु प्रतिश्रुतम् सत्यम् यत् तत् सान्त्वयता प्रियाम् प्रियम् च भीमसेनस्य पाञ्चाल्याः मह्यम् एव च
सूत उवाच
अर्जुन: सहसाज्ञाय हरेर्हार्दमथासिना ।
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥
सूतः उवाच अर्जुनः सहसा आज्ञाय हरेः हार्दम् अथ असिना मणिम् जहार मूर्धन्यम् द्विजस्य सह मूर्धजम्
विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।
तेजसा मणिना हीनं शिबिरान्निरयापयत् ॥ ५६ ॥
विमुच्य रशना-बद्धम् बाल-हत्या हत-प्रभम् तेजसा मणिना हीनम् शिबिरात् निरयापयत्
वपनं द्रविणादानं स्थानान्निर्यापणं तथा ।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिक: ॥ ५७ ॥
वपनम् द्रविण अदानम् स्थानात् निर्यापणम् तथा एषः हि ब्रह्म-बन्धूनाम् वधः न अन्यः अस्ति दैहिकः
पुत्रशोकातुरा: सर्वे पाण्डवा: सह कृष्णया ।
स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥
पुत्र शोक आतुराः सर्वे पाण्डवाः सह कृष्णया स्वानाम् मृतानाम् यत् कृत्यम् चक्रुः निर्हरण-आदिकम्
१.८
सूत उवाच
अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।
दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययु: स्त्रिय: ॥ १ ॥
सूतः उवाच अथ ते सम्परेतानाम् स्वानाम् उदकम् इच्छताम् दातुम् स-कृष्णाः गङ्गायाम् पुरस्कृत्य ययुः स्त्रियः
ते निनीयोदकं सर्वे विलप्य च भृशं पुन: ।
आप्लुता हरिपादाब्जरज:पूतसरिज्जले ॥ २ ॥
ते निनीय उदकम् सर्वे विलप्य च भृशम् पुनः आप्लुताः हरि-पादाब्ज रजः पूत सरित् जले
तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।
गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधव: ॥ ३ ॥
तत्र आसीनम् कुरु-पतिम् धृतराष्ट्रम् सह-अनुजम् गान्धारीम् पुत्र शोक-अर्ताम् पृथाम् कृष्णाम् च माधवः
सान्त्वयामास मुनिभिर्हतबन्धूञ्शुचार्पितान् ।
भूतेषु कालस्य गतिं दर्शयन्न प्रतिक्रियाम् ॥ ४ ॥
सान्त्वयाम् आस मुनिभिः हत-बन्धून् शुचार्पितान् भूतेषु कालस्य गतिम् दर्शयन् न प्रतिक्रियाम्
साधयित्वाजातशत्रो: स्वं राज्यं कितवैर्हृतम् ।
घातयित्वासतो राज्ञ: कचस्पर्शक्षतायुष: ॥ ५ ॥
साधयित्वा अजात-शत्रोः स्वम् राज्यम् कितवैः हृतम् घातयित्वा असतः राज्ञः कच स्पर्श क्षत आयुषः
याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकै: ।
तद्यश: पावनं दिक्षु शतमन्योरिवातनोत् ॥ ६ ॥
याजयित्वा अश्वमेधैः तम् त्रिभिः उत्तम कल्पकैः तत् यशः पावनम् दिक्षु शत-मन्योः इव अतनोत्
आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुत: ।
द्वैपायनादिभिर्विप्रै: पूजितै: प्रतिपूजित: ॥ ७ ॥
आमन्त्र्य पाण्डु-पुत्रान् च शैनेय उद्धव संयुतः द्वैपायन-आदिभिः विप्रैः पूजितैः प्रतिपूजितः
गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थित: ।
उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥ ८ ॥
गन्तुम् कृतमतिः ब्रह्मन् द्वारकाम् रथम् आस्थितः उपलेभे अभिधावन्तीम् उत्तराम् भय-विह्वलाम्
उत्तरोवाच
पाहि पाहि महायोगिन् देवदेव जगत्पते ।
नान्यं त्वदभयं पश्ये यत्र मृत्यु: परस्परम् ॥ ९ ॥
उत्तरा उवाच पाहि पाहि महा-योगिन् देव-देव जगत्-पते न अन्यम् त्वत् अभयम् पश्ये यत्र मृत्युः परस्परम्
अभिद्रवति मामीश शरस्तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥
अभिद्रवति माम् ईश शरः तप्त अयसः विभो कामम् दहतु माम् नाथ मा मे गर्भः निपात्यताम्
सूत उवाच
उपधार्य वचस्तस्या भगवान् भक्तवत्सल: ।
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥
सूतः उवाच उपधार्य वचः तस्याः भगवान् भक्त-वत्सलः अपाण्डवम् इदम् कर्तुम् द्रौणेः अस्त्रम् अबुध्यत
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवा: पञ्च सायकान् ।
आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददु: ॥ १२ ॥
तर्हि एव अथ मुनि-श्रेष्ठ पाण्डवाः पञ्च सायकान् आत्मनः अभिमुखान् दीप्तान् आलक्ष्य अस्त्राणि उपाददुः
व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम् ।
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभु: ॥ १३ ॥
व्यसनम् वीक्ष्य तत् तेषाम् अनन्य विषय आत्मनाम् सुदर्शनेन स्व-अस्त्रेण स्वानाम् रक्षाम् व्यधात् विभुः
अन्त:स्थ: सर्वभूतानामात्मा योगेश्वरोहरि: ।
स्वमाययावृणोद्गर्भं वैराट्या: कुरुतन्तवे ॥ १४ ॥
अन्तःस्थः सर्व भूतानाम् आत्मा योग-ईश्वरः हरिः स्व-मायया आवृणोत् गर्भम् वैराट्याः कुरु-तन्तवे
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।
वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥
यद्यपि अस्त्रम् ब्रह्म-शिरः तु अमोघम् च अप्रतिक्रियम् वैष्णवम् तेजः आसाद्य समशाम्यत् भृगु-उद्वह
मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।
य इदं मायया देव्या सृजत्यवति हन्त्यज: ॥ १६ ॥
मा मंस्थाः हि एतत् आश्चर्यम् सर्व आश्चर्य-मये अच्युते यः इदम् मायया देव्या सृजति अवति हन्ति अजः
ब्रह्मतेजोविनिर्मुक्तैरात्मजै: सह कृष्णया ।
प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥ १७ ॥
ब्रह्म-तेजः विनिर्मुक्तैः आत्म-जैः सह कृष्णया प्रयाण अभिमुखम् कृष्णम् इदम् आह पृथा सती
कुन्त्युवाच
नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृते: परम् ।
अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १८ ॥
कुन्ती उवाच नमस्ये पुरुषम् त्वा आद्यम् ईश्वरम् प्रकृतेः परम् अलक्ष्यम् सर्व भूतानाम् अन्तः बहिः अवस्थितम्
मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् ।
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥
माया जवनिका आच्छन्नम् अज्ञा अधोक्षजम् अव्ययम् न लक्ष्यसे मूढ-दृशा नटः नाट्य-धरः यथा
तथा परमहंसानां मुनीनाममलात्मनाम् ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रिय: ॥ २० ॥
तथा परमहंसानाम् मुनीनाम् अमल-आत्मनाम् भक्ति-योग विधान-अर्थम् कथम् पश्येम हि स्त्रियः
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नम: ॥ २१ ॥
कृष्णाय वासुदेवाय देवकी-नन्दनाय च नन्द-गोप कुमाराय गोविन्दाय नमः नमः
नम: पङ्कजनाभाय नम: पङ्कजमालिने ।
नम: पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२ ॥
नमः पङ्कज-नाभाय नमः पङ्कज-मालिने नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये
यथा हृषीकेश खलेन देवकी
कंसेन रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं च सहात्मजा विभो
त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥
यथा हृषीकेश खलेन देवकी कंसेन रुद्धा अति-चिरम् शुच-अर्पिता विमोचिता अहम् च सह-आत्म-जा विभो त्वया एव नाथेन मुहुः विपत्-गणात्
विषान्महाग्ने: पुरुषाददर्शना-
दसत्सभाया वनवासकृच्छ्रत: ।
मृधे मृधेऽनेकमहारथास्त्रतो
द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिता: ॥ २४ ॥
विषात् महा-अग्नेः पुरुष-अद दर्शनात् असत् सभायाः वन-वास कृच्छ्रतः मृधे मृधे अनेक महा-रथ अस्त्रतः द्रौणि अस्त्रतः च आस्म हरे अभिरक्षिताः
विपद: सन्तु ता: शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २५ ॥
विपदः सन्तु ताः शश्वत् तत्र तत्र जगत्-गुरो भवतः दर्शनम् यत् स्यात् अपुनः भव-दर्शनम्
जन्मैश्वर्यश्रुतश्रीभिरेधमानमद: पुमान् ।
नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २६ ॥
जन्म ऐश्वर्य श्रुत श्रीभिः एधमान मदः पुमान् न एव अर्हति अभिधातुम् वै त्वाम् अकिञ्चन-गोचरम्
नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
आत्मारामाय शान्ताय कैवल्यपतये नम: ॥ २७ ॥
नमः अकिञ्चन-वित्ताय निवृत्त गुण वृत्तये आत्म-आरामाय शान्ताय कैवल्य-पतये नमः
मन्ये त्वां कालमीशानमनादिनिधनं विभुम् ।
समं चरन्तं सर्वत्र भूतानां यन्मिथ: कलि: ॥ २८ ॥
मन्ये त्वाम् कालम् ईशानम् अनादि-निधनम् विभुम् समम् चरन्तम् सर्वत्र भूतानाम् यत् मिथः कलिः
न वेद कश्चिद्भगवंश्चिकीर्षितं
तवेहमानस्य नृणां विडम्बनम् ।
न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्
द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ २९ ॥
न वेद कश्चित् भगवन् चिकीर्षितम् तव ईहमानस्य नृणाम् विडम्बनम् न यस्य कश्चित् दयितः अस्ति कर्हिचित् द्वेष्यः च यस्मिन् विषमा मतिः नृणाम्
जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मन: ।
तिर्यङ्नृषिषु याद:सु तदत्यन्तविडम्बनम् ॥ ३० ॥
जन्म कर्म च विश्व-आत्मन् अजस्य अकर्तुः आत्मनः तिर्यक् नृ ऋषिषु यादःसु तत् अत्यन्त विडम्बनम्
गोप्याददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।
वक्त्रं निनीय भयभावनया स्थितस्य
सा मां विमोहयति भीरपि यद्बिभेति ॥ ३१ ॥
गोपी आददे त्वयि कृतागसि दाम तावत् या ते दशा अश्रु-कलिल अञ्जन सम्भ्रम अक्षम् वक्त्रम् निनीय भय-भावनया स्थितस्य सा माम् विमोहयति भीः अपि यत् बिभेति
केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।
यदो: प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥
केचित् आहुः अजम् जातम् पुण्य-श्लोकस्य कीर्तये यदोः प्रियस्य अन्ववाये मलयस्य इव चन्दनम्
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥
अपरे वसुदेवस्य देवक्याम् याचितः अभ्यगात् अजः त्वम् अस्य क्षेमाय वधाय च सुर-द्विषाम्
भारावतारणायान्ये भुवो नाव इवोदधौ ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थित: ॥ ३४ ॥
भार-अवतारणाय अन्ये भुवः नावः इव उदधौ सीदन्त्याः भूरि भारेण जातः हि आत्म-भुवा अर्थितः
भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभि: ।
श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ ३५ ॥
भवे अस्मिन् क्लिश्यमानानाम् अविद्या काम कर्मभिः श्रवण स्मरण अर्हाणि करिष्यन् इति केचन
शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णश:
स्मरन्ति नन्दन्ति तवेहितं जना: ।
त एव पश्यन्त्यचिरेण तावकं
भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥
शृण्वन्ति गायन्ति गृणन्ति अभीक्ष्णशः स्मरन्ति नन्दन्ति तव ईहितम् जनाः ते एव पश्यन्ति अचिरेण तावकम् भव-प्रवाह उपरमम् पद-अम्बुजम्
अप्यद्य नस्त्वं स्वकृतेहित प्रभो
जिहाससि स्वित्सुहृदोऽनुजीविन: ।
येषां न चान्यद्भवत: पदाम्बुजात्
परायणं राजसु योजितांहसाम् ॥ ३७ ॥
अपि अद्य नः त्वम् स्व-कृत ईहित प्रभो जिहाससि स्वित् सुहृदः अनुजीविनः येषाम् न च अन्यत् भवतः पद-अम्बुजात् परायणम् राजसु योजित अंहसाम्
के वयं नामरूपाभ्यां यदुभि: सह पाण्डवा: ।
भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितु: ॥ ३८ ॥
के वयम् नाम-रूपाभ्याम् यदुभिः सह पाण्डवाः भवतः अदर्शनम् यर्हि हृषीकाणाम् इव ईशितुः
नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितै: ॥ ३९ ॥
न इयम् शोभिष्यते तत्र यथा इदानीम् गदाधर त्वत् पदैः अङ्किता भाति स्व-लक्षण विलक्षितैः
इमे जनपदा: स्वृद्धा: सुपक्वौषधिवीरुध: ।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितै: ॥ ४० ॥
इमे जन-पदाः स्वृद्धाः सुपक्व औषधि वीरुधः वन अद्रि नदी उदन्वन्तः हि एधन्ते तव वीक्षितैः
अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥
अथ विश्व-ईश विश्व-आत्मन् विश्व-मूर्ते स्वकेषु मे स्नेह-पाशम् इमम् छिन्धि दृढम् पाण्डुषु वृष्णिषु
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।
रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ ४२ ॥
त्वयि मे अनन्य-विषया मतिः मधु-पते असकृत् रतिम् उद्वहतात् अद्धा गङ्गा इव ओघम् उदन्वति
श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरावतार
योगेश्वराखिलगुरो भगवन्नमस्ते ॥ ४३ ॥
श्री-कृष्ण कृष्ण-सख वृष्णि ऋषभ अवनि ध्रुक् राजन्य-वंश दहन अनपवर्ग वीर्य गोविन्द गो द्विज सुर अर्ति-हर अवतार योग-ईश्वर अखिल गुरो भगवन् नमः ते
सूत उवाच
पृथयेत्थं कलपदै: परिणूताखिलोदय: ।
मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥
सूतः उवाच पृथया इत्थम् कल-पदैः परिणूत अखिल उदयः मन्दम् जहास वैकुण्ठः मोहयन् इव मायया
तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् ।
स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारित: ॥ ४५ ॥
ताम् बाढम् इति उपामन्त्र्य प्रविश्य गजसाह्वयम् स्त्रियः च स्व-पुरम् यास्यन् प्रेम्णा राज्ञा निवारितः
व्यासाद्यैरीश्वरेहाज्ञै: कृष्णेनाद्भुतकर्मणा ।
प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पित: ॥ ४६ ॥
व्यास-आद्यैः ईश्वर ईहा ज्ञैः कृष्णेन अद्भुत-कर्मणा प्रबोधितः अपि इतिहासैः न अबुध्यत शुचा अर्पितः
आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् ।
प्राकृतेनात्मना विप्रा: स्नेहमोहवशं गत: ॥ ४७ ॥
आह राजा धर्म-सुतः चिन्तयन् सुहृदाम् वधम् प्राकृतेन आत्मना विप्राः स्नेह मोह वशम् गतः
अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मन: ।
पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हता: ॥ ४८ ॥
अहो मे पश्यत अज्ञानम् हृदि रूढम् दुरात्मनः पारक्यस्य एव देहस्य बह्व्यः मे अक्षौहिणीः हताः
बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुह: ।
न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतै: ॥ ४९ ॥
बाल द्वि-ज सुहृत् मित्र पितृ भ्रातृ गुरु द्रुहः न मे स्यात् निरयात् मोक्षः हि अपि वर्ष अयुत आयुतैः
नैनो राज्ञ: प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् ।
इति मे न तु बोधाय कल्पते शासनं वच: ॥ ५० ॥
न एनः राज्ञः प्रजा-भर्तुः धर्म युद्धे वधः द्विषाम् इति मे न तु बोधाय कल्पते शासनम् वचः
स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थित: ।
कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥
स्त्रीणाम् मत् हत-बन्धूनाम् द्रोहः यः असौ इह उत्थितः कर्मभिः गृहमेधीयैः न अहम् कल्पः व्यपोहितुम्
यथा पङ्केन पङ्काम्भ: सुरया वा सुराकृतम् ।
भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ ५२ ॥
यथा पङ्केन पङ्क-अम्भः सुरया वा सुराकृतम् भूत-हत्याम् तथा एव एकाम् न यज्ञैः मार्ष्टुम् अर्हति
१.९
सूत उवाच
इति भीत: प्रजाद्रोहात्सर्वधर्मविवित्सया ।
ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥
सूतः उवाच इति भीतः प्रजा-द्रोहात् सर्व धर्म विवित्सया ततः विनशनम् प्रागात् यत्र देव-व्रतः अपतत्
तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: ।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥
तदा ते भ्रातरः सर्वे सत्-अश्वैः स्वर्ण भूषितैः अन्वगच्छन् रथैः विप्राः व्यास धौम्य आदयः तथा
भगवानपि विप्रर्षे रथेन सधनञ्जय: ।
स तैर्व्यरोचत नृप: कुवेर इव गुह्यकै: ॥ ३ ॥
भगवान् अपि विप्र-ऋषे रथेन स-धनञ्जयः सः तैः व्यरोचत नृपः कुवेर इव गुह्यकैः
दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम् ।
प्रणेमु: पाण्डवा भीष्मं सानुगा: सह चक्रिणा ॥ ४ ॥
दृष्ट्वा निपतितम् भूमौ दिवः च्युतम् इव अमरम् प्रणेमुः पाण्डवाः भीष्मम् स-अनुगाः सह चक्रिणा
तत्र ब्रह्मर्षय: सर्वे देवर्षयश्च सत्तम ।
राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५ ॥
तत्र ब्रह्म-ऋषयः सर्वे देव-ऋषयः च सत्तम राज-ऋषयः च तत्र आसन् द्रष्टुम् भरत पुङ्गवम्
पर्वतो नारदो धौम्यो भगवान् बादरायण: ।
बृहदश्वो भरद्वाज: सशिष्यो रेणुकासुत: ॥ ६ ॥
वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसित: ।
कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शन: ॥ ७ ॥
पर्वतः नारदः धौम्यः भगवान् बादरायणः बृहदश्वः भरद्वाजः स-शिष्यः रेणुका-सुतः वसिष्ठः इन्द्रप्रमदः त्रितः गृत्समदः असितः कक्षीवान् गौतमः अत्रिः च कौशिकः अथ सुदर्शनः
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमला: ।
शिष्यैरुपेता आजग्मु: कश्यपाङ्गिरसादय: ॥ ८ ॥
अन्ये च मुनयः ब्रह्मन् ब्रह्मरात आदयः अमलाः शिष्यैः उपेताः आजग्मुः कश्यप आङ्गिरस आदयः
तान् समेतान् महाभागानुपलभ्य वसूत्तम: ।
पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥
तान् समेतान् महा-भागान् उपलभ्य वसु-उत्तमः पूजयाम् आस धर्म-ज्ञः देश काल विभाग-वित्
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।
हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १० ॥
कृष्णम् च तत् प्रभाव-ज्ञः आसीनम् जगत्-ईश्वरम् हृदि-स्थम् पूजयाम् आस मायया उपात्त विग्रहम्
पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् ।
अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ ११ ॥
पाण्डु पुत्रान् उपासीनान् प्रश्रय प्रेम सङ्गतान् अभ्याचष्ट अनुराग अश्रैः अन्धीभूतेन चक्षुषा
अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दना: ।
जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रया: ॥ १२ ॥
अहो कष्टम् अहो अन्याय्यम् यत् यूयम् धर्म-नन्दनाः जीवितुम् न अर्हथ क्लिष्टम् विप्र धर्म अच्युत आश्रयाः
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधू: ।
युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहु: ॥ १३ ॥
संस्थिते अति-रथे पाण्डौ पृथा बाल-प्रजा वधूः युष्मत्-कृते बहून् क्लेशान् प्राप्ता तोक-वती मुहुः
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।
सपालो यद्वशे लोको वायोरिव घनावलि: ॥ १४ ॥
सर्वम् काल-कृतम् मन्ये भवताम् च यत् अप्रियम् स-पालः यत्-वशे लोकः वायोः इव घन-आवलिः
यत्र धर्मसुतो राजा गदापाणिर्वृकोदर: ।
कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५ ॥
यत्र धर्म-सुतः राजा गदा-पाणिः वृकोदरः कृष्णः अस्त्री गाण्डिवम् चापम् सुहृत् कृष्णः ततः विपत्
न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् ।
यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥
न हि अस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् यत् विजिज्ञासया युक्ताः मुह्यन्ति कवयः अपि हि
तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।
तस्यानुविहितोऽनाथा नाथ पाहि प्रजा: प्रभो ॥ १७ ॥
तस्मात् इदम् दैव-तन्त्रम् व्यवस्य भरत-ऋषभ तस्य अनुविहितः अनाथाः नाथ पाहि प्रजाः प्रभो
एष वै भगवान्साक्षादाद्यो नारायण: पुमान् ।
मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥
एषः वै भगवान् साक्षात् आद्यः नारायणः पुमान् मोहयन् मायया लोकम् गूढः चरति वृष्णिषु
अस्यानुभावं भगवान् वेद गुह्यतमं शिव: ।
देवर्षिर्नारद: साक्षाद्भगवान् कपिलो नृप ॥ १९ ॥
अस्य अनुभावम् भगवान् वेद गुह्य-तमम् शिवः देव-ऋषिः नारदः साक्षात् भगवान् कपिलः नृप
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरो: सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥
यम् मन्यसे मातुलेयम् प्रियम् मित्रम् सुहृत्-तमम् अकरोः सचिवम् दूतम् सौहृदात् अथ सारथिम्
सर्वात्मन: समदृशो ह्यद्वयस्यानहङ्कृते: ।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥
सर्व-आत्मनः सम-दृशः हि अद्वयस्य अनहङ्कृतेः तत्-कृतम् मति वैषम्यम् निरवद्यस्य न क्वचित्
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
यन्मेऽसूंस्त्यजत: साक्षात्कृष्णो दर्शनमागत: ॥ २२ ॥
तथापि एकान्त भक्तेषु पश्य भू-प अनुकम्पितम् यत् मे असून् त्यजतः साक्षात् कृष्णः दर्शनम् आगतः
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
त्यजन् कलेवरं योगी मुच्यते कामकर्मभि: ॥ २३ ॥
भक्त्या आवेश्य मनः यस्मिन् वाचा यत् नाम कीर्तयन् त्यजन् कलेवरम् योगी मुच्यते काम-कर्मभिः
स देवदेवो भगवान् प्रतीक्षतां
कलेवरं यावदिदं हिनोम्यहम् ।
प्रसन्नहासारुणलोचनोल्लस-
न्मुखाम्बुजो ध्यानपथश्चतुर्भुज: ॥ २४ ॥
सः देव-देवः भगवान् प्रतीक्षताम् कलेवरम् यावत् इदम् हिनोमि अहम् प्रसन्न हास अरुण-लोचन उल्लसत् मुख-अम्बुजः ध्यान-पथः चतुर्-भुजः
सूत उवाच
युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे ।
अपृच्छद्विविधान्धर्मानृषीणां चानुशृण्वताम् ॥ २५ ॥
सूतः उवाच युधिष्ठिरः तत् आकर्ण्य शयानम् शर-पञ्जरे अपृच्छत् विविधान् धर्मान् ऋषीणाम् च अनुशृण्वताम्
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।
वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६ ॥
पुरुष स्व-भाव विहितान् यथा वर्णम् यथा आश्रमम् वैराग्य राग उपाधिभ्याम् आम्नात उभय लक्षणान्
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागश: ।
स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगत: ॥ २७ ॥
दान-धर्मान् राज-धर्मान् मोक्ष-धर्मान् विभागशः स्त्री-धर्मान् भगवत्-धर्मान् समास व्यास योगतः
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।
नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥
धर्म अर्थ काम मोक्षान् च सह उपायान् यथा मुने नाना आख्यान इतिहासेषु वर्णयाम् आस तत्त्व-वित्
धर्मं प्रवदतस्तस्य स काल: प्रत्युपस्थित: ।
यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायण: ॥ २९ ॥
धर्मम् प्रवदतः तस्य सः कालः प्रत्युपस्थितः यः योगिनः छन्द-मृत्योः वाञ्छितः तु उत्तरायणः
तदोपसंहृत्य गिर: सहस्रणी-
र्विमुक्तसङ्गं मन आदिपूरुषे ।
कृष्णे लसत्पीतपटे चतुर्भुजे
पुर:स्थितेऽमीलितदृग्व्यधारयत् ॥ ३० ॥
तदा उपसंहृत्य गिरः सहस्रणीः विमुक्त-सङ्गम् मनः आदि-पूरुषे कृष्णे लसत्-पीत-पटे चतुर्-भुजे पुरः स्थिते अमीलित दृक् व्यधारयत्
विशुद्धया धारणया हताशुभ-
स्तदीक्षयैवाशु गतायुधश्रम: ।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रम-
स्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥ ३१ ॥
विशुद्धया धारणया हत-अशुभः तत् ईक्षया एव आशु गता युध श्रमः निवृत्त सर्व इन्द्रिय वृत्ति विभ्रमः तुष्टाव जन्यम् विसृजन् जनार्दनम्
श्रीभीष्म उवाच
इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाह: ॥ ३२ ॥
श्री-भीष्मः उवाच इति मतिः उपकल्पिता वितृष्णा भगवति सात्वत-पुङ्गवे विभूम्नि स्व-सुखम् उपगते क्वचित् विहर्तुम् प्रकृतिम् उपेयुषि यत्-भव प्रवाहः
त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥
त्रि-भुवन कमनम् तमाल-वर्णम् रवि-कर गौर वराम्बरम् दधाने वपुः अलक-कुल-आवृत अनन-अब्जम् विजय-सखे रतिः अस्तु मे अनवद्या
युधि तुरगरजोविधूम्रविष्वक्-
कचलुलितश्रमवार्यलङ्कृतास्ये ।
मम निशितशरैर्विभिद्यमान-
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥
युधि तुरग रजः विधूम्र विष्वक् कच लुलित श्रमवारि अलङ्कृत आस्ये मम निशित शरैः विभिद्यमान त्वचि विलसत् कवचे अस्तु कृष्णे आत्मा
सपदि सखिवचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥
सपदि सखि-वचः निशम्य मध्ये निज परयोः बलयोः रथम् निवेश्य स्थितवति पर-सैनिक आयुः अक्ष्णा हृतवति पार्थ सखे रतिः मम अस्तु
व्यवहितपृतनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया य-
श्चरणरति: परमस्य तस्य मेऽस्तु ॥ ३६ ॥
व्यवहित पृतना मुखम् निरीक्ष्य स्व-जन वधात् विमुखस्य दोष-बुद्ध्या कुमतिम् अहरत् आत्म-विद्यया यः चरण रतिः परमस्य तस्य मे अस्तु
स्वनिगममपहाय मत्प्रतिज्ञा-
मृतमधिकर्तुमवप्लुतो रथस्थ: ।
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव हन्तुमिभं गतोत्तरीय: ॥ ३७ ॥
स्व-निगमम् अपहाय मत्-प्रतिज्ञाम् ऋतम् अधि कर्तुम् अवप्लुतः रथ-स्थः धृत रथ चरणः अभ्ययात् चलद्गुः हरिः इव हन्तुम् इभम् गत उत्तरीयः
शितविशिखहतो विशीर्णदंश:
क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्द: ॥ ३८ ॥
शित विशिख हतः विशीर्ण-दंशः क्षतज परिप्लुतः आततायिनः मे प्रसभम् अभिससार मत्-वध-अर्थम् सः भवतु मे भगवान् गतिः मुकुन्दः
विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षो-
र्यमिह निरीक्ष्य हता गता: स्वरूपम् ॥ ३९ ॥
विजय रथ कुटुम्बे आत्त-तोत्रे धृत-हय रश्मिनि तत्-श्रिया ईक्षणीये भगवति रतिः अस्तु मे मुमूर्षोः यम् इह निरीक्ष्य हताः गताः स्व-रूपम्
ललितगतिविलासवल्गुहास-
प्रणयनिरीक्षणकल्पितोरुमाना: ।
कृतमनुकृतवत्य उन्मदान्धा:
प्रकृतिमगन् किल यस्य गोपवध्व: ॥ ४० ॥
ललित गति विलास वल्गु-हास प्रणय निरीक्षण कल्पित उरुमानाः कृतम् अनुकृतवत्यः उन्मद-अन्धाः प्रकृतिम् अगन् किल यस्य गोप-वध्वः
मुनिगणनृपवर्यसङ्कुलेऽन्त:
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥
मुनि-गण नृप-वर्य सङ्कुले अन्तः-सदसि युधिष्ठिर राज-सूये एषाम् अर्हणम् उपपेद ईक्षणीयः मम दृशि गोचरः एषः आविः आत्मा
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूतभेदमोह: ॥ ४२ ॥
तम् इमम् अहम् अजम् शरीर-भाजाम् हृदि हृदि धिष्ठितम् आत्म कल्पितानाम् प्रतिदृशम् इव न एकधा अर्कम् एकम् समधिगतः अस्मि विधूत भेद-मोहः
सूत उवाच
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभि: ।
आत्मन्यात्मानमावेश्य सोऽन्त:श्वास उपारमत् ॥ ४३ ॥
सूतः उवाच कृष्णे एवम् भगवति मनः वाक् दृष्टि वृत्तिभिः आत्मनि आत्मानम् आवेश्य सः अन्तः-श्वासः उपारमत्
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥
सम्पद्यमानम् आज्ञाय भीष्मम् ब्रह्मणि निष्कले सर्वे बभूवुः ते तूष्णीम् वयांसि इव दिन-अत्यये
तत्र दुन्दुभयो नेदुर्देवमानववादिता: ।
शशंसु: साधवो राज्ञां खात्पेतु: पुष्पवृष्टय: ॥ ४५ ॥
तत्र दुन्दुभयः नेदुः देव मानव वादिताः शशंसुः साधवः राज्ञाम् खात् पेतुः पुष्प-वृष्टयः
तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
युधिष्ठिर: कारयित्वा मुहूर्तं दु:खितोऽभवत् ॥ ४६ ॥
तस्य निर्हरण-आदीनि सम्परेतस्य भार्गव युधिष्ठिरः कारयित्वा मुहूर्तम् दुःखितः अभवत्
तुष्टुवुर्मुनयो हृष्टा: कृष्णं तद्गुह्यनामभि: ।
ततस्ते कृष्णहृदया: स्वाश्रमान् प्रययु: पुन: ॥ ४७ ॥
तुष्टुवुः मुनयः हृष्टाः कृष्णम् तत् गुह्य नामभिः ततः ते कृष्ण-हृदयाः स्व-आश्रमान् प्रययुः पुनः
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।
पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥
ततः युधिष्ठिरः गत्वा सह कृष्णः गजाह्वयम् पितरम् सान्त्वयाम् आस गान्धारीम् च तपस्विनीम्
पित्रा चानुमतो राजा वासुदेवानुमोदित: ।
चकार राज्यं धर्मेण पितृपैतामहं विभु: ॥ ४९ ॥
पित्रा च अनुमतः राजा वासुदेव-अनुमोदितः चकार राज्यम् धर्मेण पितृ पैतामहम् विभुः
१.१०
शौनक उवाच
हत्वा स्वरिक्थस्पृध आततायिनो
युधिष्ठिरो धर्मभृतां वरिष्ठ: ।
सहानुजै: प्रत्यवरुद्धभोजन:
कथं प्रवृत्त: किमकारषीत्तत: ॥ १ ॥
शौनकः उवाच हत्वा स्वरिक्थ स्पृधः आततायिनः युधिष्ठिरः धर्म-भृताम् वरिष्ठः सह-अनुजैः प्रत्यवरुद्ध भोजनः कथम् प्रवृत्तः किम् अकारषीत् ततः
सूत उवाच
वंशं कुरोर्वंशदवाग्निनिर्हृतं
संरोहयित्वा भवभावनो हरि: ।
निवेशयित्वा निजराज्य ईश्वरो
युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥
सूतः उवाच वंशम् कुरोः वंश-दव-अग्नि निर्हृतम् संरोहयित्वा भव-भावनः हरिः निवेशयित्वा निज-राज्ये ईश्वरः युधिष्ठिरम् प्रीत-मनाः बभूव ह
निशम्य भीष्मोक्तमथाच्युतोक्तं
प्रवृत्तविज्ञानविधूतविभ्रम: ।
शशास गामिन्द्र इवाजिताश्रय:
परिध्युपान्तामनुजानुवर्तित: ॥ ३ ॥
निशम्य भीष्म-उक्तम् अथ अच्युत-उक्तम् प्रवृत्त विज्ञान विधूत विभ्रमः शशास गाम् इन्द्र इव अजित-आश्रयः परिधि-उपान्ताम् अनुज अनुवर्तितः
कामं ववर्ष पर्जन्य: सर्वकामदुघा मही ।
सिषिचु: स्म व्रजान् गाव: पयसोधस्वतीर्मुदा ॥ ४ ॥
कामम् ववर्ष पर्जन्यः सर्व काम दुघा मही सिषिचुः स्म व्रजान् गावः पयसा उधस्वतीः मुदा
नद्य: समुद्रा गिरय: सवनस्पतिवीरुध: ।
फलन्त्योषधय: सर्वा: काममन्वृतु तस्य वै ॥ ५ ॥
नद्यः समुद्राः गिरयः सवनस्पति वीरुधः फलन्ति ओषधयः सर्वाः कामम् अन्वृतु तस्य वै
नाधयो व्याधय: क्लेशा दैवभूतात्महेतव: ।
अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥
न आधयः व्याधयः क्लेशाः दैव-भूत-आत्म हेतवः अजात-शत्रौ अभवन् जन्तूनाम् राज्ञि कर्हिचित्
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरि: ।
सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः सुहृदाम् च विशोकाय स्वसुः च प्रिय-काम्यया
आमन्त्र्य चाभ्यनुज्ञात: परिष्वज्याभिवाद्य तम् ।
आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादित: ॥ ८ ॥
आमन्त्र्य च अभ्यनुज्ञातः परिष्वज्य अभिवाद्य तम् आरुरोह रथम् कैश्चित् परिष्वक्तः अभिवादितः
सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।
गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ ९ ॥
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादय: ।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वन: ॥ १० ॥
सुभद्रा द्रौपदी कुन्ती विराट-तनया तथा गान्धारी धृतराष्ट्रः च युयुत्सुः गौतमः यमौ वृकोदरः च धौम्यः च स्त्रियः मत्स्य-सुता-आदयः न सेहिरे विमुह्यन्तः विरहम् शार्ङ्ग-धन्वनः
सत्सङ्गान्मुक्तदु:सङ्गो हातुं नोत्सहते बुध: ।
कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ ११ ॥
तस्मिन्न्यस्तधिय: पार्था: सहेरन् विरहं कथम् ।
दर्शनस्पर्शसंलापशयनासनभोजनै: ॥ १२ ॥
सत्-सङ्गात् मुक्त-दुःसङ्गः हातुम् न उत्सहते बुधः कीर्त्यमानम् यशः यस्य सकृत् आकर्ण्य रोचनम् तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहम् कथम् दर्शन स्पर्श संलाप शयन आसन भोजनैः
सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतस: ।
वीक्षन्त: स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥
सर्वे ते अनिमिषैः अक्षैः तम् अनु द्रुत-चेतसः वीक्षन्तः स्नेह-सम्बद्धाः विचेलुः तत्र तत्र ह
न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते ।
निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रिय: ॥ १४ ॥
न्यरुन्धन् उद्गलत् बाष्पम् औत्कण्ठ्यात् देवकी-सुते निर्याति अगारात् नः अभद्रम् इति स्यात् बान्धव स्त्रियः
मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखा: ।
धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ १५ ॥
मृदङ्ग शङ्ख भेर्यः च वीणा पणव गोमुखाः धुन्धुरी आनक घण्टा आद्याः नेदुः दुन्दुभयः तथा
प्रासादशिखरारूढा: कुरुनार्यो दिदृक्षया ।
ववृषु: कुसुमै: कृष्णं प्रेमव्रीडास्मितेक्षणा: ॥ १६ ॥
प्रासाद शिखर आरूढाः कुरु-नार्यः दिदृक्षया ववृषुः कुसुमैः कृष्णम् प्रेम व्रीडा-स्मित-ईक्षणाः
सितातपत्रं जग्राह मुक्तादामविभूषितम् ।
रत्नदण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥ १७ ॥
सित-आतपत्रम् जग्राह मुक्ता-दाम विभूषितम् रत्न-दण्डम् गुडाकेशः प्रियः प्रियतमस्य ह
उद्धव: सात्यकिश्चैव व्यजने परमाद्भुते ।
विकीर्यमाण: कुसुमै रेजे मधुपति: पथि ॥ १८ ॥
उद्धवः सात्यकिः च एव व्यजने परम-अद्भुते विकीर्यमाणः कुसुमैः रेजे मधु-पतिः पथि
अश्रूयन्ताशिष: सत्यास्तत्र तत्र द्विजेरिता: ।
नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मन: ॥ १९ ॥
अश्रूयन्त आशिषः सत्याः तत्र तत्र द्विज-ईरिताः न अनुरूप अनुरूपाः च निर्गुणस्य गुण-आत्मनः
अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् ।
कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहर: ॥ २० ॥
अन्योन्यम् आसीत् सञ्जल्पः उत्तम-श्लोक चेतसाम् कौरव-इन्द्र पुर स्त्रीणाम् सर्व श्रुति मनः-हरः
स वै किलायं पुरुष: पुरातनो
य एक आसीदविशेष आत्मनि ।
अग्रे गुणेभ्यो जगदात्मनीश्वरे
निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥
सः वै किल अयम् पुरुषः पुरातनः यः एकः आसीत् अविशेषः आत्मनि अग्रे गुणेभ्यः जगत्-आत्मनि ईश्वरे निमीलित आत्मन् निशि सुप्त शक्तिषु
स एव भूयो निजवीर्यचोदितां
स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी
विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥
सः एव भूयः निज वीर्य चोदिताम् स्व जीव मायाम् प्रकृतिम् सिसृक्षतीम् अनाम रूप-आत्मनि रूप-नामनी विधित्समानः अनुससार शास्त्र-कृत्
स वा अयं यत्पदमत्र सूरयो
जितेन्द्रिया निर्जितमातरिश्वन: ।
पश्यन्ति भक्त्युत्कलितामलात्मना
नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥
सः वै अयम् यत् पदम् अत्र सूरयः जित-इन्द्रियाः निर्जित मातरिश्वनः पश्यन्ति भक्ति उत्कलित अमल-आत्मना ननु एषः सत्त्वम् परिमार्ष्टुम् अर्हति
स वा अयं सख्यनुगीतसत्कथो
वेदेषु गुह्येषु च गुह्यवादिभि: ।
य एक ईशो जगदात्मलीलया
सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥
सः वै अयम् सखि अनुगीत सत्-कथः वेदेषु गुह्येषु च गुह्य-वादिभिः यः एकः ईशः जगत् आत्म लीलया सृजति अवति अत्ति न तत्र सज्जते
यदा ह्यधर्मेण तमोधियो नृपा
जीवन्ति तत्रैष हि सत्त्वत: किल ।
धत्ते भगं सत्यमृतं दयां यशो
भवाय रूपाणि दधद्युगे युगे ॥ २५ ॥
यदा हि अधर्मेण तमः-धियः नृपाः जीवन्ति तत्र एषः हि सत्त्वतः किल धत्ते भगम् सत्यम् ऋतम् दयाम् यशः भवाय रूपाणि दधत् युगे युगे
अहो अलं श्लाघ्यतमं यदो: कुल-
महो अलं पुण्यतमं मधोर्वनम् ।
यदेष पुंसामृषभ: श्रिय: पति:
स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६ ॥
अहो अलम् श्लाघ्य-तमम् यदोः कुलम् अहो अलम् पुण्य-तमम् मधोः वनम् यत् एषः पुंसाम् ऋषभः श्रियः पतिः स्व-जन्मना चङ्क्रमणेन च अञ्चति
अहो बत स्वर्यशसस्तिरस्करी
कुशस्थली पुण्ययशस्करी भुव: ।
पश्यन्ति नित्यं यदनुग्रहेषितं
स्मितावलोकं स्वपतिं स्म यत्प्रजा: ॥ २७ ॥
अहो बत स्वः-यशसः तिरस्करी कुशस्थली पुण्य यशस्करी भुवः पश्यन्ति नित्यम् यत् अनुग्रह-इषितम् स्मित-अवलोकम् स्व-पतिम् स्म यत्-प्रजाः
नूनं व्रतस्नानहुतादिनेश्वर:
समर्चितो ह्यस्य गृहीतपाणिभि: ।
पिबन्ति या: सख्यधरामृतं मुहु-
र्व्रजस्त्रिय: सम्मुमुहुर्यदाशया: ॥ २८ ॥
नूनम् व्रत स्नान हुत आदिना ईश्वरः समर्चितः हि अस्य गृहीत-पाणिभिः पिबन्ति याः सखि अधर-अमृतम् मुहुः व्रज-स्त्रियः सम्मुमुहुः यत्-आशयाः
या वीर्यशुल्केन हृता: स्वयंवरे
प्रमथ्य चैद्यप्रमुखान् हि शुष्मिण: ।
प्रद्युम्नसाम्बाम्बसुतादयोऽपरा
याश्चाहृता भौमवधे सहस्रश: ॥ २९ ॥
या वीर्य शुल्केन हृताः स्वयंवरे प्रमथ्य चैद्य प्रमुखान् हि शुष्मिणः प्रद्युम्न साम्ब अम्ब सुत-आदयः अपराः याः च आहृताः भौम-वधे सहस्रशः
एता: परं स्त्रीत्वमपास्तपेशलं
निरस्तशौचं बत साधु कुर्वते ।
यासां गृहात्पुष्करलोचन: पति-
र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ ३० ॥
एताः परम् स्त्रीत्वम् अपास्तपेशलम् निरस्त शौचम् बत साधु कुर्वते यासाम् गृहात् पुष्कर-लोचनः पतिः न जातु अपैति आहृतिभिः हृदि स्पृशन्
एवंविधा गदन्तीनां स गिर: पुरयोषिताम् ।
निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरि: ॥ ३१ ॥
एवंविधाः गदन्तीनाम् सः गिरः पुर-योषिताम् निरीक्षणेन अभिनन्दन् स-स्मितेन ययौ हरिः
अजातशत्रु: पृतनां गोपीथाय मधुद्विष: ।
परेभ्य: शङ्कित: स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥
अजात-शत्रुः पृतनाम् गोपीथाय मधु-द्विषः परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुः-अङ्गिनीम्
अथ दूरागतान् शौरि: कौरवान् विरहातुरान् ।
सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियै: ॥ ३३ ॥
अथ दूरागतान् शौरिः कौरवान् विरहातुरान् सन्निवर्त्य दृढम् स्निग्धान् प्रायात् स्व-नगरीम् प्रियैः
कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।
ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥
मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् ।
आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग्विभु: ॥ ३५ ॥
कुरु-जाङ्गल पाञ्चालान् शूरसेनान् स यामुनान् ब्रह्मावर्तम् कुरुक्षेत्रम् मत्स्यान् सारस्वतान् अथ मरु धन्वम् अति-क्रम्य सौवीर आभीरयोः परान् आनर्तान् भार्गव उपागात् श्रान्त वाहः मनाक् विभुः
तत्र तत्र ह तत्रत्यैर्हरि: प्रत्युद्यतार्हण: ।
सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३६ ॥
तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यत-अर्हणः सायम् भेजे दिशम् पश्चात् गविष्थः गाम् गतः तदा
१.११
सूत उवाच
आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान् ।
दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥
सूतः उवाच आनर्तान् सः उपव्रज्य स्वृद्धान् जन-पदान् स्वकान् दध्मौ दरवरम् तेषाम् विषादम् शमयन् इव
स उच्चकाशे धवलोदरो दरो-
ऽप्युरुक्रमस्याधरशोणशोणिमा ।
दाध्मायमान: करकञ्जसम्पुटे
यथाब्जखण्डे कलहंस उत्स्वन: ॥ २ ॥
सः उच्चकाशे धवल-उदरः दरः अपि उरुक्रमस्य अधरशोण शोणिमा दाध्मायमानः कर-कञ्ज-सम्पुटे यथा अब्ज-खण्डे कल-हंसः उत्स्वनः
तमुपश्रुत्य निनदं जगद्भयभयावहम् ।
प्रत्युद्ययु: प्रजा: सर्वा भर्तृदर्शनलालसा: ॥ ३ ॥
तम् उपश्रुत्य निनदम् जगत्-भय भय-आवहम् प्रति उद्ययुः प्रजाः सर्वाः भर्तृ दर्शन लालसाः
तत्रोपनीतबलयो रवेर्दीपमिवादृता: ।
आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥
प्रीत्युत्फुल्लमुखा: प्रोचुर्हर्षगद्गदया गिरा ।
पितरं सर्वसुहृदमवितारमिवार्भका: ॥ ५ ॥
तत्र उपनीत बलयः रवेः दीपम् इव आदृताः आत्म-आरामम् पूर्ण-कामम् निज-लाभेन नित्य-दा प्रीति उत्फुल्ल-मुखाः प्रोचुः हर्ष गद्गदया गिरा पितरम् सर्व सुहृदम् अवितारम् इव अर्भकाः
नता: स्म ते नाथ सदाङ्घ्रिपङ्कजं
विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् ।
परायणं क्षेममिहेच्छतां परं
न यत्र काल: प्रभवेत् पर: प्रभु: ॥ ६ ॥
नताः स्म ते नाथ सदा अङ्घ्रि-पङ्कजम् विरिञ्च वैरिञ्च्य सुर-इन्द्र वन्दितम् परायणम् क्षेमम् इह इच्छताम् परम् न यत्र कालः प्रभवेत् परः प्रभुः
भवाय नस्त्वं भव विश्वभावन
त्वमेव माताथ सुहृत्पति: पिता ।
त्वं सद्गुरुर्न: परमं च दैवतं
यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥
भवाय नः त्वम् भव विश्व-भावन त्वम् एव माता अथ सुहृत् पतिः पिता त्वम् सत्-गुरुः नः परमम् च दैवतम् यस्य अनुवृत्त्या कृतिनः बभूविम
अहो सनाथा भवता स्म यद्वयं
त्रैविष्टपानामपि दूरदर्शनम् ।
प्रेमस्मितस्निग्धनिरीक्षणाननं
पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥
अहो स-नाथाः भवता स्म यत् वयम् त्रैविष्ट-पानाम् अपि दूर-दर्शनम् प्रेम-स्मित स्निग्ध निरीक्षण-आननम् पश्येम रूपम् तव सर्व सौभगम्
यर्ह्यम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्दिदृक्षया ।
तत्राब्दकोटिप्रतिम: क्षणो भवेद्
रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥
यर्हि अम्बुज-अक्ष अपससार भो भवान् कुरून् मधून् वा अथ सुहृत्-दिदृक्षया तत्र अब्द-कोटि प्रतिमः क्षणः भवेत् रविम् विना अक्ष्णोः इव नः तव अच्युत
कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्टयाखिलतापशोषणम ।
जीवेम ते सुन्दरहासशोभितमपश्यमाना वदनं मनोहरम ।
इति चोदीरिता वाच: प्रजानां भक्तवत्सल ।
शृण्वानोऽनुग्रहं दृष्टया वितन्वन् प्राविशत् पुरम् ॥ १० ॥
कथम् वयम् नाथ चिरोषिते त्वयि प्रसन्न दृष्ट्या अखिल ताप शोषणम् जीवेम ते सुन्दर हास शोभितम् अपश्यमानाः वदनम् मनोहरम् इति च उदीरिताः वाचः प्रजानाम् भक्त-वत्सलः शृण्वानः अनुग्रहम् दृष्ट्या वितन्वन् प्राविशत् पुरम्
मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभि: ।
आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥
मधु भोज दशार्ह अर्ह कुकुर अन्धक वृष्णिभिः आत्म-तुल्य बलैः गुप्ताम् नागैः भोगवतीम् इव
सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमै: ।
उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ १२ ॥
सर्व ऋतु सर्व विभव पुण्य वृक्ष लता आश्रमैः उद्यान उपवन आरामैः वृत पद्म-आकर श्रियम्
गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् ।
चित्रध्वजपताकाग्रैरन्त: प्रतिहतातपाम् ॥ १३ ॥
गोपुर द्वार मार्गेषु कृत कौतुक तोरणाम् चित्र ध्वज पताका-अग्रैः अन्तः प्रतिहत आतपाम्
सम्मार्जितमहामार्गरथ्यापणकचत्वराम् ।
सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरै: ॥ १४ ॥
सम्मार्जित महा-मार्ग रथ्य आपणक चत्वराम् सिक्ताम् गन्ध-जलैः उप्ताम् फल पुष्प अक्षत अङ्कुरैः
द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभि: ।
अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकै: ॥ १५ ॥
द्वारि द्वारि गृहाणाम् च दधि अक्षत फल इक्षुभिः अलङ्कृताम् पूर्ण-कुम्भैः बलिभिः धूप दीपकैः
निशम्य प्रेष्ठमायान्तं वसुदेवो महामना: ।
अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रम: ॥ १६ ॥
प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुत: ।
प्रहर्षवेगोच्छशितशयनासनभोजना: ॥ १७ ॥
निशम्य प्रेष्ठम् आयान्तम् वसुदेवः महा-मनाः अक्रूरः च उग्रसेनः च रामः च अद्भुत विक्रमः प्रद्युम्नः चारुदेष्णः च साम्बः जाम्बवती-सुतः प्रहर्ष वेग उच्छशित शयन आसन भोजनाः
वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: ससुमङ्गलै: ।
शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृता: ।
प्रत्युज्जग्मू रथैर्हृष्टा: प्रणयागतसाध्वसा: ॥ १८ ॥
वारण-इन्द्रम् पुरस्कृत्य ब्राह्मणैः स-सुमङ्गलैः शङ्ख तूर्य निनादेन ब्रह्म-घोषेण च आदृताः प्रति उज्जग्मुः रथैः हृष्टाः प्रणयागत साध्वसाः
वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुका: ।
लसत्कुण्डलनिर्भातकपोलवदनश्रिय: ॥ १९ ॥
वारमुख्याः च शतशः यानैः तत्-दर्शन उत्सुकाः लसत् कुण्डल निर्भात कपोल वदन श्रियः
नटनर्तकगन्धर्वा: सूतमागधवन्दिन: ।
गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ २० ॥
नट नर्तक गन्धर्वाः सूत मागध वन्दिनः गायन्ति च उत्तमश्लोक चरितानि अद्भुतानि च
भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम् ।
यथाविध्युपसङ्गम्य सर्वेषां मानमादधे ॥ २१ ॥
भगवान् तत्र बन्धूनाम् पौराणाम् अनुवर्तिनाम् यथा-विधि उपसङ्गम्य सर्वेषाम् मानम् आदधे
प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणै: ।
आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभु: ॥ २२ ॥
प्रह्वा अभिवादन आश्लेष कर-स्पर्श स्मित-ईक्षणैः आश्वास्य च आश्वपाकेभ्यः वरैः च अभिमतैः विभुः
स्वयं च गुरुभिर्विप्रै: सदारै: स्थविरैरपि ।
आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् ॥ २३ ॥
स्वयम् च गुरुभिः विप्रैः सदारैः स्थविरैः अपि आशीर्भिः युज्यमानः अन्यैः वन्दिभिः च अविशत् पुरम्
राजमार्गं गते कृष्णे द्वारकाया: कुलस्त्रिय: ।
हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवा: ॥ २४ ॥
राज-मार्गम् गते कृष्णे द्वारकायाः कुल-स्त्रियः हर्म्याणि आरुरुहुः विप्र तत्-ईक्षण महा-उत्सवाः
नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।
न वितृप्यन्ति हि दृश: श्रियो धामाङ्गमच्युतम् ॥ २५ ॥
नित्यम् निरीक्षमाणानाम् यत् अपि द्वारका-ओकसाम् न वितृप्यन्ति हि दृशः श्रियः धाम-अङ्गम् अच्युतम्
श्रियो निवासो यस्योर: पानपात्रं मुखं दृशाम् ।
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६ ॥
श्रियः निवासः यस्य उरः पान-पात्रम् मुखम् दृशाम् बाहवः लोक-पालानाम् सारङ्गाणाम् पद-अम्बुजम्
सितातपत्रव्यजनैरुपस्कृत:
प्रसूनवर्षैरभिवर्षित: पथि ।
पिशङ्गवासा वनमालया बभौ
घनो यथार्कोडुपचापवैद्युतै: ॥ २७ ॥
सित-आतपत्र व्यजनैः उपस्कृतः प्रसून वर्षैः अभिवर्षितः पथि पिशङ्ग-वासाः वन-मालया बभौ घनः यथा अर्क उडुप चाप वैद्युतैः
प्रविष्टस्तु गृहं पित्रो: परिष्वक्त: स्वमातृभि: ।
ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥
प्रविष्टः तु गृहम् पित्रोः परिष्वक्तः स्व-मातृभिः ववन्दे शिरसा सप्त देवकी प्रमुखा मुदा
ता: पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधरा: ।
हर्षविह्वलितात्मान: सिषिचुर्नेत्रजैर्जलै: ॥ २९ ॥
ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत पयोधराः हर्ष विह्वलित-आत्मानः सिषिचुः नेत्रजैः जलैः
अथाविशत् स्वभवनं सर्वकाममनुत्तमम् ।
प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३० ॥
अथ अविशत् स्व-भवनम् सर्व कामम् अनुत्तमम् प्रासादाः यत्र पत्नीनाम् सहस्राणि च षोडश
पत्न्य: पतिं प्रोष्य गृहानुपागतं
विलोक्य सञ्जातमनोमहोत्सवा: ।
उत्तस्थुरारात् सहसासनाशयात्
साकं व्रतैर्व्रीडितलोचनानना: ॥ ३१ ॥
पत्न्यः पतिम् प्रोष्य गृह-अनुपागतम् विलोक्य सञ्जात मनः-महा-उत्सवाः उत्तस्थुः आरात् सहसा आसना आशयात् साकम् व्रतैः व्रीडित लोचन आननाः
तमात्मजैर्दृष्टिभिरन्तरात्मना
दुरन्तभावा: परिरेभिरे पतिम् ।
निरुद्धमप्यास्रवदम्बु नेत्रयो-
र्विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥
तम् आत्म-जैः दृष्टिभिः अन्तर-आत्मना दुरन्त-भावाः परिरेभिरे पतिम् निरुद्धम् अपि आस्रवत् अम्बु नेत्रयोः विलज्जतीनाम् भृगु-वर्य वैक्लवात्
यद्यप्यसौ पार्श्वगतो रहोगत-
स्तथापि तस्याङ्घ्रियुगं नवं नवम् ।
पदे पदे का विरमेत तत्पदा-
च्चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥
यदि अपि असौ पार्श्व-गतः रहः-गतः तथापि तस्य अङ्घ्रि-युगम् नवम् नवम् पदे पदे का विरमेत तत्-पदात् चलापि यत् श्रीः न जहाति कर्हिचित्
एवं नृपाणां क्षितिभारजन्मना-
मक्षौहिणीभि: परिवृत्ततेजसाम् ।
विधाय वैरं श्वसनो यथानलं
मिथो वधेनोपरतो निरायुध: ॥ ३४ ॥
एवम् नृपाणाम् क्षिति-भार जन्मनाम् अक्षौहिणीभिः परिवृत्त तेजसाम् विधाय वैरम् श्वसनः यथा अनलम् मिथः वधेन उपरतः निरायुधः
स एष नरलोकेऽस्मिन्नवतीर्ण: स्वमायया ।
रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥
सः एषः नर-लोके अस्मिन् अवतीर्णः स्व मायया रेमे स्त्री-रत्न कूटस्थः भगवान् प्राकृतः यथा
उद्दामभावपिशुनामलवल्गुहास-
व्रीडावलोकनिहतो मदनोऽपि यासाम् ।
सम्मुह्य चापमजहात्प्रमदोत्तमास्ता
यस्येन्द्रियं विमथितुं कुहकैर्न शेकु: ॥ ३६ ॥
उद्दाम भाव पिशुन अमल वल्गु-हास व्रीड अवलोक निहतः मदनः अपि यासाम् सम्मुह्य चापम् अजहात् प्रमद उत्तमाः ता यस्य इन्द्रियम् विमथितुम् कुहकैः न शेकुः
तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् ।
आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुध: ॥ ३७ ॥
तम् अयम् मन्यते लोकः हि असङ्गम् अपि सङ्गिनम् आत्म औपम्येन मनुजम् व्यापृण्वानम् यतः अबुधः
एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणै: ।
न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ३८ ॥
एतत् ईशनम् ईशस्य प्रकृति-स्थः अपि तत्-गुणैः न युज्यते सदा आत्म-स्थैः यथा बुद्धिः तत् आश्रया
तं मेनिरेऽबला मूढा: स्त्रैणं चानुव्रतं रह: ।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ३९ ॥
तम् मेनिरे अबलाः मूढाः स्त्रैणम् च अनुव्रतम् रहः अप्रमाण-विदः भर्तुः ईश्वरम् मतयः यथा
१.१२
शौनक उवाच
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।
उत्तराया हतो गर्भ ईशेनाजीवित: पुन: ॥ १ ॥
शौनकः उवाच अश्वत्थाम्न उपसृष्टेन ब्रह्म-शीर्ष्णा उरु-तेजसा उत्तरायाः हतः गर्भः ईशेन आजीवितः पुनः
तस्य जन्म महाबुद्धे: कर्माणि च महात्मन: ।
निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥ २ ॥
तस्य जन्म महा-बुद्धेः कर्माणि च महा-आत्मनः निधनम् च यथा एव आसीत् सः प्रेत्य गतवान् यथा
तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।
ब्रूहि न: श्रद्दधानानां यस्य ज्ञानमदाच्छुक: ॥ ३ ॥
तत् इदम् श्रोतुम् इच्छामः गदितुम् यदि मन्यसे ब्रूहि नः श्रद्दधानानाम् यस्य ज्ञानम् अदात् शुकः
सूत उवाच
अपीपलद्धर्मराज: पितृवद् रञ्जयन् प्रजा: ।
नि:स्पृह: सर्वकामेभ्य: कृष्णपादानुसेवया ॥ ४ ॥
सूतः उवाच अपीपलत् धर्म-राजः पितृ-वत् रञ्जयन् प्रजाः निःस्पृहः सर्व कामेभ्यः कृष्ण-पाद अनुसेवया
सम्पद: क्रतवो लोका महिषी भ्रातरो मही ।
जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥
सम्पदः क्रतवः लोकाः महिषी भ्रातरः मही जम्बु-द्वीप आधिपत्यम् च यशः च त्रि-दिवम् गतम्
किं ते कामा: सुरस्पार्हा मुकुन्दमनसो द्विजा: ।
अधिजह्रुर्मुदं राज्ञ: क्षुधितस्य यथेतरे ॥ ६ ॥
किम् ते कामाः सुर स्पार्हाः मुकुन्द-मनसः द्विजाः अधिजह्रुः मुदम् राज्ञः क्षुधितस्य यथा इतरे
मातुर्गर्भगतो वीर: स तदा भृगुनन्दन ।
ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७ ॥
मातुः गर्भ गतः वीरः सः तदा भृगु-नन्दन ददर्श पुरुषम् कञ्चित् दह्यमानः अस्त्र तेजसा
अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।
अपीव्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥ ८ ॥
अङ्गुष्ठ मात्रम् अमलम् स्फुरत् पुरट मौलिनम् अपीव्य दर्शनम् श्यामम् तडित् वाससम् अच्युतम्
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।
क्षतजाक्षं गदापाणिमात्मन: सर्वतोदिशम् ।
परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहु: ॥ ९ ॥
श्रीमत् दीर्घ चतुः-बाहुम् तप्त-काञ्चन कुण्डलम् क्षतज-अक्षम् गदा-पाणिम् आत्मनः सर्वतः दिशम् परिभ्रमन्तम् उल्काभाम् भ्रामयन्तम् गदाम् मुहुः
अस्त्रतेज: स्वगदया नीहारमिव गोपति: ।
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥
अस्त्र-तेजः स्व-गदया नीहारम् इव गोपतिः विधमन्तम् सन्निकर्षे पर्यैक्षत कः इति असौ
विधूय तदमेयात्मा भगवान्धर्मगुब् विभु: ।
मिषतो दशमासस्य तत्रैवान्तर्दधे हरि: ॥ ११ ॥
विधूय तत् अमेयात्मा भगवान् धर्म-गुप् विभुः मिषतः दशमासस्य तत्र एव अन्तः दधे हरिः
तत: सर्वगुणोदर्के सानुकूलग्रहोदये ।
जज्ञे वंशधर: पाण्डोर्भूय: पाण्डुरिवौजसा ॥ १२ ॥
ततः सर्व गुण उदर्के स-अनुकूल ग्रहोदये जज्ञे वंश-धरः पाण्डोः भूयः पाण्डुः इव ओजसा
तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभि: ।
जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥
तस्य प्रीत-मनाः राजा विप्रैः धौम्य कृप आदिभिः जातकम् कारयाम् आस वाचयित्वा च मङ्गलम्
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान् ।
प्रादात्स्वन्नं च विप्रेभ्य: प्रजातीर्थे स तीर्थवित् ॥ १४ ॥
हिरण्यम् गाम् महीम् ग्रामान् हस्ति अश्वान् नृपतिः वरान् प्रादात् सु-अन्नम् च विप्रेभ्यः प्रजा-तीर्थे सः तीर्थ-वित्
तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।
एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥
तम् ऊचुः ब्राह्मणाः तुष्टाः राजानम् प्रश्रय-अन्वितम् एषः हि अस्मिन् प्रजा-तन्तौ पुरूणाम् पौरव-ऋषभ
दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥
दैवेन अप्रतिघातेन शुक्ले संस्थाम् उपेयुषि रातः वः अनुग्रह-अर्थाय विष्णुना प्रभविष्णुना
तस्मान्नाम्ना विष्णुरात इति लोके भविष्यति ।
न सन्देहो महाभाग महाभागवतो महान् ॥ १७ ॥
तस्मात् नाम्ना विष्णु-रातः इति लोके भविष्यति न सन्देहः महा-भाग महा-भागवतः महान्
श्रीराजोवाच
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मन: ।
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमा: ॥ १८ ॥
श्री-राजा उवाच अपि एषः वंश्यान् राज-ऋषीन् पुण्य-श्लोकान् महा-आत्मनः अनुवर्तिता स्वित् यशसा साधु-वादेन सत्-तमाः
ब्राह्मणा ऊचु:
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव: ।
ब्रह्मण्य: सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥
ब्राह्मणाः ऊचुः पार्थ प्रजा अविता साक्षात् इक्ष्वाकुः इव मानवः ब्रह्मण्यः सत्य-सन्धः च रामः दाशरथिः यथा
एष दाता शरण्यश्च यथा ह्यौशीनर: शिबि: ।
यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥
एषः दाता शरण्यः च यथा हि औशीनरः शिबिः यशः वितनिता स्वानाम् दौष्यन्तिह् इव यज्वनाम्
धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयो: ।
हुताश इव दुर्धर्ष: समुद्र इव दुस्तर: ॥ २१ ॥
धन्विनाम् अग्रणीः एषः तुल्यः च अर्जुनयोः द्वयोः हुताशः इव दुर्धर्षः समुद्रः इव दुस्तरः
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।
तितिक्षुर्वसुधेवासौ सहिष्णु: पितराविव ॥ २२ ॥
मृगेन्द्रः इव विक्रान्तः निषेव्यः हिमवान् इव तितिक्षुः वसुधा इव असौ सहिष्णुः पितरौ इव
पितामहसम: साम्ये प्रसादे गिरिशोपम: ।
आश्रय: सर्वभूतानां यथा देवो रमाश्रय: ॥ २३ ॥
पितामह समः साम्ये प्रसादे गिरिश उपमः आश्रयः सर्व भूतानाम् यथा देवः रमा-आश्रयः
सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रत: ।
रन्तिदेव इवोदारो ययातिरिव धार्मिक: ॥ २४ ॥
सर्व-सत्-गुण-माहात्म्ये एषः कृष्णम् अनुव्रतः रन्तिदेवः इव उदारः ययातिः इव धार्मिकः
धृत्या बलिसम: कृष्णे प्रह्राद इव सद्ग्रह: ।
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासक: ॥ २५ ॥
धृत्या बलि-समः कृष्णे प्रह्राद इव सत्-ग्रहः आहर्ता एषः अश्वमेधानाम् वृद्धानाम् पर्युपासकः
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।
निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥
राज-ऋषीणाम् जनयिता शास्ता च उत्पथ-गामिनाम् निग्रहीता कलेः एषः भुवः धर्मस्य कारणात्
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।
प्रपत्स्यत उपश्रुत्य मुक्तसङ्ग: पदं हरे: ॥ २७ ॥
तक्षकात् आत्मनः मृत्युम् द्विज-पुत्र उपसर्जितात् प्रपत्स्यते उपश्रुत्य मुक्त-सङ्गः पदम् हरेः
जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ ।
हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ २८ ॥
जिज्ञासित आत्म-याथार्थ्यः मुनेः व्यास-सुतात् असौ हित्वा इदम् नृप गङ्गायाम् यास्यति अद्धा अकुतः-भयम्
इति राज्ञ उपादिश्य विप्रा जातककोविदा: ।
लब्धापचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥ २९ ॥
इति राज्ञे उपादिश्य विप्राः जातक-कोविदाः लब्ध-अपचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान्
स एष लोके विख्यात: परीक्षिदिति यत्प्रभु: ।
पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥
सः एषः लोके विख्यातः परीक्षित् इति यत् प्रभुः पूर्वम् दृष्टम् अनुध्यायन् परीक्षेत नरेषु इह
स राजपुत्रो ववृधे आशु शुक्ल इवोडुप: ।
आपूर्यमाण: पितृभि: काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥
सः राज-पुत्रः ववृधे आशु शुक्ले इव उडुपः आपूर्यमाणः पितृभिः काष्ठाभिः इव सः अन्वहम्
यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।
राजा लब्धधनो दध्यौ नान्यत्र करदण्डयो: ॥ ३२ ॥
यक्ष्यमाणः अश्वमेधेन ज्ञाति-द्रोह जिहासया राजा लब्ध-धनः दध्यौ न अन्यत्र कर-दण्डयोः
तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिता: ।
धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिश: ॥ ३३ ॥
तत् अभिप्रेतम् आलक्ष्य भ्रातरः अच्युत चोदिताः धनम् प्रहीणम् आजह्रुः उदीच्याम् दिशि भूरिशः
तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिर: ।
वाजिमेधैस्त्रिभिर्भीतो यज्ञै: समयजद्धरिम् ॥ ३४ ॥
तेन सम्भृत सम्भारः धर्म-पुत्रः युधिष्ठिरः वाजिमेधैः त्रिभिः भीतः यज्ञैः समयजत् हरिम्
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।
उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥
आहूतः भगवान् राज्ञा याजयित्वा द्विजैः नृपम् उवास कतिचित् मासान् सुहृदाम् प्रिय-काम्यया
ततो राज्ञाभ्यनुज्ञात: कृष्णया सह बन्धुभि: ।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृत: ॥ ३६ ॥
ततः राज्ञा अभ्यनुज्ञातः कृष्णया सह बन्धुभिः ययौ द्वारवतीम् ब्रह्मन् स-अर्जुनः यदुभिः वृतः
१.१३
सूत उवाच
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।
ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सित: ॥ १ ॥
सूतः उवाच विदुरः तीर्थ-यात्रायाम् मैत्रेयात् आत्मनः गतिम् ज्ञात्वा आगात् हास्तिनपुरम् तया अवाप्त विवित्सितः
यावत: कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रत: ।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारव अग्रतः जात एक भक्तिः गोविन्दे तेभ्यः च उपरराम ह
तं बन्धुमागतं दृष्ट्वा धर्मपुत्र: सहानुज: ।
धृतराष्ट्रो युयुत्सुश्च सूत: शारद्वत: पृथा ॥ ३ ॥
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।
अन्याश्च जामय: पाण्डोर्ज्ञातय: ससुता: स्त्रिय: ॥ ४ ॥
तम् बन्धुम् आगतम् दृष्ट्वा धर्म-पुत्रः सह-अनुजः धृतराष्ट्रः युयुत्सुः च सूतः शारद्वतः पृथा गान्धारी द्रौपदी ब्रह्मन् सुभद्रा च उत्तरा कृपी अन्याः च जामयः पाण्डोः ज्ञातयः स-सुताः स्त्रियः
प्रत्युज्जग्मु: प्रहर्षेण प्राणं तन्व इवागतम् ।
अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनै: ॥ ५ ॥
प्रति उज्जग्मुः प्रहर्षेण प्राणम् तन्वः इव आगतम् अभिसङ्गम्य विधि-वत् परिष्वङ्ग अभिवादनैः
मुमुचु: प्रेमबाष्पौघं विरहौत्कण्ठ्यकातरा: ।
राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम् ॥ ६ ॥
मुमुचुः प्रेम बाष्प-ओघम् विरह औत्कण्ठ्य कातराः राजा तम् अर्हयाम् चक्रे कृत आसन परिग्रहम्
तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने ।
प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् ॥ ७ ॥
तम् भुक्तवन्तम् विश्रान्तम् आसीनम् सुखम् आसने प्रश्रय-अवनतः राजा प्राह तेषाम् च शृण्वताम्
युधिष्ठिर उवाच
अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् ।
विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृका: ॥ ८ ॥
युधिष्ठिरः उवाच अपि स्मरथ नः युष्मत् पक्ष छाया समेधितान् विपत्-गणात् विष अग्नि-आदेः मोचिताः यत् स मातृकाः
कया वृत्त्या वर्तितं वश्चरद्भि: क्षितिमण्डलम् ।
तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥
कया वृत्त्या वर्तितम् वः चरद्भिः क्षिति-मण्डलम् तीर्थानि क्षेत्र-मुख्यानि सेवितानि इह भूतले
भवद्विधा भागवतास्तीर्थभूता: स्वयं विभो ।
तीर्थीकुर्वन्ति तीर्थानि स्वान्त:स्थेन गदाभृता ॥ १० ॥
भवत् विधाः भागवताः तीर्थ भूताः स्वयम् विभो तीर्थी-कुर्वन्ति तीर्थानि स्व-अन्तः-स्थेन गदा-भृता
अपि न: सुहृदस्तात बान्धवा: कृष्णदेवता: ।
दृष्टा: श्रुता वा यदव: स्वपुर्यां सुखमासते ॥ ११ ॥
अपि नः सुहृदः तात बान्धवाः कृष्ण-देवताः दृष्टाः श्रुताः वा यदवः स्व-पुर्याम् सुखम् आसते
इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।
यथानुभूतं
क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥
इति उक्तः धर्म-राजेन सर्वम् तत् समवर्णयत् यथा-अनुभूतम् क्रमशः विना यदु-कुल-क्षयम्
नन्वप्रियं दुर्विषहं नृणां
स्वयमुपस्थितम् ।
नावेदयत् सकरुणो दु:खितान् द्रष्टुमक्षम: ॥ १३ ॥
ननु अप्रियम् दुर्विषहम् नृणाम् स्वयम् उपस्थितम् न आवेदयत् सकरुणः दुःखितान् द्रष्टुम् अक्षमः
कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम् ।
भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां सुखमावहन् ॥ १४ ॥
कञ्चित् कालम् अथ अवात्सीत् सत्-कृतः देव-वत् सुखम् भ्रातुः ज्येष्ठस्य श्रेयः-कृत् सर्वेषाम् सुखम् आवहन्
अबिभ्रदर्यमा दण्डं यथावदघकारिषु ।
यावद्दधार शूद्रत्वं शापाद्वर्षशतं यम: ॥ १५ ॥
अबिभ्रत् अर्यमा दण्डम् यथावत् अघ-कारिषु यावत् दधार शूद्रत्वम् शापात् वर्ष-शतम् यमः
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।
भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६ ॥
युधिष्ठिरः लब्ध-राज्यः दृष्ट्वा पौत्रम् कुलम्-धरम् भ्रातृभिः लोक-पालाभैः मुमुदे परया श्रिया
एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।
अत्यक्रामदविज्ञात: काल: परमदुस्तर: ॥ १७ ॥
एवम् गृहेषु सक्तानाम् प्रमत्तानाम् तत्-ईहया अत्यक्रामत् अविज्ञातः कालः परम दुस्तरः
विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।
राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥
विदुरः तत् अभिप्रेत्य धृतराष्ट्रम् अभाषत राजन् निर्गम्यताम् शीघ्रम् पश्य इदम् भयम् आगतम्
प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो ।
स एष भगवान् काल: सर्वेषां न: समागत: ॥ १९ ॥
प्रतिक्रिया न यस्य इह कुतश्चित् कर्हिचित् प्रभो सः एषः भगवान् कालः सर्वेषाम् नः समागतः
येन चैवाभिपन्नोऽयं प्राणै: प्रियतमैरपि ।
जन: सद्यो वियुज्येत किमुतान्यैर्धनादिभि: ॥ २० ॥
येन च एव अभिपन्नः अयम् प्राणैः प्रिय-तमैः अपि जनः सद्यः वियुज्येत किम् उत अन्यैः धन-आदिभिः
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् ।
आत्मा च जरया ग्रस्त: परगेहमुपाससे ॥ २१ ॥
पितृ भ्रातृ सुहृत् पुत्राः हताः ते विगतम् वयम् आत्मा च जरया ग्रस्तः पर-गेहम् उपाससे
अन्ध: पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् ।
विशीर्णदन्तो मन्दाग्नि: सराग: कफमुद्वहन् ॥ २२ ॥
अन्धः पुरा एव वधिरः मन्द-प्रज्ञाः च साम्प्रतम् विशीर्ण दन्तः मन्द-अग्निः स-रागः कफम् उद्वहन्
अहो महीयसी जन्तोर्जीविताशा यथा भवान् ।
भीमापवर्जितं
पिण्डमादत्ते गृहपालवत् ॥ २३ ॥
अहो महीयसी जन्तोः जीवित-आशा यथा भवान् भीम अपवर्जितम् पिण्डम् आदत्ते गृह-पाल-वत्
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च
दूषिता: ।
हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभि: कियत् ॥ २४ ॥
अग्निः निसृष्टः दत्तः च गरः दाराः च दूषिताः हृतम् क्षेत्रम् धनम् येषाम् तत् दत्तैः असुभिः कियत्
तस्यापि तव देहोऽयं कृपणस्य जिजीविषो: ।
परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २५ ॥
तस्य अपि तव देहः अयम् कृपणस्य जिजीविषोः परैति अनिच्छतः जीर्णः जरया वाससी इव
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धन: ।
अविज्ञातगतिर्जह्यात् स वै धीर उदाहृत: ॥ २६ ॥
गत-स्व-अर्थम् इमम् देहम् विरक्तः मुक्त बन्धनः अविज्ञात-गतिः जह्यात् सः वै धीरः उदाहृतः
य: स्वकात्परतो वेह जातनिर्वेद आत्मवान् ।
हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तम: ॥ २७ ॥
यः स्वकात् परतः वा इह जात निर्वेदः आत्मवान् हृदि कृत्वा हरिम् गेहात् प्रव्रजेत् सः नर-उत्तमः
अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।
इतोऽर्वाक्प्रायश: काल: पुंसां गुणविकर्षण: ॥ २८ ॥
अथ उदीचीम् दिशम् यातु स्वैः अज्ञात गतिः भवान् इतः अर्वाक् प्रायशः कालः पुंसाम् गुण विकर्षणः
एवं राजा विदुरेणानुजेन
प्रज्ञाचक्षुर्बोधित आजमीढ: ।
छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो
निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २९ ॥
एवम् राजा विदुरेण अनुजेन प्रज्ञा चक्षुः बोधितः आजमीढः छित्त्वा स्वेषु स्नेह-पाशान् द्रढिम्नः निश्चक्राम भ्रातृ सन्दर्शित अध्वा
पतिं प्रयान्तं सुबलस्य पुत्री
पतिव्रता चानुजगाम साध्वी ।
हिमालयं न्यस्तदण्डप्रहर्षं
मनस्विनामिव सत्सम्प्रहार: ॥ ३० ॥
पतिम् प्रयान्तम् सुबलस्य पुत्री पति-व्रता च अनुजगाम साध्वी हिमालयम् न्यस्त-दण्ड प्रहर्षम् मनस्विनाम् इव सत् सम्प्रहारः
अजातशत्रु: कृतमैत्रो हुताग्नि-
र्विप्रान्नत्वा
तिलगोभूमिरुक्मै: ।
गृहं प्रविष्टो गुरुवन्दनाय
न चापश्यत्पितरौ
सौबलीं च ॥ ३१ ॥
अजात शत्रुः कृत मैत्रः हुत-अग्निः विप्रान् नत्वा तिल-गो-भूमि-रुक्मैः गृहम् प्रविष्टः गुरु-वन्दनाय न च अपश्यत् पितरौ सौबलीम् च
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानस: ।
गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयो: ॥ ३२ ॥
तत्र सञ्जयम् आसीनम् पप्रच्छ उद्विग्न-मानसः गावल्गणे क्व नः तातः वृद्धः हीनः च नेत्रयोः
अम्बा च हतपुत्रार्ता पितृव्य: क्व गत: सुहृत् ।
अपि मय्यकृतप्रज्ञे हतबन्धु: स भार्यया ।
आशंसमान: शमलं गङ्गायां दु:खितोऽपतत् ॥ ३३ ॥
अम्बा च हत-पुत्रा आर्ता पितृव्यः क्व गतः सुहृत् अपि मयि अकृत-प्रज्ञे हत-बन्धुः सः भार्यया आशंसमानः शमलम् गङ्गायाम् दुःखितः अपतत्
पितर्युपरते पाण्डौ सर्वान्न: सुहृद: शिशून् ।
अरक्षतां व्यसनत: पितृव्यौ क्व गतावित: ॥ ३४ ॥
पितरि उपरते पाण्डौ सर्वान् नः सुहृदः शिशून् अरक्षताम् व्यसनतः पितृव्यौ क्व गतौ इतः
सूत उवाच
कृपया स्नेडहवैक्लव्यात्सूतो विरहकर्शित: ।
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडित: ॥ ३५ ॥
सूतः उवाच कृपया स्नेह-वैक्लव्यात् सूतः विरह-कर्शितः आत्म-ईश्वरम् अचक्षाणः न प्रत्याह अति-पीडितः
विमृज्याश्रूणि पाणिभ्यां
विष्टभ्यात्मानमात्मना ।
अजातशत्रुं प्रत्यूचे प्रभो: पादावनुस्मरन् ॥ ३६ ॥
विमृज्य अश्रूणि पाणिभ्याम् विष्टभ्य आत्मानम् आत्मना अजात-शत्रुम् प्रत्यूचे प्रभोः पादौ अनुस्मरन्
सञ्जय उवाच
नाहं वेद व्यवसितं पित्रोर्व: कुलनन्दन ।
गान्धार्या
वा महाबाहो मुषितोऽस्मि महात्मभि: ॥ ३७ ॥
सञ्जयः उवाच न अहम् वेद व्यवसितम् पित्रोः वः कुल-नन्दन गान्धार्याः वा महा-बाहो मुषितः अस्मि महा-आत्मभिः
अथाजगाम भगवान् नारद: सहतुम्बुरु: ।
प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्मुनिम् ॥ ३८ ॥
अथ आजगाम भगवान् नारदः सह-तुम्बुरुः प्रत्युत्थाय अभिवाद्य आह स-अनुजः अभ्यर्चयन् मुनिम्
युधिष्ठिर उवाच
नाहं वेद गतिं पित्रोर्भगवन् क्व
गतावित: ।
अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ ३९ ॥
युधिष्ठिरः उवाच न अहम् वेद गतिम् पित्रोः भगवन् क्व गतौ इतः अम्बा वा हत-पुत्रा आर्ता क्व गता च तपस्विनी
कर्णधार इवापारे भगवान् पारदर्शक: ।
अथाबभाषे
भगवान् नारदो मुनिसत्तम: ॥ ४० ॥
कर्ण-धारः इव अपारे भगवान् पार-दर्शकः अथ आबभाषे भगवान् नारदः मुनि-सत्-तमः
नारद उवाच
मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।
लोका: सपाला यस्येमे वहन्ति बलिमीशितु: ।
स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४१ ॥
नारदः उवाच मा कञ्चन शुचः राजन् यत् ईश्वर-वशम् जगत् लोकाः स-पालाः यस्य इमे वहन्ति बलिम् ईशितुः सः संयुनक्ति भूतानि सः एव वियुनक्ति च
यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभि: ।
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितु: ॥ ४२ ॥
यथा गावः नसि प्रोताः तन्त्याम् बद्धाः च दामभिः वाक्-तन्त्याम् नामभिः बद्धाः वहन्ति बलिम् ईशितुः
यथा क्रीडोपस्कराणां संयोगविगमाविह ।
इच्छया क्रीडितु: स्यातां तथैवेशेच्छया नृणाम् ॥ ४३ ॥
यथा क्रीड-उपस्कराणाम् संयोग विगमौ इह इच्छया क्रीडितुः स्याताम् तथा एव ईश इच्छया नृणाम्
यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥
यत् मन्यसे ध्रुवम् लोकम् अध्रुवम् वा न च उभयम् सर्वथा न हि शोच्याः ते स्नेहात् अन्यत्र मोह-जात्
तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मन: ।
कथं त्वनाथा: कृपणा वर्तेरंस्ते च मां विना ॥ ४५ ॥
तस्मात् जहि अङ्ग वैक्लव्यम् अज्ञान कृतम् आत्मनः कथम् तु अनाथाः कृपणाः वर्तेरन् ते च माम् विना
कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिक: ।
कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥ ४६ ॥
काल कर्म गुण अधीनः देहः अयम् पाञ्च-भौतिकः कथम् अन्यान् तु गोपायेत् सर्प-ग्रस्तः यथा परम्
अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४७ ॥
अहस्तानि स-हस्तानाम् अपदानि चतुः-पदाम् फल्गूनि तत्र महताम् जीवः जीवस्य जीवनम्
तदिदं भगवान् राजन्नेक आत्मात्मनां स्वदृक् ।
अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४८ ॥
तत् इदम् भगवान् राजन् एकः आत्मा आत्मनाम् स्व-दृक् अन्तरः अनन्तरः भाति पश्य तम् मायया उरुधा
सोऽयमद्य महाराज भगवान् भूतभावन: ।
कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४९ ॥
सः अयम् अद्य महाराज भगवान् भूत-भावनः काल-रूपः अवतीर्णः अस्याम् अभावाय सुर-द्विषाम्
निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।
तावद् यूयमवेक्षध्वं भवेद् यावदिहेश्वर: ॥ ५० ॥
निष्पादितम् देव-कृत्यम् अवशेषम् प्रतीक्षते तावत् यूयम् अवेक्षध्वम् भवेत् यावत् इह ईश्वरः
धृतराष्ट्र: सह भ्रात्रा गान्धार्या च स्वभार्यया ।
दक्षिणेन हिमवत ऋषीणामाश्रमं गत: ॥ ५१ ॥
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्व-भार्यया दक्षिणेन हिमवतः ऋषीणाम् आश्रमम् गतः
स्रोतोभि: सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।
सप्तानां प्रीतये नाना सप्तस्रोत: प्रचक्षते ॥ ५२ ॥
स्रोतोभिः सप्तभिः या वै स्वर्धुनी सप्तधा व्यधात् सप्तानाम् प्रीतये नाना सप्त-स्रोतः प्रचक्षते
स्नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि ।
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषण: ॥ ५३ ॥
स्नात्वा अनुसवनम् तस्मिन् हुत्वा च अग्नीन् यथा-विधि अप्-भक्षः उपशान्त आत्मा सः आस्ते विगत एषणः
जितासनो जितश्वास: प्रत्याहृतषडिन्द्रिय: ।
हरिभावनया ध्वस्तरज:सत्त्वतमोमल: ॥ ५४ ॥
जित-आसनः जित-श्वासः प्रत्याहृत षट् इन्द्रियः हरि भावनया ध्वस्त रजः सत्त्व तमः मलः
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥
विज्ञान आत्मनि संयोज्य क्षेत्र-ज्ञे प्रविलाप्य तम् ब्रह्मणि आत्मानम् आधारे घट-अम्बरम् इव अम्बरे
ध्वस्तमायागुणोदर्को निरुद्धकरणाशय: ।
निवर्तिताखिलाहार आस्ते स्थाणुरिवाचल: ।
तस्यान्तरायो मैवाभू: सन्न्यस्ताखिलकर्मण: ॥ ५६ ॥
ध्वस्त माया-गुण उदर्कः निरुद्ध करण-आशयः निवर्तित अखिल आहारः आस्ते स्थाणुः इव अचलः तस्य अन्तरायः मा एव अभूः सन्न्यस्त अखिल कर्मणः
स वा अद्यतनाद् राजन् परत: पञ्चमेऽहनि ।
कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५७ ॥
सः वा अद्य तनात् राजन् परतः पञ्चमे अहनि कलेवरम् हास्यति स्वम् तत् च भस्मी भविष्यति
दह्यमानेऽग्निभिर्देहे पत्यु: पत्नी सहोटजे ।
बहि: स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५८ ॥
दह्यमाने अग्निभिः देहे पत्युः पत्नी सह-उटजे बहिः स्थिता पतिम् साध्वी तम् अग्निम् अनु वेक्ष्यति
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।
हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवक: ॥ ५९ ॥
विदुरः तु तत् आश्चर्यम् निशाम्य कुरु-नन्दन हर्ष शोक युतः तस्मात् गन्ता तीर्थ निषेवकः
इत्युक्त्वाथारुहत् स्वर्गं नारद: सहतुम्बुरु: ।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुच: ॥ ६० ॥
इति उक्त्वा अथ आरुहत् स्वर्गम् नारदः सह तुम्बुरुः युधिष्ठिरः वचः तस्य हृदि कृत्वा अजहात् शुचः
१.१४
सूत उवाच
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥
सूतः उवाच सम्प्रस्थिते द्वारकायाम् जिष्णौ बन्धु दिदृक्षया ज्ञातुम् च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम्
व्यतीता: कतिचिन्मासास्तदा नायात्ततोऽर्जुन: ।
ददर्श घोररूपाणि निमित्तानि कुरूद्वह: ॥ २ ॥
व्यतीताः कतिचित् मासाः तदा न आयात् ततः अर्जुनः ददर्श घोर रूपाणि निमित्तानि कुरु-उद्वहः
कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिण: ।
पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥
कालस्य च गतिम् रौद्राम् विपर्यस्त ऋतु धर्मिणः पापीयसीम् नृणाम् वार्ताम् क्रोध लोभ अनृत आत्मनाम्
जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् ।
पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ ४ ॥
जिह्म-प्रायम् व्यवहृतम् शाठ्य मिश्रम् च सौहृदम् पितृ मातृ सुहृत् भ्रातृ दम्-पतीनाम् च कल्कनम्
निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् ।
लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृप: ॥ ५ ॥
निमित्तानि अति अरिष्टानि काले तु अनुगते नृणाम् लोभ-आदि अधर्म प्रकृतिम् दृष्ट्वा उवाच अनुजम् नृपः
युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षया ।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥
युधिष्ठिरः उवाच सम्प्रेषितः द्वारकायाम् जिष्णुः बन्धु दिदृक्षया ज्ञातुम् च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम्
गता: सप्ताधुना मासा भीमसेन तवानुज: ।
नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७ ॥
गताः सप्त अधुना मासाः भीमसेन तव अनुजः न आयाति कस्य वा हेतोः न अहम् वेद इदम् अञ्जसा
अपि देवर्षिणादिष्ट: स कालोऽयमुपस्थित: ।
यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥
अपि देव-ऋषिणा आदिष्टः सः कालः अयम् उपस्थितः यदा आत्मनः अङ्गम् आक्रीडम् भगवान् उत्सिसृक्षति
यस्मान्न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: ।
आसन्सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥
यस्मात् नः सम्पदः राज्यम् दाराः प्राणाः कुलम् प्रजाः आसन् सपत्न विजयः लोकाः च यत् अनुग्रहात्
पश्योत्पातान्नरव्याघ्र दिव्यान् भौमान् सदैहिकान् ।
दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥ १० ॥
पश्य उत्पातान् नर-व्याघ्र दिव्यान् भौमान् स-दैहिकान् दारुणान् शंसतः अदूरात् भयम् नः बुद्धि मोहनम्
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुन: पुन: ।
वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११ ॥
ऊरु अक्षि बाहवः मह्यम् स्फुरन्ति अङ्ग पुनः पुनः वेपथुः च अपि हृदये आरात् दास्यन्ति विप्रियम्
शिवैषोद्यन्तमादित्यमभिरौत्यनलानना ।
मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् ॥ १२ ॥
शिवा एषा उद्यन्तम् आदित्यम् अभि रौति अनल आनना माम् अङ्ग सारमेयः अयम् अभिरेभति अभीरु-वत्
शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।
वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥
शस्ताः कुर्वन्ति माम् सव्यम् दक्षिणम् पशवः अपरे वाहान् च पुरुष-व्याघ्र लक्षये रुदतः मम
मृत्युदूत: कपोतोऽयमुलूक: कम्पयन् मन: ।
प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छत: ॥ १४ ॥
मृत्यु दूतः कपोतः अयम् उलूकः कम्पयन् मनः प्रत्युलूकः च कुह्वानैः विश्वम् वै शून्यम् इच्छतः
धूम्रा दिश: परिधय: कम्पते भू: सहाद्रिभि: ।
निर्घातश्च महांस्तात साकं च स्तनयित्नुभि: ॥ १५ ॥
धूम्राः दिशः परिधयः कम्पते भूः सह अद्रिभिः निर्घातः च महान् तात साकम् च स्तनयित्नुभिः
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तम: ।
असृग् वर्षन्ति जलदा बीभत्समिव सर्वत: ॥ १६ ॥
वायुः वाति खर-स्पर्शः रजसा विसृजन् तमः असृक् वर्षन्ति जलदाः बीभत्सम् इव सर्वतः
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।
ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ १७ ॥
सूर्यम् हत-प्रभम् पश्य ग्रह-मर्दम् मिथः दिवि स-सङ्कुलैः भूत-गणैः ज्वलिते इव रोदसी
नद्यो नदाश्च क्षुभिता: सरांसि च मनांसि च ।
न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥
नद्यः नदाः च क्षुभिताः सरांसि च मनांसि च न ज्वलति अग्निः आज्येन कालः अयम् किम् विधास्यति
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातर: ।
रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ १९ ॥
न पिबन्ति स्तनम् वत्साः न दुह्यन्ति च मातरः रुदन्ति अश्रु-मुखाः गावः न हृष्यन्ति ऋषभाः व्रजे
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।
इमे जनपदा ग्रामा: पुरोद्यानाकराश्रमा: ।
भ्रष्टश्रियो निरानन्दा: किमघं दर्शयन्ति न: ॥ २० ॥
दैवतानि रुदन्ति इव स्विद्यन्ति हि उच्चलन्ति च इमे जन-पदाः ग्रामाः पुर उद्यान आकर आश्रमाः भ्रष्ट श्रियः निरानन्दाः किम् अघम् दर्शयन्ति नः
मन्य एतैर्महोत्पातैर्नूनं भगवत: पदै: ।
अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ २१ ॥
मन्ये एतैः महा उत्पातैः नूनम् भगवतः पदैः अनन्य पुरुष श्रीभिः हीना भूः हत-सौभगा
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।
राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥
इति चिन्तयतः तस्य दृष्टा अरिष्टेन चेतसा राज्ञः प्रति आगमत् ब्रह्मन् यदु-पुर्याः कपि-ध्वजः
तं पादयोर्निपतितमयथापूर्वमातुरम् ।
अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयो: ॥ २३ ॥
तम् पादयोः निपतितम् अयथा-पूर्वम् आतुरम् अधः-वदनम् अप्-बिन्दून् सृजन्तम् नयन-अब्जयोः
विलोक्योद्विग्नहृदयो विच्छायमनुजं नृप: ।
पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् ॥ २४ ॥
विलोक्य उद्विग्न हृदयः विच्छायम् अनुजम् नृपः पृच्छति स्म सुहृत् मध्ये संस्मरन् नारद ईरितम्
युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते ।
मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥
युधिष्ठिरः उवाच कच्चित् आनर्त-पुर्याम् नः स्व-जनाः सुखम् आसते मधु भोज दशार्ह अर्ह सात्वत अन्धक वृष्णयः
शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: ।
मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥
शूरः मातामहः कच्चित् स्वस्ति आस्ते वा अथ मारिषः मातुलः स-अनुजः कच्चित् कुशली आनक-दुन्दुभिः
सप्त स्वसारस्तत्पत्न्यो मातुलान्य: सहात्मजा: ।
आसते सस्नुषा: क्षेमं देवकीप्रमुखा: स्वयम् ॥ २७ ॥
सप्त स्व-सारः तत्-पत्न्यः मातुलान्यः सह आत्म-जाः आसते सस्नुषाः क्षेमम् देवकी प्रमुखाः स्वयम्
कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुज: ।
हृदीक: ससुतोऽक्रूरो जयन्तगदसारणा: ॥ २८ ॥
आसते कुशलं कच्चिद्ये च शत्रुजिदादय: ।
कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥ २९ ॥
कच्चित् राजा आहुकः जीवति असत् पुत्रः अस्य च अनुजः हृदीकः स-सुतः अक्रूरः जयन्त गद सारणाः आसते कुशलम् कच्चित् ये च शत्रुजित् आदयः कच्चित् आस्ते सुखम् रामः भगवान् सात्वताम् प्रभुः
प्रद्युम्न: सर्ववृष्णीनां सुखमास्ते महारथ: ।
गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥
प्रद्युम्नः सर्व वृष्णीनाम् सुखम् आस्ते महा-रथः गम्भीर रयः अनिरुद्धः वर्धते भगवान् उत
सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुत: ।
अन्ये च कार्ष्णिप्रवरा: सपुत्रा ऋषभादय: ॥ ३१ ॥
सुषेणः चारुदेष्णः च साम्बः जाम्बवती-सुतः अन्ये च कार्ष्णि प्रवराः स-पुत्राः ऋषभ आदयः
तथैवानुचरा: शौरे: श्रुतदेवोद्धवादय: ।
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा: ॥ ३२ ॥
अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रया: ।
अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदा: ॥ ३३ ॥
तथा एव अनुचराः शौरेः श्रुतदेव उद्धव-आदयः सुनन्द नन्द शीर्षण्याः ये च अन्ये सात्वत ऋषभाः अपि स्वस्ति आसते सर्वे राम कृष्ण भुज-आश्रयाः अपि स्मरन्ति कुशलम् अस्माकम् बद्ध-सौहृदाः
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सल: ।
कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृत: ॥ ३४ ॥
भगवान् अपि गोविन्दः ब्रह्मण्यः भक्त-वत्सलः कच्चित् पुरे सुधर्मायाम् सुखम् आस्ते सुहृत्-वृतः
मङ्गलाय च लोकानां क्षेमाय च भवाय च ।
आस्ते यदुकुलाम्भोधावाद्योऽनन्तसख: पुमान् ॥ ३५ ॥
यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: ।
क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥
मङ्गलाय च लोकानाम् क्षेमाय च भवाय च आस्ते यदु-कुल-अम्भोधौ आद्यः अनन्त-सखः पुमान् यत् बाहु-दण्ड-गुप्तायाम् स्व-पुर्याम् यदवः अर्चिताः क्रीडन्ति परम-आनन्दम् महा-पौरुषिकाः इव
यत्पादशुश्रूषणमुख्यकर्मणा
सत्यादयो द्व्यष्टसहस्रयोषित: ।
निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो
हरन्ति वज्रायुधवल्लभोचिता: ॥ ३७ ॥
यत् पाद शुश्रूषण मुख्य कर्मणा सत्य-आदयः द्वि-अष्ट सहस्र योषितः निर्जित्य सङ्ख्ये त्रि-दशान् तत्-आशिषः हरन्ति वज्र-आयुध-वल्लभा उचिताः
यद्बाहुदण्डाभ्युदयानुजीविनो
यदुप्रवीरा ह्यकुतोभया मुहु: ।
अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात्
सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥
यत् बाहु-दण्ड अभ्युदय अनुजीविनः यदु प्रवीराः हि अकुतोभयाः मुहुः अधिक्रमन्ति अङ्घ्रिभिः आहृताम् बलात् सभाम् सुधर्माम् सुर-सत्-तम उचिताम्
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।
अलब्धमानोऽवज्ञात: किं वा तात चिरोषित: ॥ ३९ ॥
कच्चित् ते अनामयम् तात भ्रष्ट तेजाः विभासि मे अलब्ध-मानः अवज्ञातः किम् वा तात चिरोषितः
कच्चिन्नाभिहतोऽभावै: शब्दादिभिरमङ्गलै: ।
न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥
कच्चित् न अभिहतः अभावैः शब्द-आदिभिः अमङ्गलैः न दत्तम् उक्तम् अर्थिभ्यः आशया यत् प्रतिश्रुतम्
कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।
शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥
कच्चित् त्वम् ब्राह्मणम् बालम् गाम् वृद्धम् रोगिणम् स्त्रियम् शरण-उपसृतम् सत्त्वम् न अत्याक्षीः शरण-प्रदः
कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् ।
पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥
कच्चित् त्वम् न अगमः अगम्याम् गम्याम् वा असत्-कृताम् स्त्रियम् पराजितः वा अथ भवान् न उत्तमैः न असमैः पथि
अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् ।
जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम् ॥ ४३ ॥
अपि स्वित् पर्य भुङ्क्थाः त्वम् सम्भोज्यान् वृद्ध बालकान् जुगुप्सितम् कर्म किञ्चित् कृतवान् न यत् अक्षमम्
कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।
शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥
कच्चित् प्रेष्ठ-तमेन अथ हृदयेन आत्म-बन्धुना शून्यः अस्मि रहितः नित्यम् मन्यसे ते अन्यथा न रुक्
१.१५
सूत उवाच
एवं कृष्णसख: कृष्णो भ्रात्रा राज्ञा विकल्पित: ।
नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शित: ॥ १ ॥
सूतः उवाच एवम् कृष्ण-सखः कृष्णः भ्रात्रा राज्ञा विकल्पितः नाना शङ्क-आस्पदम् रूपम् कृष्ण विश्लेष कर्शितः
शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभ: ।
विभुं तमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम् ॥ २ ॥
शोकेन शुष्यत्-वदन हृत्-सरोजः हत प्रभः विभुम् तम् एव अनुस्मरन् न अशक्नोत् प्रतिभाषितुम्
कृच्छ्रेण संस्तभ्य शुच: पाणिनामृज्य नेत्रयो: ।
परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातर: ॥ ३ ॥
कृच्छ्रेण संस्तभ्य शुचः पाणिना आमृज्य नेत्रयोः परोक्षेण समुन्नद्ध प्रणय-औत्कण्ठ्य कातरः
सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ ४ ॥
सख्यम् मैत्रीम् सौहृदम् च सारथ्य-आदिषु संस्मरन् नृपम् अग्रजम् इति आह बाष्प गद्गदया गिरा
अर्जुन उवाच
वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।
येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५ ॥
अर्जुनः उवाच वञ्चितः अहम् महा-राज हरिणा बन्धु-रूपिणा येन मे अपहृतम् तेजः देव विस्मापनम् महत्
यस्य क्षणवियोगेन लोको ह्यप्रियदर्शन: ।
उक्थेन रहितो ह्येष मृतक: प्रोच्यते यथा ॥ ६ ॥
यस्य क्षण वियोगेन लोकः हि अप्रिय-दर्शनः उक्थेन रहितः हि एषः मृतकः प्रोच्यते यथा
यत्संश्रयाद् द्रुपदगेहमुपागतानां
राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।
तेजो हृतं खलु मयाभिहतश्च मत्स्य:
सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ ७ ॥
यत् संश्रयात् द्रुपद-गेहम् उपागतानाम् राज्ञाम् स्वयंवर-मुखे स्मर-दुर्मदानाम् तेजः हृतम् खलु मया अभिहतः च मत्स्यः सज्जी-कृतेन धनुषा अधिगता च कृष्णा
यत्सन्निधावहमु खांडवमग्नयेऽदा-
मिन्द्रं च सामरगणं तरसा विजित्य ।
लब्धा सभा मयकृताद्भुतशिल्पमाया
दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥
यत् सन्निधौ अहम् उ खाण्डवम् अग्नये अदाम् इन्द्रम् च स अमर-गणम् तरसा विजित्य लब्धा सभा मय-कृता अद्भुत शिल्प माया दिग्भ्यः अहरन् नृपतयः बलिम् अध्वरे ते
यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थम्
आर्योऽनुजस्तव गजायुतसत्त्ववीर्य: ।
तेनाहृता: प्रमथनाथमखाय भूपा
यन्मोचितास्तदनयन्बलिमध्वरे ते ॥ ९ ॥
यत् तेजसा नृप-शिरः-अङ्घ्रिम् अहन् मख-अर्थम् आर्यः अनुजः तव गज-अयुत सत्त्व-वीर्यः तेन आहृताः प्रमथ-नाथ मखाय भूपाः यत्-मोचिताः तत्-अनयन् बलिम् अध्वरे ते
पत्न्यास्तवाधिमखक्लृप्तमहाभिषेक-
श्लाघिष्ठचारुकबरं कितवै: सभायाम् ।
स्पृष्टं विकीर्य पदयो: पतिताश्रुमुख्या
यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशा: ॥ १० ॥
पत्न्याः तव अधिमख कॢप्त महा-अभिषेक श्लाघिष्ठ चारु कबरम् कितवैः सभायाम् स्पृष्टम् विकीर्य पदयोः पतित-अश्रु-मुख्याः यः तत् स्त्रियः अकृत हत-ईश विमुक्त-केशाः
यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद्
दुर्वाससोऽरिरचितादयुताग्रभुग् य: ।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं
तृप्ताममंस्त सलिले विनिमग्नसङ्घ: ॥ ११ ॥
यः नः जुगोप वने एत्य दुरन्त कृच्छ्रात् दुर्वाससः अरि रचितात् अयुत अग्र-भुक् यः शाक-अन्न-शिष्टम् उपयुज्य यतः त्रि-लोकीम् तृप्ताम् अमंस्त सलिले विनिमग्न-सङ्घः
यत्तेजसाथ भगवान् युधि शूलपाणि-
र्विस्मापित: सगिरिजोऽस्त्रमदान्निजं मे ।
अन्येऽपि चाहममुनैव कलेवरेण
प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ १२ ॥
यत् तेजसा अथ भगवान् युधि शूल-पाणिः विस्मापितः स-गिरिजः अस्त्रम् अदात् निजम् मे अन्ये अपि च अहम् अमुना एव कलेवरेण प्राप्तः महा-इन्द्र-भवने महत् आसन-अर्धम्
तत्रैव मे विहरतो भुजदण्डयुग्मं
गाण्डीवलक्षणमरातिवधाय देवा: ।
सेन्द्रा: श्रिता यदनुभावितमाजमीढ
तेनाहमद्य मुषित: पुरुषेण भूम्ना ॥ १३ ॥
तत्र एव मे विहरतः भुज-दण्ड-युग्मम् गाण्डीव लक्षणम् अराति वधाय देवाः स इन्द्राः श्रिताः यत् अनुभावितम् आजमीढ तेन अहम् अद्य मुषितः पुरुषेण भूम्ना
यद्बान्धव: कुरुबलाब्धिमनन्तपार-
मेको रथेन ततरेऽहमतीर्यसत्त्वम् ।
प्रत्याहृतं बहु धनं च मया परेषां
तेजास्पदं मणिमयं च हृतं शिरोभ्य: ॥ १४ ॥
यत्-बान्धवः कुरु-बल-अब्धिम् अनन्त-पारम् एकः रथेन ततरे अहम् अतीर्य सत्त्वम् प्रत्याहृतम् बहु धनम् च मया परेषाम् तेजाः-पदम् मणि-मयम् च हृतम् शिरोभ्यः
यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र-
राजन्यवर्यरथमण्डलमण्डितासु ।
अग्रेचरो मम विभो रथयूथपाना-
मायुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ १५ ॥
यः भीष्म कर्ण गुरु शल्य चमूषु अदभ्र राजन्य-वर्य रथ-मण्डल मण्डितासु अगेचरः मम विभो रथ-यूथ-पानाम् आयुः मनांसि च दृशा सहः ओजः आर्च्छत्
यद्दो:षु मा प्रणिहितं गुरुभीष्मकर्ण-
नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यै: ।
अस्त्राण्यमोघमहिमानि निरूपितानि
नोपस्पृशुर्नृहरिदासमिवासुराणि ॥ १६ ॥
यत् दोःषु मा प्रणिहितम् गुरु भीष्म कर्ण नप्तृ त्रिगर्त शल्य सैन्धव बाह्लिक आद्यैः अस्त्राणि अमोघ महिमानि निरूपितानि न उपस्पृशुः नृहरि-दासम् इव असुराणि
सौत्ये वृत: कुमतिनात्मद ईश्वरो मे
यत्पादपद्ममभवाय भजन्ति भव्या: ।
मां श्रान्तवाहमरयो रथिनो भुविष्ठं
न प्राहरन् यदनुभावनिरस्तचित्ता: ॥ १७ ॥
सौत्ये वृतः कुमतिना आत्म-दः ईश्वरः मे यत् पाद-पद्मम् अभवाय भजन्ति भव्याः माम् श्रान्त वाहम् अरयः रथिनः भुवि-ष्ठम् न प्राहरन् यत् अनुभाव निरस्त चित्ताः
नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।
सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८ ॥
नर्माणि उदार रुचिर स्मित-शोभितानि हे पार्थ हे अर्जुन सखे कुरु-नन्दन इति सञ्जल्पितानि नर-देव हृदि स्पृशानि स्मर्तुः लुठन्ति हृदयम् मम माधवस्य
शय्यासनाटनविकत्थनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्ध: ।
सख्यु: सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे ॥ १९ ॥
शय्य आसन अटन विकत्थन भोजन आदिषु ऐक्यात् वयस्य ऋतवान् इति विप्रलब्धः सख्युः सखा इव पितृवत् तनयस्य सर्वम् सेहे महान् महितया कुमतेः अघम् मे
सोऽहं नृपेन्द्र रहित: पुरुषोत्तमेन
सख्या प्रियेण सुहृदा हृदयेन शून्य: ।
अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्
गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ॥ २० ॥
सः अहम् नृप-इन्द्र रहितः पुरुष-उत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः अध्वनि उरुक्रम-परिग्रहम् अङ्ग रक्षन् गोपैः असद्भिः अबला इव विनिर्जितः अस्मि
तद्वै धनुस्त इषव: स रथो हयास्ते
सोऽहं रथी नृपतयो यत आनमन्ति ।
सर्वं क्षणेन तदभूदसदीशरिक्तं
भस्मन्हुतं कुहकराद्धमिवोप्तमूष्याम् ॥ २१ ॥
तत् वै धनुः ते इषवः सः रथः हयाः ते सः अहम् रथी नृपतयः यतः आनमन्ति सर्वम् क्षणेन तत् अभूत् असत् ईश रिक्तम् भस्मन् हुतम् कुहक-राद्धम् इव उप्तम् ऊष्याम्
राजंस्त्वयानुपृष्टानां सुहृदां न: सुहृत्पुरे ।
विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथ: ॥ २२ ॥
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।
अजानतामिवान्योन्यं चतु:पञ्चावशेषिता: ॥ २३ ॥
राजन् त्वया अनुपृष्टानाम् सुहृदाम् नः सुहृत्-पुरे विप्र शाप विमूढानाम् निघ्नताम् मुष्टिभिः मिथः वारुणीम् मदिराम् पीत्वा मद-उन्मथित चेतसाम् अजानताम् इव अन्योन्यम् चतुः पञ्च अवशेषिताः
प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् ।
मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथ: ॥ २४ ॥
प्रायेण एतत् भगवतः ईश्वरस्य विचेष्टितम् मिथः निघ्नन्ति भूतानि भावयन्ति च यत् मिथः
जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयस: ।
दुर्बलान्बलिनो राजन्महान्तो बलिनो मिथ: ॥ २५ ॥
एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभु: ।
यदून्यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ २६ ॥
जलौकसाम् जले यद्वत् महान्तः अदन्ति अणीयसः दुर्बलान् बलिनः राजन् महान्तः बलिनः मिथः एवम् बलिष्ठैः यदुभिः महद्भिः इतरान् विभुः यदून् यदुभिः अन्योन्यम् भू-भारान् सञ्जहार ह
देशकालार्थयुक्तानि हृत्तापोपशमानि च ।
हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७ ॥
देश काल अर्थ युक्तानि हृत् ताप उपशमानि च हरन्ति स्मरतः चित्तम् गोविन्द अभिहितानि मे
सूत उवाच
एवं चिन्तयतो जिष्णो: कृष्णपादसरोरुहम् ।
सौहार्देनातिगाढेन शान्तासीद्विमला मति: ॥ २८ ॥
सूतः उवाच एवम् चिन्तयतः जिष्णोः कृष्ण-पाद सरोरुहम् सौहार्देन अति-गाढेन शान्ता आसीत् विमला मतिः
वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा ।
भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुन: ॥ २९ ॥
वासुदेव-अङ्घ्रि अनुध्यान परिबृंहित रंहसा भक्त्या निर्मथित अशेष कषाय धिषणः अर्जुनः
गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि ।
कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभु: ॥ ३० ॥
गीतम् भगवता ज्ञानम् यत् तत् सङ्ग्राम-मूर्धनि काल-कर्म तमः-रुद्धम् पुनः अध्यगमत् प्रभुः
विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशय: ।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भव: ॥ ३१ ॥
विशोकः ब्रह्म-सम्पत्त्या सञ्छिन्न द्वैत-संशयः लीन प्रकृति नैर्गुण्यात् अलिङ्गत्वात् असम्भवः
निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।
स्व:पथाय मतिं चक्रे निभृतात्मा युधिष्ठिर: ॥ ३२ ॥
निशम्य भगवत् मार्गम् संस्थाम् यदु-कुलस्य च स्वः पथाय मतिम् चक्रे निभृत-आत्मा युधिष्ठिरः
पृथाप्यनुश्रुत्य धनञ्जयोदितं
नाशं यदूनां भगवद्गतिं च ताम् ।
एकान्तभक्त्या भगवत्यधोक्षजे
निवेशितात्मोपरराम संसृते: ॥ ३३ ॥
पृथा अपि अनुश्रुत्य धनञ्जय उदितम् नाशम् यदूनाम् भगवत् गतिम् च ताम् एक-अन्त भक्त्या भगवति अधोक्षजे निवेशित-आत्मा उपरराम संसृतेः
ययाहरद् भुवो भारं तां तनुं विजहावज: ।
कण्टकं कण्टकेनेव द्वयं चापीशितु: समम् ॥ ३४ ॥
यया अहरत् भुवः भारम् ताम् तनुम् विजहौ अजः कण्टकम् कण्टकेन इव द्वयम् च अपि ईशितुः समम्
यथा मत्स्यादिरूपाणि धत्ते जह्याद् यथा नट: ।
भूभार: क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५ ॥
यथा मत्स्य-आदि रूपाणि धत्ते जह्यात् यथा नटः भू-भारः क्षपितः येन जहौ तत् च कलेवरम्
यदा मुकुन्दो भगवानिमां महीं
जहौ स्वतन्वा श्रवणीयसत्कथ: ।
तदाहरेवाप्रतिबुद्धचेतसा-
मभद्रहेतु: कलिरन्ववर्तत ॥ ३६ ॥
यदा मुकुन्दः भगवान् इमाम् महीम् जहौ स्व-तन्वा श्रवणीय-सत्-कथः तदा अहः एव अप्रति-बुद्ध-चेतसाम् अभद्र-हेतुह् कलिः अन्ववर्तत
युधिष्ठिरस्तत्परिसर्पणं बुध:
पुरे च राष्ट्रे च गृहे तथात्मनि ।
विभाव्य लोभानृतजिह्महिंसना-
द्यधर्मचक्रं गमनाय पर्यधात् ॥ ३७ ॥
युधिष्ठिरः तत् परिसर्पणम् बुधः पुरे च राष्ट्रे च गृहे तथा आत्मनि विभाव्य लोभ अनृत जिह्म हिंसन-आदि अधर्म चक्रम् गमनाय पर्यधात्
स्वराट् पौत्रं विनयिनमात्मन: सुसमं गुणै: ।
तोयनीव्या: पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ३८ ॥
स्व-राट् पौत्रम् विनयिनम् आत्मनः सु-समम् गुणैः तोय-नीव्याः पतिम् भूमेः अभ्यषिञ्चत् गजाह्वये
मथुरायां तथा वज्रं शूरसेनपतिं तत: ।
प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वर: ॥ ३९ ॥
मथुरायाम् तथा वज्रम् शूरसेन-पतिम् ततः प्राजापत्याम् निरूप्य इष्टिम् अग्नीन् अपिबत् ईश्वरः
विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् ।
निर्ममो निरहङ्कार: सञ्छिन्नाशेषबन्धन: ॥ ४० ॥
विसृज्य तत्र तत् सर्वम् दुकूल वलय-आदिकम् निर्ममः निरहङ्कारः सञ्छिन्न अशेष-बन्धनः
वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।
मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१ ॥
वाचम् जुहाव मनसि तत् प्राणे इतरे च तम् मृत्यौ अपानम् स-उत्सर्गम् तम् पञ्चत्वे हि अजोहवीत्
त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनि: ।
सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ४२ ॥
त्रित्वे हुत्वा च पञ्चत्वम् तत् च एकत्वे अजुहोत् मुनिः सर्वम् आत्मनि अजुहवीत् ब्रह्मणि आत्मानम् अव्यये
चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धज: ।
दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् ।
अनवेक्षमाणो निरगादशृण्वन्बधिरो यथा ॥ ४३ ॥
चीर-वासाः निराहारः बद्ध-वाक् मुक्त-मूर्धजः दर्शयन् आत्मनः रूपम् जड उन्मत्त पिशाच-वत् अनवेक्षमाणः निरगात् अशृण्वन् बधिरः यथा
उदीचीं प्रविवेशाशां गतपूर्वां महात्मभि: ।
हृदि ब्रह्म परं ध्यायन्नावर्तेत यतो गत: ॥ ४४ ॥
उदीचीम् प्रविवेश-आशाम् गत-पूर्वाम् महा-आत्मभिः हृदि ब्रह्म परम् ध्यायन् न आवर्तेत यतः गतः
सर्वे तमनुनिर्जग्मुर्भ्रातर: कृतनिश्चया: ।
कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टा: प्रजा भुवि ॥ ४५ ॥
सर्वे तम् अनुनिर्जग्मुः भ्रातरः कृत-निश्चयाः कलिना अधर्म मित्रेण दृष्ट्वा स्पृष्टाः प्रजाः भुवि
ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मन: ।
मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ ४६ ॥
ते साधु-कृत सर्व-अर्थाः ज्ञात्वा आत्यन्तिकम् आत्मनः मनसा धारयाम् आसुः वैकुण्ठ चरण-अम्बुजम्
तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणा: परे ।
तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७ ॥
अवापुर्दुरवापां ते असद्भिर्विषयात्मभि: ।
विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ ४८ ॥
तत् ध्यान उत्रिक्तया भक्त्या विशुद्ध धिषणाः परे तस्मिन् नारायण पदे एकान्त-मतयः गतिम् अवापुः दुरवापाम् ते असद्भिः विषय-आत्मभिः विधूत कल्मषाः स्थानम् विरजेन आत्मना एव हि
विदुरोऽपि परित्यज्य प्रभासे देहमात्मन: ।
कृष्णावेशेन तच्चित्त: पितृभि: स्वक्षयं ययौ ॥ ४९ ॥
विदुरः अपि परित्यज्य प्रभासे देहम् आत्मनः कृष्ण आवेशेन तत् चित्तः पितृभिः स्व-क्षयम् ययौ
द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् ।
वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५० ॥
द्रौपदी च तदा आज्ञाय पतीनाम् अनपेक्षताम् वासुदेवे भगवति हि एक-अन्त मतिः आप तम्
य: श्रद्धयैतद् भगवत्प्रियाणां
पाण्डो: सुतानामिति सम्प्रयाणम् ।
शृणोत्यलं स्वस्त्ययनं पवित्रं
लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१ ॥
यः श्रद्धया एतत् भगवत्-प्रियाणाम् पाण्डोः सुतानाम् इति सम्प्रयाणम् शृणोति अलम् स्वस्त्ययनम् पवित्रम् लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम्
१.१६
सूत उवाच
तत: परीक्षिद् द्विजवर्यशिक्षया
महीं महाभागवत: शशास ह ।
यथा हि सूत्यामभिजातकोविदा:
समादिशन् विप्र महद्गुणस्तथा ॥ १ ॥
सूतः उवाच ततः परीक्षित् द्विज-वर्य शिक्षया महीम् महा-भागवतः शशास ह यथा हि सूत्याम् अभिजात-कोविदाः समादिशन् विप्र महत्-गुणः तथा
स उत्तरस्य तनयामुपयेम इरावतीम् ।
जनमेजयादींश्चतुरस्तस्यामुत्पादयत् सुतान् ॥ २ ॥
सः उत्तरस्य तनयाम् उपयेमे इरावतीम् जनमेजय-आदीन् चतुरः तस्याम् उत्पादयत् सुतान्
आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचरा: ॥ ३ ॥
आजहार अश्व-मेधान् त्रीन् गङ्गायाम् भूरि दक्षिणान् शारद्वतम् गुरुम् कृत्वा देवाः यत्र अक्षि गोचराः
निजग्राहौजसा वीर: कलिं दिग्विजये क्वचित् ।
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४ ॥
निजग्राह ओजसा वीरः कलिम् दिग्विजये क्वचित् नृप-लिङ्ग-धरम् शूद्रम् घ्नन्तम् गो-मिथुनम् पदा
शौनक उवाच
कस्य हेतोर्निजग्राह कलिं दिग्विजये नृप: ।
नृदेवचिह्नधृक्शूद्रकोऽसौ गां य: पदाहनत् ।
तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ५ ॥
शौनकः उवाच कस्य हेतोः निजग्राह कलिम् दिग्विजये नृपः नृ-देव चिह्न-धृक् शूद्रकः असौ गाम् यः पदा अहनत् तत् कथ्यताम् महा-भाग यदि कृष्ण कथा-आश्रयम्
अथवास्य पदाम्भोजमकरन्दलिहां सताम् ।
किमन्यैरसदालापैरायुषो यदसद्व्यय: ॥ ६ ॥
अथवा अस्य पद-अम्भोज मकरन्द-लिहाम् सताम् किम् अन्यैः असत् आलापैः आयुषः यत् असत्-व्ययः
क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।
इहोपहूतो भगवान्मृत्यु: शामित्रकर्मणि ॥ ७ ॥
क्षुद्र आयुषाम् नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् इह उपहूतः भगवान् मृत्युः शामित्र कर्मणि
न कश्चिन्म्रियते तावद् यावदास्त इहान्तक: ।
एतदर्थं हि भगवानाहूत: परमर्षिभि: ।
अहो नृलोके पीयेत हरिलीलामृतं वच: ॥ ८ ॥
न कश्चित् म्रियते तावत् यावत् आस्ते इह अन्तकः एतत् अर्थम् हि भगवान् आहूतः परम-ऋषिभिः अहो नृ-लोके पीयेत हरि-लीला अमृतम् वचः
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभि: ॥ ९ ॥
मन्दस्य मन्द प्रज्ञस्य वयः मन्द आयुषः च वै निद्रया ह्रियते नक्तम् दिवा च व्यर्थ कर्मभिः
सूत उवाच
यदा परीक्षित् कुरुजाङ्गलेऽवसत्
कलिं प्रविष्टं निजचक्रवर्तिते ।
निशम्य वार्तामनतिप्रियां तत:
शरासनं संयुगशौण्डिराददे ॥ १० ॥
सूतः उवाच यदा परीक्षित् कुरु-जाङ्गले अवसत् कलिम् प्रविष्टम् निज-चक्रवर्तिते निशम्य वार्ताम् अनति-प्रियाम् ततः शरासनम् संयुग शौण्डिः आददे
स्वलङ्कृतं श्यामतुरङ्गयोजितं
रथं मृगेन्द्रध्वजमाश्रित: पुरात् ।
वृतो रथाश्वद्विपपत्तियुक्तया
स्वसेनया दिग्विजयाय निर्गत: ॥ ११ ॥
सु-अलङ्कृतम् श्याम तुरङ्ग योजितम् रथम् मृग-इन्द्र ध्वजम् आश्रितः पुरात् वृतः रथ अश्व द्विपपत्ति युक्तया स्व-सेनया दिग्विजयाय निर्गतः
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२ ॥
भद्राश्वम् केतुमालम् च भारतम् च उत्तरान् कुरून् किम्पुरुष-आदीनि वर्षाणि विजित्य जगृहे बलिम्
तत्र तत्रोपशृण्वान: स्वपूर्वेषां महात्मनाम् ।
प्रगीयमाणं च यश: कृष्णमाहात्म्यसूचकम् ॥ १३ ॥
आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजस: ।
स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १४ ॥
तेभ्य: परमसन्तुष्ट: प्रीत्युज्जृम्भितलोचन: ।
महाधनानि वासांसि ददौ हारान् महामना: ॥ १५ ॥
तत्र तत्र उपशृण्वानः स्व-पूर्वेषाम् महा-आत्मनाम् प्रगीयमाणम् च यशः कृष्ण माहात्म्य सूचकम् आत्मानम् च परित्रातम् अश्वत्थाम्नः अस्त्र तेजसः स्नेहम् च वृष्णि-पार्थानाम् तेषाम् भक्तिम् च केशवे तेभ्यः परम सन्तुष्टः प्रीति उज्जृम्भित लोचनः महा-धनानि वासांसि ददौ हारान् महा-मनाः
सारथ्यपारषदसेवनसख्यदौत्य-
वीरासनानुगमनस्तवनप्रणामान् ।
स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णो-
र्भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १६ ॥
सारथ्य पारषद सेवन सख्य दौत्य वीर-आसन अनुगमन स्तवन प्रणामान् स्निग्धेषु पाण्डुषु जगत् प्रणतिम् च विष्णोः भक्तिम् करोति नृ-पतिः चरण-अरविन्दे
तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।
नातिदूरे किलाश्चर्यं यदासीत् तन्निबोध मे ॥ १७ ॥
तस्य एवम् वर्तमानस्य पूर्वेषाम् वृत्तिम् अन्वहम् न अति-दूरे किल आश्चर्यम् यत् आसीत् तत् निबोध मे
धर्म: पदैकेन चरन् विच्छायामुपलभ्य गाम् ।
पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ १८ ॥
धर्मः पदा एकेन चरन् विच्छायाम् उपलभ्य गाम् पृच्छति स्म अश्रु-वदनाम् विवत्साम् इव मातरम्
धर्म उवाच
कच्चिद्भद्रेऽनामयमात्मनस्ते
विच्छायासि म्लायतेषन्मुखेन ।
आलक्षये भवतीमन्तराधिं
दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ १९ ॥
धर्मः उवाच कच्चित् भद्रे अनामयम् आत्मनः ते विच्छाया असि म्लायता ईषत् मुखेन आलक्षये भवतीम् अन्तराधिम् दूरे बन्धुम् शोचसि कञ्चन अम्ब
पादैर्न्यूनं शोचसि मैकपाद-
मात्मानं वा वृषलैर्भोक्ष्यमाणम् ।
आहो सुरादीन् हृतयज्ञभागान्
प्रजा उत स्विन्मघवत्यवर्षति ॥ २० ॥
पादैः न्यूनम् शोचसि मा एक-पादम् आत्मानम् वा वृषलैः भोक्ष्यमाणम् आहोः सुर-आदीन् हृत-यज्ञ भागान् प्रजाः उत स्वित् मघवति अवर्षति
अरक्ष्यमाणा: स्त्रिय उर्वि बालान्
शोचस्यथो पुरुषादैरिवार्तान् ।
वाचं देवीं ब्रह्मकुले कुकर्म-
ण्यब्रह्मण्ये राजकुले कुलाग्रयान् ॥ २१ ॥
अरक्ष्यमाणाः स्त्रियः उर्वि बालान् शोचसि अथो पुरुष-आदैः इव आर्तान् वाचम् देवीम् ब्रह्म-कुले कुकर्मणि अब्रह्मण्ये राज-कुले कुल-अग्र्यान्
किं क्षत्रबन्धून् कलिनोपसृष्टान्
राष्ट्राणि वा तैरवरोपितानि ।
इतस्ततो वाशनपानवास:
स्नानव्यवायोन्मुखजीवलोकम् ॥ २२ ॥
किम् क्षत्र-बन्धून् कलिना उपसृष्टान् राष्ट्राणि वा तैः अवरोपितानि इतः ततः वा अशन पान वासः स्नान व्यवाय उन्मुख जीव-लोकम्
यद्वाम्ब ते भूरिभरावतार
कृतावतारस्य हरेर्धरित्रि ।
अन्तर्हितस्य स्मरती विसृष्टा
कर्माणि निर्वाणविलम्बितानि ॥ २३ ॥
यद्वा अम्ब ते भूरि भर अवतार कृत अवतारस्य हरेः धरित्रि अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाण विलम्बितानि
इदं ममाचक्ष्व तवाधिमूलं
वसुन्धरे येन विकर्शितासि ।
कालेन वा ते बलिनां बलीयसा सुरार्चितं
किं हृतमम्ब सौभगम् ॥ २४ ॥
इदम् मम आचक्ष्व तव आधिमूलम् वसुन्धरे येन विकर्शिता असि कालेन वा ते बलिनाम् बलीयसा सुर-अर्चितम् किम् हृतम् अम्ब सौभगम्
धरणी उवाच भवान् हि वेद तत् सर्वम् यत् माम् धर्म अनुपृच्छसि चतुर्भिः वर्तसे येन पादैः लोक सुख-आवहैः
सत्यं शौचं दया क्षान्तिस्त्याग: सन्तोष आर्जवम् ।
शमो दमस्तप: साम्यं तितिक्षोपरति: श्रुतम् ॥ २६ ॥
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृति: ।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ २७ ॥
प्रागल्भ्यं प्रश्रय: शीलं सह ओजो बलं भग: ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृति: ॥ २८ ॥
एते चान्ये च भगवन्नित्या यत्र महागुणा: ।
प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ २९ ॥
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३० ॥
सत्यम् शौचम् दया क्षान्तिः त्यागः सन्तोषः आर्जवम् शमः दमः तपः साम्यम् तितिक्षा उपरतिः श्रुतम् ज्ञानम् विरक्तिः ऐश्वर्यम् शौर्यम् तेजः बलम् स्मृतिः स्वातन्त्र्यम् कौशलम् कान्तिः धैर्यम् मार्दवम् एव च प्रागल्भ्यम् प्रश्रयः शीलम् सहः ओजः बलम् भगः गाम्भीर्यम् स्थैर्यम् आस्तिक्यम् कीर्तिः मानः अनहङ्कृतिः एते च अन्ये च भगवन् नित्याः यत्र महा-गुणाः प्रार्थ्याः महत्त्वम् इच्छद्भिः न वियन्ति स्म कर्हिचित् तेन अहम् गुण-पात्रेण श्री निवासेन साम्प्रतम् शोचामि रहितम् लोकम् पाप्मना कलिना ईक्षितम्
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।
देवान् पितृनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३१ ॥
आत्मानम् च अनुशोचामि भवन्तम् च अमर-उत्तमम् देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णान् तथा आश्रमान्
ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-
कामास्तप: समचरन् भगवत्प्रपन्ना: ।
सा श्री: स्ववासमरविन्दवनं विहाय
यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३२ ॥
तस्याहमब्जकुलिशाङ्कुशकेतुकेतै:
श्रीमत्पदैर्भगवत: समलङ्कृताङ्गी ।
त्रीनत्यरोच उपलभ्य ततो विभूतिं
लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३३ ॥
ब्रह्म-आदयः बहु-तिथम् यत् अपाङ्ग-मोक्ष कामाः तपः समचरन् भगवत् प्रपन्नाः सा श्रीः स्व-वासम् अरविन्द-वनम् विहाय यत् पाद सौभगम् अलम् भजते अनुरक्ता तस्य अहम् अब्ज कुलिश अङ्कुश केतु केतैः श्रीमत् पदैः भगवतः समलङ्कृत-अङ्गी त्रीन् अति अरोचे उपलभ्य ततः विभूतिम् लोकान् सः माम् व्यसृजत् उत्स्मयतीम् तत्-अन्ते
यो वै ममातिभरमासुरवंशराज्ञा-
मक्षौहिणीशतमपानुददात्मतन्त्र: ।
त्वां दु:स्थमूनपदमात्मनि पौरुषेण
सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३४ ॥
यः वै मम अति-भरम् आसुर-वंश राज्ञाम् अक्षौहिणी शतम् अपानुदत् आत्म-तन्त्रः त्वाम् दुःस्थम् ऊन-पदम् आत्मनि पौरुषेण सम्पादयन् यदुषु रम्यम् अबिभ्रत् अङ्गम्
का वा सहेत विरहं
पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पै: ।
स्थैर्यं समानमहरन्मधुमानिनीनां
रोमोत्सवो मम यदङ्घ्रिविटङ्किताया: ॥ ३५ ॥
का वा सहेत विरहम् पुरुष-उत्तमस्य प्रेम अवलोक रुचिर-स्मित वल्गु-जल्पैः स्थैर्यम् स-मानम् अहरत् मधु मानिनीनाम् रोम-उत्सवः मम यत् अङ्घ्रि विटङ्कितायाः
तयोरेवं कथयतो: पृथिवीधर्मयोस्तदा ।
परीक्षिन्नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥ ३६ ॥
तयोः एवम् कथयतोः पृथिवी धर्मयोः तदा परीक्षित् नाम राज-ऋषिः प्राप्तः प्राचीम् सरस्वतीम्
१.१७
सूत उवाच
तत्र गोमिथुनं राजा हन्यमानमनाथवत् ।
दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ १ ॥
सूतः उवाच तत्र गो-मिथुनम् राजा हन्यमानम् अनाथ-वत् दण्ड-हस्तम् च वृषलम् ददृशे नृप लाञ्छनम्
वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।
वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥
वृषम् मृणाल-धवलम् मेहन्तम् इव बिभ्यतम् वेपमानम् पदा एकेन सीदन्तम् शूद्र-ताडितम्
गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् ।
विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम् ॥ ३ ॥
गाम् च धर्म-दुघाम् दीनाम् भृशम् शूद्र पद-आहताम् विवत्साम् आश्रु-वदनाम् क्षामाम् यवसम् इच्छतीम्
पप्रच्छ रथमारूढ: कार्तस्वरपरिच्छदम् ।
मेघगम्भीरया वाचा समारोपितकार्मुक: ॥ ४ ॥
पप्रच्छ रथम् आरूढः कार्तस्वर परिच्छदम् मेघ गम्भीरया वाचा समारोपित कार्मुकः
कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली ।
नरदेवोऽसि वेशेण नटवत्कर्मणाद्विज: ॥ ५ ॥
कः त्वम् मत् शरणे लोके बलात् हंसि अबलान् बली नर-देवः असि वेषेण नट-वत् कर्मणा अद्वि-जः
यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना ।
शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ ६ ॥
यः त्वम् कृष्णे गते दूरम् सह गाण्डीव धन्वना शोच्यः असि अशोच्यान् रहसि प्रहरन् वधम् अर्हसि
त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् ।
वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥
त्वम् वा मृणाल-धवलः पादैः न्यूनः पदा चरन् वृष रूपेण किम् कश्चित् देवः नः परिखेदयन्
न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।
भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुच: ॥ ८ ॥
न जातु कौरव-इन्द्राणाम् दोर्दण्ड परिरम्भिते भू-तले अनुपतन्ति अस्मिन् विना ते प्राणिनाम् शुचः
मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् ।
मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥
मा सौरभेय अत्र शुचः व्येतु ते वृषलात् भयम् मा रोदीः अम्ब भद्रम् ते खलानाम् मयि शास्तरि
यस्य राष्ट्रे प्रजा: सर्वास्त्रस्यन्ते साध्व्यसाधुभि: ।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गति: ॥ १० ॥
एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रह: ।
अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥
यस्य राष्ट्रे प्रजाः सर्वाः त्रस्यन्ते साध्वि असाधुभिः तस्य मत्तस्य नश्यन्ति कीर्तिः आयुः भगः गतिः एषः राज्ञाम् परः धर्मः हि आर्तानाम् आर्ति निग्रहः अतः एनम् वधिष्यामि भूत-द्रुहम् असत्-तमम्
कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।
मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥
कः अवृश्चत् तव पादान् त्रीन् सौरभेय चतुः-पद मा भूवन् त्वादृशाः राष्ट्रे राज्ञाम् कृष्ण-अनुवर्तिनाम्
आख्याहि वृष भद्रं व: साधूनामकृतागसाम् ।
आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥
आख्याहि वृष भद्रम् वः साधूनाम् अकृत-आगसाम् आत्म-वैरूप्य कर्तारम् पार्थानाम् कीर्ति-दूषणम्
जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् ।
साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥
जने अनागसि अघम् युञ्जन् सर्वतः अस्य च मत्-भयम् साधूनाम् भद्रम् एव स्यात् असाधु दमने कृते
अनाग:स्विह भूतेषु य आगस्कृन्निरङ्कुश: ।
आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५ ॥
अनागःसु इह भूतेषु यः आगः-कृत् निरङ्कुशः आहर्ता अस्मि भुजम् साक्षात् अमर्त्यस्य अपि स-अङ्गदम्
राज्ञो हि परमो धर्म: स्वधर्मस्थानुपालनम् ।
शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६ ॥
राज्ञः हि परमः धर्मः स्व-धर्म-स्थ अनुपालनम् शासतः अन्यान् यथा शास्त्रम् अनापदि उत्पथान् इह
धर्म उवाच
एतद् व: पाण्डवेयानां युक्तमार्ताभयं वच: ।
येषां गुणगणै: कृष्णो दौत्यादौ भगवान् कृत: ॥ १७ ॥
धर्मः उवाच एतत् वः पाण्डवेयानाम् युक्तम् आर्त अभयम् वचः येषाम् गुण-गणैः कृष्णः दौत्य-आदौ भगवान् कृतः
न वयं क्लेशबीजानि यत: स्यु: पुरुषर्षभ ।
पुरुषं तं विजानीमो वाक्यभेदविमोहिता: ॥ १८ ॥
न वयम् क्लेश-बीजानि यतः स्युः पुरुष-ऋषभ पुरुषम् तम् विजानीमः वाक्य-भेद विमोहिताः
केचिद् विकल्पवसना आहुरात्मानमात्मन: ।
दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥
केचित् विकल्प-वसनाः आहुः आत्मानम् आत्मनः दैवम् अन्ये अपरे कर्म स्वभावम् अपरे प्रभुम्
अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय: ।
अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥
अप्रतर्क्यात् अनिर्देश्यात् इति केषु अपि निश्चयः अत्र अनुरूपम् राज-ऋषे विमृश स्व मनीषया
सूत उवाच
एवं धर्मे प्रवदति स सम्राड् द्विजसत्तमा: ।
समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥ २१ ॥
सूतः उवाच एवम् धर्मे प्रवदति सः सम्राट् द्विज-सत्तमाः समाहितेन मनसा विखेदः पर्यचष्ट तम्
राजोवाच
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।
यदधर्मकृत: स्थानं सूचकस्यापि तद्भवेत् ॥ २२ ॥
राजा उवाच धर्मम् ब्रवीषि धर्म-ज्ञ धर्मः असि वृष-रूप-धृक् यत् अधर्म-कृतः स्थानम् सूचकस्य अपि तत् भवेत्
अथवा देवमायाया नूनं गतिरगोचरा ।
चेतसो वचसश्चापि भूतानामिति निश्चय: ॥ २३ ॥
अथवा देव मायायाः नूनम् गतिः अगोचरा चेतसः वचसः च अपि भूतानाम् इति निश्चयः
तप: शौचं दया सत्यमिति पादा: कृते कृता: ।
अधर्मांशैस्त्रयो भग्ना: स्मयसङ्गमदैस्तव ॥ २४ ॥
तपः शौचम् दया सत्यम् इति पादाः कृते कृताः अधर्म अंशैः त्रयः भग्नाः स्मय सङ्ग मदैः तव
इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यत: ।
तं जिघृक्षत्यधर्मोऽयमनृतेनैधित: कलि: ॥ २५ ॥
इदानीम् धर्म पादः ते सत्यम् निर्वर्तयेत् यतः तम् जिघृक्षति अधर्मः अयम् अनृतेन एधितः कलिः
इयं च भूमिर्भगवता न्यासितोरुभरा सती ।
श्रीमद्भिस्तत्पदन्यासै: सर्वत: कृतकौतुका ॥ २६ ॥
इयम् च भूमिः भगवता न्यासित उरु भरा सती श्रीमद्भिः तत् पद-न्यासैः सर्वतः कृत कौतुका
शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती ।
अब्रह्मण्या नृपव्याजा: शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥
शोचति अश्रु-कला साध्वी दुर्भगा इव उज्झिता सती अब्रह्मण्याः नृप-व्याजाः शूद्राः भोक्ष्यन्ति माम् इति
इति धर्मं महीं चैव सान्त्वयित्वा महारथ: ।
निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥
इति धर्मम् महीम् च एव सान्त्वयित्वा महा-रथः निशातम् आददे खड्गम् कलये अधर्म हेतवे
तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् ।
तत्पादमूलं शिरसा समगाद् भयविह्वल: ॥ २९ ॥
तम् जिघांसुम् अभिप्रेत्य विहाय नृप-लाञ्छनम् तत्-पाद-मूलम् शिरसा समगात् भय-विह्वलः
पतितं पादयोर्वीर: कृपया
दीनवत्सल: ।
शरण्यो
नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३० ॥
पतितम् पादयोः वीरः कृपया दीन-वत्सलः शरण्यः न अवधीत् श्लोक्यः आह च इदम् हसन् इव
राजोवाच
न ते गुडाकेशयशोधराणां
बद्धाञ्जलेर्वै भयमस्ति किञ्चित् ।
न वर्तितव्यं भवता कथञ्चन
क्षेत्रे मदीये त्वमधर्मबन्धु: ॥ ३१ ॥
राजा उवाच न ते गुडाकेश यशः-धराणाम् बद्ध-अञ्जलेः वै भयम् अस्ति किञ्चित् न वर्तितव्यम् भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्म-बन्धुः
त्वां वर्तमानं नरदेवदेहे-
ष्वनुप्रवृत्तोऽयमधर्मपूग: ।
लोभोऽनृतं चौर्यमनार्यमंहो
ज्येष्ठा च माया कलहश्च दम्भ: ॥ ३२ ॥
त्वाम् वर्तमानम् नर-देव देहेषु अनुप्रवृत्तः अयम् अधर्म पूगः लोभः अनृतम् चौर्यम् अनार्यम् अंहः ज्येष्ठा च माया कलहः च दम्भः
न वर्तितव्यं तदधर्मबन्धो
धर्मेण सत्येन च वर्तितव्ये ।
ब्रह्मावर्ते यत्र यजन्ति यज्ञै-
र्यज्ञेश्वरं यज्ञवितानविज्ञा: ॥ ३३ ॥
न वर्तितव्यम् तत् अधर्म बन्धो धर्मेण सत्येन च वर्तितव्ये ब्रह्म-आवर्ते यत्र यजन्ति यज्ञैः यज्ञ-ईश्वरम् यज्ञ वितान विज्ञाः
यस्मिन् हरिर्भगवानिज्यमान
इज्यात्ममूर्तिर्यजतां शं तनोति ।
कामानमोघान् स्थिरजङ्गमाना-
मन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४ ॥
यस्मिन् हरिः भगवान् इज्यमानः इज्य-आत्म मूर्तिः यजताम् शम् तनोति कामान् अमोघान् स्थिर-जङ्गमानाम् अन्तः बहिः वायुः इव एषः आत्मा
सूत उवाच
परीक्षितैवमादिष्ट: स कलिर्जातवेपथु: ।
तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५ ॥
सूतः उवाच परीक्षिता एवम् आदिष्टः सः कलिः जात वेपथुः तम् उद्यत असिम् आह इदम् दण्ड-पाणिम् इव उद्यतम्
कलिरुवाच
यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया ।
लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥
कलिः उवाच यत्र क्व वा अथ वत्स्यामि सार्व-भौम तव आज्ञया लक्षये तत्र तत्र अपि त्वाम् आत्त इषु शरासनम्
तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि ।
यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ॥ ३७ ॥
तत् मे धर्म-भृताम् श्रेष्ठ स्थानम् निर्देष्टुम् अर्हसि यत्र एव नियतः वत्स्ये आतिष्ठन् ते अनुशासनम्
सूत उवाच
अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।
द्यूतं पानं स्त्रिय: सूना यत्राधर्मश्चतुर्विध: ॥ ३८ ॥
सूतः उवाच अभ्यर्थितः तदा तस्मै स्थानानि कलये ददौ द्यूतम् पानम् स्त्रियः सूना यत्र अधर्मः चतुः-विधः
पुनश्च याचमानाय जातरूपमदात्प्रभु: ।
ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९ ॥
पुनः च याचमानाय जात-रूपम् अदात् प्रभुः ततः अनृतम् मदम् कामम् रजः वैरम् च पञ्चमम्
अमूनि पञ्च स्थानानि ह्यधर्मप्रभव: कलि: ।
औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ ४० ॥
अमूनि पञ्च स्थानानि हि अधर्म प्रभवः कलिः औत्तरेयेण दत्तानि न्यवसत् तत् निदेश-कृत्
अथैतानि न सेवेत बुभूषु: पुरुष: क्वचित् ।
विशेषतो धर्मशीलो राजा लोकपतिर्गुरु: ॥ ४१ ॥
अथ एतानि न सेवेत बुभूषुः पुरुषः क्वचित् विशेषतः धर्म-शीलः राजा लोक-पतिः गुरुः
वृषस्य नष्टांस्त्रीन् पादान् तप: शौचं दयामिति ।
प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥
वृषस्य नष्टान् त्रीन् पादान् तपः शौचम् दयाम् इति प्रतिसन्दधे आश्वास्य महीम् च समवर्धयत्
स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।
पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३ ॥
आस्तेऽधुना स राजर्षि: कौरवेन्द्रश्रियोल्लसन् ।
गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवा: ॥ ४४ ॥
सः एषः एतर्हि अध्यास्ते आसनम् पार्थिव-उचितम् पितामहेन उपन्यस्तम् राज्ञा अरण्यम् विविक्षता आस्ते अधुना सः राज-ऋषिः कौरव-इन्द्र श्रिया उल्लसन् गजाह्वये महा-भागः चक्रवर्ती बृहत्-श्रवाः
इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृप: ।
यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥ ४५ ॥
इत्थम्-भूत अनुभावः अयम् अभिमन्यु-सुतः नृपः यस्य पालयतः क्षौणीम् यूयम् सत्राय दीक्षिताः
१.१८
सूत उवाच
यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृत: ।
अनुग्रहाद् भगवत:
कृष्णस्याद्भुतकर्मण: ॥ १ ॥
सूतः उवाच यः वै द्रौणि-अस्त्र विप्लुष्टः न मातुः उदरे मृतः अनुग्रहात् भगवतः कृष्णस्य अद्भुत-कर्मणः
ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् ।
न
सम्मुमोहोरुभयाद् भगवत्यर्पिताशय: ॥ २ ॥
ब्रह्म-कोप उत्थितात् यः तु तक्षकात् प्राण-विप्लवात् न सम्मुमोह उरु-भयात् भगवति अर्पित आशयः
उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: ।
वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥
उत्सृज्य सर्वतः सङ्गम् विज्ञात अजित संस्थितिः वैयासकेः जहौ शिष्यः गङ्गायाम् स्वम् कलेवरम्
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥
न उत्तम-श्लोक वार्तानाम् जुषताम् तत् कथा-अमृतम् स्यात् सम्भ्रमः अन्त काले अपि स्मरताम् तत् पद-अम्बुजम्
तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वत: ।
यावदीशो महानुर्व्यामाभिमन्यव
एकराट् ॥ ५ ॥
तावत् कलिः न प्रभवेत् प्रविष्टः अपि इह सर्वतः यावत् ईशः महान् उर्व्याम् आभिमन्यवः एक-राट्
यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् ।
तदैवेहानुवृत्तोऽसावधर्मप्रभव:
कलि: ॥ ६ ॥
यस्मिन् अहनि यर्हि एव भगवान् उत्ससर्ज गाम् तदा एव इह अनुवृत्तः असौ अधर्म प्रभवः कलिः
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।
कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥
न अनुद्वेष्टि कलिम् सम्राट् सारम्-ग इव सार-भुक् कुशलानि आशु सिद्ध्यन्ति न इतराणि कृतानि यत्
किं नु बालेषु शूरेण कलिना धीरभीरुणा ।
अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥
किम् नु बालेषु शूरेण कलिना धीर भीरुणा अप्रमत्तः प्रमत्तेषु यः वृकः नृषु वर्तते
उपवर्णितमेतद्व: पुण्यं पारीक्षितं मया ।
वासुदेवकथोपेतमाख्यानं
यदपृच्छत ॥ ९ ॥
उपवर्णितम् एतत् वः पुण्यम् पारीक्षितम् मया वासुदेव कथा उपेतम् आख्यानम् यत् अपृच्छत
या या: कथा भगवत: कथनीयोरुकर्मण: ।
गुणकर्माश्रया: पुम्भि: संसेव्यास्ता
बुभूषुभि: ॥ १० ॥
याः याः कथाः भगवतः कथनीय उरु-कर्मणः गुण कर्म आश्रयाः पुम्भिः संसेव्याः ताः बुभूषुभिः
ऋषय ऊचु:
सूत जीव समा: सौम्य शाश्वतीर्विशदं यश: ।
यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि न: ॥ ११ ॥
ऋषयः ऊचुः सूत जीव समाः सौम्य शाश्वतीः विशदम् यशः यः त्वम् शंससि कृष्णस्य मर्त्यानाम् अमृतम् हि नः
कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् ।
आपाययति गोविन्दपादपद्मासवं मधु ॥ १२ ॥
कर्मणि अस्मिन् अनाश्वासे धूम धूम्र-आत्मनाम् भवान् आपाययति गोविन्द पाद पद्म-आसवम् मधु
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ १३ ॥
तुलयाम लवेन अपि न स्वर्गम् न अपुनः-भवम् भगवत्-सङ्गि सङ्गस्य मर्त्यानाम् किम् उत आशिषः
को नाम तृप्येद् रसवित्कथायां
महत्तमैकान्तपरायणस्य ।
नान्तं गुणानामगुणस्य जग्मु-
र्योगेश्वरा ये भवपाद्ममुख्या: ॥ १४ ॥
कः नाम तृप्येत् रस-वित् कथायाम् महत्-तम एकान्त परायणस्य न अन्तम् गुणानाम् अगुणस्य जग्मुः योग-ईश्वराः ये भव पाद्म मुख्याः
तन्नो भवान् वै भगवत्प्रधानो
महत्तमैकान्तपरायणस्य ।
हरेरुदारं चरितं विशुद्धं
शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥
तत् नः भवान् वै भगवत् प्रधानः महत्-तम एकान्त परायणस्य हरेः उदारम् चरितम् विशुद्धम् शुश्रूषताम् नः वितनोतु विद्वन्
स वै महाभागवत: परीक्षिद्
येनापवर्गाख्यमदभ्रबुद्धि: ।
ज्ञानेन वैयासकिशब्दितेन
भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥
सः वै महा-भागवतः परीक्षित् येन अपवर्ग-आख्यम् अदभ्र बुद्धिः ज्ञानेन वैयासकि शब्दितेन भेजे खग-इन्द्र ध्वज पाद-मूलम्
तन्न: परं पुण्यमसंवृतार्थ-
माख्यानमत्यद्भुतयोगनिष्ठम् ।
आख्याह्यनन्ताचरितोपपन्नं
पारीक्षितं भागवताभिरामम् ॥ १७ ॥
तत् नः परम् पुण्यम् असंवृत-अर्थम् आख्यानम् अति अद्भुत योग-निष्ठम् आख्याहि अनन्त आचरित उपपन्नम् पारीक्षितम् भागवत अभिरामम्
सूत उवाच
अहो वयं जन्मभृतोऽद्य हास्म
वृद्धानुवृत्त्यापि विलोमजाता: ।
दौष्कुल्यमाधिं विधुनोति शीघ्रं
महत्तमानामभिधानयोग: ॥ १८ ॥
सूतः उवाच अहो वयम् जन्म-भृतः अद्य ह आस्म वृद्ध-अनुवृत्त्या अपि विलोम-जाताः दौष्कुल्यम् आधिम् विधुनोति शीघ्रम् महत्-तमानाम् अभिधान योगः
कुत: पुनर्गृणतो नाम तस्य
महत्तमैकान्तपरायणस्य ।
योऽनन्तशक्तिर्भगवाननन्तो
महद्गुणत्वाद् यमनन्तमाहु: ॥ १९ ॥
कुतः पुनः गृणतः नाम तस्य महत्-तम एकान्त परायणस्य यः अनन्त शक्तिः भगवान् अनन्तः महत् गुणत्वात् यम् अनन्तम् आहुः
एतावतालं ननु सूचितेन
गुणैरसाम्यानतिशायनस्य ।
हित्वेतरान् प्रार्थयतो विभूति-
र्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सो: ॥ २० ॥
एतावता अलम् ननु सूचितेन गुणैः असाम्य अनति-शायनस्य हित्वा इतरान् प्रार्थयतः विभूतिः यस्य अङ्घ्रि रेणुम् जुषते अनभीप्सोः
अथापि यत्पादनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भ: ।
सेशं पुनात्यन्यतमो मुकुन्दात्
को नाम लोके भगवत्पदार्थ: ॥ २१ ॥
अथ अपि यत् पाद-नख अवसृष्टम् जगत् विरिञ्च उपहृत अर्हण अम्भः स ईशम् पुनाति अन्यतमः मुकुन्दात् कः नाम लोके भगवत् पद अर्थः
यत्रानुरक्ता: सहसैव धीरा
व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत्पारमहंस्यमन्त्यं
यस्मिन्नहिंसोपशम: स्वधर्म: ॥ २२ ॥
यत्र अनुरक्ताः सहसा एव धीराः व्यपोह्य देह आदिषु सङ्गम् ऊढम् व्रजन्ति तत् पारम-हंस्यम् अन्त्यम् यस्मिन् अहिंसा उपशमः स्व-धर्मः
अहं हि पृष्टोऽर्यमणो भवद्भि-
राचक्ष आत्मावगमोऽत्र यावान् ।
नभ: पतन्त्यात्मसमं पतत्त्रिण-
स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥
अहम् हि पृष्टः अर्यमणः भवद्भिः आचक्षे आत्म-अवगमः अत्र यावान् नभः पतन्ति आत्म-समम् पतत्त्रिणः तथा समम् विष्णु-गतिम् विपश्चितः
एकदा धनुरुद्यम्य विचरन् मृगयां वने ।
मृगाननुगत: श्रान्त: क्षुधितस्तृषितो भृशम् ॥ २४ ॥
जलाशयमचक्षाण: प्रविवेश तमाश्रमम् ।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥
एकदा धनुः उद्यम्य विचरन् मृगयाम् वने मृगान् अनुगतः श्रान्तः क्षुधितः तृषितः भृशम् जल-आशयम् अचक्षाणः प्रविवेश तम् आश्रमम् ददर्श मुनिम् आसीनम् शान्तम् मीलित लोचनम्
प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।
स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
प्रतिरुद्ध इन्द्रिय प्राण मनः बुद्धिम् उपारतम् स्थान त्रयात् परम् प्राप्तम् ब्रह्म-भूतम् अविक्रियम्
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।
विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥
विप्रकीर्ण जट-आच्छन्नम् रौरवेण अजिनेन च विशुष्यत् तालुः उदकम् तथा-भूतम् अयाचत
अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: ।
अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥
अलब्ध तृण भूमि आदिः असम्प्राप्त अर्घ्य सूनृतः अवज्ञातम् इव आत्मानम् मन्यमानः चुकोप ह
अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: ।
ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥
अभूत-पूर्वः सहसा क्षुत् तृड्भ्याम् अर्दित आत्मनः ब्राह्मणम् प्रति अभूत् ब्रह्मन् मत्सरः मन्युः एव च
स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।
विनिर्गच्छन्धनुष्कोट्या निधाय
पुरमागत: ॥ ३० ॥
सः तु ब्रह्म-ऋषेः अंसे गत-असुम् उरगम् रुषा विनिर्गच्छन् धनुः-कोट्या निधाय पुरम् आगतः
एष किं निभृताशेषकरणो मीलितेक्षण: ।
मृषासमाधिराहोस्वित्किं नु
स्यात्क्षत्रबन्धुभि: ॥ ३१ ॥
एषः किम् निभृत-अशेष करणः मीलित ईक्षणः मृषा समाधिः आहो स्वित् किम् नु स्यात् क्षत्र-बन्धुभिः
तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: ।
राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥
तस्य पुत्रः अति तेजस्वी विहरन् बालकः अर्भकैः राज्ञा अघम् प्रापितम् तातम् श्रुत्वा तत्र इदम् अब्रवीत्
अहो अधर्म: पालानां पीव्नां बलिभुजामिव ।
स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥
अहो अधर्मः पालानाम् पीव्नाम् बलि-भुजाम् इव स्वामिनि अघम् यत् दासानाम् द्वार-पानाम् शुनाम् इव
ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: ।
स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥
ब्राह्मणैः क्षत्र-बन्धुः हि गृह-पालः निरूपितः सः कथम् तत्-गृहे द्वाः-स्थः स-भाण्डम् भोक्तुम् अर्हति
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।
तद्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥
कृष्णे गते भगवति शास्तरि उत्पथ-गामिनाम् तत् भिन्न सेतून् अद्य अहम् शास्मि पश्यत मे बलम्
इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालक: ।
कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
इति उक्त्वा रोष-ताम्र-अक्षः वयस्यान् ऋषि-बालकः कौशिकी आपः उपस्पृश्य वाक् वज्रम् विससर्ज ह
इति लङ्घितमर्यादं तक्षक: सप्तमेऽहनि ।
दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥
इति लङ्घित मर्यादम् तक्षकः सप्तमे अहनि दङ्क्ष्यति स्म कुल-अङ्गारम् चोदितः मे तत-द्रुहम्
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।
पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
ततः अभ्येत्य आश्रमम् बालः गले सर्प कलेवरम् पितरम् वीक्ष्य दुःख-आर्तः मुक्त-कण्ठः रुरोद ह
स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।
उन्मील्य शनकैर्नेत्रे दृष्ट्वा
चांसे मृतोरगम् ॥ ३९ ॥
सः वै आङ्गिरसः ब्रह्मन् श्रुत्वा सुत विलापनम् उन्मील्य शनकैः नेत्रे दृष्ट्वा च अंसे मृत उरगम्
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।
केन वा तेऽपकृतमित्युक्त: स
न्यवेदयत् ॥ ४० ॥
विसृज्य तम् च पप्रच्छ वत्स कस्मात् हि रोदिषि केन वा ते अपकृतम् इति उक्तः सः न्यवेदयत्
निशम्य शप्तमतदर्हं नरेन्द्रं
स ब्राह्मणो नात्मजमभ्यनन्दत् ।
अहो बतांहो महदद्य ते कृत-
मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥
निशम्य शप्तम् अतत्-अर्हम् नर-इन्द्रम् सः ब्राह्मणः न आत्म-जम् अभ्यनन्दत् अहो बत अंहः महत् अद्य ते कृतम् अल्पीयसि द्रोहे उरुः दमः धृतः
न वै नृभिर्नरदेवं पराख्यं
सम्मातुमर्हस्यविपक्वबुद्धे ।
यत्तेजसा दुर्विषहेण गुप्ता
विन्दन्ति भद्राण्यकुतोभया: प्रजा: ॥ ४२ ॥
न वै नृभिः नर-देवम् पर-आख्यम् सम्मातुम् अर्हसि अविपक्व बुद्धे यत् तेजसा दुर्विषहेण गुप्ताः विन्दन्ति भद्राणि अकुतः-भयाः प्रजाः
अलक्ष्यमाणे नरदेवनाम्नि
रथाङ्गपाणावयमङ्ग लोक: ।
तदा हि चौरप्रचुरो विनङ्क्ष्य-
त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥
अलक्ष्यमाणे नर-देव नाम्नि रथ-अङ्ग-पाणौ अयम् अङ्ग लोकः तदा हि चौर प्रचुरः विनङ्क्ष्यति अरक्ष्यमाणः अविवरूथ-वत् क्षणात्
तदद्य न: पापमुपैत्यनन्वयं
यन्नष्टनाथस्य वसोर्विलुम्पकात् ।
परस्परं घ्नन्ति शपन्ति वृञ्जते
पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥
तत् अद्य नः पापम् उपैति अनन्वयम् यत् नष्ट नाथस्य वसोः विलुम्पकात् परस्परम् घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियः अर्थान् पुरु दस्यवः जनाः
तदार्यधर्म: प्रविलीयते नृणां
वर्णाश्रमाचारयुतस्त्रयीमय: ।
ततोऽर्थकामाभिनिवेशितात्मनां
शुनां कपीनामिव वर्णसङ्कर: ॥ ४५ ॥
तदा आर्य धर्मः प्रविलीयते नृणाम् वर्ण आश्रम आचार-युतः त्रयी-मयः ततः अर्थ काम-अभिनिवेशित आत्मनाम् शुनाम् कपीनाम् इव वर्ण-सङ्करः
धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: ।
साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् ।
क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥
धर्म-पालः नर-पतिः सः तु सम्राट् बृहत् श्रवाः साक्षात् महा-भागवतः राज-ऋषिः हय-मेधयाट् क्षुत् तृट् श्रम-युतः दीनः न एव अस्मत् शापम् अर्हति
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।
पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
अपापेषु स्व-भृत्येषु बालेन अपक्व बुद्धिना पापम् कृतम् तत् भगवान् सर्व-आत्मा क्षन्तुम् अर्हति
तिरस्कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि ।
नास्य तत् प्रतिकुर्वन्ति तद्भक्ता: प्रभवोऽपि हि ॥ ४८ ॥
तिरः-कृताः विप्रलब्धाः शप्ताः क्षिप्ताः हताः अपि न अस्य तत् प्रतिकुर्वन्ति तत् भक्ताः प्रभवः अपि हि
इति पुत्रकृताघेन सोऽनुतप्तो महामुनि: ।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥
इति पुत्र कृत अघेन सः अनुतप्तः महा-मुनिः स्वयम् विप्रकृतः राज्ञा न एव अघम् तत् अचिन्तयत्
प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: ।
न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥
प्रायशः साधवः लोके परैः द्वन्द्वेषु योजिताः न व्यथन्ति न हृष्यन्ति यतः आत्मा अगुण-आश्रयः
१.१९
सूत उवाच
महीपतिस्त्वथ तत्कर्म गर्ह्यं
विचिन्तयन्नात्मकृतं सुदुर्मना: ।
अहो मया नीचमनार्यवत्कृतं
निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥
सूतः उवाच मही-पतिः तु अथ तत् कर्म गर्ह्यम् विचिन्तयन् आत्म-कृतम् सु-दुर्मनाः अहो मया नीचम् अनार्य वत् कृतम् निरागसि ब्रह्मणि गूढ तेजसि
ध्रुवं ततो मे कृतदेवहेलनाद्
दुरत्ययं व्यसनं नातिदीर्घात् ।
तदस्तु कामं ह्यघनिष्कृताय मे
यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥
ध्रुवम् ततः मे कृत-देव-हेलनात् दुरत्ययम् व्यसनम् न अति दीर्घात् तत् अस्तु कामम् हि अघ निष्कृताय मे यथा न कुर्याम् पुनः एवम् अद्धा
अद्यैव राज्यं बलमृद्धकोशं
प्रकोपितब्रह्मकुलानलो मे ।
दहत्वभद्रस्य पुनर्न मेऽभूत्
पापीयसी धीर्द्विजदेवगोभ्य: ॥ ३ ॥
अद्य एव राज्यम् बलम् ऋद्ध कोशम् प्रकोपित ब्रह्म-कुल अनलः मे दहतु अभद्रस्य पुनः न मे अभूत् पापीयसी धीः द्विज देव गोभ्यः
स चिन्तयन्नित्थमथाशृणोद् यथा
मुने: सुतोक्तो निऋर्तिस्तक्षकाख्य: ।
स साधु मेने न चिरेण तक्षका-
नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥
सः चिन्तयन् इत्थम् अथ अशृणोत् यथा मुनेः सुत-उक्तः निरृतिः तक्षक-आख्यः सः साधु मेने न चिरेण तक्षक अनलम् प्रसक्तस्य विरक्ति कारणम्
अथो विहायेमममुं च लोकं
विमर्शितौ हेयतया पुरस्तात् ।
कृष्णाङ्घ्रिसेवामधिमन्यमान
उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥
अथो विहाय इमम् अमुम् च लोकम् विमर्शितौ हेयतया पुरस्तात् कृष्ण-अङ्घ्रि सेवाम् अधिमन्यमानः उपाविशत् प्रायम् अमर्त्य-नद्याम्
या वै लसच्छ्रीतुलसीविमिश्र-
कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री ।
पुनाति लोकानुभयत्र सेशान्
कस्तां न सेवेत मरिष्यमाण: ॥ ६ ॥
या वै लसत् श्री-तुलसी विमिश्र कृष्ण-अङ्घ्रि रेणु अभ्यधिक अम्बु नेत्री पुनाति लोकान् उभयत्र स-ईशान् कः ताम् न सेवेत मरिष्यमाणः
इति व्यवच्छिद्य स पाण्डवेय:
प्रायोपवेशं प्रति विष्णुपद्याम् ।
दधौ मुकुन्दाङ्घ्रिमनन्यभावो
मुनिव्रतो मुक्तसमस्तसङ्ग: ॥ ७ ॥
इति व्यवच्छिद्य सः पाण्डवेयः प्राय-उपवेशम् प्रति विष्णु-पद्याम् दधौ मुकुन्द-अङ्घ्रिम् अनन्य भावः मुनि-व्रतः मुक्त समस्त सङ्गः
तत्रोपजग्मुर्भुवनं पुनाना
महानुभावा मुनय: सशिष्या: ।
प्रायेण
तीर्थाभिगमापदेशै:
स्वयं हि तीर्थानि पुनन्ति सन्त: ॥ ८ ॥
तत्र उपजग्मुः भुवनम् पुनानाः महा-अनुभावाः मुनयः स-शिष्याः प्रायेण तीर्थ अभिगम अपदेशैः स्वयम् हि तीर्थानि पुनन्ति सन्तः
अत्रिर्वसिष्ठश्च्यवन: शरद्वा-
नरिष्टनेमिर्भृगुरङ्गिराश्च ।
पराशरो गाधिसुतोऽथ राम
उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥
मेधातिथिर्देवल आर्ष्टिषेणो
भारद्वाजो गौतम: पिप्पलाद: ।
मैत्रेय और्व: कवष: कुम्भयोनि-
र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥
अत्रिः तो नारदः
अन्ये च देवर्षिब्रह्मर्षिवर्या
राजर्षिवर्या अरुणादयश्च ।
नानार्षेयप्रवरान् समेता-
नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥
अन्ये च देवर्षि ब्रह्मर्षि वर्याः राजर्षि-वर्याः अरुण-आदयः च नाना आर्षेय-प्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे
सुखोपविष्टेष्वथ तेषु भूय:
कृतप्रणाम: स्वचिकीर्षितं यत् ।
विज्ञापयामास
विविक्तचेता
उपस्थितोऽग्रेऽभिगृहीतपाणि: ॥ १२ ॥
सुख उपविष्टेषु अथ तेषु भूयः कृत-प्रणामः स्व चिकीर्षितम् यत् विज्ञापयाम् आस विविक्त-चेताः उपस्थितः अग्रे अभिगृहीत-पाणिः
राजोवाच
राजा उवाच अहो वयम् धन्य-तमाः नृपाणाम् महत्-तम अनुग्रहणीय-शीलाः राज्ञाम् कुलम् ब्राह्मण-पाद शौचात् दूरात् विसृष्टम् बत गर्ह्य कर्म
तस्यैव मेऽघस्य परावरेशो
व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।
निर्वेदमूलो द्विजशापरूपो
यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥
तस्य एव मे अघस्य परा अवर ईशः व्यासक्त चित्तस्य गृहेषु अभीक्ष्णम् निर्वेद-मूलः द्विज-शाप रूपः यत्र प्रसक्तः भयम् आशु धत्ते
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृतचित्तमीशे ।
द्विजोपसृष्ट: कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथा: ॥ १५ ॥
तम् मा उपयातम् प्रतियन्तु विप्राः गङ्गा च देवी धृत चित्तम् ईशे द्विज-उपसृष्टः कुहकः तक्षकः वा दशतु अलम् गायत विष्णु-गाथाः
पुनश्च भूयाद्भगवत्यनन्ते
रति: प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यां यामुपयामि सृष्टिं
मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥
पुनः च भूयात् भगवति अनन्ते रतिः प्रसङ्गः च तत् आश्रयेषु महत्सु याम् याम् उपयामि सृष्टिम् मैत्री अस्तु सर्वत्र नमः द्विजेभ्यः
इति स्म राजाध्यवसाययुक्त:
प्राचीनमूलेषु कुशेषु धीर: ।
उदङ्मुखो
दक्षिणकूल आस्ते
समुद्रपत्न्या: स्वसुतन्यस्तभार: ॥ १७ ॥
इति स्म राजा अध्यवसाय युक्तः प्राचीन मूलेषु कुशेषु धीरः उदङ्-मुखः दक्षिण कूले आस्ते समुद्र पत्न्याः स्व सुत न्यस्त भारः
एवं च तस्मिन्नरदेवदेवे
प्रायोपविष्टे दिवि देवसङ्घा: ।
प्रशस्य
भूमौ व्यकिरन् प्रसूनै-
र्मुदा मुहुर्दुन्दुभयश्च नेदु: ॥ १८ ॥
एवम् च तस्मिन् नर-देव-देवे प्राय-उपविष्टे दिवि देव सङ्घाः प्रशस्य भूमौ व्यकिरन् प्रसूनैः मुदा मुहुः दुन्दुभयः च नेदुः
महर्षयो वै समुपागता ये
प्रशस्य साध्वित्यनुमोदमाना: ।
ऊचु: प्रजानुग्रहशीलसारा
यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥
महर्षयः वै समुपागताः ये प्रशस्य साधु इति अनुमोदमानाः ऊचुः प्रजा-अनुग्रह शील-साराः यत् उत्तम-श्लोक गुण-अभिरूपम्
न वा इदं राजर्षिवर्य चित्रं
भवत्सु कृष्णं समनुव्रतेषु ।
येऽध्यासनं राजकिरीटजुष्टं
सद्यो जहुर्भगवत्पार्श्वकामा: ॥ २० ॥
न वा इदम् राजर्षि वर्य चित्रम् भवत्सु कृष्णम् समनुव्रतेषु ये अध्यासनम् राज-किरीट जुष्टम् सद्यः जहुः भगवत् पार्श्व-कामाः
सर्वे वयं तावदिहास्महेऽथ
कलेवरं यावदसौ विहाय ।
लोकं परं विरजस्कं विशोकं
यास्यत्ययं भागवतप्रधान: ॥ २१ ॥
सर्वे वयम् तावत् इह आस्महे अथ कलेवरम् यावत् असौ विहाय लोकम् परम् विरजस्कम् विशोकम् यास्यति अयम् भागवत प्रधानः
आश्रुत्य तदृषिगणवच: परीक्षित्
समं मधुच्युद् गुरु चाव्यलीकम् ।
आभाषतैनानभिनन्द्य युक्तान्
शुश्रूषमाणश्चरितानि विष्णो: ॥ २२ ॥
आश्रुत्य तत् ऋषि-गण वचः परीक्षित् समम् मधु-च्युत् गुरु च अव्यलीकम् आभाषत एनान् अभिनन्द्य युक्तान् शुश्रूषमाणः चरितानि विष्णोः
समागता: सर्वत एव सर्वे
वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।
नेहाथ नामुत्र च कश्चनार्थ
ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥
समागताः सर्वतः एव सर्वे वेदाः यथा मूर्ति-धराः त्रि-पृष्ठे न इह अथ न अमुत्र च कश्चन अर्थः ऋते पर अनुग्रहम् आत्म-शीलम्
ततश्च व: पृच्छ्यमिमं विपृच्छे
विश्रभ्य विप्रा इति कृत्यतायाम् ।
सर्वात्मना म्रियमाणैश्च कृत्यं
शुद्धं च तत्रामृशताभियुक्ता: ॥ २४ ॥
ततः च वः पृच्छ्यम् इमम् विपृच्छे विश्रभ्य विप्राः इति कृत्यतायाम् सर्व-आत्मना म्रियमाणैः च कृत्यम् शुद्धम् च तत्र आमृशत अभियुक्ताः
तत्राभवद्भगवान् व्यासपुत्रो
यदृच्छया गामटमानोऽनपेक्ष: ।
अलक्ष्यलिङ्गो निजलाभतुष्टो
वृतश्च बालैरवधूतवेष: ॥ २५ ॥
तत्र अभवत् भगवान् व्यास-पुत्रः यदृच्छया गाम् अटमानः अनपेक्षः अलक्ष्य लिङ्गः निज-लाभ तुष्टः वृतः च बालैः अवधूत वेषः
तं द्व्यष्टवर्षं
सुकुमारपाद-
करोरुबाह्वंसकपोलगात्रम् ।
चार्वायताक्षोन्नसतुल्यकर्ण-
सुभ्र्वाननं
कम्बुसुजातकण्ठम् ॥ २६ ॥
तम् द्वि-अष्ट वर्षम् सु-कुमार पाद कर ऊरु बाहु अंस कपोल गात्रम् चारु आयत अक्ष उन्नस तुल्य कर्ण सुभ्रु आननम् कम्बु सुजात कण्ठम्
निगूढजत्रुं पृथुतुङ्गवक्षस-
मावर्तनाभिं वलिवल्गूदरं च ।
दिगम्बरं वक्त्रविकीर्णकेशं
प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥
निगूढ जत्रुम् पृथु तुङ्ग वक्षसम् आवर्त नाभिम् वलि-वल्गु उदरम् च दिक्-अम्बरम् वक्त्र विकीर्ण केशम् प्रलम्ब बाहुम् सु-अमर-उत्तम आभम्
श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या
स्त्रीणां मनोज्ञं रुचिरस्मितेन ।
प्रत्युत्थितास्ते मुनय: स्वासनेभ्य-
स्तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥
श्यामम् सदा अपीव्य वयः अङ्ग लक्ष्म्या स्त्रीणाम् मनः-ज्ञम् रुचिर स्मितेन प्रत्युत्थिताः ते मुनयः स्व आसनेभ्यः तत् लक्षण-ज्ञाः अपि गूढ-वर्चसम्
स विष्णुरातोऽतिथय आगताय
तस्मै सपर्यां शिरसाजहार ।
ततो निवृत्ता ह्यबुधा: स्त्रियोऽर्भका
महासने सोपविवेश पूजित: ॥ २९ ॥
सः विष्णु-रातः अतिथये आगताय तस्मै सपर्याम् शिरसा आजहार ततः निवृत्ताः हि अबुधाः स्त्रियः अर्भकाः महा-आसने स उपविवेश पूजितः
स संवृतस्तत्र महान् महीयसां
ब्रह्मर्षिराजर्षिदेवर्षिसङ्घै: ।
व्यरोचतालं भगवान् यथेन्दु-
र्ग्रहर्क्षतारानिकरै: परीत: ॥ ३० ॥
सः संवृतः तत्र महान् महीयसाम् ब्रह्मर्षि राजर्षि देवर्षि सङ्घैः व्यरोचत अलम् भगवान् यथा इन्दुः ग्रह ऋक्ष तारा निकरैः परीतः
प्रशान्तमासीनमकुण्ठमेधसं
मुनिं नृपो भागवतोऽभ्युपेत्य ।
प्रणम्य मूर्ध्नावहित: कृताञ्जलि-
र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥
प्रशान्तम् आसीनम् अकुण्ठ मेधसम् मुनिम् नृपः भागवतः अभ्युपेत्य प्रणम्य मूर्ध्ना अवहितः कृत-अञ्जलिः नत्वा गिरा सूनृतया अन्वपृच्छत्
परीक्षिदुवाच
अहो अद्य वयं ब्रह्मन् सत्सेव्या: क्षत्रबन्धव: ।
कृपयातिथिरूपेण भवद्भिस्तीर्थका: कृता: ॥ ३२ ॥
परीक्षित् उवाच अहो अद्य वयम् ब्रह्मन् सत्-सेव्याः क्षत्र बन्धवः कृपया अतिथि-रूपेण भवद्भिः तीर्थकाः कृताः
येषां संस्मरणात्पुंसां सद्य: शुद्ध्यन्ति वै गृहा: ।
किं पुनर्दर्शनस्पर्शपादशौचासनादिभि: ॥ ३३ ॥
येषाम् संस्मरणात् पुंसाम् सद्यः शुद्ध्यन्ति वै गृहाः किम् पुनः दर्शन स्पर्श पाद शौच आसन-आदिभिः
सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि ।
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतरा: ॥ ३४ ॥
सान्निध्यात् ते महा-योगिन् पातकानि महान्ति अपि सद्यः नश्यन्ति वै पुंसाम् विष्णोः इव सुर-इतराः
अपि मे भगवान् प्रीत: कृष्ण: पाण्डुसुतप्रिय: ।
पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धव: ॥ ३५ ॥
अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत प्रियः पैतृ स्वसेय प्रीति अर्थम् तत् गोत्रस्य आत्त बान्धवः
अन्यथा तेऽव्यक्तगतेर्दर्शनं न: कथं नृणाम् ।
नितरां म्रियमाणानां संसिद्धस्य वनीयस: ॥ ३६ ॥
अन्यथा ते अव्यक्त-गतेः दर्शनम् नः कथम् नृणाम् नितराम् म्रियमाणानाम् संसिद्धस्य वनीयसः
अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥
अतः पृच्छामि संसिद्धिम् योगिनाम् परमम् गुरुम् पुरुषस्य इह यत् कार्यम् म्रियमाणस्य सर्वथा
यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभि: प्रभो ।
स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८ ॥
यत् श्रोतव्यम् अथो जप्यम् यत् कर्तव्यम् नृभिः प्रभो स्मर्तव्यम् भजनीयम् वा ब्रूहि यद् वा विपर्ययम्
नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।
न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् ॥ ३९ ॥
नूनम् भगवतः ब्रह्मन् गृहेषु गृह-मेधिनाम् न लक्ष्यते हि अवस्थानम् अपि गो-दोहनम् क्वचित्
सूत उवाच
एवमाभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥ ४० ॥
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥
सूतः उवाच एवम् आभाषितः पृष्टः सः राज्ञा श्लक्ष्णया गिरा प्रत्यभाषत धर्म-ज्ञः भगवान् बादरायणिः