श्रीमद्भागवतमहापुराणम्
द्वितीय: स्कन्ध:
प्रथम: अध्याय:
श्रीशुक उवाच - Shri Shuka said -
वरीयानेष ते प्रश्न: कृतो लोकहितो नृप ।
आत्मवित्संमत: पुंसां श्रोतव्यादिषु य: पर: ॥१॥
वरीयान्-एष: ते प्रश्न: superb this your question
कृत: लोक-हित: नृप made (for) people's welfare, O King!
आत्मवित्-संमत: पुंसाम् to the knowers of the Self (it is) agreeable, for
आत्मवित्-संमत: पुंसाम् to the knowers of the Self (it is) agreeable, for people,
श्रोतव्य-आदिषु य: पर: to hear etc., which is excellent
श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रश: ।
अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥२॥
श्रोतव्य-आदीनि राजेन्द्र worth hearing, O King!
नृणाम् सन्ति सहस्रश: of men are thousands
अपश्यताम्-आत्म-तत्त्वम् non seeing, The Self Truth
गृहेषु गृहमेधिनाम् in house (engaged) householders
निद्रया ह्रियते नक्तं व्यवायेन च वा वय: ।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥३॥
निद्रया ह्रियते नक्तम् by sleep is lost night,
व्यवायेन च वा वय: by sex indulgence and or age
दिवा च-अर्थ-इहया day by wealth seeking
राजन् O King!
कुटुम्ब-भरणेन वा by nurturing the family or
देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि ।
तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥४॥
देह-अपत्य-कलत्र-आदिषु- body, children, wife, and others
आत्म-सैन्येषु-असत्सु-अपि own relatives, unreal also
तेषाम् प्रमत: निधनम् in them maddened (due to affection), death
पश्यन्-अपि न पश्यति watching also, does not see
तस्माद्भारत सर्वात्मा भगवानीश्वरो हरि: ।
श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥५॥
तस्मात्-भारत सर्वात्मा therefore, O Bhaarata!, the Universal Soul
भगवान्-ईश्वर: हरि: Lord, Almighty Shree Hari
श्रोतव्य: कीर्तितव्य:-च should be listened to, chanted and
स्मर्तव्य:-च इच्छता-अभयम् remembered and seeking the fearless state
एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभ: पर: पुंसामन्ते नारायणस्मृति: ॥६॥
एतावान् सांख्य-योगाभ्याम् this alone (is) by knowledge, devotion
स्व-धर्म-परिनिष्ठया (and) in ones own duties steadfastness
जन्म-लाभ: पर: पुंसाम्- of being born, the reward ultimate of the people,
अन्ते नारायण-स्मृति: at the last (death) time, to Naaraayana remember
प्रायेण मुनयो राजन्निवृत्ता विधिषेधत: ।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरे: ॥७॥
प्रायेण मुनय: राजन्- often, sages, O King!
निवृत्ता: विधि-षेधत: beyond do's and don'ts
नैर्गुण्यस्था: रमन्ते स्म established in the Absolute, revel
गुण-अनुकथने हरे: in the virtues relating of Shree Hari
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥८॥
इदम् भागवतम् this Bhaagavatam
नाम पुराणम् named Puraana
ब्रह्म-सम्मितम् Vedas equal to
अधीतवान् द्वापर-आदौ studied in Dwaapara's beginning
पितु:-द्वैपायनात्-अहम् from father Dwaipaayana, I
परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥९॥
परिनिष्ठित:-अपि नैर्गुण्ये established, though in The Absolute
उत्तम-श्लोक-लीलया by the highly renowned's sportings
गृहीत-चेता: राजर्षे enchanted minded, O Royal sage!
आख्यानम् यत्-अधीतवान् the narrations that I studied
तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।
यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मति: सती॥ १०॥
तत्-अहम् ते-अभिधास्यामि that, I to you will relate
महा-पौरुषिक: भवान् great devotee you are
यस्य श्रद्दधताम्-आशु in which faith reposing, soon
स्यात्-मुकुन्दे मति: सती becomes in Mukunda (Krishna) mind supreme
एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥११॥
एतत्-निर्विद्यमानानाम्- in this (world), (for those) not present
इच्छताम्-अकुतोभयम् seeking the fearless state
योगिनाम् नृप निर्णीतम् and (for) the Yogis, O King! Is concluded
हरे:-नाम-अनुकीर्तनम् Hari's name chanting
किं प्रमत्तस्य बहुभि: परोक्षैर्हायनैरिह ।
वरं मुहुर्त्तं विदितं घटेत श्रेयसे यत: ॥१२॥
किम् प्रमत्तस्य बहुभि: what (use) of an ignorant's many (years)
परोक्षै: हायनै:-इह in ignorance years here (in this world)
वरम् मुहुर्त्तम् विदितम् better a moment in knowledge
घटेत श्रेयसे यत: spent beneficial (it is) because
खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुष: ।
मुहुर्त्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥१३॥
खट्वाङ्ग: नाम राजर्षि: Khatwaanga named royal sage
ज्ञात्वा-इयत्ताम्-इह-आयुष: knowing this much, here age
मुहुर्त्तात्-सर्वम्-उत्सृज्य in an hour, every thing giving up
गतवान्-अभयम् हरिम् sought the fearless Hari
तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधि: ।
उपकल्पय तत्सर्वं तावद्यत्सांपरायिकम् ॥१४॥
तव-अपि-एतर्हि कौरव्य your also now, O descendent of Kuru!
सप्ताहम् जीवित-अवधि: a week's life limit
उपकल्पय तत्-सर्वम् accomplish that all,
तावत्-सांपरायिकम् so that, hereafter, is for your benefit
अन्तकाले तु पुरुष आगते गतसाध्वस: ।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥१५॥
अन्त-काले तु पुरुष: at the last time (death), indeed for a person,
आगते गत-साध्वस: having come, giving up fear
छिन्द्यात्-असङ्ग-शस्त्रेण should cut off with non attachment sword
स्पृहाम् देहे- affection to the body
अनु ये च तम् following those and to it
गृहात् प्रव्रजितो धीर: पुण्यतीर्थजलाप्लुत: ।
शुचौविविक्त आसीनो विधिवत्कल्पितासने ॥१६॥
गृहात्-प्रव्रजित: धीर: from house going away, the steady minded
पुण्य-तीर्थ-जल-आप्लुत: in holy pilgrimage's water bathing
शुचौ-विविक्ते आसीन: in clean secluded place sitting
विधिवत्-कल्पित-आसने systematically made on a seat
अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।
मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७॥
अभ्यसेत्-मनसा शुद्धम् practice mentally the pure
त्रिवृत्-ब्रह्म-अक्षरम् परम् three parted Brahma letter (AUM), the holy
मनो यच्छेत्-जित-श्वास: mind in control, conquering the breath
ब्रह्म-बीजम्-अविस्मरन् the Brahma seed not forgetting
नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथि: ।
मन: कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥१८॥
नियच्छेत्-विषयेभ्य:-अक्षान्- withdraw, from sense objects senses
मनसा बुद्धि-सारथि: by mind (making) intellect driver
मन: कर्मभि:-आक्षिप्तम् mind, by actions distracted
शुभार्थे धारयेत्-धिया in beneficial deeds fix mentally
तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।
मनो निर्विषयं युक्त्वा तत: किञ्चन न स्मरेत् ।
पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥१९॥
तत्र-एक-अवयवम् ध्यायेत्- there, (Lord's form) on one limb, may meditate
अव्युच्छिन्नेन चेतसा with undistracted mind
मन: निर्विषयम् युक्त्वा (then) the mind, withdrawn from senses, engaging
तत: किञ्चन न स्मरेत् there ,(in the limb) anything should not remember
पदम् तत्-परमम् विष्णो:- state that the highest, of Vishnu
मन: यत्र प्रसीदति mind where is blissful
रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मन: ।
यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥२०॥
रज:-तमोभ्याम्-आक्षिप्तम् by Rajas and Tamas, distracted
विमूढम् मन: आत्मन: and nonplussed mind of his
यच्छेत्-धारणया धीर: may control by concentration, the wise
हन्ति या तत्-कृतम् मलम् kills which, by them (Rajas and Tamas) created
हन्ति या तत्-कृतम् मलम् kills which, by them (Rajas and Tamas) created impurity
यस्यां संधार्यमाणायां योगिनो भक्तिलक्षण: ।
आशु संपद्यते योग आश्रयं भद्रमीक्षत: ॥२१॥
यस्याम् संधार्यमाणायम् in which (concentration) established
योगिन: भक्ति-लक्षण: the yogis, devotion's object (the Lord)
आशु संपद्यते योग: soon achieves union
आश्रयम् भद्रम्-ईक्षत: the object of Bliss, meditating on
राजा-उवाच - The King said -
यथा संधार्यते ब्रह्मन् धारणा यत्र सम्मता ।
यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥२२॥
यथा संधार्यते ब्रह्मन् how is practised, O Holy sage!
धारणा यत्र सम्मता concentration, and where is it approved
यादृशी वा हरेत्-आशु which kind or, takes away soon
पुरुषस्य मनो-मलम् a person's mind's impurity
श्री शुक उवाच - Shree Shuka said -
जितासनो जितश्वासो जितसङ्गो जितेन्द्रिय: ।
स्थूले भगवतो रूपे मन: संधारयेद् धिया ॥२३॥
जित-आसन: जित-श्वास: conquering the seat (steady posture), control of
जित-आसन: जित-श्वास: conquering the seat (steady posture), control of breath,
जित-सङ्ग: जित-इन्द्रिय: giving up company, subduing the senses
स्थूले भगवत: रूपे on the material form of the Lord
मन: संधारयेद् धिया mind should fix, by (force of) reason
विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।
यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥२४॥
विशेष:-तस्य देह:-अयम् the universal, His form this
स्थविष्ठ:-च स्थवीयसाम् (is) grossest and among the most gross
यत्र-इदम् दृश्यते विश्वम् where this is seen the universe
भूतम् भव्यम् भवत्-च सत् in the past, future and present phenomenal
आण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते ।
वैराज: पुरुषो योऽसौ भगवान् धारणाश्रय: ॥२५॥
आण्डकोशे शरीरे-अस्मिन् in the cosmic body this
सप्त-आवरण-संयुते by seven sheaths covered
वैराज: पुरुष: य:-असौ भगवान् the Great Being, That, This Lord
धारणा-आश्रय: (is) of concentration, the support
पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् ।
महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥२६॥
पातालम्-एतस्य हि पाद-मूलम् Paataala, His, indeed (is) feet soles
पठन्ति पार्ष्णि-प्रपदे is read (observed), the heels and toes
रसातलम् महातलम् Rasaatalam, Mahaatalam
विश्वसृज:-अथ गुल्फौ of the world's Creator's, then, the knuckles (of the
विश्वसृज:-अथ गुल्फौ of the world's Creator's, then, the knuckles (of the feet)
तलातलम् वै पुरुषस्य जङ्घे Talaatalam, of course, of The Primal Person's, calf
तलातलम् वै पुरुषस्य जङ्घे Talaatalam, of course, of The Primal Person's, calf muscles
द्वे जानुनि सुतलं विश्वमूर्तेरूरुद्वयं वितलं चातलं च ।
महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥२७॥
द्वे जानुनि सुतलम् विश्वमूर्ते:- two knees, Sutalam of The Cosmic Being
ऊरु-द्वयम् वितलम् the thighs two, Vitalam
च-अतलम् च and Atalam, and
महीतलम् तत्-जघनम् Mahitalam, His loins
महीपते: नभस्तलम् O King! Nabhastalam
नाभि-सर: गृणन्ति (his) navel lake, taken to be
उर:स्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य ।
तपो रराटीं विदुरादिपुंस: सत्यं तु शीर्षाणि सहस्रशीर्ष्ण: ॥२८॥
उर:-स्थलम् ज्योति:-अनीकम्- chest area, the light's cluster (the heaven),
अस्य ग्रीवा मह:- His neck Maharloke,
वदनम् वै जन:-अस्य face indeed Janaloke His
तप: रराटीम् Tapo loka is the forehead
विदु:-आदि-पुंस: (and) is known of the Primal Person
सत्यम् तु शीर्षाणि Satya loka of course, the head
सहस्र-शीर्ष्ण: of The Thousand Headed (Lord)
इन्द्रादयो बाहव आहुरुस्रा: कर्णौ दिश: श्रोत्रममुष्य शब्द: ।
नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्ध: ॥२९॥
इन्द्र-आदय: बाहव: Indra and other, arms
आहु: उस्रा: कर्णौ दिश: are said to be, gods, ears the quarters
श्रोत्रम्-अमुष्य शब्द: auditory sense His voice
नासत्यदस्रौ the Ashwini Kumaaras
परमस्य नासे of the Supreme nostrils
घ्राण:-अस्य गन्ध: odour His olfactory senses
मुखम्-अग्नि:-इद्ध: mouth, the blazing fire
द्यौरक्षिणी चक्षुरभूत्पतङ्ग: पक्ष्माणि विष्णोरहनी उभे च ।
तद्भ्रूविजृम्भ: परमेष्ठिधिष्ण्यमापोऽस्य तालू रस एव जिह्वा ॥३०॥
द्यौ:-अक्षिणी the sky (is His) eyes
चक्षु:-अभूत्-पतङ्ग: His sight became the Sun
पक्ष्माणि विष्णो:- the eyelids of Vishnu
अहनी उभे च day and night both and
तद्-भ्रू-विजृम्भ: His eyebrows' play
परमेष्ठि-धिष्ण्यम्- Brahma's abode
आप:-अस्य तालू: water is His palate
रस: एव जिह्वा and taste only the tongue
छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यम: स्नेहकला द्विजानि ।
हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्ष: ॥३१॥
छन्दांसि-अनन्तस्य the Vedas of the Lord
शिर: गृणन्ति crown is declared
दंष्ट्रा यम: the grinding teeth are Yama (the god of death)
स्नेह-कला द्विजानि love and its many forms His teeth
हास: जन-उन्मादकरी His laughter, the people deluding
च माया दुरन्त-सर्ग: and Maaya, the unending creation
यद्-अपाङ्ग-मोक्ष: that sidelong glances
व्रीडोत्तरोष्ठोऽधर एव लोभो धर्म:स्तनोऽधर्मपथोऽस्य पृष्ठम् ।
कस्तस्य मेढुं वृषणौ च मित्रौ कुक्षि: समुद्रा गिरयोऽस्थिसंघा: ॥३२॥
व्रीडा-उत्तर-ओष्ठ:- shyness, the upper lip
अधर एव लोभ: lower lip only greed
धर्म:-स्तन:- piety is breast
अधर्म-पथ:-अस्य पृष्ठम् unrighteous paths, His back
क:-तस्य मेढुम् Brahmaa His penis
वृषणौ च मित्रौ testicles and Mitra and Varun
कुक्षि: समुद्रा: abdominal cavity the oceans
गिरय:-अस्थि-संघा: the mountains, the bones systems
नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र ।
अनन्तवीर्य: श्वसितं मातरिश्वा गतिर्वय: कर्म गुणप्रवाह: ॥३३॥
नद्य:-अस्य नाड्य:- rivers His arteries and veins,
अथ तनू-रुहाणि महीरुहा: then, body's hair, the trees
विश्वतनो:-नृपेन्द्र of the Cosmic Person, O King!
अनन्त-वीर्य: of infinite strength
श्वसितम् मातरिश्वा the breath, the air
गति:-वय: motion is age (time)
कर्म गुण-प्रवाह: activity, the three Guna's flow
ईशस्य केशान् विदुरम्बुवाहान् वासस्तु संध्यां कुरुवर्य भूम्न: ।
अव्यक्तमाहुर्हृदयं मनश्च स चन्द्रमा: सर्वविकारकोश: ॥३४॥
ईशस्य केशान् विदु:- the Lord's hair are understood as
अम्बु-वाहान् the water bearers (clouds)
वासस्तु संध्याम् garments the evening twilight
कुरुवर्य भूम्न: O Chief of the Kurus! Of the Primordial (Lord)
अव्यक्तम्-आहु:-हृदयम् latent Nature is said to be the heart
मन:-च स: चन्द्रमा: mind is that moon
सर्व-विकार-कोश: all passions' seat
विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्त:करणं गिरित्रम् ।
अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगा: पशव: श्रोणिदेशे ॥३५॥
विज्ञान-शक्तिं the understanding power
महिमा-आमनन्ति the Maht-tatwa, (Cosmic Intelligence) is understood
सर्वात्मन:- of the Universal Spirit
अन्त:करणम् गिरित्रम् ego is Rudra
अश्व-अश्वर्तरी-उष्ट्र- horses, mules, camels
गजा: नखानि elephants nails
सर्वे मृगा: पशव: all deer and other animals
श्रोणि-देशे (are) in the waist area
वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवास: ।
गन्धर्वविद्याधरचारणाप्सर: स्वरस्मृतीरसुरानीकवीर्य: ॥३६॥
वयांसि तत्-व्याकरणम् विचित्रम् the birds, His creation wonderful
मनु:-मनीषा मनुज: निवास: Manu is (His) intellect, man is (His) abode
गन्धर्व-विद्याधर- Gandharvas, Vidyaadharas,
चारण-अप्सर: Chaarana and Apsaras
स्वरस्मृती:- are (His) melodies
असुर-अनीक-वीर्य: the demon hosts are (His) valour
ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्ण: ।
नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मक: कर्म वितानयोग: ॥३७॥
ब्रह्म-आननम् क्षत्र-भुज: the Braahmana, the face, the Kshatriyas, the arms
महात्मा विड्-ऊरु:- (of) the mighty Being, the Vaishyas, the thighs
अङ्घ्रि-श्रित-कृष्ण-वर्ण: in the feet placed, dark complexioned (Shudras)
नाना-अभिधा-अभीज्य-गण- various named, sacrifices groups
उपपन्न: द्रव्य-आत्मक: conducting materials
कर्म वितानयोग: occupation performance
इयानसावीश्वरविग्रहस्य य: संनिवेश: कथितो मया ते ।
संधार्यतेऽस्मिन् वपुषि स्थविष्ठे मन: स्वबुद्ध्या न यतोऽस्ति किंचित् ॥३८॥
इयान्-असौ-ईश्वर- such, this the Lord's
विग्रहस्य य: संनिवेश: Body's magnitude
कथित: मया ते told by me to you
संधार्यते-अस्मिन् placed on this
वपुषि स्थविष्ठे constitution gross
मन: स्व-बुद्ध्या mind ones by intellect
न यत:-अस्ति किंचित् not where is anything
स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैक: ।
तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद् यत आत्मपात: ॥३९॥
स: सर्व-धी-वृत्ति-अनुभूत-सर्व He all mental projections, experiences
स: सर्व-धी-वृत्ति-अनुभूत-सर्व He all mental projections, experiences everything
आत्मा यथा स्वप्न-जन- The Self just as, a dreaming person
ईक्षित-एक: perceives one (self)
तम् सत्यम्-आनन्द-निधिम् Him, The Truth, The Bliss Storehouse
भजेत न-अन्यत्र सज्जेत् devote to, not elsewhere (get) attached
यत आत्मपात: because (it is) self degrading
इति श्रीमद्भागवते महापुराणे पारमहंस्यां सं हितायां द्वितीयस्कन्धे
महापुरुषसंस्थानुवर्णने प्रथम: अध्याय: ॥१॥ Thus ends the first discourse in BookTwo, describing among other things
द्वितीय: अध्याय:
एवं पुरा धारणयाऽऽत्मयोनिर्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।
तथा ससर्जेदममोघदृष्टिर्यथाप्ययात् प्राग्व्यवसायबुद्धि: ॥१॥
एवम् पुरा in this manner, long back
धारणया-आत्मयोनि:- by concentration, Brahmaa
नष्टाम् स्मृतिम् (who had) lost the memory
प्रत्यवरुध्य तुष्टात् getting again having pleased
तथा ससर्ज-इदम्- and then created this
अमोघ-दृष्टि:- unfailing vision
यथा-अपि-अयात् which also was
प्राग्-व्यवसाय-बुद्धि: before (destruction) unfaltering knowledge
शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थै: ।
परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयान: ॥२॥
शाब्दस्य हि ब्रह्मण: of the words indeed of Vedas
एष पन्था: यत्- this is the method, that,
नामभि:-ध्यायति धी:- in names thinks the mind
अपार्थै: परिभ्रमन्-तत्र in meaningless confused in that
न विन्दते-अर्थान् does not get real happiness
माया-मये in Maaya infused
वासनया शयान: by illusions dreamily
अत: कविर्नामसु यावदर्थ: स्यादप्रमत्तो व्यवसायबुद्धि:।
सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण: ॥३॥
अत: कवि:-नामसु therefore the wise, among (those) objects
यावत्-अर्थ: according to requirement
स्यात्-अप्रमत्त: being dispassionate
व्यवसाय-बुद्धि: with a discriminating mind
सिद्धे-अन्यथा- achieves (them, if) otherwise
अर्थे न यतेत for it should not strive
तत्र परिश्रमम् (because) there (in doing that) the effort
तत्र समीक्षमाण in those things knowing to be futile
सत्यां क्षितौ किं कशिपो: प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणै: किम् ।
सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलै: ॥४॥
सत्याम् क्षितौ there being earth
किम् कशिपो: प्रयासै:- what (use) is a bed's effort
बाहौ स्वसिद्धे with arms naturally present
हि-उपबर्हणै: किम् also, pillows of what (use)
सति-अञ्जलौ with being there, the palm hollows
किम् पुरुधा-अन्नपात्र्या what (use) are many utensils
दिग्-वल्कल-आदौ सति the directions and trees etc being
किम् दुकूलै: what of clothes
चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपा: परभृत: सरितोऽप्यशुष्यन् ।
रुद्धा गुहा: किमजितोऽवति नोपसन्नान् कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥५॥
चीराणि किम् पथि न सन्ति rags what, on road not are
दिशन्ति भिक्षाम् न-एव-अङ्घ्रिपा: give alms, not also trees
परभृत: सरित:-अपि-अशुष्यन् for others living, rivers also have dried
रुद्धा गुहा: किम्- blocked are the caves what
अजित:-अवति न-उपसन्नान् the Lord protects not the shelter seeking
कस्माद् भजन्ति कवय: for what please the wise
धन-दुर्मद-अन्धान् the wealth pride blinded
एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्त: ।
तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥६॥
एवम् स्व-चित्ते thus, in ones own mind
स्वत: एव by one self only
सिद्ध: आत्मा having placed the Self
प्रिय:-अर्थ: the benefits bringing
भगवान्-अनन्त: Lord Eternal
तम् निर्वृत: Him unattached
नियतार्थ: भजेत firm minded (should) worship
संसार-हेतु- the creation's cause
उपरम:-च यत्र ceases and where
कस्तां त्वनादृत्य परानुचिन्तामृते पशूनसतीं नाम युञ्ज्यात् ।
पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम् ॥७॥
क:-ताम् तु-अनादृत्य who that, indeed ignoring
पर-अनुचिन्ताम्- The Supreme's meditation
ऋते पशून्-असतीम् giving up, animals, in false (objects)
नाम युञ्ज्यात् surely engages
पश्यन्-जनम् (even) watching men
पतितम् वैतरण्याम् fallen in the hellish river
स्व-कर्मजान् by ones actions created
परितापान्-जुषाणम् agonies suffering
केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति ॥८॥
केचित् स्व-देह-अन्त:- some (people), in (their) own body within
हृदय-अवकाशे the heart cavity
प्रादेश-मात्रम् of the size of a thumb and forefingers' span
पुरुषम् वसन्तम् चतुर्भुजम् the Person residing, four armed
कञ्ज-रथाङ्ग-शङ्ख-गदा-धरम् lotus, discus, conch and mace holding
धारणया स्मरन्ति with concentration remember
प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् ।
लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥९॥
प्रसन्न-वक्त्रम् a cheerful face
नलिन-आयत-ईक्षणम् lotus (like) big eyes
कदम्ब-किञ्जल्क- of Kadamba flowers' pollen dust
पिशङ्ग-वाससम् yellow garments
लसत्-महारत्न- beautiful high-class gems (studded)
हिरण्मय-अङ्गदम् golden armlets
स्फुरत्-महारत्न- shining precious gems (studded)
किरीट-कुण्डलम् crown and earrings
उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् ।
श्रीलक्ष्मणं कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या वनमालयाऽऽचितम् ॥१०॥
उन्निद्र हृत्-पङ्कज- on the blooming, heart lotus
कर्णिक-आलये tender petals abode,
योगेश्वर-आस्थापित- by the Yoga masters, installed
पाद-पल्लवम् श्रीलक्ष्मणम् the feet lotus, Laxmi denoting golden streak
कौस्तुभ-रत्न-कन्धरम्- the Kaustubha gem on the chest
अम्लान-लक्ष्म्या by ever lustrous beauty
वन-मालया-आचितम् of sylvan garland adorned
विभूषितं मेखलयाङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभि: ।
स्निग्धामलाकुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम् ॥११॥
विभूषितम् मेखलया- adorned by a waist band
अङ्गुलीयकै:-महा-धनै:- by rings very precious
नूपुर-कङ्कण-आदिभि: anklets and bracelets, etc.,
स्निग्ध-आमल- soft and shining
आकुञ्चित-नील-कुन्तलै:- curled blue tresses
विरोचमान-आनन- beautifying the face
हास-पेशलम् with a smile glowing
अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।
ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥१२॥
अदीन-लीला-हसित-ईक्षण- unbound sporting, (with) smile and glances
उल्लसत्-भ्रू-भङ्ग- enhancing of eyebrows play
संसूचित-भूरि-अनुग्रहम् showering abundant grace
ईक्षेत चिन्तामयम्- gaze in meditation
एनम्-ईश्वरम् यावत्-मन: This Lord, till the mind
धारणया-अवतिष्ठते in concentration is firm
एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावत् हसितं गदाभृत: ।
जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥१३॥
एक-एकश:-अङ्गानि one by one the limbs
धिया-अनुभावयेत् mentally visualizing
पाद-आदि यावत् feet etc., up till
हसितम् गदाभृत: the smiling (face), of the Wielder of Mace (Vishnu's)
जितम् जितम् one by one, (having visualised)
स्थानम्-अपोह्य leaving that place
धारयेत् परम् परम् (should) concentrate on the next and next
शुद्ध्यति धी:- purifies the mind
यथा यथा as and when
यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोग: ।
तावत्स्थवीय: पुरुषस्य रूपं क्रियावसाने प्रयत: स्मरेत ॥१४॥
यावत्-न जायेत until does not become
पर-अवरे-अस्मिन् on all pervading This
विश्व-ईश्वरे द्रष्टरि Universal Lord, the Witness
भक्तियोग: devotion
तावत्-स्थवीय: till then the gross
पुरुषस्य रूपम् Primal Person's form
क्रिया-अवसाने the (daily) worship's end
प्रयत: स्मरेत with concentration remember
स्थिरं सुखं चासनमाश्रितो यतिर्यदा जिहासुरिममङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा जितासु: ॥१५॥
स्थिरम् सुखम् च- steady and easy
आश्रित: यति:-यदा sitting, a striver, when
जिहासु:-इमम्-अङ्ग लोकम् eager to leave this, O Dear! World
काले च देशे च in time and place
मन: न सज्जयेत् mind not attached
प्राणान् नियच्छेत्- breath should control
मनसा जितासु: mentally winning over the senses
मन: स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि ।
आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत् कृत्यात् ॥१६॥
मन: स्व-बुद्ध्या-अमलया mind by own intellect pure
नियम्य क्षेत्रज्ञे controlling, in Kshatriya (the principle consciousness)
एताम् निनयेत् this should take, that (the consciousness)
तम्-आत्मनि आत्मानम- in the absolute self, the self
आत्मनि-अवरुध्य in the Supreme Self merging
धीर: लब्ध-उपशान्ति:- the wise procuring peace
विरमेत् कृत्यात् abstains from all activity
न यत्र कालोऽनिमिषां पर: प्रभु: कुतो नु देवा जगतां य ईशिरे ।
न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥१७॥
न यत्र काल:- not where Time
अनिमिषाम् पर: प्रभु: of gods great ruler
कुत: नु देवा: where indeed the gods
जगताम् ये ईशिरे on the worldly (creatures) who rule
न यत्र सत्त्वम् not where is Sattva
न रज:-तम:-च not Rajas and Tamas
न वै विकार: not any ego
न महान् प्रधानम् not the Mahat (Principle Intelligence) and Pradhaan (
न महान् प्रधानम् not the Mahat (Principle Intelligence) and Pradhaan ( matter)
परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षव: ।
विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥१८॥
परम् पदम् वैष्णवम्- the highest state, of Vishnu
आमनन्ति तत्- declare (the scriptures) is that (Him)
यत्-न-इति न-इति- which is not this, not this
अतद्-उत्सिसृक्षव: thus other than Him rejecting
विसृज्य दौरात्म्यम्- and giving up with body identification
अनन्य-सौहृदा and exclusive devotion
हृदा-उपगुह्य- with their hearts embracing
अर्हपदं पदे पदे the adorable state every moment
इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशय: ।
स्वपार्ष्णिनाऽऽपीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लम: ॥१९॥
इत्थम् मुनि:-तु-उपरमेत् thus a Yogi should drop the body,
व्यवस्थित: विज्ञान-दृक्-वीर्य- established in scriptures, with a vision's
सुरन्धित-आशय: (having) abandoned the gratifications
स्व-पार्ष्णिना- by his own heels
आपीड्य गुदम् pressing (his) anus
तत:-अनिलम् from there the breath
स्थानेषु षट्सु- from six places
उन्नमयेत्-जित-क्लम: draw upwards, overcoming strain
नाभ्यां स्थितं हृद्यधिरोप्य तस्मादुदानगत्योरसि तं नयेन्मुनि: ।
ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥२०॥
नाभ्याम् स्थितम् in the navel present
हृदि-अधिरोप्य in the heart placing
तस्मात्-उदान-गत्या- from there by the Udaana air course
उरसि तम् नयेत्-मुनि: in throat it shoud take the Yogi
तत:-अनुसन्धाय from there, with discrimination
धिया मनस्वी intelligently, the Yogi
स्व-तालु-मूलम् his own palate's root
शनकै:-नयेत gradually take
तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्ष: ।
स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥२१॥
तस्मात् भ्रुव:-अन्तरम्- from there, in the eyebrows' centre
उन्नयेत निरुद्ध-सप्त-आयतन: lift up (the air), closing the seven passages
अनपेक्ष: स्थित्वा desiring nothing, pausing
मुहूर्त-अर्धम्-अकुण्ठ-दृष्टि:- for an hour, (with an) unwavering vision
निर्भिद्य मूर्धन् breaking open the crown
विसृजेत्-परम् गत: release (the air) in God merged
यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानामुत यद् विहारम् ।
अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥२२॥
यदि प्रयास्यन् नृप if proceeds to, O King!
पारमेष्ठ्यम् वैहायसानाम्-उत to Brahmaloka, of the (celestial) beings, or,
यत् विहारम् अष्ट-अधिपत्यम् which abode, the eight powers
गुण-सन्निवाये the three Gunas made up of
सह-एव गच्छेत्- together only should go
मनसा-इन्द्रियै:-च with mind, senses and
योगेश्वराणां गतिमाहुरन्तर्बहिस्त्रिलोक्या: पवनान्तरात्मनाम् ।
न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥२३॥
योगेश्वराणाम् गतिम्-आहु:- of the masters of Yoga, movement is said
अन्तर्-बहि:-त्रिलोक्या: (to be) inside and outside, of the three worlds
पवन-अन्तर-आत्मनाम् like air subtle bodied
न कर्मभि:-ताम् not by action (Karma) alone, that
गतिम्-आप्नुवन्ति movement is achieved
विद्या-तप:- (except by) knowledge, austerities,
योग-समाधि-भाजाम् Yoga and meditation conducting (Yogis)
वैश्वानरं याति विहायसा गत: सुषुम्णया ब्रह्मपथेन शोचिषा ।
विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥२४॥
वैश्वानरम् याति to Vaishwaanara (abode of fire) goes
विहायसा गत: सुषुम्णया through air (heavens), going, the Sushumnaa (passage),
ब्रह्म-पथेन शोचिषा by the path of Brahma-loka bright
विधूत-कल्क:-अथ washed of all impurities
हरे:-उदस्तात् of Hari, the higher up
प्रयाति चक्रम् reaches the sphere
नृप शैशुमारम् O King! (called) the Shishumaar, (dolphin)
तद् विश्वनाभिं त्वतिवर्त्य विष्णोरणीयसा विरजेनात्मनैक: ।
नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते ॥२५॥
तत् विश्व-नाभिम् that, navel of the universe,
तु-अतिवर्त्य विष्णो:- also passing of Vishnu,
अणीयसा विरजेन- by the subtle and pure
आत्मना-एक: नमस्कृतम् body, alone adored
ब्रह्मविदाम्-उपैति by the knower's of Brahmaa, ascends
कल्प-आयुष: the Kalpa-aged
यत् विबुधा: रमन्ते where gods live
अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् ।
निर्याति सिद्धेश्वरजुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥२६॥
अथ: अनन्तस्य मुख- then by Shesha's mouth's
अनलेन दन्दह्यमानम् fire burning
स: निरीक्ष्य विश्वम् he seeing the worlds
निर्याति goes to
सिद्धेश्वर-जुष्ट by the Siddhas' foremost, residing
धिष्ण्यम् यद् abode which
द्वैपरार्ध्यम् तद्-उ till two Paraardhaas that is
पारमेष्ठ्यम् of Brahmaa (the span of life)
न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग ऋते कुतश्चित् ।
यच्चित्ततोऽद: कृपयानिदंविदां दुरन्तदु:खप्रभवानुदर्शनात् ॥२७॥
न यत्र शोक: न जरा not where (is) agony, not old age
न मृत्यु:-न-आर्ति:-न च- not death not suffering and not
उद्वेग: ऋते कुतश्चित् fear, except whatever
यत्-चित्तत:-अद: that mental anguish
कृपया-अनिदम्-विदाम् out of compassion, of (people) proper, not knowing
दुरन्त-दु:ख extreme agony
प्रभव-अनुदर्शनात् generating, by seeing
ततो विशेषं प्रतिपद्य निर्भयस्तेनात्मनापोऽनलमूर्तिरत्वरन् ।
ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥२८॥
तत: विशेषम् प्रतिपद्य thereafter the subtle (body) merging,
निर्भय:-तेन-आत्मना- fearlessly with the earth body
आप:-अनल-मूर्ति:-अत्वरन् water and fire bodies crossing
ज्योतिर्मय: वायुम्-उपेत्य lustrous, aerial reaching
काले वायु-आत्मना in time by aerial body
खम् बृहत्-आत्मलिङ्गम् ethereal, (leading to) infinite Brahma's index
घ्राणेन गन्धं रसनेन वै रसं रूपं तु दृष्ट्या श्वसनं त्वचैव ।
श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥२९॥
घ्राणेन गन्धम् by the olfactory sense into the smell
रसनेन वै रसम् by the sense of taste then into the taste (element)
रूपम् तु दृष्ट्या the element of form indeed by sight
श्वसनम् त्वचा-एव touch by the sense of touch
श्रोत्रेण च-उपेत्य by the auditory sense reaching
नभ:- गुणत्वम् to the sound element
प्राणेन च-अकूतिम्- by the functioning organs and into the power of function
उपैति योगी reaches the Yogi
स भूतसूक्ष्मेन्द्रियसंनिकर्षं मनोमयं देवमयं विकार्यम् ।
संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम् ॥३०॥
स: भूत सूक्ष्म-इन्द्रिय he (the Yogi), the elements, subtle senses
संनिकर्षम् मनोमय and the presiding deities, in Saatvic ego
देवमयम् विकार्यम् in Raajasika ego, in Taamasika ego,
संसाद्य गत्या merging, by the process
सह तेन याति along with that (ego) goes
विज्ञान-तत्त्वम् to Mahat-tatva (cosmic intelligence)
गुण-संनिरोधम् Gunas' beyond
तेनात्मनाऽऽत्मानमुपैति शान्तमानन्दमानन्दमयोऽवसाने ।
एतां गतिं भागवतीं गतो य: स वै पुनर्नेह विषज्जतेऽङ्ग ॥३१॥
तेन-आत्मना- by that (subtle) self
आत्मानम्-उपैति The Self achieves
शान्तम्-आनन्दम्- peaceful blissful
आनन्दमय:-अवसाने (himself) blissful, at the dissolution
एताम् गतिम् भागवतीम् this state of divinity
गत: य: स: वै reaches, who-so-ever, he definitely
पुन:-न-इह again not here (in this world)
विषज्जते-अङ्ग returns O Dear!
एते सृती ते नृपवेद गीते त्वयाभिपृष्टे ह सनातने च ।
ये वै पुरा ब्रह्मण आह पृष्ट आराधितो भगवान् वासुदेव: ॥३२॥
एते सृती ते नृप these paths, to you O King!
वेद गीते त्वया-अभिपृष्टे in the Vedas described, by you enquired
ह सनातने च indeed the oldest and
ये वै पुरा which also long back
ब्रह्मणे आह to Brahmaa said
पृष्ट आराधितो (when) asked and worshipped
भगवान् वासुदेव: Lord Vaasudeva
न ह्यतोऽन्य: शिव: पन्था विशत: संसृताविह ।
वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥३३॥
न हि-अत:-अन्य: not indeed from (this) other
शिव: पन्था: विशत: blessed path, (for those) engaged in
संसृतौ-इह the world here
वासुदेवे भगवति in Vaasudeva Lord
भक्तियोग: यत: भवेत् the devotion path, unless happens
भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥३४॥
भगवान् ब्रह्म कार्त्स्न्येन Lord Brahmaa, with totality (the Vedas)
त्रि:-अन्वीक्ष्य मनीषया thrice critically studied with reason
तद-अध्यवस्यत् कूटस्थ: that established the core
रति:-आत्मन् यत: भवेत् of devotion to the Lord, by which happens
भगवान् सर्वभूतेषु लक्षित: स्वात्मना हरि: ।
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकै: ॥३५॥
भगवान् सर्व-भूतेषु The Lord, in all beings
लक्षित: स्वात्मना हरि: is indicated as self, Shree Hari,
दृश्यै:-बुद्धि-आदिभि:- by sight, intellect etc.,
द्रष्टा लक्षणै:-अनुमापकै: witnesses by indications and inference
तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा ।
श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥३६॥
तस्मात् सर्व-आत्मना therefore, by all means
राजन् O King!
हरि: सर्वत्र सर्वदा Lord Hari, everywhere, always
श्रोतव्य: कीर्तितव्य:-च should be heard about, sung about and
स्मर्तव्य: भगवान् नृणाम् remembered The Lord, by the people
पिबन्ति ये भगवत आत्मन: सतां कथामृतं श्रवणपुटेषु सम्भृतम् ।
पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥३७॥
पिबन्ति ये drink those who
भगवत: आत्मन: Lord's Universal Soul's
सताम् कथा-अमृतम् by the saint's (related) stories, nectar like
श्रवण-पुटेषु सम्भृतम् through the ear-cups, entirely
पुनन्ति ते purified are they
विषय-विदूषित-आशयम् by sense (gratification) contaminated hearts
व्रजन्ति तत्-चरण- reach to His feet
सरोरुह-अन्तिकम् lotus' proximity
इति श्रीमद्भागवते महापुराणे पार्महंस्यां संहितायां द्वितीयस्कन्धे
पुरुषसंस्थावर्णनं नाम द्वितीय: अध्याय: ॥२॥ Thus ends the second discourse entitled 'A Description of The Lord's
तृतीय: अध्याय:
श्रीशुक उवाच - Shri Shuka said -
एवमेतन्निगदितं पृष्टवान् यद् भवान् मम ।
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥१॥
एवम्-एतद्-निगदितम् thus, this was told
पृष्टवान् यत् भवान् मम as asked which, you to me
नृणाम् यत्-म्रियमाणानाम् of people that, about to die
मनुष्येषु मनीषिणाम् among men, thoughtful
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् ।
इन्द्रमिन्द्रियकामस्तु प्रजाकाम: प्रजापतीन् ॥२॥
ब्रह्म-वर्चस-काम:-तु Brahma knowledge seeking should
यजेत ब्रह्मणस्पतिम् worship Brahaspati
इन्द्रम्-इन्द्रिय-काम:-तु Indra, sense seeker indeed
प्रजा-काम: प्रजापतीन् progeny seeker, to Prajaapati
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् ।
वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥३॥
देवीम् मायाम् तु श्रीकाम:- the Goddess Maaya indeed, prosperity desiring
तेज:-काम: विभावसुम् energy desiring,
वसु-काम: वसून् wealth seeker, the Vasu's
रुद्रान् वीर्य-काम:-अथ the Rudras, power aspiring and
वीर्यवान् the powerful
अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदिते: सुतान् ।
विश्वान् देवान् राज्यकाम: साध्यान् संसाधको विशाम् ॥४॥
अन्नाद्य-काम:- food and food stuff desiring
तु-अदितिम् indeed Aditi
स्वर्ग-काम:- heaven desiring
अदिते: सुतान् Aditi's sons
विश्वान् देवान् the Vishwadevas
राज्य-काम: साध्यान् sovereignty seeker, the Saadhyaas
संसाधक: विशाम् the allegiance desirous of his subjects
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।
प्रतिष्ठाकाम: पुरुषो रोदसी लोकमातरौ ॥५॥
आयु:-काम:- long life seeker
अश्विनौ देवौ the two Ashwini Devas
पुष्टि-काम: stoutness desiring
इलाम् यजेत् the Earth should worship
प्रतिष्ठा-काम: पुरुष: fame desiring person,
रोदसी लोक-मातरौ the space and earth, the two mothers
रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् ।
आधिपत्यकाम: सर्वेषां यजेत परमेष्ठिनम् ॥६॥
रूप-अभिकाम: गन्धर्वान् beauty desiring, the Gandharvas
स्त्री-काम:-अप्सर उर्वशीम् a wife seeker, the celestial nymph Urvashi
आधिपत्य-काम: सर्वेषाम् lordship desiring on all
यजेत परमेष्ठिनम् should worship Brahmaa
यज्ञं यजेद् यशस्काम: कोशकाम: प्रचेतसम् ।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीं ॥७॥
यज्ञम् यजेद् यश:-काम: Yagya (Purush, Vishnu) should worship fame desiring
कोश-काम: प्रचेतसम् treasure seeker Prachetas (Varuna)
विद्या-काम:-तु गिरिशम् learning seeker, indeed Shiva
दाम्पत्य-अर्थम् a marriage partner, for
उमाम् सतीम् Umaa, the devoted wife
धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन् पितृन् यजेत् ।
रक्षाकाम: पुण्यजनानोजस्कामो मरुद्गणान् ॥८॥
धर्म-अर्थ: उत्तम-श्लोकम् righteousness for, (Lord Vishnu) of excellent renown
तन्तुम् तन्वन् (his) race increasing desiring
पितृन् यजेत् the Pitris should worship
रक्षा-काम: protection desiring
पुण्य-जनान्- the virtuous (Yakshas)
ओज:-काम: मरुद्गणान् vigour wanting , the Marutganas
राज्यकामो मनून् देवान् नि:ऋतिं त्वभिचरन् यजेत् ।
कामकामो यजेत् सोममकाम: पुरुषं परम् ॥९॥
राज्य-काम: मनून् देवान् kingdom desiring, the Manu Devas
नि:ऋतिम् तु-अभिचरन् यजेत् Nirriti, indeed to cast spells worship
काम-काम: desirous of sensuous pleasure
यजेत् सोमम्- may worship Soma, the moon
अकाम: पुरुषम् परम् non-desirous, the Primordial Person, Vishnu
अकाम: सर्वकामो वा मोक्षकाम उदारधी: ।
तीव्रेण भक्ति योगेन यजेत पुरुषं परम् ॥१०॥
अकाम: सर्व-काम: वा desire less, all desiring or
मोक्ष-काम: उदारधी: liberation seeking, a wise person
तीव्रेण भक्ति योगेन by intense devotional yoga
यजेत पुरुषम् परम् should worship the Supreme Person
एतावानेव यजतामिह नि:श्रेयसोदय: ।
भगवत्यचलो भावो यद् भागवतसङ्गत: ॥११॥
एतावान-एव this alone
यजताम्-इह for the worshippers, here
नि:श्रेयसा-उदय: the utmost benefit arising
भगवति- in the Lord
अचल: भाव: यत्- unswerving devotion, which
भागवत-सङ्गत: by the devotees' company
ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्रमात्मप्रसाद उत यत्र गुणेष्वसङ्ग: ।
कैवल्यसम्मतपथस्त्वथ भक्तियोग: को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥१२॥
ज्ञानम् यदा knowledge when (dawns)
प्रतिनिवृत्त-गुण-ऊर्मि-चक्रम्- ceases, the Gunas' waves' circle
आत्म-प्रसाद उत self enlightenment, indeed,
यत्र गुणेषु-असङ्ग: where in the Gunas dis-interest
कैवल्य-सम्मत for liberation recommended
पथ:-तु-अथ भक्तियोग: path indeed then, devotion,
क: निर्वृत: which dispassionate
हरि-कथासु in Hari's discourses
रतिम् न कुर्यात् delight will not take
शौनक उवाच - Shaunaka said -
इत्यभिव्याहृतं राजा निशम्य भरतर्षभ: ।
किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥१३॥
इति-अभिव्याहृतम् this being told
राजा निशम्य the King hearing
भरत-ऋषभ: the foremost of the Bharata's
किम्-अमन्यत्- what else
पृष्टवान् भूय: asked again
वैयासकिम्-ऋषिम्-कविम् to Vyaasa's son the sage, learned
एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् ।
कथा हरिकथोदर्का: सतां स्यु: सदसि ध्रुवम् ॥१४॥
एतत्-शुश्रूषताम् this to hear keen
विद्वन् सूत O Learned Soota!
न:-अर्हसि भाषितुम् to us are able, to tell
कथा हरिकथा-उदर्का: the stories, the stories of Hari's discourses
सताम् स्यु: सदसि in holy men's assembly
ध्रुवम् is sure to be
स वै भागवतो राजा पाण्डवेयो महारथ: ।
बालक्रीडनकै: कीडन् कृष्णक्रीडां य आददे ॥१५॥
स: वै भागवत: राजा he indeed the devotee, King,
पाण्डवेय: महारथ: descendent of the Paandavas, the great charioteer
बाल-क्रीडनकै: कीडन् by the children's toys playing
कृष्ण-क्रीडाम् य: आददे Krishna's sports, who played
वैयासकिश्च भगवान् वासुदेवपरायण: ।
उरुगायगुणोदारा: सतां स्युर्हि समागमे ॥१६॥
वैयासकि:-च भगवान् son of Vyaasa (Shukadeva), to Lord
वासुदेव-परायण: Vaasudeva devoted
उरुगाय by the exalted are sung
गुण-उदारा: the virtues great
सताम् स्यु:-हि among holy men must be indeed
समागमे (when they) meet
आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥१७॥
आयु:-हरति वै पुंसाम्- the life steals, indeed of men
उद्यन्-अस्तम् च the rising and setting
यत्-असौ going this (Sun)
तस्य-ऋते of that except
यत्-क्षण: नीत: which moment is taken
उत्तम-श्लोक वार्तया by the renowned One's talks
तरव: किं न जीवन्ति भस्त्रा: किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥१८॥
तरव: किम् न जीवन्ति trees, is it do not live
भस्त्रा: किम् न bellows is it do not
श्वसन्ति-उत breath or
न खादन्ति do not eat
न मेहन्ति किम् do not copulate is it
ग्राम-पशव:-अपरे domestic animals others
श्वविड्वराहोष्ट्रखरै: संस्तुत: पुरुष: पशु: ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रज: ॥१९॥
श्वन्-विड्वराह:-उष्ट्र-खरै: dog, swine, camel, donkey,
संस्तुत: पुरुष: पशु: declared human beast
न यत्-कर्ण-पथ-उपेत: not because, by the ear's path reached
जातु नाम the one name
गद-अग्रज: of Gada's brother, Krishna
बिले बतोरुक्रमविक्रमान् ये न शृण्वत: कर्णपुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथा: ॥२०॥
बिले बत- (rat) holes alas
उरुक्रम-विक्रमान् of the Lords exploits
ये न शृण्वत: which do not hear
कर्ण-पुटे नरस्य ear holes of man
जिह्वा-असती tongue is false
दार्दुरिका-इव सूत a frog's like, O Soota!
न च-उपगायति- and not sings
उरुगाय-गाथा: weal sung of, Lord Vishnu's stories
भार: परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम् ।
शावौ करौ नो कुरुत: सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥२१॥
भार: परम् burden great
पट्ट-किरीट-जुष्टम्- (fine) clothes and crown adorned
अपि-उत्तम-अङ्गम् also, best limb (man's head)
न नमेत्-मुकुन्दम् does not bow to Mukunda (Krishna)
शावौ करौ नो कुरुत: a corpse's hands, not does
सपर्याम् हरे:- service (pooja) to Shree Hari
लसत्-काञ्चन-कङ्कणौ वा adorned with golden wristlets even though
बर्हायिते ते नयने नराणां लिङ्गानि विष्णॊर्न निरीक्षतो ये ।
पादौ नृणां तौद्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥२२॥
बर्हायिते ते a peacock's tail like, are those
नयने नराणाम् eyes of men
लिङ्गानि विष्णॊ:- images of Vishnu
न निरीक्षत: ये do not see which
पादौ नृणाम् तौ- feet of men those
द्रुम-जन्म-भाजौ tree roots akin to
क्षेत्राणि न-अनुव्रजत: the holy places do not visit
हरे:-यौ Shree Hari's which
जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्या: श्वसञ्छवो यस्तु न वेद गन्धम् ॥२३॥
जीवन्-शव: a living corpse (is a person)
भागवत-अङ्घ्रि-रेणुम् devotee's feet dust
न जातु मर्त्य:- not ever a mortal
अभिलभेत य:-तु takes, he surely
श्रीविष्णु-पद्या: Shri Vishnu's feet's
मनुज:-तुलस्या: a man, Tulsi's
श्वसन्-शव: य:-तु breathing corpse, who indeed
न वेद गन्धम् does not know the fragrance
तदश्मसारं हृदयं बतेदं गृह्यमाणैर्हरिनामधेयै: ।
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्ष: ॥२४॥
तत्-अश्मसारम् हृदयम् that stone like heart
बत-इदम् गृह्यमाणै:- indeed (is) this, taking
हरि-नामधेयै: of Hari's name
न विक्रियेत-अथ does not melt
यदा विकार: when it melts
नेत्रे जलम् in eyes water
गात्र-रुहेषु हर्ष: body's hair stand
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधान: ।
यदाह् वैयासकिरात्मविद्याविशारदो नृपतिं साधु पृष्ट: ॥२५॥
अथ-अभिधेहि-अङ्ग now (please) tell Dear (Soota)
मन:-अनुकूलम् प्रभाषसे to the mind dear says (which)
भागवत-प्रधान: the devotee leading
यत्-आह् वैयासकि:- that said Vyaasa's son ,(Shukadeva)
आत्म-विद्या-विशारद: in Self Knowledge, the expert
नृपतिम् साधु पृष्ट: to the king well asked
इति श्रीमद्भागवते महापुराणे पार्महंस्यां संहितायां द्वितीयस्कन्धे तृतीय: अध्याय: ॥३॥ Thus ends the third discourse in Book Two of the great and glorious
चतुर्थ: अध्याय:
सूत उवाच - Soota said -
वैयासकेरिति वचस्तत्त्वनिश्चयमात्मन: ।
उपधार्य मतिं कृष्णे औत्तरेय: सतीं व्यधात् ॥१॥
वैयासके:-इति वच:- of the son of Vyaasa, Shukadeva, this word,
तत्त्व-निश्चयम्-आत्मन: the truth ascertaining of the self
उपधार्य मतिम् कृष्णे engaging mind into Krishna
औत्तरेय: the Uttaraa's son Pareekshita
सतीम् व्यधात् pious devoted
आत्मजायासुतागारपशुद्रविणबन्धुषु ।
राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥२॥
आत्मन्-जाया-सुत- (own) body, wife, son,
आगार-पशु-द्रविण-बन्धुषु residence, animals, wealth and kinsmen
राज्ये च-अविकले in kingdom as well trouble less
नित्यम् विरूढाम् always attached to,
ममताम् जहौ attachment shook off
पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमा: ।
कृष्णानुभावश्रवणे श्रद्दधानो महामना: ॥३॥
पप्रच्छ च-इमम्-एव- asked and this same
अर्थम् यत्-माम् पृच्छथ question which to me ask
सत्तमा: (you) Shaunaka and others
कृष्ण-अनुभाव Krishna's sports
श्रवणे श्रद्दधान: to hear with reverence
महामना: the high minded (Pareekshita)
संस्थां विज्ञाय संन्यस्य कर्म त्रैवर्गिकं च यत् ।
वासुदेवे भगवति आत्मभावं दृढं गत: ॥४॥
संस्थाम् विज्ञाय death knowing
संन्यस्य कर्म giving up duties
त्रैवर्गिकम् च यत् of the three kinds and which
वासुदेवे भगवति in Vaasudeva Lord
आत्म-भावम् self identity
दृढम् गत: complete established
राजा-उवाच - The king said -
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।
तमो विशीर्यते मह्यं हरे: कथयत: कथाम् ॥५॥
समीचीनम् वच: ब्रह्मन् appropriate are words, O Divine Sage!
सर्वज्ञस्य तव-अनघ all knowing your sinless
तम: विशीर्यते मह्यम् darkness tears apart mine
हरे: कथयत: कथाम् Shree Hari's relating discourses
भूय एव विवित्सामि भगवानात्ममायया
यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरै: ॥६॥
भूय: एव विवित्सामि more over, I want to know
भगवान्-आत्म-मायया The Lord by His own Maaya
यथा-इदम् सृजते विश्वम् how this creates the universe
दुर्विभाव्यम्-अधीश्वरै: unintelligible by the leading gods
यथागोपायति विभुर्यथा संयच्छते पुन: ।
यां यां शक्तिमुपाश्रित्य पुरुशक्ति: पर: पुमान् ।
आत्मानं क्रीडयन् कीडन् करोति विकरोति च ॥७॥
यथा-गोपायति विभु:- how protects The All Pervading,
यथा संयच्छते पुन: how destroys again
याम् याम् शक्तिम्- which which power
उपाश्रित्य पुरु-शक्ति: resorting to the Most Powerful
पर: पुमान् आत्मानम् Supreme Person by Himself
क्रीडयन् कीडन् toying playthings
करोति विकरोति च makes destructs and
नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मण: ।
दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥८॥
नूनम् भगवत: ब्रह्मन् certainly, of The Lord's, O divine sage!
पञ्चम: अध्याय:
नारद उवाच - Naarada said -
देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।
तद् विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ॥१॥
देव-देव नम:-ते-अस्तु god of gods, obeisance to you, may be
भूत-भावन पूर्वज of the beings creator, forefather
तत् विजानीहि यत्-ज्ञानम्- that make known, which knowledge
आत्म-तत्त्व निदर्शनम् self truth reveals
यद्रूपं यदधिष्ठानं यत: सृष्टमिदं प्रभो ।
यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वत: ॥२॥
यत्-रूपम् यत्-अधिष्ठानम् that form, that support
यत: सृष्टम्-इदम् from where created it is
प्रभो O Lord!
यत्-संस्थम् यत्-परम् that resort, that power
यत्-च तत् तत्त्वम् that and that essential
वद तत्त्वत: do say the true essence
सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभु: ।
करामलकवद् विश्वं विज्ञानावसितं तव ॥३॥
सर्वम् हि-एतत् भवान् वेद all indeed this, you know
भूत-भव्य-भवत्-प्रभु: of past, future and the present, Lord
कर्-आमलक-वत् विश्वम् in hand, the embolic myrobalan fruit like, the world
विज्ञान-अवसितम् तव in the knowledge concentrated yours
यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मक: ।
एक: सृजसि भूतानि भूतैरेवात्ममायया ॥४॥
यत्-विज्ञान: यत्-आधार: that knowledge, that support
यत्-पर:-त्वम् यत्-आत्मक: That Lord You, that nature
एक: सृजसि भूतानि one alone creates, the beings
भूतै:-एव-आत्म-मायया by the elements only, by Your own Maayaa
आत्मन् भावयसे तानि न पराभावयन् स्वयम् ।
आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लम: ॥५॥
आत्मन् भावयसे तानि from self, create them
न पर-अभावयन् स्वयम् not yourself changing, yourself
आत्म-शक्तिम्-अवष्टभ्य by your own power, supported
ऊर्णनाभि:-इव-अक्लम: a spider like, without effort
नाहं वेद परं ह्यस्मिन्नापरं न समं विभो ।
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यत: ॥६॥
न-अहम् वेद परम् not I know the high
हि-अस्मिन्-न-अपरम् indeed in this (world), nor low,
न समम् विभो neither mediocre, O Lord!
नाम-रूप-गुणै:- by name, form or qualities
भाव्यम् सत्-असत् created animate or inanimate
किञ्चित्-अन्यत: any from elsewhere
स भवानचरद् घोरं यत् तप: सुसमाहित: ।
तेन खेदयसे नस्त्वं पराशङ्कां प्रयच्छसि ॥७॥
स: भवान्-अचरत् घोरम् That You, practiced austere
यत् तप: सुसमाहित: that penance, with great concentration
तेन खेदयसे न:-त्वम् by that troubled we, you
पर-आशङ्काम् प्रयच्छसि in great doubt put (us)
एतन्मे पृच्छत: सर्वं सर्वज्ञ सकलेश्वर ।
विजानीहि यथैवेदमहं बुद्ध्येऽनुशासित: ॥८॥
एतत्-मे पृच्छत: सर्वम् this to me, asking all
सर्वज्ञ सकल-ईश्वर O All Knower! Ruler of All!
विजानीहि यथा-एव-इदम्- instruct by which only this
अहम् बुद्ध्ये-अनुशासित: I will understand, as taught
ब्रह्मा-उवाच - Brahmaa said -
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
यदहं चोदित: सौम्य भगवद्वीर्यदर्शने ॥९॥
सम्यक् कारुणिकस्य-इदम् proper, of the compassionate, this
वत्स ते विचिकित्सितम् O son! Your enquiery
यत्-अहम् चोदित: सौम्य that I am encouraged, O dear!
भगवद्-वीर्य-दर्शने The Lord's glory to reveal
नानृतं तव तच्चापि यथा मां प्रब्रवीषि भो: ।
अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥१०॥
न-अनृतम् तव तत्-च-अपि not false your, that and also
यथा माम् प्रब्रवीषि भो: how to me saying O Naarada!
अविज्ञाय परम् मत्त: not knowing, higher than me
एतावत्-त्वम् यत: हि मे like this you, because of course to me
येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।
यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारका: ॥११॥
येन स्व-रोचिषा by Whom the Self Effulgent
विश्वम् रोचितम् the worlds are illumined (manifested)
रोचयामि-अहम् manifested am I
यथा-अर्क:-अग्नि:-यथा like the Sun, Fire like
सोम: यथा-ऋक्ष- Moon like planets
ग्रह-तारका: stars and constellations
तस्मै नमो भगवते वासुदेवाय धीमहि ।
यन्मायया दुर्जयया मां ब्रुवन्ति जगद्गुरुम् ॥१२॥
तस्मै नम: for Him (I) bow
भगवते वासुदेवाय धीमहि Lord Vaasudeva, (and) meditate
यद्-मायया दुर्जयया by whose Maayaa, difficult to conquer
माम् ब्रुवन्ति जगद्-गुरुम् me (they) call, the world's creator
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धिय: ॥१३॥
विलज्जमानया यस्य shying, Whose,
स्थातुम्-ईक्षा-पथे-अमुया to stay, in the vision way, by her
विमोहिता: विकत्थन्ते deluded, declare
मम-अहम्-इति दुर्धिय: mine, me thus, the foolish
द्रव्यं कर्म कालश्च स्वभावो जीव एव च ।
वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तत्त्वत: ॥१४॥
द्रव्यम् कर्म काल:-च the elements, Karma, Time and
स्वभाव: जीव: एव च nature and individual soul also
वासुदेवात्-पर: ब्रह्मन्-न to Vaasudeva higher, O sage! Not
च-अन्य:-अर्थ:-अस्ति तत्त्वत: and other substance, is, in reality
नारायणपरा वेदा देवा नारायणाङ्गजा: ।
नारायणपरा लोका नारायणपरा मखा: ॥१५॥
नारायण-परा: वेदा: Naaraayana is the goal of the Vedas
देवा: नारायण-अङ्गजा: gods, are from Naaraayana's limbs born
नारायण-परा: लोका: on Naaraayana are supported the worlds
नारायण-परा: मखा: for Naaraayana's pleasure are the sacrifices
नारायणपरो योगो नारायणपरं तप: ।
नारायणपरं ज्ञानं नारायणपरा गति: ॥१६॥
नारायण-पर: योग: Naaraayana' vision (gives) Yoga
नारायण-परम् तप: Naaraayana is the object of penance
नारायण-परम् ज्ञानम् Naaraayana is the absolute knowledge
नारायण-परा गति: Naaraayana is the ultimate resort
तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मन: ।
सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदित: ॥१७॥
तस्य-अपि द्रष्टु:-ईशस्य of His even, The Seer and Lord
कूटस्थस्य-अखिल-आत्मन: of Supreme Soul, of all the beings
सृज्यम् सृजामि सृष्ट:-अहम्- to be created, (I) create, created am I
ईक्षया-एव-अभिचोदित: by the look alone, encouraged
सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय: ।
स्थितिसर्गनिरोधेषु गृहीता मायया विभो: ॥१८॥
सत्त्वम् रज:-तम: इति Sattva, Rajas, and Tamas
निर्गुणस्य गुणा:-त्रय: of the Non-Qualitative, Gunas three (are)
स्थिति-सर्ग-निरोधेषु for creation, preservation and destruction
गृहीता: मायया विभो: are used with Maayaa, by the All Pervading Lord
कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रया: ।
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणा: ॥१९॥
कार्य-कारण-कर्तृत्वे (in the sense of) action, cause, and doer
द्रव्य-ज्ञान-क्रिया-आश्रया: matter, knowledge, work supported by
बध्नन्ति नित्यदा मुक्तम् tied down always the free
मायिनम् पुरुषम् गुणा: (influenced by Maayaa) deluded person, the Gunas
स एष भगवांल्लिङ्गैस्त्रिभिरधोक्षज: ।
स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वर: ॥२०॥
स: एष: भगवान्- He This Lord
लिङ्गै:-त्रिभि:-अधोक्षज: by sheaths three, He, beyond sense perception
स्व-लक्षित-गति:- by Himself known form,
ब्रह्मन् O Naarada!
सर्वेषाम् मम च-ईश्वर: of everyone (and) me and the Ruler
कालं कर्म स्वभावं च मायेशो मायया स्वया ।
आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥२१॥
कालम् कर्म स्वभावम् च Time, Karma, and Swabhaavam (innate nature)
माया-ईश: मायया स्वया Maayaa's Lord, by Maayaa, His own
आत्मन् यदृच्छया प्राप्तम् in Himself, at His own will assumed
विबुभूषु:-उपाददे in many forms to become, undertook
कालाद् गुणव्यतिकर: परिणाम: स्वभावत: ।
कर्मणो जन्म महत: पुरुषाधिष्टितादभूत् ॥२२॥
कालात् गुण-व्यतिकर: from Time, the Gunas' dis-balance
परिणाम: स्वभावत: resulted from Swabhaava (and)
कर्मण: जन्म महत: Karma evolved Mahat (cosmic intelligence)
पुरुष-अधिष्टितात्-अभूत् the Prime Person's from power became
महतस्तु विकुर्वाणाद्रज:सत्त्वोपबृंहितात् ।
तम:प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मक: ॥२३॥
महत:-तु विकुर्वाणात्- Mahat also by evolving
रज:-सत्त्व-उपबृंहितात् Rajas and Tamas, by (their) dominance
तम:-प्रधान:-तु-अभवत्- Tamas dominated, indeed became
द्रव्य-ज्ञान-क्रिया-आत्मक: substance, intelligence, activity comprising
सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा ।
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।
द्रव्यशक्ति: क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥२४॥
स:-अहङ्कार: इति प्रोक्त: that Ahankaara, thus is called
विकुर्वन् समभूत्-त्रिधा evolving, became of three types
वैकारिक:-तैजस:-च Saatvic, Taijasik and
तामस:-च-इति यत्-भिदा Taamasika and thus, which were different
द्रव्य-शक्ति: क्रिया-शक्ति:- substance power, activity power
ज्ञान-शक्ति:-इति प्रभो intelligence power, so on O Naarada!
तामसादपि भूतादेर्विकुर्वाणादभून्नभ: ।
तस्य मात्रा गुण: शब्दो लिङ्गं यद् द्रष्टृदृश्ययो: ॥२५॥
तामसात्-अपि भूत-आदे: from Tamasic (Ahankaara) also, (five) elements origin
विकुर्वाणात्-अभूत्-नभ: by evolving, came into being the ether
तस्य मात्रा गुण: शब्द: its subtle form characteristic (is) sound
लिङ्गम् यत् द्रष्टृ-दृश्ययो: indication of the seer and the seen
नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिल: ।
परान्वयाच्छब्दवांश्च प्राण ओज: सहो बलम् ॥२६॥
नभस:-अथ विकुर्वाणात्- from ether, then by transformation
अभूत् स्पर्श-गुण:-अनिल: emerged touch, characteristic of air
पर-अन्वयात्-शब्दवान्-च by former association (with ether), of sound and
प्राण: ओज: सह: बलम् vitality, energy, zeal, strength
वायोरपि विकुर्वाणात् कालकर्मस्वभावत: ।
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥२७॥
वायो:-अपि विकुर्वाणात् air also by transformation
काल-कर्म-स्वभावत: (of) time, activity (and) nature
उदपद्यत तेज: वै evolved fire indeed
रूप-वत् स्पर्श-शब्द-वत् like colour, touch and sound (characteristics)
तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् ।
रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥२८॥
तेजस:-तु विकुर्वाणात्- fire indeed by evolving
आसीत्-अम्भ:- रस-आत्मकम् became water of taste characteristic
रूपवत् स्पर्शवत्-च-अम्भ: like colour and touch like and water
घोषवत्-च पर-अन्वयात् sound like and of previous changes
विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् ।
परान्वयाद् रसस्पर्शशब्दरूपगुणान्वित: ॥२९॥
विशेष:-तु विकुर्वाणात्- specially indeed, by transformation
अम्भस: गन्धवान्-अभूत् from water earth, (with smell) became
पर-अन्वयात् रस-स्पर्श- by previous changes, taste, touch
शब्द-रूप-गुण-अन्वित: sound, colour characteristics (also) having
वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका: ॥३०॥
वैकारिकात्-मन: जज्ञे from Saatvic ego, mind were born,
देवा: वैकारिका: दश gods of the senses, ten (five of perception, five of
देवा: वैकारिका: दश gods of the senses, ten (five of perception, five of action)
दिक्-वात-अर्क-प्रचेतस्- the Dig-devatas, wind-god, Sun-god, Varuna,
अश्वि-वह्नि-इन्द्र:- Ashwin-Kumaaras, fire-god, god of paradise,
उपेन्द्र-मित्र-का: Lord Vishnu, Mitra, and Prajaapati
तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।
ज्ञानशक्ति: क्रियाशक्तिर्बुद्धि: प्राणश्च तैजसौ ।
श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायव: ॥३१॥
तैजसात्-तु विकुर्वाणात्- From Tejas indeed, transforming,
इन्द्रियाणि दश-अभवन् senses ten became
ज्ञान-शक्ति: क्रिया-शक्ति:- the perception power, action power
बुद्धि: प्राण:-च तैजसौ intellect and faculty of action, from Tejas the two
श्रोत्रम् त्वक्-घ्राण-दृग्- hearing, touch, smell, sight,
जिह्वा वाक्-दो:-मेढ्र- tongue, speech, hands, organs of generation
अङ्घ्रि-पायव: feet and organ of excretion
यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणा: ।
यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥३२॥
यदा-एते-असङ्गता: भावा: when these, dissociated states
भूत-इन्द्रिय-मन:-गुणा: the elements (five) senses (ten), mind and (three)
भूत-इन्द्रिय-मन:-गुणा: the elements (five) senses (ten), mind and (three) gunas
यद-आयतन-निर्माणे न शेकु:- when in house erecting were not able
ब्रह्मवित्तम O The Knower of Brahma! (Naarada)
तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिता: ।
सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यद: ॥३३॥
तदा संहत्य च-अन्य:-अन्यम् then combining and one another
भगवत्-शक्ति-चोदिता: by Lord's potency (Maayaa) urged
सत्-असत्त्वम्-उपादाय च- cause and effect taking on and
उभयम् ससृजु:-हि-अद: both, produced indeed this and that
वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।
कालकर्मस्वभावस्थो जीवोजीवमजीवयत् ॥३४॥
वर्ष-पूग-सहस्र-अन्ते years many thousands' end
तत्-अण्डम्-उदके-शयम् that egg in water lying
काल-कर्म-स्वभाव-स्थ: time, action and nature including
जीव:-जीवम्-अजीवयत् The Soul, this egg enlivened
स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गत: ।
सह्स्रोर्वङ्घ्रिबाह्वक्ष: सहस्राननशीर्षवान् ॥३५॥
स: एव पुरुष:-तस्मात्- That only Person
अण्डम् निर्भिद्य निर्गत: from that egg burst and came out
सह्स्र-उरु-अङ्घ्रि- thousands of thighs, feet,
बाहु-अक्ष: arms, eyes
सहस्र-आनन शीर्षवान् thousands of faces, with heads
यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिण: ।
कट्यादिभिरध: सप्त सप्तोर्ध्वं जघनादिभि: ॥३६॥
यस्य-इह-अवयवै:- in Whose limbs
लोकान् कल्पयन्ति the worlds imagine
मनीषिण: the wise
कटि-आदिभि:- waist and others
अध: सप्त below seven
सप्त-ऊर्ध्वम् seven above
जघन-आदिभि: hips and others
पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहव: ।
ऊर्वोर्वैश्यो भगवत: पद्भ्यां शूद्रोऽभ्यजायत ॥३७॥
पुरुषस्य मुखम् ब्रह्म The Person's mouth are Braahmanas
क्षत्रम्-एतस्य बाहव: Kshatriyas His arms
ऊर्वो:-वैश्य: भगवत: thighs Vaishyas, The Lord's
पद्भ्याम् शूद्र:-अभ्यजायत from feet, Shudras were born
भूर्लोक: कल्पित: पद्भ्यां भुवर्लोकऽस्य नाभित: ।
हृदा स्वर्लोक उरसा महर्लोको महात्मन: ॥३८॥
भू:-लोक: कल्पित: पद्भ्याम् the earth sphere is located in the feet
भुव:-लोक:-अस्य नाभित: Bhuwah sphere from His navel
हृदा स्वर्लोक:-उरसा in heart the heaven sphere, in His breast
मह:-लोक: महात्मन: is Maharloka, of the Supreme Being
ग्रीवायां जनलोकश्च तपोलोक: स्तनद्वयात् ।
मूर्धभि: सत्यलोकस्तु ब्रह्मलोक: सनातन: ॥३९॥
ग्रीवायाम् जन-लोक:-च in the neck Jana Loka and
तप:-लोक: स्तन-द्वयात् Tapa Loka, in two breasts
मूर्धभि: सत्य-लोक:-तु in the heads Satya Loka indeed
ब्रह्म-लोक: सनातन: and Brahma Loka eternal
तत्कट्यां चातलं कॢप्तमूरुभ्यां वितलं विभो: ।
जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥४०॥
तत्-कट्याम् च-अतलम् in His waist and Atalam
कॢप्तम्-उरुभ्याम् located in the thighs
वितलम् विभो: Vitalam of the Lord
जानुभ्याम् सुतलम् शुद्धम् in the knees Sutalam, in the pure
जङ्घाभ्याम् तु तलातलम् shanks, of course are Talaatalam
महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।
पातालं पादतलत इति लोकमय: पुमान् ॥४१॥
महातलम् तु गुल्फाभ्याम् Mahaatalam indeed in the ankles
प्रपदाभ्याम् रसातलम् in forefeet Rasaatalam
पातालम् पाद-तलत: Paataala in the feet soles
इति लोकमय: पुमान् thus is contained the world, in the Supreme Person
भूर्लोक: कल्पित: पद्भ्यां भुवर्लोकोऽस्य नाभित: ।
स्वर्लोक: कल्पितो मूर्ध्ना इति वा लोककल्पना ॥४२॥
भूर्लोक: कल्पित: पद्भ्याम् Bhoorloka located in the feet
भुव:-लोक:-अस्य नाभित: Bhuva Loka in His navel
स्वर्लोक: कल्पित: मूर्ध्ना Swarloka located in His head
इति वा लोक-कल्पना this also is the universe located
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे पञ्चम: अध्याय: ॥५॥ Thus ends the fifth discourse in Book Two of the great and glorious
षष्ठ: अध्याय:
ब्रह्मा-उवाच - Brahmaa said -
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्तधातव: ।
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥१॥
वाचाम् वह्ने:- (organ of ) speech, fire (god)
मुखम् क्षेत्रम् छन्दसाम् mouth is the place of the metres
सप्त-धातव: हव्य-कव्य- seven Dhaatus, material for sacrifice, and food of
अमृत-अन्नानाम् and the life giving foods
जिह्वा सर्व-रसस्य च tongue is, of all tastes
सर्वासूनां च वायोश्च तन्नासे परमायने ।
अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयो:: ॥२॥
सर्व-असूनाम् च वायो:-च of all vital breaths and of air and
तत्-नासे परम-अयने His nostrils, are the exalted sources
अश्विनो:-ओषधीनाम् of the Ashwin (Kumaaras) and of all vegetation
च घ्राण: मोद-प्रमोदयो: and (sense) olfactory, of smells and special smells
रूपाणां तेजसां चक्षुर्दिव: सूर्यस्य चाक्षिणी ।
कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयो: ।
तद्गात्रं वस्तु साराणां सौभगस्य च भाजनम् ॥३॥
रूपाणाम् तेजसाम् चक्षु:- of the colours, the lights, (His) sight,
दिव: सूर्यस्य च-अक्षिणी heaven and Sun the eyes
कर्णौ दिशाम् च तीर्थानाम् the ears of the directions and holy places
श्रोत्रम्-आकाश-शब्दयो: (His sense of) hearing of ether and sound
तत्-गात्रम् वस्तु साराणाम् His limbs of all things the essence
सौभगस्य च भाजनम् of loveliness and container
त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ।
रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृत: ॥४॥
त्वक्-अस्य स्पर्श- skin His of touch sense,
वायो:-च सर्व-मेधस्य and air of all sacrifices
च-एव हि and also indeed
रोमाणि-उद्भिज्ज- the hair of the body, of sprouts
जातीनाम् यै:-वा vegetation by which or
यज्ञ:-तु सम्भृत: sacrifices are performed
केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ।
बाहवो लोकपालानां प्रायश: क्षेमकर्मणाम् ॥५॥
केश-श्मश्रु-नखानि-अस्य hair, moustaches, nails His
शिला-लोह- rocks iron
अभ्र-विद्युताम् clouds lightening
बाहव: लोक-पालानाम् arms of the direction guardians
प्रायश: क्षेम-कर्मणाम् generally protection doing
विक्रमो भूर्भुव: क्षेमस्य शरणस्य च ।
सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥६॥
विक्रम: भू:-भुव: the stride, of earth and ether
क्षेमस्य शरणस्य च of well-being, support and
सर्व-काम-वरस्य-अपि all desires and blessings, also,
हरे:-चरण आस्पदम् Hari's feet are the provider
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापते: ।
पुंस: शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृते: ॥७॥
अपाम् वीर्यस्य of the waters, seminal fluid
सर्गस्य पर्जन्यस्य creation, origin of rains
प्रजापते: पुंस: शिश्न: and of Brahmaa, of the Person is penis
उपस्थ:-तु (His) generatic organs indeed
प्रजाति-आनन्द-निर्वृते: of copulation pleasure, is the giver
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।
हिंसाया निरृऋतेर्मृत्योर्निरयस्य गुद: स्मृत: ॥८॥
पायु:-यमस्य His sense of excretion, of Yama,
मित्रस्य परिमोक्षस्य of (god) Mitra and excretion
नारद हिंसाया: O Naarada! of killing
निरृऋते:-मृत्यो:- of poverty, death
निरयस्य गुद: स्मृत: and hell, anus is said
पराभूतेरधर्मस्य तमसश्चापि पश्चिम: ।
नाड्यो नदनदीनां तु गोत्राणामस्थिसंहति: ॥९॥
पराभूते:-अधर्मस्य of defeat and unrighteousness
तमस:-च-अपि पश्चिम: and also of ignorance, the back
नाड्य: नद-नदीनाम् तु the blood vessels, of rivers and big rivers indeed
गोत्राणाम्-अस्थि-संहति: of the mountains, the bone system
अव्यक्तरससिन्धूनां भूतानां निधनस्य च ।
उदरं विदितं पुंसो हृदयं मनस: पदम् ॥१०॥
अव्यक्त-रस- of the unmanifest, of the chyle
सिन्धूनाम् भूतानाम् of oceans and the life source of beings
निधनस्य च and of (their) death
उदरम् विदितम् पुंस: stomach is known (to be) of the Supreme Person
हृदयम् मनस: पदम् heart of the mind the seat
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥११॥
धर्मस्य मम तुभ्यम् च of Dharma, (righteousness), me (Brahmaa), yourself (Naarada)
कुमाराणाम् of the (Sanat) Kumaaras
भवस्य च विज्ञानस्य of Lord Shiva, of the (faculty of) reason
च सत्त्वस्य and of Truth
परस्य-आत्मा O The Supreme being's Self
परायणम् the best shelter
अहं भवान् भवश्चैव त इमे मुनयोऽग्रजा: ।
सुरासुरनरा नागा: खगा मृगसरीसृपा: ॥१२॥
अहम् भवान् भव:-च-एव myself, you, Shiva and also
ते इमे मुनय:-अग्रजा: they these, the sages, (Sanakaadi), elder brothers
सुर-असुर-नरा: gods demons men
नागा: खगा: Naagas, birds
मृग-सरीसृपा: animals and reptiles
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगा: ।
पशव: पितर: सिद्धा विद्याध्राश्चारणा द्रुमा: ॥१३॥
गन्धर्व-अप्सरस: यक्षा: the Gandharvas, the celestials dames, Yakshas,
रक्ष: भूत-गण-उरगा: Raakshasas, the ghost hosts, serpents,
पशव: पितर: सिद्धा: beasts, manes, Siddhas,
विद्याध्रा:-चारणा: द्रुमा: Vidyaadharas, Chaaranas( the glory singers) trees
अन्ये च विविधा जीवा जलस्थलनभौकस: ।
ग्रहर्क्षकेतवस्तारास्तडित: स्तनयित्नव: ॥१४॥
अन्ये च विविधा: जीवा: others and various beings
जल-स्थल-नभ-ओकस: water, land, and sky borne,
ग्रह-ऋक्ष-केतव:-तारा:- planets, lunar mansions, comets, stars,
तडित: स्तनयित्नव: lightening, thunder-clouds,
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति ॥१५॥
सर्वम् पुरुष: एव-इदम् all, The Purush, alone is this
भूतम् भव्यम् भवत्-च यत् past, future, present and which-ever
तेन-इदम-आवृतम् विश्वम् by Him this is encompassed, the universe
वितस्तिम्-अधितिष्ठति in (His) span lies
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।
एवं विराजं प्रतपंस्तपत्यन्तर्बहि: पुमान् ॥१६॥
स्व-धिष्ण्यम् प्रतपन् प्राण: in own orb, shining Sun
बहि:-च प्रतपति-असौ outside and shine this
एवम् विराजम् प्रतपन्- so also, cosmic body shining,
तपति-अन्त:-बहि: पुमान् shines, inside (and) out the Supreme Person
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्यय: ॥१७॥
स:-अमृतस्य- He of deathlessness
अभयस्य-ईश: and fearlessness is The Lord
मर्त्यम्-अन्नम् from the destructive and fruit (bearing action)
यद्-अत्यगात् Who is (far) beyond
महिमा-एष: तत: glory of His therefore
ब्रह्मन् O Naarada!
पुरुषस्य दुरत्यय: of the Person is unfathomable
पादेषु सर्वभूतानि पुंस: स्थितिपदो विदु: ।
अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥१८॥
पादेषु सर्व-भूतानि in the feet all the beings
पुंस: स्थिति-पद: विदु: of the Person, residing place, is known (to be)
अमृतम् क्षेमम्-अभयम् immortality, security, fearlessness
त्रिमूर्ध्न:-अधायि मूर्धसु of the Triloki's is placed, on the head
पादास्यो बहिश्चासन्नप्रजानां य आश्रमा: ।
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रत: ॥१९॥
पादा:-त्रय: feet three
बहि:-च-आसन्- outside and are
अप्रजानाम् ये आश्रमा: the non-begetting aashramas,
अन्त:-त्रिलोक्या: inside the Triloki
तु-अपर: indeed the other
गृहमेध:- householders'
अबृहद्-व्रत: of unexpended vow
सृती विचक्रमे विष्वङ् साशनानशने उभे ।
यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥२०॥
सृती विचक्रमे विष्वङ् on the path walks the Jeeva
स-अशन-अनशने उभे of action and meditation, both
यद्-अविद्या च विद्या च which, ignorance and knowledge (stands for)
पुरुष:-तु-उभय-आश्रय: The Supreme Person indeed is of both the foundation
यस्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्मक:।
तद् द्रव्यमत्यगाद् विश्वं गोभि: सूर्य इवातपन् ॥२१॥
यस्मात्-अण्डम् विराड् जज्ञे from Whom, the egg, Cosmic Body evolved
भूत-इन्द्रिय-गुण-आत्मक: the elements, senses gunas along with
तत् द्रव्यम्-अत्यगाद् विश्वम् that matter, is beyond the universe
गोभि: सूर्य इव-आतपन् by its rays, the Sun like illuminating
यदास्य नाभ्यान्नलिनादहमासं महात्मन: ।
नाविदं यज्ञसंभारान् पुरुषावयवादृते ॥२२॥
यदा-अस्य नाभ्यात्-नलिनात्- when His, from navel's lotus
अहम्-आसम् महात्मन: I came, the Supreme Soul (Cosmic Being)
न-अविदम् यज्ञ-संभारान् did not know sacrifice materials
पुरुष-अवयवात्-ऋते the Purusha's limbs besides
तेषु यज्ञस्य पशव: सवनस्पतय: कुशा: ।
इदं च देवयजनं कालश्चोरुगुणान्वित: ॥२३॥
तेषु यज्ञस्य पशव: from them, for the sacrifice, animals
स-वनस्पतय: कुशा: with the vegetation, grass
इदम् च देव-यजनम् this and land of sacrifice
काल:-च-उरु-गुण-अन्वित: time and great advantages inducing
वस्तून्योषधय: स्नेहा रसलोहमृदो जलम् ।
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥२४॥
वस्तूनि-ओषधय: स्नेहा materials herbs (and cereals), butter (ghee),
रस-लोह-मृद: जलम् juices, metals, earths, water
ऋच: यजूंषि सामानि Rig-Veda, Yajurveda, Saamaveda
चातुर्होत्रम् च सत्तम the four performing priests, and, O Sage
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।
देवतानुक्रम: कल्प: सङ्कल्पस्तन्त्रमेव च ॥२५॥
नाम-धेयानि मन्त्रा:-च names (the sacrifices) carrying, Mantras and also
दक्षिणा:-च व्रतानि च the (sacrificial) fees and the vows
देवता-अनुक्रम: कल्प: the gods, the process, the end
सङ्कल्प:-तन्त्रमेव च the beginning, the text and also
गतयो मतय: श्रद्धा प्रायश्चित्तं समर्पणम् ।
पुरुषावयवैरेते सम्भारा: सम्भृता मया ॥२६॥
गतय: मतय: श्रद्धा actions, the process, the contemplation,
प्रायश्चित्तम् समर्पणम् and the apologies, the offering of the ceremony
पुरुष-अवयवै:-एते from the Supreme Person's limbs, these
सम्भारा: सम्भृता: मया materials (were) collected by me
इति सम्भृतसम्भार: पुरुषावयवैरहम् ।
तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥२७॥
इति सम्भृत-सम्भार: in this manner, having collected the materials
पुरुष-अवयवै:-अहम् from The Purusha's limbs, I
तम्-एव पुरुषम् Him only Purusha
तेन-एव-अयजम्-ईश्वरम् of sacrifice, by that only, worshipped the Lord Vishnu
ततस्ते भ्रातर इमे प्रजानां पतयो नव ।
अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिता: ॥२८॥
तत:-ते भ्रातर: इमे then, your brothers these,
प्रजानाम् पतय: नव of creation the lords, nine
अयजन् व्यक्तम्-अव्यक्तम् adored he manifest and unmanifest
पुरुषम् सुसमाहिता: Purusha with concentration
ततश्च मनव: काले ईजिरे ऋषयोऽपरे ।
पितरो विबुधा दैत्या मनुष्या: क्रतुभिर्विभुम् ॥२९॥
तत:-च मनव: काले then and, the Manus, in time,
ईजिरे ऋषय:-अपरे worshipped, the sages others
पितर: विबुधा: दैत्या: manes, gods, demons,
मनुष्या: क्रतुभि:-विभुम् and men by sacrifices, The Lord
नारायणे भगवति तदिदं विश्वमाहितम् ।
गृहीतमायोरुगुण: सर्गादावगुण: स्वत: ॥३०॥
नारायणे भगवति in Naaraayana, the Lord
तत्-इदम् विश्वम्- that this universe
आहितम् is supported
गृहीत-माया-उरु-गुण: taking on Maayaa, with very many attributes
सर्ग-आदौ-अगुण: स्वत: in the creation's beginning, attribute-less Himself
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वश: ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥३१॥
सृजामि तत्-नियुक्त:-अहम् create, by Him engaged, I
हर: हरति तत्-वश: Shankara dissolves, in His influence
विश्वम् पुरुष-रूपेण the universe, in Purusha form
परिपाति त्रि-शक्ति-धृक् preserves, three powers holding
इति तेऽभिहितं तात यथेदमनुपृच्छसि ।
नान्यद्भगवत: किंचिद्भाव्यं सदसदात्मकम् ॥३२॥
इति ते-अभिहितम् this to you is said
तात यथा-इदम्- dear son, as this
अनुपृच्छसि is asked
न-अन्यत्-भगवत: nothing else than The Lord
किंचित्-भाव्यम् any thing
सत्-असत्-आत्मकम् existing non-existing form
न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गति: ।
न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरि: ॥३३॥
न भारती मे-अङ्ग not speech mine, O Son!
मृषा-उपलक्ष्यते in falsehood is seen
न वै क्वचित्-मे not also ever my
मनस: मृषा गति: mind's false thoughts
न मे हृषीकाणि nor my senses
पतन्ति-असत्-पथे fall on wrong paths
यत्-मे हृद- that (is so) (because) my heart
औत्कण्ठ्यवता धृत: हरि: eagerly holds on to Hari
सोऽहं समाम्नायमयस्तपोमय: प्रजापतीनामभिवन्दित: पति: ।
आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भव: ॥३४॥
स:-अहम् समाम्नायमय: that I, Veda personified
तपोमय: प्रजापतीनाम्- doing austerities, of the Prajaapatis
अभिवन्दित: पति: honoured lord
आस्थाय योगम् established in yoga
निपुणम् समाहित: thoroughly with concentration
तम् न-अध्यगच्छम् Him did not know
यत: आत्म-सम्भव: from where myself (came into) existence
नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।
यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभ: स्वान्तमथापरे कुत: ॥३५॥
नत:-अस्मि-अहम् तत्-चरणम् bowed am I, to His feet
समीयुषाम् भवच्छिदम् of the surrendered, cycle (of life and death) cutting
स्वस्ति-अयनम् सुमङ्गलम् auspiciousness home, and blessedness
य: हि-आत्म-माया-विभवम् who indeed self Maayaa's extent
स्म पर्यगात् यथा does not realise like
नभ: स्व-अन्तम् the sky its own end
अथ-अपरे कुत: then others how can
नाहं न यूयं यदृतां गतिं विदुर्न वामदेव: किमुतापरे सुरा: ।
तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥३६॥
न-अहम् न यूयम् neither I nor you all
यत्-ऋताम् गतिम् Whose true nature’s course
विदु:-न वामदेव: know not, not Shankara
किम्-उत्-अपरे सुरा: what indeed other gods
तत्-मायया मोहित-बुद्धय: by His Maayaa, delusion minded
तु-इदम् विनिर्मितम् indeed this created
च-आत्म-समम् विचक्ष्महे and by our own like comprehend
यस्यावतारकर्माणि गायन्ति ह्यस्मदादय: ।
न यं विदन्ति तत्त्वेन तस्मै भगवते नम: ॥३७॥
यस्य-अवतार-कर्माणि Whose descent (and) exploits
गायन्ति हि-अस्मत्-आदय: sing about indeed me and others
न यम् विदन्ति तत्त्वेन not Whom know in reality
तस्मै भगवते नम: to Him the Lord salutations
स एष आद्य: पुरुष: कल्पे कल्पे सृजत्यज: ।
आत्माऽऽत्मन्यात्मनाऽऽत्मानं संयच्छति च पाति च ॥३८॥
स: एष: आद्य: पुरुष: He This, Primal Person
कल्पे कल्पे सृजति-अज: in cycle after cycle, creates, The Unborn
आत्मा-आत्मनि- Self, in Self
आत्मना-आत्मानम् by Self, Himself
संयच्छति च पाति च dissolves and protects and
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥३९॥
विशुद्धम् केवलम् ज्ञानम् absolutely pure, absolute consciousness
प्रत्यक् सम्यक्-अवस्थितम् Himself, in all abiding
सत्यम् पूर्णम्-अनादि-अन्तम् truth, full, beginning less, endless,
निर्गुणम् नित्यम्-अद्वयम् attribute less, eternal and without a second
ऋषे विदन्ति मुनय: प्रशान्तात्मेन्द्रियाशया: ।
यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥४०॥
ऋषे विदन्ति मुनय: O Sage! know the sages
प्रशान्त-आत्मन्- by subduing, the body,
इन्द्रिय-आशया: senses and mind
यदा तत्-एव-असत्-तर्कै:- when Him only, by false arguments
तिरोधीयेत विप्लुतम् discard, (He) vanishes
आद्योऽवतार: पुरुष: परस्य काल: स्वभाव: सदसन्मनश्च ।
द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्न: ॥४१॥
आद्य:-अवतार: the primary manifestation
पुरुष: परस्य (is) Purusha, of the Supreme
काल: स्वभाव: Time, Nature,
सत्-असत्-मन:-च cause, effect and mind
द्रव्यम् विकार: the elements, ego,
गुण: इन्द्रियाणि the gunas, senses
विराट् स्वराट् the Cosmic Body, the Cosmic Being
स्थास्नु चरिष्णु भूम्न: inanimate, animate of the all-pervading Lord
अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च ।
स्वर्लोकपाला: खगलोकपाला नृलोकपालास्तललोकपाला: ॥४२॥
अहम् भव: यज्ञ: Me, Shiva, Vishnu,
इमे प्रजेशा: these lords of beings,
दक्ष-आदय: ये Daksha and others, those
भवत्-आदय:-च yourself and others
स्व:-लोक-पाला: of the heaven region protectors
खग-लोक-पाला: of the sky region guardians
नृ-लोक-पाला:- the the mortal world rulers
तल-लोक-पाला: and the subterranean region's protectors
गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथा: ।
ये वा ऋषीणामृषभा: पितृणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्रा: ।
अन्ये च ये प्रेतपिशाचभूतकूष्माण्डयादोमृगपक्ष्यधीशा: ॥४३॥
गन्धर्व-विद्याधर- of Gandharvas, Vidyaadharas,
चारण-ईशा: Chaarana's lords
ये यक्ष-रक्ष:- those of Yakshas, Raakshasas
उरग-नाग-नाथा: snakes and reptile's rulers,
ये वा ऋषीणाम्- or those of the sages
ऋषभा: पितृणाम् leaders, (and of) the manes,
दैत्य-इन्द्र-सिद्ध-ईश्वर- demon's rulers, Siddhas lords,
दानव-इन्द्रा: अन्ये च ये Daanava's rulers, others and those
प्रेत-पिशाच-भूत- Pretas, Pishaachas, Bhutas,
कूष्माण्ड-याद:-मृग- Kushmaandas, aquatic creatures, animals
पक्षि-अधीशा: and birds rulers
यत्किं च लोके भगवन्महस्वदोज:सहस्वद् बलवत् क्षमावत् ।
श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् ॥४४॥
यत्-किम्-च लोके that whatever and in the world
भगवत्-महस्वत्- of super natural power like,
ओज:सहस्वत् glory, vigour,
बलवत् क्षमावत् strength, forbearance,
श्री-ह्री-विभूति- wealth, splendour, good fortune,
आत्म-वत्-अद्भुत-अर्णम् intellectual acumen, all that having wonderful colour
तत्त्वम् परम् the Truth ultimate
रूप-वत्-अस्वरूपम् with form (or) without form
प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्न: ।
आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान् सुपेशान् ॥४५॥
प्राधान्यत: यान्-ऋषे the chief which, O Sage Naarada!
आमनन्ति लीला-अवतारान् are said to be, the descent sports
पुरुषस्य भूम्न: of Purusha the all-pervading
आपीयताम् कर्ण-कषाय-शोषान्- intake (these), the ear's impurities drying
अनुक्रमिष्ये ते इमान् सुपेशान् (I will) narrate to you these delightful
इतिश्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे षष्ठ: अध्याय: ॥६॥ Thus ends the sixth discourse in Book Two of the great and glorious
श्रीमद्भागतमहापुराणम्
सप्तम: अध्याय:
ब्रह्मोवाच - Brahmaa said -
यत्रोद्यत: क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्त: ।
अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥१॥
यत्र-उद्यत: when embarked
क्षिति-तल-उद्धरणाय the earth to lift up
बिभ्रत् क्रौडीम् तनुम् adorning the boar's body
सकल-यज्ञमयीम्-अनन्त: all sacrifices encompassing, The Infinite (Lord)
अन्त:-महा-अर्णवे in the bottom of the great ocean
उपागतम्-आदि-दैत्यम् had come the first demon
तम् दंष्ट्रया-अद्रिम्-इव him, by the tusks mountain like
वज्रधर: ददार Indra tore
जातो रुचेरजनयत् सुयमान् सुयज्ञ आकूतिसूनुरमरानथ दक्षिणायाम् ।
लोकत्रयस्य महतीमहरद् यदाऽऽर्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्त: ॥२॥
जात: रुचे:-अजनयत् born of Ruchi Prajaapati, begot
सुयमान् सुयज्ञ: the Suyamas, as Suyagya
आकूति-सूनु:-अमरान्- Akuti's son, the gods
अथ दक्षिणायाम् then through Dakshina
लोक-त्रयस्य of the three worlds
महतीम्-अहरद् the great, relieved
यदा-आर्तिम् when affliction
स्वायम्भुवेन मनुना by Svaayambhuva Manu
हरि:-इति-अनूक्त: "Hari" thus was addressed
हरि:-इति-अनूक्त:
जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभि: समं नवभिरात्मगतिं स्वमात्रे।
ऊचे ययाऽऽत्मशमलं गुणसङ्गपङ्कमस्मिन् विधूय कपिलस्यगतिं प्रपेदे ॥३॥
जज्ञे च कर्दम-गृहे was born and in Kardama (Prajaapati's) house
द्विज देवहूत्याम् O Sage! to Devahooti,
स्त्रीभि: समम् नवभि:- sisters with nine
आत्म-गतिम् the soul's course
स्व-मात्रे ऊचे to (his) own mother imparted
यया-आत्म-शमलम् by which (her) own dirt
गुण-सङ्ग-पङ्कम् of Guna's attachment slush
अस्मिन् विधूय in this (life) washing
कपिलस्य-गतिम् प्रपेदे to the Kapila state reached
अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद् भगवान् स दत्त: ।
यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैहयाद्या: ॥४॥
अत्रे:-अपत्यम्-अभिकाङ्क्षत: to Atri, a son desiring
आह तुष्ट: said pleased
दत्त: मया-अहम्-इति given by me myself, thus
यत् भगवान् स: दत्त: therefore the Lord, He is 'Datta'
यत्-पाद-पङ्कज-पराग- by whose feet lotus dust
पवित्र-देहा: purified bodied
योग-ऋद्धिम्- yoga's achievements
आपु:-उभयीम् realized both
यदु-हैहय-आद्या: Yadu, Haihaya and others
तप्तं तपो विविधलोकसिसृक्षया मे, आदौ सनात् स्वतपस: स चतु:सनोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥५॥
तप्तम् तप: विविध-लोक- performed austerity (I) various worlds
सिसृक्षया मे आदौ desirous to create, by me, in the beginning
सनात् स्व-तपस: Sanaat (named) by (His) own austerity
स: चतु:-सन:-अभूत् He four Sanat became
प्राक्-कल्प- the previous Kalpa
सम्प्लव-विनष्टम्- dissolution destroyed
इह-आत्म-तत्त्वम् here, the Self Truth
सम्यग् जगाद well propounded
मुनय: यत्-अचक्षत-आत्मन् the sages which perceived in themselves
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतप:प्रभाव: ।
दृष्ट्वाऽऽत्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकु: ॥६॥
धर्मस्य दक्ष-दुहितरि- of Dharma, Daksha's daughter
अजनिष्ट मूर्त्याम् was born from Murti
नारायण: नर: इति Naaraayana Nara thus
स्व-तप:-प्रभाव: in own austerity glory
दृष्ट्वा-आत्मन: seeing like themselves
भगवत: नियम-अवलोपम् of the Lord's sanctity not violated
देव्य:-तु-अनङ्ग- the nymphs indeed of Cupids
पृतना घटितुम् न शेकु: army to bring about were unable
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या रोषं दहन्तमुत् ते न दहन्त्यसह्यम् ।
सोऽयं यदन्तरमलं प्रविशन् बिभेति काम: कथं नु पुनरस्य मन: श्रयेत ॥७॥
कामम् दहन्ति कृतिन: the god of love burn Shiva and others
ननु रोष-दृष्ट्या indeed with angry looks
रोषम् दहन्तम्-उत the anger (which) burns surely
ते न दहन्ति-असह्यम् they do not burn unbearable
स:-अयम् यत्-अन्तरम्-अलम् that this (anger) which in the heart, very much
प्रविशन् बिभेति काम: to enter is afraid, Cupid
कथम् नु पुन:-अस्य how indeed again His
मन: श्रयेत mind penetrate
विद्ध: सपत्न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि ।
तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो दिव्या: स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥८॥
विद्ध: सपत्नी-उदित-पत्रिभि:- pierced, by step mother's word arrows
अन्ति राज्ञ: बाल:-अपि सन्- near the king, child even being,
उपगत:-तपसे वनानि went for penance to the forests
तस्मै अदाद् ध्रुव-गतिम् to him gave Dhruva's (eternal) abode
गृणते प्रसन्न: by praises pleased
दिव्या: स्तुवन्ति मुनय: heavenly praise sages
यत्-उपरि-अधस्तात् whom up and down
यद्वेनमुत्पथगतं द्विजवाक्यवज्रविप्लुष्टपौरुषभगं निरये पतन्तम् ।
त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन ॥९॥
यत्-वेनम्-उत्पथ-गतम् Who, Vena astray having gone
द्विज-वाक्य-वज्र- by Braahmana's word thunderbolts
विप्लुष्ट-पौरुष-भगम् (was) burnt of power, fortune
निरये पतन्तम् त्रात्वा-अर्थित: in hell falling, rescued, being prayed
जगति पुत्र-पदम् च लेभे in the world, the 'putra' status and achieved
दुग्धा वसूनि वसुधा mulched products from earth
सकलानि येन all by Whom
नाभेरसावृषभ आस सुदेविसूनुर्यो वै चचार समदृग् जडयोगचर्याम् ।
यत् पारमहंस्यमृषय: पदमामनन्ति स्वस्थ: प्रशान्तकरण: परिमुक्तसङ्ग: ॥१०॥
नाभे:-असौ-ऋषभ: आस to Naabha, He (as) Rishabha became
सुदेवि-सूनु:-य: वै चचार as Sudevi's son, Who indeed did
समदृग् जड-योग-चर्याम् looking at everything as equal, an idiot, Yoga
समदृग् जड-योग-चर्याम् looking at everything as equal, an idiot, Yoga practices
यत् पारमहंस्यम्- which Paramahansa
ऋषय: पदम्-आमनन्ति the sages status declare
स्वस्थ: प्रशान्तकरण: established in self, peaceful minded
परिमुक्त-सङ्ग: rid of all attachments
सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्ण: ।
छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशती: श्वसतोऽस्य नस्त: ॥११॥
सत्रे मम-आस in my sacrifice appeared
भगवान् हयशीरषा-अथो the Lord Hayagriva, then
साक्षात् स: यज्ञपुरुष: personified He, as the sacrifice Lord,
तपनीय-वर्ण: छन्दोमय: golden complexioned, in the form of Vedas,
मखमय: encompassing all sacrifices
अखिल-देवता-आत्मा entire (lot of) deities personified
वाच: बभूवु:-उशती: vocal became the Vedas
श्वसत:-अस्य नस्त: breathing (as He was) from His nostrils
मत्स्यो युगान्तसमये मनुनोपलब्ध: क्षोणीमयो निखिलजीवनिकायकेत: ।
विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान् ॥१२॥
मत्स्य: युगान्त-समये (He as) Fish at dissolution time
मनुना-उपलब्ध: by Manu was got
क्षोणीमय: (he as) the earth boat
निखिल-जीव-निकाय-केत: entire classes of beings, supported
विस्रंसितान्-उरु-भये dropped in the fierce
सलिले मुखात्-मे waters, from mouth my
तत्र विजहार ह there sported indeed
वेद-मार्गान् with the Veda parts
क्षीरोदधावमरदानवयूथपानामुन्मथ्नताममृतलब्धय आदिदेव: ।
पृष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डू: ॥१३॥
क्षीर-उदधौ-अमर-दानव- in the milk ocean, gods and demons'
यूथपानाम्-उन्मथ्नताम्- the chiefs churning
अमृत-लब्धये आदिदेव: to nectar get the Primal Deity
पृष्ठेन कच्छप-वपु:- by the back, tortoise bodied
विदधार गोत्रम् held the mountain
निद्रा-क्षण:- sleep moment
अद्रि-परिवर्त- the mountain revolving
कषाण-कण्डू: relieved the itch
त्रैविष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद् भ्रकुटिदंष्ट्रकरालवक्त्रम् ।
दैत्येन्द्रमाशु गदयाभिपतन्तमारादूरौ निपात्य विददार नखै: स्फुरन्तम् ॥१४॥
त्रैविष्टप-उरु-भय-हा of the heaven's residents, great fear to dispel
स: नृसिंह-रूपम् कृत्वा He Nrisingha form taking
भ्रमत् भ्रकुटि- quivering eyebrows
दंष्ट्र-कराल-वक्त्रम् teeth fierce faced
दैत्येन्द्रम्-आशु the demon king quickly
गदया-अभिपतन्तम्- with mace approaching
आरात्-ऊरौ निपात्य in play on thighs flinging
विददार नखै: स्फुरन्तम् tore apart with nails, wriggling
अन्त: सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्त: ।
आहेदमादिपुरुषाखिललोकनाथ तीर्थश्रव: श्रवणमङ्गलनामधेय ॥१५॥
अन्त: सरसि-उरु-बलेन inside the lake, with great strength
पदे गृहीत: ग्राहेण by foot held by the alligator
यूथपति:-अम्बुज-हस्त: आर्त: leader of the herd elephant, a lotus in his tusk,
यूथपति:-अम्बुज-हस्त: आर्त: leader of the herd elephant, a lotus in his tusk, distressed
आह-इदम-आदिपुरुष- said this, 'Primal Person!
अखिल-लोकनाथ of all the worlds The Protector!
तीर्थ-श्रव: O Lord of sacred renown!
श्रवण-मङ्गल-नामधेय hearing (is) auspicious Whose names!
श्रुत्वा हरिस्तमरणार्थिनमप्रमेयश्चक्रायुध: पतगराजभुजाधिरूढ: ।
चक्रेण नक्रवदनं विनिपाट्य तस्माद्-हस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥१६॥
श्रुत्वा हरि: hearing, Hari
तम्-अरण-अर्थिनम्- him the defeated, beseeched,
अप्रमेय:-चक्रायुध: the infinite (Lord) with the disc weapon
पतगराज-भुज-अधिरूढ: on the birds' king's arm mounted
चक्रेण नक्र-वदनम् by the disc, the alligator's face
विनिपाट्य severing
तस्माद्-हस्ते प्रगृह्य from him by the trunk holding
भगवान् कृपया-उज्जहार The Lord with grace rescued
ज्यायन् गुणैरवरजोऽप्यदिते: सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञ: ।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन् प्रभुभिर्न चाल्य: ॥१७॥
ज्यायन् गुणै:-अवरज:-अपि- eldest by virtue, youngest though,
अदिते: सुतानाम् of Aditi's sons
लोकान् विचक्रमे इमान् the worlds covered (by steps) these
यत्-अथ-अधियज्ञ: as, then, the presiding person of the sacrifice
क्ष्माम् वामनेन जगृहे the earth by Vaamana was taken
त्रिपद-च्छलेन by three steps' pretext
याच्ञाम्-ऋते solitation besides
पथि चरन् righteousness pursuing (person)
प्रभुभि:-न चाल्य: by powerful also is not waylaid
नार्थो बलेरयमुरुक्रमपादशौचमाप: शिखाधृतवतो विबुधाधिपत्यम् ।
यो वै प्रतिश्रुतमृते न चिकीर्षदन्यदात्मानमङ्गशिरसा हरयेऽभिमेने ॥१८॥
न-अर्थ: बले:-अयम्- not desire Bali's this
उरुक्रम-पाद-शौचम्- of Vaamana's feet washed
आप: शिखा-धृतवत: water on head placed
विबुध-आधिपत्यम् of the god's lordship
य: वै प्रतिश्रुतम्- who indeed promised
ऋते न चिकीर्षत्- beside will not act
अन्यत्-आत्मानम्-अङ्ग anything, himself, O Dear!
शिरसा हरये-अभिमेने with head (bowed) for Hari surrendered
तुभ्यं च नारद भृशं भगवान् विवृद्धभावेन साधुपरितुष्ट उवाच योगम् ।
ज्ञानं च भागवतमात्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥१९॥
तुभ्यम् च नारद भृशम् to you and Naarada! deeply,
भगवान् विवृद्ध-भावेन The Lord, increased devotion
साधु-परितुष्ट उवाच योगम् well pleased, said Yoga
ज्ञानम् च भागवतम्- knowledge and Bhaagavatam
आत्म-सतत्त्व-दीपम् the self truth (revealing) torch
यत्-वासुदेव-शरणा: which Vaasudeva surrenders
विदु:-अञ्जसा-एव know easily only
चक्रं च दिक्ष्वविहतं दशसु स्व तेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति ।
दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिम् सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रै: ॥२०॥
चक्रम् च दिक्षु-अविहतम् wields and in the directions, unhindered,
दशसु स्व तेज: in the ten, own glory
मन्वन्तरेषु in the Manvantaras
मनु-वंश-धर: बिभर्ति the Manu race preserving, shines
दुष्टेषु राजसु on wicked kings
दमम् व्यदधात् punishment imposing
स्व-कीर्तिम् सत्ये own glory in Satyaloka
त्रिपृष्ठे उशतीम् (beyond) the three worlds, charming
प्रथयन्-चरित्रै: spreading by (His) exploits
धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिर्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवावरुन्ध आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥२१॥
धन्वन्तरि:-च भगवान् Dhanvantaree and The Lord
स्वयम्-एव कीर्ति:-नाम्ना Himself only, by fame of the name
नृणाम् पुरु-रुजाम् of men's great suffering
रुज आशु हन्ति disease quickly cures
यज्ञे च भागम्- in the sacrifices and offerings
अमृत-आयु:-अवावरुन्धे immortals (place) gained, and procured
आयु:-च वेदम् अनुशास्ति- and the Aaayurveda taught
अवतीर्य लोके descending in the world
क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।
उद्धन्त्यसाववनिकण्टकमुग्रवीर्यस्त्रि: सप्तकृत्व उरुधारपरश्वधेन ॥२२॥
क्षत्रम् क्षयाय the Kshatriya for destruction
विधिना-उपभृतम् by providence, increased
महात्मा ब्रह्म-ध्रुक्- the Supreme Self, the enemy of the Braahmanas
उज्झित-पथम् abandoning the path of virtue
नरक-आर्ति-लिप्सु hell's sufferings inviting
उद्धन्ति-असौ- exterminates This (Parashuraama)
अवनि-कण्टकम्- the earth's thorn
उग्र-वीर्य:- of tremendous power
त्रि सप्त-कृत्व: thrice seven times
उरु-धार-परश्वधेन with fine edged axe
अस्मत्प्रसादसुमुख: कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।
तिष्ठन् वनं॔ सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥२३॥
अस्मत्-प्रसाद-सुमुख: कलया us to bless eager, with part incarnations,
कलेश: इक्ष्वाकु-वंशे अवतीर्य The Lord of Maaya, in Ikshwaaku line, descending
गुरो:-निदेशे तिष्ठन् वनम् by father's command, remaining in the forest
स-दयिता-अनुज: with wife and younger brother
आविवेश यस्मिन् विरुध्य entered, where making enemy,
दशकन्धर: आर्तिम-आर्च्छत् Dashakandhara (Raavana) death gave
यस्मै अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद् दिधक्षो: ।
दूरे सुहृन्मथितरोषसुशोणदृष्ट्या तातप्यमानमकरोरगनक्रचक्र: ॥२४॥
यस्मै अदाद्-उदधि- to Whom gave the ocean
रूढ-भय-अङ्ग-वेप: being afraid, limbs trembling
मार्गम् सपदि-अरि-पुरम् way soon, enemy's city,
हर-वत् दिधक्षो: like Lord Shiva, eager to burn
दूरे सुहृत्-मथित- separated from Sita stirred
रोष-सुशोण-दृष्ट्या (with) wrath red eyed
तातप्यमान-मकर- burning alligator
उरग-नक्र-चक्र: serpents and crocodiles and others
वक्ष:स्थलस्पर्शरुग्णमहेन्द्रवाहदन्तैर्विडम्बितककुब्जुष ऊढहासम् ।
सद्योऽसुभि: सह विनेष्यति दारहर्तुर्विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥२५॥
वक्ष:-स्थल-स्पर्श- chest region struck
रुग्ण-महेन्द्र-वाह- smashed Indra's vehicle (the elephant Airaawata)
दन्तै:-विडम्बित- by teeth whitening
ककुप्-जुष: ऊढ-हासम् of the quarters' aura, loudly laughing
सद्य:-असुभि: सह soon, life with,
विनेष्यति दारहर्तु:- will be destroyed, the wife stealer (Raavana)
विस्फूर्जितै:-धनुष by the twang of the bow
उच्चरत:-अधिसैन्ये descending between the two armies
भूमे: सुरेतरवरूथविमर्दिताया: क्लेशव्ययाय कलया सितकृष्णकेश: ।
जात: करिष्यति जनानुपलक्ष्यमार्ग: कर्माणि चात्ममहिमोपनिबन्धनानि ॥२६॥
भूमे: सुर-इतर-वरूथ of the earth, other than gods (demons) hosts
विमर्दिताया: क्लेश-व्ययाय oppressed, sufferings to end
कलया सित-कृष्ण-केश: by part, fair and dark forms
जात: करिष्यति being born will do
जन-अनुपलक्ष्य- by people unknown
मार्ग: कर्माणि ways deeds
च-आत्म-महिमा- and self greatness
उपनिबन्धनानि testifying
तोकेन जीवहरणं यदुलूकिकायास्त्रैमासिकस्य च पदा शकटोऽपवृत्त: ।
यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥२७॥
तोकेन जीव-हरणम् by a new born child, life withdrawing
यत्-उलूकिकाया: that of Pootanaa
त्रै-मासिकस्य च पदा by (a child) of three month's feet
शकट:-अपवृत्त: cart was upturned
यत् रिङ्गता-अन्तर-गतेन that, when crawling, in between going
दिविस्पृशो:-वा उन्मूलनम् sky touching or (trees) uprooting
तु-इतरथा- indeed other than Him
अर्जुनयो:-न भाव्यम् of Arjuna (trees) is not possible
यद् वै व्रजे व्रजपशून विषतोयपीथान् पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या ।
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्वमुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥२८॥
यत् वै व्रजे व्रज-पशून Who indeed in Vraja, the Vraja cattle
विष-तोय-पीथान् the poisoned water having drunk
पालान्-तु-अजीवयत्- and the cattle keepers brought to life
अनुग्रह-दृष्टि-वृष्ट्या by graceful look showering
तत्-शुद्धये- for its purification
अति-विष-वीर्य- highly poisonous and ferocious
विलोल-जिह्वम्- restless tongued
उच्चाटयिष्यत्-उदुरगम् and will expel the serpent
विहरन् ह्रदिन्याम् sporting in the waters (of Yamuna)
तत्कर्म दिव्यमिव यन्निशि नि:शयानं दावाग्निना शुचिवने परिदह्यमाने ।
उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्य: ॥२९॥
तत्-कर्म दिव्यम्-इव that deed divine like
यत्-निशि नि:शयानम् which at night sleeping
दाव-अग्निना शुचि-वने by forest fire
परिदह्यमाने उन्नेष्यति in the rush forest, burning, will save (them)
व्रजम्-अत:-अवसित- the Vraja (people)
अन्त-कालम् death time (inevitable)
नेत्रे पिधाय्य सबल:- by both eyes closing, with Balaraama
अनधिगम्य-वीर्य: will be incomprehensible exploit
गृह्णीत यद् यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत् तदमुष्य माति ।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमना: प्रतिबोधिताऽऽसीत् ॥३०॥
गृह्णीत यत् यत्-उपबन्धम्- took, which ever string
अमुष्य माता शुल्बम् सुतस्य His mother, that string son's
न तु तत् तत्- not indeed that that
अमुष्य माति for Him will be adequate (to tie)
यत्-जृम्भत:- Whom while yawning
अस्य वदने भुवनानि in His mouth the worlds
गोपी संवीक्ष्य the milkmaid (Yashoda) seeing
शङ्कितमना: was doubtful minded
प्रतिबोधिता-आसीत् (then) could understand
नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद् गोपान् बिलेषु पिहितान् मयसूनुना च ।
अह्न्यापृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥३१॥
नन्दम् च मोक्ष्यति Nanda and will release
भयात् वरुणस्य पाशात् from fear (of the python), from Varuna's noose
गोपान् बिलेषु पिहितान् the cowherd boys in caves shut
मय-सूनुना च by Maya's son (Vyoma) and
अह्नि-आपृतम् all day working
निशि शयानम्- in night sleeping
अति-श्रमेण लोकम् by great exertion people
विकुण्ठम्-उपनेष्यति to Vaikuntha will take
गोकुलम् स्म of Gokula, indeed
गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षु: ।
धर्तोच्छिलीन्ध्रमिव सप्त दिनानि सप्तवर्षो महीध्रमनघैककरे सलीलम् ॥३२॥
गोपै:-मखे प्रतिहते by the Gopas, sacrifices withdrawing
व्रज-विप्लवाय Vraja to be flooded
देवे-अभिवर्षति Indra will pour rains
पशून् कृपया रिरक्षु: the animals compassionately to save
धर्ता-उच्छिलीन्ध्रम्-इव will be upholder mushroom like
सप्त दिनानि सप्त-वर्ष: for seven days, the seven year (aged)
महीध्रम्-अनघ- the mountain (Govardhana), O Sinless One!
एक-करे सलीलम् on one hand, sportingly
क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मुख: कलपदायतमूर्च्छितेन ।
उद्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिर: धनदानुगस्य ॥३३॥
क्रीडन् वने निशि while sporting in the forest in the night
निशाकर-रश्मि-गौर्याम् by the moon's rays brightened
रास-उन्मुख: for Raasa ready
कलपद-आयत-मूर्च्छितेन by the flute's long melody
उद्दीपित-स्मर-रुजाम् enkindled love afflicted
व्रज-भृत्-वधूनाम् Vraja protectors' wives
हर्तु:-हरिष्यति शिर: to kidnap, will sever the head
धनदा-अनुगस्य of Kuber's attendant (Shankhachooda)
ये च प्रलम्बखरदर्दुरकेश्यरिष्टमल्लेभकंसयवना: कुजपौण्ड्रकाद्या: ।
अन्ये च शाल्वकपिबल्वलदन्तवक्त्रसप्तोक्षशम्बरविदूरथरुक्मिमुख्या: ॥३४॥
ये च प्रलम्ब-खर-दर्दुर- those and Pralamba, Dhenuka, Vaka,
केशी-अरिष्ट-मल्ल- Keshi, Arishti, the wrestler, (Chanoora),
इभ-कंस-यवना: elephant (Kuvalayaapeeda), Kansa, Kaalayavana
कुज-पौण्ड्रक-आद्या: Bhaumaasura, Paundraka, and others
अन्ये च शाल्व- others and Shaalva,
कपि-बल्वल- the monkey (Dwiwida), Balwala,
दन्त-वक्त्र-सप्त-उक्षन्- Dantavaktra, the seven bulls,
शम्बर-विदूरथ- Shambara, Viduratha,
रुक्मि-मुख्या: Rukmi mainly
ये वा मृधे समितिशालिन आत्तचापा: काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्या: ।
यास्यन्त्यदर्शनमलं बलपार्थभीम व्याजाह्वयेन हरिणा निलयं तदीयम् ॥३५॥
ये वा मृधे समिति-शालिन: those, or in battle, to fight determined
आत्त-चापा: काम्बोज-मत्स्य- taking up bows, Kamboja, Matsya,
कुरु-कैकय-सृञ्जय-आद्या: Kuru, Kaikeya, Srinjaya, and others
यास्यन्ति-अदर्शनम्-अलम् will go to death soon
बल-पार्थ-भीम by Balaraama, Arjuna, Bheema
व्याज-आह्वयेन in pretext of the names
हरिणा निलयम् तदीयम् by Hari abode His own
कालेन मीलितधियामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूर पार: ।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ॥३६॥
कालेन मीलित-धियाम्- in time, of dimmed intellect
अवमृश्य नृणाम् realizing of the people
स्तोक-आयुषाम् shortened lives
स्व-निगम: His teachings (the Vedas)
बत दूर पार: alas! Far fetched (will be)
आविर्हित:-तु- manifests indeed
अनुयुगम् स हि in every cycle (of creation) He only
सत्यवत्याम् in Satyawati (as Veda Vyaasa)
वेद-द्रुमम् विटपश: the Veda tree in branches
विभजिष्यति स्म will split
देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यतूर्भि: ।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥३७॥
देव-द्विषाम् of the god's enemies (demons)
निगम-वर्त्मनि निष्ठितानाम् in Veda path established
पूर्भि:-मयेन विहिताभि:- in the cities, by Maya created
अदृश्य-तूर्भि: of invisible velocity
लोकान् घ्नताम् the people will destroy
मति-विमोहम्- by mind blowing
अति-प्रलोभम् वेषम् विधाय very alluring form taking on
बहु भाष्यत औपधर्म्यम् will many teach heresy
यर्ह्यालयेष्वपि सतां न हरे: कथा: स्यु: पाखण्डिनो द्विजजना वृषला नृदेवा:।
स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवन् युगान्ते ॥३८॥
यर्हि-आलयेषु-अपि सताम् when in the houses also of the pious
न हरे: कथा: स्यु: not Hari's discourses will be
पाखण्डिन: द्विज-जना: heretics will be the Braahmanas
वृषला: नृ-देवा: and Shudras the Kshatriyas
स्वाहा स्वधा वषट्- Swaaha, Swadhaa, Vashat,
इति स्म गिर: will not be these words
शास्ता भविष्यति ruler will become
कले:-भगवन् युग-अन्ते of Kali the Lord at the end of the cycle
सर्गे तपोऽहमृषयो नव ये प्रजेशा: स्थाने च धर्ममखमन्वमरावनीशा: ।
अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमा: पुरुशक्तिभाज: ॥३९॥
सर्गे तप:-अहम्-ऋषय: at creation (time) austerities, myself, the saints
नव ये प्रजेशा: nine who are the protectors of the people
स्थाने च at preservation and
धर्म-मख-मनु- righteousness, sacrifices Manu
अमर-अवनीशा: the gods and the kings
अन्ते तु-अधर्म-हर- at dissolution, indeed unrighteousness, Hara (god of
मन्युवश-असुर-आद्या: Manyuvasha (serpent) demons and others
माया-विभूतय: इमा: are Maayaa's glory
पुरु-शक्ति-भाज: of the infinite power holder
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह य: पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ य: स्वरंहसास्खलता त्रिपृष्ठं यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥४०॥
विष्ण:-नु- वीर्य-गणनाम् of Vishnu, indeed, powers calculate
कतम:-अर्हति-इह how many can here
य: पार्थिवानि-अपि those of the earth even
कवि:-विममे रजांसि the wise counted dust particles
चस्कम्भ य: स्व-रंहसा supported Who, by His force
स्खलता त्रिपृष्ठम् from dislodging the earth
यस्मात् त्रिसाम्य- by Whose three steps
सदनात्-उरु-कम्पयानम् lifting, violently shaken
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये ।
गायन् गुणान् दशशतानन आदिदेव: शेषोऽधुनापि समवस्यति नास्य पारम् ॥४१॥
न-अन्तम् विदामि-अहम्- the ultimate (truth) do not know I
अमी मुनय:-अग्रजा:-ते those sages (Sanakaadi), elder brothers yours'
माया-बलस्य पुरुषस्य the Maayaa potentised Primal Person's
कुत:-अपरे ये how can others those
गायन् गुणान् singing praises
दश-शत-आनन ten hundred (1000) mouthed
आदि-देव: शेष:- the Primal Deity Shesha
अधुना-अपि समवस्यति till today also to ascertain
न-अस्य पारम् not His truth
येषां स एव भगवान् दययेदनन्त: सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ।
ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धी: श्वशृगालभक्ष्ये ॥४२॥
येषाम् स: एव भगवान् to them, He only The Lord
दययेत्-अनन्त: gives His grace, the Infinite One
सर्व-आत्मना-आश्रित-पद: by their whole being surrendered to (His) feet
यदि निर्व्यलीकम् if without deceit
ते दुस्तराम्- they, uncross able
अतितरन्ति च देव-मायाम् (do) cross and The Lord's Maayaa
न-एषाम् मम्-अहम्- not theirs (is) mine and me
इति धी: such thought
श्व-शृगाल-भक्ष्ये of dogs and jackals' food
वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्य: ।
पत्नी मनो: स च मनुश्च तदात्मजाश्च प्राचीनबर्हि: ऋभुरङ्ग उत ध्रुवश्च ॥४३॥
वेद-अहम्-अङ्ग know I, Dear One!
परम्-अस्य हि the Supreme Being's indeed
योग-मायाम् creative energies
यूयम् भव:-च you people, Shiva and
भगवान्-अथ दैत्यवर्य: The Lord, then the foremost demon (Prahlaada)
पत्नी मनो: wife of Manu (Shataroopaa)
स: च मनु:-च he and Manu and
तत्-आत्मजा:-च प्राचीनबर्हि: his sons and Praacheenabarhi
ऋभु:-अङ्ग: उत ध्रुव:-च Ribhu, Anga, indeed Dhruva also
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधिरघ्वम्बरीषसगरा गयनाहुषाद्या: ।
मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो बलिरमूर्त्तरयो दिलीप: ॥४४॥
इक्ष्वाकु:-ऐल-मुचुकुन्द- the Ikshwaaku kings, Aila, Muchukunda,
विदेह-गाधि-रघु-अम्बरीष- Janaka, Gaadhi, Raghu, Ambareesha,
सगरा: गय-नाहुष-आद्या: the Sagaras, Gaya, Yayaati, and others
मान्धातृ-अलर्क-शतधनु-अनु- Maandhaatri, Alarka, Shatadhanu, Anu,
रन्तिदेवा: देवव्रत: बलि:- Rantidevas, Devavrata, Bali,
अमूर्त्तरय: दिलीप: Amoortaraya, Dileepa
सौभर्युतङ्कशिबिदेवलपिप्पलाद सारस्वतोद्धवपराशरभूरिषेणा:।
येऽन्ये विभीषणहनूमदुपेन्द्रदत्तपार्थार्ष्टिषेणविदुरश्रुतदेववर्या: ॥४५॥
सौभरि-उतङ्क-शिबि-देवल- Saubhari, Uttanka, Shivi, Devala,
पिप्पलाद सारस्वत-उद्धव Pippalaada, Saarasvata, Uddhava,
पराशर-भूरिषेणा: ये-अन्ये Paraashara, Bhoorishena, those others
विभीषण-हनूमत्-उपेन्द्रदत्त- Vibheeshana, Hanumaan, Upendradutta (Shuka),
पार्थ-आर्ष्टिषेण-विदुर- Arjuna, Aarshtisena, Vidura,
श्रुतदेव-वर्या: Shrutadeva, the prominent ones
ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवा: ।
यद्यद्भुतक्रमपरायणशीलशिक्षास्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥४६॥
ते वै विदन्ति- they indeed know
अतितरन्ति च देव-मायाम् and cross the Lord's Maayaa
स्त्री-शूद्र-हूण-शबरा (even) women, the Shudras, the Hoonas, Shabaras,
अपि पाप-जीवा: and also sinful people
यदि-अद्भुतक्रम- if of the Surprising feet's Lord's
परायण-शील-शिक्षा: devotees, ways and learning's
तिर्यक्-जना: अपि even the birds
किमु श्रुत धारणा: ये what of, of Veda's knower's who
शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसत: परमात्मतत्त्वम् ।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना ॥४७॥
शश्वत् प्रशान्तम्-अभयम् eternal, peaceful, fearless,
प्रतिबोध-मात्रम् शुद्धम् consciousness absolute, pure,
समम् सत्-असत: परम्- without diversities, real and unreal beyond,
आत्म-तत्त्वम् शब्द: न यत्र the Spirit Supreme, words do not where
पुरु-कारकवान् क्रिया-अर्थ: many diverse fruit bearing actions
माया परैति- Maayaa flees
अभिमुखे च विलज्जमाना in front and ashamed
तद् वै पदं भगवत: परमस्य पुंसो ब्रह्मेति यद् विदुरजस्रसुखं विशोकम् ।
सघ्र्यङ् नियम्य यतयो यमकर्तहेतिं जह्यु: स्वराडिव निपानखनित्रमिन्द्र: ॥४८॥
तत् वै पदम् भगवत: परमस्य that certainly, the abode of Lord, the Supreme
तत् वै पदम् भगवत: परमस्य that certainly, the abode of Lord, the Supreme Person
पुंस: ब्रह्म-इति यत् विदु:- wise Brahma thus, which know
पुंस: ब्रह्म-इति यत् विदु:- eternal bliss, sorrowless
सघ्र्यङ् नियम्य in soul established
यतय: यमकर्त- the yogis, differences discarding
हेतिम् जह्यु: means neglect
स्वराड्-इव rain personified, just as
निपान-खनित्रम्-इन्द्र: well digging (instruments) Indra
स श्रेयसामपि विभुर्भगवान् यतोऽस्य भावस्वभावविहितस्य सत: प्रसिद्धि: ।
देहे स्वधातुविगमेऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽज: ॥४९॥
स: श्रेयसाम्-अपि विभु:- He in fruitful action even present,
भगवान् यत:-अस्य The Lord, because, His
भाव-स्वभाव-विहितस्य by own inclination and nature performed
सत: प्रसिद्धि: noble acts, inspired
देहे स्व-धातु-विगमे- in the body by its elements disintegrating
अनुविशीर्यमाणे व्योम-इव dissolving, ether like
तत्र पुरुष: there The Spirit
न विशीर्यते-अज: does not disintegrate, the unborn
सोऽयं तेऽभिहितस्तात भगवान् विश्वभावन: ।
समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ॥५०॥
स:-अयम् ते-अभिहित:- That This, to you said
तात O Child!
भगवान् विश्व-भावन: the Lord the world's creator
समासेन in brief
हरे:-न-अन्यत्- from Lord nothing is different
अन्यस्मात् सत्-असत्- from all others
च यत् and Who
इदं भागवतं नाम यन्मे भगवतोदितम् ।
संग्रहोऽयं विभूतीनां त्वमेतद् विपूलीकुरु ॥५१॥
इदम् भागवतम् नाम this Bhaagavata named
यत्-मे भगवता-उदितम् which to me by Lord was told
संग्रह:-अयम् विभूतीनाम् compilation it is of the glories (of Lord)
त्वम्-एतत् विपूली-कुरु you this extend do
यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे इति संकल्प्य वर्णय ॥५२॥
यथा हरौ भगवति in a manner, in Hari The Lord
नृणाम् भक्ति:-भविष्यति of the people devotion will be
सर्व-आत्मनि- in Universal Spirit
अखिल-आधारे (and) of all The Sustainer
इति संकल्प्य वर्णय this willing, expound
मायां वर्णतोऽमुष्य ईश्वरस्यानुमोदत: ।
शृण्वत: श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ॥५३॥
मायाम् वर्णत: the Maayaa describing
अमुष्य ईश्वरस्य- of this Lord
अनुमोदत: शृण्वत: approving it, hearing it,
श्रद्धया नित्यम् reverently everyday
मायया-आत्मा न मुह्यति Maayaa the soul, does not delude
इतिश्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे ब्रह्मनारदसंवादे सप्तम:
अध्याय: ॥७॥
इतिश्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे ब्रह्मनारदसंवादे सप्तम:
अध्याय: ॥७॥ Thus ends the seventh discourse in Book Two, comprising among other
अष्टम: अध्याय:
राजा-उवाच - the king said -
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च ।
यस्मै यस्मै यथा प्राह नारदो देवदर्शन: ॥१॥
ब्रह्मणा चोदित: ब्रह्मन् by Brahmaa urged, O Holy sage!
गुण-आख्याने-अगुणस्य च the virtues to describe, of The One without Gunas, and
यस्मै यस्मै यथा प्राह to whom , how said
नारद: देव-दर्शन: Naarada, (who) Lord reveals
एतद् वेदितुमिच्छामि तत्त्वं वेदविदां वर ।
हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गला: ॥२॥
एतत् वेदितुम्- this to know
इच्छामि तत्त्वम् I desire the reality
वेद-विदाम् वर O of the Veda knower's Supreme!
हरे:-अद्भुत-वीर्यस्य Hari's marvellous powers
कथा लोक-सुमङ्गला: stories, for the world blessings bestowing
कथयस्व महाभाग यथाहमखिलात्मनि ।
कृष्णे निवेश्य नि:सङ्गं मनस्त्यक्ष्ये कलेवरम् ॥३॥
कथयस्व महाभाग do say, O highly blessed sage!
यथा-अहम्- so that I
अखिल-आत्मनि in the Eternal Soul
कृष्णे निवेश्य Krishna establishing
नि:सङ्गम् मन:- without any attachments, the mind
त्यक्ष्ये कलेवरम् cast off the body
शृण्वत: श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।
कालेन नातिदीर्घेण भगवान् विशते हृदि ॥४॥
शृण्वत: श्रद्धया नित्यम् hearing reverently, daily
गृणत:-च स्व-चेष्टितम् repeating and the Lord's doings
कालेन न-अति-दीर्घेण in time not very long
भगवान् विशते हृदि The Lord enters the heart
प्रविष्ट: कर्णरन्ध्रेन स्वानां भावसरोरुहम् ।
धुनोति शमलं कृष्ण: सलिलस्य यथा शरत् ॥५॥
प्रविष्ट: कर्ण-रन्ध्रेन entering by the ear cavity
स्वानाम्-भाव-सरोरुहम् of His devotees’, (into) the heart lotus
धुनोति शमलम् कृष्ण: destroys impurities, Krishna
सलिलस्य यथा शरत् of the water, like autumn
धौतात्मा पुरुष: कृष्णपादमूलं न मुञ्चति ।
मुक्तसर्वपरिक्लेश: पान्थ: स्वशरणं यथा ॥६॥
धौत-आत्मा पुरुष: a pure souled person
कृष्ण-पाद-मूलम् Krishna's feet's soles
न मुञ्चति does not leave
मुक्त-सर्व-परिक्लेश: abandoned all exertion
पान्थ: स्व-शरणम् यथा traveller, own shelter like
यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभि: ।
यदृच्छया हेतुना वा भवन्तो जानते यथा ॥७॥
यत्-अधातुमत: (that) which (the soul) is without elements
ब्रह्मन् O divine sage!
देह-आरम्भ:- the body's creation
अस्य धातुभि: of it (is) by the elements
यदृच्छया हेतुना वा by course, by cause or
भवन्त: जानते यथा you know how
आसीद् यदुदरात् पद्मं लोकसंस्थानलक्षणम् ।
यावानयं वै पुरुष इयत्तावयवै: पृथक् ।
तावानसाविति प्रोक्त: संस्थावयववानिव ॥८॥
आसीत् यत्-उदरात् पद्मम् was which, from (Whose) stomach, the lotus
लोक-संस्थान-लक्षणम् of the worlds' creation the cause
यावान्-अयम् of the type This
वै पुरुष: इयत्ता- indeed is The Person, of a particular size
अवयवै: पृथक् तावान्-असौ- in limbs different, same type This (He)
इति प्रोक्त: संस्था-अवयववान्-इव so is said, form and limbed like
अज: सृजति भूतानि भूतात्मा यदनुग्रहात्।
ददृशे येन तद्रूपं नाभिपद्मसमुद्भव: ॥९॥
अज: सृजति भूतानि Brahmaa creates the elements
भूत-आत्मा as the creation's soul
यत्-अनुग्रहात् by Whose grace
ददृशे येन तत्-रूपम् was shown by Whom, That form
नाभि-पद्म-समुद्भव: from navel lotus born
स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्यय: ।
मुक्त्वाऽऽत्ममायां मायेश: शेते सर्वगुहाशय: ॥१०॥
स: च-अपि यत्र He and also where
पुरुष: विश्व- the Primal Person, the world's
स्थिति-उद्भव-अप्यय: preservation, creation and destruction (happens)
मुक्त्वा-आत्म-मायाम् discarding His Maayaa
मायेश: शेते The Lord of Maayaa, sleeps
सर्व-गुहा-आशय: in everything dwelling
पुरुषावयवैर्लोका: सपाला: पूर्वकल्पिता: ।
लोकैरमुष्यावयवा: सपालैरिति शिश्रुम ।११॥
पुरुष-अवयवै: लोका: by the Person's limbs, the worlds
सपाला: पूर्व-कल्पिता: with the guardians, were formerly conceived
लोकै:-अमुष्य-अवयवा: by the worlds' His limbs,
सपालै:-इति शिश्रुम with the guardians, this is heard
यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते ।
भूतभव्यभवच्छब्द आयुर्मानं च यत् सत: ॥१२॥
यावान् कल्प: विकल्प: वा the duration of a Kalpa, of a Vikalpa, or
यथा काल:-अनुमीयते as the time flows
भूत-भव्य-भवत्-शब्द: past, future, present (these) words
आयु:-मानम् च यत् सत: age span and which of beings
कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि ।
यावत्य: कर्मगतयो यादृशीर्द्विजसत्तम ॥१३॥
कालस्य-अनुगति:-या तु time's movement that which
लक्ष्यते-अण्वी बृहति-अपि is seen the smallest largest also
यावत्य: कर्म-गतय: यादृशी:- as many of Karma's destinies, which type
द्विज-सत्तम O Braahmana, the noblest!
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते ।
गुणानां गुणिनां चैव परिणाममभीप्सताम् ॥१४॥
यस्मिन् कर्म-समावायो in which, Karma's end (result)
यथा येन-उपगृह्यते how by whom is accepted
गुणानाम् गुणिनम् चैव of the (three) gunas, the jivas with the gunas and also
परिणामम्-अभीप्सताम् the results desired
भूपातालककुब्व्योमग्रहनक्षत्रभूभृताम् ।
सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥१५॥
भू-पाताल-ककुब्-व्योम- earth, the nethermost sphere, the directions, the sky,
ग्रह-नक्षत्र-भूभृताम् the planets, stars, the mountains,
च-एतत्-ओकसाम् and their creatures
प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदत: ।
महतां चानुचरितं वर्णाश्रमविनिश्चय: ॥१६॥
प्रमाणम्-अण्डकोशस्य dimensions, of the egg-shaped universe
बाह्य-अभ्यन्तर-भेदत: outside and inside, differentiating
महताम् च-अनुचरितम् of the holy and distinctive character
वर्ण-आश्रम-विनिश्चय: the Varnas Aashramas, ascertain
युगानि युगमानं च धर्मो यश्च युगे युगे ।
अवतारानुचरितं यदाश्चर्यतमं हरे: ॥१७॥
युगानि युगमानम् च the Yugas, the duration of the Yugas and
धर्म: य:-च युगे युगे duties which and in Yuga to Yuga
अवतार-अनुचरितम् the descent exploits
यत्-आश्चर्यतमम् हरे: which are most wonderful of Shree Hari
नृणां साधरणो धर्म: सविशेषश्च यादृश: ।
श्रेणीनां राजर्षीणां च धर्म: कृच्छ्रेषु जीवताम् ॥१८॥
नृणाम् साधरण: धर्म: of the people common duties
सविशेष:-च यादृश: special and what kind
श्रेणीनाम् राजर्षीणाम् of the traders, the royal sages
च धर्म: कृच्छ्रेषु जीवताम् and duties, (of those) in want living
तत्त्वानां परिसंख्यानं लक्षणं हेतुलक्षणम् ।
पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥१९॥
तत्त्वानाम् परिसंख्यानम् of the elements, the categories
लक्षणम् हेतु-लक्षणम् characteristics, cause, and distinct nature
पुरुष-आराधन-विधि:- of The Primal Person's worship method,
योगस्य-आध्यात्मिकस्य च of yoga, of Vedic knowledge and (method)
योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् ।
वेदोपवेदधर्माणामितिहासपुराणयो: ॥२०॥
योगेश्वर-ऐश्वर्य-गति:- of Yoga the masters’, power and destiny
लिङ्ग-भङ्गस्तु योगिनाम् the subtle body's dissolving of the Yogis
वेद-उपवेद-धर्माणाम्- the Vedas and sub-Vedas, of the Dharmas
इतिहास-पुराणयो: and of epics and the Puraanas
सम्प्लव: सर्वभूतानां विक्रम: प्रतिसंक्रम: ।
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधि: ॥२१॥
सम्प्लव: सर्व-भूतानाम् dissolution of all beings
विक्रम: प्रतिसंक्रम: preservation, rebirth
इष्टा-पूर्तस्य काम्यानाम् Vedic rites, works by the Smritis, fulfilling of
इष्टा-पूर्तस्य काम्यानाम् Vedic rites, works by the Smritis, fulfilling of desired works
त्रिवर्गस्य of the three types (Dharma Artha and Kaama)
च य: विधि: and their method
यश्चानुशायिनां सर्ग: पाखण्डस्य च सम्भव: ।
आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपत: ॥२२॥
य:-च-अनुशायिनाम् सर्ग: that which and merged (in Prakriti) birth
पाखण्डस्य च सम्भव: of heretic's and appearance
आत्मन: बन्ध-मोक्षौ च of the self, bondage and liberation
व्यवस्थानम् स्वरूपत: realising, own true nature
यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।
विसृज्य वा यथा मायामुदास्ते साक्षिवद् विभु: ॥२३॥
यथा-आत्म-तन्त्र: भगवान् In what manner, self dependent Lord
विक्रीडति-आत्म-मायया sports with His own Maayaa
विसृज्य वा यथा मायाम्- abandoning or how the Maayaa
उत्-आस्ते साक्षि-वत् विभु: indeed, stands witness like the All-pervading
सर्वमेतच्च भगवन् पृच्छते मेऽनुपूर्वश: ।
तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥२४॥
सर्वम्-एतत्-च भगवन् all this and, O great One!
पृच्छते मे-अनुपूर्वश: asking (as I) am, one after the other
तत्-तु-अत:-अर्हसि-उदाहर्तुम् that, indeed, so, are capable of expounding
प्रपन्नाय महामुने to the surrendered, (me), O holy sage!
अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभू: ।
परे चेहानुतिष्ठन्ति पूर्वेषां पूर्वजै: कृतम् ॥२५॥
अत्र प्रमाणम् हि भवान् here, authority indeed are you
परमेष्ठी यथा-आत्म-भू: Brahmaa, like the self born
परे च-इह-अनुतिष्ठन्ति others and here follow
पूर्वेषाम् पूर्वजै: कृतम् the others, by the ancestors done
न मेऽसव: परायन्ति ब्रह्मन्ननशनादमी ।
पिबतोऽच्युतपीयूषमन्यत्र कुपिताद् द्विजात् ॥२६॥
न मे-असव: परायन्ति not my life will leave
ब्रह्मन्-अनशनात्-अमी O Sage! by not eating, this
पिबत:-अच्युत-पीयूषम्- drinking Krishna's (stories') nectar,
अन्यत्र कुपितात् द्विजात् other than enraged Braahmana's (curse)
सूत उवाच - Soota said -
स उपामन्त्रितो राज्ञा कथयामिति सत्पते: ।
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥२७॥
स: उपामन्त्रित: राज्ञा he invited by the king (Pareekshit)
कथयाम्-इति सत्पते: in the stories these of Krishna
ब्रह्मरात: भृशम् प्रीत: Shukadeva, highly pleased
विष्णुरातेन संसदि by Pareekshit, in the assembly
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥२८॥
प्राह expounded
भागवतम् नाम पुराणम् Bhaagavatam named Puraana
ब्रह्म-सम्मितम् Veda equal to
ब्रह्मणे To Brahmaa
भगवत्-प्रोक्तम् by The Lord said
ब्रह्म-कल्पे in the Brahma Kalpa
उपागते beginning
यद् यत् परीक्षिदृषभ: पाण्डूनामनुपृच्छति ।
आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥२९॥
यत् यत् परीक्षित्-ऋषभ: all that, Pareekshita, the scion
पाण्डूनाम्-अनुपृच्छति of the Paandavas, as asked
आनुपूर्व्येण तत्-सर्वम्- serially, that all
आख्यातुम्-उपचक्रमे to speak proceeded
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धेप्रश्नविधिर्नाम् आष्टम:
अध्याय: ॥८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धेप्रश्नविधिर्नाम् आष्टम:
अध्याय: ॥८॥ Thus ends the eighth discourse entitled 'A Statement of Questions' in
नवम: अध्याय:
श्री शुक उवाच - Shuka said -
आत्ममायामृते राजन् परस्यानुभवात्मन: ।
न घटेतार्थसम्बन्ध: स्वप्नद्रष्टुरिवाञ्जसा ॥१॥
आत्म-मायाम्-ऋते by The Lord's Maayaa, other than
राजन् O King!
परस्य-अनुभव-आत्मन: the materials' experience by the soul
न घटेत-अर्थ-सम्बन्ध: does not happen, meaningful connection
स्वप्न-द्रष्टु:-इव-अञ्जसा dream seer's like easily
बहुरूप इवाभाति मायया बहुरूपया ।
रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥२॥
बहु-रूप: इव-आभाति of many form like seems
मायया बहु-रूपया because of Maayaa in many forms
रममाण: गुणेषु-अस्या: playing about in the gunas of her's (Maayaa's)
मम-अहम्-इति मन्यते mine and me, thus ascertains
यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययो: ।
रमते गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥३॥
यर्हि वाव महिम्नि स्वे when however, in greatness of self
परस्मिन् काल-माययो: beyond Time and Maayaa
रमते गत-सम्मोह:- revels rid of delusion
त्यक्त्वा-उदास्ते discarding, indifferent
तत्-उभयम् those both (mine and me)
आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् ।
ब्रह्मणे दर्शयन् रूपमव्यलीकव्रतादृत: ॥४॥
आत्म-तत्त्व- of the soul's essence
विशुद्धि-अर्थम् enlighten for the purpose
यत्-आह that (which) said
भगवान्-ऋतम् The Lord, the Truth
ब्रह्मणे दर्शयन् to Brahmaa, showing (him)
रूपम्-अव्यलीक- (His own) form, untainted
व्रतात्-ऋत: by true penance
स आदिदेवो जगतां परो गुरु: स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत ।
तां नाध्यगच्छद् दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥५॥
स: आदि-देव: he, the primal deity
जगताम् पर: गुरु: of the worlds supreme preceptor
स्व-धिष्ण्यम्-आस्थाय (in his) own abode (the lotus) sitting
सिसृक्षया-ऐक्षत to create desired
ताम् न-अध्यगच्छत् that did not obtain
दृशम्-अत्र सम्मताम् insight in this regard
प्रपञ्च-निर्माण the phenomenal world's creation
विधि:-यया भवेत् method by which will be
स चिन्तयन् द्व्यक्षरमेकदाम्भस्युपाशृणोद् द्विर्गदितं वचो विभु: ।
स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद् धनं विदु: ॥६॥
स: चिन्तयन् he contemplating
द्वि-अक्षरम्-एकदा- two letters, once
अम्भसि-उपाशृणोत् on the (causal) waters heard
द्वि:-गदितम् वच: विभु: twice spoken word, Brahmaa
स्पर्शेषु यत्-षोडशम्- among the consonants, which the sixteenth
एकविंशम् निष्किञ्चनानाम् (and) twenty-first of the renunciates
नृप यत्-धनम् विदु: O King! Which wealth is known (to be)
निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमान: ।
स्वधिष्ण्यामास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मन: ॥७॥
निशम्य तत्- hearing that,
वक्तृ-दिदृक्षया the speaker to see
दिश: विलोक्य in all direction seeing
तत्र-अन्यत्-अपश्यमान: there any other (person) not seeing
स्व-धिष्ण्याम्-आस्थाय (in his) own place sitting
विमृश्य तत्-हितम् thinking that (as) beneficial
तपसि-उपादिष्ट: इव- in penance advised, like,
आदधे मन: set (his) mind (in it)
दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रिय: ।
अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहित: ॥८॥
दिव्यम् सहस्र-अब्दम्- celestial one thousand years
अमोघ-दर्शन: (he) of unfailing vision
जित-अनिल-आत्मा controlling the breath and mind
विजित-उभय-इन्द्रिय: subduing both the senses (of perception & action)
अतप्यत स्म- penance did
अखिल-लोक-तापनम् entire worlds illuminating
तप:-तपीयान् penance, the foremost ascetic (Brahmaa)
तपताम् समाहित: of the ascetics, with an alert mind
तस्मै स्वलोकं भगवान् सभाजित: सन्दर्शयामास परं न यत्परम् ।
व्यपेतसंक्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्विबुधैरभिष्टुतम् ॥९॥
तस्मै स्व-लोकम् to him, own abode
भगवान् सभाजित: The Lord, very pleased
सन्दर्शयामास परम् revealed supreme
न यत्-परम् not from which beyond
व्यपेत-संक्लेश without sufferings
विमोह-साध्वसम् delusion fear
स्व-दृष्टवद्भि:- by oneself seen
विबुधै:-अभिष्टुतम् enlightened (souls) praised
प्रवर्तते यत्र रजस्तमस्तयो: सत्त्वं च मिश्रं न च कालविक्रम: ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्रसुरासुरार्चिता: ॥१०॥
प्रवर्तते यत्र prevails where
रज:-तम:-तयो: Rajas, Tamas, of these two
सत्त्वम् च मिश्रम् न Sattva, and also not mixed
च काल-विक्रम: and Times' strides
न यत्र माया not where Maayaa
किम्-उत-अपरे what of others
हरे:-अनुव्रता: यत्र- Hari's attendants where
सुर-असुरा:-अर्चिता: by gods and demons adored
श्यामावदाता: शतपत्रलोचना: पिशङ्गवस्त्रा: सुरुच: सुपेशस: ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणा: सुवर्चस: ।
प्रवालवैदूर्यमृणालवर्चस: परिस्फुरत्कुण्डलमौलिमालिन: ॥११॥
श्याम-अवदाता: of darkish complexion
शतपत्र-लोचना: lotus eyed
पिशङ्ग-वस्त्रा: yellow garmented
सुरुच: सुपेशस: charming, delicate
सर्वे चतु:बाहव: all four armed
उन्मिषत्-मणि-प्रवेक- shining gems studded
निष्क-आभरणा: सुवर्चस: golden ornamented, highly resplendent
प्रवाल-वैदूर्य-मृणाल-वर्चस: corals, cat's eyes, lotus stalk hued
परिस्फुरत्-कुण्डल- adorning ear-rings,
मौलि-मालिन: diadems and garlands
भ्राजिष्णुभिर्य: परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमान: प्रमदोत्तमाद्युभि: सविद्युदभ्रावलिभिर्यथा नभ: ॥१२॥
भ्राजिष्णुभि:-य: glittering (that) which
परित: विराजते all around adorning
लसत्-विमान-अवलिभि:- shining aerial cars' rows
महात्मनाम् विद्योतमान: of exalted souls illumined
प्रमदा-उत्तमा-द्युभि: ladies splendorous from heavens
सविद्युत्-अभ्र-अवलिभि:- with lightening clouds rows
यथा नभ: like the sky
श्रीर्यत्र रूपिण्युरुगायपादयो: करोति मानं बहुधा विभूतिभि: ।
प्रेङ्ख श्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती ॥१३॥
श्री:-यत्र रूपिणी- Shree (Laxmi) where, the beautiful
उरुगाय-पादयो: of The Lord's feet
करोति मानम् does honour
बहुधा विभूतिभि: in many ways with many wealth's
प्रेङ्ख श्रिता या on the swing sitting who
कुसुमाकर-अनुगै:- with the spring's followers (the bees)
विगीयमाना being sung
प्रिय-कर्म गायती (Lord's) lovely deed sings of
ददर्श तत्राखिलसात्वतां पतिं श्रिय: पतिं यज्ञपतिं जगत्पतिं ।
सुनन्दनन्दप्रबलार्हणादिभि: स्वपार्षदमुखै: परिसेवितं विभुम् ॥१४॥
ददर्श तत्र- saw, there (Brahmaa)
अखिल-सात्वताम् पतिम् all the devotees' Protector
श्रिय: पतिम् The Lord of Shree
यज्ञ-पतिम् जगत्-पतिम् the sacrifice's receiver, the world's Ruler
सुनन्द-नन्द- by Sunanda, Nanda
प्रबल-अर्हण-आदिभि: Prabala, Arhana and other of
स्व-पार्षद-मुखै: (His) own attendants foremost
परिसेवितम् विभुम् being served The Lord
भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् ।
किरीटिनं कुण्डलिनं चतुर्भुजं पीताम्बरं वक्षसि लक्षितं श्रिया ॥१५॥
भृत्य-प्रसाद-अभिमुखम् for the servants blessing, in front
दृग्-आसवम् glancing eyes' nectar
प्रसन्न-हास- gracious smile,
अरुण-लोचन-आननम् red eyed face
किरीटिनम् कुण्डलिनम् (bedecked with) a crown, and earrings
चतुर्भुजम् पीताम्बरम् four armed, yellow clothed
वक्षसि लक्षितम् श्रिया on the chest adorned by Shree
अध्यर्हणीयासनमास्थितं परं वृतं चतु:षोडशपञ्चशक्तिभि: ।
युक्तं भगै: स्वैरितरत्र चाध्रुवै: स्व एव धामन् रममाणमीश्वरम् ॥१६॥
अध्यर्हणीय-आसनम-आस्थितम् valuable throne occupying,
परम् वृतम् excellent surrounded by
चतु:-षोडश-पञ्च-शक्तिभि: four, sixteen, five (25) potencies
युक्तम् भगै: स्वै:- endowed with attributes (His) own
इतरत्र च-अध्रुवै: in others and inconsistent (which are)
स्व एव धामन् in His only essence
रममाणम्-ईश्वरम् revelling the Lord
तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनु: प्रेमभराश्रुलोचन: ।
ननाम पादाम्बुजमस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते ॥१७॥
तत्-दर्शन-आह्लाद- His sight's rapture (caused)
परिप्लुत-अन्तर: flooding (his) heart
हृष्यत्-तनु: horripilation bodied
प्रेम-भर-अश्रु-लोचन: overflow of love (induced) tearful eyed
ननाम पाद-अम्बुजम्-अस्य prostrated feet lotus His
विश्वसृक् the creator of the worlds
यत् पारमहंस्येन which by the Paramahansya's
पथ-अधिगम्यते path is reached
तं प्रीयमाणं समुपस्थितं तदा प्रजाविसर्गे निजशासनार्हणम् ।
बभाष ईषत्स्मितशोचिषा गिरा प्रिय: प्रियं प्रीतमना: करे स्पृशन् ॥१८॥
तम् प्रीयमाणम् him the love invoking
समुपस्थिम् तदा standing before (Him) then
प्रजा-विसर्गे in the living-beings' creation
निज-शासन-अर्हणम् His own commands seeking
बभाष ईषत्-स्मित- spoke slightly smiling
शोचिषा गिरा प्रिय: प्रियम् with sweet voice the Dear One to the beloved
प्रीतमना: करे स्पृशन् joyfully with hands touching
श्रीभगवानुवाच - The Lord said -
त्वयाहं तोषित: सम्यग् वेदगर्भ सिसृक्षया ।
चिरं भृतेन तपसा दुस्तोष: कूटयोगिनाम् ॥१९॥
त्वया-अहम् तोषित: सम्यक् by you am pleased very well
वेद-गर्भ सिसृक्षया O Knower of the Vedas! For creation
चिरम् भृतेन तपसा for long performed penance
दुस्तोष: difficult to be pleased (am I)
कूट-योगिनाम् by hypocritical Yogis
वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।
ब्रह्मञ्छ्रेय: परिश्राम: पुंसो मद्दर्शनावधि: ॥२०॥
वरम् वरय भद्रम् ते boon ask, blessings to you
वरेशम् मा to The Bestower of boons, Me
अभिवाञ्छितम् cherished
ब्रह्मन्-श्रेय: O Brahmaa! Welfare bringing
परिश्राम: पुंस: pains of people
मत्-दर्शन-अवधि: in My sight end
मनीषितानुभावोऽयं मम लोकावलोकनम् ।
यदुपश्रुत्य रहसि चकर्थ परमं तप: ॥२१॥
मनीषित-अनुभाव:- by My wishes, has happened
अयम् मम this My
लोक-अवलोकनम् abode seeing
यत्-उपश्रुत्य रहसि because hearing in loneliness
चकर्थ परमम् तप: performed supreme penance
प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
तपो मे हृदयं साक्षादात्माहं तपसोऽनघ ॥२२॥
प्रत्यादिष्टम् मया तत्र directed by Me there
त्वयि कर्म-विमोहिते (when) you were in action confused
तप: मे हृदयम् penance is my heart
साक्षात्-आत्मा-अहम् very soul am I
तप:-अनघ of penance, O Sinless One!
सृजामि तपसैवेदं ग्रसामि तपसा पुन: ।
बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तप: ॥२३॥
सृजामि तपसा-एव-इदम् I create by penance alone this
ग्रसामि तपसा पुन: dissolve by penance again
बिभर्मि तपसा विश्वम् maintain by penance the world
वीर्यम् मे दुश्चरम् तप: strength my (is) hard to practice penance
ब्रह्मा-उवाच - Brahmaa said -
भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् ।
वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥२४॥
भगवन् सर्व-भूतानाम्- O Lord! in all beings
अध्यक्ष:-अवस्थित: गुहाम् as witness are present, in the heart
वेद हि- know indeed
अप्रतिरुद्धेन प्रज्ञानेन by unlimited wisdom
चिकीर्षितम् (my) desired action
तथापि नाथमानस्य नाथ नाथय नाथितम् ।
परावरे यथा रूपे जानीयां ते त्वरूपिण: ॥२५॥
तथा-अपि नाथमानस्य and even (then) (to me) the pleading
नाथ नाथय नाथितम् O Master! Grant the request
पर-अवरे the other and this (absolute and relative forms)
यथा रूपे so that the true form
जानीयाम् ते may know your
तु-अरूपिण: indeed of the formless
यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितम् ।
विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥२६॥
यथा-आत्म-माया-योगेन just as, by own Maayaa's application
नाना-शक्ति-उपबृंहितम् various powers replete
विलुम्पन् विसृजन् गृह्णन् dissolve create maintain
बिभ्रत्-आत्मानम्-आत्मना taking on Yourself by Yourself (many forms)
क्रीडस्यमोघसंकल्प ऊर्णनाभिर्यथोर्णुते ।
तथा तद्विषयां धेहि मनीषां मयि माधव ॥२७॥
क्रीडसि-अमोघ-संकल्प sport, O (You) of unfailing resolve!
ऊर्णनाभि:-यथा-ऊर्णुते spider just as (knits) strands
तथा तत्-विषयाम् धेहि like that, in that subject bestow
मनीषाम् मयि माधव knowledge to me O Maadhava!
भगवच्छिक्षितमहं करवाणि ह्यतन्द्रित: ।
नेहमान: प्रजासर्गं बध्येयं यदनुग्रहात् ॥२८॥
भगवत्-शिक्षितम्-अहम् O Lord! (by You) educated I
करवाणि हि-अतन्द्रित: will carry out, indeed unwearied
न-इहमान: not, in making the effort
प्रजा-सर्गम् of the beings' creation
बध्येयम् may be bound
यत्-अनुग्रहात् by Whose grace
यावत् सखा सख्युरिवेश ते कृत: प्रजाविसर्गे विभजामि भो जनम् ।
अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिन: ॥२९॥
यावत् सखा until O Friend!
सख्यु:-इव- in friendship like
ईश ते कृत: O Lord! By You (I am) accepted
प्रजा-विसर्गे in the beings' creation
विभजामि भो जनम् classify O Lord! The jivas
अविक्लव:-ते unfailingly in your
परिकर्मणि service
स्थित: मा मे established, may not my
समुन्नद्ध-मद:- inflated ego
अज-मानिन: birth less believing (myself) to be
श्रीभगवानुवाच - The Lord said -
ज्ञानं परमगुह्यं मे यद् विज्ञानसमन्वितम् ।
सरहस्यं तदङ्ग च गृहाण गदितं मया ॥३०॥
ज्ञानम् परम-गुह्यम् the knowledge, most esoteric
मे यद् of Myself, which
विज्ञान-समन्वितम् (is) of Reality inclusive
स-रहस्यम् full of the intricacies
तत्-अङ्ग च and its parts
गृहाण गदितम् मया receive, told by Me
यावानहं यथाभावो यद्रूपगुणकर्मक: ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥३१॥
यावान्-अहम् how (great) I am
यथा-भाव: यत्-रूप- what (is my) characteristics, that form
गुण-कर्मक: तथा-एव (My) virtues, doings, like that also
तत्त्व-विज्ञानम्-अस्तु ते the True Knowledge, may be yours
मत्-अनुग्रहात् by my grace
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥३२॥
अहम्-एव- I alone
आसम्-एव-अग्रे was only before
न-अन्यत् यत् not anyone who (so ever)
सत्-असत् परम् gross subtle, the cause
पश्चात्-अहम् afterwards I (am)
यत्-एतत्-च that this (creation) and
य:-अवशिष्येत that (which) remains
स:-अस्मि-अहम् that am I
ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तम: ॥३३॥
ऋते-अर्थम् without the material
यत् प्रतीयेत that which appears (to be)
न प्रतीयेत (that which) does not appear
च-आत्मनि and in the self
तत्-विद्यात्- that should be understood
आत्मन: मायाम् My Maayaa
यथा-आभास: just as the illusion
यथा तम: and just as the (planet) Rahu
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥३४॥
यथा महान्ति भूतानि just as the gross elements (earth, water, etc.)
भूतेषु-उच्च-अवचेषु- in the beings, big and small
अनु प्रविष्टानि-अप्रविष्टानि created, enter, and do not enter,
तथा तेषु न तेषु-अहम् like that in them (I enter) do not in them I (enter)
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मन: ।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥३५॥
एतावत्-एव जिज्ञास्यम् this alone, should be enquired into
तत्त्व-जिज्ञासुना-आत्मन: by the reality inquirers of the Self
अन्वय-व्यतिरेकाभ्याम् by deduction or inference
यत् स्यात् सर्वत्र सर्वदा that which is everywhere at all times
एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥३६॥
एतत्-मतम् समातिष्ठ this principle hold on to
परमेण समाधिना भवान् by intense concentration, you (will)
कल्प-विकल्पेषु (through) the various Kalpas
न विमुह्यति कर्हिचित् not be confounded ever
श्री शुक उवाच - Shree Shuka said -
सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् ।
पश्यतस्तस्य तद् रूपमात्मनो न्यरुणद्धरि: ॥३७॥
सम्प्रदिश्य-एवम्-अजन: instructing thus, The Unborn
जनानाम् परमेष्ठिनम् of the beings' forefather (Brahmaa)
पश्यत:-तस्य तत् रूपम्- looking on, as he was, that form
आत्मनो न्यरुणत्-हरि: of His Self, withdrew, the Lord
अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलि: ।
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥३८॥
अन्तर्हित- on being concealed
इन्द्रिय-अर्थाय हरये the visual form of Shree Hari
विहित-अञ्जलि: folding the hands and bowing
सर्व-भूतमय: विश्वम् all beings' inclusive world
ससर्ज-इदम् स: created this he (Brahmaa)
पूर्व-वत् before like
प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् ।
भद्रं प्रजानामन्विच्छन्नातिषठत् स्वार्थकाम्यया ॥३९॥
प्रजापति:-धर्मपति:- the lord of beings, lord of righteousness (Brahmaa)
एकदा नियमान् यमान् once, rules (of self control) vows
भद्रम् प्रजानाम्- (for) the welfare of the beings
अन्विच्छन्-आतिषठत् desiring, practiced
स्वार्थ-काम्यया (and) for his own purpose to achieve
तं नारद: प्रियतमो रिक्थादानामनुव्रत: ।
शुश्रूषमाण: शीलेन प्रश्रयेण दमेन च ॥४०॥
तम् नारद: प्रियतम: him Naarada, most loving
रिक्थादानाम्- of all the sons
अनुव्रत: शुश्रूषमाण: obedient, serving
शीलेन प्रश्रयेण with humbleness, modesty
दमेन च and self control
मायां विविदिषन् विष्णोर्मायेशस्य महामुनि: ।
महाभागवतो राजन् पितरं पर्यतोषयत् ॥४१॥
मायाम् विविदिषन् Maayaa to know
विष्णो:-माया-ईशस्य of Vishnu, the Lord of Maayaa
महामुनि: महा-भागवत: the great sage, and eminent devotee
राजन् पितरम् पर्यतोषयत् O King! (his) father gratified
तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।
देवर्षि: परिपप्रच्छ भवान् यन्मानुपृच्छति ॥४२॥
तुष्टम् निशाम्य पितरम् pleased seeing father
लोकानाम् प्रपितामहम् of the beings forbearer
देवर्षि: परिपप्रच्छ the divine sage asked
भवान् यत्- you that which
मा-अनुपृच्छति to me are asking
तस्मा इदं भागवतं पुराणं दशलक्षणम् ।
प्रोक्तं भगवता प्राह प्रीत: पुत्राय भूतकृत् ॥४३॥
तस्मै to him
इदम् भागवतम् पुराणम् this Bhaagavata Puraana
दश-लक्षणम् of ten features
प्रोक्तम् भगवता (which was) told by The Lord
प्राह प्रीत: taught, pleased
पुत्राय भूतकृत् to the son, the beings' creator
नारद: प्राह मुनये सरस्वत्यास्तटे नृप ।
ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥४४॥
नारद: प्राह मुनये Naarada imparted to the sage
सरस्वत्या:-तटे नृप on the (river) Sarasvati bank, O King!
ध्यायते ब्रह्म परमम् while meditating on the supreme Brahman
व्यासाय-अमित-तेजसे to Vyaasa, of undiminished glory
यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् ।
यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्चकृत्स्नश: ॥४५॥
यत्-उत-अहम् त्वया पृष्ट: that which, I, by you asked
वैराजात् पुरुषात्-इदम् from the Cosmic Being, this (universe)
यथा-आसीत्-तत्- how came, that
उपाख्यास्ये प्रश्नानन्- will tell questions
अन्यान्-च कृत्स्नश: and other in detail
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे नवम: अध्याय: ॥९॥ Thus ends the ninth discourse in Book Two of the great and glorious
दशम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतय: ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रय: ॥१॥
अत्र सर्ग: विसर्ग:-च here, Sarga, Visarga, and
स्थानम् पोषणम्-ऊतय: Sthana, Poshana, Utees,
मन्वन्तर-ईश-अनुकथा Manvantaras, Isha-anukathaa
निरोध: मुक्ति:-आश्रय: Nirodha, Mukti, Aashraya
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।
वर्णयन्ति महात्मान: श्रुतेनार्थेन चाञ्जसा ॥२॥
दशमस्य विशुद्धि-अर्थम् of the tenth, clarification purpose
नवानाम्-इह लक्षणम् the nine here, topics
वर्णयन्ति महात्मान: describe the learned men
श्रुतेन-अर्थेन च-अञ्जसा by the text and from their meanings easily
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृत: ।
ब्रह्मणो गुणवैषम्याद् विसर्ग: पौरुष: स्मृत: ॥३॥
भूत-मात्रा-इन्द्रिय- the gross, subtle (elements) the senses (of perception,
धियाम् जन्म सर्ग: and mind, the creation is Sarga
उदाहृत: ब्रह्मण: known to be Brahman
गुण-वैषम्यात् by the Guna's disturbance of the equilibrium
विसर्ग: पौरुष: स्मृत: Visarga, from the Cosmic Being, is said to be
स्थितिर्वैकुण्ठविजय: पोषणं तदनुग्रह: ।
मन्वन्तराणि सत् धर्म: ऊतय: कर्मवासना: ॥४॥
स्थिति:-वैकुण्ठ-विजय: Stithi is Lord's triumph
पोषणम् तत्-अनुग्रह: Poshanam is His grace
मन्वन्तराणि सत् धर्म: the Manvantaras (are) righteous conduct of the Manus
ऊतय: कर्म-वासना: Utees are action desires
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।
सतामीशकथा: प्रोक्ता नानाख्यानोपबृंहिता: ॥५॥
अवतार-अनुचरितम् of the manifestations' recounting
हरे:-च-अस्य- of Shree Hari and of His
अनुवर्तिनाम् सताम्- devotees holy
ईशकथा: प्रोक्ता: Ishakathaa is called
नाना-आख्यान- by various stories
उपबृंहिता: supplemented
निरोधोऽस्यानुशयनमात्मन: सह शक्तिभि: ।
मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थिति: ॥६॥
निरोध:-अस्य-अनुशयनम्- Nirodha, His slumber
आत्मन: सह शक्तिभि: of the Self along with the adjuncts
मुक्ति:- Mukti,
हित्वा-अन्यथा-रूपम् relinquishing the other (assumed) character
स्व-रूपेण व्यवस्थिति: in own character establishing
आभासश्च निरोधश्च यतश्चाध्यवसीयते ।
स आश्रय: परं ब्रह्म परमात्मेति शब्द्यते ॥७॥
आभास:-च निरोध:-च the generation and the dissolution and
यत:-च-अध्यवसीयते from Whom and proceed
स: आश्रय: परम् ब्रह्म That Aashraya the Supreme Brahma
परमात्मा-इति शब्द्यते Paramaatma, thus is called
योऽध्यात्मिकोऽयं पुरुष: सोऽसावेवाधिदैविक: ।
यस्तत्रोभयविच्छेद: पुरुषो ह्याधिभौतिक: ॥८॥
य:-अध्यात्मिक:- he who (associates with the) sense of perception
अयम् पुरुष: this being
स:-असौ-एव- he this alone (is)
आधिदैविक: (in form of) the ditties (presiding over senses) (Sun etc.,)
य:-तत्र- who (the being) there
उभय-विच्छेद: in the two distinguishes
पुरुष: (that) being
हि-आधिभौतिक: is physical bodied
एकमेकतराभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय: ॥९॥
एकम्-एकतर-अभावे the one by any one's absence
यदा न-उपलभामहे when does not perceive
त्रितयम् तत्र य: वेद all the three there, Who knows
स: आत्मा स्व-आश्रय-आश्रय: He, The Self, is (His) own support, The Support
पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गत: ।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचि: शुची: ॥१०॥
पुरुष:-अण्डम् the Cosmic Being, the cosmic egg
विनिर्भिद्य यदा-असौ bursting out, when This
स: विनिर्गत: He came out
आत्मन:-अयनम्- His own place
अन्विच्छन्- desiring
अप:-अस्राक्षीत्-शुचि: water created holy
शुची: the Pure One
तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान् ।
तेन नारायणो नाम यदाप: पुरुषोद्भवा: ॥११॥
तासु-अवात्सीत् in those remained
स्व-सृष्टासु in His own created
सहस्र-परिवत्सरान् for a thousand years
तेन नारायण: नाम because of which, Naaraayana name
यत्-आप: that water (Naara)
पुरुष-उद्भवा: from The Person, (Nara) evolved
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहत: सन्ति न सन्ति यदुपेक्षया ॥१२॥
द्रव्यम् कर्म च the gross elements, Karma and
काल:-च स्वभाव: Time and Nature
जीव एव च the Jiva and also
यत्-अनुग्रहत: सन्ति by Whose grace exist
न सन्ति यत्-उपेक्षया do not exist, by Whose indifference
एको नानात्वमन्विच्छन् योगतल्पात् समुत्थित: ।
वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥१३॥
एक: नानात्वम्-अन्विच्छन् all alone, multiplicity desiring
योग-तल्पात् from the yoga-nidraa bed
समुत्थित: awakening
वीर्यम् हिरण्मयम् seed effulgent
देव: मायया The Lord (Naaraayana) by Maayaa
व्यसृजत् त्रिधा split into three parts
अधिदैवमथाध्यात्ममधिभूतमिति प्रभु: ।
यथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु ॥१४॥
अधिदैवम्- Adhidaivam
अथ-आध्यात्मम्- then, Aadhyaatmam
अधिभूतम्-इति प्रभु: Adhibhootam thus, The Lord's
यथा-एकम् how a unitary
पौरुषम् वीर्यम् Person's energy
त्रिधा-अभिद्यत in three parts split
तत्-शृणु that hear
अन्त: शरीर आकाशात् पुरुषस्य विचेष्टत: ।
ओज: सहो बलं जज्ञे तत: प्राणो महानसु: ॥१५॥
अन्त: शरीरे आकाशात् from inside the body space
पुरुषस्य विचेष्टत: of the Cosmic Being's stirring
ओज: सह: the acuteness of the senses, power of will
बलम् जज्ञे and physical strength were born
तत: प्राण: from that, Praana
महान्-असु: the chief vital air
अनुप्राणन्ति यं प्राणा: प्राणन्तं सर्वजन्तुषु ।
अपानन्तमपानन्ति नरदेवमिवानुगा: ॥१६॥
अनुप्राणन्ति यम् प्राणा: enliven, that which the Praana
प्राणन्तम् सर्व-जन्तुषु (when) enlivened, in all creatures
अपानन्तम्-अपानन्ति by becoming inactive, become inactive
नर-देवम्-इव-अनुगा: a king's like followers
प्राणेन क्षिपता क्षुत् तृडन्तरा जायते प्रभो: ।
पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत ॥१७॥
प्राणेन क्षिपता by the Praana moving freely
क्षुत् तृड्-अन्तरा hunger and thirst inside
जायते प्रभो: felt the Cosmic Person
पिपासत: जक्षत:-च eager to drink eat and
प्राक्-मुखम् primarily mouth
निरभिद्यत burst forth
मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते ।
ततो नाना रसो जज्ञे जिह्वया योऽधिगम्यते ॥१८॥
मुखत:-तालु निर्भिन्नम् from the mouth, palate came out
जिह्वा तत्र-उपजायते tongue there was born
तत: नाना रस: जज्ञे then various tastes were born
जिह्वया य:-अधिगम्यते by the tongue, which can be known
विवक्षोर्मुखत: भूम्नो वह्निर्वाग् व्याहृतं तयो: ।
जले वै तस्य सुचिरं निरोध: समजायत ॥१९॥
विवक्षो:-मुखत: भूम्न: inclined to speak, from mouth of the Cosmic Being
वह्नि:-वाग् व्याहृतम् तयो: fire, speech, the action of the two
जले वै तस्य सुचिरम् in the water indeed His, for long
निरोध: समजायत control happened
नासिके निरभिद्येतां दोधूयति नभस्वति ।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षत: ॥२०॥
नासिके निरभिद्येताम् the nostrils burst out
दोधूयति नभस्वति forcefully while breathing
तत्र वायु:-गन्ध-वह: there wind, smell bearer
घ्राण: नसि जिघृक्षत: olfactory sense, in the nose inclined to smell
यदाऽऽत्मनि निरालोकमात्मानं च दिदृक्षत: ।
निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रह: ॥२१॥
यदा-आत्मनि निरालोकम्- when in Himself was darkness,
आत्मानम् च दिदृक्षत: Himself and inclined to see
निर्भिन्ने हि-अक्षिणी तस्य emerged indeed eyes His
ज्योति:-चक्षु:- (presiding deity) Sun god, sense of sight
गुण-ग्रह: form and colour experiencer
बोधमानस्य ऋषिभिरात्मनस्तज्जिघृक्षत: ।
कर्णौ च निरभिद्येतां दिश: श्रोत्रं गुणग्रह: ॥२२॥
बोधमानस्य ऋषिभि:- awakening by the Vedas
आत्मन: तत्-जिघृक्षत: Himself that (the Vedas) inclined to hear
कर्णौ च निरभिद्येताम् two ears and emerged out
दिश: श्रोत्रम् the Digdevatas, the auditory sense
गुण-ग्रह: of sound experiencing
वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम् ।
जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहा: ।
तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृत: ॥२३॥
वस्तुन: मृदु-काठिन्य- objects soft, hard
लघु-गुरु-उष्ण-शीतताम् small, big, warm, cool
जिघृक्षत:-त्वक् निर्भिन्ना inclined to experience skin emerged
तस्याम् रोम-महीरुहा: in it the hair, the trees (being the presiding
तस्याम् रोम-महीरुहा: in it the hair, the trees (being the presiding deities)
तत्र च-अन्त:-बहि:-वात:- there and inside outside the wind god
त्वचा लब्ध गुण: वृत: by the skin was known, tactile (touch) sense, all
त्वचा लब्ध गुण: वृत: by the skin was known, tactile (touch) sense, all around
हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।
तयोस्तु बलमिन्द्रश्च आदानमुभयाश्रयम् ॥२४॥
हस्तौ रुरुहतु:-तस्य two hands grew in Him
नाना-कर्म-चिकीर्षया various acts inclined to perform
तयो:-तु बलम्-इन्द्र:- those two indeed, power to grasp from presiding deity
च आदानम्-उभय-आश्रयम् and the act of grasping, both depend
गतिं जिगीषत: पादौ रुरुहातेऽभिकामिकाम् ।
पद्भ्यां यज्ञ: स्वयं हव्यं कर्मभि: क्रियते नृभि: ॥२५॥
गतिम् जिगीषत: पादौ to walk inclined to, a pair of feet
रुरुहाते-अभिकामिकाम् grew out according to His will
पद्भ्याम् यज्ञ: from the feet, the presiding deity of sacrifice, (Vishnu)
स्वयम् हव्यम् Himself materials of sacrifice
कर्मभि: क्रियते by action of locomotion gathered
नृभि: by people
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिन: ।
उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् ॥२६॥
निरभिद्यत शिश्न: वै sprang forth penis indeed
प्रजा-आनन्द- progeny joy
अमृत-अर्थिन: (and) immortality craving
उपस्थ आसीत् organs of generation (the presiding deity Prajaapati) came
कामानाम् प्रियम् pleasure of coition and
तत्-उभय-आश्रयम् these both depend on that
उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।
तत: पायुस्ततो मित्र उत्सर्ग उभयाश्रय: ॥२७॥
उत्सिसृक्षो:-धातु-मलम् urging to excrete body's excreta
निरभिद्यत वै गुदम् opened up indeed anus
तत: पायु: then the faculty of defection
तत: मित्र: and then Mitra (deity presiding over the organ of evacuation)
उत्सर्ग: उभय-आश्रय: defecation, on the two is dependent
आसिसृप्सो: पुर: पुर्या नाभिद्वारमपानत: ।
तत्रापानस्ततो मृत्यु: पृथक्त्वमुभयाश्रयम् ॥२८॥
आसिसृप्सो: पुर: पुर्या: wanting to enter a body from a body
नाभि-द्वारम्-अपानत: navel passage, from 'Apaana' (vital air) sprang up
तत्र-अपान:-तत: मृत्यु: there Apaana and then death (deity appeared)
पृथक्त्वम्- separating (the Praana and Apaana)
उभय-आश्रयम् by both is supported
आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडय: ।
नद्य: समुद्राश्च तयोस्तुष्टि: पुष्टिस्तदाश्रये ॥२९॥
आदित्सो:-अन्न-पानानाम्- desiring to eat food and drink
आसन् कुक्षि-अन्त्र-नाडय: were abdomen, intestines and veins, arteries
नद्य: समुद्रा:-च rivers, the seas and
तयो:-तुष्टि: from them, satisfaction
पुष्टि:-तत्-आश्रये nourishment on it depends
निदिध्यासोरात्ममायां हृदयं निरभिद्यत ।
ततो मनस्ततश्चन्द्र: संकल्प: काम एव च ॥३०॥
निदिध्यासो:-आत्म-मायाम् to contemplate on His own Maayaa
हृदयम् निरभिद्यत heart came to be
तत: मन:-तत:-चन्द्र: then mind, then moon
संकल्प: काम: एव च decision and desire also and
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातव: ।
भूम्यप्तेजोमया: सप्त प्राणो व्योमाम्बुवायुभि: ॥३१॥
त्वक्-चर्म-मांस- skin, inner skin, flesh
रुधिर-मेद:-मज्जा- blood, fat, marrow
अस्थि-धातव: bones, minerals
भूमि-अप्-तेजोमया: earth, water ether from
सप्त प्राण: व्योम- His seven vital airs from ether
अम्बु-वायुभि: water and airs
गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणा: ।
मन: सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥३२॥
गुण-आत्मकानि- qualities bearing
इन्द्रियाणि are the senses (of perception, like hearing)
भूत-आदि- of the elements various
प्रभवा: गुणा: emerge the qualities
मन: सर्व-विकार-आत्मा mind is all morbidity comprising of
बुद्धि:-विज्ञान-रूपिणी and intellect is revealing in nature
एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥३३॥
एतत्-भगवत: रूपम् this, The Lord's form
स्थूलम् ते gross, to you
व्याहृतम् मया explained by me
मही-आदिभि:- by earth and others'
च-आवरणै:-अष्टभि:- and sheaths, eight
बहि:-आवृतम् outside is covered
अत: परं सूक्ष्मतममव्यक्तं निर्विशेषणम् ।
अनादिमध्यनिधनं नित्यं वाङ्मनस: परम् ॥३४॥
अत: परम् सूक्ष्मतमम्- from this, beyond, most subtle (form)
अव्यक्तम् निर्विशेषणम् unmanifest, unqualified
अनादि-मध्य-निधनम् beginingless, middle-less, endless
नित्यम् वाक्-मनस: परम् eternal, from speech and mind, beyond
अमूनी भगवद्रूपे मया ते अनुवर्णिते ।
उभे अपि न गृह्णन्ति मायासृष्टे विपश्चित: ॥३५॥
अमूनी भगवत्-रूपे both these Lord's forms
मया ते अनुवर्णिते by me to you are explained
उभे अपि न गृह्णन्ति both only are not accepted
माया-सृष्टे विपश्चित: as Maayaa's creation by the learned
स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् ।
नामरूपक्रिया धत्ते सकर्माकर्मक: पर: ॥३६॥
स: वाच्य- He (The Lord) by the meaning
वाचकतया भगवान् and by the words evolves The Lord
ब्रह्म-रूप-धृक् Brahma's form taking on,
नाम-रूप-क्रिया name and forms and actions
धत्ते सकर्म- assumes active and
अकर्मक: पर: actionless in fact
प्रजापतीन्मनून् देवानृषीन् पितृगणान् पृथक् ।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥३७॥
प्रजापतीन्-मनून् Prajaapatis, Manus,
देवान्-ऋषीन् gods, Rishis,
पितृ-गणान् पृथक् the manes various classes
सिद्ध-चारण- Siddhas, Chaaranas,
गन्धर्वान् विद्याध्रा- Gandharvas, Vidyaadharaas,
असुर-गुह्यकान् the demons, and the Guhyakas
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान् ।
मातृ रक्ष:पिशाचांश्च प्रेतभूतविनायकान् ॥३८॥
किन्नर-अप्सरस: the Kinnaras, Apsaraas,
नागान् सर्पान् Naagas, serpents,
किम्पुरुष-उरगान् Kimpurushas, snakes,
मातृ रक्ष:-पिशाचान्-च Maatrikas, Raakshasas, Pishaachas, and
प्रेत-भूत-विनायकान् Pretas, Bhutas, Vinaayakas,
कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि ।
खगान्मृगान् पशून् वृक्षान् गिरीन्नृप सरीसृपान् ॥३९॥
कूष्माण्ड-उन्माद-वेतालान् Kushmaandas, Unmaadas, Vetaalas,
यातुधानान् ग्रहान्-अपि Yaatudhaanas, Grahas, as well
खगान्-मृगान् पशून् वृक्षान् birds, animals, beasts of prey, trees,
गिरीन्-नृप सरीसृपान् mountains, O King! the reptiles,
द्विविधाश्चतुर्विधा येन्ये जलस्थलनभौकस: ।
कुशलाकुशला मिश्रा: कर्मणां गतयस्त्विमा: ॥४०॥
द्विविधा:-चतुर्विधा: of two types (animate & inanimate), of four types
ये-अन्ये जल-स्थल- those other water, earth,
नभ-औकस: कुशल- air born creatures, good
अकुशला: मिश्रा: bad, mixed
कर्मणाम् गतय:-तु-इमा: actions' fruits, indeed are these
सत्त्वं रजस्तम इति तिस्र: सुरनृनारका: ।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा
यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥४१॥
सत्त्वम् रज:-तम: इति Sattva, Rajas, Tamas, thus
तिस्र: सुर-नृ-नारका: three, gods, human beings, denizens of hell (are born)
तत्र-अपि-एकैकश: there also, one by the other
राजन् भिद्यन्ते O King! Overcast
गतय:-त्रिधा यदा- the results are (further) of three kinds, when
एकैकतर:-अन्याभ्याम् one (Guna's) on the other two
स्वभाव: उपहन्यते nature is shadowed
स एवेदं जगद्धाता भगवान् धर्म रूपधृक् ।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभि: ॥४२॥
स: एव-इदम् He alone This
जगत्-धाता भगवान् the world to sustain, The Lord
धर्म रूप-धृक् Vishnu form assuming
पुष्णाति स्थापयन् विश्वम् preserves supports the world
तिर्यक्-नर-सुर-आत्मभि: animals, men, gods, by Himself
तत: कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मन: ।
संनियच्छति कालेन घनानीकमिवानिल: ॥४३॥
तत: काल-अग्नि-रुद्र- then by the time, fire, Rudra,
आत्मा यत्-सृष्टम्- personified, that (which) was created
इदम्-आत्मन: this by Himself
संनियच्छति कालेन dissolves in time
घन-अनीकम्-इव-अनिल: clouds' mass like wind
इत्थंभावेन कथितो भगवान् भगवत्तमै: ।
नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरय: ॥४४॥
इत्थम्-भावेन कथित: in this manner is described
भगवान् भगवत्तमै: The Lord by the learned
न-इत्थम्-भावेन हि परम् not in this form, indeed, beyond (this form)
द्रष्टुम्-अर्हन्ति सूरय: to see desire the wise
नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥४५॥
न-अस्य कर्मणि not His actions
जन्म-आदौ of creation and such
परस्य-अनुविधीयते of The Lord connected to
कर्तृत्व-प्रतिषेध-अर्थम् doership for denying purpose
मायया-आरोपितम् हि तत् by Maayaa, is imposed is that
अयं तु ब्रह्मण: कल्प: सविकल्प उदाहृत: ।
विधि साधारणो यत्र सर्गा: प्राकृतवैकृता: ॥४६॥
अयम् तु ब्रह्मण: कल्प: this of course, the Brahma Kalpa
सविकल्प: उदाहृत: and the smaller Kalpas are described
विधि: साधारण: यत्र the creation is similar where
सर्गा: प्राकृत-वैकृता: (in Mahaa-kalpa) creation is from Prakriti to the
सर्गा: प्राकृत-वैकृता: (in Mahaa-kalpa) creation is from Prakriti to the beings
परिमाणं च कालस्य कल्पलक्षणविग्रहम् ।
यथा पुरस्ताद् व्याख्यास्ये पाद्यं कल्पमथो श्रूणु ॥४७॥
परिमाणम् च कालस्य of measure and of duration of time
कल्प-लक्षण विग्रहम् the Kalpa's characteristics and division
यथा पुरस्तात् व्याख्यास्ये properly later will explain
पाद्यम् कल्पम्-अथ: श्रूणु Padma Kalpa now hear
शौनक उवाच - Shaunaka said -
यदाह नो भवान् सूत क्षत्ता भागवतोत्तम: ।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥४८॥
यत्-आह न: that told to us
भवान् सूत you O Soota!
क्षत्ता भागवत-उत्तम: Vidura, of the devotees' foremost
चचार तीर्थानि भुव:- roamed the sacred places of the earth,
त्यक्त्वा बन्धून् leaving the kith and kin
सुदुस्त्यजान् who were difficult to part with
कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रित: ।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥४९॥
कुत्र कौषारवे:-तस्य where, with Maitreya (Kusaaru's son)
संवाद:-अध्यात्म-संश्रित: conversation spirituality pertaining
यत्-वा स: भगवान्- that or he the venerable sage
तस्मै पृष्ट:- to him, when asked
तत्त्वम्-उवाच ह the truth told indeed
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् ।
बन्धुत्यागनिमित्तं च तथैवागतवान् पुन: ॥५०॥
ब्रूहि न:-तत्-इदम् do say to us that this
सौम्य O Gentle One!
विदुरस्य विचेष्टितम् (about) Vidura's efforts
बन्धु-त्याग-निमित्तम् च of the kinsmen's leaving purpose and
तथैव-आगतवान् पुन: in the same manner, returning again
राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनि: ।
तद्वोऽभिधास्ये शृणुत राज्ञ: प्रश्नानुसारत: ॥५१॥
राज्ञा परीक्षिता पृष्ट: by the king Pareekshit asked
यत्-अवोचन्-महामुनि: that which answered the great sage
तत्-व:-अभिधास्ये that to you people
शृणुत राज्ञ: do hear the king's
प्रश्न-अनुसारत: question accordingly
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे प्रश्नविधिर्नाम् दशम:
अध्याय: ॥१०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे प्रश्नविधिर्नाम् दशम:
अध्याय: ॥१०॥
इति द्वितीय: स्कन्ध: समाप्त: ।