श्रीमद्भागवतम् पदच्छेद - स्कंध २
२.१
श्रीशुक उवाच
वरीयानेष ते प्रश्न: कृतो लोकहितं नृप ।
आत्मवित्सम्मत: पुंसां श्रोतव्यादिषु य: पर: ॥ १ ॥
श्री-शुकः उवाच वरीयान् एषः ते प्रश्नः कृतः लोक-हितम् नृप आत्मवित् सम्मतः पुंसाम् श्रोतव्य-आदिषु यः परः
श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रश: ।
अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥
श्रोतव्य-आदीनि राजेन्द्र नृणाम् सन्ति सहस्रशः अपश्यताम् आत्म-तत्त्वम् गृहेषु गृह-मेधिनाम्
निद्रया ह्रियते नक्तं व्यवायेन च वा वय: ।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥
निद्रया ह्रियते नक्तम् व्यवायेन च वा वयः दिवा च अर्थ ईहया राजन् कुटुम्ब भरणेन वा
देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि ।
तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥
देह अपत्य कलत्र आदिषु आत्म सैन्येषु असत्सु अपि तेषाम् प्रमत्तः निधनम् पश्यन् अपि न पश्यति
तस्माद्भारत सर्वात्मा भगवानीश्वरो हरि: ।
श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥
तस्मात् भारत सर्वात्मा भगवान् ईश्वरः हरिः श्रोतव्यः कीर्तितव्यः च स्मर्तव्यः च इच्छता अभयम्
एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभ: पर: पुंसामन्ते नारायणस्मृति: ॥ ६ ॥
एतावान् साङ्ख्य योगाभ्याम् स्व-धर्म परिनिष्ठया जन्म लाभः परः पुंसाम् अन्ते नारायण स्मृतिः
प्रायेण मुनयो राजन्निवृत्ता विधिषेधत: ।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरे: ॥ ७ ॥
प्रायेण मुनयः राजन् निवृत्ताः विधि षेधतः नैर्गुण्य-स्थाः रमन्ते स्म गुण-अनुकथने हरेः
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥
इदम् भागवतम् नाम पुराणम् ब्रह्म-सम्मितम् अधीतवान् द्वापर-आदौ पितुः द्वैपायनात् अहम्
परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥
परिनिष्ठितः अपि नैर्गुण्ये उत्तम श्लोक लीलया गृहीत चेताः राजर्षे आख्यानम् यत् अधीतवान्
तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।
यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मति: सती ॥ १० ॥
तत् अहम् ते अभिधास्यामि महा-पौरुषिकः भवान् यस्य श्रद्दधताम् आशु स्यात् मुकुन्दे मतिः सती
एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥
एतत् निर्विद्यमानानाम् इच्छताम् अकुतः-भयम् योगिनाम् नृप निर्णीतम् हरेः नाम अनु कीर्तनम्
किं प्रमत्तस्य बहुभि: परोक्षैर्हायनैरिह ।
वरं मुहूर्तं विदितं घटते श्रेयसे यत: ॥ १२ ॥
किम् प्रमत्तस्य बहुभिः परोक्षैः हायनैः इह वरम् मुहूर्तम् विदितम् घटते श्रेयसे यतः
खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुष: ।
मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥ १३ ॥
खट्वाङ्गः नाम राज-ऋषिः ज्ञात्वा इयत्ताम् इह आयुषः मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयम् हरिम्
तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधि: ।
उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् ॥ १४ ॥
तव अपि एतर्हि कौरव्य सप्ताहम् जीवित अवधिः उपकल्पय तत् सर्वम् तावत् यत् साम्परायिकम्
अन्तकाले तु पुरुष आगते गतसाध्वस: ।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥
अन्त-काले तु पुरुषः आगते गत-साध्वसः छिन्द्यात् असङ्ग शस्त्रेण स्पृहाम् देहे अनु ये च तम्
गृहात् प्रव्रजितो धीर: पुण्यतीर्थजलाप्लुत: ।
शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ १६ ॥
गृहात् प्रव्रजितः धीरः पुण्य तीर्थ जल-आप्लुतः शुचौ विविक्ते आसीनः विधिवत् कल्पित आसने
अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।
मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७ ॥
अभ्यसेत् मनसा शुद्धम् त्रि-वृत् ब्रह्म-अक्षरम् परम् मनः यच्छेत् जित-श्वासः ब्रह्म बीजम् अविस्मरन्
नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथि: ।
मन: कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥
नियच्छेत् विषयेभ्यः अक्षान् मनसा बुद्धि सारथिः मनः कर्मभिः आक्षिप्तम् शुभ-अर्थे धारयेत् धिया
तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।
मनो निर्विषयं युक्त्वा तत: किञ्चन न स्मरेत् ।
पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥
तत्र एक अवयवम् ध्यायेत् अव्युच्छिन्नेन चेतसा मनः निर्विषयम् युक्त्वा ततः किञ्चन न स्मरेत् पदम् तत् परमम् विष्णोः मनः यत्र प्रसीदति
रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मन: ।
यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २० ॥
रजः तमोभ्याम् आक्षिप्तम् विमूढम् मनः आत्मनः यच्छेत् धारणया धीरः हन्ति या तत्-कृतम् मलम्
यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षण: ।
आशु सम्पद्यते योग आश्रयं भद्रमीक्षत: ॥ २१ ॥
यस्याम् सन्धार्यमाणायाम् योगिनः भक्ति-लक्षणः आशु सम्पद्यते योगः आश्रयम् भद्रम् ईक्षतः
राजोवाच
यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।
यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥
राजा उवाच यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता यादृशी वा हरेत् आशु पुरुषस्य मनः मलम्
श्रीशुक उवाच
जितासनो जितश्वासो जितसङ्गो जितेन्द्रिय: ।
स्थूले भगवतो रूपे मन: सन्धारयेद्धिया ॥ २३ ॥
श्री-शुकः उवाच जित-आसनः जित-श्वासः जित-सङ्गः जित-इन्द्रियः स्थूले भगवतः रूपे मनः सन्धारयेत् धिया
विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।
यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥
विशेषः तस्य देहः अयम् स्थविष्ठः च स्थवीयसाम् यत्र इदम् व्यज्यते विश्वम् भूतम् भव्यम् भवत् च सत्
अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते ।
वैराज: पुरुषो योऽसौ भगवान् धारणाश्रय: ॥ २५ ॥
अण्ड-कोशे शरीरे अस्मिन् सप्त आवरण संयुते वैराजः पुरुषः यः असौ भगवान् धारणा आश्रयः
पातालमेतस्य हि पादमूलं
पठन्ति पार्ष्णिप्रपदे रसातलम् ।
महातलं विश्वसृजोऽथ गुल्फौ
तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥
पातालम् एतस्य हि पाद-मूलम् पठन्ति पार्ष्णि प्रपदे रसातलम् महातलम् विश्व-सृजः अथ गुल्फौ तलातलम् वै पुरुषस्य जङ्घे
द्वे जानुनी सुतलं विश्वमूर्ते-
रूरुद्वयं वितलं चातलं च ।
महीतलं तज्जघनं महीपते
नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥
द्वे जानुनी सुतलम् विश्व-मूर्तेः ऊरु-द्वयम् वितलम् च अतलम् च महीतलम् तत् जघनम् महीपते नभस्तलम् नाभि-सरः गृणन्ति
उर:स्थलं ज्योतिरनीकमस्य
ग्रीवा महर्वदनं वै जनोऽस्य ।
तपो वराटीं विदुरादिपुंस:
सत्यं तु शीर्षाणि सहस्रशीर्ष्ण: ॥ २८ ॥
उरः स्थलम् ज्योतिः-अनीकम् अस्य ग्रीवा महः वदनम् वै जनः अस्य तपः वराटीम् विदुः आदि पुंसः सत्यम् तु शीर्षाणि सहस्र शीर्ष्णः
इन्द्रादयो बाहव आहुरुस्रा:
कर्णौ दिश:श्रोत्रममुष्य शब्द: ।
नासत्यदस्रौ परमस्य नासे
घ्राणोऽस्य गन्धो मुखमग्निरिद्ध: ॥ २९ ॥
इन्द्र-आदयः बाहवः आहुः उस्राः कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः नासत्य-दस्रौ परमस्य नासे घ्राणः अस्य गन्धः मुखम् अग्निः इद्धः
द्यौरक्षिणी चक्षुरभूत्पतङ्ग:
पक्ष्माणि विष्णोरहनी उभे च ।
तद्भ्रूविजृम्भ: परमेष्ठिधिष्ण्य-
मापोऽस्य तालु रस एव जिह्वा ॥ ३० ॥
द्यौः अक्षिणी चक्षुः अभूत् पतङ्गः पक्ष्माणि विष्णोः अहनी उभे च तत् भ्रू विजृम्भः परमेष्ठि धिष्ण्यम् आपः अस्य तालू रसः एव जिह्वा
छन्दांस्यनन्तस्य शिरो गृणन्ति
दंष्ट्रा यम: स्नेहकला द्विजानि ।
हासो जनोन्मादकरी च माया
दुरन्तसर्गो यदपाङ्गमोक्ष: ॥ ३१ ॥
छन्दांसि अनन्तस्य शिरः गृणन्ति दंष्ट्राः यमः स्नेह-कलाः द्विजानि हासः जन-उन्माद-करी च माया दुरन्त सर्गः यत्-अपाङ्ग मोक्षः
व्रीडोत्तरौष्ठोऽधर एव लोभो
धर्म: स्तनोऽधर्मपथोऽस्य पृष्ठम् ।
कस्तस्य मेढ्रं वृषणौ च मित्रौ
कुक्षि: समुद्रा गिरयोऽस्थिसङ्घा: ॥ ३२ ॥
व्रीड उत्तर ओष्ठ अधरः एव लोभः धर्मः स्तनः अधर्म पथः अस्य पृष्ठम् कः तस्य मेढ्रम् वृषणौ च मित्रौ कुक्षिः समुद्राः गिरयः अस्थि सङ्घाः
नद्योऽस्य नाड्योऽथ तनूरुहाणि
महीरुहा विश्वतनोर्नृपेन्द्र ।
अनन्तवीर्य: श्वसितं मातरिश्वा
गतिर्वय: कर्म गुणप्रवाह: ॥ ३३ ॥
नद्यः अस्य नाड्यः अथ तनू-रुहाणि मही-रुहाः विश्व-तनोः नृप-इन्द्र अनन्त-वीर्यः श्वसितम् मातरिश्वा गतिः वयः कर्म गुण-प्रवाहः
ईशस्य केशान् विदुरम्बुवाहान्
वासस्तु सन्ध्यां कुरुवर्य भूम्न: ।
अव्यक्तमाहुर्हृदयं मनश्च
स चन्द्रमा: सर्वविकारकोश: ॥ ३४ ॥
ईशस्य केशान् विदुः अम्बु-वाहान् वासः तु सन्ध्याम् कुरु-वर्य भूम्नः अव्यक्तम् आहुः हृदयम् मनः च सः चन्द्रमाः सर्व-विकार-कोशः
विज्ञानशक्तिं महिमामनन्ति
सर्वात्मनोऽन्त:करणं गिरित्रम् ।
अश्वाश्वतर्युष्ट्रगजा नखानि
सर्वे मृगा: पशव: श्रोणिदेशे ॥ ३५ ॥
विज्ञान-शक्तिम् महिम् आमनन्ति सर्व-आत्मनः अन्तः-करणम् गिरित्रम् अश्व अश्वतरि उष्ट्र गजाः नखानि सर्वे मृगाः पशवः श्रोणि-देशे
वयांसि तद्व्याकरणं विचित्रं
मनुर्मनीषा मनुजो निवास: ।
गन्धर्वविद्याधरचारणाप्सर:
स्वरस्मृतीरसुरानीकवीर्य: ॥ ३६ ॥
वयांसि तत्-व्याकरणम् विचित्रम् मनुः मनीषा मनुजः निवासः गन्धर्व विद्याधर चारण अप्सरः स्वर स्मृतीः असुर-अनीक वीर्यः
ब्रह्माननं क्षत्रभुजो महात्मा
विडूरुरङ्घ्रिश्रितकृष्णवर्ण: ।
नानाभिधाभीज्यगणोपपन्नो
द्रव्यात्मक: कर्म वितानयोग: ॥ ३७ ॥
ब्रह्म आननम् क्षत्र भुजः महात्मा विट् ऊरुः अङ्घ्रि-श्रित कृष्ण-वर्णः नाना अभिधा अभीज्य-गण उपपन्नः द्रव्य-आत्मकः कर्म वितान-योगः
इयानसावीश्वरविग्रहस्य
य: सन्निवेष: कथितो मया ते ।
सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे
मन: स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥
इयान् असौ ईश्वर विग्रहस्य यः सन्निवेशः कथितः मया ते सन्धार्यते अस्मिन् वपुषि स्थविष्ठे मनः स्व-बुद्ध्या न यतः अस्ति किञ्चित्
स सर्वधीवृत्त्यनुभूतसर्व
आत्मा यथा स्वप्नजनेक्षितैक: ।
तं सत्यमानन्दनिधिं भजेत
नान्यत्र सज्जेद् यत आत्मपात: ॥ ३९ ॥
सः सर्व-धी-वृत्ति अनुभूत सर्वे आत्मा यथा स्वप्न-जन ईक्षित एकः तम् सत्यम् आनन्द-निधिम् भजेत न अन्यत्र सज्जेत् यतः आत्म-पातः
२.२
श्रीशुक उवाच
एवं पुरा धारणयात्मयोनि-
र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।
तथा ससर्जेदममोघदृष्टि-
र्यथाप्ययात् प्राग् व्यवसायबुद्धि: ॥ १ ॥
श्री-शुकः उवाच एवम् पुरा धारणया आत्म-योनिः नष्टाम् स्मृतिम् प्रत्यवरुध्य तुष्टात् तथा ससर्ज इदम् अमोघ-दृष्टिः यथा अप्ययात् प्राक् व्यवसाय बुद्धिः
शाब्दस्य हि ब्रह्मण एष पन्था
यन्नामभिर्ध्यायति धीरपार्थै: ।
परिभ्रमंस्तत्र न विन्दतेऽर्थान्
मायामये वासनया शयान: ॥ २ ॥
शाब्दस्य हि ब्रह्मणः एषः पन्थाः यत् नामभिः ध्यायति धीः अपार्थैः परिभ्रमन् तत्र न विन्दते अर्थान् माया-मये वासनया शयानः
अत: कविर्नामसु यावदर्थ:
स्यादप्रमत्तो व्यवसायबुद्धि: ।
सिद्धेऽन्यथार्थे न यतेत तत्र
परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥
अतः कविः नामसु यावत् अर्थः स्यात् अप्रमत्तः व्यवसाय-बुद्धिः सिद्धे अन्यथा अर्थे न यतेत तत्र परिश्रमम् तत्र समीक्षमाणः
सत्यां क्षितौ किं कशिपो: प्रयासै-
र्बाहौ स्वसिद्धे ह्युपबर्हणै: किम् ।
सत्यञ्जलौ किं पुरुधान्नपात्र्या
दिग्वल्कलादौ सति किं दुकूलै: ॥ ४ ॥
सत्याम् क्षितौ किम् कशिपोः प्रयासैः बाहौ स्व-सिद्धे हि उपबर्हणैः किम् सति अञ्जलौ किम् पुरुधा अन्न पात्र्या दिक् वल्कल-आदौ सति किम् दुकूलैः
चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
नैवाङ्घ्रिपा: परभृत: सरितोऽप्यशुष्यन् ।
रुद्धा गुहा: किमजितोऽवति नोपसन्नान्
कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥
चीराणि किम् पथि न सन्ति दिशन्ति भिक्षाम् न एव अङ्घ्रिपाः पर-भृतः सरितः अपि अशुष्यन् रुद्धाः गुहाः किम् अजितः अवति न उपसन्नान् कस्मात् भजन्ति कवयः धन दुर्मद-अन्धान्
एवं स्वचित्ते स्वत एव सिद्ध
आत्मा प्रियोऽर्थो भगवाननन्त: ।
तं निर्वृतो नियतार्थो भजेत
संसारहेतूपरमश्च यत्र ॥ ६ ॥
एवम् स्व-चित्ते स्वतः एव सिद्धः आत्मा प्रियः अर्थः भगवान् अनन्तः तम् निर्वृतः नियत अर्थः भजेत संसार-हेतु उपरमः च यत्र
कस्तां त्वनादृत्य परानुचिन्ता-
मृते पशूनसतीं नाम कुर्यात् ।
पश्यञ्जनं पतितं वैतरण्यां
स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥
कः ताम् तु अनादृत्य पर-अनुचिन्ताम् ऋते पशून् असतीम् नाम कुर्यात् पश्यन् जनम् पतितम् वैतरण्याम् स्व-कर्म-जान् परितापान् जुषाणम्
केचित् स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङ्गशङ्ख-
गदाधरं धारणया स्मरन्ति ॥ ८ ॥
केचित् स्व-देह-अन्तः हृदय-अवकाशे प्रादेश-मात्रम् पुरुषम् वसन्तम् चतुः-भुजम् कञ्ज रथ-अङ्ग शङ्ख गदा-धरम् धारणया स्मरन्ति
प्रसन्नवक्त्रं नलिनायतेक्षणं
कदम्बकिञ्जल्कपिशङ्गवाससम् ।
लसन्महारत्नहिरण्मयाङ्गदं
स्फुरन्महारत्नकिरीटकुण्डलम् ॥ ९ ॥
प्रसन्न वक्त्रम् नलिन-आयत ईक्षणम् कदम्ब किञ्जल्क पिशङ्ग वाससम् लसत् महा-रत्न हिरण्मय अङ्गदम् स्फुरत् महा-रत्न किरीट कुण्डलम्
उन्निद्रहृत्पङ्कजकर्णिकालये
योगेश्वरास्थापितपादपल्लवम् ।
श्रीलक्षणं कौस्तुभरत्नकन्धर-
मम्लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥
उन्निद्र हृत् पङ्कज कर्णिका-आलये योग-ईश्वर आस्थापित पाद-पल्लवम् श्री लक्षणम् कौस्तुभ रत्न कन्धरम् अम्लान लक्ष्म्या वन-मालया आचितम्
विभूषितं मेखलयाङ्गुलीयकै-
र्महाधनैर्नूपुरकङ्कणादिभि: ।
स्निग्धामलाकुञ्चितनीलकुन्तलै-
र्विरोचमानाननहासपेशलम् ॥ ११ ॥
विभूषितम् मेखलया अङ्गुलीयकैः महा-धनैः नूपुर कङ्कण-आदिभिः स्निग्ध अमल आकुञ्चित नील कुन्तलैः विरोचमान आनन हास पेशलम्
अदीनलीलाहसितेक्षणोल्लसद्-
भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।
ईक्षेत चिन्तामयमेनमीश्वरं
यावन्मनो धारणयावतिष्ठते ॥ १२ ॥
अदीन लीला हसित ईक्षण उल्लसत् भ्रू-भङ्ग संसूचित भूरि अनुग्रहम् ईक्षेत चिन्तामयम् एनम् ईश्वरम् यावत् मनः धारणया अवतिष्ठते
एकैकशोऽङ्गानि धियानुभावयेत्
पादादि यावद्धसितं गदाभृत: ।
जितं जितं स्थानमपोह्य धारयेत्
परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥
एक-एकशः अङ्गानि धिया अनुभावयेत् पाद-आदि यावत् हसितम् गदा-भृतः जितम् जितम् स्थानम् अपोह्य धारयेत् परम् परम् शुद्ध्यति धीः यथा यथा
यावन्न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्तियोग: ।
तावत् स्थवीय: पुरुषस्य रूपं
क्रियावसाने प्रयत: स्मरेत ॥ १४ ॥
यावत् न जायेत पर अवरे अस्मिन् विश्व-ईश्वरे द्रष्टरि भक्ति-योगः तावत् स्थवीयः पुरुषस्य रूपम् क्रिया-अवसाने प्रयतः स्मरेत
स्थिरं सुखं चासनमास्थितो यति-
र्यदा जिहासुरिममङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत्
प्राणान् नियच्छेन्मनसा जितासु: ॥ १५ ॥
स्थिरम् सुखम् च आसनम् आस्थितः यतिः यदा जिहासुः इमम् अङ्ग लोकम् काले च देशे च मनः न सज्जयेत् प्राणान् नियच्छेत् मनसा जित-असुः
मन: स्वबुद्ध्यामलया नियम्य
क्षेत्रज्ञ एतां निनयेत् तमात्मनि ।
आत्मानमात्मन्यवरुध्य धीरो
लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥
मनः स्व-बुद्ध्या अमलया नियम्य क्षेत्र-ज्ञे एताम् निनयेत् तम् आत्मनि आत्मानम् आत्मनि अवरुध्य धीरः लब्ध-उपशान्तिः विरमेत कृत्यात्
न यत्र कालोऽनिमिषां पर: प्रभु:
कुतो नु देवा जगतां य ईशिरे ।
न यत्र सत्त्वं न रजस्तमश्च
न वै विकारो न महान् प्रधानम् ॥ १७ ॥
न यत्र कालः अनिमिषाम् परः प्रभुः कुतः नु देवाः जगताम् ये ईशिरे न यत्र सत्त्वम् न रजः तमः च न वै विकारः न महान् प्रधानम्
परं पदं वैष्णवमामनन्ति तद्
यन्नेति नेतीत्यतदुत्सिसृक्षव: ।
विसृज्य दौरात्म्यमनन्यसौहृदा
हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥
परम् पदम् वैष्णवम् आमनन्ति तत् यत् न इति न इति इति अतत् उत्सिसृक्षवः विसृज्य दौरात्म्यम् अनन्य सौहृदाः हृदा उपगुह्य अर्ह पदम् पदे पदे
इत्थं मुनिस्तूपरमेद् व्यवस्थितो
विज्ञानदृग्वीर्यसुरन्धिताशय: ।
स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं
स्थानेषु षट्सून्नमयेज्जितक्लम: ॥ १९ ॥
इत्थम् मुनिः तु उपरमेत् व्यवस्थितः विज्ञान-दृक् वीर्य सु-रन्धित आशयः स्व-पार्ष्णिना आपीड्य गुदम् ततः अनिलम् स्थानेषु षट्सु उन्नमयेत् जित-क्लमः
नाभ्यां स्थितं हृद्यधिरोप्य तस्मा-
दुदानगत्योरसि तं नयेन्मुनि: ।
ततोऽनुसन्धाय धिया मनस्वी
स्वतालुमूलं शनकैर्नयेत् ॥ २० ॥
नाभ्याम् स्थितम् हृदि अधिरोप्य तस्मात् उदान गत्य उरसि तम् नयेत् मुनिः ततः अनुसन्धाय धिया मनस्वी स्व-तालु-मूलम् शनकैः नयेत
तस्माद् भ्रुवोरन्तरमुन्नयेत
निरुद्धसप्तायतनोऽनपेक्ष: ।
स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि-
र्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥ २१ ॥
तस्मात् भ्रुवोः अन्तरम् उन्नयेत निरुद्ध सप्त आयतनः अनपेक्षः स्थित्वा मुहूर्त अर्धम् अकुण्ठ दृष्टिः निर्भिद्य मूर्धन् विसृजेत् परम् गतः
यदि प्रयास्यन् नृप पारमेष्ठ्यं
वैहायसानामुत यद् विहारम् ।
अष्टाधिपत्यं गुणसन्निवाये
सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२ ॥
यदि प्रयास्यन् नृप पारमेष्ठ्यम् वैहायसानाम् उत यत् विहारम् अष्ट-आधिपत्यम् गुण-सन्निवाये सह एव गच्छेत् मनसा इन्द्रियैः च
योगेश्वराणां गतिमाहुरन्त-
र्बहिस्त्रिलोक्या: पवनान्तरात्मनाम् ।
न कर्मभिस्तां गतिमाप्नुवन्ति
विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥
योग-ईश्वराणाम् गतिम् आहुः अन्तः बहिः त्रि-लोक्याः पवन-अन्तः आत्मनाम् न कर्मभिः ताम् गतिम् आप्नुवन्ति विद्या तपः योग समाधि भाजाम्
वैश्वानरं याति विहायसा गत:
सुषुम्णया ब्रह्मपथेन शोचिषा ।
विधूतकल्कोऽथ हरेरुदस्तात्
प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥
वैश्वानरम् याति विहायसा गतः सुषुम्णया ब्रह्म पथेन शोचिषा विधूत कल्कः अथ हरेः उदस्तात् प्रयाति चक्रम् नृप शैशुमारम्
तद् विश्वनाभिं त्वतिवर्त्य विष्णो-
रणीयसा विरजेनात्मनैक: ।
नमस्कृतं ब्रह्मविदामुपैति
कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥
तत् विश्व-नाभिम् तु अतिवर्त्य विष्णोः अणीयसा विरजेन आत्मना एकः नमस्कृतम् ब्रह्म-विदाम् उपैति कल्प-आयुषः यत् विबुधाः रमन्ते
अथो अनन्तस्य मुखानलेन
दन्दह्यमानं स निरीक्ष्य विश्वम् ।
निर्याति सिद्धेश्वरयुष्टधिष्ण्यं
यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥
अथो अनन्तस्य मुख-अनलेन दन्दह्यमानम् सः निरीक्ष्य विश्वम् निर्याति सिद्धेश्वर-युष्ट-धिष्ण्यम् यत् द्वै-परार्ध्यम् तत् उ पारमेष्ठ्यम्
न यत्र शोको न जरा न मृत्यु-
र्नार्तिर्न चोद्वेग ऋते कुतश्चित् ।
यच्चित्ततोऽद: कृपयानिदंविदां
दुरन्तदु:खप्रभवानुदर्शनात् ॥ २७ ॥
न यत्र शोकः न जरा न मृत्युः न अर्तिः न च उद्वेगः ऋते कुतश्चित् यत् चित् ततः अदः कृपया अन्-इदम्-विदाम् दुरन्त दुःख प्रभव अनुदर्शनात्
ततो विशेषं प्रतिपद्य निर्भय-
स्तेनात्मनापोऽनलमूर्तिरत्वरन् ।
ज्योतिर्मयो वायुमुपेत्य काले
वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥
ततः विशेषम् प्रतिपद्य निर्भयः तेन आत्मना आपः अनल मूर्तिः अत्वरन् ज्योतिः-मयः वायुम् उपेत्य काले वायु आत्मना खम् बृहत् आत्म-लिङ्गम्
घ्राणेन गन्धं रसनेन वै रसं
रूपं च दृष्टया श्वसनं त्वचैव ।
श्रोत्रेण चोपेत्य नभोगुणत्वं
प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥
घ्राणेन गन्धम् रसनेन वै रसम् रूपम् च दृष्ट्या श्वसनम् त्वचा एव श्रोत्रेण च उपेत्य नभः-गुणत्वम् प्राणेन च आकूतिम् उपैति योगी
स भूतसूक्ष्मेन्द्रियसंनिकर्षं
मनोमयं देवमयं विकार्यम् ।
संसाद्य गत्या सह तेन याति
विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥
सः भूत सूक्ष्म इन्द्रिय सन्निकर्षम् मनः-मयम् देव-मयम् विकार्यम् संसाद्य गत्या सह तेन याति विज्ञान तत्त्वम् गुण सन्निरोधम्
तेनात्मनात्मानमुपैति शान्त-
मानन्दमानन्दमयोऽवसाने ।
एतां गतिं भागवतीं गतो य:
स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥
तेन आत्मना आत्मानम् उपैति शान्तम् आनन्दम् आनन्द-मयः अवसाने एताम् गतिम् भागवतीम् गतः यः सः वै पुनः न इह विषज्जते अङ्ग
एते सृती ते नृप वेदगीते
त्वयाभिपृष्टे च सनातने च ।
ये वै पुरा ब्रह्मण आह तुष्ट
आराधितो भगवान् वासुदेव: ॥ ३२ ॥
एते सृती ते नृप वेद-गीते त्वया अभिपृष्टे च सनातने च ये वै पुरा ब्रह्मणे आह तुष्टः आराधितः भगवान् वासुदेवः
न ह्यतोऽन्य: शिव: पन्था विशत: संसृताविह ।
वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥
न हि अतः अन्यः शिवः पन्थाः विशतः संसृतौ इह वासुदेवे भगवति भक्ति-योगः यतः भवेत्
भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥
भगवान् ब्रह्म कार्त्स्न्येन त्रिः अन्वीक्ष्य मनीषया तत् अध्यवस्यत् कूट-स्थः रतिः यतः भवेत्
भगवान् सर्वभूतेषु लक्षित: स्वात्मना हरि: ।
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकै: ॥ ३५ ॥
भगवान् सर्व भूतेषु लक्षितः स्व-आत्मना हरिः दृश्यैः बुद्धि-आदिभिः द्रष्टा लक्षणैः अनुमापकैः
तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा ।
श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३६ ॥
तस्मात् सर्व आत्मना राजन् हरिः सर्वत्र सर्वदा श्रोतव्यः कीर्तितव्यः च स्मर्तव्यः भगवान् नृणाम्
पिबन्ति ये भगवत आत्मन: सतां
कथामृतं श्रवणपुटेषु सम्भृतम् ।
पुनन्ति ते विषयविदूषिताशयं
व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥
पिबन्ति ये भगवतः आत्मनः सताम् कथा-अमृतम् श्रवण-पुटेषु सम्भृतम् पुनन्ति ते विषय विदूषित-आशयम् व्रजन्ति तत् चरण सरोरुह-अन्तिकम्
२.३
श्री शुक उवाच
एवमेतन्निगदितं पृष्टवान् यद्भवान् मम ।
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥
श्री-शुकः उवाच एवम् एतत् निगदितम् पृष्टवान् यत् भवान् मम नृणाम् यत् म्रियमाणानाम् मनुष्येषु मनीषिणाम्
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मण: पतिम् ।
इन्द्रमिन्द्रियकामस्तु प्रजाकाम: प्रजापतीन् ॥ २ ॥
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् ।
वसुकामो वसून रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥
अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदिते:सुतान् ।
विश्वान्देवान् राज्यकाम: साध्यान्संसाधको विशाम् ॥ ४ ॥
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।
प्रतिष्ठाकाम: पुरुषो रोदसी लोकमातरौ ॥ ५ ॥
रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् ।
आधिपत्यकाम: सर्वेषां यजेत परमेष्ठिनम् ॥ ६ ॥
यज्ञं यजेद् यशस्काम: कोशकाम: प्रचेतसम् ।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७ ॥
ब्रह्म वर्चस कामः तु यजेत ब्रह्मणः पतिम् इन्द्रम् इन्द्रिय-कामः तु प्रजा-कामः प्रजापतीन् देवीम् मायाम् तु श्री-कामः तेजः कामः विभावसुम् वसु-कामः वसून् रुद्रान् वीर्य-कामः अथ वीर्यवान् अन्न-अद्य कामः तु अदितिम् स्वर्ग कामः अदितेः सुतान् विश्वान् देवान् राज्य-कामः साध्यान् संसाधकः विशाम् आयुः-कामः अश्विनौ देवौ पुष्टि-कामः इलाम् यजेत् प्रतिष्ठा-कामः पुरुषः रोदसी लोक-मातरौ रूप अभिकामः गन्धर्वान् स्त्री-कामः अप्सरः उर्वशीम् आधिपत्य-कामः सर्वेषाम् यजेत परमेष्ठिनम् यज्ञम् यजेत् यशः-कामः कोश-कामः प्रचेतसम् विद्या-कामः तु गिरिशम् दाम्पत्य-अर्थः उमाम् सतीम्
धर्मार्थ उत्तमश्लोकं तन्तु: तन्वन् पितृन् यजेत् ।
रक्षाकाम: पुण्यजनानोजस्कामो मरुद्गणान् ॥ ८ ॥
धर्म-अर्थः उत्तम-श्लोकम् तन्तुः तन्वन् पितॄन् यजेत् रक्षा-कामः पुण्य-जनान् ओजः-कामः मरुत्-गणान्
राज्यकामो मनून् देवान् निऋर्तिं त्वभिचरन् यजेत् ।
कामकामो यजेत् सोममकाम: पुरुषं परम् ॥ ९ ॥
राज्य-कामः मनून् देवान् निरृतिम् तु अभिचरन् यजेत् काम-कामः यजेत् सोमम् अकामः पुरुषम् परम्
अकाम: सर्वकामो वा मोक्षकाम उदारधी: ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
अकामः सर्व-कामः वा मोक्ष-कामः उदार-धीः तीव्रेण भक्ति-योगेन यजेत पुरुषम् परम्
एतावानेव यजतामिह नि:श्रेयसोदय: ।
भगवत्यचलो भावो यद् भागवतसंगत: ॥ ११ ॥
एतावान् एव यजताम् इह निःश्रेयस उदयः भगवति अचलः भावः यत् भागवत सङ्गतः
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्र -
मात्मप्रसाद उत यत्र गुणेष्वसङ्ग: ।
कैवल्यसम्मतपथस्त्वथ भक्तियोग:
को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥
ज्ञानम् यत् आ प्रतिनिवृत्त गुण-ऊर्मि चक्रम् आत्म-प्रसादः उत यत्र गुणेषु असङ्गः कैवल्य सम्मत पथः तु अथ भक्ति-योगः कः निर्वृतः हरि-कथासु रतिम् न कुर्यात्
शौनक उवाच
इत्यभिव्याहृतं राजा निशम्य भरतर्षभ: ।
किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥ १३ ॥
शौनकः उवाच इति अभिव्याहृतम् राजा निशम्य भरत-ऋषभः किम् अन्यत् पृष्टवान् भूयः वैयासकिम् ऋषिम् कविम्
एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् ।
कथा हरिकथोदर्का: सतां स्यु: सदसि ध्रुवम् ॥ १४ ॥
एतत् शुश्रूषताम् विद्वन् सूत नः अर्हसि भाषितुम् कथाः हरि-कथा-उदर्काः सताम् स्युः सदसि ध्रुवम्
स वै भागवतो राजा पाण्डवेयो महारथ: ।
बालक्रीडनकै: क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥
सः वै भागवतः राजा पाण्डवेयः महा-रथः बाल क्रीडनकैः क्रीडन् कृष्ण क्रीडाम् यः आददे
वैयासकिश्च भगवान् वासुदेवपरायण: ।
उरुगायगुणोदारा: सतां स्युर्हि समागमे ॥ १६ ॥
वैयासकिः च भगवान् वासुदेव परायणः उरुगाय गुण-उदाराः सताम् स्युः हि समागमे
आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥
आयुः हरति वै पुंसाम् उद्यन् अस्तम् च यन् असौ तस्य ऋते यत् क्षणः नीतः उत्तम-श्लोक वार्तया
तरव: किं न जीवन्ति भस्त्रा: किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ १८ ॥
तरवः किम् न जीवन्ति भस्त्राः किम् न श्वसन्ति उत न खादन्ति न मेहन्ति किम् ग्रामे पशवः अपरे
श्वविड्वराहोष्ट्रखरै: संस्तुत: पुरुष: पशु: ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रज: ॥ १९ ॥
श्व विट्-वराह उष्ट्र खरैः संस्तुतः पुरुषः पशुः न यत् कर्ण पथ उपेतः जातु नाम गदाग्रजः
बिले बतोरुक्रमविक्रमान् ये
न शृण्वत: कर्णपुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्युरुगायगाथा: ॥ २० ॥
बिले बत उरुक्रम विक्रमान् ये न शृण्वतः कर्ण-पुटे नरस्य जिह्वा असती दार्दुरिका इव सूत न च उपगायति उरुगाय गाथाः
भार: परं पट्टकिरीटजुष्ट -
मप्युत्तमाङ्गं न नमेन्मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥
भारः परम् पट्ट किरीट जुष्टम् अपि उत्तम अङ्गम् न नमेत् मुकुन्दम् शावौ करौ नो कुरुते सपर्याम् हरेः लसत् काञ्चन कङ्कणौ वा
बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर्न निरीक्षतो ये ।
पादौ नृणां तौ द्रुमजन्मभाजौ
क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥
बर्हायिते ते नयने नराणाम् लिङ्गानि विष्णोः न निरीक्षतः ये पादौ नृणाम् तौ द्रुम-जन्म भाजौ क्षेत्राणि न अनुव्रजतः हरेः यौ
जीवञ्छवो भागवताङ्घ्रिरेणुं
न जातु मर्त्योऽभिलभेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्या:
श्वसञ्छवो यस्तु न वेद गन्धम् ॥ २३ ॥
जीवन् शवः भागवत-अङ्घ्रि-रेणुम् न जातु मर्त्यः अभिलभेत यः तु श्री विष्णु-पद्याः मनु-जः तुलस्याः श्वसन् शवः यः तु न वेद गन्धम्
तदश्मसारं हृदयं बतेदं
यद् गृह्यमाणैर्हरिनामधेयै: ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्ष: ॥ २४ ॥
तत् अश्म-सारम् हृदयम् बत इदम् यत् गृह्यमाणैः हरि-नाम धेयैः न विक्रियेत अथ यदा विकारः नेत्रे जलम् गात्र-रुहेषु हर्षः
अथाभिधेह्यङ्ग मनोऽनुकूलं
प्रभाषसे भागवतप्रधान: ।
यदाह वैयासकिरात्मविद्या-
विशारदो नृपतिं साधु पृष्ट: ॥ २५ ॥
अथ अभिधेहि अङ्ग मनः अनुकूलम् प्रभाषसे भागवत प्रधानः यत् आह वैयासकिः आत्म-विद्या विशारदः नृपतिम् साधु पृष्टः
२.४
सूत उवाच
वैयासकेरिति वचस्तत्त्वनिश्चयमात्मन: ।
उपधार्य मतिं कृष्णे औत्तरेय: सतीं व्यधात् ॥ १ ॥
सूतः उवाच वैयासकेः इति वचः तत्त्व-निश्चयम् आत्मनः उपधार्य मतिम् कृष्णे औत्तरेयः सतीम् व्यधात्
आत्मजायासुतागारपशुद्रविणबन्धुषु ।
राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ २ ॥
आत्म जाया सुत आगार पशु द्रविण बन्धुषु राज्ये च अविकले नित्यम् विरूढाम् ममताम् जहौ
पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमा: ।
कृष्णानुभावश्रवणे श्रद्दधानो महामना: ॥ ३ ॥
संस्थां विज्ञाय संन्यस्य कर्म त्रैवर्गिकं च यत् ।
वासुदेवे भगवति आत्मभावं दृढं गत: ॥ ४ ॥
पप्रच्छ च इमम् एव अर्थम् यत् माम् पृच्छथ सत्तमाः कृष्ण-अनुभाव श्रवणे श्रद्दधानः महा-मनाः संस्थाम् विज्ञाय सन्न्यस्य कर्म त्रै-वर्गिकम् च यत् वासुदेवे भगवति आत्म-भावम् दृढम् गतः
राजोवाच
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।
तमो विशीर्यते मह्यं हरे: कथयत: कथाम् ॥ ५ ॥
राजा उवाच समीचीनम् वचः ब्रह्मन् सर्व-ज्ञस्य तव अनघ तमः विशीर्यते मह्यम् हरेः कथयतः कथाम्
भूय एव विवित्सामि भगवानात्ममायया ।
यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरै: ॥ ६ ॥
भूयः एव विवित्सामि भगवान् आत्म मायया यथा इदम् सृजते विश्वम् दुर्विभाव्यम् अधीश्वरैः
यथा गोपायति विभुर्यथा संयच्छते पुन: ।
यां यां शक्तिमुपाश्रित्य पुरुशक्ति: पर: पुमान् ।
आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७ ॥
यथा गोपायति विभुः यथा संयच्छते पुनः याम् याम् शक्तिम् उपाश्रित्य पुरु-शक्तिः परः पुमान् आत्मानम् क्रीडयन् क्रीडन् करोति विकरोति च
नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मण: ।
दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥ ८ ॥
नूनम् भगवतः ब्रह्मन् हरेः अद्भुत कर्मणः दुर्विभाव्यम् इव आभाति कविभिः च अपि चेष्टितम्
यथा गुणांस्तु प्रकृतेर्युगपत् क्रमशोऽपि वा ।
बिभर्ति भूरिशस्त्वेक: कुर्वन् कर्माणि जन्मभि: ॥ ९ ॥
यथा गुणान् तु प्रकृतेः युगपत् क्रमशः अपि वा बिभर्ति भूरिशः तु एकः कुर्वन् कर्माणि जन्मभिः
विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा ।
शाब्दे ब्रह्मणि निष्णात: परस्मिंश्च भवान्खलु ॥ १० ॥
विचिकित्सितम् एतत् मे ब्रवीतु भगवान् यथा शाब्दे ब्रह्मणि निष्णातः परस्मिन् च भवान् खलु
सूत उवाच
इत्युपामन्त्रितो राज्ञा गुणानुकथने हरे: ।
हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥
सूतः उवाच इति उपामन्त्रितः राज्ञा गुण-अनुकथने हरेः हृषीकेशम् अनुस्मृत्य प्रतिवक्तुम् प्रचक्रमे
श्री शुक उवाच
नम: परस्मै पुरुषाय भूयसे
सदुद्भवस्थाननिरोधलीलया ।
गृहीतशक्तित्रितयाय देहिना-
मन्तर्भवायानुपलक्ष्यवर्त्मने ॥ १२ ॥
श्री-शुकः उवाच नमः परस्मै पुरुषाय भूयसे सद्-उद्भव स्थान निरोध लीलया गृहीत शक्ति त्रितयाय देहिनाम् अन्तः-भवाय अनुपलक्ष्य वर्त्मने
भूयो नम: सद्वृजिनच्छिदेऽसता-
मसम्भवायाखिलसत्त्वमूर्तये ।
पुंसां पुन: पारमहंस्य आश्रमे
व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥
भूयः नमः सत् वृजिन छिदे असताम् असम्भवाय अखिल सत्त्व मूर्तये पुंसाम् पुनः पारमहंस्ये आश्रमे व्यवस्थितानाम् अनुमृग्य दाशुषे
नमो नमस्तेऽस्त्वृषभाय सात्वतां
विदूरकाष्ठाय मुहु: कुयोगिनाम् ।
निरस्तसाम्यातिशयेन राधसा
स्वधामनि ब्रह्मणि रंस्यते नम: ॥ १४ ॥
नमः नमः ते अस्तु ऋषभाय सात्वताम् विदूर-काष्ठाय मुहुः कु-योगिनाम् निरस्त साम्य अतिशयेन राधसा स्व-धामनि ब्रह्मणि रंस्यते नमः
यत्कीर्तनं यत्स्मरणं यदीक्षणं
यद्वन्दनं यच्छ्रवणं यदर्हणम् ।
लोकस्य सद्यो विधुनोति कल्मषं
तस्मै सुभद्रश्रवसे नमो नम: ॥ १५ ॥
यत् कीर्तनम् यत् स्मरणम् यत् ईक्षणम् यत् वन्दनम् यत् श्रवणम् यत् अर्हणम् लोकस्य सद्यः विधुनोति कल्मषम् तस्मै सुभद्र श्रवसे नमः नमः
विचक्षणा यच्चरणोपसादनात्
सङ्गं व्युदस्योभयतोऽन्तरात्मन: ।
विन्दन्ति हि ब्रह्मगतिं गतक्लमा-
स्तस्मै सुभद्रश्रवसे नमो नम: ॥ १६ ॥
विचक्षणाः यत् चरण-उपसादनात् सङ्गम् व्युदस्य उभयतः अन्तः-आत्मनः विन्दन्ति हि ब्रह्म-गतिम् गत-क्लमाः तस्मै सुभद्र श्रवसे नमः नमः
तपस्विनो दानपरा यशस्विनो
मनस्विनो मन्त्रविद: सुमङ्गला: ।
क्षेमं न विन्दन्ति विना यदर्पणं
तस्मै सुभद्रश्रवसे नमो नम: ॥ १७ ॥
तपस्विनः दान-पराः यशस्विनः मनस्विनः मन्त्र-विदः सु-मङ्गलाः क्षेमम् न विन्दन्ति विना यत्-अर्पणम् तस्मै सुभद्र श्रवसे नमः नमः
किरातहूणान्ध्रपुलिन्दपुल्कशा
आभीरशुम्भा यवना: खसादय: ।
येऽन्ये च पापा यदपाश्रयाश्रया:
शुध्यन्ति तस्मै प्रभविष्णवे नम: ॥ १८ ॥
किरात हूण आन्ध्र पुलिन्द पुल्कशाः आभीर शुम्भाः यवनाः खस-आदयः ये अन्ये च पापाः यत् अपाश्रय-आश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः
स एष आत्मात्मवतामधीश्वर-
स्त्रयीमयो धर्ममयस्तपोमय: ।
गतव्यलीकैरजशङ्करादिभि-
र्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ॥ १९ ॥
सः एषः आत्मा आत्मवताम् अधीश्वरः त्रयी-मयः धर्म-मयः तपः-मयः गत-व्यलीकैः अज शङ्कर-आदिभिः वितर्क्य-लिङ्गः भगवान् प्रसीदताम्
श्रिय: पतिर्यज्ञपति: प्रजापति-
र्धियां पतिर्लोकपतिर्धरापति: ।
पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवान् सतां पति: ॥ २० ॥
श्रियः पतिः यज्ञ पतिः प्रजा-पतिः धियाम् पतिः लोक-पतिः धरा पतिः पतिः गतिः च अन्धक वृष्णि सात्वताम् प्रसीदताम् मे भगवान् सताम् पतिः
यदङ्घ्र्यध्यानसमाधिधौतया
धियानुपश्यन्ति हि तत्त्वमात्मन: ।
वदन्ति चैतत् कवयो यथारुचं
स मे मुकुन्दो भगवान् प्रसीदताम् ॥ २१ ॥
यत्-अङ्घ्रि अभिध्यान समाधि धौतया धिया अनुपश्यन्ति हि तत्त्वम् आत्मनः वदन्ति च एतत् कवयः यथा-रुचम् सः मे मुकुन्दः भगवान् प्रसीदताम्
प्रचोदिता येन पुरा सरस्वती
वितन्वताजस्य सतीं स्मृतिं हृदि ।
स्वलक्षणा प्रादुरभूत् किलास्यत:
स मे ऋषीणामृषभ: प्रसीदताम् ॥ २२ ॥
प्रचोदिता येन पुरा सरस्वती वितन्वता अजस्य सतीम् स्मृतिम् हृदि स्व लक्षणा प्रादुरभूत् किल आस्यतः सः मे ऋषीणाम् ऋषभः प्रसीदताम्
भूतैर्महद्भिर्य इमा: पुरो विभु-
र्निर्माय शेते यदमूषु पूरुष: ।
भुङ्क्ते गुणान् षोडश षोडशात्मक:
सोऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ २३ ॥
भूतैः महद्भिः यः इमाः पुरः विभुः निर्माय शेते यत् अमूषु पूरुषः भुङ्क्ते गुणान् षोडश षोडश-आत्मकः सः अलङ्कृषीष्ट भगवान् वचांसि मे
नमस्तस्मै भगवते वासुदेवाय वेधसे ।
पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥ २४ ॥
नमः तस्मै भगवते वासुदेवाय वेधसे पपुः ज्ञानम् अयम् सौम्याः यत् मुख-अम्बुरुह आसवम्
एतदेवात्मभू राजन् नारदाय विपृच्छते ।
वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मन: ॥ २५ ॥
एतत् एव आत्म-भूः राजन् नारदाय विपृच्छते वेद-गर्भः अभ्यधात् साक्षात् यत् आह हरिः आत्मनः
२.५
नारद उवाच
देवदेव नमस्तेऽस्तु भूतभावन पूर्वज ।
तद् विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ॥ १ ॥
नारदः उवाच देव देव नमः ते अस्तु भूत-भावन पूर्व-ज तत् विजानीहि यत् ज्ञानम् आत्म-तत्त्व निदर्शनम्
यद्रूपं यदधिष्ठानं यत: सृष्टमिदं प्रभो ।
यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वत: ॥ २ ॥
यत् रूपम् यत् अधिष्ठानम् यतः सृष्टम् इदम् प्रभो यत् संस्थम् यत् परम् यत् च तत् तत्त्वम् वद तत्त्वतः
सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभु: ।
करामलकवद् विश्वं विज्ञानावसितं तव ॥ ३ ॥
सर्वम् हि एतत् भवान् वेद भूत भव्य भवत् प्रभुः कर-आमलक-वत् विश्वम् विज्ञान-अवसितम् तव
यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मक: ।
एक: सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥
यत्-विज्ञानः यत्-आधारः यत्-परः त्वम् यत्-आत्मकः एकः सृजसि भूतानि भूतैः एव आत्म मायया
आत्मन् भावयसे तानी न पराभावयन् स्वयम् ।
आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लम: ॥ ५ ॥
भावयसे तानि न पराभावयन् स्वयम् आत्म-शक्तिम् अवष्टभ्य ऊर्ण-नाभिः इव अक्लमः
नाहं वेद परं ह्यस्मिन्नापरं न समं विभो ।
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यत: ॥ ६ ॥
न अहम् वेद परम् हि अस्मिन् न अपरम् न समम् विभो नाम रूप गुणैः भाव्यम् सत् असत् किञ्चित् अन्यतः
स भवानचरद् घोरं यत् तप: सुसमाहित: ।
तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ ७ ॥
सः भवान् अचरत् घोरम् यत् तपः सु-समाहितः तेन खेदयसे नः त्वम् परा शङ्काम् च यच्छसि
एतन्मे पृच्छत: सर्वं सर्वज्ञ सकलेश्वर ।
विजानीहि यथैवेदमहं बुध्येऽनुशासित: ॥ ८ ॥
एतत् मे पृच्छतः सर्वम् सर्व-ज्ञ सकल ईश्वर विजानीहि यथा एव इदम् अहम् बुध्ये अनुशासितः
ब्रह्मोवाच
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
यदहं चोदित: सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥
ब्रह्मा उवाच सम्यक् कारुणिकस्य इदम् वत्स ते विचिकित्सितम् यत् अहम् चोदितः सौम्य भगवत् वीर्य दर्शने
नानृतं तव तच्चापि यथा मां प्रब्रवीषि भो: ।
अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥
न अनृतम् तव तत् च अपि यथा माम् प्रब्रवीषि भोः अविज्ञाय परम् मत्तः एतावत् त्वम् यतः हि मे
येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।
यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारका: ॥ ११ ॥
येन स्व-रोचिषा विश्वम् रोचितम् रोचयामि अहम् यथा अर्कः अग्निः यथा सोमः यथा ऋक्ष ग्रह तारकाः
तस्मै नमो भगवते वासुदेवाय धीमहि ।
यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥
तस्मै नमः भगवते वासुदेवाय धीमहि यत् मायया दुर्जयया माम् वदन्ति जगत् गुरुम्
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धिय: ॥ १३ ॥
विलज्जमानया यस्य स्थातुम् ईक्षा-पथे अमुया विमोहिताः विकत्थन्ते मम अहम् इति दुर्धियः
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
वासुदेवात्परो ब्रह्मन्न च चान्योऽर्थोऽस्ति तत्त्वत: ॥ १४ ॥
द्रव्यम् कर्म च कालः च स्व-भावः जीवः एव च वासुदेवात् परः ब्रह्मन् न च अन्यः अर्थः अस्ति तत्त्वतः
नारायणपरा वेदा देवा नारायणाङ्गजा: ।
नारायणपरा लोका नारायणपरा मखा: ॥ १५ ॥
नारायण पराः वेदाः देवाः नारायण अङ्ग-जाः नारायण पराः लोकाः नारायण पराः मखाः
नारायणपरो योगो नारायणपरं तप: ।
नारायणपरं ज्ञानं नारायणपरा गति: ॥ १६ ॥
नारायण-परः योगः नारायण-परम् तपः नारायण-परम् ज्ञानम् नारायण-परा गतिः
तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मन: ।
सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदित: ॥ १७ ॥
तस्य अपि द्रष्टुः ईशस्य कूट-स्थस्य अखिल-आत्मनः सृज्यम् सृजामि सृष्टः अहम् ईक्षया एव अभिचोदितः
सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय: ।
स्थितिसर्गनिरोधेषु गृहीता मायया विभो: ॥ १८ ॥
सत्त्वम् रजः तमः इति निर्गुणस्य गुणाः त्रयः स्थिति सर्ग निरोधेषु गृहीताः मायया विभोः
कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रया: ।
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणा: ॥ १९ ॥
कार्य कारण कर्तृत्वे द्रव्य ज्ञान क्रिया-आश्रयाः बध्नन्ति नित्यदा मुक्तम् मायिनम् पुरुषम् गुणाः
स एष भगवाल्लिंङ्गैस्त्रिभिरेतैरधोक्षज: ।
स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वर: ॥ २० ॥
सः एषः भगवान् लिङ्गैः त्रिभिः एतैः अधोक्षजः सु-अलक्षित गतिः ब्रह्मन् सर्वेषाम् मम च ईश्वरः
कालं कर्म स्वभावं च मायेशो मायया स्वया ।
आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥
कालम् कर्म स्वभावम् च माया ईशः मायया स्वया यदृच्छया प्राप्तम् विबुभूषुः उपाददे
कालाद् गुणव्यतिकर: परिणाम: स्वभावत: ।
कर्मणो जन्म महत: पुरुषाधिष्ठितादभूत् ॥ २२ ॥
कालात् गुण-व्यतिकरः परिणामः स्वभावतः कर्मणः जन्म महतः पुरुष-अधिष्ठितात् अभूत्
महतस्तु विकुर्वाणाद्रज:सत्त्वोपबृंहितात् ।
तम:प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मक: ॥ २३ ॥
महतः तु विकुर्वाणात् रजः सत्त्व उपबृंहितात् तमः प्रधानः तु अभवत् द्रव्य ज्ञान क्रिया-आत्मकः
सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा ।
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।
द्रव्यशक्ति: क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ २४ ॥
सः अहङ्कारः इति प्रोक्तः विकुर्वन् समभूत् त्रिधा वैकारिकः तैजसः च तामसः च इति यत् भिदा द्रव्य-शक्तिः क्रिया-शक्तिः ज्ञान-शक्तिः इति प्रभो
तामसादपि भूतादेर्विकुर्वाणादभून्नभ: ।
तस्य मात्रा गुण: शब्दो लिङ्गं यद् द्रष्टृदृश्ययो: ॥ २५ ॥
तामसात् अपि भूत-आदेः विकुर्वाणात् अभूत् नभः तस्य मात्रा गुणः शब्दः लिङ्गम् यत् द्रष्टृ दृश्ययोः
नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिल: ।
परान्वयाच्छब्दवांश्च प्राण ओज: सहो बलम् ॥ २६ ॥
वायोरपि विकुर्वाणात् कालकर्मस्वभावत: ।
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥
तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् ।
रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ ॥
विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् ।
परान्वयाद् रसस्पर्शशब्दरूपगुणान्वित: ॥ २९ ॥
नभसः अथ विकुर्वाणात् अभूत् स्पर्श गुणः अनिलः पर अन्वयात् शब्दवान् च प्राणः ओजः सहः बलम् वायोः अपि विकुर्वाणात् काल कर्म स्वभावतः उदपद्यत तेजः वै रूपवत् स्पर्श शब्दवत् तेजसः तु विकुर्वाणात् आसीत् अम्भः रस-आत्मकम् रूपवत् स्पर्शवत् च अम्भः घोषवत् च पर अन्वयात् विशेषः तु विकुर्वाणात् अम्भसः गन्धवान् अभूत् पर अन्वयात् रस स्पर्श शब्द रूप-गुण-अन्वितः
वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका: ॥ ३० ॥
वैकारिकात् मनः जज्ञे देवाः वैकारिकाः दश दिक् वात अर्क प्रचेतः अश्वि वह्नि इन्द्र उपेन्द्र मित्र काः
तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।
ज्ञानशक्ति: क्रियाशक्तिर्बुद्धि: प्राणश्च तैजसौ ।
श्रोत्रं त्वग्घ्राणदृग्जिह्वा वागदोर्मेढ्राङ्घ्रिपायव: ॥ ३१ ॥
तैजसात् तु विकुर्वाणात् इन्द्रियाणि दश अभवन् ज्ञान-शक्तिः क्रिया-शक्तिः बुद्धिः प्राणः च तैजसौ श्रोत्रम् त्वक् घ्राण दृक् जिह्वाः वाक् दोः मेढ्र अङ्घ्रि पायवः
यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणा: ।
यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥
यदा एते असङ्गताः भावाः भूत इन्द्रिय मनः गुणाः यदा आयतन निर्माणे न शेकुः ब्रह्म-वित्-तम
तदा संहृत्य चान्योन्यं भगवच्छक्तिचोदिता: ।
सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यद: ॥ ३३ ॥
तदा संहत्य च अन्योन्यम् भगवत् शक्ति चोदिताः सत्-असत्त्वम् उपादाय च उभयम् ससृजुः हि अदः
वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।
कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥ ३४ ॥
वर्ष-पूग सहस्र-अन्ते तत् अण्डम् उदके शयम् काल कर्म स्वभाव-स्थः जीवः अजीवम् अजीवयत्
स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गत: ।
सहस्रोर्वङ्घ्रिबाह्वक्ष: सहस्राननशीर्षवान् ॥ ३५ ॥
सः एव पुरुषः तस्मात् अण्डम् निर्भिद्य निर्गतः सहस्र ऊरु अङ्घ्रि बाहु अक्षः सहस्र आनन शीर्षवान्
यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिण: ।
कट्यादिभिरध: सप्त सप्तोर्ध्वं जघनादिभि: ॥ ३६ ॥
यस्य इह अवयवैः लोकान् कल्पयन्ति मनीषिणः कटि-आदिभिः अधः सप्त सप्त ऊर्ध्वम् जघन-आदिभिः
पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहव: ।
ऊर्वोर्वैश्यो भगवत: पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥
पुरुषस्य मुखम् ब्रह्म क्षत्रम् एतस्य बाहवः ऊर्वोः वैश्यः भगवतः पद्भ्याम् शूद्रः व्यजायत
भूर्लोक: कल्पित: पद्भ्यां भुवर्लोकोऽस्य नाभित: ।
हृदा स्वर्लोक उरसा महर्लोको महात्मन: ॥ ३८ ॥
भूः लोकः कल्पितः पद्भ्याम् भुवः लोकः अस्य नाभितः हृदा स्वर्लोकः उरसा महर्लोकः महा-आत्मनः
ग्रीवायां जनलोकोऽस्य तपोलोक: स्तनद्वयात् ।
मूर्धभि: सत्यलोकस्तु ब्रह्मलोक: सनातन: ॥ ३९ ॥
ग्रीवायाम् जनलोकः अस्य तपोलोकः स्तन-द्वयात् मूर्धभिः सत्यलोकः तु ब्रह्मलोकः सनातनः
तत्कट्यां चातलं क्लृप्तमूरुभ्यां वितलं विभो: ।
जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४० ॥
महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।
पातालं पादतलत इति लोकमय: पुमान् ॥ ४१ ॥
तत् कट्याम् च अतलम् कॢप्तम् ऊरुभ्याम् वितलम् विभोः जानुभ्याम् सुतलम् शुद्धम् जङ्घाभ्याम् तु तलातलम् महातलम् तु गुल्फाभ्याम् प्रपदाभ्याम् रसातलम् पातालम् पाद-तलतः इति लोक-मयः पुमान्
भूर्लोक: कल्पित: पद्भ्यां भुवर्लोकोऽस्य नाभित: ।
स्वर्लोक: कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥
भूर्लोकः कल्पितः पद्भ्याम् भुवर्लोकः अस्य नाभितः स्वर्लोकः कल्पितः मूर्ध्ना इति वा लोक कल्पना
२.६
ब्रह्मोवाच
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातव: ।
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ १ ॥
ब्रह्मा उवाच वाचाम् वह्नेः मुखम् क्षेत्रम् छन्दसाम् सप्त धातवः हव्य-कव्य अमृत अन्नानाम् जिह्वा सर्व रसस्य च
सर्वासूनां च वायोश्च तन्नासे परमायणे ।
अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयो: ॥ २ ॥
सर्व असूनाम् च वायोः च तत् नासे परम-आयणे अश्विनोः ओषधीनाम् च घ्राणः मोद प्रमोदयोः
रूपाणां तेजसां चक्षुर्दिव: सूर्यस्य चाक्षिणी ।
कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयो: ॥ ३ ॥
रूपाणाम् तेजसाम् चक्षुः दिवः सूर्यस्य च अक्षिणी कर्णौ दिशाम् च तीर्थानाम् श्रोत्रम् आकाश शब्दयोः
तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ।
त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ॥ ४ ॥
तत् गात्रम् वस्तु-साराणाम् सौभगस्य च भाजनम् त्वक् अस्य स्पर्श वायोः च सर्व मेधस्य च एव हि
रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृत: ।
केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥
रोमाणि उद्भिज्ज जातीनाम् यैः वा यज्ञः तु सम्भृतः केश श्मश्रु नखानि अस्य शिला लोह अभ्र विद्युताम्
बाहवो लोकपालानां प्रायश: क्षेमकर्मणाम् ॥ ६ ॥
बाहवः लोक-पालानाम् प्रायशः क्षेम-कर्मणाम्
विक्रमो भूर्भुव: स्वश्च क्षेमस्य शरणस्य च ।
सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ७ ॥
विक्रमः भूः भुवः स्वः च क्षेमस्य शरणस्य च सर्व-काम वरस्य अपि हरेः चरणः आस्पदम्
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापते: ।
पुंस: शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृते: ॥ ८ ॥
अपाम् वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः पुंसः शिश्नः उपस्थः तु प्रजाति आनन्द निर्वृतेः
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।
हिंसाया निऋर्तेर्मृत्योर्निरयस्य गुदं स्मृत: ॥ ९ ॥
पायुः यमस्य मित्रस्य परिमोक्षस्य नारद हिंसायाः निरृतेः मृत्योः निरयस्य गुदम् स्मृतः
पराभूतेरधर्मस्य तमसश्चापि पश्चिम: ।
नाड्यो नदनदीनां च गोत्राणामस्थिसंहति: ॥ १० ॥
पराभूतेः अधर्मस्य तमसः च अपि पश्चिमः नाड्यः नद नदीनाम् च गोत्राणाम् अस्थि संहतिः
अव्यक्तरससिन्धूनां भूतानां निधनस्य च ।
उदरं विदितं पुंसो हृदयं मनस: पदम् ॥ ११ ॥
अव्यक्त रस-सिन्धूनाम् भूतानाम् निधनस्य च उदरम् विदितम् पुंसः हृदयम् मनसः पदम्
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥
धर्मस्य मम तुभ्यम् च कुमाराणाम् भवस्य च विज्ञानस्य च सत्त्वस्य परस्य आत्मा परायणम्
अहं भवान् भवश्चैव त इमे मुनयोऽग्रजा: ।
सुरासुरनरा नागा: खगा मृगसरीसृपा: ॥ १३ ॥
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगा: ।
पशव: पितर: सिद्धा विद्याध्राश्चारणा द्रुमा: ॥ १४ ॥
अन्ये च विविधा जीवा जलस्थलनभौकस: ।
ग्रहर्क्षकेतवस्तारास्तडित: स्तनयित्नव: ॥ १५ ॥
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति ॥ १६ ॥
अहम् भवान् भवः च एव ते इमे मुनयः अग्र-जाः सुर असुर नराः नागाः खगाः मृग सरीसृपाः गन्धर्व-अप्सरसः, यक्षाः, रक्षः-भूत-गण-उरगाः, पशवः, पितरः, सिद्धाः, विद्याध्राः, चारणाः द्रुमाः अन्ये च विविधाः जीवाः जल स्थल नभ-ओकसः ग्रह ऋक्ष केतवः ताराः तडितः स्तनयित्नवः सर्वम् पुरुषः एव इदम् भूतम् भव्यम् भवत् च यत् तेन इदम् आवृतम् विश्वम् वितस्तिम् अधितिष्ठति
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।
एवं विराजं प्रतपंस्तपत्यन्तर्बहि: पुमान् ॥ १७ ॥
स्व-धिष्ण्यम् प्रतपन् प्राणः बहिः च प्रतपति असौ एवम् विराजम् प्रतपन् तपति अन्तः बहिः पुमान्
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्यय: ॥ १८ ॥
सः अमृतस्य अभयस्य ईशः मर्त्यम् अन्नम् यत् अत्यगात् महिमा एषः ततः ब्रह्मन् पुरुषस्य दुरत्ययः
पादेषु सर्वभूतानि पुंस: स्थितिपदो विदु: ।
अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १९ ॥
पादेषु सर्व भूतानि पुंसः स्थिति-पदः विदुः अमृतम् क्षेमम् अभयम् त्रि-मूर्ध्नः अधायि मूर्धसु
पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमा: ।
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रत: ॥ २० ॥
पादाः त्रयः बहिः च आसन् अप्रजानाम् ये आश्रमाः अन्तः त्रि-लोक्याः तु अपरः गृह-मेधः अबृहत्-व्रतः
सृती विचक्रमे विश्वङ्साशनानशने उभे ।
यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥ २१ ॥
सृती विचक्रमे विश्वङ् साशन अनशने उभे यत् अविद्या च विद्या च पुरुषः तु उभय आश्रयः
यस्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्मक: ।
तद् द्रव्यमत्यगाद् विश्वं गोभि: सूर्य इवातपन् ॥ २२ ॥
यस्मात् अण्डम् विराट् जज्ञे भूत इन्द्रिय गुण-आत्मकः तत् द्रव्यम् अत्यगात् विश्वम् गोभिः सूर्यः इव आतपन्
यदास्य नाभ्यान्नलिनादहमासं महात्मन: ।
नाविदं यज्ञसम्भारान् पुरुषावयवानृते ॥ २३ ॥
यदा अस्य नाभ्यात् नलिनात् अहम् आसम् महा-आत्मनः न अविदम् यज्ञ सम्भारान् पुरुष अवयवान् ऋते
तेषु यज्ञस्य पशव: सवनस्पतय: कुशा: ।
इदं च देवयजनं कालश्चोरुगुणान्वित: ॥ २४ ॥
तेषु यज्ञस्य पशवः स-वनस्पतयः कुशाः इदम् च देव-यजनम् कालः च उरु गुण-अन्वितः
वस्तून्योषधय: स्नेहा रसलोहमृदो जलम् ।
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २५ ॥
वस्तूनि ओषधयः स्नेहाः रस-लोह-मृदः जलम् ऋचः यजूंषि सामानि चातुः-होत्रम् च सत्तम
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।
देवतानुक्रम: कल्प: सङ्कल्पस्तन्त्रमेव च ॥ २६ ॥
नाम-धेयानि मन्त्राः च दक्षिणाः च व्रतानि च देवता-अनुक्रमः कल्पः सङ्कल्पः तन्त्रम् एव च
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् ।
पुरुषावयवैरेते सम्भारा: सम्भृता मया ॥ २७ ॥
गतयः मतयः च एव प्रायश्चित्तम् समर्पणम् पुरुष अवयवैः एते सम्भाराः सम्भृताः मया
इति सम्भृतसम्भार: पुरुषावयवैरहम् ।
तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २८ ॥
इति सम्भृत सम्भारः पुरुष अवयवैः अहम् तम् एव पुरुषम् यज्ञम् तेन एव अयजम् ईश्वरम्
ततस्ते भ्रातर इमे प्रजानां पतयो नव ।
अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिता: ॥ २९ ॥
ततः ते भ्रातरः इमे प्रजानाम् पतयः नव अयजन् व्यक्तम् अव्यक्तम् पुरुषम् सु-समाहिताः
ततश्च मनव: काले ईजिरे ऋषयोऽपरे ।
पितरो विबुधा दैत्या मनुष्या: क्रतुभिर्विभुम् ॥ ३० ॥
ततः च मनवः काले ईजिरे ऋषयः अपरे पितरः विबुधाः दैत्याः मनुष्याः क्रतुभिः विभुम्
नारायणे भगवति तदिदं विश्वमाहितम् ।
गृहीतमायोरुगुण: सर्गादावगुण: स्वत: ॥ ३१ ॥
नारायणे भगवति तत् इदम् विश्वम् आहितम् गृहीत माया उरु-गुणः सर्ग-आदौ अगुणः स्वतः
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वश: ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३२ ॥
सृजामि तत् नियुक्तः अहम् हरः हरति तत्-वशः विश्वम् पुरुष रूपेण परिपाति त्रि-शक्ति-धृक्
इति तेऽभिहितं तात यथेदमनुपृच्छसि ।
नान्यद्भगवत: किंचिद्भाव्यं सदसदात्मकम् ॥ ३३ ॥
इति ते अभिहितम् तात यथा इदम् अनुपृच्छसि न अन्यत् भगवतः किञ्चित् भाव्यम् सत् असत् आत्मकम्
न भारती मेऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन्मे मनसो मृषा गति: ।
न मे हृषीकाणि पतन्त्यसत्पथे
यन्मे हृदौत्कण्ठ्यवता धृतो हरि: ॥ ३४ ॥
न भारती मे अङ्ग मृषा उपलक्ष्यते न वै क्वचित् मे मनसः मृषा गतिः न मे हृषीकाणि पतन्ति असत्-पथे यत् मे हृदा औत्कण्ठ्यवता धृतः हरिः
सोऽहं समाम्नायमयस्तपोमय:
प्रजापतीनामभिवन्दित: पति: ।
आस्थाय योगं निपुणं समाहित-
स्तं नाध्यगच्छं यत आत्मसम्भव: ॥ ३५ ॥
सः अहम् समाम्नाय-मयः तपः-मयः प्रजापतीनाम् अभिवन्दितः पतिः आस्थाय योगम् निपुणम् समाहितः तम् न अध्यगच्छम् यतः आत्म सम्भवः
नतोऽस्म्यहं तच्चरणं समीयुषां
भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।
यो ह्यात्ममायाविभवं स्म पर्यगाद्
यथा नभ: स्वान्तमथापरे कुत: ॥ ३६ ॥
नतः अस्मि अहम् तत् चरणम् समीयुषाम् भवत्-छिदम् स्वस्ति-अयनम् सु-मङ्गलम् यः हि आत्म-माया विभवम् स्म पर्यगात् यथा नभः स्व-अन्तम् अथ अपरे कुतः
नाहं न यूयं यदृतां गतिं विदु-
र्न वामदेव: किमुतापरे सुरा: ।
तन्मायया मोहितबुद्धयस्त्विदं
विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३७ ॥
न अहम् न यूयम् यत् ऋताम् गतिम् विदुः न वामदेवः किम् उत अपरे सुराः तत् मायया मोहित बुद्धयः तु इदम् विनिर्मितम् च आत्म-समम् विचक्ष्महे
यस्यावतारकर्माणि गायन्ति ह्यस्मदादय: ।
न यं विदन्ति तत्त्वेन तस्मै भगवते नम: ॥ ३८ ॥
यस्य अवतार कर्माणि गायन्ति हि अस्मत्-आदयः न यम् विदन्ति तत्त्वेन तस्मै भगवते नमः
स एष आद्य: पुरुष: कल्पे कल्पे सृजत्यज: ।
आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ ३९ ॥
सः एषः आद्यः पुरुषः कल्पे कल्पे सृजति अजः आत्मा आत्मनि आत्मना आत्मानम् सः संयच्छति पाति च
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ४० ॥
ऋषे विदन्ति मुनय: प्रशान्तात्मेन्द्रियाशया: ।
यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४१ ॥
विशुद्धम् केवलम् ज्ञानम् प्रत्यक् सम्यक् अवस्थितम् सत्यम् पूर्णम् अनादि अन्तम् निर्गुणम् नित्यम् अद्वयम् ऋषे विदन्ति मुनयः प्रशान्त आत्म इन्द्रिय आशयाः यदा तत् एव असत् तर्कैः तिरः-धीयेत विप्लुतम्
आद्योऽवतार: पुरुष: परस्य
काल: स्वभाव: सदसन्मनश्च ।
द्रव्यं विकारो गुण इन्द्रियाणि
विराट् स्वराट् स्थास्नु चरिष्णु भूम्न: ॥ ४२ ॥
आद्यः अवतारः पुरुषः परस्य कालः स्वभावः सत् असत् मनः च द्रव्यम् विकारः गुणः इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः
अहं भवो यज्ञ इमे प्रजेशा
दक्षादयो ये भवदादयश्च ।
स्वर्लोकपाला: खगलोकपाला
नृलोकपालास्तललोकपाला: ॥ ४३ ॥
गन्धर्वविद्याधरचारणेशा
ये यक्षरक्षोरगनागनाथा: ।
ये वा ऋषीणामृषभा: पितृणां
दैत्येन्द्रसिद्धेश्वरदानवेन्द्रा: ।
अन्ये च ये प्रेतपिशाचभूत-
कूष्माण्डयादोमृगपक्ष्यधीशा: ॥ ४४ ॥
यत्किंच लोके भगवन्महस्व-
दोज:सहस्वद् बलवत् क्षमावत् ।
श्रीह्रीविभूत्यात्मवदद्भुतार्णं
तत्त्वं परं रूपवदस्वरूपम् ॥ ४५ ॥
अहम् भवः यज्ञः इमे प्रजा-ईशाः दक्ष-आदयः ये भवत् आदयः च स्वर्लोक-पालाः खगलोक-पालाः नृलोक-पालाः तललोक-पालाः गन्धर्व विद्याधर चारण-ईशाः ये यक्ष रक्ष उरग नाग-नाथाः ये वा ऋषीणाम् ऋषभाः पितॄणाम् दैत्य-इन्द्र सिद्ध-ईश्वर दानव-इन्द्राः अन्ये च ये प्रेत पिशाच भूत कूष्माण्ड यादः मृग पक्षि-अधीशाः यत् किम् च लोके भगवत् महस्वत् ओजः-सहस्वत् बलवत् क्षमावत् श्री ह्री विभूति आत्मवत् अद्भुत अर्णम् तत्त्वम् परम् रूपवत् अस्व-रूपम्
प्राधान्यतो यानृष आमनन्ति
लीलावतारान् पुरुषस्य भूम्न: ।
आपीयतां कर्णकषायशोषा-
ननुक्रमिष्ये त इमान् सुपेशान् ॥ ४६ ॥
प्राधान्यतः यान् ऋषे आमनन्ति लीला अवतारान् पुरुषस्य भूम्नः आपीयताम् कर्ण कषाय शोषान् अनुक्रमिष्ये ते इमान् सु-पेशान्
२.७
ब्रह्मोवाच
यत्रोद्यत: क्षितितलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकलयज्ञमयीमनन्त: ।
अन्तर्महार्णव उपागतमादिदैत्यं
तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १ ॥
ब्रह्मा उवाच यत्र उद्यतः क्षिति-तल उद्धरणाय बिभ्रत् क्रौडीम् तनुम् सकल यज्ञ-मयीम् अनन्तः अन्तर् महा-अर्णवे उपागतम् आदि दैत्यम् तम् दंष्ट्रया अद्रिम् इव वज्र-धरः ददार
जातो रुचेरजनयत् सुयमान् सुयज्ञ
आकूतिसूनुरमरानथ दक्षिणायाम् ।
लोकत्रयस्य महतीमहरद् यदार्तिं
स्वायम्भुवेन मनुना हरिरित्यनूक्त: ॥ २ ॥
जातः रुचेः अजनयत् सुयमान् सुयज्ञः आकूति-सूनुः अमरान् अथ दक्षिणायाम् लोक त्रयस्य महतीम् अहरत् यत् आर्तिम् स्वायम्भुवेन मनुना हरिः इति अनूक्तः
जज्ञे च कर्दमगृहे द्विज देवहूत्यां
स्त्रीभि: समं नवभिरात्मगतिं स्वमात्रे ।
ऊचे ययात्मशमलं गुणसङ्गपङ्क-
मस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥
जज्ञे च कर्दम गृहे द्विज देवहूत्याम् स्त्रीभिः समम् नवभिः आत्म-गतिम् स्व-मात्रे ऊचे यया आत्म-शमलम् गुण-सङ्ग पङ्कम् अस्मिन् विधूय कपिलस्य गतिम् प्रपेदे
अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो
दत्तो मयाहमिति यद् भगवान् स दत्त: ।
यत्पादपङ्कजपरागपवित्रदेहा
योगर्द्धिमापुरुभयीं यदुहैहयाद्या: ॥ ४ ॥
अत्रेः अपत्यम् अभिकाङ्क्षतः आह तुष्टः दत्तः मया अहम् इति यत् भगवान् सः दत्तः यत्-पाद पङ्कज पराग पवित्र देहाः योग ऋद्धिम् आपुः उभयीम् यदु हैहय-आद्याः
तप्तं तपो विविधलोकसिसृक्षया मे
आदौ सनात् स्वतपस: स चतु:सनोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं
सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥
तप्तम् तपः विविध-लोक सिसृक्षया मे आदौ सनात् स्व-तपसः सः चतुः-सनः अभूत् प्राक् कल्प सम्प्लव विनष्टम् इह आत्म तत्त्वम् सम्यक् जगाद मुनयः यत् अचक्षत आत्मन्
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां
नारायणो नर इति स्वतप:प्रभाव: ।
दृष्ट्वात्मनो भगवतो नियमावलोपं
देव्यस्त्वनङ्गपृतना घटितुं न शेकु: ॥ ६ ॥
धर्मस्य दक्ष दुहितरि अजनिष्ट मूर्त्याम् नारायणः नरः इति स्व-तपः प्रभावः दृष्ट्वा आत्मनः भगवतः नियम-अवलोपम् देव्यः तु अनङ्ग-पृतनाः घटितुम् न शेकुः
कामं दहन्ति कृतिनो ननु रोषदृष्टया
रोषं दहन्तमुत ते न दहन्त्यसह्यम् ।
सोऽयं यदन्तरमलं प्रविशन् बिभेति
काम: कथं नु पुनरस्य मन: श्रयेत ॥ ७ ॥
कामम् दहन्ति कृतिनः ननु रोष-दृष्ट्या रोषम् दहन्तम् उत ते न दहन्ति असह्यम् सः अयम् यत् अन्तरम् अलम् प्रविशन् बिभेति कामः कथम् नु पुनः अस्य मनः श्रयेत
विद्ध: सपत्न्युदितपत्रिभिरन्ति राज्ञो
बालोऽपि सन्नुपगतस्तपसे वनानि ।
तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो
दिव्या: स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
विद्धः सपत्नि उदित पत्रिभिः अन्ति राज्ञः बालः अपि सन् उपगतः तपसे वनानि तस्मै अदात् ध्रुव-गतिम् गृणते प्रसन्नः दिव्याः स्तुवन्ति मुनयः यत् उपरि अधस्तात्
यद्वेनमुत्पथगतं द्विजवाक्यवज्र-
निष्प्लुष्टपौरुषभगं निरये पतन्तम् ।
त्रात्वार्थितो जगति पुत्रपदं च लेभे
दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
यत् वेनम् उत्पथ-गतम् द्विज वाक्य वज्र निष्प्लुष्ट पौरुष भगम् निरये पतन्तम् त्रात्वा अर्थितः जगति पुत्र-पदम् च लेभे दुग्धा वसूनि वसुधा सकलानि येन
नाभेरसावृषभ आस सुदेविसूनु-
र्यो वै चचार समदृग् जडयोगचर्याम् ।
यत्पारमहंस्यमृषय: पदमामनन्ति
स्वस्थ: प्रशान्तकरण: परिमुक्तसङ्ग: ॥ १० ॥
नाभेः असौ ऋषभः आस सुदेवि सूनुः यः वै चचार सम-दृक् जड योग-चर्याम् यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति स्वस्थः प्रशान्त करणः परिमुक्त सङ्गः
सत्रे ममास भगवान् हयशीरषाथो
साक्षात् स यज्ञपुरुषस्तपनीयवर्ण: ।
छन्दोमयो मखमयोऽखिलदेवतात्मा
वाचो बभूवुरुशती: श्वसतोऽस्य नस्त: ॥ ११ ॥
सत्रे मम आस भगवान् हय-शीरषा अथ साक्षात् सः यज्ञ-पुरुषः तपनीय वर्णः छन्दः-मयः मख-मयः अखिल देवता-आत्मा वाचः बभूवुः उशतीः श्वसतः अस्य नस्तः
मत्स्यो युगान्तसमये मनुनोपलब्ध:
क्षोणीमयो निखिलजीवनिकायकेत: ।
विस्रंसितानुरुभये सलिले मुखान्मे
आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
मत्स्यः युग-अन्त समये मनुना उपलब्धः क्षोणीमयः निखिल जीव निकाय-केतः विस्रंसितान् उरु भये सलिले मुखात् मे आदाय तत्र विजहार ह वेद-मार्गान्
क्षीरोदधावमरदानवयूथपाना-
मुन्मथ्नताममृतलब्धय आदिदेव: ।
पृष्ठेन कच्छपवपुर्विदधार गोत्रं
निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डू: ॥ १३ ॥
क्षीर उदधौ अमर दानव यूथ-पानाम् उन्मथ्नताम् अमृत लब्धय आदि-देवः पृष्ठेन कच्छप वपुः विदधार गोत्रम् निद्राक्षणः अद्रि-परिवर्त कषाण कण्डूः
त्रैपिष्टपोरुभयहा स नृसिंहरूपं
कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् ।
दैत्येन्द्रमाशु गदयाभिपतन्तमारा-
दूरौ निपात्य विददार नखै: स्फुरन्तम् ॥ १४ ॥
त्रै-पिष्टप उरु-भय-हा सः नृसिंह-रूपम् कृत्वा भ्रमत् भ्रु-कुटि दंष्ट्र कराल वक्त्रम् दैत्य-इन्द्रम् आशु गदया अभिपतन्तम् आरात् ऊरौ निपात्य विददार नखैः स्फुरन्तम्
अन्त:सरस्युरुबलेन पदे गृहीतो
ग्राहेण यूथपतिरम्बुजहस्त आर्त: ।
आहेदमादिपुरुषाखिललोकनाथ
तीर्थश्रव: श्रवणमङ्गलनामधेय ॥ १५ ॥
अन्तः-सरसि उरु-बलेन पदे गृहीतः ग्राहेण यूथ-पतिः अम्बुज-हस्तः आर्तः आह इदम् आदि-पुरुष अखिल-लोक-नाथ तीर्थ-श्रवः श्रवण-मङ्गल नाम-धेय
श्रुत्वा हरिस्तमरणार्थिनमप्रमेय-
श्चक्रायुध: पतगराजभुजाधिरूढ: ।
चक्रेण नक्रवदनं विनिपाट्य तस्मा-
द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥
श्रुत्वा हरिः तम् अरण-अर्थिनम् अप्रमेयः चक्र आयुधः पतग-राज भुज-अधिरूढः चक्रेण नक्र-वदनम् विनिपाट्य तस्मात् हस्ते प्रगृह्य भगवान् कृपया उज्जहार
ज्यायान् गुणैरवरजोऽप्यदिते: सुतानां
लोकान् विचक्रम इमान् यदथाधियज्ञ: ।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन
याच्ञामृते पथि चरन् प्रभुभिर्न चाल्य: ॥ १७ ॥
ज्यायान् गुणैः अवरजः अपि अदितेः सुतानाम् लोकान् विचक्रमे इमान् यत् अथ अधियज्ञः क्ष्माम् वामनेन जगृहे त्रिपद छलेन याच्ञाम् ऋते पथि चरन् प्रभुभिः न चाल्यः
नार्थो बलेरयमुरुक्रमपादशौच-
माप: शिखाधृतवतो विबुधाधिपत्यम् ।
यो वै प्रतिश्रुतमृते न चिकीर्षदन्य-
दात्मानमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥
न अर्थः बलेः अयम् उरुक्रम-पाद-शौचम् आपः शिखा-धृतवतः विबुध-अधिपत्यम् यः वै प्रतिश्रुतम् ऋते न चिकीर्षत् अन्यत् आत्मानम् अङ्ग मनसा हरये अभिमेने
तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधुपरितुष्ट उवाच योगम् ।
ज्ञानं च भागवतमात्मसतत्त्वदीपं
यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
तुभ्यम् च नारद भृशम् भगवान् विवृद्ध भावेन साधु परितुष्टः उवाच योगम् ज्ञानम् च भागवतम् आत्म स-तत्त्व दीपम् यत् वासुदेव-शरणाः विदुः अञ्जसा एव
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो
मन्वन्तरेषु मनुवंशधरो बिभर्ति ।
दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं
सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रै: ॥ २० ॥
चक्रम् च दिक्षु अविहतम् दशसु स्व-तेजः मन्वन्तरेषु मनु-वंश-धरः बिभर्ति दुष्टेषु राजसु दमम् व्यदधात् स्व-कीर्तिम् सत्ये त्रि-पृष्ठे उशतीम् प्रथयन् चरित्रैः
धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति-
र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवावरुन्ध
आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥
धन्वन्तरिः च भगवान् स्वयम् एव कीर्तिः नाम्ना नृणाम् पुरु-रुजाम् रुजः आशु हन्ति यज्ञे च भागम् अमृत आयुः अव अवरुन्धे आयुष्य वेदम् अनुशास्ति अवतीर्य लोके
क्षत्रं क्षयाय विधिनोपभृतं महात्मा
ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।
उद्धन्त्यसाववनिकण्टकमुग्रवीर्य-
स्त्रि:सप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥
क्षत्रम् क्षयाय विधिना उपभृतम् महात्मा ब्रह्म-ध्रुक् उज्झित-पथम् नरक-आर्ति-लिप्सु उद्धन्ति असौ अवनिकण्टकम् उग्र-वीर्यः त्रिः-सप्त कृत्वः उरुधार परश्वधेन
अस्मत्प्रसादसुमुख: कलया कलेश
इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।
तिष्ठन् वनं सदयितानुज आविवेश
यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
अस्मत् प्रसाद सुमुखः कलया कलेशः इक्ष्वाकु वंशे अवतीर्य गुरोः निदेशे तिष्ठन् वनम् स-दयिता-अनुजः आविवेश यस्मिन् विरुध्य दश-कन्धरः आर्तिम् आर्च्छत्
यस्मा अदादुदधिरूढभयाङ्गवेपो
मार्गं सपद्यरिपुरं हरवद् दिधक्षो: ।
दूरे सुहृन्मथितरोषसुशोणदृष्टया
तातप्यमानमकरोरगनक्रचक्र: ॥ २४ ॥
यस्मै अदात् उदधिः ऊढ-भय अङ्ग-वेपः मार्गम् सपदि अरि-पुरम् हर-वत् दिधक्षोः दूरे सु-हृत् मथित रोष सु-शोण दृष्ट्या तातप्यमान मकर उरग नक्र चक्रः
वक्ष:स्थलस्पर्शरुग्नमहेन्द्रवाह-
दन्तैर्विडम्बितककुब्जुष ऊढहासम् ।
सद्योऽसुभि: सह विनेष्यति दारहर्तु-
र्विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥ २५ ॥
वक्षः-स्थल स्पर्श रुग्न महा-इन्द्र वाह दन्तैः विडम्बित ककुप्-जुषः ऊढ-हासम् सद्यः असुभिः सह विनेष्यति दार-हर्तुः विस्फूर्जितैः धनुषः उच्चरतः अधिसैन्ये
भूमे: सुरेतरवरूथविमर्दिताया:
क्लेशव्ययाय कलया सितकृष्णकेश: ।
जात: करिष्यति जनानुपलक्ष्यमार्ग:
कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥
भूमेः सुर-इतर वरूथ विमर्दितायाः क्लेश व्ययाय कलया सित-कृष्ण केशः जातः करिष्यति जन अनुपलक्ष्य मार्गः कर्माणि च आत्म-महिमा उपनिबन्धनानि
तोकेन जीवहरणं यदुलूकिकाया-
स्त्रैमासिकस्य च पदा शकटोऽपवृत्त: ।
यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा
उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ २७ ॥
तोकेन जीव-हरणम् यत् उलूकि-कायाः त्रै-मासिकस्य च पदा शकटः अपवृत्तः यत् रिङ्गता अन्तर-गतेन दिवि स्पृशोः वा उन्मूलनम् तु इतरथा अर्जुनयोः न भाव्यम्
यद् वै व्रजे व्रजपशून् विषतोयपीतान्
पालांस्त्वजीवयदनुग्रहदृष्टिवृष्टया ।
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व-
मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥
यत् वै व्रजे व्रज-पशून् विष-तोय पीतान् पालान् तु अजीवयत् अनुग्रह-दृष्टि वृष्ट्या तत् शुद्धये अति विष-वीर्य विलोल जिह्वम् उच्चाटयिष्यत् उरगम् विहरन् ह्रदिन्याम्
तत् कर्म दिव्यमिव यन्निशि नि:शयानं
दावाग्निना शुचिवने परिदह्यमाने ।
उन्नेष्यति व्रजमतोऽवसितान्तकालं
नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्य: ॥ २९ ॥
तत् कर्म दिव्यम् इव यत् निशि निःशयानम् दाव-अग्निना शुचि-वने परिदह्यमाने उन्नेष्यति व्रजम् अतः अवसित अन्त-कालम् नेत्रे पिधाप्य स-बलः अनधिगम्य वीर्यः
गृह्णीत यद् यदुपबन्धममुष्य माता
शुल्बं सुतस्य न तु तत् तदमुष्य माति ।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी
संवीक्ष्य शङ्कितमना: प्रतिबोधितासीत् ॥ ३० ॥
गृह्णीत यत् यत् उपबन्धम् अमुष्य माता शुल्बम् सुतस्य न तु तत् तत् अमुष्य माति यत् जृम्भतः अस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कित-मनाः प्रतिबोधिता आसीत्
नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद्
गोपान् बिलेषु पिहितान् मयसूनुना च ।
अह्न्यापृतं निशि शयानमतिश्रमेण
लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥ ३१ ॥
नन्दम् च मोक्ष्यति भयात् वरुणस्य पाशात् गोपान् बिलेषु पिहितान् मय-सूनुना च अह्नि आपृतम् निशि शयानम् अतिश्रमेण लोकम् विकुण्ठम् उपनेष्यति गोकुलम् स्म
गोपैर्मखे प्रतिहते व्रजविप्लवाय
देवेऽभिवर्षति पशून् कृपया रिरक्षु: ।
धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त-
वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥
गोपैः मखे प्रतिहते व्रज-विप्लवाय देवे अभिवर्षति पशून् कृपया रिरक्षुः धर्त उच्छिलीन्ध्रम् इव सप्त-दिनानि सप्त-वर्षः महीध्रम् अनघ एक-करे सलीलम्
क्रीडन् वने निशि निशाकररश्मिगौर्यां
रासोन्मुख: कलपदायतमूर्च्छितेन ।
उद्दीपितस्मररुजां व्रजभृद्वधूनां
हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
क्रीडन् वने निशि निशाकर रश्मि-गौर्याम् रास-उन्मुखः कल-पदायत मूर्च्छितेन उद्दीपित स्मर-रुजाम् व्रज-भृत् वधूनाम् हर्तुः हरिष्यति शिरः धनद-अनुगस्य
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-
मल्लेभकंसयवना: कपिपौण्ड्रकाद्या: ।
अन्ये च शाल्वकुजबल्वलदन्तवक्र-
सप्तोक्षशम्बरविदूरथरुक्मिमुख्या: ॥ ३४ ॥
ये वा मृधे समितिशालिन आत्तचापा:
काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्या: ।
यास्यन्त्यदर्शनमलं बलपार्थभीम-
व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥
ये च प्रलम्ब खर दर्दुर केशी अरिष्ट मल्ल इभ कंस यवनाः कपि पौण्ड्रक-आद्याः अन्ये च शाल्व कुज बल्वल दन्तवक्र सप्तोक्ष शम्बर विदूरथ रुक्मि-मुख्याः ये वा मृधे समिति-शालिनः आत्त-चापाः काम्बोज मत्स्य कुरु सृञ्जय कैकय-आद्याः यास्यन्ति अदर्शनम् अलम् बल पार्थ भीम व्याज-आह्वयेन हरिणा निलयम् तदीयम्
कालेन मीलितधियामवमृश्य नृणां
स्तोकायुषां स्वनिगमो बत दूरपार: ।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां
वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
कालेन मीलित-धियाम् अवमृश्य नॄणाम् स्तोक-आयुषाम् स्व-निगमः बत दूर-पारः आविर्हितः तु अनुयुगम् सः हि सत्यवत्याम् वेद-द्रुमम् विट-पशः विभजिष्यति स्म
देवद्विषां निगमवर्त्मनि निष्ठितानां
पूर्भिर्मयेन विहिताभिरदृश्यतूर्भि: ।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं
वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥
देव-द्विषाम् निगम वर्त्मनि निष्ठितानाम् पूर्भिः मयेन विहिताभिः अदृश्य-तूर्भिः लोकान् घ्नताम् मति-विमोहम् अतिप्रलोभम् वेषम् विधाय बहु भाष्यते औपधर्म्यम्
यर्ह्यालयेष्वपि सतां न हरे: कथा: स्यु:
पाषण्डिनो द्विजजना वृषला नृदेवा: ।
स्वाहा स्वधा वषडिति स्म गिरो न यत्र
शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८ ॥
यर्हि आलयेषु अपि सताम् न हरेः कथाः स्युः पाषण्डिनः द्विज-जनाः वृषलाः नृ-देवाः स्वाहा स्वधा वषट् इति स्म गिरः न यत्र शास्ता भविष्यति कलेः भगवान् युग-अन्ते
सर्गे तपोऽहमृषयो नव ये प्रजेशा:
स्थानेऽथ धर्ममखमन्वमरावनीशा: ।
अन्ते त्वधर्महरमन्युवशासुराद्या
मायाविभूतय इमा: पुरुशक्तिभाज: ॥ ३९ ॥
सर्गे तपः अहम् ऋषयः नव ये प्रजेशाः स्थाने अथ धर्म मख मनु अमर अवनीशाः अन्ते तु अधर्म हर मन्यु-वश असुर-आद्याः माया विभूतयः इमाः पुरु-शक्ति-भाजः
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह
य: पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ य: स्वरहसास्खलता त्रिपृष्ठं
यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ ४० ॥
विष्णोः नु वीर्य गणनाम् कतमः अर्हति इह यः पार्थिवानि अपि कविः विममे रजांसि चस्कम्भ यः स्व-रहसा अस्खलता त्रि-पृष्ठम् यस्मात् त्रि-साम्य सदनात् उरु-कम्पयानम्
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते
मायाबलस्य पुरुषस्य कुतोऽवरा ये ।
गायन् गुणान् दशशतानन आदिदेव:
शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥
न अन्तम् विदामि अहम् अमी मुनयः अग्र-जाः ते माया-बलस्य पुरुषस्य कुतः अवराः ये गायन् गुणान् दश-शत-आननः आदि-देवः शेषः अधुना अपि समवस्यति न अस्य पारम्
येषां स एष भगवान् दययेदनन्त:
सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ।
ते दुस्तरामतितरन्ति च देवमायां
नैषां ममाहमिति धी: श्वशृगालभक्ष्ये ॥ ४२ ॥
येषाम् सः एषः भगवान् दययेत् अनन्तः सर्व-आत्मना आश्रित-पदः यदि निर्व्यलीकम् ते दुस्तराम् अतितरन्ति च देव-मायाम् न एषाम् मम अहम् इति धीः श्व शृगाल भक्ष्ये
वेदाहमङ्ग परमस्य हि योगमायां
यूयं भवश्च भगवानथ दैत्यवर्य: ।
पत्नी मनो: स च मनुश्च तदात्मजाश्च
प्राचीनबर्हिर्ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि-
रघ्वम्बरीषसगरा गयनाहुषाद्या: ।
मान्धात्रलर्कशतधन्वनुरन्तिदेवा
देवव्रतो बलिरमूर्त्तरयो दिलीप: ॥ ४४ ॥
सौभर्युतङ्कशिबिदेवलपिप्पलाद-
सारस्वतोद्धवपराशरभूरिषेणा: ।
येऽन्ये विभीषणहनूमदुपेन्द्रदत्त-
पार्थार्ष्टिषेणविदुरश्रुतदेववर्या: ॥ ४५ ॥
वेद अहम् अङ्ग परमस्य हि योग-मायाम् यूयम् भवः च भगवान् अथ दैत्य-वर्यः पत्नी मनोः सः च मनुः च तत्-आत्म-जाः च प्राचीनबर्हिः ऋभुः अङ्गः उत ध्रुवः च इक्ष्वाकुः ऐल मुचुकुन्द विदेह गाधि रघु अम्बरीष सगराः गय नाहुष आद्याः मान्धातृ अलर्क शतधनु अनु रन्तिदेवाः देवव्रतः बलिः अमूर्त्तरयः दिलीपः सौभरि उतङ्क शिबि देवल पिप्पलाद सारस्वत उद्धव पराशर भूरिषेणाः ये अन्ये विभीषण हनूमत् उपेन्द्र-दत्त पार्थ आर्ष्टिषेण विदुर श्रुतदेव वर्याः
ते वै विदन्त्यतितरन्ति च देवमायां
स्त्रीशूद्रहूणशबरा अपि पापजीवा: ।
यद्यद्भुतक्रमपरायणशीलशिक्षा-
स्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
ते वै विदन्ति अतितरन्ति च देव-मायाम् स्त्री शूद्र हूण शबराः अपि पाप-जीवाः यदि अद्भुत-क्रम परायण शील शिक्षाः तिर्यक्-जनाः अपि किम् उ श्रुत-धारणाः ये
शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं
शुद्धं समं सदसत: परमात्मतत्त्वम् ।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो
माया परैत्यभिमुखे च विलज्जमाना
तद् वै पदं भगवत: परमस्य पुंसो
ब्रह्मेति यद् विदुरजस्रसुखं विशोकम् ॥ ४७ ॥
शश्वत् प्रशान्तम् अभयम् प्रतिबोध-मात्रम् शुद्धम् समम् सत्-असतः परमात्म-तत्त्वम् शब्दः न यत्र पुरु-कारकवान् क्रिया-अर्थः माया परैति अभिमुखे च विलज्जमाना तत् वै पदम् भगवतः परमस्य पुंसः ब्रह्म इति यत् विदुः अजस्र सुखम् विशोकम्
सध्रयङ् नियम्य यतयो यमकर्तहेतिं ।
जह्यु: स्वराडिव निपानखनित्रमिन्द्र: ॥ ४८ ॥
सध्र्यक् नियम्य यतयः यम-कर्त-हेतिम् जह्युः स्वराट् इव निपान खनित्रम् इन्द्रः
स श्रेयसामपि विभुर्भगवान् यतोऽस्य
भावस्वभावविहितस्य सत: प्रसिद्धि: ।
देहे स्वधातुविगमेऽनुविशीर्यमाणे
व्योमेव तत्र पुरुषो न विशीर्यतेऽज: ॥ ४९ ॥
सः श्रेयसाम् अपि विभुः भगवान् यतः अस्य भाव स्व-भाव विहितस्य सतः प्रसिद्धिः देहे स्व-धातु विगमे अनु विशीर्यमाणे व्योम इव तत्र पुरुषः न विशीर्यते अजः
सोऽयं तेऽभिहितस्तात भगवान् विश्वभावन: ।
समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ॥ ५० ॥
सः अयम् ते अभिहितः तात भगवान् विश्व-भावनः समासेन हरेः न अन्यत् अन्यस्मात् सत् असत् च यत्
इदं भागवतं नाम यन्मे भगवतोदितम् ।
संग्रहोऽयं विभूतीनां त्वमेतद् विपुलीकुरु ॥ ५१ ॥
इदम् भागवतम् नाम यत् मे भगवता उदितम् सङ्ग्रहः अयम् विभूतीनाम् त्वम् एतत् विपुली कुरु
यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥
यथा हरौ भगवति नृणाम् भक्तिः भविष्यति सर्व-आत्मनि अखिल-आधारे इति सङ्कल्प्य वर्णय
मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदत: ।
शृण्वत: श्रद्धया नित्यं माययात्मा न मुह्यति ॥ ५३ ॥
मायाम् वर्णयतः अमुष्य ईश्वरस्य अनुमोदतः शृण्वतः श्रद्धया नित्यम् मायया आत्मा न मुह्यति
२.८
राजोवाच
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च ।
यस्मै यस्मै यथा प्राह नारदो देवदर्शन: ॥ १ ॥
राजा उवाच ब्रह्मणा चोदितः ब्रह्मन् गुण-आख्याने अगुणस्य च यस्मै यस्मै यथा प्राह नारदः देव-दर्शनः
एतद् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर ।
हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गला: ॥ २ ॥
एतत् वेदितुम् इच्छामि तत्त्वम् तत्त्व-विदाम् वर हरेः अद्भुत-वीर्यस्य कथाः लोक सु-मङ्गलाः
कथयस्व महाभाग यथाहमखिलात्मनि ।
कृष्णे निवेश्य नि:सङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥
कथयस्व महाभाग यथा अहम् अखिल-आत्मनि कृष्णे निवेश्य निःसङ्गम् मनः त्यक्ष्ये कलेवरम्
शृण्वत: श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।
कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ ४ ॥
शृण्वतः श्रद्धया नित्यम् गृणतः च स्व-चेष्टितम् कालेन न अति-दीर्घेण भगवान् विशते हृदि
प्रविष्ट: कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।
धुनोति शमलं कृष्ण: सलिलस्य यथा शरत् ॥ ५ ॥
प्रविष्टः कर्ण-रन्ध्रेण स्वानाम् भाव सरः-रुहम् धुनोति शमलम् कृष्णः सलिलस्य यथा शरत्
धौतात्मा पुरुष: कृष्णपादमूलं न मुञ्चति ।
मुक्त सर्वपरिक्लेश: पान्थ: स्वशरणं यथा ॥ ६ ॥
धौत-आत्मा पुरुषः कृष्ण पाद-मूलम् न मुञ्चति मुक्त सर्व परिक्लेशः पान्थः स्व-शरणम् यथा
यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभि: ।
यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥
यत् अधातु-मतः ब्रह्मन् देह आरम्भः अस्य धातुभिः यदृच्छया हेतुना वा भवन्तः जानते यथा
आसीत् यत्-उदरात् पद्मम् लोक संस्थान लक्षणम् यावान् अयम् वै पुरुषः इयत्ता अवयवैः पृथक् तावान् असौ इति प्रोक्तः संस्था अवयववान् इव
अज: सृजति भूतानि भूतात्मा यदनुग्रहात् ।
ददृशे येन तद्रूपं नाभिपद्मसमुद्भव: ॥ ९ ॥
अजः सृजति भूतानि भूत-आत्मा यत् अनुग्रहात् ददृशे येन तत्-रूपम् नाभि पद्म समुद्भवः
स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्यय: ।
मुक्त्वात्ममायां मायेश: शेते सर्वगुहाशय: ॥ १० ॥
सः च अपि यत्र पुरुषः विश्व स्थिति उद्भव अप्ययः मुक्त्वा आत्म-मायाम् माया-ईशः शेते सर्व-गुहा-शयः
पुरुषावयवैर्लोका: सपाला: पूर्वकल्पिता: ।
लोकैरमुष्यावयवा: सपालैरिति शुश्रुम ॥ ११ ॥
पुरुष अवयवैः लोकाः स-पालाः पूर्व कल्पिताः लोकैः अमुष्य अवयवाः स-पालैः इति शुश्रुम
यावान् कल्पोविकल्पो वा यथा कालोऽनुमीयते ।
भूतभव्यभवच्छब्द आयुर्मानं च यत् सत: ॥ १२ ॥
यावान् कल्पः विकल्पः वा यथा कालः अनुमीयते भूत भव्य भवत् शब्दः आयुः मानम् च यत् सतः
कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि ।
यावत्य: कर्मगतयो यादृशीर्द्विजसत्तम ॥ १३ ॥
कालस्य अनुगतिः या तु लक्ष्यते अण्वी बृहती अपि यावत्यः कर्म-गतयः यादृशीः द्विज-सत्तम
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते ।
गुणानां गुणिनां चैव परिणाममभीप्सताम् ॥ १४ ॥
यस्मिन् कर्म समावायः यथा येन उपगृह्यते गुणानाम् गुणिनाम् च एव परिणामम् अभीप्सताम्
भूपातालककुब्व्योमग्रहनक्षत्रभूभृताम् ।
सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५ ॥
भू-पाताल ककुप् व्योम ग्रह नक्षत्र भूभृताम् सरित् समुद्र द्वीपानाम् सम्भवः च एतत् ओकसाम्
प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदत: ।
महतां चानुचरितं वर्णाश्रमविनिश्चय: ॥ १६ ॥
प्रमाणम् अण्ड-कोशस्य बाह्य अभ्यन्तर भेदतः महताम् च अनुचरितम् वर्ण आश्रम विनिश्चयः
युगानि युगमानं च धर्मो यश्च युगे युगे ।
अवतारानुचरितं यदाश्चर्यतमं हरे: ॥ १७ ॥
युगानि युग-मानम् च धर्मः यः च युगे युगे अवतार अनुचरितम् यत् आश्चर्यतमम् हरेः
नृणां साधारणो धर्म: सविशेषश्च यादृश: ।
श्रेणीनां राजर्षीणां च धर्म: कृच्छ्रेषु जीवताम् ॥ १८ ॥
नृणाम् साधारणः धर्मः स-विशेषः च यादृशः श्रेणीनाम् राजर्षीणाम् च धर्मः कृच्छ्रेषु जीवताम्
तत्त्वानां परिसंख्यानं लक्षणं हेतुलक्षणम् ।
पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥ १९ ॥
तत्त्वानाम् परिसङ्ख्यानम् लक्षणम् हेतु-लक्षणम् पुरुष आराधन विधिः योगस्य अध्यात्मिकस्य च
योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् ।
वेदोपवेदधर्माणामितिहासपुराणयो: ॥ २० ॥
योग-ईश्वर ऐश्वर्य गतिः लिङ्ग भङ्गः तु योगिनाम् वेद उपवेद धर्माणाम् इतिहास पुराणयोः
सम्प्लव: सर्वभूतानां विक्रम: प्रतिसंक्रम: ।
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधि: ॥ २१ ॥
सम्प्लवः सर्व-भूतानाम् विक्रमः प्रतिसङ्क्रमः इष्टा पूर्तस्य काम्यानाम् त्रि-वर्गस्य च यः विधिः
यो वानुशायिनां सर्ग: पाषण्डस्य च सम्भव: ।
आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपत: ॥ २२ ॥
यः वा अनुशायिनाम् सर्गः पाषण्डस्य च सम्भवः आत्मनः बन्ध मोक्षौ च व्यवस्थानम् स्व-रूपतः
यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया ।
विसृज्य वा यथा मायामुदास्ते साक्षिवद् विभु: ॥ २३ ॥
यथा आत्म-तन्त्रः भगवान् विक्रीडति आत्म-मायया विसृज्य वा यथा मायाम् उदास्ते साक्षिवत् विभुः
सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वश: ।
तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥
सर्वम् एतत् च भगवन् पृच्छतः मे अनुपूर्वशः तत्त्वतः अर्हसि उदाहर्तुम् प्रपन्नाय महा-मुने
अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभू: ।
अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजै: कृतम् ॥ २५ ॥
अत्र प्रमाणम् हि भवान् परमेष्ठी यथा आत्म-भूः अपरे च अनुतिष्ठन्ति पूर्वेषाम् पूर्व-जैः कृतम्
न मेऽसव: परायन्ति ब्रह्मन्ननशनादमी ।
पिबतोऽच्युतपीयूषम् तद्वाक्याब्धिविनि:सृतम् ॥ २६ ॥
न मे असवः परायन्ति ब्रह्मन् अनशनात् अमी पिबतः अच्युत पीयूषम् तत् वाक्य-अब्धि विनिःसृतम्
सूत उवाच
स उपामन्त्रितो राज्ञा कथायामिति सत्पते: ।
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥
सूतः उवाच सः उपामन्त्रितः राज्ञा कथायाम् इति सत्-पतेः ब्रह्म-रातः भृशम् प्रीतः विष्णु-रातेन संसदि
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥
प्राह भागवतम् नाम पुराणम् ब्रह्म-सम्मितम् ब्रह्मणे भगवत्-प्रोक्तम् ब्रह्म-कल्पे उपागते
यद् यत् परीक्षिदृषभ: पाण्डूनामनुपृच्छति ।
आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥ २९ ॥
यत् यत् परीक्षित् ऋषभः पाण्डूनाम् अनुपृच्छति आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे
२.९
श्रीशुक उवाच
आत्ममायामृते राजन् परस्यानुभवात्मन: ।
न घटेतार्थसम्बन्ध: स्वप्नद्रष्टुरिवाञ्जसा ॥ १ ॥
श्री-शुकः उवाच आत्म मायाम् ऋते राजन् परस्य अनुभव-आत्मनः न घटेत अर्थ सम्बन्धः स्वप्न द्रष्टुः इव अञ्जसा
बहुरूप इवाभाति मायया बहुरूपया ।
रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥
बहु-रूपः इव आभाति मायया बहु-रूपया रममाणः गुणेषु अस्याः मम अहम् इति मन्यते
यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययो: ।
रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥
यर्हि वाव महिम्नि स्वे परस्मिन् काल माययोः रमेत गत-सम्मोहः त्यक्त्वा उदास्ते तदा उभयम्
आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् ।
ब्रह्मणे दर्शयन् रूपमव्यलीकव्रतादृत: ॥ ४ ॥
आत्म-तत्त्व विशुद्धि अर्थम् यत् आह भगवान् ऋतम् ब्रह्मणे दर्शयन् रूपम् अव्यलीक व्रत आदृतः
स आदिदेवो जगतां परो गुरु:
स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत ।
तां नाध्यगच्छद् दृशमत्र सम्मतां
प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५ ॥
सः आदि-देवः जगताम् परः गुरुः स्वधिष्ण्यम् आस्थाय सिसृक्षया ऐक्षत ताम् न अध्यगच्छत् दृशम् अत्र सम्मताम् प्रपञ्च निर्माण विधिः यया भवेत्
स चिन्तयन् द्वयक्षरमेकदाम्भ-
स्युपाशृणोद् द्विर्गदितं वचो विभु: ।
स्पर्शेषु यत्षोडशमेकविंशं
निष्किञ्चनानां नृप यद् धनं विदु: ॥ ६ ॥
सः चिन्तयन् द्वि अक्षरम् एकदा अम्भसि उपाशृणोत् द्विः गदितम् वचः विभुः स्पर्शेषु यत् षोडशम् एकविंशम् निष्किञ्चनानाम् नृप यत् धनम् विदुः
निशम्य तद्वक्तृदिदृक्षया दिशो
विलोक्य तत्रान्यदपश्यमान: ।
स्वधिष्ण्यमास्थाय विमृश्य तद्धितं
तपस्युपादिष्ट इवादधे मन: ॥ ७ ॥
निशम्य तत् वक्तृ दिदृक्षया दिशः विलोक्य तत्र अन्यत् अपश्यमानः स्वधिष्ण्यम् आस्थाय विमृश्य तत् हितम् तपसि उपादिष्टः इव आदधे मनः
दिव्यं सहस्राब्दममोघदर्शनो
जितानिलात्मा विजितोभयेन्द्रिय: ।
अतप्यत स्माखिललोकतापनं
तपस्तपीयांस्तपतां समाहित: ॥ ८ ॥
दिव्यम् सहस्र अब्दम् अमोघ दर्शनः जित अनिल आत्मा विजित उभय इन्द्रियः अतप्यत स्म अखिल लोक तापनम् तपः तपीयान् तपताम् समाहितः
तस्मै स्वलोकं भगवान् सभाजित:
सन्दर्शयामास परं न यत्परम् ।
व्यपेतसंक्लेशविमोहसाध्वसं
स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ ९ ॥
तस्मै स्व-लोकम् भगवान् सभाजितः सन्दर्शयाम् आस परम् न यत् परम् व्यपेत सङ्क्लेश विमोह साध्वसम् स्व-दृष्ट-वद्भिः पुरुषैः अभिष्टुतम्
प्रवर्तते यत्र रजस्तमस्तयो:
सत्त्वं च मिश्रं न च कालविक्रम: ।
न यत्र माया किमुतापरे हरे-
रनुव्रता यत्र सुरासुरार्चिता: ॥ १० ॥
प्रवर्तते यत्र रजः तमः तयोः सत्त्वम् च मिश्रम् न च काल विक्रमः न यत्र माया किम् उत अपरे हरेः अनुव्रताः यत्र सुर असुर अर्चिताः
श्यामावदाता: शतपत्रलोचना:
पिशङ्गवस्त्रा: सुरुच: सुपेशस: ।
सर्वे चतुर्बाहव उन्मिषन्मणि-
प्रवेकनिष्काभरणा: सुवर्चस: ॥ ११ ॥
श्याम अवदाताः शत-पत्र लोचनाः पिशङ्ग वस्त्राः सु-रुचः सु-पेशसः सर्वे चतुः बाहवः उन्मिषन् मणि प्रवेक निष्क-आभरणाः सु-वर्चसः
प्रवालवैदूर्यमृणालवर्चस: ।
परिस्फुरत्कुण्डलमौलिमालिन: ॥ १२ ॥
प्रवाल वैदूर्य मृणाल वर्चसः परिस्फुरत् कुण्डल मौलि मालिनः
भ्राजिष्णुभिर्य: परितो विराजते
लसद्विमानावलिभिर्महात्मनाम् ।
विद्योतमान: प्रमदोत्तमाद्युभि:
सविद्युदभ्रावलिभिर्यथा नभ: ॥ १३ ॥
भ्राजिष्णुभिः यः परितः विराजते लसत् विमान अवलिभिः महा-आत्मनाम् विद्योतमानः प्रमद उत्तम अद्युभिः स-विद्युत् अभ्रावलिभिः यथा नभः
श्रीर्यत्र रूपिण्युरुगायपादयो:
करोति मानं बहुधा विभूतिभि: ।
प्रेङ्खं श्रिता या कुसुमाकरानुगै-
र्विगीयमाना प्रियकर्म गायती ॥ १४ ॥
श्रीः यत्र रूपिणी उरुगाय पादयोः करोति मानम् बहुधा विभूतिभिः प्रेङ्खम् श्रिता या कुसुमाकर अनुगैः विगीयमाना प्रिय-कर्म गायती
ददर्श तत्राखिलसात्वतां पतिं
श्रिय: पतिं यज्ञपतिं जगत्पतिम् ।
सुनन्दनन्दप्रबलार्हणादिभि:
स्वपार्षदाग्रै: परिसेवितं विभुम् ॥ १५ ॥
ददर्श तत्र अखिल सात्वताम् पतिम् श्रियः पतिम् यज्ञ पतिम् जगत् पतिम् सुनन्द नन्द प्रबल अर्हण आदिभिः स्व-पार्षद अग्रैः परिसेवितम् विभुम्
भृत्यप्रसादाभिमुखं दृगासवं
प्रसन्नहासारुणलोचनाननम् ।
किरीटिनं कुण्डलिनं चतुर्भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया ॥ १६ ॥
भृत्य प्रसाद अभिमुखम् दृक् आसवम् प्रसन्न हास अरुण लोचन आननम् किरीटिनम् कुण्डलिनम् चतुः-भुजम् पीत अंशुकम् वक्षसि लक्षितम् श्रिया
अध्यर्हणीयासनमास्थितं परं
वृतं चतु:षोडशपञ्चशक्तिभि: ।
युक्तं भगै: स्वैरितरत्र चाध्रुवै:
स्व एव धामन् रममाणमीश्वरम् ॥ १७ ॥
अध्यर्हणीय आसनम् आस्थितम् परम् वृतम् चतुः षोडश पञ्च शक्तिभिः युक्तम् भगैः स्वैः इतरत्र च अध्रुवैः स्वे एव धामन् रममाणम् ईश्वरम्
तद्दर्शनाह्लादपरिप्लुतान्तरो
हृष्यत्तनु: प्रेमभराश्रुलोचन: ।
ननाम पादाम्बुजमस्य विश्वसृग्
यत् पारमहंस्येन पथाधिगम्यते ॥ १८ ॥
तत् दर्शन आह्लाद परिप्लुत अन्तरः हृष्यत् तनुः प्रेम-भर अश्रु लोचनः ननाम पाद-अम्बुजम् अस्य विश्व-सृक् यत् पारमहंस्येन पथा अधिगम्यते
तं प्रीयमाणं समुपस्थितं कविं
प्रजाविसर्गे निजशासनार्हणम् ।
बभाष ईषत्स्मितशोचिषा गिरा
प्रिय: प्रियं प्रीतमना: करे स्पृशन् ॥ १९ ॥
तम् प्रीयमाणम् समुपस्थितम् कविम् प्रजा विसर्गे निज शासन अर्हणम् बभाषे ईषत् स्मित शोचिषा गिरा प्रियः प्रियम् प्रीत-मनाः करे स्पृशन्
श्रीभगवानुवाच
त्वयाहं तोषित: सम्यग् वेदगर्भ सिसृक्षया ।
चिरं भृतेन तपसा दुस्तोष: कूटयोगिनाम् ॥ २० ॥
श्री-भगवान् उवाच त्वया अहम् तोषितः सम्यक् वेद-गर्भ सिसृक्षया चिरम् भृतेन तपसा दुस्तोषः कूट-योगिनाम्
वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् ।
ब्रह्मञ्छ्रेय:परिश्राम: पुंसां मद्दर्शनावधि: ॥ २१ ॥
वरम् वरय भद्रम् ते वर-ईशम् अभिवाञ्छितम् ब्रह्मन् श्रेयः परिश्रामः पुंसाम् मत् दर्शन अवधिः
मनीषितानुभावोऽयं मम लोकावलोकनम् ।
यदुपश्रुत्य रहसि चकर्थ परमं तप: ॥ २२ ॥
मनीषित अनुभावः अयम् मम लोक अवलोकनम् यत् उपश्रुत्य रहसि चकर्थ परमम् तपः
प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
तपो मे हृदयं साक्षादात्माहं तपसोऽनघ ॥ २३ ॥
प्रत्यादिष्टम् मया तत्र त्वयि कर्म विमोहिते तपः मे हृदयम् साक्षात् आत्मा अहम् तपसः अनघ
सृजामि तपसैवेदं ग्रसामि तपसा पुन: ।
बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तप: ॥ २४ ॥
सृजामि तपसा एव इदम् ग्रसामि तपसा पुनः बिभर्मि तपसा विश्वम् वीर्यम् मे दुश्चरम् तपः
ब्रह्मोवाच
भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् ।
वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २५ ॥
ब्रह्मा उवाच भगवन् सर्व-भूतानाम् अध्यक्षः अवस्थितः गुहाम् वेद हि अप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम्
तथापि नाथमानस्य नाथ नाथय नाथितम् ।
परावरे यथा रूपे जानीयां ते त्वरूपिण: ॥ २६ ॥
तथा अपि नाथमानस्य नाथ नाथय नाथितम् पर-अवरे यथा रूपे जानीयाम् ते तु अरूपिणः
यथात्ममायायोगेन नानाशक्त्युपबृंहितम् ।
विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २७ ॥
यथा आत्म माया योगेन नाना शक्ति उपबृंहितम् विलुम्पन् विसृजन् गृह्णन् बिभ्रत् आत्मानम् आत्मना
क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते ।
तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २८ ॥
क्रीडसि अमोघ सङ्कल्प ऊर्णनाभिः यथा ऊर्णुते तथा तत्-विषयाम् धेहि मनीषाम् मयि माधव
भगवच्छिक्षितमहं करवाणि ह्यतन्द्रित: ।
नेहमान: प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २९ ॥
भगवत् शिक्षितम् अहम् करवाणि हि अतन्द्रितः न इहमानः प्रजा-सर्गम् बध्येयम् यत् अनुग्रहात्
यावत् सखा सख्युरिवेश ते कृत:
प्रजाविसर्गे विभजामि भो जनम् ।
अविक्लवस्ते परिकर्मणि स्थितो
मा मे समुन्नद्धमदोऽजमानिन: ॥ ३० ॥
यावत् सखा सख्युः इव ईश ते कृतः प्रजा विसर्गे विभजामि भोः जनम् अविक्लवः ते परिकर्मणि स्थितः मा मे समुन्नद्ध मदः अज मानिनः
श्रीभगवानुवाच
ज्ञानं परमगुह्यं मे यद् विज्ञानसमन्वितम् ।
सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३१ ॥
श्री-भगवान् उवाच ज्ञानम् परम गुह्यम् मे यत् विज्ञान समन्वितम् स-रहस्यम् तत् अङ्गम् च गृहाण गदितम् मया
यावानहं यथाभावो यद्रूपगुणकर्मक: ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ ३२ ॥
यावान् अहम् यथा भावः यत् रूप गुण कर्मकः तथा एव तत्त्व-विज्ञानम् अस्तु ते मत् अनुग्रहात्
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३३ ॥
अहम् एव आसम् एव अग्रे न अन्यत् यत् सत् असत् परम् पश्चात् अहम् यत् एतत् च यः अवशिष्येत सः अस्मि अहम्
ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाभासो यथा तम: ॥ ३४ ॥
ऋते अर्थम् यत् प्रतीयेत न प्रतीयेत च आत्मनि तत् विद्यात् आत्मनः मायाम् यथा आभासः यथा तमः
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३५ ॥
यथा महान्ति भूतानि भूतेषु उच्च-अवचेषु अनु प्रविष्टानि अप्रविष्टानि तथा तेषु न तेषु अहम्
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मन: ।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ ३६ ॥
एतावत् एव जिज्ञास्यम् तत्त्व जिज्ञासुना आत्मनः अन्वय व्यतिरेकाभ्याम् यत् स्यात् सर्वत्र सर्वदा
एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३७ ॥
एतत् मतम् समातिष्ठ परमेण समाधिना भवान् कल्प विकल्पेषु न विमुह्यति कर्हिचित्
श्रीशुक उवाच
सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् ।
पश्यतस्तस्य तद् रूपमात्मनो न्यरुणद्धरि: ॥ ३८ ॥
श्री-शुकः उवाच सम्प्रदिश्य एवम् अजनः जनानाम् परमेष्ठिनम् पश्यतः तस्य तत् रूपम् आत्मनः न्यरुणत् हरिः
अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलि: ।
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३९ ॥
अन्तर्हित इन्द्रिय-अर्थाय हरये विहित-अञ्जलिः सर्व-भूत मयः विश्वम् ससर्ज इदम् सः पूर्व-वत्
प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् ।
भद्रं प्रजानामन्विच्छन्नातिष्ठत् स्वार्थकाम्यया ॥ ४० ॥
प्रजा-पतिः धर्म-पतिः एकदा नियमान् यमान् भद्रम् प्रजानाम् अन्विच्छन् आतिष्ठत् स्व-अर्थ काम्यया
तं नारद: प्रियतमो रिक्थादानामनुव्रत: ।
शुश्रूषमाण: शीलेन प्रश्रयेण दमेन च ॥ ४१ ॥
तम् नारदः प्रियतमः रिक्थ-आदानाम् अनुव्रतः शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च
मायां विविदिषन् विष्णोर्मायेशस्य महामुनि: ।
महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४२ ॥
मायाम् विविदिषन् विष्णोः माया-ईशस्य महा-मुनिः महा-भागवतः राजन् पितरम् पर्यतोषयत्
तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।
देवर्षि: परिपप्रच्छ भवान् यन्मानुपृच्छति ॥ ४३ ॥
तुष्टम् निशाम्य पितरम् लोकानाम् प्रपितामहम् देवर्षिः परिपप्रच्छ भवान् यत् मा अनुपृच्छति
तस्मा इदं भागवतं पुराणं दशलक्षणम् ।
प्रोक्तं भगवता प्राह प्रीत: पुत्राय भूतकृत् ॥ ४४ ॥
तस्मै इदम् भागवतम् पुराणम् दश-लक्षणम् प्रोक्तम् भगवता प्राह प्रीतः पुत्राय भूत-कृत्
नारद: प्राह मुनये सरस्वत्यास्तटे नृप ।
ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४५ ॥
नारदः प्राह मुनये सरस्वत्याः तटे नृप ध्यायते ब्रह्म परमम् व्यासाय अमित तेजसे
यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् ।
यथासीत्तदुपाख्यास्ते प्रश्नानन्यांश्च कृत्स्नश: ॥ ४६ ॥
यत् उत अहम् त्वया पृष्टः वैराजात् पुरुषात् इदम् यथा आसीत् तत् उपाख्यास्ते प्रश्नान् अन्यान् च कृत्स्नशः
२.१०
श्रीशुक उवाच
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतय: ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रय: ॥ १ ॥
श्री-शुकः उवाच अत्र सर्गः विसर्गः च स्थानम् पोषणम् ऊतयः मन्वन्तर ईश-अनुकथाः निरोधः मुक्तिः आश्रयः
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।
वर्णयन्ति महात्मान: श्रुतेनार्थेन चाञ्जसा ॥ २ ॥
दशमस्य विशुद्धि अर्थम् नवानाम् इह लक्षणम् वर्णयन्ति महा-आत्मानः श्रुतेन अर्थेन च अञ्जसा
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृत: ।
ब्रह्मणो गुणवैषम्याद्विसर्ग: पौरुष: स्मृत: ॥ ३ ॥
भूत मात्रा इन्द्रिय धियाम् जन्म सर्गः उदाहृतः ब्रह्मणः गुण-वैषम्यात् विसर्गः पौरुषः स्मृतः
स्थितिर्वैकुण्ठविजय: पोषणं तदनुग्रह: ।
मन्वन्तराणि सद्धर्म ऊतय: कर्मवासना: ॥ ४ ॥
स्थितिः वैकुण्ठ-विजयः पोषणम् तत्-अनुग्रहः मन्वन्तराणि सत्-धर्मः ऊतयः कर्म-वासनाः
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।
पुंसामीशकथा: प्रोक्ता नानाख्यानोपबृंहिता: ॥ ५ ॥
अवतार अनुचरितम् हरेः च अस्य अनुवर्तिनाम् पुंसाम् ईश-कथाः प्रोक्ताः नाना आख्यान उपबृंहिताः
निरोधोऽस्यानुशयनमात्मन: सह शक्तिभि: ।
मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थिति: ॥ ६ ॥
निरोधः अस्य अनुशयनम् आत्मनः सह शक्तिभिः मुक्तिः हित्वा अन्यथा रूपम् स्व-रूपेण व्यवस्थितिः
आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते ।
स आश्रय: परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥
आभासः च निरोधः च यतः अस्ति अध्यवसीयते सः आश्रयः परम् ब्रह्म परमात्मा इति शब्द्यते
योऽध्यात्मिकोऽयं पुरुष: सोऽसावेवाधिदैविक: ।
यस्तत्रोभयविच्छेद: पुरुषो ह्याधिभौतिक: ॥ ८ ॥
यः अध्यात्मिकः अयम् पुरुषः सः असौ एव अधिदैविकः यः तत्र उभय विच्छेदः पुरुषः हि आधिभौतिकः
एकमेकतराभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय: ॥ ९ ॥
एकम् एकतर अभावे यदा न उपलभामहे त्रितयम् तत्र यः वेद सः आत्मा स्व आश्रय आश्रयः
पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गत: ।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचि: शुची: ॥ १० ॥
पुरुषः अण्डम् विनिर्भिद्य यदा असौ सः विनिर्गतः आत्मनः अयनम् अन्विच्छन् अपः अस्राक्षीत् शुचिः शुचीः
तास्ववात्सीत् स्वसृष्टासु सहस्रंपरिवत्सरान् ।
तेन नारायणो नाम यदाप: पुरुषोद्भवा: ॥ ११ ॥
तासु अवात्सीत् स्व सृष्टासु सहस्रम् परिवत्सरान् तेन नारायणः नाम यत् आपः पुरुष-उद्भवाः
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहत: सन्ति न सन्ति यदुपेक्षया ॥ १२ ॥
द्रव्यम् कर्म च कालः च स्व-भावः जीवः एव च यत् अनुग्रहतः सन्ति न सन्ति यत्-उपेक्षया
एको नानात्वमन्विच्छन् योगतल्पात् समुत्थित: ।
वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥
एकः नानात्वम् अन्विच्छन् योग-तल्पात् समुत्थितः वीर्यम् हिरण्मयम् देवः मायया व्यसृजत् त्रिधा
अधिदैवमथाध्यात्ममधिभूतमिति प्रभु: ।
अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु ॥ १४ ॥
अधिदैवम् अथ अध्यात्मम् अधिभूतम् इति प्रभुः अथ एकम् पौरुषम् वीर्यम् त्रिधा अभिद्यत तत् शृणु
अन्त:शरीर आकाशात् पुरुषस्य विचेष्टत: ।
ओज: सहो बलं जज्ञे तत: प्राणो महानसु: ॥ १५ ॥
अन्तः शरीरे आकाशात् पुरुषस्य विचेष्टतः ओजः सहः बलम् जज्ञे ततः प्राणः महान् असुः
अनुप्राणन्ति यं प्राणा: प्राणन्तं सर्वजन्तुषु ।
अपानन्तमपानन्ति नरदेवमिवानुगा: ॥ १६ ॥
अनुप्राणन्ति यम् प्राणाः प्राणन्तम् सर्व-जन्तुषु अपानन्तम् अपानन्ति नर-देवम् इव अनुगाः
प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभो: ।
पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत ॥ १७ ॥
प्राणेन आक्षिपता क्षुत् तृट् अन्तरा जायते विभोः पिपासतः जक्षतः च प्राक् मुखम् निरभिद्यत
मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते ।
ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥
मुखतः तालु निर्भिन्नम् जिह्वा तत्र उपजायते ततः नाना-रसः जज्ञे जिह्वया यः अधिगम्यते
विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयो: ।
जले चैतस्य सुचिरं निरोध: समजायत ॥ १९ ॥
विवक्षोः मुखतः भूम्नः वह्निः वाक् व्याहृतम् तयोः जले च एतस्य सुचिरम् निरोधः समजायत
नासिके निरभिद्येतां दोधूयति नभस्वति ।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षत: ॥ २० ॥
नासिके निरभिद्येताम् दोधूयति नभस्वति तत्र वायुः गन्ध-वहः घ्राणः नसि जिघृक्षतः
यदात्मनि निरालोकमात्मानं च दिदृक्षत: ।
निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रह: ॥ २१ ॥
यदा आत्मनि निरालोकम् आत्मानम् च दिदृक्षतः निर्भिन्ने हि अक्षिणी तस्य ज्योतिः चक्षुः गुण-ग्रहः
बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षत: ।
कर्णौ च निरभिद्येतां दिश: श्रोत्रं गुणग्रह: ॥ २२ ॥
बोध्यमानस्य ऋषिभिः आत्मनः तत् जिघृक्षतः कर्णौ च निरभिद्येताम् दिशः श्रोत्रम् गुण-ग्रहः
वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम् ।
जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहा: ।
तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृत: ॥ २३ ॥
वस्तुनः मृदु काठिन्य लघु गुरु ओष्ण शीतताम् जिघृक्षतः त्वक् निर्भिन्ना तस्याम् रोम मही-रुहाः तत्र च अन्तः बहिः वातः त्वचा लब्ध गुणः वृतः
हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।
तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम् ॥ २४ ॥
हस्तौ रुरुहतुः तस्य नाना कर्म चिकीर्षया तयोः तु बलवान् इन्द्रः आदानम् उभय-आश्रयम्
गतिं जिगीषत: पादौ रुरुहातेऽभिकामिकाम् ।
पद्भ्यां यज्ञ: स्वयं हव्यं कर्मभि: क्रियते नृभि: ॥ २५ ॥
गतिम् जिगीषतः पादौ रुरुहाते अभिकामिकाम् पद्भ्याम् यज्ञः स्वयम् हव्यम् कर्मभिः क्रियते नृभिः
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिन: ।
उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् ॥ २६ ॥
निरभिद्यत शिश्नः वै प्रजा-आनन्द अमृत-अर्थिनः उपस्थः आसीत् कामानाम् प्रियम् तत् उभय-आश्रयम्
उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।
तत: पायुस्ततो मित्र उत्सर्ग उभयाश्रय: ॥ २७ ॥
उत्सिसृक्षोः धातु-मलम् निरभिद्यत वै गुदम् ततः पायुः ततः मित्रः उत्सर्गः उभय आश्रयः
आसिसृप्सो: पुर: पुर्या नाभिद्वारमपानत: ।
तत्रापानस्ततो मृत्यु: पृथक्त्वमुभयाश्रयम् ॥ २८ ॥
आसिसृप्सोः पुरः पुर्याः नाभि-द्वारम् अपानतः तत्र अपानः ततः मृत्युः पृथक्त्वम् उभय आश्रयम्
आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडय: ।
नद्य: समुद्राश्च तयोस्तुष्टि: पुष्टिस्तदाश्रये ॥ २९ ॥
आदित्सोः अन्न-पानानाम् आसन् कुक्षि अन्त्र नाडयः नद्यः समुद्राः च तयोः तुष्टिः पुष्टिः तत् आश्रये
निदिध्यासोरात्ममायां हृदयं निरभिद्यत ।
ततो मनश्चन्द्र इति सङ्कल्प: काम एव च ॥ ३० ॥
निदिध्यासोः आत्म-मायाम् हृदयम् निरभिद्यत ततः मनः चन्द्रः इति सङ्कल्पः कामः एव च
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातव: ।
भूम्यप्तेजोमया: सप्त प्राणो व्योमाम्बुवायुभि: ॥ ३१ ॥
त्वक् चर्म मांस रुधिर मेदः मज्जा अस्थि धातवः भूमि अप् तेजः मयाः सप्त प्राणः व्योम अम्बु वायुभिः
गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणा: ।
मन: सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥
गुण-आत्मकानि इन्द्रियाणि भूत-आदि प्रभवाः गुणाः मनः सर्व विकार आत्मा बुद्धिः विज्ञान रूपिणी
एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥
एतत् भगवतः रूपम् स्थूलम् ते व्याहृतम् मया मही आदिभिः च अवरणैः अष्टभिः बहिः आवृतम्
अत: परं सूक्ष्मतममव्यक्तं निर्विशेषणम् ।
अनादिमध्यनिधनं नित्यं वाङ्मनस: परम् ॥ ३४ ॥
अतः परम् सूक्ष्मतमम् अव्यक्तम् निर्विशेषणम् अनादि मध्य निधनम् नित्यम् वाक् मनसः परम्
अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते ।
उभे अपि न गृह्णन्ति मायासृष्टे विपश्चित: ॥ ३५ ॥
अमुनी भगवत् रूपे मया ते हि अनुवर्णिते उभे अपि न गृह्णन्ति माया सृष्टे विपः-चितः
स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् ।
नामरूपक्रिया धत्ते सकर्माकर्मक: पर: ॥ ३६ ॥
सः वाच्य वाचकतया भगवान् ब्रह्म रूप-धृक् नाम रूप क्रिया धत्ते स-कर्म अकर्मकः परः
प्रजापतीन्मनून् देवानृषीन् पितृगणान् पृथक् ।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान्नरान् ।
मातृ रक्ष:पिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥
कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि ।
खगान्मृगान् पशून् वृक्षान् गिरीन्नृप सरीसृपान् ॥ ३९ ॥
द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकस: ।
कुशलाकुशला मिश्रा: कर्मणां गतयस्त्विमा: ॥ ४० ॥
प्रजा-पतीन् मनून् देवान् ऋषीन् पितृ-गणान् पृथक् सिद्ध चारण गन्धर्वान् विद्याध्र असुर गुह्यकान् किन्नर अप्सरसः नागान् सर्पान् किम्पुरुषान् नरान् मातॄ रक्षः पिशाचान् च प्रेत भूत विनायकान् कूष्माण्ड उन्माद वेतालान् यातुधानान् ग्रहान् अपि खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् द्वि-विधाः चतुः-विधाः ये अन्ये जल स्थल नभ-ओकसः कुशल अकुशलाः मिश्राः कर्मणाम् गतयः तु इमाः
सत्त्वं रजस्तम इति तिस्र: सुरनृनारका: ।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ।
यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥
सत्त्वम् रजः तमः इति तिस्रः सुर नृ नारकाः तत्र अपि एकैकशः राजन् भिद्यन्ते गतयः त्रिधा यदा एकैकतरः अन्याभ्याम् स्व-भावः उपहन्यते
स एवेदं जगद्धाता भगवान् धर्मरूपधृक् ।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभि: ॥ ४२ ॥
सः एव इदम् जगत्-धाता भगवान् धर्म-रूप-धृक् पुष्णाति स्थापयन् विश्वम् तिर्यक् नर सुर-आदिभिः
तत: कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मन: ।
संनियच्छति तत् काले घनानीकमिवानिल: ॥ ४३ ॥
ततः काल अग्नि रुद्र-आत्मा यत् सृष्टम् इदम् आत्मनः सम् नियच्छति तत् काले घन-अनीकम् इव अनिलः
इत्थंभावेन कथितो भगवान् भगवत्तम: ।
नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरय: ॥ ४४ ॥
इत्थम् भावेन कथितः भगवान् भगवत्-तमः न इत्थम् भावेन हि परम् द्रष्टुम् अर्हन्ति सूरयः
नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥
न अस्य कर्मणि जन्म-आदौ परस्य अनुविधीयते कर्तृत्व प्रतिषेध-अर्थम् मायया आरोपितम् हि तत्
अयं तु ब्रह्मण: कल्प: सविकल्प उदाहृत: ।
विधि: साधारणो यत्र सर्गा: प्राकृतवैकृता: ॥ ४६ ॥
अयम् तु ब्रह्मणः कल्पः स-विकल्पः उदाहृतः विधिः साधारणः यत्र सर्गाः प्राकृत वैकृताः
परिमाणं च कालस्य कल्पलक्षणविग्रहम् ।
यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु ॥ ४७ ॥
परिमाणम् च कालस्य कल्प लक्षण विग्रहम् यथा पुरस्तात् व्याख्यास्ये पाद्मम् कल्पम् अथो शृणु
शौनक उवाच
यदाह नो भवान् सूत क्षत्ता भागवतोत्तम: ।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥ ४८ ॥
शौनकः उवाच यत् आह नः भवान् सूत क्षत्ता भागवत-उत्तमः चचार तीर्थानि भुवः त्यक्त्वा बन्धून् सु-दुस्त्यजान्
क्षत्तु: कौशारवेस्तस्य संवादोऽध्यात्मसंश्रित: ।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥ ४९ ॥
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् ।
बन्धुत्यागनिमित्तं च यथैवागतवान् पुन: ॥ ५० ॥
क्षत्तुः कौशारवेः तस्य संवादः अध्यात्म संश्रितः यत् वा सः भगवान् तस्मै पृष्टः तत्त्वम् उवाच ह ब्रूहि नः तत् इदम् सौम्य विदुरस्य विचेष्टितम् बन्धु-त्याग निमित्तम् च यथा एव आगतवान् पुनः
सूत उवाच
राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनि: ।
तद्वोऽभिधास्ये शृणुत राज्ञ: प्रश्नानुसारत: ॥ ५१ ॥
यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरेयमा ह्युपरि न: स्पृहणीयशीला: ।
भर्तुर्मिथ: सुयशस: कथनानुराग-
वैक्लव्यबाष्पकलया पुलकीकृताङ्गा: ॥
सूतः उवाच राज्ञा परीक्षिता पृष्टः यत् अवोचत् महा-मुनिः तत् वः अभिधास्ये शृणुत राज्ञः प्रश्न अनुसारतः