श्रीमद्भागवतम् पदच्छेद - स्कंध ३
३.१
श्रीशुक उवाच
एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।
क्षत्त्रा
वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥
श्री-शुकः उवाच एवम् एतत् पुरा पृष्टः मैत्रेयः भगवान् किल क्षत्त्रा वनम् प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत्
यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वर: ।
पौरवेन्द्रगृहं
हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥
यत् वै अयम् मन्त्र-कृत् वः भगवान् अखिल-ईश्वरः पौरवेन्द्र गृहम् हित्वा प्रविवेश आत्मसात् कृतम्
राजोवाच
कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गम: ।
कदा
वा सह संवाद एतद्वर्णय न: प्रभो ॥ ३ ॥
राजा उवाच कुत्र क्षत्तुः भगवता मैत्रेयेण आस सङ्गमः कदा वा सह संवादः एतत् वर्णय नः प्रभो
न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मन: ।
तस्मिन् वरीयसि प्रश्न: साधुवादोपबृंहित: ॥ ४ ॥
न हि अल्प-अर्थ उदयः तस्य विदुरस्य अमल-आत्मनः तस्मिन् वरीयसि प्रश्नः साधु-वाद उपबृंहितः
सूत उवाच
स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥
सूतः उवाच सः एवम् ऋषि-वर्यः अयम् पृष्टः राज्ञा परीक्षिता प्रत्याह तम् सु-बहु-वित् प्रीत-आत्मा श्रूयताम् इति
श्रीशुक उवाच
यदा तु राजा स्वसुतानसाधून्
पुष्णन्नधर्मेण विनष्टदृष्टि: ।
भ्रातुर्यविष्ठस्य सुतान् विबन्धून्
प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥
श्री-शुकः उवाच यदा तु राजा स्व-सुतान् असाधून् पुष्णन् न धर्मेण विनष्ट-दृष्टिः भ्रातुः यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षा भवने ददाह
यदा सभायां कुरुदेवदेव्या:
केशाभिमर्शं सुतकर्म गर्ह्यम् ।
न वारयामास नृप: स्नुषाया:
स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥
यदा सभायाम् कुरु-देव-देव्याः केश-अभिमर्शम् सुत-कर्म गर्ह्यम् न वारयाम् आस नृपः स्नुषायाः स्वास्रैः हरन्त्याः कुच-कुङ्कुमानि
द्यूते त्वधर्मेण जितस्य साधो:
सत्यावलम्बस्य वनं गतस्य ।
न याचतोऽदात्समयेन दायं
तमोजुषाणो यदजातशत्रो: ॥ ८ ॥
द्यूते तु अधर्मेण जितस्य साधोः सत्य-अवलम्बस्य वनम् गतस्य न याचतः अदात् समयेन दायम् तमः-जुषाणः यत् अजात-शत्रोः
यदा च पार्थप्रहित: सभायां
जगद्गुरुर्यानि जगाद कृष्ण: ।
न तानि पुंसाममृतायनानि
राजोरु मेने क्षतपुण्यलेश: ॥ ९ ॥
यदा च पार्थ-प्रहितः सभायाम् जगत्-गुरुः यानि जगाद कृष्णः न तानि पुंसाम् अमृत-अयनानि राजा उरु मेने क्षत पुण्य-लेशः
यदोपहूतो भवनं प्रविष्टो
मन्त्राय पृष्ट: किल पूर्वजेन ।
अथाह तन्मन्त्रदृशां वरीयान्
यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥
यदा उपहूतः भवनम् प्रविष्टः मन्त्राय पृष्टः किल पूर्वजेन अथ आह तत् मन्त्र दृशाम् वरीयान् यत् मन्त्रिणः वैदुरिकम् वदन्ति
अजातशत्रो: प्रतियच्छ दायं
तितिक्षतो दुर्विषहं तवाग: ।
सहानुजो यत्र वृकोदराहि:
श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥
अजात-शत्रोः प्रतियच्छ दायम् तितिक्षतः दुर्विषहम् तव आगः सह अनुजः यत्र वृकोदर अहिः श्वसन् रुषा यत् त्वम् अलम् बिभेषि
पार्थांस्तु देवो भगवान्मुकुन्दो
गृहीतवान् सक्षितिदेवदेव: ।
आस्ते स्वपुर्यां यदुदेवदेवो
विनिर्जिताशेषनृदेवदेव: ॥ १२ ॥
पार्थान् तु देवः भगवान् मुकुन्दः गृहीतवान् स क्षिति-देव-देवः आस्ते स्व-पुर्याम् यदु-देव-देवः विनिर्जित अशेष नृदेव देवः
स एष दोष: पुरुषद्विडास्ते
गृहान् प्रविष्टो यमपत्यमत्या ।
पुष्णासि कृष्णाद्विमुखो गतश्री-
स्त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥
सः एषः दोषः पुरुष-द्विट् आस्ते गृहान् प्रविष्टः यम् अपत्य-मत्या पुष्णासि कृष्णात् विमुखः गत-श्रीः त्यज आशु अशैवम् कुल कौशलाय
इत्यूचिवांस्तत्र सुयोधनेन
प्रवृद्धकोपस्फुरिताधरेण ।
असत्कृत: सत्स्पृहणीयशील:
क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥
इति ऊचिवान् तत्र सुयोधनेन प्रवृद्ध कोप स्फुरित अधरेण असत्-कृतः सत् स्पृहणीय-शीलः क्षत्ता स कर्ण अनुज सौबलेन
क एनमत्रोपजुहाव जिह्मं
दास्या: सुतं यद्बलिनैव पुष्ट: ।
तस्मिन् प्रतीप: परकृत्य आस्ते
निर्वास्यतामाशु पुराच्छ्वसान: ॥ १५ ॥
कः एनम् अत्र उपजुहाव जिह्मम् दास्याः सुतम् यत् बलिना एव पुष्टः तस्मिन् प्रतीपः पर-कृत्य आस्ते निर्वास्यताम् आशु पुरात् श्वसानः
स्वयं धनुर्द्वारि निधाय मायां
र्भ्रातु: पुरो मर्मसु ताडितोऽपि ।
स इत्थमत्युल्बणकर्णबाणै-
र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥
स्वयम् धनुः द्वारि निधाय मायाम् भ्रातुः पुरः मर्मसु ताडितः अपि सः इत्थम् अति-उल्बण कर्ण बाणैः गत-व्यथः अयात् उरु मान-यानः
स निर्गत: कौरवपुण्यलब्धो
गजाह्वयात्तीर्थपद: पदानि ।
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां
अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥
सः निर्गतः कौरव पुण्य लब्धः गज-आह्वयात् तीर्थ-पदः पदानि अन्वाक्रमत् पुण्य चिकीर्षया उर्व्याम् अधिष्ठितः यानि सहस्र मूर्तिः
पुरेषु पुण्योपवनाद्रिकुञ्जे-
ष्वपङ्कतोयेषु सरित्सर:सु ।
अनन्तलिङ्गै: समलङ्कृतेषु
चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥
पुरेषु पुण्य उपवन अद्रि कुञ्जेषु अपङ्क तोयेषु सरित् सरःसु अनन्त-लिङ्गैः समलङ्कृतेषु चचार तीर्थ आयतनेषु अनन्यः
गां पर्यटन्मेध्यविविक्तवृत्ति:
सदाप्लुतोऽध:शयनोऽवधूत: ।
अलक्षित: स्वैरवधूतवेषो
व्रतानि चेरे हरितोषणानि ॥ १९ ॥
गाम् पर्यटन् मेध्य विविक्त-वृत्तिः सदा आप्लुतः अधः शयनः अवधूतः अलक्षितः स्वैः अवधूत-वेषः व्रतानि चेरे हरि-तोषणानि
इत्थं व्रजन् भारतमेव वर्षं
कालेन यावद्गतवान् प्रभासम् ।
तावच्छशास क्षितिमेकचक्रा-
मेकातपत्रामजितेन पार्थ: ॥ २० ॥
इत्थम् व्रजन् भारतम् एव वर्षम् कालेन यावत् गतवान् प्रभासम् तावत् शशास क्षितिम् एक-चक्राम् एक आतपत्राम् अजितेन पार्थः
तत्राथ शुश्राव सुहृद्विनष्टिं
वनं यथा वेणुजवह्निसंश्रयम् ।
संस्पर्धया दग्धमथानुशोचन्
सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥
तत्र अथ शुश्राव सुहृत् विनष्टिम् वनम् यथा वेणुज-वह्नि संश्रयम् संस्पर्धया दग्धम् अथ अनुशोचन् सरस्वतीम् प्रत्यक् इयाय तूष्णीम्
तस्यां त्रितस्योशनसो मनोश्च
पृथोरथाग्नेरसितस्य वायो: ।
तीर्थं सुदासस्य गवां गुहस्य
यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥
तस्याम् त्रितस्य उशनसः मनोः च पृथोः अथ अग्नेः असितस्य वायोः तीर्थम् सुदासस्य गवाम् गुहस्य यत् श्राद्धदेवस्य सः आसिषेवे
अन्यानि चेह द्विजदेवदेवै:
कृतानि नानायतनानि विष्णो: ।
प्रत्यङ्गमुख्याङ्कितमन्दिराणि
यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥
अन्यानि च इह द्विज-देव देवैः कृतानि नाना आयतनानि विष्णोः प्रति अङ्ग मुख्य अङ्कित मन्दिराणि यत् दर्शनात् कृष्णम् अनुस्मरन्ति
ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं
सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।
कालेन तावद्यमुनामुपेत्य
तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥
ततः तु अतिव्रज्य सुराष्ट्रम् ऋद्धम् सौवीर मत्स्यान् कुरुजाङ्गलान् च कालेन तावत् यमुनाम् उपेत्य तत्र उद्धवम् भागवतम् ददर्श
स वासुदेवानुचरं प्रशान्तं
बृहस्पते: प्राक् तनयं प्रतीतम् ।
आलिङ्ग्य गाढं प्रणयेन भद्रं
स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥
सः वासुदेव अनुचरम् प्रशान्तम् बृहस्पतेः प्राक् तनयम् प्रतीतम् आलिङ्ग्य गाढम् प्रणयेन भद्रम् स्वानाम् अपृच्छत् भगवत् प्रजानाम्
कच्चित्पुराणौ पुरुषौ स्वनाभ्य-
पाद्मानुवृत्त्येह किलावतीर्णौ ।
आसात उर्व्या: कुशलं विधाय
कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥
कच्चित् पुराणौ पुरुषौ स्वनाभ्य पाद्म-अनुवृत्त्या इह किल अवतीर्णौ आसाते उर्व्याः कुशलम् विधाय कृत-क्षणौ कुशलम् शूर-गेहे
कच्चित्कुरूणां परम: सुहृन्नो
भाम: स आस्ते सुखमङ्ग शौरि: ।
यो वै स्वसृणां पितृवद्ददाति
वरान् वदान्यो वरतर्पणेन ॥ २७ ॥
कच्चित् कुरूणाम् परमः सुहृत् नः भामः सः आस्ते सुखम् अङ्ग शौरिः यः वै स्वसॄणाम् पितृ-वत् ददाति वरान् वदान्यः वर तर्पणेन
कच्चिद्वरूथाधिपतिर्यदूनां
प्रद्युम्न आस्ते सुखमङ्ग वीर: ।
यं रुक्मिणी भगवतोऽभिलेभे
आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥
कच्चित् वरूथ अधिपतिः यदूनाम् प्रद्युम्नः आस्ते सुखम् अङ्ग वीरः यम् रुक्मिणी भगवतः अभिलेभे आराध्य विप्रान् स्मरम् आदि-सर्गे
कच्चित्सुखं सात्वतवृष्णिभोज-
दाशार्हकाणामधिप: स आस्ते ।
यमभ्यषिञ्चच्छतपत्रनेत्रो
नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥
कच्चित् सुखम् सात्वत वृष्णि भोज दाशार्हकाणाम् अधिपः सः आस्ते यम् अभ्यषिञ्चत् शत-पत्र-नेत्रः नृप-आसन-आशाम् परिहृत्य दूरात्
कच्चिद्धरे: सौम्य सुत: सदृक्ष
आस्तेऽग्रणी रथिनां साधु साम्ब: ।
असूत यं जाम्बवती व्रताढ्या
देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥
कच्चित् हरेः सौम्य सुतः सदृक्षः आस्ते अग्रणीः रथिनाम् साधु साम्बः असूत यम् जाम्बवती व्रताढ्या देवम् गुहम् यः अम्बिकया धृतः अग्रे
क्षेमं स कच्चिद्युयुधान आस्ते
य: फाल्गुनाल्लब्धधनूरहस्य: ।
लेभेऽञ्जसाधोक्षजसेवयैव
गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥
क्षेमम् सः कच्चित् युयुधानः आस्ते यः फाल्गुनात् लब्ध धनुः-रहस्यः लेभे अञ्जसा अधोक्षज सेवया एव गतिम् तदीयाम् यतिभिः दुरापाम्
कच्चिद् बुध: स्वस्त्यनमीव आस्ते
श्वफल्कपुत्रो भगवत्प्रपन्न: ।
य: कृष्णपादाङ्कितमार्गपांसु-
ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥
कच्चित् बुधः स्वस्ति अनमीवः आस्ते श्वफल्क-पुत्रः भगवत् प्रपन्नः यः कृष्ण पाद-अङ्कित मार्ग पांसुषु अचेष्टत प्रेम-विभिन्न धैर्यः
कच्चिच्छिवं देवकभोजपुत्र्या
विष्णुप्रजाया इव देवमातु: ।
या वै स्वगर्भेण दधार देवं
त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥
कच्चित् शिवम् देवक-भोज-पुत्र्याः विष्णु-प्रजायाः इव देव-मातुः या वै स्व-गर्भेण दधार देवम् त्रयी यथा यज्ञ-वितानम् अर्थम्
अपिस्विदास्ते भगवान् सुखं वो
य: सात्वतां कामदुघोऽनिरुद्ध: ।
यमामनन्ति स्म हि शब्दयोनिं
मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥
अपि स्वित् आस्ते भगवान् सुखम् वः यः सात्वताम् काम-दुघः अनिरुद्धः यम् आमनन्ति स्म हि शब्द-योनिम् मनः-मयम् सत्त्व तुरीय तत्त्वम्
अपिस्विदन्ये च निजात्मदैव-
मनन्यवृत्त्या समनुव्रता ये ।
हृदीकसत्यात्मजचारुदेष्ण-
गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥
अपि स्वित् अन्ये च निज-आत्म दैवम् अनन्य वृत्त्या समनुव्रताः ये हृदीक सत्य-आत्मज चारुदेष्ण गद आदयः स्वस्ति चरन्ति सौम्य
अपि स्वदोर्भ्यां विजयाच्युताभ्यां
धर्मेण धर्म: परिपाति सेतुम् ।
दुर्योधनोऽतप्यत यत्सभायां
साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥
अपि स्व-दोर्भ्याम् विजय अच्युता-भ्याम् धर्मेण धर्मः परिपाति सेतुम् दुर्योधनः अतप्यत यत् सभायाम् साम्राज्य लक्ष्म्या विजय-अनुवृत्त्या
किं वा कृताघेष्वघमत्यमर्षी
भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् ।
यस्याङ्घ्रि पातं रणभूर्न सेहे
मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥
किम् वा कृत अघेषु अघम् अति-अमर्षी भीमः अहि-वत् दीर्घ-तमम् व्यमुञ्चत् यस्य अङ्घ्रि-पातम् रण-भूः न सेहे मार्गम् गदायाः चरतः विचित्रम्
कच्चिद्यशोधा रथयूथपानां
गाण्डीवधन्वोपरतारिरास्ते ।
अलक्षितो यच्छरकूटगूढो
मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥
कच्चित् यशः-धा रथ-यूथपानाम् गाण्डीव धन्वा उपरत-अरिः आस्ते अलक्षितः यत् शर-कूट-गूढः माया-किरातः गिरिशः तुतोष
यमावुतस्वित्तनयौ पृथाया:
पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।
रेमात उद्दाय मृधे स्वरिक्थं
परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥
यमौ उतस्वित् तनयौ पृथायाः पार्थैः वृतौ पक्ष्मभिः अक्षिणी इव रेमाते उद्दाय मृधे स्व-रिक्थम् परात् सुपर्णौ इव वज्रि-वक्त्रात्
अहो पृथापि ध्रियतेऽर्भकार्थे
राजर्षिवर्येण विनापि तेन ।
यस्त्वेकवीरोऽधिरथो विजिग्ये
धनुर्द्वितीय: ककुभश्चतस्र: ॥ ४० ॥
अहो पृथा अपि ध्रियते अर्भक-अर्थे राजर्षि वर्येण विना अपि तेन यः तु एक वीरः अधिरथः विजिग्ये धनुः द्वितीयः ककुभः चतस्रः
सौम्यानुशोचे तमध:पतन्तं
भ्रात्रे परेताय विदुद्रुहे य: ।
निर्यापितो येन सुहृत्स्वपुर्या
अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥
सौम्य अनुशोचे तम् अधः-पतन्तम् भ्रात्रे परेताय विदुद्रुहे यः निर्यापितः येन सुहृत् स्व-पुर्याः अहम् स्व-पुत्रान् समनु-व्रतेन
सोऽहं हरेर्मर्त्यविडम्बनेन
दृशो नृणां चालयतो विधातु: ।
नान्योपलक्ष्य: पदवीं प्रसादा-
च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥
सः अहम् हरेः मर्त्य विडम्बनेन दृशः नृणाम् चालयतः विधातुः न अन्य उपलक्ष्यः पदवीम् प्रसादात् चरामि पश्यन् गत-विस्मयः अत्र
नूनं नृपाणां त्रिमदोत्पथानां
महीं मुहुश्चालयतां चमूभि: ।
वधात्प्रपन्नार्तिजिहीर्षयेशो-
ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥
नूनम् नृपाणाम् त्रि मद-उत्पथानाम् महीम् मुहुः चालयताम् चमूभिः वधात् प्रपन्न आर्ति-जिहीर्षय ईशः अपि उपैक्षत अघम् भगवान् कुरूणाम्
अजस्य जन्मोत्पथनाशनाय
कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।
नन्वन्यथा कोऽर्हति देहयोगं
परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥
अजस्य जन्म उत्पथ-नाशनाय कर्माणि अकर्तुः ग्रहणाय पुंसाम् ननु अन्यथा कः अर्हति देह-योगम् परः गुणानाम् उत कर्म-तन्त्रम्
तस्य प्रपन्नाखिललोकपाना-
मवस्थितानामनुशासने स्वे ।
अर्थाय जातस्य यदुष्वजस्य
वार्तां सखे कीर्तय तीर्थकीर्ते: ॥ ४५ ॥
तस्य प्रपन्न अखिल-लोक-पानाम् अवस्थितानाम् अनुशासने स्वे अर्थाय जातस्य यदुषु अजस्य वार्ताम् सखे कीर्तय तीर्थ-कीर्तेः
३.२
श्री शुक उवाच
इति भागवत: पृष्ट: क्षत्त्रा वार्तां प्रियाश्रयाम् ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वर: ॥ १ ॥
श्री-शुकः उवाच इति भागवतः पृष्टः क्षत्त्रा वार्ताम् प्रिय-आश्रयाम् प्रतिवक्तुम् न च उत्सेहे औत्कण्ठ्यात् स्मारित ईश्वरः
य: पञ्चहायनो मात्रा प्रातराशाय याचित: ।
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥
यः पञ्च हायनः मात्रा प्रातः-आशाय याचितः तत् न ऐच्छत् रचयन् यस्य सपर्याम् बाल-लीलया
स कथं सेवया तस्य कालेन जरसं गत: ।
पृष्टो वार्तां प्रतिब्रूयाद्भर्तु: पादावनुस्मरन् ॥ ३ ॥
सः कथम् सेवया तस्य कालेन जरसम् गतः पृष्टः वार्ताम् प्रतिब्रूयात् भर्तुः पादौ अनुस्मरन्
स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रि सुधया भृशम् ।
तीव्रेण भक्तियोगेन निमग्न: साधु निर्वृत: ॥ ४ ॥
सः मुहूर्तम् अभूत् तूष्णीम् कृष्ण-अङ्घ्रि सुधया भृशम् तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुच: ।
पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसंप्लुत: ॥ ५ ॥
पुलक-उद्भिन्न सर्व-अङ्गः मुञ्चन् मीलत् दृशा शुचः पूर्ण-अर्थः लक्षितः तेन स्नेह-प्रसर सम्प्लुतः
शनकैर्भगवल्लोकान्नृलोकं पुनरागत: ।
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ ६ ॥
शनकैः भगवत् लोकात् नृलोकम् पुनः आगतः विमृज्य नेत्रे विदुरम् प्रीत्या आह उद्धवः उत्स्मयन्
उद्धव उवाच
कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह ।
किं
नु न: कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥
उद्धवः उवाच कृष्ण-द्युमणि निम्लोचे गीर्णेषु अजगरेण ह किम् नु नः कुशलम् ब्रूयाम् गत-श्रीषु गृहेषु अहम्
दुर्भगो बत लोकोऽयं यदवो नितरामपि ।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ ८ ॥
दुर्भगः बत लोकः अयम् यदवः नितराम् अपि ये संवसन्तः न विदुः हरिम् मीनाः इव उडुपम्
इङ्गितज्ञा: पुरुप्रौढा एकारामाश्च सात्वता: ।
सात्वतामृषभं सर्वे भूतावासममंसत ॥ ९ ॥
इङ्गित-ज्ञाः पुरु-प्रौढाः एक आरामाः च सात्वताः सात्वताम् ऋषभम् सर्वे भूत-आवासम् अमंसत
देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिता: ।
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ ॥ १० ॥
देवस्य मायया स्पृष्टाः ये च अन्यत् असत् आश्रिताः भ्राम्यते धीः न तत् वाक्यैः आत्मनि उप्त-आत्मनः हरौ
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥
प्रदर्श्य अतप्त तपसाम् अवितृप्त-दृशाम् नृणाम् आदाय अन्तः अधात् यः तु स्व-बिम्बम् लोक-लोचनम्
यन्मर्त्यलीलौपयिकं स्वयोग-
मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धे:
परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥
यत् मर्त्य लीला-उपयिकम् स्व-योग-माया-बलम् दर्शयता गृहीतम् विस्मापनम् स्वस्य च सौभग-ऋद्धेः परम् पदम् भूषण भूषण-अङ्गम्
यद्धर्मसूनोर्बत राजसूये
निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोक: ।
कार्त्स्न्येन चाद्येह गतं विधातु-
रर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥
यत् धर्म-सूनोः बत राजसूये निरीक्ष्य दृक् स्वस्त्ययनम् त्रि-लोकः कार्त्स्न्येन च अद्य इह गतम् विधातुः अर्वाक् सृतौ कौशलम् इति अमन्यत
यस्यानुरागप्लुतहासरास-
लीलावलोकप्रतिलब्धमाना: ।
व्रजस्त्रियो दृग्भिरनुप्रवृत्त-
धियोऽवतस्थु: किल कृत्यशेषा: ॥ १४ ॥
यस्य अनुराग प्लुत हास रास लीला अवलोक प्रतिलब्ध मानाः व्रज-स्त्रियः दृग्भिः अनुप्रवृत्त धियः अवतस्थुः किल कृत्य-शेषाः
स्वशान्तरूपेष्वितरै: स्वरूपै-
रभ्यर्द्यमानेष्वनुकम्पितात्मा ।
परावरेशो महदंशयुक्तो
ह्यजोऽपि जातो भगवान् यथाग्नि: ॥ १५ ॥
स्व-शान्त-रूपेषु इतरैः स्व-रूपैः अभ्यर्द्यमानेषु अनुकम्पित-आत्मा पर-अवर ईशः महत्-अंश-युक्तः हि अजः अपि जातः भगवान् यथा अग्निः
मां खेदयत्येतदजस्य जन्म-
विडम्बनं यद्वसुदेवगेहे ।
व्रजे च वासोऽरिभयादिव स्वयं
पुराद् व्यवात्सीद्यदनन्तवीर्य: ॥ १६ ॥
माम् खेदयति एतत् अजस्य जन्म विडम्बनम् यत् वसुदेव-गेहे व्रजे च वासः अरि भयात् इव स्वयम् पुरात् व्यवात्सीत् यत् अनन्त-वीर्यः
दुनोति चेत: स्मरतो ममैतद्
यदाह पादावभिवन्द्य पित्रो: ।
ताताम्ब कंसादुरुशङ्कितानां
प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥
दुनोति चेतः स्मरतः मम एतत् यत् आह पादौ अभिवन्द्य पित्रोः तात अम्ब कंसात् उरु शङ्कितानाम् प्रसीदतम् नः अकृत निष्कृतीनाम्
को वा अमुष्याङ्घ्रि सरोजरेणुं
विस्मर्तुमीशीत पुमान् विजिघ्रन् ।
यो विस्फुरद्भ्रूविटपेन भूमे-
र्भारं कृतान्तेन तिरश्चकार ॥ १८ ॥
कः वा अमुष्य अङ्घ्रि सरोज-रेणुम् विस्मर्तुम् ईशीत पुमान् विजिघ्रन् यः विस्फुरत् भ्रू-विटपेन भूमेः भारम् कृत-अन्तेन तिरश्चकार
दृष्टा भवद्भिर्ननु राजसूये
चैद्यस्य कृष्णं द्विषतोऽपि सिद्धि: ।
यां योगिन: संस्पृहयन्ति सम्यग्
योगेन कस्तद्विरहं सहेत ॥ १९ ॥
दृष्टा भवद्भिः ननु राजसूये चैद्यस्य कृष्णम् द्विषतः अपि सिद्धिः याम् योगिनः संस्पृहयन्ति सम्यक् योगेन कः तत् विरहम् सहेत
तथैव चान्ये नरलोकवीरा
य आहवे कृष्णमुखारविन्दम् ।
नेत्रै: पिबन्तो नयनाभिरामं
पार्थास्त्रपूत: पदमापुरस्य ॥ २० ॥
तथा एव च अन्ये नर-लोक वीराः ये आहवे कृष्ण मुख-अरविन्दम् नेत्रैः पिबन्तः नयन-अभिरामम् पार्थ अस्त्र-पूतः पदम् आपुः अस्य
स्वयं त्वसाम्यातिशयस्त्र्यधीश:
स्वाराज्यलक्ष्म्याप्तसमस्तकाम: ।
बलिं हरद्भिश्चिरलोकपालै:
किरीटकोट्येडितपादपीठ: ॥ २१ ॥
स्वयम् तु असाम्य अतिशयः त्रि-अधीशः स्वाराज्य लक्ष्मी आप्त समस्त-कामः बलिम् हरद्भिः चिर-लोक-पालैः किरीट-कोट्या इडित-पाद-पीठः
तत्तस्य कैङ्कर्यमलं भृतान्नो
विग्लापयत्यङ्ग यदुग्रसेनम् ।
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये
न्यबोधयद्देव निधारयेति ॥ २२ ॥
तत् तस्य कैङ्कर्यम् अलम् भृतान् नः विग्लापयति अङ्ग यत् उग्रसेनम् तिष्ठन् निषण्णम् परमेष्ठि-धिष्ण्ये न्यबोधयत् देव निधारय इति
अहो बकी यं स्तनकालकूटं
जिघांसयापाययदप्यसाध्वी ।
लेभे गतिं धात्र्युचितां ततोऽन्यं
कं वा दयालुं शरणं व्रजेम ॥ २३ ॥
अहो बकी यम् स्तन काल कूटम् जिघांसया अपाययत् अपि असाध्वी लेभे गतिम् धात्री-उचिताम् ततः अन्यम् कम् वा दयालुम् शरणम् व्रजेम
मन्येऽसुरान् भागवतांस्त्र्यधीशे
संरम्भमार्गाभिनिविष्टचित्तान् ।
ये संयुगेऽचक्षत तार्क्ष्यपुत्र-
मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥
मन्ये असुरान् भागवतान् त्रि-अधीशे संरम्भ मार्ग अभिनिविष्ट-चित्तान् ये संयुगे अचक्षत तार्क्ष्य-पुत्रम् अंसे सुनाभ आयुधम् आपतन्तम्
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।
चिकीर्षुर्भगवानस्या: शमजेनाभियाचित: ॥ २५ ॥
वसुदेवस्य देवक्याम् जातः भोज-इन्द्र बन्धने चिकीर्षुः भगवान् अस्याः शम् अजेन अभियाचितः
ततो नन्दव्रजमित: पित्रा कंसाद्विबिभ्यता ।
एकादश समास्तत्र गूढार्चि: सबलोऽवसत् ॥ २६ ॥
ततः नन्द-व्रजम् इतः पित्रा कंसात् विबिभ्यता एकादश समाः तत्र गूढ-अर्चिः स-बलः अवसत्
परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद्विभु: ।
यमुनोपवने कूजद्द्विजसंकुलिताङ्घ्रिपे ॥ २७ ॥
परीतः वत्सपैः वत्सान् चारयन् व्यहरत् विभुः यमुना उपवने कूजत् द्विज सङ्कुलित अङ्घ्रिपे
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
रुदन्निव हसन्मुग्धबालसिंहावलोकन: ॥ २८ ॥
कौमारीम् दर्शयन् चेष्टाम् प्रेक्षणीयाम् व्रज-ओकसाम् रुदन् इव हसन् मुग्ध बाल-सिंह अवलोकनः
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।
चारयन्ननुगान् गोपान् रणद्वेणुररीरमत् ॥ २९ ॥
सः एव गो-धनम् लक्ष्म्याः निकेतम् सित-गो-वृषम् चारयन् अनुगान् गोपान् रणत् वेणुः अरीरमत्
प्रयुक्तान् भोजराजेन मायिन: कामरूपिण: ।
लीलया व्यनुदत्तांस्तान् बाल: क्रीडनकानिव ॥ ३० ॥
प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः लीलया व्यनुदत् तान् तान् बालः क्रीडनकान् इव
विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥
विपन्नान् विष-पानेन निगृह्य भुजग-अधिपम् उत्थाप्य अपाययत् गावः तत् तोयम् प्रकृति स्थितम्
अयाजयद्गोसवेन गोपराजं द्विजोत्तमै: ।
वित्तस्य चोरुभारस्य चिकीर्षन् सद्वययं विभु: ॥ ३२ ॥
अयाजयत् गो-सवेन गोप-राजम् द्विज-उत्तमैः वित्तस्य च उरु-भारस्य चिकीर्षन् सत्-व्ययम् विभुः
वर्षतीन्द्रे व्रज: कोपाद्भग्नमानेऽतिविह्वल: ।
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥
वर्षति इन्द्रे व्रजः कोपात् भग्नमाने अति विह्वलः गोत्र लीला-आतपत्रेण त्रातः भद्र अनुगृह्णता
शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।
गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डन: ॥ ३४ ॥
शरत् शशि करैः मृष्टम् मानयन् रजनी-मुखम् गायन् कल-पदम् रेमे स्त्रीणाम् मण्डल-मण्डनः
३.३
उद्धव उवाच
तत: स आगत्य पुरं स्वपित्रो-
श्चिकीर्षया शं बलदेवसंयुत: ।
निपात्य तुङ्गाद्रिपुयूथनाथं
हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥
उद्धवः उवाच ततः सः आगत्य पुरम् स्व-पित्रोः चिकीर्षया शम् बलदेव-संयुतः निपात्य तुङ्गात् रिपु-यूथ-नाथम् हतम् व्यकर्षत् व्यसुम् ओजसा उर्व्याम्
सान्दीपने: सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।
तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥
सान्दीपनेः सकृत् प्रोक्तम् ब्रह्म अधीत्य स-विस्तरम् तस्मै प्रादात् वरम् पुत्रम् मृतम् पञ्च-जन उदरात्
समाहुता भीष्मककन्यया ये
श्रिय: सवर्णेन बुभूषयैषाम् ।
गान्धर्ववृत्त्या मिषतां स्वभागं
जह्रे पदं मूर्ध्नि दधत्सुपर्ण: ॥ ३ ॥
समाहुताः भीष्मक कन्यया ये श्रियः स-वर्णेन बुभूषया एषाम् गान्धर्व वृत्त्या मिषताम् स्व-भागम् जह्रे पदम् मूर्ध्नि दधत् सुपर्णः
ककुद्मिनोऽविद्धनसो दमित्वा
स्वयंवरे नाग्नजितीमुवाह ।
तद्भग्नमानानपि गृध्यतोऽज्ञा-
ञ्जघ्नेऽक्षत: शस्त्रभृत: स्वशस्त्रै: ॥ ४ ॥
ककुद्मिनः अविद्ध-नसः दमित्वा स्वयंवरे नाग्नजितीम् उवाह तत्-भग्नमानान् अपि गृध्यतः अज्ञान् जघ्ने अक्षतः शस्त्र-भृतः स्व-शस्त्रैः
प्रियं प्रभुर्ग्राम्य इव प्रियाया
विधित्सुरार्च्छद् द्युतरुं यदर्थे ।
वज्र्याद्रवत्तं सगणो रुषान्ध:
क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥
प्रियम् प्रभुः ग्राम्यः इव प्रियायाः विधित्सुः आर्च्छत् द्युतरुम् यत् अर्थे वज्री आद्रवत् तम् स-गणः रुषा अन्धः क्रीडा-मृगः नूनम् अयम् वधूनाम्
सुतं मृधे खं वपुषा ग्रसन्तं
दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।
आमन्त्रितस्तत्तनयाय शेषं
दत्त्वा तदन्त:पुरमाविवेश ॥ ६ ॥
सुतम् मृधे खम् वपुषा ग्रसन्तम् दृष्ट्वा सुनाभ उन्मथितम् धरित्र्या आमन्त्रितः तत्-तनयाय शेषम् दत्त्वा तत् अन्तः-पुरम् आविवेश
तत्राहृतास्ता नरदेवकन्या:
कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।
उत्थाय सद्यो जगृहु: प्रहर्ष-
व्रीडानुरागप्रहितावलोकै: ॥ ७ ॥
तत्र आहृताः ताः नर-देव-कन्याः कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् उत्थाय सद्यः जगृहुः प्रहर्ष व्रीड अनुराग प्रहित-अवलोकैः
आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् ।
सविधं जगृहे पाणीननुरूप: स्वमायया ॥ ८ ॥
आसाम् मुहूर्ते एकस्मिन् नाना-आगारेषु योषिताम् स-विधम् जगृहे पाणीन् अनुरूपः स्व-मायया
तास्वपत्यान्यजनयदात्मतुल्यानि सर्वत: ।
एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥
तासु अपत्यानि अजनयत् आत्म-तुल्यानि सर्वतः एक-एकस्याम् दश दश प्रकृतेः विबुभूषया
कालमागधशाल्वादीननीकै रुन्धत: पुरम् ।
अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥
काल मागध शाल्व आदीन् अनीकैः रुन्धतः पुरम् अजीघनत् स्वयम् दिव्यम् स्व-पुंसाम् तेजः आदिशत्
शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।
अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ॥ ११ ॥
शम्बरम् द्विविदम् बाणम् मुरम् बल्वलम् एव च अन्यान् च दन्तवक्र-आदीन् अवधीत् कान् च घातयत्
अथ ते भ्रातृपुत्राणां पक्षयो: पतितान्नृपान् ।
चचाल भू: कुरुक्षेत्रं येषामापततां बलै: ॥ १२ ॥
अथ ते भ्रातृ-पुत्राणाम् पक्षयोः पतितान् नृपान् चचाल भूः कुरुक्षेत्रम् येषाम् आपतताम् बलैः
सकर्णदु:शासनसौबलानां
कुमन्त्रपाकेन हतश्रियायुषम् ।
सुयोधनं सानुचरं शयानं
भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥
सः कर्ण दुःशासन सौबलानाम् कुमन्त्र-पाकेन हत-श्रिय आयुषम् सुयोधनम् स-अनुचरम् शयानम् भग्न ऊरुम् ऊर्व्याम् न ननन्द पश्यन्
कियान् भुवोऽयं क्षपितोरुभारो
यद्द्रोणभीष्मार्जुनभीममूलै: ।
अष्टादशाक्षौहिणिको मदंशै-
रास्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥
कियान् भुवः अयम् क्षपित उरु भारः यत् द्रोण भीष्म अर्जुन भीम मूलैः अष्टादश अक्षौहिणिकः मत्-अंशैः आस्ते बलम् दुर्विषहम् यदूनाम्
मिथो यदैषां भविता विवादो
मध्वामदाताम्रविलोचनानाम् ।
नैषां वधोपाय इयानतोऽन्यो
मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥
मिथः यदा एषाम् भविता विवादः मधु-आमद आताम्र-विलोचनानाम् न एषाम् वध-उपायः इयान् अतः अन्यः मयि उद्यते अन्तः-दधते स्वयम् स्म
एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् ।
नन्दयामास सुहृद: साधूनां वर्त्म दर्शयन् ॥ १६ ॥
एवम् सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् नन्दयाम् आस सुहृदः साधूनाम् वर्त्म दर्शयन्
उत्तरायां धृत: पूरोर्वंश: साध्वभिमन्युना ।
स वै द्रौण्यस्त्रसंप्लुष्ट: पुनर्भगवता धृत: ॥ १७ ॥
उत्तरायाम् धृतः पूरोः वंशः साधु-अभिमन्युना सः वै द्रौणि-अस्त्र सम्प्लुष्टः पुनः भगवता धृतः
अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभु: ।
सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रत: ॥ १८ ॥
अयाजयत् धर्म-सुतम् अश्वमेधैः त्रिभिः विभुः सः अपि क्ष्माम् अनुजैः रक्षन् रेमे कृष्णम् अनुव्रतः
भगवानपि विश्वात्मा लोकवेदपथानुग: ।
कामान् सिषेवे द्वार्वत्यामसक्त: सांख्यमास्थित: ॥ १९ ॥
भगवान् अपि विश्व-आत्मा लोक वेद पथ-अनुगः कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः
स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।
चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥
स्निग्ध स्मित-अवलोकेन वाचा पीयूष-कल्पया चरित्रेण अनवद्येन श्री निकेतेन च आत्मना
इमं लोकममुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृद: ॥ २१ ॥
इमम् लोकम् अमुम् च एव रमयन् सुतराम् यदून् रेमे क्षणदया दत्त क्षण स्त्री क्षण सौहृदः
तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।
गृहमेधेषु योगेषु विराग: समजायत ॥ २२ ॥
तस्य एवम् रममाणस्य संवत्सर गणान् बहून् गृहमेधेषु योगेषु विरागः समजायत
दैवाधीनेषु कामेषु दैवाधीन: स्वयं पुमान् ।
को विश्रम्भेत योगेन योगेश्वरमनुव्रत: ॥ २३ ॥
दैव अधीनेषु कामेषु दैव-अधीनः स्वयम् पुमान् कः विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः
पुर्यां कदाचित्क्रीडद्भिर्यदुभोजकुमारकै: ।
कोपिता मुनय: शेपुर्भगवन्मतकोविदा: ॥ २४ ॥
पुर्याम् कदाचित् क्रीडद्भिः यदु भोज कुमारकैः कोपिताः मुनयः शेपुः भगवत् मत कोविदाः
तत: कतिपयैर्मासैर्वृष्णिभोजान्धकादय: ।
ययु: प्रभासं संहृष्टा रथैर्देवविमोहिता: ॥ २५ ॥
ततः कतिपयैः मासैः वृष्णि भोज अन्धक-आदयः ययुः प्रभासम् संहृष्टाः रथैः देव विमोहिताः
तत्र स्नात्वा पितृन्देवानृषींश्चैव तदम्भसा ।
तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददु: ॥ २६ ॥
तत्र स्नात्वा पितॄन् देवान् ऋषीन् च एव तत् अम्भसा तर्पयित्वा अथ विप्रेभ्यः गावः बहु-गुणाः ददुः
हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।
यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥
हिरण्यम् रजतम् शय्याम् वासांसि अजिन कम्बलान् यानम् रथान् इभान् कन्याः धराम् वृत्ति-करीम् अपि
अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् ।
गोविप्रार्थासव: शूरा: प्रणेमुर्भुवि मूर्धभि: ॥ २८ ॥
अन्नम् च उरु-रसम् तेभ्यः दत्त्वा भगवत्-अर्पणम् गो विप्र अर्थ असवः शूराः प्रणेमुः भुवि मूर्धभिः
३.४
उद्धव उवाच
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।
तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृश: ॥ १ ॥
उद्धवः उवाच अथ ते तत् अनुज्ञाताः भुक्त्वा पीत्वा च वारुणीम् तया विभ्रंशित-ज्ञानाः दुरुक्तैः मर्म पस्पृशुः
तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।
निम्लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २ ॥
तेषाम् मैरेय दोषेण विषमीकृत चेतसाम् निम्लोचति रवौ आसीत् वेणूनाम् इव मर्दनम्
भगवान् स्वात्ममायाया गतिं तामवलोक्य स: ।
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥
भगवान् स्व-आत्म-मायाया गतिम् ताम् अवलोक्य सः सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत्
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।
बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा ॥ ४ ॥
अहम् च उक्तः भगवता प्रपन्न आर्ति-हरेण ह बदरीम् त्वम् प्रयाहि इति स्व-कुलम् सञ्जिहीर्षुणा
तथापि तदभिप्रेतं जानन्नहमरिन्दम ।
पृष्ठतोऽन्वगमं भर्तु: पादविश्लेषणाक्षम: ॥ ५ ॥
तथा अपि तत्-अभिप्रेतम् जानन् अहम् अरिम्-दम पृष्ठतः अन्वगमम् भर्तुः पाद-विश्लेषण अक्षमः
अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥
अद्राक्षम् एकम् आसीनम् विचिन्वन् दयितम् पतिम् श्री-निकेतम् सरस्वत्याम् कृत-केतम् अकेतनम्
श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७ ॥
श्याम-अवदातम् विरजम् प्रशान्त अरुण लोचनम् दोर्भिः चतुर्भिः विदितम् पीत कौश अम्बरेण च
वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रि सरोरुहम् ।
अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८ ॥
वामे ऊरौ अधिश्रित्य दक्षिण-अङ्घ्रि-सरोरुहम् अपाश्रित अर्भक अश्वत्थम् अकृशम् त्यक्त पिप्पलम्
तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा ।
लोकाननुचरन् सिद्ध आससाद यदृच्छया ॥ ९ ॥
तस्मिन् महा-भागवतः द्वैपायन सुहृत् सखा लोकान् अनुचरन् सिद्धे आससाद यदृच्छया
तस्यानुरक्तस्य मुनेर्मुकुन्द:
प्रमोदभावानतकन्धरस्य ।
आशृण्वतो मामनुरागहास-
समीक्षया विश्रमयन्नुवाच ॥ १० ॥
तस्य अनुरक्तस्य मुनेः मुकुन्दः प्रमोद-भाव आनत कन्धरस्य आशृण्वतः माम् अनुराग-हास समीक्षया विश्र-मयन् उवाच
श्री भगवानुवाच
वेदाहमन्तर्मनसीप्सितं ते
ददामि यत्तद् दुरवापमन्यै: ।
सत्रे पुरा विश्वसृजां वसूनां
मत्सिद्धिकामेन वसो त्वयेष्ट: ॥ ११ ॥
श्री-भगवान् उवाच वेद अहम् अन्तः मनसि ईप्सितम् ते ददामि यत् तत् दुरवापम् अन्यैः सत्रे पुरा विश्व-सृजाम् वसूनाम् मत्-सिद्धि-कामेन वसो त्वया इष्टः
स एष साधो चरमो भवाना-
मासादितस्ते मदनुग्रहो यत् ।
यन्मां नृलोकान् रह उत्सृजन्तं
दिष्टया ददृश्वान् विशदानुवृत्त्या ॥ १२ ॥
सः एषः साधो चरमः भवानाम् आसादितः ते मत् अनुग्रहः यत् यत् माम् नृ-लोकान् रहः उत्सृजन्तम् दिष्ट्या ददृश्वान् विशद-अनुवृत्त्या
पुरा मया प्रोक्तमजाय नाभ्ये
पद्मे निषण्णाय ममादिसर्गे ।
ज्ञानं परं मन्महिमावभासं
यत्सूरयो भागवतं वदन्ति ॥ १३ ॥
पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय मम आदि-सर्गे ज्ञानम् परम् मत्-महिमा अवभासम् यत् सूरयः भागवतम् वदन्ति
इत्यादृतोक्त: परमस्य पुंस:
प्रतिक्षणानुग्रहभाजनोऽहम् ।
स्नेहोत्थरोमा स्खलिताक्षरस्तं
मुञ्चञ्छुच: प्राञ्जलिराबभाषे ॥ १४ ॥
इति आदृत उक्तः परमस्य पुंसः प्रतिक्षण अनुग्रह-भाजनः अहम् स्नेह उत्थ रोमा स्खलित अक्षरः तम् मुञ्चन् शुचः प्राञ्जलिः आबभाषे
को न्वीश ते पादसरोजभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणोत्सुक: ॥ १५ ॥
कः नु ईश ते पाद-सरोज-भाजाम् सु-दुर्लभः अर्थेषु चतुर्षु अपि इह तथा अपि न अहम् प्रवृणोमि भूमन् भवत् पद-अम्भोज निषेवण-उत्सुकः
कर्माण्यनीहस्य भवोऽभवस्य ते
दुर्गाश्रयोऽथारिभयात्पलायनम् ।
कालात्मनो यत्प्रमदायुताश्रम:
स्वात्मन्रते: खिद्यति धीर्विदामिह ॥ १६ ॥
कर्माणि अनीहस्य भवः अभवस्य ते दुर्ग-आश्रयः अथ अरि-भयात् पलायनम् काल-आत्मनः यत् प्रमदा-आयुत आश्रमः स्व-आत्मन् रतेः खिद्यति धीः विदाम् इह
मन्त्रेषु मां वा उपहूय यत्त्व-
मकुण्ठिताखण्डसदात्मबोध: ।
पृच्छे: प्रभो मुग्ध इवाप्रमत्त-
स्तन्नो मनो मोहयतीव देव ॥ १७ ॥
मन्त्रेषु माम् वै उपहूय यत् त्वम् अकुण्ठित अखण्ड सदा आत्म बोधः पृच्छेः प्रभो मुग्धः इव अप्रमत्तः तत् नः मनः मोहयति इव देव
ज्ञानं परं स्वात्मरह:प्रकाशं
प्रोवाच कस्मै भगवान् समग्रम् ।
अपि क्षमं नो ग्रहणाय भर्त-
र्वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥
ज्ञानम् परम् स्व-आत्म रहः प्रकाशम् प्रोवाच कस्मै भगवान् समग्रम् अपि क्षमम् नः ग्रहणाय भर्तः वद अञ्जसा यत् वृजिनम् तरेम
इत्यावेदितहार्दाय मह्यं स भगवान् पर: ।
आदिदेशारविन्दाक्ष आत्मन: परमां स्थितिम् ॥ १९ ॥
इति आवेदित हार्दाय मह्यम् सः भगवान् परः आदिदेश अरविन्द-अक्षः आत्मनः परमाम् स्थितिम्
स एवमाराधितपादतीर्था-
दधीततत्त्वात्मविबोधमार्ग:
प्रणम्य पादौ परिवृत्य देव-
मिहागतोऽहं विरहातुरात्मा ॥ २० ॥
सः एवम् आराधित पाद-तीर्थात् अधीत तत्त्व-आत्म विबोध मार्गः प्रणम्य पादौ परिवृत्य देवम् इह आगतः अहम् विरह आतुर-आत्मा
सोऽहं तद्दर्शनाह्लादवियोगार्तियुत: प्रभो ।
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥
सः अहम् तत् दर्शन आह्लाद वियोग आर्ति-युतः प्रभो गमिष्ये दयितम् तस्य बदर्याश्रम मण्डलम्
यत्र नारायणो देवो नरश्च भगवानृषि: ।
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥
यत्र नारायणः देवः नरः च भगवान् ऋषिः मृदु तीव्रम् तपः दीर्घम् तेपाते लोक-भावनौ
श्री शुक उवाच
इत्युद्धवादुपाकर्ण्य सुहृदां दु:सहं वधम् ।
ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुध: ॥ २३ ॥
श्री-शुकः उवाच इति उद्धवात् उपाकर्ण्य सुहृदाम् दुःसहम् वधम् ज्ञानेन अशमयत् क्षत्ता शोकम् उत्पतितम् बुधः
स तं महाभागवतं व्रजन्तं कौरवर्षभ: ।
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥
सः तम् महा-भागवतम् व्रजन्तम् कौरव-ऋषभः विश्रम्भात् अभ्यधत्त इदम् मुख्यम् कृष्ण परिग्रहे
विदुर उवाच
ज्ञानं परं स्वात्मरह:प्रकाशं
यदाह योगेश्वर ईश्वरस्ते ।
वक्तुं भवान्नोऽर्हति यद्धि विष्णो-
र्भृत्या: स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥
विदुरः उवाच ज्ञानम् परम् स्व-आत्म रहः प्रकाशम् यत् आह योग-ईश्वरः ईश्वरः ते वक्तुम् भवान् नः अर्हति यत् हि विष्णोः भृत्याः स्व-भृत्य-अर्थ-कृतः चरन्ति
उद्धव उवाच
ननु ते तत्त्वसंराध्य ऋषि: कौषारवोऽन्तिके ।
साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥
उद्धवः उवाच ननु ते तत्त्व-संराध्यः ऋषिः कौषारवः अन्तिके साक्षात् भगवता आदिष्टः मर्त्य-लोकम् जिहासता
श्री शुक उवाच
इति सह विदुरेण विश्वमूर्ते-
र्गुणकथया सुधयाप्लावितोरुताप: ।
क्षणमिव पुलिने यमस्वसुस्तां
समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥
श्री-शुकः उवाच इति सह विदुरेण विश्व-मूर्तेः गुण-कथया सुधया प्लावित-उरु-तापः क्षणम् इव पुलिने यमस्वसुः ताम् समुषितः औपगविः निशाम् ततः अगात्
राजोवाच
निधनमुपगतेषु वृष्णिभोजे-
ष्वधिरथयूथपयूथपेषु मुख्य: ।
स तु कथमवशिष्ट उद्धवो यद्धरि-
रपि तत्यज आकृतिं त्र्यधीश: ॥ २८ ॥
राजा उवाच निधनम् उपगतेषु वृष्णि भोजेषु अधिरथ यूथ-प यूथ-पेषु मुख्यः सः तु कथम् अवशिष्टः उद्धवः यत् हरिः अपि तत्यजे आकृतिम् त्रि-अधीशः
श्री शुक उवाच
ब्रह्मशापापदेशेन कालेनामोघवाञ्छित: ।
संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् ॥ २९ ॥
श्री-शुकः उवाच ब्रह्म-शाप अपदेशेन कालेन अमोघ वाञ्छितः संहृत्य स्व-कुलम् स्फीतम् त्यक्ष्यन् देहम् अचिन्तयत्
अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् ।
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वर: ॥ ३० ॥
अस्मात् लोकात् उपरते मयि ज्ञानम् मत्-आश्रयम् अर्हति उद्धवः एव अद्धा सम्प्रति आत्मवताम् वरः
नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दित: प्रभु: ।
अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥
न उद्धवः अणु अपि मत् न्यूनः यत् गुणैः न अर्दितः प्रभुः अतः मत्-वयुनम् लोकम् ग्राहयन् इह तिष्ठतु
एवं त्रिलोकगुरुणा सन्दिष्ट: शब्दयोनिना ।
बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥
एवम् त्रि-लोक गुरुणा सन्दिष्टः शब्द-योनिना बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना
विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मन: ।
क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥
विदुरः अपि उद्धवात् श्रुत्वा कृष्णस्य परम-आत्मनः क्रीडया उपात्त देहस्य कर्माणि श्लाघितानि च
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥
देह-न्यासम् च तस्य एवम् धीराणाम् धैर्य वर्धनम् अन्येषाम् दुष्कर-तरम् पशूनाम् विक्लव आत्मनाम्
आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।
ध्यायन् गते भागवते रुरोद प्रेमविह्वल: ॥ ३५ ॥
आत्मानम् च कुरु-श्रेष्ठ कृष्णेन मनसा ईक्षितम् ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः
कालिन्द्या: कतिभि: सिद्ध अहोभिर्भरतर्षभ ।
प्रापद्यत स्व:सरितं यत्र मित्रासुतो मुनि: ॥ ३६ ॥
कालिन्द्याः कतिभिः सिद्धे अहोभिः भरत-ऋषभ प्रापद्यत स्वः-सरितम् यत्र मित्रा-सुतः मुनिः
३.५
श्री शुक उवाच
द्वारि द्युनद्या ऋषभ: कुरूणां
मैत्रेयमासीनमगाधबोधम् ।
क्षत्तोपसृत्याच्युतभावसिद्ध:
पप्रच्छ सौशील्यगुणाभितृप्त: ॥ १ ॥
श्री-शुकः उवाच द्वारि द्यु-नद्याः ऋषभः कुरूणाम् मैत्रेयम् आसीनम् अगाध-बोधम् क्षत्ता उपसृत्य अच्युत भाव सिद्धः पप्रच्छ सौशील्य गुण-अभितृप्तः
विदुर उवाच
सुखाय कर्माणि करोति लोको
न तै: सुखं वान्यदुपारमं वा ।
विन्देत भूयस्तत एव दु:खं
यदत्र युक्तं भगवान् वदेन्न: ॥ २ ॥
विदुरः उवाच सुखाय कर्माणि करोति लोकः न तैः सुखम् वा अन्यत् उपारमम् वा विन्देत भूयः ततः एव दुःखम् यत् अत्र युक्तम् भगवान् वदेत् नः
जनस्य कृष्णाद्विमुखस्य दैवा-
दधर्मशीलस्य सुदु:खितस्य ।
अनुग्रहायेह चरन्ति नूनं
भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥
जनस्य कृष्णात् विमुखस्य दैवात् अधर्म-शीलस्य सु-दुःखितस्य अनुग्रहाय इह चरन्ति नूनम् भूतानि भव्यानि जनार्दनस्य
तत्साधुवर्यादिश वर्त्म शं न:
संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्तिपूते
ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ ४ ॥
तत् साधु-वर्य आदिश वर्त्म शम् नः संराधितः भगवान् येन पुंसाम् हृदि स्थितः यच्छति भक्ति-पूते ज्ञानम् स तत्त्व अधिगमम् पुराणम्
करोति कर्माणि कृतावतारो
यान्यात्मतन्त्रो भगवांस्त्र्यधीश: ।
यथा ससर्जाग्र इदं निरीह:
संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५ ॥
करोति कर्माणि कृत अवतारः यानि आत्म-तन्त्रः भगवान् त्रि-अधीशः यथा ससर्ज अग्रे इदम् निरीहः संस्थाप्य वृत्तिम् जगतः विधत्ते
यथा पुन: स्वे ख इदं निवेश्य
शेते गुहायां स निवृत्तवृत्ति: ।
योगेश्वराधीश्वर एक एत-
दनुप्रविष्टो बहुधा यथासीत् ॥ ६ ॥
यथा पुनः स्वे खे इदम् निवेश्य शेते गुहायाम् सः निवृत्त वृत्तिः योग-ईश्वर अधीश्वरः एकः एतत् अनुप्रविष्टः बहुधा यथा आसीत्
क्रीडन् विधत्ते द्विजगोसुराणां
क्षेमाय कर्माण्यवतारभेदै: ।
मनो न तृप्यत्यपि शृण्वतां न:
सुश्लोकमौलेश्चरितामृतानि ॥ ७ ॥
क्रीडन् विधत्ते द्विज गो सुराणाम् क्षेमाय कर्माणि अवतार भेदैः मनः न तृप्यति अपि शृण्वताम् नः सु-श्लोक मौलेः चरित अमृतानि
यैस्तत्त्वभेदैरधिलोकनाथो
लोकानलोकान् सह लोकपालान् ।
अचीक्लृपद्यत्र हि सर्वसत्त्व-
निकायभेदोऽधिकृत: प्रतीत: ॥ ८ ॥
यैः तत्त्व भेदैः अधिलोक-नाथः लोकान् अलोकान् सह लोक-पालान् अचीकॢपत् यत्र हि सर्व सत्त्व निकाय भेदः अधिकृतः प्रतीतः
येन प्रजानामुत आत्मकर्म-
रूपाभिधानां य भिदां व्यधत्त ।
नारायणो विश्वसृगात्मयोनि-
रेतच्च नो वर्णय विप्रवर्य ॥ ९ ॥
येन प्रजानाम् उत आत्म-कर्म रूप अभिधानाम् च भिदाम् व्यधत्त नारायणः विश्वसृक् आत्म-योनिः एतत् च नः वर्णय विप्र-वर्य
परावरेषां भगवन् व्रतानि
श्रुतानि मे व्यासमुखादभीक्ष्णम् ।
अतृप्नुम क्षुल्लसुखावहानां
तेषामृते कृष्णकथामृतौघात् ॥ १० ॥
पर अवरेषाम् भगवन् व्रतानि श्रुतानि मे व्यास मुखात् अभीक्ष्णम् अतृप्नुम क्षुल्ल सुख-आवहानाम् तेषाम् ऋते कृष्ण-कथा अमृत-ओघात्
कस्तृप्नुयात्तीर्थपदोऽभिधानात्
सत्रेषु व: सूरिभिरीड्यमानात् ।
य: कर्णनाडीं पुरुषस्य यातो
भवप्रदां गेहरतिं छिनत्ति ॥ ११ ॥
कः तृप्नुयात् तीर्थ-पदः अभिधानात् सत्रेषु वः सूरिभिः ईड्यमानात् यः कर्ण-नाडीम् पुरुषस्य यातः भव-प्रदाम् गेह-रतिम् छिनत्ति
मुनिर्विवक्षुर्भगवद्गुणानां
सखापि ते भारतमाह कृष्ण: ।
यस्मिन्नृणां ग्राम्यसुखानुवादै-
र्मतिर्गृहीता नु हरे: कथायाम् ॥ १२ ॥
मुनिः विवक्षुः भगवत् गुणानाम् सखा अपि ते भारतम् आह कृष्णः यस्मिन् नृणाम् ग्राम्य सुख-अनुवादैः मतिः गृहीता नु हरेः कथायाम्
सा श्रद्दधानस्य विवर्धमाना
विरक्तिमन्यत्र करोति पुंस: ।
हरे: पदानुस्मृतिनिर्वृतस्य
समस्तदु:खाप्ययमाशु धत्ते ॥ १३ ॥
सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः हरेः पद-अनुस्मृति निर्वृतस्य समस्त-दुःख अप्ययम् आशु धत्ते
ताञ्छोच्यशोच्यानविदोऽनुशोचे
हरे: कथायां विमुखानघेन ।
क्षिणोति देवोऽनिमिषस्तु येषा-
मायुर्वृथावादगतिस्मृतीनाम् ॥ १४ ॥
तान् शोच्य शोच्यान् अविदः अनुशोचे हरेः कथायाम् विमुखान् अघेन क्षिणोति देवः अनिमिषः तु येषाम् आयुः वृथा वाद गति स्मृतीनाम्
तदस्य कौषारव शर्मदातु-
र्हरे: कथामेव कथासु सारम् ।
उद्धृत्य पुष्पेभ्य इवार्तबन्धो
शिवाय न: कीर्तय तीर्थकीर्ते: ॥ १५ ॥
तत् अस्य कौषारव शर्म-दातुः हरेः कथाम् एव कथासु सारम् उद्धृत्य पुष्पेभ्यः इव आर्त-बन्धो शिवाय नः कीर्तय तीर्थ कीर्तेः
स विश्वजन्मस्थितिसंयमार्थे
कृतावतार: प्रगृहीतशक्ति: ।
चकार कर्माण्यतिपूरुषाणि
यानीश्वर: कीर्तय तानि मह्यम् ॥ १६ ॥
सः विश्व जन्म स्थिति संयम-अर्थे कृत अवतारः प्रगृहीत शक्तिः चकार कर्माणि अति-पूरुषाणि यानि ईश्वरः कीर्तय तानि मह्यम्
श्री शुक उवाच
स एवं भगवान् पृष्ट: क्षत्त्रा कौषारवो मुनि: ।
पुंसां नि:श्रेयसार्थेन तमाह बहुमानयन् ॥ १७ ॥
श्री-शुकः उवाच सः एवम् भगवान् पृष्टः क्षत्त्रा कौषारवः मुनिः पुंसाम् निःश्रेयस अर्थेन तम् आह बहु मानयन्
मैत्रेय उवाच
साधु पृष्टं त्वया साधो लोकान् साध्वनुगृह्णता ।
कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मन: ॥ १८ ॥
मैत्रेयः उवाच साधु पृष्टम् त्वया साधो लोकान् साधु अनुगृह्णता कीर्तिम् वितन्वता लोके आत्मनः अधोक्षज आत्मनः
नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे ।
गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वर: ॥ १९ ॥
न एतत् चित्रम् त्वयि क्षत्तः बादरायण वीर्य-जे गृहीतः अनन्य-भावेन यत् त्वया हरिः ईश्वरः
माण्डव्यशापाद्भगवान् प्रजासंयमनो यम: ।
भ्रातु: क्षेत्रे भुजिष्यायां जात: सत्यवतीसुतात् ॥ २० ॥
माण्डव्य शापात् भगवान् प्रजा संयमनः यमः भ्रातुः क्षेत्रे भुजिष्यायाम् जातः सत्यवती सुतात्
भवान् भगवतो नित्यं सम्मत: सानुगस्य ह ।
यस्य ज्ञानोपदेशाय मादिशद्भगवान् व्रजन् ॥ २१ ॥
भवान् भगवतः नित्यम् सम्मतः स-अनुगस्य ह यस्य ज्ञान उपदेशाय मा आदिशत् भगवान् व्रजन्
अथ ते भगवल्लीला योगमायोरुबृंहिता: ।
विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वश: ॥ २२ ॥
अथ ते भगवत् लीलाः योग-माया उरु बृंहिताः विश्व स्थिति उद्भव अन्त अर्थाः वर्णयामि अनुपूर्वशः
भगवानेक आसेदमग्र आत्मात्मनां विभु: ।
आत्मेच्छानुगतावात्मा नानामत्युपलक्षण: ॥ २३ ॥
भगवान् एकः आस इदम् अग्रे आत्मा आत्मनाम् विभुः आत्मा इच्छा अनुगतौ आत्मा नाना-मति उपलक्षणः
स वा एष तदा द्रष्टा नापश्यद् दृश्यमेकराट् ।
मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥ २४ ॥
सः वा एषः तदा द्रष्टा न अपश्यत् दृश्यम् एक-राट् मेने असन्तम् इव आत्मानम् सुप्त शक्तिः असुप्त दृक्
सा वा एतस्य संद्रष्टु: शक्ति: सदसदात्मिका ।
माया नाम महाभाग ययेदं निर्ममे विभु: ॥ २५ ॥
सा वा एतस्य संद्रष्टुः शक्तिः सत्-असत्-आत्मिका माया नाम महा-भाग यया इदम् निर्ममे विभुः
कालवृत्त्या तु मायायां गुणमय्यामधोक्षज: ।
पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६ ॥
काल वृत्त्या तु मायायाम् गुण-मय्याम् अधोक्षजः पुरुषेण आत्म-भूतेन वीर्यम् आधत्त वीर्यवान्
ततोऽभवन् महत्तत्त्वमव्यक्तात्कालचोदितात् ।
विज्ञानात्मात्मदेहस्थं विश्वं व्यञ्जंस्तमोनुद: ॥ २७ ॥
ततः अभवत् महत् तत्त्वम् अव्यक्तात् काल-चोदितात् विज्ञान-आत्मा आत्म-देह-स्थम् विश्वम् व्यञ्जन् तमः-नुदः
सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचर: ।
आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ २८ ॥
सः अपि अंश गुण काल आत्मा भगवत् दृष्टि-गोचरः आत्मानम् व्यकरोत् आत्मा विश्वस्य अस्य सिसृक्षया
महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत ।
कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमय: ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ २९ ॥
महत् तत्त्वात् विकुर्वाणात् अहम् तत्त्वम् व्यजायत कार्य कारण कर्तृ आत्मा भूत इन्द्रिय मनः-मयः वैकारिकः तैजसः च तामसः च इति अहम् त्रिधा
अहंतत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् ।
वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यत: ॥ ३० ॥
अहम्-तत्त्वात् विकुर्वाणात् मनः वैकारिकात् अभूत् वैकारिकाः च ये देवाः अर्थ अभिव्यञ्जनम् यतः
तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च ॥ ३१ ॥
तैजसानि इन्द्रियाणि एव ज्ञान कर्म मयानि च
तामसो भूतसूक्ष्मादिर्यत: खं लिङ्गमात्मन: ॥ ३२ ॥
तामसः भूत-सूक्ष्म-आदिः यतः खम् लिङ्गम् आत्मनः
कालमायांशयोगेन भगवद्वीक्षितं नभ: ।
नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम् ॥ ३३ ॥
काल माया अंश-योगेन भगवत् वीक्षितम् नभः नभसः अनुसृतम् स्पर्शम् विकुर्वत् निर्ममे अनिलम्
अनिलोऽपि विकुर्वाणो नभसोरुबलान्वित: ।
ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३४ ॥
अनिलः अपि विकुर्वाणः नभसा उरु-बल-अन्वितः ससर्ज रूप तत्-मात्रम् ज्योतिः लोकस्य लोचनम्
अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम् ।
आधत्ताम्भो रसमयं कालमायांशयोगत: ॥ ३५ ॥
अनिलेन अन्वितम् ज्योतिः विकुर्वत् परवीक्षितम् आधत्त अम्भः रस-मयम् काल माया-अंश योगतः
ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद्ब्रह्मवीक्षितम् ।
महीं गन्धगुणामाधात्कालमायांशयोगत: ॥ ३६ ॥
ज्योतिषा अम्भः अनुसंसृष्टम् विकुर्वत् ब्रह्म वीक्षितम् महीम् गन्ध गुणाम् आधात् काल माया अंश योगतः
भूतानां नभ आदीनां यद्यद्भव्यावरावरम् ।
तेषां परानुसंसर्गाद्यथासंख्यं गुणान् विदु: ॥ ३७ ॥
भूतानाम् नभः आदीनाम् यत् यत् भव्य अवर वरम् तेषाम् पर अनुसंसर्गात् यथा सङ्ख्यम् गुणान् विदुः
एते देवा: कला विष्णो: कालमायांशलिङ्गिन: ।
नानात्वात्स्वक्रियानीशा: प्रोचु: प्राञ्जलयो विभुम् ॥ ३८ ॥
एते देवाः कलाः विष्णोः काल माया अंश लिङ्गिनः नानात्वात् स्व-क्रिया अनीशाः प्रोचुः प्राञ्जलयः विभुम्
देवा ऊचु:
नमाम ते देव पदारविन्दं
प्रपन्नतापोपशमातपत्रम् ।
यन्मूलकेता यतयोऽञ्जसोरु-
संसारदु:खं बहिरुत्क्षिपन्ति ॥ ३९ ॥
देवाः ऊचुः नमाम ते देव पद-अरविन्दम् प्रपन्न ताप उपशम आतपत्रम् यत्-मूल-केताः यतयः अञ्जसा उरु संसार-दुःखम् बहिः उत्क्षिपन्ति
धातर्यदस्मिन् भव ईश जीवा-
स्तापत्रयेणाभिहता न शर्म ।
आत्मन्लभन्ते भगवंस्तवाङ्घ्रि-
च्छायां सविद्यामत आश्रयेम ॥ ४० ॥
धातः यत् अस्मिन् भवे ईश जीवाः ताप त्रयेण अभिहताः न शर्म आत्मन् लभन्ते भगवन् तव अङ्घ्रि-छायाम् स-विद्याम् अतः आश्रयेम
मार्गन्ति यत्ते मुखपद्मनीडै-
श्छन्द:सुपर्णैऋर्षयो विविक्ते ।
यस्याघमर्षोदसरिद्वराया:
पदं पदं तीर्थपद: प्रपन्ना: ॥ ४१ ॥
मार्गन्ति यत् ते मुख-पद्म नीडैः छन्दः सुपर्णैः ऋषयः विविक्ते यस्य अघ-मर्ष-उद सरित् वरायाः पदम् पदम् तीर्थ-पदः प्रपन्नाः
यच्छ्रद्धया श्रुतवत्या य भक्त्या
संमृज्यमाने हृदयेऽवधाय ।
ज्ञानेन वैराग्यबलेन धीरा
व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् ॥ ४२ ॥
यत् श्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये अवधाय ज्ञानेन वैराग्य बलेन धीराः व्रजेम तत् ते अङ्घ्रि सरोज-पीठम्
विश्वस्य जन्मस्थितिसंयमार्थे
कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यदीश
स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४३ ॥
विश्वस्य जन्म स्थिति संयम-अर्थे कृत अवतारस्य पद-अम्बुजम् ते व्रजेम सर्वे शरणम् यत् ईश स्मृतम् प्रयच्छति अभयम् स्व-पुंसाम्
यत्सानुबन्धेऽसति देहगेहे
ममाहमित्यूढदुराग्रहाणाम् ।
पुंसां सुदूरं वसतोऽपि पुर्यां
भजेम तत्ते भगवन् पदाब्जम् ॥ ४४ ॥
यत् स-अनुबन्धे असति देह गेहे मम अहम् इति ऊढ दुराग्रहाणाम् पुंसाम् सु-दूरम् वसतः अपि पुर्याम् भजेम तत् ते भगवन् पद-अब्जम्
तान् वै ह्यसद्वृत्तिभिरक्षिभिर्ये
पराहृतान्तर्मनस: परेश ।
अथो न पश्यन्त्युरुगाय नूनं
ये ते पदन्यासविलासलक्ष्या: ॥ ४५ ॥
तान् वै हि असत् वृत्तिभिः अक्षिभिः ये पराहृत अन्तः-मनसः परेश अथो न पश्यन्ति उरुगाय नूनम् ये ते पदन्यास विलास लक्ष्याः
पानेन ते देव कथासुधाया:
प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥ ४६ ॥
पानेन ते देव कथा सुधायाः प्रवृद्ध भक्त्या विशद-आशयाः ये वैराग्य-सारम् प्रतिलभ्य बोधम् यथा अञ्जसा अन्वीयुः अकुण्ठ-धिष्ण्यम्
तथापरे चात्मसमाधियोग-
बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीरा: पुरुषं विशन्ति
तेषां श्रम: स्यान्न तु सेवया ते ॥ ४७ ॥
तथा अपरे च आत्म-समाधि योग बलेन जित्वा प्रकृतिम् बलिष्ठाम् त्वाम् एव धीराः पुरुषम् विशन्ति तेषाम् श्रमः स्यात् न तु सेवया ते
तत्ते वयं लोकसिसृक्षयाद्य
त्वयानुसृष्टास्त्रिभिरात्मभि: स्म ।
सर्वे वियुक्ता: स्वविहारतन्त्रं
न शक्नुमस्तत्प्रतिहर्तवे ते ॥ ४८ ॥
तत् ते वयम् लोक सिसृक्षया आद्य त्वया अनुसृष्टाः त्रिभिः आत्मभिः स्म सर्वे वियुक्ताः स्व-विहार-तन्त्रम् न शक्नुमः तत् प्रतिहर्तवे ते
यावद्बलिं तेऽज हराम काले
यथा वयं चान्नमदाम यत्र ।
यथोभयेषां त इमे हि लोका
बलिं हरन्तोऽन्नमदन्त्यनूहा: ॥ ४९ ॥
यावत् बलिम् ते अज हराम काले यथा वयम् च अन्नम् अदाम यत्र यथा उभयेषाम् ते इमे हि लोकाः बलिम् हरन्तः अन्नम् अदन्ति अनूहाः
त्वं न: सुराणामसि सान्वयानां
कूटस्थ आद्य: पुरुष: पुराण: ।
त्वं देव शक्त्यां गुणकर्मयोनौ
रेतस्त्वजायां कविमादधेऽज: ॥ ५० ॥
त्वम् नः सुराणाम् असि स-अन्वयानाम् कूट-स्थः आद्यः पुरुषः पुराणः त्वम् देव शक्त्याम् गुण-कर्म-योनौ रेतः तु अजायाम् कविम् आदधे अजः
ततो वयं मत्प्रमुखा यदर्थे
बभूविमात्मन् करवाम किं ते ।
त्वं न: स्वचक्षु: परिदेहि शक्त्या
देव क्रियार्थे यदनुग्रहाणाम् ॥ ५१ ॥
ततः वयम् मत्-प्रमुखाः यत्-अर्थे बभूविम आत्मन् करवाम किम् ते त्वम् नः स्व-चक्षुः परिदेहि शक्त्या देव क्रिया-अर्थे यत् अनुग्रहाणाम्
३.६
ऋषिरुवाच
इति तासां स्वशक्तीनां सतीनामसमेत्य स: ।
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वर: ॥ १ ॥
ऋषिः उवाच इति तासाम् स्व-शक्तीनाम् सतीनाम् असमेत्य सः प्रसुप्त लोक-तन्त्राणाम् निशाम्य गतिम् ईश्वरः
कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रम: ।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ २ ॥
काल-सञ्ज्ञाम् तदा देवीम् बिभ्रत् शक्तिम् उरुक्रमः त्रयः-विंशति तत्त्वानाम् गणम् युगपत् आविशत्
सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयमास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥
सः अनुप्रविष्टः भगवान् चेष्टा-रूपेण तम् गणम् भिन्नम् संयोजयाम् आस सुप्तम् कर्म प्रबोधयन्
प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गण: ।
प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४ ॥
प्रबुद्ध कर्मा दैवेन त्रयः-विंशतिकः गणः प्रेरितः अजनयत् स्वाभिः मात्राभिः अधिपूरुषम्
परेण विशता स्वस्मिन्मात्रया विश्वसृग्गण: ।
चुक्षोभान्योन्यमासाद्य यस्मिन्लोकाश्चराचरा: ॥ ५ ॥
परेण विशता स्वस्मिन् मात्रया विश्व-सृक् गणः चुक्षोभ अन्योन्यम् आसाद्य यस्मिन् लोकाः चर-अचराः
हिरण्मय: स पुरुष: सहस्रपरिवत्सरान् ।
आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहित: ॥ ६ ॥
हिरण्मयः सः पुरुषः सहस्र परिवत्सरान् आण्ड-कोशे उवास अप्सु सर्व-सत्त्व उपबृंहितः
स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् ।
विबभाजात्मनात्मानमेकधा दशधा त्रिधा ॥ ७ ॥
सः वै विश्व-सृजाम् गर्भः देव कर्म आत्म शक्तिमान् विबभाज आत्मना आत्मानम् एकधा दशधा त्रिधा
एष ह्यशेषसत्त्वानामात्मांश: परमात्मन: ।
आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥
एषः हि अशेष सत्त्वानाम् आत्मा अंशः परम-आत्मनः आद्यः अवतारः यत्र असौ भूत-ग्रामः विभाव्यते
साध्यात्म: साधिदैवश्च साधिभूत इति त्रिधा ।
विराट् प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥
स-आध्यात्मः स-आधिदैवः च स-आधिभूतः इति त्रिधा विराट् प्राणः दश-विधः एकधा हृदयेन च
स्मरन् विश्वसृजामीशो विज्ञापितमधोक्षज: ।
विराजमतपत्स्वेन तेजसैषां विवृत्तये ॥ १० ॥
स्मरन् विश्व-सृजाम् ईशः विज्ञापितम् अधोक्षजः विराजम् अतपत् स्वेन तेजसा एषाम् विवृत्तये
अथ तस्याभितप्तस्य कतिधायतनानि ह ।
निरभिद्यन्त देवानां तानि मे गदत: शृणु ॥ ११ ॥
अथ तस्य अभितप्तस्य कतिधा आयतनानि ह निरभिद्यन्त देवानाम् तानि मे गदतः शृणु
तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् ।
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२ ॥
तस्य अग्निः आस्यम् निर्भिन्नम् लोक-पालः अविशत् पदम् वाचा स्व-अंशेन वक्तव्यम् यया असौ प्रतिपद्यते
निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरे: ।
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३ ॥
निर्भिन्नम् तालु वरुणः लोक-पालः अविशत् हरेः जिह्वया अंशेन च रसम् यया असौ प्रतिपद्यते
निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम् ।
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥
निर्भिन्ने अश्विनौ नासे विष्णोः आविशताम् पदम् घ्राणेन अंशेन गन्धस्य प्रतिपत्तिः यतः भवेत्
निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभो: ।
चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥
निर्भिन्ने अक्षिणी त्वष्टा लोक-पालः अविशत् विभोः चक्षुषा अंशेन रूपाणाम् प्रतिपत्तिः यतः भवेत्
निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् ।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥
निर्भिन्नानि अस्य चर्माणि लोक-पालः अनिलः अविशत् प्राणेन अंशेन संस्पर्शम् येन असौ प्रतिपद्यते
कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिश: ।
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥
कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यम् स्वम् विविशुः दिशः श्रोत्रेण अंशेन शब्दस्य सिद्धिम् येन प्रपद्यते
त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधी: ।
अंशेन रोमभि: कण्डूं यैरसौ प्रतिपद्यते ॥ १८ ॥
त्वचम् अस्य विनिर्भिन्नाम् विविशुः धिष्ण्यम् ओषधीः अंशेन रोमभिः कण्डूम् यैः असौ प्रतिपद्यते
मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् ।
रेतसांशेन येनासावानन्दं प्रतिपद्यते ॥ १९ ॥
मेढ्रम् तस्य विनिर्भिन्नम् स्व-धिष्ण्यम् कः उपाविशत् रेतसा अंशेन येन असौ आनन्दम् प्रतिपद्यते
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् ।
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥
गुदम् पुंसः विनिर्भिन्नम् मित्रः लोक-ईशः आविशत् पायुना अंशेन येन असौ विसर्गम् प्रतिपद्यते
हस्तावस्य विनिर्भिन्नाविन्द्र: स्वर्पतिराविशत् ।
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥
हस्तौ अस्य विनिर्भिन्नौ इन्द्रः स्वः-पतिः आविशत् वार्तया अंशेन पुरुषः यया वृत्तिम् प्रपद्यते
पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् ।
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥
पादौ अस्य विनिर्भिन्नौ लोक-ईशः विष्णुः आविशत् गत्या स्व-अंशेन पुरुषः यया प्राप्यम् प्रपद्यते
बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् ।
बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर्यतो भवेत् ॥ २३ ॥
बुद्धिम् च अस्य विनिर्भिन्नाम् वाक्-ईशः धिष्ण्यम् आविशत् बोधेन अंशेन बोद्धव्यम् प्रतिपत्तिः यतः भवेत्
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् ।
मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४ ॥
हृदयम् च अस्य निर्भिन्नम् चन्द्रमा धिष्ण्यम् आविशत् मनसा अंशेन येन असौ विक्रियाम् प्रतिपद्यते
आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम् ।
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥
आत्मानम् च अस्य निर्भिन्नम् अभिमानः अविशत् पदम् कर्मणा अंशेन येन असौ कर्तव्यम् प्रतिपद्यते
सत्त्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत् ।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥
सत्त्वम् च अस्य विनिर्भिन्नम् महान् धिष्ण्यम् उपाविशत् चित्तेन अंशेन येन असौ विज्ञानम् प्रतिपद्यते
शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत ।
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादय: ॥ २७ ॥
शीर्ष्णः अस्य द्यौः धरा पद्भ्याम् खम् नाभेः उदपद्यत गुणानाम् वृत्तयः येषु प्रतीयन्ते सुर-आदयः
आत्यन्तिकेन सत्त्वेन दिवं देवा: प्रपेदिरे ।
धरां रज:स्वभावेन पणयो ये च ताननु ॥ २८ ॥
आत्यन्तिकेन सत्त्वेन दिवम् देवाः प्रपेदिरे धराम् रजः स्वभावेन पणयः ये च तान् अनु
तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिता: ।
उभयोरन्तरं व्योम ये रुद्रपार्षदां गणा: ॥ २९ ॥
तार्तीयेन स्वभावेन भगवत्-नाभिम् आश्रिताः उभयोः अन्तरम् व्योम ये रुद्र-पार्षदाम् गणाः
मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।
यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद्ब्राह्मणो गुरु: ॥ ३० ॥
मुखतः अवर्तत ब्रह्म पुरुषस्य कुरु-उद्वह यः तु उन्मुखत्वात् वर्णानाम् मुख्यः अभूत् ब्राह्मणः गुरुः
बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रत: ।
यो जातस्त्रायते वर्णान् पौरुष: कण्टकक्षतात् ॥ ३१ ॥
बाहुभ्यः अवर्तत क्षत्रम् क्षत्रियः तत् अनुव्रतः यः जातः त्रायते वर्णान् पौरुषः कण्टक क्षतात्
विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभो: ।
वैश्यस्तदुद्भवो वार्तां नृणां य: समवर्तयत् ॥ ३२ ॥
विशः अवर्तन्त तस्य ऊर्वोः लोक-वृत्तिकरीः विभोः वैश्यः तत् उद्भवः वार्ताम् नृणाम् यः समवर्तयत्
पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये ।
तस्यां जात: पुरा शूद्रो यद्वृत्त्या तुष्यते हरि: ॥ ३३ ॥
पद्भ्याम् भगवतः जज्ञे शुश्रूषा धर्म सिद्धये तस्याम् जातः पुरा शूद्रः यत्-वृत्त्या तुष्यते हरिः
एते वर्णा: स्वधर्मेण यजन्ति स्वगुरुं हरिम् ।
श्रद्धयात्मविशुद्ध्यर्थं यज्जाता: सह वृत्तिभि: ॥ ३४ ॥
एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुम् हरिम् श्रद्धया आत्म विशुद्धि-अर्थम् यत् जाताः सह वृत्तिभिः
एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिण: ।
क: श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५ ॥
एतत् क्षत्तः भगवतः दैव-कर्म-आत्म-रूपिणः कः श्रद्दध्यात् उपाकर्तुम् योग-माया बल-उदयम्
तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् ।
कीर्तिं हरे: स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६ ॥
तथा अपि कीर्तयामि अङ्ग यथा मति यथा श्रुतम् कीर्तिम् हरेः स्वाम् सत्-कर्तुम् गिरम् अन्याभिधा असतीम्
एकान्तलाभं वचसो नु पुंसां
सुश्लोकमौलेर्गुणवादमाहु: ।
श्रुतेश्च विद्वद्भिरुपाकृतायां
कथासुधायामुपसम्प्रयोगम् ॥ ३७ ॥
एक-अन्त लाभम् वचसः नु पुंसाम् सुश्लोक मौलेः गुण-वादम् आहुः श्रुतेः च विद्वद्भिः उपाकृतायाम् कथा-सुधायाम् उपसम्प्रयोगम्
आत्मनोऽवसितो वत्स महिमा कविनादिना ।
संवत्सरसहस्रान्ते धिया योगविपक्कया ॥ ३८ ॥
आत्मनः अवसितः वत्स महिमा कविना आदिना संवत्सर सहस्र-अन्ते धिया योग-विपक्कया
अतो भगवतो माया मायिनामपि मोहिनी ।
यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥
अतः भगवतः माया मायिनाम् अपि मोहिनी यत् स्वयम् च आत्म-वर्त्म आत्मा न वेद किम् उत अपरे
यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह ।
अहं चान्य इमे देवास्तस्मै भगवते नम: ॥ ४० ॥
यतः अप्राप्य न्यवर्तन्त वाचः च मनसा सह अहम् च अन्ये इमे देवाः तस्मै भगवते नमः
३.७
श्रीशुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: ।
प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥
श्री-शुकः उवाच एवम् ब्रुवाणम् मैत्रेयम् द्वैपायन-सुतः बुधः प्रीणयन् इव भारत्या विदुरः प्रत्यभाषत
विदुर उवाच
ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिण: ।
लीलया चापि युज्येरन्निर्गुणस्य गुणा: क्रिया: ॥ २ ॥
विदुरः उवाच ब्रह्मन् कथम् भगवतः चित्-मात्रस्य अविकारिणः लीलया च अपि युज्येरन् निर्गुणस्य गुणाः क्रियाः
क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यत: ।
स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यत: ॥ ३ ॥
क्रीडायाम् उद्यमः अर्भस्य कामः चिक्रीडिषा अन्यतः स्वतः-तृप्तस्य च कथम् निवृत्तस्य सदा अन्यतः
अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया ।
तया संस्थापयत्येतद्भूय: प्रत्यपिधास्यति ॥ ४ ॥
अस्राक्षीत् भगवान् विश्वम् गुण-मय्या आत्म मायया तया संस्थापयति एतत् भूयः प्रत्य्-अपिधास्यति
देशत: कालतो योऽसाववस्थात: स्वतोऽन्यत: ।
अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥
देशतः कालतः यः असौ अवस्थातः स्वतः अन्यतः अविलुप्त अवबोध आत्मा सः युज्येत अजया कथम्
भगवानेक एवैष सर्वक्षेत्रेष्ववस्थित: ।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभि: कुत: ॥ ६ ॥
भगवान् एकः एव एषः सर्व क्षेत्रेषु अवस्थितः अमुष्य दुर्भगत्वम् वा क्लेशः वा कर्मभिः कुतः
एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे ।
तन्न: पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥
एतस्मिन् मे मनः विद्वन् खिद्यते अज्ञान सङ्कटे तत् नः पराणुद विभो कश्मलम् मानसम् महत्
श्रीशुक उवाच
स इत्थं चोदित: क्षत्त्रा तत्त्वजिज्ञासुना मुनि: ।
प्रत्याह भगवच्चित्त: स्मयन्निव गतस्मय: ॥ ८ ॥
श्री-शुकः उवाच सः इत्थम् चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः प्रत्याह भगवत्-चित्तः स्मयन् इव गत-स्मयः
मैत्रेय उवाच
सेयं भगवतो माया यन्नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥
मैत्रेयः उवाच सा इयम् भगवतः माया यत् नयेन विरुध्यते ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम्
यदर्थेन विनामुष्य पुंस आत्मविपर्यय: ।
प्रतीयत उपद्रष्टु: स्वशिरश्छेदनादिक: ॥ १० ॥
यत् अर्थेन विना अमुष्य पुंसः आत्म-विपर्ययः प्रतीयते उपद्रष्टुः स्व-शिरः छेदन-आदिकः
यथा जले चन्द्रमस: कम्पादिस्तत्कृतो गुण: ।
दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुण: ॥ ११ ॥
यथा जले चन्द्रमसः कम्प-आदिः तत्-कृतः गुणः दृश्यते असन् अपि द्रष्टुः आत्मनः अनात्मनः गुणः
स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।
भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥
सः वै निवृत्ति धर्मेण वासुदेव अनुकम्पया भगवत् भक्ति-योगेन तिरोधत्ते शनैः इह
यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ ।
विलीयन्ते तदा क्लेशा: संसुप्तस्येव कृत्स्नश: ॥ १३ ॥
यदा इन्द्रिय उपरामः अथ द्रष्टृ-आत्मनि परे हरौ विलीयन्ते तदा क्लेशाः संसुप्तस्य इव कृत्स्नशः
अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारे: ।
किं वा पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा ॥ १४ ॥
अशेष सङ्क्लेश शमम् विधत्ते गुण-अनुवाद श्रवणम् मुरारेः किम् वा पुनः तत् चरण-अरविन्द पराग-सेवा रतिः आत्म-लब्धा
विदुर उवाच
संछिन्न: संशयो मह्यं तव सूक्तासिना विभो ।
उभयत्रापि भगवन्मनो मे सम्प्रधावति ॥ १५ ॥
विदुरः उवाच सञ्छिन्नः संशयः मह्यम् तव सूक्त-असिना विभो उभयत्र अपि भगवन् मनः मे सम्प्रधावति
साध्वेतद् व्याहृतं विद्वन्नात्ममायायनं हरे: ।
आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहि: ॥ १६ ॥
साधु एतत् व्याहृतम् विद्वन् न आत्म माया अयनम् हरेः आभाति अपार्थम् निर्मूलम् विश्व-मूलम् न यत् बहिः
यश्च मूढतमो लोके यश्च बुद्धे: परं गत: ।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जन: ॥ १७ ॥
यः च मूढ-तमः लोके यः च बुद्धेः परम् गतः तौ उभौ सुखम् एधेते क्लिश्यति अन्तरितः जनः
अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मन: ।
तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥ १८ ॥
अर्थ-अभावम् विनिश्चित्य प्रतीतस्य अपि न आत्मनः ताम् च अपि युष्मत् चरण सेवया अहम् पराणुदे
यत्सेवया भगवत: कूटस्थस्य मधुद्विष: ।
रतिरासो भवेत्तीव्र: पादयोर्व्यसनार्दन: ॥ १९ ॥
यत् सेवया भगवतः कूट-स्थस्य मधु-द्विषः रति-रासः भवेत् तीव्रः पादयोः व्यसन अर्दनः
दुरापा ह्यल्पतपस: सेवा वैकुण्ठवर्त्मसु ।
यत्रोपगीयते नित्यं देवदेवो जनार्दन: ॥ २० ॥
दुरापा हि अल्प-तपसः सेवा वैकुण्ठ वर्त्मसु यत्र उपगीयते नित्यम् देव देवः जन-अर्दनः
सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात् ।
तेभ्यो विराजमुद्धृत्य तमनु प्राविशद्विभु: ॥ २१ ॥
सृष्ट्वा अग्रे महत्-आदीनि स-विकाराणि अनुक्रमात् तेभ्यः विराजम् उद्धृत्य तम् अनु प्राविशत् विभुः
यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।
यत्र विश्व इमे लोका: सविकाशं त आसते ॥ २२ ॥
यम् आहुः आद्यम् पुरुषम् सहस्र अङ्घ्रि ऊरु बाहुकम् यत्र विश्वः इमे लोकाः स-विकाशम् ते आसते
यस्मिन् दशविध: प्राण: सेन्द्रियार्थेन्द्रियस्त्रिवृत् ।
त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व न: ॥ २३ ॥
यस्मिन् दश-विधः प्राणः स इन्द्रिय अर्थ इन्द्रियः त्रि-वृत् त्वया ईरितः यतः वर्णाः तत्-विभूतीः वदस्व नः
यत्र पुत्रैश्च पौत्रैश्च नप्तृभि: सह गोत्रजै: ।
प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥
यत्र पुत्रैः च पौत्रैः च नप्तृभिः सह गोत्र-जैः प्रजाः विचित्र आकृतयः आसन् याभिः इदम् ततम्
प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन् ।
सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान् ॥ २५ ॥
प्रजा-पतीनाम् सः पतिः चकॢपे कान् प्रजापतीन् सर्गान् च एव अनुसर्गान् च मनून् मन्वन्तर-अधिपान्
उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ।
तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ॥ २६ ॥
उपरि अधः च ये लोकाः भूमेः मित्र-आत्मज आसते तेषाम् संस्थाम् प्रमाणम् च भूः-लोकस्य च वर्णय
तिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम् ।
वद न: सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम् ॥ २७ ॥
तिर्यक् मानुष देवानाम् सरीसृप पतत्त्रिणाम् वद नः सर्ग संव्यूहम् गार्भ स्वेद द्विज उद्भिदाम्
गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् ।
सृजत: श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥
गुण अवतारैः विश्वस्य सर्ग स्थिति अप्यय आश्रयम् सृजतः श्रीनिवासस्य व्याचक्ष्व उदार विक्रमम्
वर्णाश्रमविभागांश्च रूपशीलस्वभावत: ।
ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥
वर्ण-आश्रम विभागान् च रूप शील-स्वभावतः ऋषीणाम् जन्म कर्माणि वेदस्य च विकर्षणम्
यज्ञस्य च वितानानि योगस्य च पथ: प्रभो ।
नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम् ॥ ३० ॥
यज्ञस्य च वितानानि योगस्य च पथः प्रभो नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रम् वा भगवत् स्मृतम्
पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् ।
जीवस्य गतयो याश्च यावतीर्गुणकर्मजा: ॥ ३१ ॥
पाषण्ड-पथ वैषम्यम् प्रतिलोम निवेशनम् जीवस्य गतयः याः च यावतीः गुण कर्म-जाः
धर्मार्थकाममोक्षाणां निमित्तान्यविरोधत: ।
वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥
धर्म अर्थ काम मोक्षाणाम् निमित्तानि अविरोधतः वार्तायाः दण्ड-नीतेः च श्रुतस्य च विधिम् पृथक्
श्राद्धस्य च विधिं ब्रह्मन् पितृणां सर्गमेव च ।
ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥
श्राद्धस्य च विधिम् ब्रह्मन् पितॄणाम् सर्गम् एव च ग्रह नक्षत्र ताराणाम् काल अवयव संस्थितिम्
दानस्य तपसो वापि यच्चेष्टापूर्तयो: फलम् ।
प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥
दानस्य तपसः वापि यत् च इष्टा पूर्तयोः फलम् प्रवास-स्थस्य यः धर्मः यः च पुंसः उत आपदि
येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दन: ।
सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ ॥ ३५ ॥
येन वा भगवान् तुष्येत् धर्म-योनिः जनार्दनः सम्प्रसीदति वा येषाम् एतत् आख्याहि मे अनघ
अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।
अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सला: ॥ ३६ ॥
अनुव्रतानाम् शिष्याणाम् पुत्राणाम् च द्विज-उत्तम अनापृष्टम् अपि ब्रूयुः गुरवः दीन-वत्सलाः
तत्त्वानां भगवंस्तेषां कतिधा प्रतिसंक्रम: ।
तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥
तत्त्वानाम् भगवन् तेषाम् कतिधा प्रतिसङ्क्रमः तत्र इमम् के उपासीरन् के उ स्वित् अनुशेरते
पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।
ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम् ॥ ३८ ॥
पुरुषस्य च संस्थानम् स्वरूपम् वा परस्य च ज्ञानम् च नैगमम् यत् तत् गुरु शिष्य प्रयोजनम्
निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभि: ।
स्वतो ज्ञानं कुत: पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥
निमित्तानि च तस्य इह प्रोक्तानि अनघ सूरिभिः स्वतः ज्ञानम् कुतः पुंसाम् भक्तिः वैराग्यम् एव वा
एतान्मे पृच्छत: प्रश्नान् हरे: कर्मविवित्सया ।
ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुष: ॥ ४० ॥
एतान् मे पृच्छतः प्रश्नान् हरेः कर्म विवित्सया ब्रूहि मे अज्ञस्य मित्रत्वात् अजया नष्ट-चक्षुषः
सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।
जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥
सर्वे वेदाः च यज्ञाः च तपः दानानि च अनघ जीव अभय प्रदानस्य न कुर्वीरन् कलाम् अपि
श्रीशुक उवाच
स इत्थमापृष्टपुराणकल्प: कुरुप्रधानेन मुनिप्रधान: ।
प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥
श्री-शुकः उवाच सः इत्थम् आपृष्ट पुराण-कल्पः कुरु-प्रधानेन मुनि-प्रधानः प्रवृद्ध हर्षः भगवत् कथायाम् सञ्चोदितः तम् प्रहसन् इव आह
३.८
मैत्रेय उवाच
सत्सेवनीयो बत पूरुवंशो
यल्लोकपालो भगवत्प्रधान: ।
बभूविथेहाजितकीर्तिमालां
पदे पदे नूतनयस्यभीक्ष्णम् ॥ १ ॥
मैत्रेयः उवाच सत्-सेवनीयः बत पूरु-वंशः यत् लोक-पालः भगवत्-प्रधानः बभूविथ इह अजित कीर्ति-मालाम् पदे पदे नूतनयसि अभीक्ष्णम्
सोऽहं नृणां क्षुल्लसुखाय दु:खं
महद्गतानां विरमाय तस्य ।
प्रवर्तये भागवतं पुराणं
यदाह साक्षाद्भगवानृषिभ्य: ॥ २ ॥
सः अहम् नृणाम् क्षुल्ल सुखाय दुःखम् महत् गतानाम् विरमाय तस्य प्रवर्तये भागवतम् पुराणम् यत् आह साक्षात् भगवान् ऋषिभ्यः
आसीनमुर्व्यां भगवन्तमाद्यं
सङ्कर्षणं देवमकुण्ठसत्त्वम् ।
विवित्सवस्तत्त्वमत: परस्य
कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३ ॥
आसीनम् उर्व्याम् भगवन्तम् आद्यम् सङ्कर्षणम् देवम् अकुण्ठ-सत्त्वम् विवित्सवः तत्त्वम् अतः परस्य कुमार मुख्याः मुनयः अन्वपृच्छन्
स्वमेव धिष्ण्यं बहु मानयन्तं
यद्वासुदेवाभिधमामनन्ति ।
प्रत्यग्धृताक्षाम्बुजकोशमीष-
दुन्मीलयन्तं विबुधोदयाय ॥ ४ ॥
स्वम् एव धिष्ण्यम् बहु मानयन्तम् यत् वासुदेव अभिधम् आमनन्ति प्रत्यक्-धृत-अक्ष अम्बुज-कोशम् ईषत् उन्मीलयन्तम् विबुध उदयाय
स्वर्धुन्युदार्द्रै: स्वजटाकलापै-
रुपस्पृशन्तश्चरणोपधानम् ।
पद्मं यदर्चन्त्यहिराजकन्या:
सप्रेमनानाबलिभिर्वरार्था: ॥ ५ ॥
स्वर्धुनी-उद आर्द्रैः स्व-जटा कलापैः उपस्पृशन्तः चरण-उपधानम् पद्मम् यत् अर्चन्ति अहि-राज कन्याः स-प्रेम नाना बलिभिः वर-अर्थाः
मुहुर्गृणन्तो वचसानुराग-
स्खलत्पदेनास्य कृतानि तज्ज्ञा: ।
किरीटसाहस्रमणिप्रवेक-
प्रद्योतितोद्दामफणासहस्रम् ॥ ६ ॥
मुहुः गृणन्तः वचसा अनुराग स्खलत्-पदेन अस्य कृतानि तत्-ज्ञाः किरीट साहस्र मणि-प्रवेक प्रद्योतित उद्दाम फणा सहस्रम्
प्रोक्तं किलैतद्भगवत्तमेन
निवृत्तिधर्माभिरताय तेन ।
सनत्कुमाराय स चाह पृष्ट:
सांख्यायनायाङ्ग धृतव्रताय ॥ ७ ॥
प्रोक्तम् किल एतत् भगवत्तमेन निवृत्ति धर्म-अभिरताय तेन सनत्-कुमाराय सः च आह पृष्टः साङ्ख्यायनाय अङ्ग धृत-व्रताय
सांख्यायन: पारमहंस्यमुख्यो
विवक्षमाणो भगवद्विभूती: ।
जगाद सोऽस्मद्गुरवेऽन्विताय
पराशरायाथ बृहस्पतेश्च ॥ ८ ॥
साङ्ख्यायनः पारमहंस्य-मुख्यः विवक्षमाणः भगवत्-विभूतीः जगाद सः अस्मत् गुरवे अन्विताय पराशराय अथ बृहस्पतेः च
प्रोवाच मह्यं स दयालुरुक्तो
मुनि: पुलस्त्येन पुराणमाद्यम् ।
सोऽहं तवैतत्कथयामि वत्स
श्रद्धालवे नित्यमनुव्रताय ॥ ९ ॥
प्रोवाच मह्यम् सः दयालुः उक्तः मुनिः पुलस्त्येन पुराणम् आद्यम् सः अहम् तव एतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय
उदाप्लुतं विश्वमिदं तदासीद्
यन्निद्रयामीलितदृङ् न्यमीलयत् ।
अहीन्द्रतल्पेऽधिशयान एक:
कृतक्षण: स्वात्मरतौ निरीह: ॥ १० ॥
उद आप्लुतम् विश्वम् इदम् तदा आसीत् यत् निद्रया अमीलित दृक् न्यमीलयत् अहि-इन्द्र तल्पे अधिशयानः एकः कृत-क्षणः स्व-आत्म-रतौ निरीहः
सोऽन्त:शरीरेऽर्पितभूतसूक्ष्म:
कालात्मिकां शक्तिमुदीरयाण: ।
उवास तस्मिन् सलिले पदे स्वे
यथानलो दारुणि रुद्धवीर्य: ॥ ११ ॥
सः अन्तः शरीरे अर्पित भूत सूक्ष्मः काल-आत्मिकाम् शक्तिम् उदीरयाणः उवास तस्मिन् सलिले पदे स्वे यथा अनलः दारुणि रुद्ध-वीर्यः
चतुर्युगानां च सहस्रमप्सु
स्वपन् स्वयोदीरितया स्वशक्त्या ।
कालाख्ययासादितकर्मतन्त्रो
लोकानपीतान्ददृशे स्वदेहे ॥ १२ ॥
चतुः युगानाम् च सहस्रम् अप्सु स्वपन् स्वया उदीरितया स्व-शक्त्या काल-आख्यया आसादित कर्म-तन्त्रः लोकान् अपीतान् ददृशे स्व-देहे
तस्यार्थसूक्ष्माभिनिविष्टदृष्टे-
रन्तर्गतोऽर्थो रजसा तनीयान् ।
गुणेन कालानुगतेन विद्ध:
सूष्यंस्तदाभिद्यत नाभिदेशात् ॥ १३ ॥
तस्य अर्थ सूक्ष्म अभिनिविष्ट-दृष्टेः अन्तः-गतः अर्थः रजसा तनीयान् गुणेन काल-अनुगतेन विद्धः सूष्यन् तदा अभिद्यत नाभि-देशात्
स पद्मकोश: सहसोदतिष्ठत्
कालेन कर्मप्रतिबोधनेन ।
स्वरोचिषा तत्सलिलं विशालं
विद्योतयन्नर्क इवात्मयोनि: ॥ १४ ॥
सः पद्म-कोशः सहसा उदतिष्ठत् कालेन कर्म प्रतिबोधनेन स्व-रोचिषा तत् सलिलम् विशालम् विद्योतयन् अर्कः इव आत्म-योनिः
तल्लोकपद्मं स उ एव विष्णु:
प्रावीविशत्सर्वगुणावभासम् ।
तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥
तत् लोक पद्मम् सः उ एव विष्णुः प्रावीविशत् सर्व गुण-अवभासम् तस्मिन् स्वयम् वेद-मयः विधाता स्वयम्-भुवम् यम् स्म वदन्ति सः अभूत्
तस्यां स चाम्भोरुहकर्णिकाया-
मवस्थितो लोकमपश्यमान: ।
परिक्रमन् व्योम्नि विवृत्तनेत्र-
श्चत्वारि लेभेऽनुदिशं मुखानि ॥ १६ ॥
तस्याम् सः च अम्भः रुह-कर्णिकायाम् अवस्थितः लोकम् अपश्यमानः परिक्रमन् व्योम्नि विवृत्त-नेत्रः चत्वारि लेभे अनुदिशम् मुखानि
तस्माद्युगान्तश्वसनावघूर्ण-
जलोर्मिचक्रात्सलिलाद्विरूढम् ।
उपाश्रित: कञ्जमु लोकतत्त्वं
नात्मानमद्धाविददादिदेव: ॥ १७ ॥
तस्मात् युग-अन्त श्वसन अवघूर्ण जल ऊर्मि-चक्रात् सलिलात् विरूढम् उपाश्रितः कञ्जम् उ लोक-तत्त्वम् न आत्मानम् अद्धा अविदत् आदि-देवः
क एष योऽसावहमब्जपृष्ठ
एतत्कुतो वाब्जमनन्यदप्सु ।
अस्ति ह्यधस्तादिह किञ्चनैत-
दधिष्ठितं यत्र सता नु भाव्यम् ॥ १८ ॥
कः एषः यः असौ अहम् अब्ज-पृष्ठे एतत् कुतः वा अब्जम् अनन्यत् अप्सु अस्ति हि अधस्तात् इह किञ्चन एतत् अधिष्ठितम् यत्र सता नु भाव्यम्
स इत्थमुद्वीक्ष्य तदब्जनाल-
नाडीभिरन्तर्जलमाविवेश ।
नार्वाग्गतस्तत्खरनालनाल-
नाभिं विचिन्वंस्तदविन्दताज: ॥ १९ ॥
सः इत्थम् उद्वीक्ष्य तत् अब्ज नाल नाडीभिः अन्तः-जलम् आविवेश न अर्वाक्-गतः तत्-खर-नाल नाल नाभिम् विचिन्वन् तत् अविन्दत अजः
तमस्यपारे विदुरात्मसर्गं
विचिन्वतोऽभूत्सुमहांस्त्रिणेमि: ।
यो देहभाजां भयमीरयाण:
परिक्षिणोत्यायुरजस्य हेति: ॥ २० ॥
तमसि अपारे विदुर आत्म-सर्गम् विचिन्वतः अभूत् सु-महान् त्रि-नेमिः यः देह-भाजाम् भयम् ईरयाणः परिक्षिणोति आयुः अजस्य हेतिः
ततो निवृत्तोऽप्रतिलब्धकाम:
स्वधिष्ण्यमासाद्य पुन: स देव: ।
शनैर्जितश्वासनिवृत्तचित्तो
न्यषीददारूढसमाधियोग: ॥ २१ ॥
ततः निवृत्तः अप्रतिलब्ध-कामः स्व-धिष्ण्यम् आसाद्य पुनः सः देवः शनैः जित-श्वास निवृत्त चित्तः न्यषीदत् आरूढ समाधि-योगः
कालेन सोऽज: पुरुषायुषाभि-
प्रवृत्तयोगेन विरूढबोध: ।
स्वयं तदन्तर्हृदयेऽवभात-
मपश्यतापश्यत यन्न पूर्वम् ॥ २२ ॥
कालेन सः अजः पुरुष-आयुषा अभिप्रवृत्त योगेन विरूढ बोधः स्वयम् तत् अन्तः-हृदये अवभातम् अपश्यत अपश्यत यत् न पूर्वम्
मृणालगौरायतशेषभोग-
पर्यङ्क एकं पुरुषं शयानम् ।
फणातपत्रायुतमूर्धरत्न-
द्युभिर्हतध्वान्तयुगान्ततोये ॥ २३ ॥
मृणाल गौर आयत शेष-भोग पर्यङ्के एकम् पुरुषम् शयानम् फण-आतपत्र आयुत मूर्ध रत्न द्युभिः हत-ध्वान्त युग-अन्त तोये
प्रेक्षां क्षिपन्तं हरितोपलाद्रे:
सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्न: ।
रत्नोदधारौषधिसौमनस्य
वनस्रजो वेणुभुजाङ्घ्रि पाङ्घ्रे : ॥ २४ ॥
प्रेक्षाम् क्षिपन्तम् हरित उपल अद्रेः सन्ध्या-अभ्र-नीवेः उरु रुक्म मूर्ध्नः रत्न उदधार औषधि सौमनस्य वन-स्रजः वेणु भुज अङ्घ्रिप अङ्घ्रेः
आयामतो विस्तरत: स्वमान-
देहेन लोकत्रयसंग्रहेण ।
विचित्रदिव्याभरणांशुकानां
कृतश्रियापाश्रितवेषदेहम् ॥ २५ ॥
आयामतः विस्तरतः स्व-मान देहेन लोक-त्रय सङ्ग्रहेण विचित्र दिव्य आभरण-अंशुकानाम् कृत-श्रिया अपाश्रित वेष देहम्
पुंसां स्वकामाय विविक्तमार्गै-
रभ्यर्चतां कामुदुघाङ्घ्रि पद्मम् ।
प्रदर्शयन्तं कृपया नखेन्दु-
मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥
पुंसाम् स्व-कामाय विविक्त-मार्गैः अभ्यर्चताम् काम-दुघ-अङ्घ्रि-पद्मम् प्रदर्शयन्तम् कृपया नख इन्दु मयूख भिन्न अङ्गुलि चारु-पत्रम्
मुखेन लोकार्तिहरस्मितेन
परिस्फुरत्कुण्डलमण्डितेन ।
शोणायितेनाधरबिम्बभासा
प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ २७ ॥
मुखेन लोक-आर्ति-हर स्मितेन परिस्फुरत् कुण्डल मण्डितेन शोणायितेन अधर बिम्ब भासा प्रत्यर्हयन्तम् सु-नसेन सु-भ्र्वा
कदम्बकिञ्जल्कपिशङ्गवाससा
स्वलंकृतं मेखलया नितम्बे ।
हारेण चानन्तधनेन वत्स
श्रीवत्सवक्ष:स्थलवल्लभेन ॥ २८ ॥
कदम्ब-किञ्जल्क पिशङ्ग वाससा सु-अलङ्कृतम् मेखलया नितम्बे हारेण च अनन्त धनेन वत्स श्रीवत्स वक्षः-स्थल वल्लभेन
परार्ध्यकेयूरमणिप्रवेक-
पर्यस्तदोर्दण्डसहस्रशाखम् ।
अव्यक्तमूलं भुवनाङ्घ्रि पेन्द्र-
महीन्द्रभोगैरधिवीतवल्शम् ॥ २९ ॥
परार्ध्य केयूर मणि-प्रवेक पर्यस्त दोर्दण्ड सहस्र-शाखम् अव्यक्त-मूलम् भुवन अङ्घ्रिप इन्द्रम् अहि-इन्द्र भोगैः अधिवीत वल्शम्
चराचरौको भगवन्महीध्र-
महीन्द्रबन्धुं सलिलोपगूढम् ।
किरीटसाहस्रहिरण्यशृङ्ग-
माविर्भवत्कौस्तुभरत्नगर्भम् ॥ ३० ॥
चर अचर ओकः भगवत् महीध्रम् अहि-इन्द्र बन्धुम् सलिल उपगूढम् किरीट साहस्र हिरण्य शृङ्गम् आविर्भवत् कौस्तुभ रत्न-गर्भम्
निवीतमाम्नायमधुव्रतश्रिया
स्वकीर्तिमय्या वनमालया हरिम् ।
सूर्येन्दुवाय्वग्न्यगमं त्रिधामभि:
परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१ ॥
निवीतम् आम्नाय मधु-व्रत-श्रिया स्व-कीर्ति-मय्या वन-मालया हरिम् सूर्य इन्दु वायु अग्नि अगमम् त्रि-धामभिः परिक्रमत् प्राधनिकैः दुरासदम्
तर्ह्येव तन्नाभिसर:सरोज-
मात्मामम्भ: श्वसनं वियच्च ।
ददर्श देवो जगतो विधाता
नात: परं लोकविसर्गदृष्टि: ॥ ३२ ॥
तर्हि एव तत् नाभि सरः सरोजम् आत्मानम् अम्भः श्वसनम् वियत् च ददर्श देवः जगतः विधाता न अतः परम् लोक-विसर्ग दृष्टिः
स कर्मबीजं रजसोपरक्त:
प्रजा: सिसृक्षन्नियदेव दृष्ट्वा ।
अस्तौद्विसर्गाभिमुखस्तमीड्य-
मव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३ ॥
सः कर्म-बीजम् रजसा उपरक्तः प्रजाः सिसृक्षन् इयत् एव दृष्ट्वा अस्तौत् विसर्ग अभिमुखः तम् ईड्यम् अव्यक्त वर्त्मनि अभिवेशित आत्मा
३.९
ब्रह्मोवाच
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
न ज्ञायते भगवतो गतिरित्यवद्यम् ।
नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं
मायागुणव्यतिकराद्यदुरुर्विभासि ॥ १ ॥
ब्रह्मा उवाच ज्ञातः असि मे अद्य सुचिरात् ननु देह-भाजाम् न ज्ञायते भगवतः गतिः इति अवद्यम् न अन्यत् त्वत् अस्ति भगवन् अपि तत् न शुद्धम् माया गुण-व्यतिकरात् यत् उरुः विभासि
रूपं यदेतदवबोधरसोदयेन
शश्वन्निवृत्ततमस: सदनुग्रहाय ।
आदौ गृहीतमवतारशतैकबीजं
यन्नाभिपद्मभवनादहमाविरासम् ॥ २ ॥
रूपम् यत् एतत् अवबोध-रस उदयेन शश्वत् निवृत्त तमसः सत्-अनुग्रहाय आदौ गृहीतम् अवतार शत-एक-बीजम् यत् नाभि-पद्म भवनात् अहम् आविरासम्
नात: परं परम यद्भवत: स्वरूप-
मानन्दमात्रमविकल्पमविद्धवर्च: ।
पश्यामि विश्वसृजमेकमविश्वमात्मन्
भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥
न अतः परम् परम यत् भवतः स्वरूपम् आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन् भूत इन्द्रिय आत्मक मदः ते उपाश्रितः अस्मि
तद्वा इदं भुवनमङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपासकानाम् ।
तस्मै नमो भगवतेऽनुविधेम तुभ्यं
योऽनादृतो नरकभाग्भिरसत्प्रसङ्गै: ॥ ४ ॥
तत् वा इदम् भुवन-मङ्गल मङ्गलाय ध्याने स्म नः दर्शितम् ते उपासकानाम् तस्मै नमः भगवते अनुविधेम तुभ्यम् यः अनादृतः नरक-भाग्भिः असत्-प्रसङ्गैः
ये तु त्वदीयचरणाम्बुजकोशगन्धं
जिघ्रन्ति कर्णविवरै: श्रुतिवातनीतम् ।
भक्त्या गृहीतचरण: परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५ ॥
ये तु त्वदीय चरण-अम्बुज कोश गन्धम् जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् भक्त्या गृहीत-चरणः परया च तेषाम् न अपैषि नाथ हृदय अम्बु-रुहात् स्व-पुंसाम्
तावद्भयं द्रविणदेहसुहृन्निमित्तं
शोक: स्पृहा परिभवो विपुलश्च लोभ: ।
तावन्ममेत्यसदवग्रह आर्तिमूलं
यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोक: ॥ ६ ॥
तावत् भयम् द्रविण देह सुहृत् निमित्तम् शोकः स्पृहा परिभवः विपुलः च लोभः तावत् मम इति असत् अवग्रहः आर्ति-मूलम् यावत् न ते अङ्घ्रिम् अभयम् प्रवृणीत लोकः
दैवेन ते हतधियो भवत: प्रसङ्गा-
त्सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये ।
कुर्वन्ति कामसुखलेशलवाय दीना
लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥
दैवेन ते हत-धियः भवतः प्रसङ्गात् सर्व अशुभ उपशमनात् विमुख इन्द्रियाः ये कुर्वन्ति काम सुख लेश लवाय दीनाः लोभ-अभिभूत मनसः अकुशलानि शश्वत्
क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमाना:
शीतोष्णवातवरषैरितरेतराच्च ।
कामाग्निनाच्युत रुषा च सुदुर्भरेण
सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥
क्षुत् तृट् त्रि-धातुभिः इमाः मुहुः अर्द्यमानाः शीत उष्ण वात वरषैः इतर-इतरात् च काम-अग्निना अच्युत-रुषा च सुदुर्भरेण सम्पश्यतः मनः उरुक्रम सीदते मे
यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ-
मायाबलं भगवतो जन ईश पश्येत् ।
तावन्न संसृतिरसौ प्रतिसंक्रमेत
व्यर्थापि दु:खनिवहं वहती क्रियार्था ॥ ९ ॥
यावत् पृथक्त्वम् इदम् आत्मनः इन्द्रिय-अर्थ माया-बलम् भगवतः जनः ईश पश्येत् तावत् न संसृतिः असौ प्रतिसङ्क्रमेत व्यर्था अपि दुःख-निवहम् वहती क्रिया-अर्था
अह्न्यापृतार्तकरणा निशि नि:शयाना ।
नानामनोरथधिया क्षणभग्ननिद्रा: ।
दैवाहतार्थरचना ऋषयोऽपि देव
युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥
अह्नि आपृत आर्त करणाः निशि निःशयानाः नाना मनोरथ धिया क्षण भग्न निद्राः दैव आहत-अर्थ रचनाः ऋषयः अपि देव युष्मत् प्रसङ्ग विमुखाः इह संसरन्ति
त्वं भक्तियोगपरिभावितहृत्सरोज
आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।
यद्यद्धिया त उरुगाय विभावयन्ति
तत्तद्वपु: प्रणयसे सदनुग्रहाय ॥ ११ ॥
त्वम् भक्ति-योग परिभावित हृत् सरोजे आस्से श्रुत-ईक्षित पथः ननु नाथ पुंसाम् यत्-यत् धिया ते उरुगाय विभावयन्ति तत्-तत् वपुः प्रणयसे सत्-अनुग्रहाय
नातिप्रसीदति तथोपचितोपचारै-
राराधित: सुरगणैर्हृदिबद्धकामै: ।
यत्सर्वभूतदययासदलभ्ययैको
नानाजनेष्ववहित: सुहृदन्तरात्मा ॥ १२ ॥
न अति प्रसीदति तथा उपचित उपचारैः आराधितः सुर-गणैः हृदि बद्ध-कामैः यत् सर्व भूत दयया असत् अलभ्यया एकः नाना जनेषु अवहितः सुहृत् अन्तः आत्मा
पुंसामतो विविधकर्मभिरध्वराद्यै-
र्दानेन चोग्रतपसा परिचर्यया च ।
आराधनं भगवतस्तव सत्क्रियार्थो
धर्मोऽर्पित: कर्हिचिद्म्रियते न यत्र ॥ १३ ॥
पुंसाम् अतः विविध-कर्मभिः अध्वर-आद्यैः दानेन च उग्र तपसा परिचर्यया च आराधनम् भगवतः तव सत्-क्रिया-अर्थः धर्मः अर्पितः कर्हिचित् म्रियते न यत्र
शश्वत्स्वरूपमहसैव निपीतभेद-
मोहाय बोधधिषणाय नम: परस्मै ।
विश्वोद्भवस्थितिलयेषु निमित्तलीला-
रासाय ते नम इदं चकृमेश्वराय ॥ १४ ॥
शश्वत् स्वरूप महसा एव निपीत भेद मोहाय बोध धिषणाय नमः परस्मै विश्व-उद्भव स्थिति लयेषु निमित्त लीला रासाय ते नमः इदम् चकृम ईश्वराय
यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति ।
तेऽनैकजन्मशमलं सहसैव हित्वा
संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ १५ ॥
यस्य अवतार गुण कर्म विडम्बनानि नामानि ये असु-विगमे विवशाः गृणन्ति ते अनैक जन्म शमलम् सहसा एव हित्वा संयान्ति अपावृत अमृतम् तम् अजम् प्रपद्ये
यो वा अहं च गिरिशश्च विभु: स्वयं च
स्थित्युद्भवप्रलयहेतव आत्ममूलम् ।
भित्त्वा त्रिपाद्ववृध एक उरुप्ररोह-
स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥
यः वै अहम् च गिरिशः च विभुः स्वयम् च स्थिति उद्भव प्रलय हेतवः आत्म-मूलम् भित्त्वा त्रि-पात् ववृधे एकः उरु प्ररोहः तस्मै नमः भगवते भुवन-द्रुमाय
लोको विकर्मनिरत: कुशले प्रमत्त:
कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
यस्तावदस्य बलवानिह जीविताशां
सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥
लोकः विकर्म निरतः कुशले प्रमत्तः कर्मणि अयम् त्वत् उदिते भवत् अर्चने स्वे यः तावत् अस्य बलवान् इह जीवित-आशाम् सद्यः छिनत्ति अनिमिषाय नमः अस्तु तस्मै
यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्य-
मध्यासित: सकललोकनमस्कृतं यत् ।
तेपे तपो बहुसवोऽवरुरुत्समान-
स्तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८ ॥
यस्मात् बिभेमि अहम् अपि द्वि-पर-अर्ध धिष्ण्यम् अध्यासितः सकल-लोक नमस्कृतम् यत् तेपे तपः बहु-सवः अवरुरुत्समानः तस्मै नमः भगवते अधिमखाय तुभ्यम्
तिर्यङ्मनुष्यविबुधादिषु जीवयोनि-
ष्वात्मेच्छयात्मकृतसेतुपरीप्सया य: ।
रेमे निरस्तविषयोऽप्यवरुद्धदेह-
स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥
तिर्यक् मनुष्य विबुध-आदिषु जीव-योनिषु आत्म इच्छया आत्म-कृत सेतु परीप्सया यः रेमे निरस्त विषयः अपि अवरुद्ध देहः तस्मै नमः भगवते पुरुषोत्तमाय
योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या
निद्रामुवाह जठरीकृतलोकयात्र: ।
अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां
भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥
यः अविद्यया अनुपहतः अपि दश-अर्ध वृत्त्या निद्राम् उवाह जठरी कृत लोक-यात्रः अन्तः-जले अहि-कशिपु स्पर्श-अनुकूलाम् भीम-ऊर्मि मालिनि जनस्य सुखम् विवृण्वन्
यन्नाभिपद्मभवनादहमासमीड्य
लोकत्रयोपकरणो यदनुग्रहेण ।
तस्मै नमस्त उदरस्थभवाय योग-
निद्रावसानविकसन्नलिनेक्षणाय ॥ २१ ॥
यत् नाभि पद्म भवनात् अहम् आसम् ईड्य लोक-त्रय उपकरणः यत् अनुग्रहेण तस्मै नमः ते उदर-स्थ भवाय योग-निद्रा-अवसान विकसत् नलिन-ईक्षणाय
सोऽयं समस्तजगतां सुहृदेक आत्मा
सत्त्वेन यन्मृडयते भगवान् भगेन ।
तेनैव मे दृशमनुस्पृशताद्यथाहं
स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२ ॥
सः अयम् समस्त-जगताम् सुहृत् एकः आत्मा सत्त्वेन यत् मृडयते भगवान् भगेन तेन एव मे दृशम् अनुस्पृशतात् यथा अहम् स्रक्ष्यामि पूर्व-वत् इदम् प्रणत प्रियः असौ
एष प्रपन्नवरदो रमयात्मशक्त्या
यद्यत्करिष्यति गृहीतगुणावतार: ।
तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो
युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥
एषः प्रपन्न वर-दः रमया आत्म-शक्त्या यत् यत् करिष्यति गृहीत गुण-अवतारः तस्मिन् स्व-विक्रमम् इदम् सृजतः अपि चेतः युञ्जीत कर्म शमलम् च यथा विजह्याम्
नाभिहृदादिह सतोऽम्भसि यस्य पुंसो
विज्ञानशक्तिरहमासमनन्तशक्ते: ।
रूपं विचित्रमिदमस्य विवृण्वतो मे
मा रीरिषीष्ट निगमस्य गिरां विसर्ग: ॥ २४ ॥
नाभि-ह्रदात् इह सतः अम्भसि यस्य पुंसः विज्ञान शक्तिः अहम् आसम् अनन्त शक्तेः रूपम् विचित्रम् इदम् अस्य विवृण्वतः मे मा रीरिषीष्ट निगमस्य गिराम् विसर्गः
सोऽसावदभ्रकरुणो भगवान् विवृद्ध-
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात्पुरुष: पुराण: ॥ २५ ॥
सः असौ अदभ्र करुणः भगवान् विवृद्ध प्रेम स्मितेन नयन-अम्बुरुहम् विजृम्भन् उत्थाय विश्व-विजयाय च नः विषादम् माध्व्या गिरा अपनयतात् पुरुषः पुराणः
मैत्रेय उवाच
स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभि: ।
यावन्मनोवच: स्तुत्वा विरराम स खिन्नवत् ॥ २६ ॥
मैत्रेयः उवाच स्व-सम्भवम् निशाम्य एवम् तपः विद्या समाधिभिः यावत् मनः वचः स्तुत्वा विरराम सः खिन्न-वत्
अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदन: ।
विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७ ॥
लोकसंस्थानविज्ञान आत्मन: परिखिद्यत: ।
तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥
अथ अभिप्रेतम् अन्वीक्ष्य ब्रह्मणः मधुसूदनः विषण्ण चेतसम् तेन कल्प व्यतिकर-अम्भसा लोक-संस्थान विज्ञाने आत्मनः परिखिद्यतः तम् आह अगाधया वाचा कश्मलम् शमयन् इव
श्रीभगवानुवाच
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।
तन्मयापादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥
श्री-भगवान् उवाच मा वेद-गर्भ गाः तन्द्रीम् सर्गे उद्यमम् आवह तत् मया आपादितम् हि अग्रे यत् माम् प्रार्थयते भवान्
भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।
ताभ्यामन्तर्हृदि ब्रह्मन् लोकान्द्रक्ष्यस्यपावृतान् ॥ ३० ॥
भूयः त्वम् तपः आतिष्ठ विद्याम् च एव मत् आश्रयाम् ताभ्याम् अन्तः हृदि ब्रह्मन् लोकान् द्रक्ष्यसि अपावृतान्
तत आत्मनि लोके च भक्तियुक्त: समाहित: ।
द्रष्टासि मां ततं ब्रह्यन्मयि लोकांस्त्वमात्मन: ॥ ३१ ॥
ततः आत्मनि लोके च भक्ति-युक्तः समाहितः द्रष्टा असि माम् ततम् ब्रह्मन् मयि लोकान् त्वम् आत्मनः
यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।
प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२ ॥
यदा तु सर्व भूतेषु दारुषु अग्निम् इव स्थितम् प्रतिचक्षीत माम् लोकः जह्यात् तर्हि एव कश्मलम्
यदा रहितमात्मानं भूतेन्द्रियगुणाशयै: ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥
यदा रहितम् आत्मानम् भूत इन्द्रिय गुण-आशयैः स्वरूपेण मया उपेतम् पश्यन् स्वाराज्यम् ऋच्छति
नानाकर्मवितानेन प्रजा बह्वी: सिसृक्षत: ।
नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रह: ॥ ३४ ॥
नाना-कर्म वितानेन प्रजाः बह्वीः सिसृक्षतः न आत्मा अवसीदति अस्मिन् ते वर्षीयान् मत् अनुग्रहः
ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुण: ।
यन्मनो मयि निर्बद्धं प्रजा: संसृजतोऽपि ते ॥ ३५ ॥
ऋषिम् आद्यम् न बध्नाति पापीयान् त्वाम् रजः-गुणः यत् मनः मयि निर्बद्धम् प्रजाः संसृजतः अपि ते
ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।
यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभि: ॥ ३६ ॥
ज्ञातः अहम् भवता तु अद्य दुः विज्ञेयः अपि देहिनाम् यत् माम् त्वम् मन्यसे अयुक्तम् भूत इन्द्रिय गुण आत्मभिः
तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहि: ।
नालेन सलिले मूलं पुष्करस्य विचिन्वत: ॥ ३७ ॥
तुभ्यम् मत् विचिकित्सायाम् आत्मा मे दर्शितः अबहिः नालेन सलिले मूलम् पुष्करस्य विचिन्वतः
यच्चकर्थाङ्ग मतस्तोत्रं मत्कथाभ्युदयाङ्कितम् ।
यद्वा तपसि ते निष्ठा स एष मदनुग्रह: ॥ ३८ ॥
यत् चकर्थ अङ्ग मत्-स्तोत्रम् मत्-कथा अभ्युदय-अङ्कितम् यत् वा तपसि ते निष्ठा सः एषः मत् अनुग्रहः
प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।
यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९ ॥
प्रीतः अहम् अस्तु भद्रम् ते लोकानाम् विजय इच्छया यत् अस्तौषीः गुण-मयम् निर्गुणम् मा अनुवर्णयन्
य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वर: ॥ ४० ॥
यः एतेन पुमान् नित्यम् स्तुत्वा स्तोत्रेण माम् भजेत् तस्य आशु सम्प्रसीदेयम् सर्व काम वर-ईश्वरः
पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना ।
राद्धं नि:श्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१ ॥
पूर्तेन तपसा यज्ञैः दानैः योग समाधिना राद्धम् निःश्रेयसम् पुंसाम् मत् प्रीतिः तत्त्व-वित् मतम्
अहमात्मात्मनां धात: प्रेष्ठ: सन् प्रेयसामपि ।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रिय: ॥ ४२ ॥
अहम् आत्मा आत्मनाम् धातः प्रेष्ठः सन् प्रेयसाम् अपि अतः मयि रतिम् कुर्यात् देह-आदिः यत्-कृते प्रियः
सर्ववेदमयेनेदमात्मनात्मात्मयोनिना ।
प्रजा: सृज यथापूर्वं याश्च मय्यनुशेरते ॥ ४३ ॥
सर्व वेद-मयेन इदम् आत्मना आत्मा आत्म-योनिना प्रजाः सृज यथा-पूर्वम् याः च मयि अनुशेरते
मैत्रेय उवाच
तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वर: ।
व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४ ॥
मैत्रेयः उवाच तस्मै एवम् जगत्-स्रष्ट्रे प्रधान-पुरुष-ईश्वरः व्यज्य इदम् स्वेन रूपेण कञ्ज-नाभः तिरोदधे
३.१०
विदुर उवाच
अन्तर्हिते भगवति ब्रह्मा लोकपितामह: ।
प्रजा: ससर्ज कतिधा दैहिकीर्मानसीर्विभु: ॥ १ ॥
विदुरः उवाच अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः प्रजाः ससर्ज कतिधाः दैहिकीः मानसीः विभुः
ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम ।
तान् वदस्वानुपूर्व्येण छिन्धि न: सर्वसंशयान् ॥ २ ॥
ये च मे भगवन् पृष्टाः त्वयि अर्थाः बहु-वित्-तम तान् वदस्व आनुपूर्व्येण छिन्धि नः सर्व संशयान्
सूत उवाच
एवं सञ्चोदितस्तेन क्षत्त्रा कौषारविर्मुनि: ।
प्रीत: प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥
सूतः उवाच एवम् सञ्चोदितः तेन क्षत्त्रा कौषारविः मुनिः प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव
मैत्रेय उवाच
विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तप: ।
आत्मन्यात्मानमावेश्य यथाह भगवानज: ॥ ४ ॥
मैत्रेयः उवाच विरिञ्चः अपि तथा चक्रे दिव्यम् वर्ष-शतम् तपः आत्मनि आत्मानम् आवेश्य यथा आह भगवान् अजः
तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठित: ।
पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम् ॥ ५ ॥
तत् विलोक्य अब्ज-सम्भूतः वायुना यत् अधिष्ठितः पद्मम् अम्भः च तत्-काल-कृत वीर्येण कम्पितम्
तपसा ह्येधमानेन विद्यया चात्मसंस्थया ।
विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥
तपसा हि एधमानेन विद्यया च आत्म संस्थया विवृद्ध विज्ञान बलः न्यपात् वायुम् सह अम्भसा
तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् ।
अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७ ॥
तत् विलोक्य वियत्-व्यापि पुष्करम् यत् अधिष्ठितम् अनेन लोकान् प्राक्-लीनान् कल्पिता अस्मि इति अचिन्तयत्
पद्मकोशं तदाविश्य भगवत्कर्मचोदित: ।
एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८ ॥
पद्म-कोशम् तदा आविश्य भगवत् कर्म चोदितः एकम् व्यभाङ्क्षीत् उरुधा त्रिधा भाव्यम् द्वि-सप्तधा
एतावाञ्जीवलोकस्य संस्थाभेद: समाहृत: ।
धर्मस्य ह्यनिमित्तस्य विपाक: परमेष्ठ्यसौ ॥ ९ ॥
एतावान् जीव-लोकस्य संस्था-भेदः समाहृतः धर्मस्य हि अनिमित्तस्य विपाकः परमेष्ठी असौ
विदुर उवाच
यथात्थ बहुरूपस्य हरेरद्भुतकर्मण: ।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय न: प्रभो ॥ १० ॥
विदुरः उवाच यथा आत्थ बहु-रूपस्य हरेः अद्भुत कर्मणः काल आख्यम् लक्षणम् ब्रह्मन् यथा वर्णय नः प्रभो
मैत्रेय उवाच
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठित: ।
पुरुषस्तदुपादानमात्मानं लीलयासृजत् ॥ ११ ॥
मैत्रेयः उवाच गुण-व्यतिकर आकारः निर्विशेषः अप्रतिष्ठितः पुरुषः तत् उपादानम् आत्मानम् लीलया असृजत्
विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥
विश्वम् वै ब्रह्म तत्-मात्रम् संस्थितम् विष्णु-मायया ईश्वरेण परिच्छिन्नम् कालेन अव्यक्त मूर्तिना
यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् ॥ १३ ॥
यथा इदानीम् तथा अग्रे च पश्चात् अपि एतत् ईदृशम्
सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु य: ।
कालद्रव्यगुणैरस्य त्रिविध: प्रतिसंक्रम: ॥ १४ ॥
सर्गः नव-विधः तस्य प्राकृतः वैकृतः तु यः काल द्रव्य गुणैः अस्य त्रि-विधः प्रतिसङ्क्रमः
आद्यस्तु महत: सर्गो गुणवैषम्यमात्मन: ।
द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदय: ॥ १५ ॥
आद्यः तु महतः सर्गः गुण-वैषम्यम् आत्मनः द्वितीयः तु अहमः यत्र द्रव्य ज्ञान क्रिया-उदयः
भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ।
चतुर्थ ऐन्द्रिय: सर्गो यस्तु ज्ञानक्रियात्मक: ॥ १६ ॥
भूत-सर्गः तृतीयः तु तत्-मात्रः द्रव्य शक्तिमान् चतुर्थः ऐन्द्रियः सर्गः यः तु ज्ञान क्रिया आत्मकः
वैकारिको देवसर्ग: पञ्चमो यन्मयं मन: ।
पष्ठस्तु तमस: सर्गो यस्त्वबुद्धिकृत: प्रभो: ॥ १७ ॥
वैकारिकः देव सर्गः पञ्चमः यत् मयम् मनः षष्ठः तु तमसः सर्गः यः तु अबुद्धि-कृतः प्रभोः
षडिमे प्राकृता: सर्गा वैकृतानपि मे शृणु ।
रजोभाजो भगवतो लीलेयं हरिमेधस: ॥ १८ ॥
षट् इमे प्राकृताः सर्गाः वैकृतान् अपि मे शृणु रजः-भाजः भगवतः लीला इयम् हरि मेधसः
सप्तमो मुख्यसर्गस्तु षङ्विधस्तस्थुषां च य: ।
वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमा: ॥ १९ ॥
सप्तमः मुख्य सर्गः तु षट्-विधः तस्थुषाम् च यः वनस्पति ओषधि लता त्वक्साराः वीरुधः द्रुमाः
उत्स्रोतसस्तम:प्राया अन्त:स्पर्शा विशेषिण: ॥ २० ॥
उत्स्रोतसः तमः-प्रायाः अन्तः-स्पर्शाः विशेषिणः
तिरश्चामष्टम: सर्ग: सोऽष्टाविंशद्विधो मत: ।
अविदो भूरितमसो घ्राणज्ञा ह्यद्यवेदिन: ॥ २१ ॥
तिरश्चाम् अष्टमः सर्गः सः अष्टाविंशत् विधः मतः अविदः भूरि तमसः घ्राण-ज्ञाः हृदि अवेदिनः
गौरजो महिष: कृष्ण: सूकरो गवयो रुरु: ।
द्विशफा: पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २२ ॥
गौः अजः महिषः कृष्णः सूकरः गवयः रुरुः द्वि-शफाः पशवः च इमे अविः उष्ट्रः च सत्तम
खरोऽश्वोऽश्वतरो गौर: शरभश्चमरी तथा ।
एते चैकशफा: क्षत्त: शृणु पञ्चनखान् पशून् ॥ २३ ॥
खरः अश्वः अश्वतरः गौरः शरभः चमरी तथा एते च एक शफाः क्षत्तः शृणु पञ्च नखान् पशून्
श्वा सृगालो वृको व्याघ्रो मार्जार: शशशल्लकौ ।
सिंह: कपिर्गज: कूर्मो गोधा च मकरादय: ॥ २४ ॥
श्वा सृगालः वृकः व्याघ्रः मार्जारः शश शल्लकौ सिंहः कपिः गजः कूर्मः गोधा च मकर-आदयः
कङ्कगृधबकश्येनभासभल्लूकबर्हिण: ।
हंससारसचक्राह्वकाकोलूकादय: खगा: ॥ २५ ॥
कङ्क गृध्र बक श्येन भास भल्लूक बर्हिणः हंस सारस चक्राह्व काक उलूक आदयः खगाः
अर्वाक्स्रोतस्तु नवम: क्षत्तरेकविधो नृणाम् ।
रजोऽधिका: कर्मपरा दु:खे च सुखमानिन: ॥ २६ ॥
अर्वाक् स्रोतः तु नवमः क्षत्तः एक-विधः नृणाम् रजः अधिकाः कर्म-पराः दुःखे च सुख मानिनः
वैकृतास्रय एवैते देवसर्गश्च सत्तम ।
वैकारिकस्तु य: प्रोक्त: कौमारस्तूभयात्मक: ॥ २७ ॥
वैकृताः त्रयः एव एते देव-सर्गः च सत्तम वैकारिकः तु यः प्रोक्तः कौमारः तु उभय-आत्मकः
देवसर्गश्चाष्टविधो विबुधा: पितरोऽसुरा: ।
गन्धर्वाप्सरस: सिद्धा यक्षरक्षांसि चारणा: ॥ २८ ॥
भूतप्रेतपिशाचाश्च विद्याध्रा: किन्नरादय: ।
दशैते विदुराख्याता: सर्गास्ते विश्वसृक्कृता: ॥ २९ ॥
देव-सर्गः च अष्ट-विधः विबुधाः पितरः असुराः गन्धर्व अप्सरसः सिद्धाः यक्ष रक्षांसि चारणाः भूत प्रेत पिशाचाः च विद्याध्राः किन्नर आदयः दश एते विदुर आख्याताः सर्गाः ते विश्व-सृक् कृताः
अत: परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च ।
एवं रज:प्लुत: स्रष्टा कल्पादिष्वात्मभूर्हरि: ।
सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ ३० ॥
अतः परम् प्रवक्ष्यामि वंशान् मन्वन्तराणि च एवम् रजः-प्लुतः स्रष्टा कल्प-आदिषु आत्म-भूः हरिः सृजति अमोघ सङ्कल्पः आत्मा एव आत्मानम् आत्मना
३.११
मैत्रेय उवाच
चरम: सद्विशेषाणामनेकोऽसंयुत: सदा ।
परमाणु: स विज्ञेयो नृणामैक्यभ्रमो यत: ॥ १ ॥
मैत्रेयः उवाच चरमः सत् विशेषाणाम् अनेकः असंयुतः सदा परम-अणुः सः विज्ञेयः नृणाम् ऐक्य भ्रमः यतः
सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।
कैवल्यं परममहानविशेषो निरन्तर: ॥ २ ॥
सतः एव पद-अर्थस्य स्वरूप-अवस्थितस्य यत् कैवल्यम् परम महान् अविशेषः निरन्तरः
एवं कालोऽप्यनुमित: सौक्ष्म्ये स्थौल्ये च सत्तम ।
संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभु: ॥ ३ ॥
एवम् कालः अपि अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम संस्थान भुक्त्या भगवान् अव्यक्तः व्यक्त-भुक् विभुः
स काल: परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।
सतोऽविशेषभुग्यस्तु स काल: परमो महान् ॥ ४ ॥
सः कालः परम-अणुः वै यः भुङ्क्ते परम-अणुताम् सतः अविशेष-भुक् यः तु सः कालः परमः महान्
अणुर्द्वौ परमाणु स्यात्त्रसरेणुस्त्रय: स्मृत: ।
जालार्करश्म्यवगत: खमेवानुपतन्नगात् ॥ ५ ॥
अणुः द्वौ परम-अणु स्यात् त्रसरेणुः त्रयः स्मृतः जाल-अर्क रश्मि अवगतः खम् एव अनुपतन् अगात्
त्रसरेणुत्रिकं भुङ्क्ते य: काल: स त्रुटि: स्मृत: ।
शतभागस्तु वेध: स्यात्तैस्त्रिभिस्तु लव: स्मृत: ॥ ६ ॥
त्रसरेणु-त्रिकम् भुङ्क्ते यः कालः सः त्रुटिः स्मृतः शत-भागः तु वेधः स्यात् तैः त्रिभिः तु लवः स्मृतः
निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रय: क्षण: ।
क्षणान् पञ्च विदु: काष्ठां लघु ता दश पञ्च च ॥ ७ ॥
निमेषः त्रि-लवः ज्ञेयः आम्नातः ते त्रयः क्षणः क्षणान् पञ्च विदुः काष्ठाम् लघु ताः दश पञ्च च
लघूनि वै समाम्नाता दश पञ्च च नाडिका ।
ते द्वे मुहूर्त: प्रहर: षड्याम: सप्त नृणाम् ॥ ८ ॥
लघूनि वै समाम्नाता दश पञ्च च नाडिका ते द्वे मुहूर्तः प्रहरः षट् यामः सप्त वा नृणाम्
द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलै: ।
स्वर्णमाषै: कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ॥ ९ ॥
द्वादश-अर्ध पल उन्मानम् चतुर्भिः चतुः-अङ्गुलैः स्वर्ण माषैः कृत-छिद्रम् यावत् प्रस्थ जल-प्लुतम्
यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।
पक्ष: पञ्चदशाहानि शुक्ल: कृष्णश्च मानद ॥ १० ॥
यामाः चत्वारः चत्वारः मर्त्यानाम् अहनी उभे पक्षः पञ्च-दश अहानि शुक्लः कृष्णः च मानद
तयो: समुच्चयो मास: पितृणां तदहर्निशम् ।
द्वौ तावृतु: षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥
तयोः समुच्चयः मासः पितॄणाम् तत् अहः-निशम् द्वौ तौ ऋतुः षट् अयनम् दक्षिणम् च उत्तरम् दिवि
अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृत: ।
संवत्सरशतं नृणां
परमायुर्निरूपितम् ॥ १२ ॥
अयने च अहनी प्राहुः वत्सरः द्वादश स्मृतः संवत्सर-शतम् नॄणाम् परम-आयुः निरूपितम्
ग्रहर्क्षताराचक्रस्थ: परमाण्वादिना जगत् ।
संवत्सरावसानेन पर्येत्यनिमिषो विभु: ॥ १३ ॥
ग्रह ऋक्ष तारा चक्र-स्थः परम-अणु-आदिना जगत् संवत्सर-अवसानेन पर्येति अनिमिषः विभुः
संवत्सर: परिवत्सर इडावत्सर एव च ।
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥
संवत्सरः परिवत्सरः इडा-वत्सरः एव च अनुवत्सरः वत्सरः च विदुर एवम् प्रभाष्यते
य: सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या
पुंसोऽभ्रमाय दिवि धावति भूतभेद: ।
कालाख्यया गुणमयं क्रतुभिर्वितन्वं-
स्तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥
यः सृज्य शक्तिम् उरुधा उच्छ्वसयन् स्व-शक्त्या पुंसः अभ्रमाय दिवि धावति भूत-भेदः काल-आख्यया गुण-मयम् क्रतुभिः वितन्वन् तस्मै बलिम् हरत वत्सर-पञ्चकाय
विदुर उवाच
पितृदेवमनुष्याणामायु: परमिदं स्मृतम् ।
परेषां गतिमाचक्ष्व ये स्यु:कल्पाद् बहिर्विद: ॥ १६ ॥
विदुरः उवाच पितृ देव मनुष्याणाम् आयुः परम् इदम् स्मृतम् परेषाम् गतिम् आचक्ष्व ये स्युः कल्पात् बहिः विदः
भगवान् वेद कालस्य गतिं भगवतो ननु ।
विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥
भगवान् वेद कालस्य गतिम् भगवतः ननु विश्वम् विचक्षते धीराः योग-राद्धेन चक्षुषा
मैत्रेय उवाच
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्द्वादशभिर्वर्षै: सावधानं निरूपितम् ॥ १८ ॥
मैत्रेयः उवाच कृतम् त्रेता द्वापरम् च कलिः च इति चतुः-युगम् दिव्यैः द्वादशभिः वर्षैः स-अवधानम् निरूपितम्
चत्वारि त्रीणि द्वै चैकं कृतादिषु यथाक्रमम् ।
संख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥
चत्वारि त्रीणि द्वे च एकम् कृत-आदिषु यथा-क्रमम् सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च
सन्ध्यासन्ध्यांशयोरन्तर्य: काल: शतसंख्ययो: ।
तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥
सन्ध्या सन्ध्या-अंशयोः अन्तः यः कालः शत-सङ्ख्ययोः तम् एव आहुः युगम् तत्-ज्ञाः यत्र धर्मः विधीयते
धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते ।
स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥
धर्मः चतुः-पात् मनुजान् कृते समनुवर्तते सः एव अन्येषु अधर्मेण व्येति पादेन वर्धता
त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् ।
तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥
त्रि-लोक्याः युग साहस्रम् बहिः आब्रह्मणः दिनम् तावती एव निशा तात यत् निमीलति विश्व-सृक्
निशावसान आरब्धो लोककल्पोऽनुवर्तते ।
यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥
निशा अवसाने आरब्धः लोक-कल्पः अनुवर्तते यावत् दिनम् भगवतः मनून् भुञ्जन् चतुः-दश
स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ॥ २४ ॥
स्वम् स्वम् कालम् मनुः भुङ्क्ते स-अधिकाम् हि एक-सप्ततिम्
मन्वन्तरेषु मनवस्तद्वंश्या ऋषय: सुरा: ।
भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान् ॥ २५ ॥
मनु-अन्तरेषु मनवः तत्-वंश्याः ऋषयः सुराः भवन्ति च एव युगपत् सुर-ईशाः च अनु ये च तान्
एष दैनन्दिन: सर्गो ब्राह्मस्त्रैलोक्यवर्तन: ।
तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभि: ॥ २६ ॥
एषः दैनम्-दिनः सर्गः ब्राह्मः त्रैलोक्य-वर्तनः तिर्यक् नृ पितृ देवानाम् सम्भवः यत्र कर्मभिः
मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभि: ।
मन्वादिभिरिदं विश्वमवत्युदितपौरुष: ॥ २७ ॥
मनु-अन्तरेषु भगवान् बिभ्रत् सत्त्वम् स्व-मूर्तिभिः मनु-आदिभिः इदम् विश्वम् अवति उदित पौरुषः
तमोमात्रामुपादाय प्रतिसंरुद्धविक्रम: ।
कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २८ ॥
तमः मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः कालेन अनुगत अशेषः आस्ते तूष्णीम् दिन-अत्यये
तमेवान्वपिधीयन्ते लोको भूरादयस्त्रय: ।
निशायामनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २९ ॥
तम् एव अनु अपि धीयन्ते लोकाः भूः-आदयः त्रयः निशायाम् अनुवृत्तायाम् निर्मुक्त शशि भास्करम्
त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।
यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिता: ॥ ३० ॥
त्रि-लोक्याम् दह्यमानायाम् शक्त्या सङ्कर्षण अग्निना यान्ति ऊष्मणा महः-लोकात् जनम् भृगु आदयः अर्दिताः
तावत्त्रिभुवनं सद्य: कल्पान्तैधितसिन्धव: ।
प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मय: ॥ ३१ ॥
तावत् त्रि-भुवनम् सद्यः कल्प-अन्त एधित सिन्धवः प्लावयन्ति उत्कट आटोप चण्ड वात ईरित ऊर्मयः
अन्त: स तस्मिन् सलिल आस्तेऽनन्तासनो हरि: ।
योगनिद्रानिमीलाक्ष: स्तूयमानो जनालयै: ॥ ३२ ॥
अन्तः सः तस्मिन् सलिले आस्ते अनन्त आसनः हरिः योग निद्रा निमील-अक्षः स्तूय-मानः जन-आलयैः
एवंविधैरहोरात्रै: कालगत्योपलक्षितै: ।
अपक्षितमिवास्यापि परमायुर्वय: शतम् ॥ ३३ ॥
एवम् विधैः अहः रात्रैः काल-गत्या उपलक्षितैः अपक्षितम् इव अस्य अपि परम-आयुः वयः शतम्
यदर्धमायुषस्तस्य परार्धमभिधीयते ।
पूर्व: परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३४ ॥
यत् अर्धम् आयुषः तस्य परार्धम् अभिधीयते पूर्वः पर-अर्धः अपक्रान्तः हि अपरः अद्य प्रवर्तते
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदु: ॥ ३५ ॥
पूर्वस्य आदौ पर-अर्धस्य ब्राह्मः नाम महान् अभूत् कल्पः यत्र अभवत् ब्रह्मा शब्द-ब्रह्म इति यम् विदुः
तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते ।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ ३६ ॥
तस्य एव च अन्ते कल्पः अभूत् यम् पाद्मम् अभिचक्षते यत् हरेः नाभि सरसः आसीत् लोक सरोरुहम्
अयं तु कथित: कल्पो द्वितीयस्यापि भारत ।
वाराह इति विख्यातो यत्रासीच्छूकरो हरि: ॥ ३७ ॥
अयम् तु कथितः कल्पः द्वितीयस्य अपि भारत वाराहः इति विख्यातः यत्र आसीत् शूकरः हरिः
कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।
अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मन: ॥ ३८ ॥
कालः अयम् द्वि-परार्ध-आख्यः निमेषः उपचर्यते अव्याकृतस्य अनन्तस्य हि अनादेः जगत्-आत्मनः
कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वर: ।
नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३९ ॥
कालः अयम् परम-अणु आदिः द्वि-परार्ध अन्तः ईश्वरः न एव ईशितुम् प्रभुः भूम्नः ईश्वरः धाम-मानिनाम्
विकारै: सहितो युक्तैर्विशेषादिभिरावृत: ।
आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृत: ॥ ४० ॥
विकारैः सहितः युक्तैः विशेष आदिभिः आवृतः आण्ड-कोशः बहिः अयम् पञ्चाशत् कोटि विस्तृतः
दशोत्तराधिकैर्यत्र प्रविष्ट: परमाणुवत् ।
लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशय: ॥ ४१ ॥
दश-उत्तर-अधिकैः यत्र प्रविष्टः परम-अणु-वत् लक्ष्यते अन्तः-गताः च अन्ये कोटिशः हि अण्ड-राशयः
तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।
विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मन: ॥ ४२ ॥
तत् आहुः अक्षरम् ब्रह्म सर्व-कारण कारणम् विष्णोः धाम परम् साक्षात् पुरुषस्य महात्मनः
३.१२
मैत्रेय उवाच
इति ते वर्णित: क्षत्त: कालाख्य: परमात्मन: ।
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १ ॥
मैत्रेयः उवाच इति ते वर्णितः क्षत्तः काल-आख्यः परमात्मनः महिमा वेद-गर्भः अथ यथा अस्राक्षीत् निबोध मे
ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् ।
महामोहं च मोहं च तमश्चाज्ञानवृत्तय: ॥ २ ॥
ससर्ज अग्रे अन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् महा-मोहम् च मोहम् च तमः च अज्ञान वृत्तयः
दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत ।
भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् ॥ ३ ॥
दृष्ट्वा पापीयसीम् सृष्टिम् न आत्मानम् बहु अमन्यत भगवत् ध्यान पूतेन मनसा अन्याम् ततः असृजत्
सनकं च सनन्दं च सनातनमथात्मभू: ।
सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतस: ॥ ४ ॥
सनकम् च सनन्दम् च सनातनम् अथ आत्म-भूः सनत्-कुमारम् च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः
तान् बभाषे स्वभू: पुत्रान् प्रजा: सृजत पुत्रका: ।
तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणा: ॥ ५ ॥
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः तत् न ऐच्छन् मोक्ष-धर्माणः वासुदेव परायणाः
सोऽवध्यात: सुतैरेवं प्रत्याख्यातानुशासनै: ।
क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६ ॥
सः अवध्यातः सुतैः एवम् प्रत्याख्यात अनुशासनैः क्रोधम् दुर्विषहम् जातम् नियन्तुम् उपचक्रमे
धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापते: ।
सद्योऽजायत तन्मन्यु: कुमारो नीललोहित: ॥ ७ ॥
धिया निगृह्यमाणः अपि भ्रुवोः मध्यात् प्रजापतेः सद्यः अजायत तत् मन्युः कुमारः नील-लोहितः
स वै रुरोद देवानां पूर्वजो भगवान् भव: ।
नामानि कुरु मे धात: स्थानानि च जगद्गुरो ॥ ८ ॥
सः वै रुरोद देवानाम् पूर्वजः भगवान् भवः नामानि कुरु मे धातः स्थानानि च जगत्-गुरो
इति तस्य वच: पाद्मो भगवान् परिपालयन् ।
अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९ ॥
इति तस्य वचः पाद्मः भगवान् परिपालयन् अभ्यधात् भद्रया वाचा मा रोदीः तत् करोमि ते
यदरोदी: सुरश्रेष्ठ सोद्वेग इव बालक: ।
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजा: ॥ १० ॥
यत् अरोदीः सुर-श्रेष्ठ स-उद्वेगः इव बालकः ततः त्वाम् अभिधास्यन्ति नाम्ना रुद्रः इति प्रजाः
हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही ।
सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि ते ॥ ११ ॥
हृत् इन्द्रियाणि असुः व्योम वायुः अग्निः जलम् मही सूर्यः चन्द्रः तपः च एव स्थानानि अग्रे कृतानि ते
मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वज: ।
उग्ररेता भव: कालो वामदेवो धृतव्रत: ॥ १२ ॥
मन्युः, मनुः, महिनसः, महान्, शिवः, ऋतध्वजः, उगरेताः, भवः, कालः, वामदेवः, धृतव्रतः
धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका ।
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रिय: ॥ १३ ॥
धीः, धृति, रसला, उमा, नियुत्, सर्पिः, इला, अम्बिका, इरावती, स्वधा, दीक्षा रुद्राण्यः रुद्र ते स्त्रियः
गृहाणैतानि नामानि स्थानानि च सयोषण: ।
एभि: सृज प्रजा बह्वी: प्रजानामसि यत्पति: ॥ १४ ॥
गृहाण एतानि नामानि स्थानानि च स-योषणः एभिः सृज प्रजाः बह्वीः प्रजानाम् असि यत् पतिः
इत्यादिष्ट: स्वगुरुणा भगवान्नीललोहित: ।
सत्त्वाकृतिस्वभावेन ससर्जात्मसमा: प्रजा: ॥ १५ ॥
इति आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः सत्त्व आकृति स्वभावेन ससर्ज आत्म-समाः प्रजाः
रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत् ।
निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६ ॥
रुद्राणाम् रुद्र-सृष्टानाम् समन्तात् ग्रसताम् जगत् निशाम्य असङ्ख्यशः यूथान् प्रजा-पतिः अशङ्कत
अलं प्रजाभि: सृष्टाभिरीदृशीभि: सुरोत्तम ।
मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणै: ॥ १७ ॥
अलम् प्रजाभिः सृष्टाभिः ईदृशीभिः सुर-उत्तम मया सह दहन्तीभिः दिशः चक्षुर्भिः उल्बणैः
तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् ।
तपसैव यथापूर्व स्रष्टा विश्वमिदं भवान् ॥ १८ ॥
तपः आतिष्ठ भद्रम् ते सर्व भूत सुख-आवहम् तपसा एव यथा पूर्वम् स्रष्टा विश्वम् इदम् भवान्
तपसैव परं ज्योतिर्भगवन्तमधोक्षजम् ।
सर्वभूतगुहावासमञ्जसा विन्दते पुमान् ॥ १९ ॥
तपसा एव परम् ज्योतिः भगवन्तम् अधोक्षजम् सर्व-भूत-गुहा-आवासम् अञ्जसा विन्दते पुमान्
मैत्रेय उवाच
एवमात्मभुवादिष्ट: परिक्रम्य गिरां पतिम् ।
बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् ॥ २० ॥
मैत्रेयः उवाच एवम् आत्म-भुवा आदिष्टः परिक्रम्य गिराम् पतिम् बाढम् इति अमुम् आमन्त्र्य विवेश तपसे वनम्
अथाभिध्यायत: सर्गं दश पुत्रा: प्रजज्ञिरे ।
भगवच्छक्तियुक्तस्य लोकसन्तानहेतव: ॥ २१ ॥
अथ अभिध्यायतः सर्गम् दश पुत्राः प्रजज्ञिरे भगवत् शक्ति युक्तस्य लोक सन्तान हेतवः
मरीचिरत्र्याङ्गिरसौ पुलस्त्य: पुलह: क्रतु: ।
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारद: ॥ २२ ॥
मरीचिः, अत्रि, अङ्गिरसौ, पुलस्त्यः, पुलहः, क्रतुः, भृगुः, वसिष्ठः, दक्षः च दशमः तत्र नारदः
उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुव: ।
प्राणाद्वसिष्ठ: सञ्जातो भृगुस्त्वचि करात्क्रतु: ॥ २३ ॥
उत्सङ्गात् नारदः जज्ञे दक्षः अङ्गुष्ठात् स्वयम्भुवः प्राणात् वसिष्ठः सञ्जातः भृगुः त्वचि करात् क्रतुः
पुलहो नाभितो जज्ञे पुलस्त्य: कर्णयोऋर्षि: ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४ ॥
पुलहः नाभितः जज्ञे पुलस्त्यः कर्णयोः ऋषिः अङ्गिराः मुखतः अक्ष्णः अत्रिः मरीचिः मनसः अभवत्
धर्म: स्तनाद्दक्षिणतो यत्र नारायण: स्वयम् ।
अधर्म पृष्ठतो यस्मान्मृत्युर्लोकभयङ्कर: ॥ २५ ॥
धर्मः स्तनात् दक्षिणतः यत्र नारायणः स्वयम् अधर्मः पृष्ठतः यस्मात् मृत्युः लोक भयम्-करः
हृदि कामो भ्रुव: क्रोधो लोभश्चाधरदच्छदात् ।
आस्याद्वाक्सिन्धवो मेढ्रान्निऋर्ति: पायोरघाश्रय: ॥ २६ ॥
हृदि कामः भ्रुवः क्रोधः लोभः च अधर-दच्छदात् आस्यात् वाक् सिन्धवः मेढ्रात् निरृतिः पायोः अघ-आश्रयः
छायाया: कर्दमो जज्ञे देवहूत्या: पति: प्रभु: ।
मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७ ॥
छायायाः कर्दमः जज्ञे देवहूत्याः पतिः प्रभुः मनसः देहतः च इदम् जज्ञे विश्व कृतः जगत्
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मन: ।
अकामां चकमे क्षत्त: सकाम इति न: श्रुतम् ॥ २८ ॥
वाचम् दुहितरम् तन्वीम् स्वयम्भूः हरतीम् मनः अकामाम् चकमे क्षत्तः स-कामः इति नः श्रुतम्
तमधर्मे कृतमतिं विलोक्य पितरं सुता: ।
मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन् ॥ २९ ॥
तम् अधर्मे कृत-मतिम् विलोक्य पितरम् सुताः मरीचि-मुख्याः मुनयः विश्रम्भात् प्रत्यबोधयन्
नैतत्पूर्वै: कृतं त्वद्ये न करिष्यन्ति चापरे ।
यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभु: ॥ ३० ॥
न एतत् पूर्वैः कृतम् त्वत् ये न करिष्यन्ति च अपरे यः त्वम् दुहितरम् गच्छेः अनिगृह्य अङ्गजम् प्रभुः
तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो ।
यद्वृत्तमनुतिष्ठन् वै लोक: क्षेमाय कल्पते ॥ ३१ ॥
तेजीयसाम् अपि हि एतत् न सु-श्लोक्यम् जगत्-गुरो यत् वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते
तस्मै नमो भगवते य इदं स्वेन रोचिषा ।
आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२ ॥
तस्मै नमः भगवते यः इदम् स्वेन रोचिषा आत्म-स्थम् व्यञ्जयाम् आस सः धर्मम् पातुम् अर्हति
स इत्थं गृणत: पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।
प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा ।
तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तम: ॥ ३३ ॥
सः इत्थम् गृणतः पुत्रान् पुरः दृष्ट्वा प्रजा-पतीन् प्रजापति-पतिः तन्वम् तत्याज व्रीडितः तदा ताम् दिशः जगृहुः घोराम् नीहारम् यत् विदुः तमः
कदाचिद् ध्यायत: स्रष्टुर्वेदा आसंश्चतुर्मुखात् ।
कथं स्रक्ष्याम्यहं लोकान् समवेतान् यथा पुरा ॥ ३४ ॥
कदाचित् ध्यायतः स्रष्टुः वेदाः आसन् चतुः-मुखात् कथम् स्रक्ष्यामि अहम् लोकान् समवेतान् यथा पुरा
चातुर्होत्रं कर्मतन्त्रमुपवेदनयै: सह ।
धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तय: ॥ ३५ ॥
चातुः होत्रम् कर्म तन्त्रम् उपवेद नयैः सह धर्मस्य पादाः चत्वारः तथा एव आश्रम वृत्तयः
विदुर उवाच
स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् ।
यद् यद् येनासृजद् देवस्तन्मे ब्रूहि तपोधन ॥ ३६ ॥
विदुरः उवाच सः वै विश्व सृजाम् ईशः वेद-आदीन् मुखतः असृजत् यत् यत् येन असृजत् देवः तत् मे ब्रूहि तपः-धन
मैत्रेय उवाच
ऋग्यजु:सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखै: ।
शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ ३७ ॥
मैत्रेयः उवाच ऋक्-यजुः-साम-अथर्व आख्यान् वेदान् पूर्व-आदिभिः मुखैः शास्त्रम् इज्याम् स्तुति-स्तोमम् प्रायश्चित्तम् व्यधात् क्रमात्
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मन: ।
स्थापत्यं चासृजद् वेदं क्रमात्पूर्वादिभिर्मुखै: ॥ ३८ ॥
आयुः-वेदम् धनुः-वेदम् गान्धर्वम् वेदम् आत्मनः स्थापत्यम् च असृजत् वेदम् क्रमात् पूर्व-आदिभिः मुखैः
इतिहासपुराणानि पञ्चमं वेदमीश्वर: ।
सर्वेभ्य एव वक्त्रेभ्य: ससृजे सर्वदर्शन: ॥ ३९ ॥
इतिहास पुराणानि पञ्चमम् वेदम् ईश्वरः सर्वेभ्यः एव वक्त्रेभ्यः ससृजे सर्व दर्शनः
षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ ।
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४० ॥
षोडशी-उक्थौ पूर्व-वक्त्रात् पुरीषि-अग्निष्टुतौ अथ आप्तोर्याम-अतिरात्रौ च वाजपेयम् स-गोसवम्
विद्या दानं तप: सत्यं धर्मस्येति पदानि च ।
आश्रमांश्च यथासंख्यमसृजत्सह वृत्तिभि: ॥ ४१ ॥
विद्या दानम् तपः सत्यम् धर्मस्य इति पदानि च आश्रमान् च यथा सङ्ख्यम् असृजत् सह वृत्तिभिः
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा ।
वार्तासञ्चयशालीनशिलोञ्छ इति वै गृहे ॥ ४२ ॥
सावित्रम् प्राजापत्यम् च ब्राह्मम् च अथ बृहत् तथा वार्ता सञ्चय शालीन शिल-उञ्छः इति वै गृहे
वैखानसा वालखिल्यौदुम्बरा: फेनपा वने ।
न्यासे कुटीचक: पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३ ॥
वैखानसाः वालखिल्य औदुम्बराः फेनपाः वने न्यासे कुटीचकः पूर्वम् बह्वोदः हंस निष्क्रियौ
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।
एवं व्याहृतयश्वासन् प्रणवो ह्यस्य दहृत: ॥ ४४ ॥
आन्वीक्षिकी त्रयी वार्ता दण्ड नीतिः तथा एव च एवम् व्याहृतयः च आसन् प्रणवः हि अस्य दह्रतः
तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभो: ।
त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्न: प्रजापते: ॥ ४५ ॥
तस्य उष्णिक् आसीत् लोमभ्यः गायत्री च त्वचः विभोः त्रिष्टुप् मांसात् स्नुतः अनुष्टुप् जगती अस्थ्नः प्रजापतेः
मज्जाया: पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् ॥ ४६ ॥
मज्जायाः पङ्क्तिः उत्पन्ना बृहती प्राणतः अभवत्
स्पर्शस्तस्याभवज्जीव: स्वरो देह उदाहृत ।
ऊष्माणमिन्द्रियाण्याहुरन्त:स्था बलमात्मन: ।
स्वरा: सप्त विहारेण भवन्ति स्म प्रजापते: ॥ ४७ ॥
स्पर्शः तस्य अभवत् जीवः स्वरः देहः उदाहृतः ऊष्माणम् इन्द्रियाणि आहुः अन्तः-स्थाः बलम् आत्मनः स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मन: पर: ।
ब्रह्मावभाति विततो नानाशक्त्युपबृंहित: ॥ ४८ ॥
शब्द-ब्रह्म आत्मनः तस्य व्यक्त अव्यक्त-आत्मनः परः ब्रह्मा अवभाति विततः नाना शक्ति उपबृंहितः
ततोऽपरामुपादाय स सर्गाय मनो दधे ॥ ४९ ॥
ततः अपराम् उपादाय सः सर्गाय मनः दधे
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।
ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव ॥ ५० ॥
ऋषीणाम् भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् ज्ञात्वा तत् हृदये भूयः चिन्तयाम् आस कौरव
अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ।
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५१ ॥
अहो अद्भुतम् एतत् मे व्यापृतस्य अपि नित्यदा न हि एधन्ते प्रजाः नूनम् दैवम् अत्र विघातकम्
एवं युक्तकृतस्तस्य दैवञ्चावेक्षतस्तदा ।
कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते ॥ ५२ ॥
एवम् युक्त कृतः तस्य दैवम् च अवेक्षतः तदा कस्य रूपम् अभूत् द्वेधा यत् कायम् अभिचक्षते
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ ५३ ॥
ताभ्याम् रूप विभागाभ्याम् मिथुनम् समपद्यत
यस्तु तत्र पुमान् सोऽभून्मनु: स्वायम्भुव: स्वराट् ।
स्त्री याऽसीच्छतरूपाख्या महिष्यस्य महात्मन: ॥ ५४ ॥
यः तु तत्र पुमान् सः अभूत् मनुः स्वायम्भुवः स्व-राट् स्त्री या आसीत् शतरूपा आख्या महिषी अस्य महात्मनः
तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ॥ ५५ ॥
तदा मिथुन धर्मेण प्रजाः हि एधाम् बभूविरे
स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ।
प्रियव्रतोत्तानपादौ तिस्र: कन्याश्च भारत ।
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५६ ॥
सः च अपि शतरूपायाम् पञ्च अपत्यानि अजीजनत् प्रियव्रत उत्तानपादौ तिस्रः कन्याः च भारत आकूतिः देवहूतिः च प्रसूतिः इति सत्तम
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ।
दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥ ५७ ॥
आकूतिम् रुचये प्रादात् कर्दमाय तु मध्यमाम् दक्षाय अदात् प्रसूतिम् च यतः आपूरितम् जगत्
३.१३
श्रीशुक उवाच
निशम्य वाचं वदतो मुने: पुण्यतमां नृप ।
भूय: पप्रच्छ कौरव्यो वासुदेवकथादृत: ॥ १ ॥
श्री-शुकः उवाच निशम्य वाचम् वदतः मुनेः पुण्य-तमाम् नृप भूयः पप्रच्छ कौरव्यः वासुदेव-कथा आदृतः
विदुर उवाच
स वै स्वायम्भुव: सम्राट् प्रिय: पुत्र: स्वयम्भुव: ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥
विदुरः उवाच सः वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः प्रतिलभ्य प्रियाम् पत्नीम् किम् चकार ततः मुने
चरितं तस्य राजर्षेरादिराजस्य सत्तम ।
ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३ ॥
चरितम् तस्य राजर्षेः आदि-राजस्य सत्तम ब्रूहि मे श्रद्दधानाय विष्वक्सेन आश्रयः हि असौ
श्रुतस्य पुंसां सुचिरश्रमस्य
नन्वञ्जसा सूरिभिरीडितोऽर्थ: ।
तत्तद्गुणानुश्रवणं मुकुन्द-
पादारविन्द हृदयेषु येषाम् ॥ ४ ॥
श्रुतस्य पुंसाम् सुचिर श्रमस्य ननु अञ्जसा सूरिभिः ईडितः अर्थः तत् तत् गुण अनुश्रवणम् मुकुन्द पाद-अरविन्दम् हृदयेषु येषाम्
श्रीशुक उवाच
इति ब्रुवाणं विदुरं विनीतं
सहस्रशीर्ष्णश्चरणोपधानम् ।
प्रहृष्टरोमा भगवत्कथायां
प्रणीयमानो मुनिरभ्यचष्ट ॥ ५ ॥
श्री-शुकः उवाच इति ब्रुवाणम् विदुरम् विनीतम् सहस्र-शीर्ष्णः चरण उपधानम् प्रहृष्ट-रोमा भगवत् कथायाम् प्रणीयमानः मुनिः अभ्यचष्ट
मैत्रेय उवाच
यदा स्वभार्यया सार्धं जात: स्वायम्भुवो मनु: ।
प्राञ्जलि: प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥
मैत्रेयः उवाच यदा स्व-भार्यया सार्धम् जातः स्वायम्भुवः मनुः प्राञ्जलिः प्रणतः च इदम् वेद-गर्भम् अभाषत
त्वमेक: सर्वभूतानां जन्मकृद् वृत्तिद: पिता ।
तथापि न: प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७ ॥
त्वम् एकः सर्व भूतानाम् जन्म-कृत् वृत्ति-दः पिता तथा अपि नः प्रजानाम् ते शुश्रूषा केन वा भवेत्
तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।
यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गति: ॥ ८ ॥
तत् विधेहि नमः तुभ्यम् कर्मसु ईड्य आत्म-शक्तिषु यत् कृत्वा इह यशः विष्वक् अमुत्र च भवेत् गतिः
ब्रह्मोवाच
प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।
यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ॥ ९ ॥
ब्रह्मा उवाच प्रीतः तुभ्यम् अहम् तात स्वस्ति स्तात् वाम् क्षिति-ईश्वर यत् निर्व्यलीकेन हृदा शाधि मा इति आत्मना अर्पितम्
एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ ।
शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरै: ॥ १० ॥
एतावती आत्मजैः वीर कार्या हि अपचितिः गुरौ शक्त्या अप्रमत्तैः गृह्येत स-आदरम् गत-मत्सरैः
स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणै: ।
उत्पाद्य शास धर्मेण गां यज्ञै: पुरुषं यज ॥ ११ ॥
सः त्वम् अस्याम् अपत्यानि सदृशानि आत्मनः गुणैः उत्पाद्य शास धर्मेण गाम् यज्ञैः पुरुषम् यज
स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणै: ।
उत्पाद्य शास धर्मेण गां यज्ञै: पुरुषं यज ॥ ११ ॥
परम् शुश्रूषणम् मह्यम् स्यात् प्रजा रक्षया नृप भगवान् ते प्रजा-भर्तुः हृषीकेशः अनुतुष्यति
येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दन: ।
तेषां श्रमो ह्यपार्थाय यदात्मा नादृत: स्वयम् ॥ १३ ॥
येषाम् न तुष्टः भगवान् यज्ञ-लिङ्गः जनार्दनः तेषाम् श्रमः हि अपार्थाय यत् आत्मा न आदृतः स्वयम्
मनुरुवाच
आदेशेऽहं भगवतो वर्तेयामीवसूदन ।
स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४ ॥
मनुः उवाच आदेशे अहम् भगवतः वर्तेय अमीव-सूदन स्थानम् तु इह अनुजानीहि प्रजानाम् मम च प्रभो
यदोक: सर्वभूतानां मही मग्ना महाम्भसि ।
अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ १५ ॥
यत् ओकः सर्व भूतानाम् मही मग्ना महा-अम्भसि अस्याः उद्धरणे यत्नः देव देव्याः विधीयताम्
मैत्रेय उवाच
परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् ।
कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६ ॥
मैत्रेयः उवाच परमेष्ठी तु अपाम् मध्ये तथा सन्नाम् अवेक्ष्य गाम् कथम् एनाम् समुन्नेष्ये इति दध्यौ धिया चिरम्
सृजतो मे क्षितिर्वार्भि:प्लाव्यमाना रसां गता ।
अथात्र किमनुष्ठेयमस्माभि: सर्गयोजितै: ।
यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७ ॥
सृजतः मे क्षितिः वार्भिः प्लाव्यमाना रसाम् गता अथ अत्र किम् अनुष्ठेयम् अस्माभिः सर्ग योजितैः यस्य अहम् हृदयात् आसम् सः ईशः विदधातु मे
इत्यभिध्यायतो नासाविवरात्सहसानघ ।
वराहतोको निरगादङ्गुष्ठपरिमाणक: ॥ १८ ॥
इति अभिध्यायतः नासा-विवरात् सहसा अनघ वराह-तोकः निरगात् अङ्गुष्ठ परिमाणकः
तस्याभिपश्यत: खस्थ: क्षणेन किल भारत ।
गजमात्र: प्रववृधे तदद्भुतमभून्महत् ॥ १९ ॥
तस्य अभिपश्यतः ख-स्थः क्षणेन किल भारत गज-मात्रः प्रववृधे तत् अद्भुतम् अभूत् महत्
मरीचिप्रमुखैर्विप्रै: कुमारैर्मनुना सह ।
हृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २० ॥
मरीचि प्रमुखैः विप्रैः कुमारैः मनुना सह दृष्ट्वा तत् सौकरम् रूपम् तर्कयाम् आस चित्रधा
किमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम् ।
अहो बताश्चर्यमिदं नासाया मे विनि:सृतम् ॥ २१ ॥
किम् एतत् सूकर व्याजम् सत्त्वम् दिव्यम् अवस्थितम् अहो बत आश्चर्यम् इदम् नासायाः मे विनिःसृतम्
दृष्टोऽङ्गुष्ठशिरोमात्र: क्षणाद्गण्डशिलासम: ।
अपि स्विद्भगवानेष यज्ञो मे खेदयन्मन: ॥ २२ ॥
दृष्टः अङ्गुष्ठ शिरः मात्रः क्षणात् गण्ड-शिला समः अपि स्वित् भगवान् एषः यज्ञः मे खेदयन् मनः
इति मीमांसतस्तस्य ब्रह्मण: सह सूनुभि: ।
भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभ: ॥ २३ ॥
इति मीमांसतः तस्य ब्रह्मणः सह सूनुभिः भगवान् यज्ञ पुरुषः जगर्ज अग-इन्द्र सन्निभः
ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।
स्वगर्जितेन ककुभ: प्रतिस्वनयता विभु: ॥ २४ ॥
ब्रह्माणम् हर्षयाम् आस हरिः तान् च द्विज-उत्तमान् स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः
निशम्य ते घर्घरितं स्वखेद-
क्षयिष्णु मायामयसूकरस्य ।
जनस्तप:सत्यनिवासिनस्ते
त्रिभि: पवित्रैर्मुनयोऽगृणन् स्म ॥ २५ ॥
निशम्य ते घर्घरितम् स्व-खेद क्षयिष्णु माया-मय सूकरस्य जनः तपः सत्य निवासिनः ते त्रिभिः पवित्रैः मुनयः अगृणन् स्म
तेषां सतां वेदवितानमूर्ति-
र्ब्रह्मावधार्यात्मगुणानुवादम् ।
विनद्य भूयो विबुधोदयाय
गजेन्द्रलीलो जलमाविवेश ॥ २६ ॥
तेषाम् सताम् वेद वितान-मूर्तिः ब्रह्म अवधार्य आत्म गुण-अनुवादम् विनद्य भूयः विबुध उदयाय गजेन्द्र-लीलः जलम् आविवेश
उत्क्षिप्तवाल: खचर: कठोर:
सटा विधुन्वन् खररोमशत्वक् ।
खुराहताभ्र: सितदंष्ट्र ईक्षा-
ज्योतिर्बभासे भगवान्महीध्र: ॥ २७ ॥
उत्क्षिप्त-वालः ख-चरः कठोरः सटाः विधुन्वन् खर रोमश-त्वक् खुर-आहत अभ्रः सित-दंष्ट्रः ईक्षा ज्योतिः बभासे भगवान् मही-ध्रः
घ्राणेन पृथ्व्या: पदवीं विजिघ्रन्
क्रोडापदेश: स्वयमध्वराङ्ग: ।
करालदंष्ट्रोऽप्यकरालदृग्भ्या-
मुद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८ ॥
घ्राणेन पृथ्व्याः पदवीम् विजिघ्रन् क्रोड-अपदेशः स्वयम् अध्वर अङ्गः कराल दंष्ट्रः अपि अकराल दृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतः अविशत् कम्
स वज्रकूटाङ्गनिपातवेग-
विशीर्णकुक्षि: स्तनयन्नुदन्वान् ।
उत्सृष्टदीर्घोर्मिभुजैरिवार्त-
श्चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९ ॥
सः वज्र-कूट-अङ्ग निपात-वेग विशीर्ण कुक्षिः स्तनयन् उदन्वान् उत्सृष्ट दीर्घ ऊर्मि भुजैः इव आर्तः चुक्रोश यज्ञ-ईश्वर पाहि मा इति
खुरै: क्षुरप्रैर्दरयंस्तदाप
उत्पारपारं त्रिपरू रसायाम् ।
ददर्श गां तत्र सुषुप्सुरग्रे
यां जीवधानीं स्वयमभ्यधत्त ॥ ३० ॥
खुरैः क्षुरप्रैः दरयन् तत् आपः उत्पार-पारम् त्रि-परुः रसायाम् ददर्श गाम् तत्र सुषुप्सुः अग्रे याम् जीव-धानीम् स्वयम् अभ्यधत्त
स्वदंष्ट्रयोद्धृत्य महीं निमग्नां
स उत्थित: संरुरुचे रसाया: ।
तत्रापि दैत्यं गदयापतन्तं
सुनाभसन्दीपिततीव्रमन्यु: ॥ ३१ ॥
स्व-दंष्ट्रया उद्धृत्य महीम् निमग्नाम् सः उत्थितः संरुरुचे रसायाः तत्र अपि दैत्यम् गदया आपतन्तम् सुनाभ सन्दीपित तीव्र मन्युः
जघान रुन्धानमसह्यविक्रमं
स लीलयेभं मृगराडिवाम्भसि ।
तद्रक्तपङ्काङ्कितगण्डतुण्डो
यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२ ॥
जघान रुन्धानम् असह्य विक्रमम् सः लीलया इभम् मृग-राट् इव अम्भसि तत्-रक्त पङ्क-अङ्कित गण्ड तुण्डः यथा गजेन्द्रः जगतीम् विभिन्दन्
तमालनीलं सितदन्तकोट्या
क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ।
प्रज्ञाय बद्धाञ्जलयोऽनुवाकै-
र्विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३ ॥
तमाल नीलम् सित दन्त कोट्या क्ष्माम् उत्क्षिपन्तम् गज-लीलया अङ्ग प्रज्ञाय बद्ध अञ्जलयः अनुवाकैः विरिञ्चि मुख्याः उपतस्थुः ईशम्
ऋषय ऊचु:
जितं जितं तेऽजित यज्ञभावन
त्रयीं तनुं स्वां परिधुन्वते नम: ।
यद्रोमगर्ेषु निलिल्युरद्धय-
स्तस्मै नम: कारणसूकराय ते ॥ ३४ ॥
ऋषयः ऊचुः जितम् जितम् ते अजित यज्ञ-भावन त्रयीम् तनुम् स्वाम् परिधुन्वते नमः यत् रोम गर्तेषु निलिल्युः अद्धयः तस्मै नमः कारण-सूकराय ते
रूपं तवैतन्ननु दुष्कृतात्मनां
दुर्दर्शनं देव यदध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हिरोम-
स्वाज्यं दृशि त्वङ्घ्रि षु चातुर्होत्रम् ॥ ३५ ॥
रूपम् तव एतत् ननु दुष्कृत-आत्मनाम् दुर्दर्शनम् देव यत् अध्वर-आत्मकम् छन्दांसि यस्य त्वचि बर्हिः रोमसु आज्यम् दृशि तु अङ्घ्रिषु चातुः-होत्रम्
स्रक्तुण्ड आसीत्स्रुव ईश नासयो-
रिडोदरे चमसा: कर्णरन्ध्रे ।
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६ ॥
स्रक् तुण्डे आसीत् स्रुवः ईश नासयोः इडा उदरे चमसाः कर्ण-रन्ध्रे प्राशित्रम् आस्ये ग्रसने ग्रहाः तु ते यत् चर्वणम् ते भगवन् अग्नि-होत्रम्
दीक्षानुजन्मोपसद: शिरोधरं
त्वं प्रायणीयोदयनीयदंष्ट्र: ।
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतो:
सत्यावसथ्यं चितयोऽसवो हि ते ॥ ३७ ॥
दीक्षा अनुजन्म उपसदः शिरः-धरम् त्वम् प्रायणीय उदयनीय दंष्ट्रः जिह्वा प्रवर्ग्यः तव शीर्षकम् क्रतोः सत्य आवसथ्यम् चितयः असवः हि ते
सोमस्तु रेत: सवनान्यवस्थिति:
संस्थाविभेदास्तव देव धातव: ।
सत्राणि सर्वाणि शरीरसन्धि-
स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धन: ॥ ३८ ॥
सोमः तु रेतः सवनानि अवस्थितिः संस्था-विभेदाः तव देव धातवः सत्राणि सर्वाणि शरीर सन्धिः त्वम् सर्व यज्ञ क्रतुः इष्टि बन्धनः
नमो नमस्तेऽखिलमन्त्रदेवता-
द्रव्याय सर्वक्रतवे क्रियात्मने ।
वैराग्यभक्त्यात्मजयानुभावित-
ज्ञानाय विद्यागुरवे नमो नम: ॥ ३९ ॥
नमः नमः ते अखिल मन्त्र देवता द्रव्याय सर्व-क्रतवे क्रिया-आत्मने वैराग्य भक्त्या आत्म-जय-अनुभावित ज्ञानाय विद्या-गुरवे नमः नमः
दंष्ट्राग्रकोट्या भगवंस्त्वया धृता
विराजते भूधर भू: सभूधरा ।
यथा वनान्नि:सरतो दता धृता
मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४० ॥
दंष्ट्र-अग्र कोट्या भगवन् त्वया धृता विराजते भू-धर भूः स-भूधरा यथा वनात् निःसरतः दता धृता मतम्-गजेन्द्रस्य स-पत्र पद्मिनी
त्रयीमयं रूपमिदं च सौकरं
भूमण्डलेनाथ दता धृतेन ते ।
चकास्ति शृङ्गोढघनेन भूयसा
कुलाचलेन्द्रस्य यथैव विभ्रम: ॥ ४१ ॥
त्रयी-मयम् रूपम् इदम् च सौकरम् भू-मण्डलेन अथ दता धृतेन ते चकास्ति शृङ्ग-ऊढ घनेन भूयसा कुल-अचल-इन्द्रस्य यथा एव विभ्रमः
संस्थापयैनां जगतां सतस्थुषां
लोकाय पत्नीमसि मातरं पिता ।
विधेम चास्यै नमसा सह त्वया
यस्यां स्वतेजोऽग्निमिवारणावधा: ॥ ४२ ॥
संस्थापय एनाम् जगताम् स-तस्थुषाम् लोकाय पत्नीम् असि मातरम् पिता विधेम च अस्यै नमसा सह त्वया यस्याम् स्व-तेजः अग्निम् इव अरणौ अधाः
क: श्रद्दधीतान्यतमस्तव प्रभो
रसां गताया भुव उद्विबर्हणम् ।
न विस्मयोऽसौ त्वयि विश्वविस्मये
यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३ ॥
कः श्रद्दधीत अन्यतमः तव प्रभो रसाम् गतायाः भुवः उद्विबर्हणम् न विस्मयः असौ त्वयि विश्व विस्मये यः मायया इदम् ससृजे अतिविस्मयम्
विधुन्वता वेदमयं निजं वपु-
र्जनस्तप:सत्यनिवासिनो वयम् ।
सटाशिखोद्धूतशिवाम्बुबिन्दुभि-
र्विमृज्यमाना भृशमीश पाविता: ॥ ४४ ॥
विधुन्वता वेद-मयम् निजम् वपुः जनः तपः सत्य निवासिनः वयम् सटा शिख-उद्धूत शिव अम्बु बिन्दुभिः विमृज्यमानाः भृशम् ईश पाविताः
स वै बत भ्रष्टमतिस्तवैषते
य: कर्मणां पारमपारकर्मण: ।
यद्योगमायागुणयोगमोहितं
विश्वं समस्तं भगवन् विधेहि शम् ॥ ४५ ॥
सः वै बत भ्रष्ट-मतिः तव एषते यः कर्मणाम् पारम् अपार-कर्मणः यत् योग माया गुण योग मोहितम् विश्वम् समस्तम् भगवन् विधेहि शम्
मैत्रेय उवाच
इत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभि: ।
सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६ ॥
मैत्रेयः उवाच इति उपस्थीयमानः असौ मुनिभिः ब्रह्म-वादिभिः सलिले स्व-खुर-आक्रान्ते उपाधत्त अविता अवनिम्
स इत्थं भगवानुर्वीं विष्वक्सेन: प्रजापति: ।
रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरि: ॥ ४७ ॥
सः इत्थम् भगवान् उर्वीम् विष्वक्सेनः प्रजा-पतिः रसायाः लीलया उन्नीताम् अप्सु न्यस्य ययौ हरिः
य एवमेतां हरिमेधसो हरे: ।
कथां सुभद्रां कथनीयमायिन: ।
शृण्वीत भक्त्या श्रवयेत वोशतीं
जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८ ॥
यः एवम् एताम् हरि-मेधसः हरेः कथाम् सु-भद्राम् कथनीय मायिनः शृण्वीत भक्त्या श्रवयेत वा उशतीम् जनार्दनः अस्य आशु हृदि प्रसीदति
तस्मिन् प्रसन्ने सकलाशिषां प्रभौ
किं दुर्लभं ताभिरलं लवात्मभि: ।
अनन्यदृष्टया भजतां गुहाशय:
स्वयं विधत्ते स्वगतिं पर: पराम् ॥ ४९ ॥
तस्मिन् प्रसन्ने सकल-आशिषाम् प्रभौ किम् दुर्लभम् ताभिः अलम् लव-आत्मभिः अनन्य-दृष्ट्या भजताम् गुहा-आशयः स्वयम् विधत्ते स्व-गतिम् परः पराम्
को नाम लोके पुरुषार्थसारवित्
पुराकथानां भगवत्कथासुधाम् ।
आपीय कर्णाञ्जलिभिर्भवापहा-
महो विरज्येत विना नरेतरम् ॥ ५० ॥
कः नाम लोके पुरुष-अर्थ सार-वित् पुरा-कथानाम् भगवत् कथा-सुधाम् आपीय कर्ण-अञ्जलिभिः भव-अपहाम् अहो विरज्येत विना नर-इतरम्
३.१४
श्रीशुक उवाच
निशम्य कौषारविणोपवर्णितां
हरे: कथां कारणसूकरात्मन: ।
पुन: स पप्रच्छ तमुद्यताञ्जलि-
र्न चातितृप्तो विदुरो धृतव्रत: ॥ १ ॥
श्री-शुकः उवाच निशम्य कौषारविणा उपवर्णिताम् हरेः कथाम् कारण सूकर-आत्मनः पुनः सः पप्रच्छ तम् उद्यत-अञ्जलिः न च अति-तृप्तः विदुरः धृत-व्रतः
विदुर उवाच
तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।
आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥
विदुरः उवाच तेन एव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना आदि दैत्यः हिरण्याक्षः हतः इति अनुशुश्रुम
तस्य चोद्धरत: क्षौणीं स्वदंष्ट्राग्रेण लीलया ।
दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृध: ॥ ३ ॥
तस्य च उद्धरतः क्षौणीम् स्व-दंष्ट्र-अग्रेण लीलया दैत्य-राजस्य च ब्रह्मन् कस्मात् हेतोः अभूत् मृधः
श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम् ।
ऋषे न तृप्यति मन: परं कौतूहलं हि मे ॥ ४ ॥
श्रद्दधानाय भक्ताय ब्रूहि तत् जन्म विस्तरम् ऋषे न तृप्यति मनः परम् कौतूहलम् हि मे
मैत्रेय उवाच
साधु वीर त्वया पृष्टमवतारकथां हरे: ।
यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ५ ॥
मैत्रेयः उवाच साधु वीर त्वया पृष्टम् अवतार-कथाम् हरेः यत् त्वम् पृच्छसि मर्त्यानाम् मृत्यु-पाश विशातनीम्
ययोत्तानपद: पुत्रो मुनिना गीतयार्भक: ।
मृत्यो: कृत्वैव मूर्ध्न्यङ्घ्रि मारुरोह हरे: पदम् ॥ ६ ॥
यया उत्तानपदः पुत्रः मुनिना गीतया अर्भकः मृत्योः कृत्वा एव मूर्ध्नि अङ्घ्रिम् आरुरोह हरेः पदम्
अथात्रापीतिहासोऽयं श्रुतो मे वर्णित: पुरा ।
ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् ॥ ७ ॥
अथ अत्र अपि इतिहासः अयम् श्रुतः मे वर्णितः पुरा ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम्
दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् ।
अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ८ ॥
दितिः दाक्षायणी क्षत्तः मारीचम् कश्यपम् पतिम् अपत्य-कामा चकमे सन्ध्यायाम् हृत्-शय अर्दिता
इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।
निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम् ॥ ९ ॥
इष्ट्वा अग्नि जिह्वम् पयसा पुरुषम् यजुषाम् पतिम् निम्लोचति अर्के आसीनम् अग्नि-अगारे समाहितम्
दितिरुवाच
एष मां त्वत्कृते विद्वन् काम आत्तशरासन: ।
दुनोति दीनां विक्रम्य रम्भामिव मतङ्गज: ॥ १० ॥
दितिः उवाच एषः माम् त्वत्-कृते विद्वन् कामः आत्त-शरासनः दुनोति दीनाम् विक्रम्य रम्भाम् इव मतम्-गजः
तद्भवान्दह्यमानायां सपत्नीनां समृद्धिभि: ।
प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ ११ ॥
तत् भवान् दह्यमानायाम् स-पत्नीनाम् समृद्धिभिः प्रजा-वतीनाम् भद्रम् ते मयि आयुङ्क्ताम् अनुग्रहम्
भर्तर्याप्तोरुमानानां लोकानाविशते यश: ।
पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ १२ ॥
भर्तरि आप्त-उरुमानानाम् लोकान् आविशते यशः पतिः भवत्-विधः यासाम् प्रजया ननु जायते
पुरा पिता नो भगवान्दक्षो दुहितृवत्सल: ।
कं वृणीत वरं वत्सा इत्यपृच्छत न: पृथक् ॥ १३ ॥
पुरा पिता नः भगवान् दक्षः दुहितृ-वत्सलः कम् वृणीत वरम् वत्साः इति अपृच्छत नः पृथक्
स विदित्वात्मजानां नो भावं सन्तानभावन: ।
त्रयोदशाददात्तासां यास्ते शीलमनुव्रता: ॥ १४ ॥
सः विदित्वा आत्म-जानाम् नः भावम् सन्तान भावनः त्रयोदश अददात् तासाम् याः ते शीलम् अनुव्रताः
अथ मे कुरु कल्याणं कामं कमललोचन ।
आर्तोपसर्पणं भूमन्नमोघं हि महीयसि ॥ १५ ॥
अथ मे कुरु कल्याणम् कामम् कमल-लोचन आर्त उपसर्पणम् भूमन् अमोघम् हि महीयसि
इति तां वीर मारीच: कृपणां बहुभाषिणीम् ।
प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १६ ॥
इति ताम् वीर मारीचः कृपणाम् बहु-भाषिणीम् प्रत्याह अनुनयन् वाचा प्रवृद्ध अनङ्ग कश्मलाम्
एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।
तस्या: कामं न क: कुर्यात्सिद्धिस्त्रैवर्गिक यत: ॥ १७ ॥
एषः ते अहम् विधास्यामि प्रियम् भीरु यत् इच्छसि तस्याः कामम् न कः कुर्यात् सिद्धिः त्रैवर्गिकी यतः
सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।
व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १८ ॥
सर्व आश्रमान् उपादाय स्व आश्रमेण कलत्र-वान् व्यसन-अर्णवम् अत्येति जल-यानैः यथा अर्णवम्
यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि ।
यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वर: ॥ १९ ॥
याम् आहुः आत्मनः हि अर्धम् श्रेयः कामस्य मानिनि यस्याम् स्व-धुरम् अध्यस्य पुमान् चरति विज्वरः
यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमै: ।
वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा ॥ २० ॥
याम् आश्रित्य इन्द्रिय अरातीन् दुर्जयान् इतर आश्रमैः वयम् जयेम हेलाभिः दस्यून् दुर्ग-पतिः यथा
न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि ।
अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नव: ॥ २१ ॥
न वयम् प्रभवः ताम् त्वाम् अनुकर्तुम् गृह-ईश्वरि अपि आयुषा वा कार्त्स्न्येन ये च अन्ये गुण-गृध्नवः
अथापि काममेतं ते प्रजात्यै करवाण्यलम् ।
यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २२ ॥
अथ अपि कामम् एतम् ते प्रजात्यै करवाणि अलम् यथा माम् न अतिरोचन्ति मुहूर्तम् प्रतिपालय
एषा घोरतमा वेला घोराणां घोरदर्शना ।
चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २३ ॥
एषा घोर-तमा वेला घोराणाम् घोर-दर्शना चरन्ति यस्याम् भूतानि भूत-ईश अनुचराणि ह
एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावन: ।
परीतो भूतपर्षद्भिर्वृषेणाटति भूतराट् ॥ २४ ॥
एतस्याम् साध्वि सन्ध्यायाम् भगवान् भूत-भावनः परीतः भूत-पर्षद्भिः वृषेण अटति भूत-राट्
श्मशानचक्रानिलधूलिधूम्र-
विकीर्णविद्योतजटाकलाप: ।
भस्मावगुण्ठामलरुक्मदेहो
देवस्त्रिभि: पश्यति देवरस्ते ॥ २५ ॥
श्मशान चक्र-अनिल धूलि धूम्र विकीर्ण-विद्योत जटा-कलापः भस्म अवगुण्ठ अमल रुक्म देहः देवः त्रिभिः पश्यति देवरः ते
न यस्य लोके स्वजन: परो वा
नात्यादृतो नोत कश्चिद्विगर्ह्य: ।
वयं व्रतैर्यच्चरणापविद्धा-
माशास्महेऽजां बत भुक्तभोगाम् ॥ २६ ॥
न यस्य लोके स्व-जनः परः वा न अति आदृतः न उत कश्चित् विगर्ह्यः वयम् व्रतैः यत् चरण अपविद्धाम् आशास्महे अजाम् बत भुक्त-भोगाम्
यस्यानवद्याचरितं मनीषिणो
गृणन्त्यविद्यापटलं बिभित्सव: ।
निरस्तसाम्यातिशयोऽपि यत्स्वयं
पिशाचचर्यामचरद्गति: सताम् ॥ २७ ॥
यस्य अनवद्य आचरितम् मनीषिणः गृणन्ति अविद्या पटलम् बिभित्सवः निरस्त साम्य अतिशयः अपि यत् स्वयम् पिशाच चर्याम् अचरत् गतिः सताम्
हसन्ति यस्याचरितं हि दुर्भगा:
स्वात्मन्-रतस्याविदुष: समीहितम् ।
यैर्वस्त्रमाल्याभरणानुलेपनै:
श्वभोजनं स्वात्मतयोपलालितम् ॥ २८ ॥
हसन्ति यस्य आचरितम् हि दुर्भगाः स्व-आत्मन् रतस्य अविदुषः समीहितम् यैः वस्त्र माल्य आभरण अनु लेपनैः श्व-भोजनम् स्व-आत्मतया उपलालितम्
ब्रह्मादयो यत्कृतसेतुपाला
यत्कारणं विश्वमिदं च माया ।
आज्ञाकरी यस्य पिशाचचर्या
अहो विभूम्नश्चरितं विडम्बनम् ॥ २९ ॥
ब्रह्म-आदयः यत् कृत सेतु पालाः यत् कारणम् विश्वम् इदम् च माया आज्ञा-करी यस्य पिशाच चर्या अहो विभूम्नः चरितम् विडम्बनम्
मैत्रेय उवाच
सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया ।
जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा ॥ ३० ॥
मैत्रेयः उवाच सा एवम् संविदिते भर्त्रा मन्मथ उन्मथित इन्द्रिया जग्राह वासः ब्रह्म-ऋषेः वृषली इव गत-त्रपा
स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि ।
नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ ३१ ॥
सः विदित्वा अथ भार्यायाः तम् निर्बन्धम् विकर्मणि नत्वा दिष्टाय रहसि तया अथ उपविवेश हि
अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यत: ।
ध्यायञ्जजाप विरजं ब्रह्म ज्योति: सनातनम् ॥ ३२ ॥
अथ उपस्पृश्य सलिलम् प्राणान् आयम्य वाक्-यतः ध्यायन् जजाप विरजम् ब्रह्म ज्योतिः सनातनम्
दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।
उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत ॥ ३३ ॥
दितिः तु व्रीडिता तेन कर्म अवद्येन भारत उपसङ्गम्य विप्र-ऋषिम् अधः-मुखी अभ्यभाषत
दितिरुवाच
न मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत् ।
रुद्र: पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३४ ॥
दितिः उवाच न मे गर्भम् इमम् ब्रह्मन् भूतानाम् ऋषभः अवधीत् रुद्रः पतिः हि भूतानाम् यस्य अकरवम् अंहसम्
नमो रुद्राय महते देवायोग्राय मीढुषे ।
शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३५ ॥
नमः रुद्राय महते देवाय उग्राय मीढुषे शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे
स न: प्रसीदतां भामो भगवानुर्वनुग्रह: ।
व्याधस्याप्यनुकम्प्यानां स्त्रीणां देव: सतीपति: ॥ ३६ ॥
सः नः प्रसीदताम् भामः भगवान् उरु अनुग्रहः व्याधस्य अपि अनुकम्प्यानाम् स्त्रीणाम् देवः सती-पतिः
मैत्रेय उवाच
स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम् ।
निवृत्तसन्ध्यानियमो भार्यामाह प्रजापति: ॥ ३७ ॥
मैत्रेयः उवाच स्व-सर्गस्य आशिषम् लोक्याम् आशासानाम् प्रवेपतीम् निवृत्त सन्ध्या-नियमः भार्याम् आह प्रजापतिः
कश्यप उवाच
अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत ।
मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३८ ॥
कश्यपः उवाच अप्रायत्यात् आत्मनः ते दोषात् मौहूर्तिकात् उत मत् निदेश अतिचारेण देवानाम् च अतिहेलनात्
भविष्यतस्तवाभद्रावभद्रे जाठराधमौ ।
लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यत: ॥ ३९ ॥
भविष्यतः तव अभद्रौ अभद्रे जाठर-अधमौ लोकान् स-पालान् त्रीन् चण्डि मुहुः आक्रन्-दयिष्यतः
प्राणिनां हन्यमानानां दीनानामकृतागसाम् ।
स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ४० ॥
प्राणिनाम् हन्यमानानाम् दीनानाम् अकृत-आगसाम् स्त्रीणाम् निगृह्यमाणानाम् कोपितेषु महात्मसु
तदा विश्वेश्वर: क्रुद्धो भगवाल्लोकभावन: ।
हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४१ ॥
तदा विश्व-ईश्वरः क्रुद्धः भगवान् लोक-भावनः हनिष्यति अवतीर्य असौ यथा अद्रीन् शत-पर्व-धृक्
दितिरुवाच
वधं भगवता साक्षात्सुनाभोदारबाहुना ।
आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्प्रभो ॥ ४२ ॥
दितिः उवाच वधम् भगवता साक्षात् सुनाभ उदार बाहुना आशासे पुत्रयोः मह्यम् मा क्रुद्धात् ब्राह्मणात् प्रभो
न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च ।
नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गत: ॥ ४३ ॥
न ब्रह्म-दण्ड दग्धस्य न भूत-भय-दस्य च नारकाः च अनुगृह्णन्ति याम् याम् योनिम् असौ गतः
कश्यप उवाच
कृतशोकानुतापेन सद्य: प्रत्यवमर्शनात् ।
भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४४ ॥
पुत्रस्यैव च पुत्राणां भवितैक: सतां मत: ।
गास्यन्ति यद्यश: शुद्धं भगवद्यशसा समम् ॥ ४५ ॥
कश्यपः उवाच कृत-शोक अनुतापेन सद्यः प्रत्यवमर्शनात् भगवति उरु मानात् च भवे मयि अपि च आदरात् पुत्रस्य एव च पुत्राणाम् भविता एकः सताम् मतः गास्यन्ति यत् यशः शुद्धम् भगवत् यशसा समम्
योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधव: ।
निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४६ ॥
योगैः हेम इव दुर्वर्णम् भावयिष्यन्ति साधवः निर्वैर-आदिभिः आत्मानम् यत् शीलम् अनुवर्तितुम्
यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।
स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४७ ॥
यत् प्रसादात् इदम् विश्वम् प्रसीदति यत् आत्मकम् सः स्व-दृक् भगवान् यस्य तोष्यते अनन्यया दृशा
स वै महाभागवतो महात्मा
महानुभावो महतां महिष्ठ: ।
प्रवृद्धभक्त्या ह्यनुभाविताशये
निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४८ ॥
सः वै महा-भागवतः महा-आत्मा महा-अनुभावः महताम् महिष्ठः प्रवृद्ध भक्त्या हि अनुभावित आशये निवेश्य वैकुण्ठम् इमम् विहास्यति
अलम्पट: शीलधरो गुणाकरो
हृष्ट: परर्द्ध्या व्यथितो दु:खितेषु ।
अभूतशत्रुर्जगत: शोकहर्ता
नैदाघिकं तापमिवोडुराज: ॥ ४९ ॥
अलम्पटः शील-धरः गुण-आकरः हृष्टः पर-ऋद्ध्या व्यथितः दुःखितेषु अभूत-शत्रुः जगतः शोक-हर्ता नैदाघिकम् तापम् इव उडु-राजः
अन्तर्बहिश्चामलमब्जनेत्रं
स्वपूरुषेच्छानुगृहीतरूपम् ।
पौत्रस्तव श्रीललनाललामं
द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ५० ॥
अन्तः बहिः च अमलम् अब्ज-नेत्रम् स्व-पूरुष इच्छा-अनुगृहीत-रूपम् पौत्रः तव श्री-ललना ललामम् द्रष्टा स्फुरत्-कुण्डल मण्डित आननम्
मैत्रेय उवाच
श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् ।
पुत्रयोश्च वधं कृष्णाद्विदित्वासीन्महामना: ॥ ५१ ॥
मैत्रेयः उवाच श्रुत्वा भागवतम् पौत्रम् अमोदत दितिः भृशम् पुत्रयोः च वधम् कृष्णात् विदित्वा आसीत् महा-मनाः
३.१५
मैत्रेय उवाच
प्रजापत्यं तु तत्तेज: परतेजोहनं दिति: ।
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ १ ॥
मैत्रेयः उवाच प्राजापत्यम् तु तत् तेजः पर-तेजः हनम् दितिः दधार वर्षाणि शतम् शङ्कमाना सुर-अर्दनात्
लोके तेनाहतालोके लोकपाला हतौजस: ।
न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २ ॥
लोके तेन आहत आलोके लोक-पालाः हत-ओजसः न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरम् दिशाम्
देवा ऊचु:
तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् ।
न ह्यव्यक्तं भगवत: कालेनास्पृष्टवर्त्मन: ॥ ३ ॥
देवाः ऊचुः तमः एतत् विभो वेत्थ संविग्नाः यत् वयम् भृशम् न हि अव्यक्तम् भगवतः कालेन अस्पृष्ट वर्त्मनः
देवदेव जगद्धातर्लोकनाथशिखामणे ।
परेषामपरेषां त्वं भूतानामसि भाववित् ॥ ४ ॥
देव-देव जगत्-धातः लोकनाथ-शिखामणे परेषाम् अपरेषाम् त्वम् भूतानाम् असि भाव-वित्
नमो विज्ञानवीर्याय माययेदमुपेयुषे ।
गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५ ॥
नमः विज्ञान-वीर्याय मायया इदम् उपेयुषे गृहीत गुण-भेदाय नमः ते अव्यक्त योनये
ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् ।
आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६ ॥
ये त्वा अनन्येन भावेन भावयन्ति आत्म-भावनम् आत्मनि प्रोत भुवनम् परम् सत् असत् आत्मकम्
तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम् ।
लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभव: ॥ ७ ॥
तेषाम् सु-पक्व-योगानाम् जित श्वास इन्द्रिय आत्मनाम् लब्ध युष्मत् प्रसादानाम् न कुतश्चित् पराभवः
यस्य वाचा प्रजा: सर्वा गावस्तन्त्येव यन्त्रिता: ।
हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नम: ॥ ८ ॥
यस्य वाचा प्रजाः सर्वाः गावः तन्त्या इव यन्त्रिताः हरन्ति बलिम् आयत्ताः तस्मै मुख्याय ते नमः
स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम् ।
अदभ्रदयया दृष्टया आपन्नानर्हसीक्षितुम् ॥ ९ ॥
सः त्वम् विधत्स्व शम् भूमन् तमसा लुप्त कर्मणाम् अदभ्र दयया दृष्ट्या आपन्नान् अर्हसि ईक्षितुम्
एष देव दितेर्गर्भ ओज: काश्यपमर्पितम् ।
दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि ॥ १० ॥
एषः देव दितेः गर्भः ओजः काश्यपम् अर्पितम् दिशः तिमिरयन् सर्वाः वर्धते अग्निः इव एधसि
मैत्रेय उवाच
स प्रहस्य महाबाहो भगवान् शब्दगोचर: ।
प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११ ॥
मैत्रेयः उवाच सः प्रहस्य महा-बाहो भगवान् शब्द-गोचरः प्रत्याचष्ट आत्म-भूः देवान् प्रीणन् रुचिरया गिरा
ब्रह्मोवाच
मानसा मे सुता युष्मत्पूर्वजा: सनकादय: ।
चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहा: ॥ १२ ॥
ब्रह्मा उवाच मानसाः मे सुताः युष्मत् पूर्व-जाः सनक-आदयः चेरुः विहायसा लोकान् लोकेषु विगत-स्पृहाः
त एकदा भगवतो वैकुण्ठस्यामलात्मन: ।
ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥ १३ ॥
ते एकदा भगवतः वैकुण्ठस्य अमल-आत्मनः ययुः वैकुण्ठ-निलयम् सर्व-लोक नमस्कृतम्
वसन्ति यत्र पुरुषा: सर्वे वैकुण्ठमूर्तय: ।
येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥
वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः ये अनिमित्त निमित्तेन धर्मेण आराधयन् हरिम्
यत्र चाद्य: पुमानास्ते भगवान् शब्दगोचर: ।
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृष: ॥ १५ ॥
यत्र च आद्यः पुमान् आस्ते भगवान् शब्द-गोचरः सत्त्वम् विष्टभ्य विरजम् स्वानाम् नः मृडयन् वृषः
यत्र नै:श्रेयसं नाम वनं कामदुघैर्द्रुमै: ।
सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् ॥ १६ ॥
यत्र नैःश्रेयसम् नाम वनम् काम-दुघैः द्रुमैः सर्व ऋतु श्रीभिः विभ्राजत् कैवल्यम् इव मूर्तिमत्
वैमानिका: सललनाश्चरितानि शश्वद्
गायन्ति यत्र शमलक्षपणानि भर्तु: ।
अन्तर्जलेऽनुविकसन्मधुमाधवीनां
गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्त: ॥ १७ ॥
वैमानिकाः स-ललनाः चरितानि शश्वत् गायन्ति यत्र शमल क्षपणानि भर्तुः अन्तः-जले अनुविकसत् मधु माधवीनाम् गन्धेन खण्डित धियः अपि अनिलम् क्षिपन्तः
पारावतान्यभृतसारसचक्रवाक-
दात्यूहहंसशुकतित्तिरिबर्हिणां य: ।
कोलाहलो विरमतेऽचिरमात्रमुच्चै
र्भृङ्गाधिपे हरिकथामिव गायमाने ॥ १८ ॥
पारावत अन्यभृत सारस चक्रवाक दात्यूह हंस शुक तित्तिरि बर्हिणाम् यः कोलाहलः विरमते अचिर-मात्रम् उच्चैः भृङ्ग-अधिपे हरि-कथाम् इव गायमाने
मन्दारकुन्दकुरबोत्पलचम्पकार्ण-
पुन्नागनागबकुलाम्बुजपारिजाता: ।
गन्धेऽर्चिते तुलसिकाभरणेन तस्या
यस्मिंस्तप: सुमनसो बहु मानयन्ति ॥ १९ ॥
मन्दार कुन्द कुरब उत्पल चम्पक अर्ण पुन्नाग नाग बकुल अम्बुज पारिजाताः गन्धे अर्चिते तुलसिका आभरणेन तस्याः यस्मिन् तपः सु-मनसः बहु मानयन्ति
यत्संकुलं हरिपदानतिमात्रदृष्टै-
र्वैदूर्यमारकतहेममयैर्विमानै: ।
येषां बृहत्कटितटा: स्मितशोभिमुख्य:
कृष्णात्मनां न रज आदधुरुत्स्मयाद्यै: ॥ २० ॥
यत् सङ्कुलम् हरि-पद आनति मात्र दृष्टैः वैदूर्य मारकत हेम मयैः विमानैः येषाम् बृहत् कटि-तटाः स्मित शोभि मुख्यः कृष्ण आत्मनाम् न रजः आदधुः उत्स्मय-आद्यैः
श्री रूपिणी क्वणयती चरणारविन्दं
लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।
संलक्ष्यते स्फटिककुड्य उपेतहेम्नि
सम्मार्जतीव यदनुग्रहणेऽन्ययत्न: ॥ २१ ॥
श्री रूपिणी क्वणयती चरण-अरविन्दम् लीला-अम्बुजेन हरि-सद्मनि मुक्त-दोषा संलक्ष्यते स्फटिक कुड्ये उपेत हेम्नि सम्मार्जती इव यत्-अनुग्रहणे अन्य यत्नः
वापीषु विद्रुमतटास्वमलामृताप्सु
प्रेष्यान्विता निजवने तुलसीभिरीशम् ।
अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र-
मुच्छेषितं भगवतेत्यमताङ्ग यच्छ्री: ॥ २२ ॥
वापीषु विद्रुम तटासु अमल अमृत अप्सु प्रेष्या-अन्विता निज-वने तुलसीभिः ईशम् अभ्यर्चती सु-अलकम् उन्नसम् ईक्ष्य वक्त्रम् उच्छेषितम् भगवता इति अमत अङ्ग यत्-श्रीः
यन्न व्रजन्त्यघभिदो रचनानुवादा-
च्छृण्वन्ति येऽन्यविषया: कुकथा मतिघ्नी: ।
यास्तु श्रुता हतभगैर्नृभिरात्तसारा-
स्तांस्तान् क्षिपन्त्यशरणेषु तम:सु हन्त ॥ २३ ॥
यत् न व्रजन्ति अघ-भिदः रचना अनुवादात् शृण्वन्ति ये अन्य विषयाः कु-कथाः मति-घ्नीः याः तु श्रुताः हत-भगैः नृभिः आत्त साराः तान् तान् क्षिपन्ति अशरणेषु तमःसु हन्त
येऽभ्यर्थितामपि च तो नृगतिं प्रपन्ना
ज्ञानं च तत्त्वविषयं सहधर्मं यत्र ।
नाराधनं भगवतो वितरन्त्यमुष्य
सम्मोहिता विततया बत मायया ते ॥ २४ ॥
ये अभ्यर्थिताम् अपि च नः नृ-गतिम् प्रपन्नाः ज्ञानम् च तत्त्व-विषयम् सह-धर्मम् यत्र न आराधनम् भगवतः वितरन्ति अमुष्य सम्मोहिताः विततया बत मायया ते
यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरेयमा ह्युपरि न: स्पृहणीयशीला: ।
भर्तुर्मिथ: सुयशस: कथनानुराग-
वैक्लव्यबाष्पकलया पुलकीकृताङ्गा: ॥ २५ ॥
यत् च व्रजन्ति अनिमिषाम् ऋषभ अनुवृत्त्या दूरे यमाः हि उपरि नः स्पृहणीय शीलाः भर्तुः मिथः सुयशसः कथन अनुराग वैक्लव्य बाष्प-कलया पुलकी-कृत अङ्गाः
तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं
दिव्यं विचित्रविबुधाग्र्यविमानशोचि: ।
आपु: परां मुदमपूर्वमुपेत्य योग-
मायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६ ॥
तत् विश्व-गुरु अधिकृतम् भुवन एक वन्द्यम् दिव्यम् विचित्र विबुध-अग्र्य विमान शोचिः आपुः पराम् मुदम् अपूर्वम् उपेत्य योग-माया बलेन मुनयः तत् अथो विकुण्ठम्
तस्मिन्नतीत्य मुनय: षडसज्जमाना:
कक्षा: समानवयसावथ सप्तमायाम् ।
देवावचक्षत गृहीतगदौ परार्ध्य-
केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७ ॥
तस्मिन् अतीत्य मुनयः षट् असज्ज मानाः कक्षाः समान वयसौ अथ सप्तमायाम् देवौ अचक्षत गृहीत गदौ पर-अर्ध्य केयूर कुण्डल किरीट विटङ्क वेषौ
मत्तद्विरेफवनमालिकया निवीतौ
विन्यस्तयासितचतुष्टयबाहुमध्ये ।
वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां
रक्तेक्षणेन च मनाग्रभसं दधानौ ॥ २८ ॥
मत्त द्वि-रेफ वन-मालिकया निवीतौ विन्यस्तया असित चतुष्टय बाहु मध्ये वक्त्रम् भ्रुवा कुटिलया स्फुट निर्गमाभ्याम् रक्त ईक्षणेन च मनाक् रभसम् दधानौ
द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा
पूर्वा यथा पुरटवज्रकपाटिका या: ।
सर्वत्र तेऽविषमया मुनय: स्वदृष्टया
ये सञ्चरन्त्यविहता विगताभिशङ्का: ॥ २९ ॥
द्वारि एतयोः निविविशुः मिषतोः अपृष्ट्वा पूर्वाः यथा पुरट वज्र कपाटिकाः याः सर्वत्र ते अविष-मया मुनयः स्व-दृष्ट्या ये सञ्चरन्ति अविहताः विगत अभिशङ्काः
तान् वीक्ष्य वातारशनांश्चतुर: कुमारान्
वृद्धान्दशार्धवयसो विदितात्मतत्त्वान् ।
वेत्रेण चास्खलयतामतदर्हणांस्तौ
तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३० ॥
तान् वीक्ष्य वात-रशनान् चतुरः कुमारान् वृद्धान् दश-अर्ध वयसः विदित आत्म-तत्त्वान् वेत्रेण च अस्खलयताम् अ-तत्-अर्हणान् तौ तेजः विहस्य भगवत्-प्रतिकूल-शीलौ
ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमाना:
स्वर्हत्तमा ह्यपि हरे: प्रतिहारपाभ्याम् ।
ऊचु: सुहृत्तमदिदृक्षितभङ्ग ईष-
त्कामानुजेन सहसा त उपप्लुताक्षा: ॥ ३१ ॥
ताभ्याम् मिषत्सु अनिमिषेषु निषिध्यमानाः सु-अर्हत्तमाः हि अपि हरेः प्रतिहार-पाभ्याम् ऊचुः सुहृत्-तम दिदृक्षित भङ्गे ईषत् काम-अनुजेन सहसा ते उपप्लुत अक्षाः
मुनय ऊचु:
को वामिहैत्य भगवत्परिचर्ययोच्चै-
स्तद्धर्मिणां निवसतां विषम: स्वभाव: ।
तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां
को वात्मवत्कुहकयो: परिशङ्कनीय: ॥ ३२ ॥
मुनयः ऊचुः कः वाम् इह एत्य भगवत् परिचर्यया उच्चैः तत्-धर्मिणाम् निवसताम् विषमः स्वभावः तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वाम् कः वा आत्म-वत् कुहकयोः परिशङ्कनीयः
न ह्यन्तरं भगवतीह समस्तकुक्षा-
वात्मानमात्मनि नभो नभसीव धीरा: ।
पश्यन्ति यत्र युवयो: सुरलिङ्गिनो: किं
व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥
न हि अन्तरम् भगवति इह समस्त-कुक्षौ आत्मानम् आत्मनि नभः नभसि इव धीराः पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किम् व्युत्पादितम् हि उदर-भेदि भयम् यतः अस्य
तद्वाममुष्य परमस्य विकुण्ठभर्तु:
कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् ।
लोकानितो व्रजतमन्तरभावदृष्टया
पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥
तत् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः कर्तुम् प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् लोकान् इतः व्रजतम् अन्तर-भाव दृष्ट्या पापीयसः त्रयः इमे रिपवः अस्य यत्र
तेषामितीरितमुभाववधार्य घोरं
तं ब्रह्मदण्डमनिवारणमस्त्रपूगै: ।
सद्यो हरेरनुचरावुरु बिभ्यतस्तत्-
पादग्रहावपततामतिकातरेण ॥ ३५ ॥
तेषाम् इति ईरितम् उभौ अवधार्य घोरम् तम् ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः सद्यः हरेः अनुचरौ उरु बिभ्यतः तत्-पाद-ग्रहौ अपतताम् अति-कातरेण
भूयादघोनि भगवद्भिरकारि दण्डो
यो नौ हरेत सुरहेलनमप्यशेषम् ।
मा वोऽनुतापकलया भगवत्स्मृतिघ्नो
मोहो भवेदिह तु नौ व्रजतोरधोऽध: ॥ ३६ ॥
भूयात् अघोनि भगवद्भिः अकारि दण्डः यः नौ हरेत सुर-हेलनम् अपि अशेषम् मा वः अनुताप कलया भगवत् स्मृति-घ्नः मोहः भवेत् इह तु नौ व्रजतोः अधः अधः
एवं तदैव भगवानरविन्दनाभ:
स्वानां विबुध्य सदतिक्रममार्यहृद्य: ।
तस्मिन् ययौ परमहंसमहामुनीना-
मन्वेषणीयचरणौ चलयन् सहश्री: ॥ ३७ ॥
एवम् तदा एव भगवान् अरविन्द-नाभः स्वानाम् विबुध्य सत् अतिक्रमम् आर्य हृद्यः तस्मिन् ययौ परमहंस महा-मुनीनाम् अन्वेषणीय चरणौ चलयन् सह-श्रीः
तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भि-
स्तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ।
हंसश्रियोर्व्यजनयो: शिववायुलोल-
च्छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥
तम् तु आगतम् प्रतिहृत औपयिकम् स्व-पुम्भिः ते अचक्षत अक्ष-विषयम् स्व-समाधि-भाग्यम् हंस-श्रियोः व्यजनयोः शिव-वायु लोलत् शुभ्र-आतपत्र शशि केसर शीकर अम्बुम्
कृत्स्नप्रसादसुमुखं स्पृहणीयधाम
स्नेहावलोककलया हृदि संस्पृशन्तम् ।
श्यामे पृथावुरसि शोभितया श्रिया स्व-
श्चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥
कृत्स्न-प्रसाद सु-मुखम् स्पृहणीय धाम स्नेह अवलोक कलया हृदि संस्पृशन्तम् श्यामे पृथौ उरसि शोभितया श्रिया स्वः चूडा-मणिम् सुभगयन्तम् इव आत्म धिष्ण्यम्
पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या
काञ्च्यालिभिर्विरुतया वनमालया च ।
वल्गुप्रकोष्ठवलयं विनतासुतांसे
विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४० ॥
पीत-अंशुके पृथु-नितम्बिनि विस्फुरन्त्या काञ्च्या अलिभिः विरुतया वन-मालया च वल्गु प्रकोष्ठ वलयम् विनता-सुत अंसे विन्यस्त हस्तम् इतरेण धुनानम् अब्जम्
विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह-
गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ।
दोर्दण्डषण्डविवरे हरता परार्ध्य-
हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१ ॥
विद्युत् क्षिपत् मकर कुण्डल मण्डन अर्ह गण्ड-स्थल उन्नस मुखम् मणि-मत् किरीटम् दोः-दण्ड षण्ड विवरे हरता पर-अर्ध्य हारेण कन्धर-गतेन च कौस्तुभेन
अत्रोपसृष्टमिति चोत्स्मितमिन्दिराया:
स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् ।
मह्यं भवस्य भवतां च भजन्तमङ्गं
नेमुर्निरीक्ष्य नवितृप्तदृशो मुदा कै: ॥ ४२ ॥
अत्र उपसृष्टम् इति च उत्स्मितम् इन्दिरायाः स्वानाम् धिया विरचितम् बहु-सौष्ठव-आढ्यम् मह्यम् भवस्य भवताम् च भजन्तम् अङ्गम् नेमुः निरीक्ष्य न वितृप्त दृशः मुदा कैः
तस्यारविन्दनयनस्य पदारविन्द-
किञ्जल्कमिश्रतुलसीमकरन्दवायु: ।
अन्तर्गत: स्वविवरेण चकार तेषां
सङ्क्षोभमक्षरजुषामपि चित्ततन्वो: ॥ ४३ ॥
तस्य अरविन्द-नयनस्य पद-अरविन्द किञ्जल्क मिश्र तुलसी मकरन्द वायुः अन्तः-गतः स्व-विवरेण चकार तेषाम् सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः
ते वा अमुष्य वदनासितपद्मकोश-
मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ।
लब्धाशिष: पुनरवेक्ष्य तदीयमङ्घ्रि-
द्वन्द्वं नखारुणमणिश्रयणं निदध्यु: ॥ ४४ ॥
ते वै अमुष्य वदन असित पद्म कोशम् उद्वीक्ष्य सुन्दर-तर अधर कुन्द हासम् लब्ध आशिषः पुनः अवेक्ष्य तदीयम् अङ्घ्रि-द्वन्द्वम् नख अरुण मणि श्रयणम् निदध्युः
पुंसां गतिं मृगयतामिह योगमार्गै-
र्ध्यानास्पदं बहु मतं नयनाभिरामम् ।
पौंस्नं वपुर्दर्शयानमनन्यसिद्धै-
रौत्पत्तिकै: समगृणन् युतमष्टभोगै: ॥ ४५ ॥
पुंसाम् गतिम् मृगयताम् इह योग-मार्गैः ध्यान-आस्पदम् बहु मतम् नयन अभिरामम् पौंस्नम् वपुः दर्शयानम् अनन्य सिद्धैः औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः
कुमारा ऊचु:
योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं
सोऽद्यैव नो नयनमूलमनन्त राद्ध: ।
यर्ह्येव कर्णविवरेण गुहां गतो न:
पित्रानुवर्णितरहा भवदुद्भवेन ॥ ४६ ॥
कुमाराः ऊचुः यः अन्तर्हितः हृदि गतः अपि दुरात्मनाम् त्वम् सः अद्य एव नः नयन-मूलम् अनन्त राद्धः यर्हि एव कर्ण-विवरेण गुहाम् गतः नः पित्रा अनुवर्णित रहाः भवत्-उद्भवेन
तं त्वां विदाम भगवन् परमात्मतत्त्वं
सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ।
यत्तेऽनुतापविदितैर्दृढभक्तियोगै-
रुद्ग्रन्थयो हृदि विदुर्मुनयो विरागा: ॥ ४७ ॥
तम् त्वाम् विदाम भगवन् परम् आत्म-तत्त्वम् सत्त्वेन सम्प्रति रतिम् रचयन्तम् एषाम् यत् ते अनुताप विदितैः दृढ भक्ति-योगैः उद्ग्रन्थयः हृदि विदुः मुनयः विरागाः
नात्यन्तिकं विगणयन्त्यपि ते प्रसादं
किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।
येऽङ्ग त्वदङ्घ्रि शरणा भवत: कथाया:
कीर्तन्यतीर्थयशस: कुशला रसज्ञा: ॥ ४८ ॥
न आत्यन्तिकम् विगणयन्ति अपि ते प्रसादम् किम् उ अन्यत् अर्पित भयम् भ्रुवः उन्नयैः ते ये अङ्ग त्वत् अङ्घ्रि शरणाः भवतः कथायाः कीर्तन्य तीर्थ यशसः कुशलाः रस-ज्ञाः
कामं भव: स्ववृजिनैर्निरयेषु न: स्ता-
च्चेतोऽलिवद्यदि नु ते पदयो रमेत ।
वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रि शोभा:
पूर्येत ते गुणगणैर्यदि कर्णरन्ध्र: ॥ ४९ ॥
कामम् भवः स्व-वृजिनैः निरयेषु नः स्तात् चेतः अलि-वत् यदि नु ते पदयोः रमेत वाचः च नः तुलसि-वत् यदि ते अङ्घ्रि शोभाः पूर्येत ते गुण-गणैः यदि कर्ण-रन्ध्रः
प्रादुश्चकर्थ यदिदं पुरुहूत रूपं
तेनेश निर्वृतिमवापुरलं दृशो न: ।
तस्मा इदं भगवते नम इद्विधेम
योऽनात्मनां दुरुदयो भगवान् प्रतीत: ॥ ५० ॥
प्रादुश्चकर्थ यत् इदम् पुरुहूत रूपम् तेन ईश निर्वृतिम् अवापुः अलम् दृशः नः तस्मै इदम् भगवते नमः इत् विधेम यः अनात्मनाम् दुरुदयः भगवान् प्रतीतः
३.१६
ब्रह्मोवाच
इति तद् गृणतां तेषां मुनीनां योगधर्मिणाम् ।
प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभु: ॥ १ ॥
ब्रह्मा उवाच इति तत् गृणताम् तेषाम् मुनीनाम् योग-धर्मिणाम् प्रतिनन्द्य जगाद इदम् विकुण्ठ-निलयः विभुः
श्रीभगवानुवाच
एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।
कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २ ॥
श्री-भगवान् उवाच एतौ तौ पार्षदौ मह्यम् जयः विजयः एव च कदर्थी-कृत्य माम् यत् वः बहु अक्राताम् अतिक्रमम्
यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतै: ।
स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥ ३ ॥
यः तु एतयोः धृतः दण्डः भवद्भिः माम् अनुव्रतैः सः एव अनुमतः अस्माभिः मुनयः देव हेलनात्
तद्व: प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।
तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृता: ॥ ४ ॥
तत् वः प्रसादयामि अद्य ब्रह्म दैवम् परम् हि मे तत् हि इति आत्म-कृतम् मन्ये यत् स्व-पुम्भिः असत्-कृताः
यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि ।
सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामय: ॥ ५ ॥
यत् नामानि च गृह्णाति लोकः भृत्ये कृत-आगसि सः असाधु-वादः तत् कीर्तिम् हन्ति त्वचम् इव आमयः
यस्यामृतामलयश:श्रवणावगाह:
सद्य: पुनाति जगदाश्वपचाद्विकुण्ठ: ।
सोऽहं भवद्भय उपलब्धसुतीर्थकीर्ति-
श्छिन्द्यां स्वबाहुमपि व: प्रतिकूलवृत्तिम् ॥ ६ ॥
यस्य अमृत अमल यशः श्रवण अवगाहः सद्यः पुनाति जगत् आश्व-पचात् विकुण्ठः सः अहम् भवद्भ्यः उपलब्ध सु-तीर्थ कीर्तिः छिन्द्याम् स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम्
यत्सेवया चरणपद्मपवित्ररेणुं
सद्य:क्षताखिलमलं प्रतिलब्धशीलम् ।
न श्रीर्विरक्तमपि मां विजहाति यस्या:
प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७ ॥
यत् सेवया चरण पद्म पवित्र रेणुम् सद्यः क्षत अखिल मलम् प्रतिलब्ध शीलम् न श्रीः विरक्तम् अपि माम् विजहाति यस्याः प्रेक्षा-लव-अर्थः इतरे नियमान् वहन्ति
नाहं तथाद्मि यजमानहविर्विताने
श्च्योतद्घृतप्लुतमदन् हुतभुङ्मुखेन ।
यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं
तुष्टस्य मय्यवहितैर्निजकर्मपाकै: ॥ ८ ॥
न अहम् तथा अद्मि यजमान हविः विताने श्च्योतत् घृत प्लुतम् अदन् हुत-भुक् मुखेन यत् ब्राह्मणस्य मुखतः चरतः अनुघासम् तुष्टस्य मयि अवहितैः निज कर्म पाकैः
येषां बिभर्म्यहमखण्डविकुण्ठयोग-
मायाविभूतिरमलाङ्घ्रि रज: किरीटै: ।
विप्रांस्तु को न विषहेत यदर्हणाम्भ:
सद्य: पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥
येषाम् बिभर्मि अहम् अखण्ड विकुण्ठ योग-माया विभूतिः अमल अङ्घ्रि रजः किरीटैः विप्रान् तु कः न विषहेत यत् अर्हण-अम्भः सद्यः पुनाति सह चन्द्र-ललाम लोकान्
ये मे तनूर्द्विजवरान्दुहतीर्मदीया
भूतान्यलब्धशरणानि च भेदबुद्ध्या ।
द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्
गृध्रा रुषा मम कुषन्त्यधिदण्डनेतु: ॥ १० ॥
ये मे तनूः द्विज-वरान् दुहतीः मदीयाः भूतानि अलब्ध-शरणानि च भेद-बुद्ध्या द्रक्ष्यन्ति अघ क्षत दृशः हि अहि मन्यवः तान् गृध्राः रुषा मम कुषन्ति अधिदण्ड-नेतुः
ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्त-
स्तुष्यद्धृद: स्मितसुधोक्षितपद्मवक्त्रा: ।
वाण्यानुरागकलयात्मजवद् गृणन्त:
सम्बोधयन्त्यहमिवाहमुपाहृतस्तै: ॥ ११ ॥
ये ब्राह्मणान् मयि धिया क्षिपतः अर्चयन्तः तुष्यत् हृदः स्मित सुधा उक्षित पद्म वक्त्राः वाण्या अनुराग-कलया आत्मज-वत् गृणन्तः सम्बोधयन्ति अहम् इव अहम् उपाहृतः तैः
तन्मे स्वभर्तुरवसायमलक्षमाणौ
युष्मद्वयतिक्रमगतिं प्रतिपद्य सद्य: ।
भूयो ममान्तिकमितां तदनुग्रहो मे
यत्कल्पतामचिरतो भृतयोर्विवास: ॥ १२ ॥
तत् मे स्व-भर्तुः अवसायम् अलक्षमाणौ युष्मत् व्यतिक्रम गतिम् प्रतिपद्य सद्यः भूयः मम अन्तिकम् इताम् तत् अनुग्रहः मे यत् कल्पताम् अचिरतः भृतयोः विवासः
बह्मोवाच
अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।
नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत ॥ १३ ॥
ब्रह्मा उवाच अथ तस्य उशतीम् देवीम् ऋषि-कुल्याम् सरस्वतीम् न आस्वाद्य मन्यु दष्टानाम् तेषाम् आत्मा अपि अतृप्यत
सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् ।
विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४ ॥
सतीम् व्यादाय शृण्वन्तः लघ्वीम् गुरु अर्थ गह्वराम् विगाह्य अगाध गम्भीराम् न विदुः तत् चिकीर्षितम्
ते योगमाययारब्धपारमेष्ठ्यमहोदयम् ।
प्रोचु: प्राञ्जलयो विप्रा: प्रहृष्टा: क्षुभितत्वच: ॥ १५ ॥
ते योग-मायया आरब्ध पारमेष्ठ्य महा-उदयम् प्रोचुः प्राञ्जलयः विप्राः प्रहृष्टाः क्षुभित-त्वचः
ऋषय ऊचु:
न वयं भगवन् विद्मस्तव देव चिकीर्षितम् ।
कृतो मेऽनुग्रहश्चेति यदध्यक्ष: प्रभाषसे ॥ १६ ॥
ऋषयः ऊचुः न वयम् भगवन् विद्मः तव देव चिकीर्षितम् कृतः मे अनुग्रहः च इति यत् अध्यक्षः प्रभाषसे
ब्रह्मण्यस्य परं दैवं ब्राह्मणा: किल ते प्रभो ।
विप्राणां देवदेवानां भगवानात्मदैवतम् ॥ १७ ॥
ब्रह्मण्यस्य परम् दैवम् ब्राह्मणाः किल ते प्रभो विप्राणाम् देव-देवानाम् भगवान् आत्म दैवतम्
त्वत्त: सनातनो धर्मो रक्ष्यते तनुभिस्तव ।
धर्मस्य परमो गुह्यो निर्विकारो भवान्मत: ॥ १८ ॥
त्वत्तः सनातनः धर्मः रक्ष्यते तनुभिः तव धर्मस्य परमः गुह्यः निर्विकारः भवान् मतः
तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।
योगिन: स भवान् किंस्विदनुगृह्येत यत्परै: ॥ १९ ॥
तरन्ति हि अञ्जसा मृत्युम् निवृत्ताः यत् अनुग्रहात् योगिनः सः भवान् किम् स्वित् अनुगृह्येत यत् परैः
यं वै विभूतिरुपयात्यनुवेलमन्यै-
रर्थार्थिभि: स्वशिरसा धृतपादरेणु: ।
धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो
लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥
यम् वै विभूतिः उपयाति अनुवेलम् अन्यैः अर्थ अर्थिभिः स्व-शिरसा धृत पाद रेणुः धन्य अर्पित अङ्घ्रि तुलसी नव दाम धाम्नः लोकम् मधु-व्रत-पतेः इव काम-याना
यस्तां विविक्तचरितैरनुवर्तमानां
नात्याद्रियत्परमभागवतप्रसङ्ग: ।
स त्वं द्विजानुपथपुण्यरज: पुनीत:
श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१ ॥
यः ताम् विविक्त चरितैः अनुवर्तमानाम् न अत्याद्रियत् परम भागवत प्रसङ्गः सः त्वम् द्विज अनुपथ पुण्य रजः पुनीतः श्रीवत्स लक्ष्म किम् अगाः भग भाजनः त्वम्
धर्मस्य ते भगवतस्त्रियुग त्रिभि: स्वै:
पद्भिश्चराचरमिदं द्विजदेवतार्थम् ।
नूनं भृतं तदभिघाति रजस्तमश्च
सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥
धर्मस्य ते भगवतः त्रि-युग त्रिभिः स्वैः पद्भिः चर-अचरम् इदम् द्विज देवता अर्थम् नूनम् भृतम् तत् अभिघाति रजः तमः च सत्त्वेन नः वर-दया तनुवा निरस्य
न त्वं द्विजोत्तमकुलं यदिहात्मगोपं
गोप्ता वृष: स्वर्हणेन ससूनृतेन ।
तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था
लोकोऽग्रहीष्यदृषभस्य हितत्प्रमाणम् ॥ २३ ॥
न त्वम् द्विज उत्तम-कुलम् यदि ह आत्म-गोपम् गोप्ता वृषः सु-अर्हणेन स-सूनृतेन तर्हि एव नङ्क्ष्यति शिवः तव देव पन्थाः लोकः अग्रहीष्यत् ऋषभस्य हि तत् प्रमाणम्
तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सो:
क्षेमं जनाय निजशक्तिभिरुद्धृतारे: ।
नैतावता त्र्यधिपतेर्बत विश्वभर्तु-
स्तेज: क्षतं त्ववनतस्य स ते विनोद: ॥ २४ ॥
तत् ते अनभीष्टम् इव सत्त्व-निधेः विधित्सोः क्षेमम् जनाय निज-शक्तिभिः उद्धृत अरेः न एतावता त्रि-अधिपतेः बत विश्व-भर्तुः तेजः क्षतम् तु अवनतस्य सः ते विनोदः
यं वानयोर्दममधीश भवान् विधत्ते
वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ।
अस्मासु वा य उचितो ध्रियतां स दण्डो
येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ २५ ॥
यम् वा अनयोः दमम् अधीश भवान् विधत्ते वृत्तिम् नु वा तत् अनुमन्महि निर्व्यलीकम् अस्मासु वा यः उचितः ध्रियताम् सः दण्डः ये अनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण
श्रीभगवानुवाच
एतौ सुरेतरगतिं प्रतिपद्य सद्य:
संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।
भूय: सकाशमुपयास्यत आशु यो व:
शापो मयैव निमितस्तदवेत विप्रा: ॥ २६ ॥
श्री-भगवान् उवाच एतौ सुर-इतर गतिम् प्रतिपद्य सद्यः संरम्भ सम्भृत समाधि अनुबद्ध योगौ भूयः सकाशम् उपयास्यतः आशु यः वः शापः मया एव निमितः तत् अवेत विप्राः
ब्रह्मोवाच
अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।
वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ २७ ॥
ब्रह्मा उवाच अथ ते मुनयः दृष्ट्वा नयन आनन्द भाजनम् वैकुण्ठम् तत् अधिष्ठानम् विकुण्ठम् च स्वयम्-प्रभम्
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मु: प्रमुदिता: शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥
भगवन्तम् परिक्रम्य प्रणिपत्य अनुमान्य च प्रतिजग्मुः प्रमुदिताः शंसन्तः वैष्णवीम् श्रियम्
भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।
ब्रह्मतेज: समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥
भगवान् अनुगौ आह यातम् मा भैष्टम् अस्तु शम् ब्रह्म तेजः समर्थः अपि हन्तुम् न इच्छे मतम् तु मे
एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।
पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥
एतत् पुरा एव निर्दिष्टम् रमया क्रुद्धया यदा पुरा अपवारिता द्वारि विशन्ती मयि उपारते
मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुन: ॥ ३१ ॥
मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् प्रत्येष्यतम् निकाशम् मे कालेन अल्पीयसा पुनः
द्वा:स्थावादिश्य भगवान् विमानश्रेणिभूषणम् ।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥
द्वाः-स्थौ आदिश्य भगवान् विमान-श्रेणि-भूषणम् सर्व-अतिशयया लक्ष्म्या जुष्टम् स्वम् धिष्ण्यम् आविशत्
तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकत: ।
हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ ॥ ३३ ॥
तौ तु गीर्वाण-ऋषभौ दुस्तरात् हरि-लोकतः हत-श्रियौ ब्रह्म-शापात् अभूताम् विगत-स्मयौ
तदा विकुण्ठधिषणात्तयोर्निपतमानयो: ।
हाहाकारो महानासीद्विमानाग्र्येषु पुत्रका: ॥ ३४ ॥
तदा विकुण्ठ धिषणात् तयोः निपतमानयोः हाहा-कारः महान् आसीत् विमान-अग्र्येषु पुत्रकाः
तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरे: ।
दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥
तौ एव हि अधुना प्राप्तौ पार्षद-प्रवरौ हरेः दितेः जठर निर्विष्टम् काश्यपम् तेजः उल्बणम्
तयोरसुरयोरद्य तेजसा यमयोर्हि व: ।
आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ॥ ३६ ॥
तयोः असुरयोः अद्य तेजसा यमयोः हि वः आक्षिप्तम् तेजः एतर्हि भगवान् तत् विधित्सति
विश्वस्य य: स्थितिलयोद्भवहेतुराद्यो
योगेश्वरैरपि दुरत्यययोगमाय: ।
क्षेमं विधास्यति स नो भगवांस्त्र्यधीश-
स्तत्रास्मदीयविमृशेन कियानिहार्थ: ॥ ३७ ॥
विश्वस्य यः स्थिति लय उद्भव हेतुः आद्यः योग-ईश्वरैः अपि दुरत्यय योग-मायः क्षेमम् विधास्यति सः नः भगवान् त्रि-अधीशः तत्र अस्मदीय विमृशेन कियान् इह अर्थः
३.१७
मैत्रेय उवाच
निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिता: ।
तत: सर्वे न्यवर्तन्त त्रिदिवाय दिवौकस: ॥ १ ॥
मैत्रेयः उवाच निशम्य आत्म-भुवा गीतम् कारणम् शङ्कया उज्झिताः ततः सर्वे न्यवर्तन्त त्रि-दिवाय दिव-ओकसः
दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी ।
पूर्णे
वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥
दितिः तु भर्तुः आदेशात् अपत्य परिशङ्किनी पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ
उत्पाता बहवस्तत्र निपेतुर्जायमानयो: ।
दिवि
भुव्यन्तरिक्षे च लोकस्योरुभयावहा: ॥ ३ ॥
उत्पाताः बहवः तत्र निपेतुः जायमानयोः दिवि भुवि अन्तरिक्षे च लोकस्य उरु भय-आवहाः
सहाचला भुवश्चेलुर्दिश: सर्वा:
प्रजज्वलु: ।
सोल्काश्चाशनय: पेतु: केतवश्चार्तिहेतव: ॥ ४ ॥
सह अचलाः भुवः चेलुः दिशः सर्वाः प्रजज्वलुः स उल्काः च अशनयः पेतुः केतवः च आर्ति-हेतवः
ववौ वायु: सुदु:स्पर्श: फूत्कारानीरयन्मुहु: ।
उन्मूलयन्नगपतीन्वात्यानीको रजोध्वज: ॥ ५ ॥
ववौ वायुः सु-दुःस्पर्शः फूत्-कारान् ईरयन् मुहुः उन्मूलयन् नग-पतीन् वात्या अनीकः रजः ध्वजः
उद्धसत्तडिदम्भोदघटया नष्टभागणे ।
व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् ॥ ६ ॥
उद्धसत् तडित् अम्भोद घटया नष्ट भा-गणे व्योम्नि प्रविष्ट तमसा न स्म व्यादृश्यते पदम्
चुक्रोश विमना वार्धिरुदूर्मि: क्षुभितोदर: ।
सोदपानाश्च सरितश्चुक्षुभु: शुष्कपङ्कजा: ॥ ७ ॥
चुक्रोश विमनाः वार्धिः उदूर्मिः क्षुभित उदरः स-उदपानाः च सरितः चुक्षुभुः शुष्क पङ्कजाः
मुहु: परिधयोऽभूवन् सराह्वो: शशिसूर्ययो: ।
निर्घाता रथनिर्ह्रादा विवरेभ्य: प्रजज्ञिरे ॥ ८ ॥
मुहुः परिधयः अभूवन् स-राह्वोः शशि सूर्ययोः निर्घाताः रथ-निर्ह्रादाः विवरेभ्यः प्रजज्ञिरे
अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।
सृगालोलूकटङ्कारै: प्रणेदुरशिवं शिवा: ॥ ९ ॥
अन्तः ग्रामेषु मुखतः वमन्त्यः वह्निम् उल्बणम् सृगाल उलूक टङ्कारैः प्रणेदुः अशिवम् शिवाः
सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् ।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्तत: ॥ १० ॥
सङ्गीत-वत् रोदन-वत् उन्नमय्य शिरोधराम् व्यमुञ्चन् विविधाः वाचः ग्राम-सिंहाः ततः ततः
खराश्च कर्कशै: क्षत्त: खुरैर्घ्नन्तो धरातलम् ।
खार्काररभसा मत्ता: पर्यधावन् वरूथश: ॥ ११ ॥
खराः च कर्कशैः क्षत्तः खुरैः घ्नन्तः धरा-तलम् खाः-कार रभसाः मत्ताः पर्यधावन् वरूथशः
रुदन्तो रासभत्रस्ता नीडादुदपतन् खगा: ।
घोषेऽरण्ये च पशव: शकृन्मूत्रमकुर्वत ॥ १२ ॥
रुदन्तः रासभ त्रस्ताः नीडात् उदपतन् खगाः घोषे अरण्ये च पशवः शकृत् मूत्रम् अकुर्वत
गावोऽत्रसन्नसृग्दोहास्तोयदा: पूयवर्षिण: ।
व्यरुदन्देवलिङ्गानि द्रुमा: पेतुर्विनानिलम् ॥ १३ ॥
गावः अत्रसन् असृक् दोहाः तोयदाः पूय वर्षिणः व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुः विना अनिलम्
ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिता: ।
अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥
ग्रहान् पुण्य-तमान् अन्ये भ-गणान् च अपि दीपिताः अतिचेरुः वक्र-गत्या युयुधुः च परः-परम्
दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविद: प्रजा: ।
ब्रह्मपुत्रानृते भीता मेनिरे विश्वसम्प्लवम् ॥ १५ ॥
दृष्ट्वा अन्यान् च महा उत्पातान् अ-तत्-तत्त्व-विदः प्रजाः ब्रह्म-पुत्रान् ऋते भीताः मेनिरे विश्व-सम्प्लवम्
तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ ।
ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥ १६ ॥
तौ आदि-दैत्यौ सहसा व्यज्यमान आत्म पौरुषौ ववृधाते अश्म-सारेण कायेन अद्रि-पती इव
दिविस्पृशौ हेमकिरीटकोटिभि-
र्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ ।
गां कम्पयन्तौ चरणै: पदे पदे
कट्या सुकाञ्च्यार्कमतीत्य तस्थतु: ॥ १७ ॥
दिवि-स्पृशौ हेम किरीट कोटिभिः निरुद्ध काष्ठौ स्फुरत् अङ्गदा भुजौ गाम् कम्पयन्तौ चरणैः पदे पदे कट्या सु-काञ्च्या अर्कम् अतीत्य तस्थतुः
प्रजापतिर्नाम तयोरकार्षीद्
य: प्राक् स्वदेहाद्यमयोरजायत ।
तं वै हिरण्यकशिपुं विदु: प्रजा
यं तं हिरण्याक्षमसूत साग्रत: ॥ १८ ॥
प्रजापतिः नाम तयोः अकार्षीत् यः प्राक् स्व-देहात् यमयोः अजायत तम् वै हिरण्यकशिपुम् विदुः प्रजाः यम् तम् हिरण्याक्षम् असूत सा अग्रतः
चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च ।
वशे सपालाँल्लोकांस्त्रीनकुतोमृत्युरुद्धत: ॥ १९ ॥
चक्रे हिरण्यकशिपुः दोर्भ्याम् ब्रह्म-वरेण च वशे स-पालान् लोकान् त्रीन् अकुतः-मृत्युः उद्धतः
हिरण्याक्षोऽनुजस्तस्य प्रिय: प्रीतिकृदन्वहम् ।
गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम् ॥ २० ॥
हिरण्याक्षः अनुजः तस्य प्रियः प्रीति-कृत् अनु-अहम् गदा-पाणिः दिवम् यातः युयुत्सुः मृगयन् रणम्
तं वीक्ष्य दु:सहजवं रणत्काञ्चननूपुरम् ।
वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् ॥ २१ ॥
तम् वीक्ष्य दुःसह जवम् रणत् काञ्चन नूपुरम् वैजयन्त्या स्रजा जुष्टम् अंस न्यस्त महा-गदम्
मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् ।
भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहय: ॥ २२ ॥
मनः-वीर्य वर उत्सिक्तम् असृण्यम् अकुतः-भयम् भीताः निलिल्यिरे देवाः तार्क्ष्य त्रस्ताः इव अहयः
स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् ।
सेन्द्रान्देवगणान् क्षीबानपश्यन् व्यनदद् भृशम् ॥ २३ ॥
सः वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-राट् स-इन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदत् भृशम्
ततो निवृत्त: क्रीडिष्यन् गम्भीरं भीमनिस्वनम् ।
विजगाहे महासत्त्वो वार्धिं मत्त इव द्विप: ॥ २४ ॥
ततः निवृत्तः क्रीडिष्यन् गम्भीरम् भीम-निस्वनम् विजगाहे महा-सत्त्वः वार्धिम् मत्तः इव द्विपः
तस्मिन् प्रविष्टे वरुणस्य सैनिका
यादोगणा: सन्नधिय: ससाध्वसा: ।
अहन्यमाना अपि तस्य वर्चसा
प्रधर्षिता दूरतरं प्रदुद्रुवु: ॥ २५ ॥
तस्मिन् प्रविष्टे वरुणस्य सैनिकाः यादः-गणाः सन्न-धियः स-साध्वसाः अहन्यमानाः अपि तस्य वर्चसा प्रधर्षिताः दूर-तरम् प्रदुद्रुवुः
स वर्षपूगानुदधौ महाबल-
श्चरन्महोर्मीञ्छ्वसनेरितान्मुहु: ।
मौर्व्याभिजघ्ने गदया विभावरी-
मासेदिवांस्तात पुरीं प्रचेतस: ॥ २६ ॥
सः वर्ष-पूगान् उदधौ महा-बलः चरन् महा-ऊर्मीन् श्वसन ईरितान् मुहुः मौर्व्या अभिजघ्ने गदया विभावरीम् आसेदिवान् तात पुरीम् प्रचेतसः
तत्रोपलभ्यासुरलोकपालकं
यादोगणानामृषभं प्रचेतसम् ।
स्मयन् प्रलब्धुं प्रणिपत्य नीचव-
ज्जगाद मे देह्यधिराज संयुगम ॥ २७ ॥
तत्र उपलभ्य असुर-लोक पालकम् यादः-गणानाम् ऋषभम् प्रचेतसम् स्मयन् प्रलब्धुम् प्रणिपत्य नीच-वत् जगाद मे देहि अधिराज संयुगम्
त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा
वीर्यापहो दुर्मदवीरमानिनाम् ।
विजित्य लोकेऽखिलदैत्यदानवान्
यद्राजसूयेन पुरायजत्प्रभो ॥ २८ ॥
त्वम् लोक-पालः अधिपतिः बृहत्-श्रवाः वीर्य अपहः दुर्मद वीर-मानिनाम् विजित्य लोके अखिल दैत्य दानवान् यत् राज-सूयेन पुरा अयजत् प्रभो
स एवमुत्सिक्तमदेन विद्विषा
दृढं प्रलब्धो भगवानपां पति: ।
रोषं समुत्थं शमयन् स्वया धिया
व्यवोचदङ्गोपशमं गता वयम् ॥ २९ ॥
सः एवम् उत्सिक्त मदेन विद्विषा दृढम् प्रलब्धः भगवान् अपाम् पतिः रोषम् समुत्थम् शमयन् स्वया धिया व्यवोचत् अङ्ग उपशमम् गताः वयम्
पश्यामि नान्यं पुरुषात्पुरातनाद्
य: संयुगे त्वां रणमार्गकोविदम् ।
आराधयिष्यत्यसुरर्षभेहि तं
मनस्विनो यं गृणते भवादृशा: ॥ ३० ॥
पश्यामि न अन्यम् पुरुषात् पुरातनात् यः संयुगे त्वाम् रण-मार्ग कोविदम् आराधयिष्यति असुर-ऋषभ इहि तम् मनस्विनः यम् गृणते भवादृशाः
तं वीरमारादभिपद्य विस्मय:
शयिष्यसे वीरशये श्वभिर्वृत: ।
यस्त्वद्विधानामसतां प्रशान्तये
रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥
तम् वीरम् आरात् अभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिः वृतः यः त्वत्-विधानाम् असताम् प्रशान्तये रूपाणि धत्ते सत् अनुग्रह इच्छया
३.१८
मैत्रेय उवाच
तदेवमाकर्ण्य जलेशभाषितं
महामनास्तद्विगणय्य दुर्मद: ।
हरेर्विदित्वा गतिमङ्ग नारदाद्
रसातलं निर्विविशे त्वरान्वित: ॥ १ ॥
मैत्रेयः उवाच तत् एवम् आकर्ण्य जल-ईश भाषितम् महा-मनाः तत् विगणय्य दुर्मदः हरेः विदित्वा गतिम् अङ्ग नारदात् रसातलम् निर्विविशे त्वरा-अन्वितः
ददर्श तत्राभिजितं धराधरं
प्रोन्नीयमानावनिमग्रदंष्ट्रया ।
मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया
जहास चाहो वनगोचरो मृग: ॥ २ ॥
ददर्श तत्र अभिजितम् धरा धरम् प्रोन्नीयमान अवनिम् अग्र-दंष्ट्रया मुष्णन्तम् अक्ष्णा स्व-रुचः अरुण श्रिया जहास च अहो वन-गोचरः मृगः
आहैनमेह्यज्ञ महीं विमुञ्च नो
रसौकसां विश्वसृजेयमर्पिता ।
न स्वस्ति यास्यस्यनया ममेक्षत:
सुराधमासादितसूकराकृते ॥ ३ ॥
आह एनम् एहि अज्ञ महीम् विमुञ्च नः रसा-ओकसाम् विश्व-सृजा इयम् अर्पिता न स्वस्ति यास्यसि अनया मम ईक्षतः सुर-अधम आसादित सूकर-आकृते
त्वं न: सपत्नैरभवाय किं भृतो
यो मायया हन्त्यसुरान् परोक्षजित् ।
त्वां योगमायाबलमल्पपौरुषं
संस्थाप्य मूढ प्रमृजे सुहृच्छुच: ॥ ४ ॥
त्वम् नः सपत्नैः अभवाय किम् भृतः यः मायया हन्ति असुरान् परोक्ष-जित् त्वाम् योग-माया-बलम् अल्प-पौरुषम् संस्थाप्य मूढ प्रमृजे सुहृत्-शुचः
त्वयि संस्थिते गदया शीर्णशीर्ष-
ण्यस्मद्भुजच्युतया ये च तुभ्यम् ।
बलिं हरन्त्यृषयो ये च देवा:
स्वयं सर्वे न भविष्यन्त्यमूला: ॥ ५ ॥
त्वयि संस्थिते गदया शीर्ण शीर्षणि अस्मत्-भुज च्युतया ये च तुभ्यम् बलिम् हरन्ति ऋषयः ये च देवाः स्वयम् सर्वे न भविष्यन्ति अमूलाः
स तुद्यमानोऽरिदुरुक्ततोमरै-
र्दंष्ट्राग्रगां गामुपलक्ष्य भीताम् ।
तोदं मृषन्निरगादम्बुमध्याद्
ग्राहाहत: सकरेणुर्यथेभ: ॥ ६ ॥
सः तुद्यमानः अरि दुरुक्त तोमरैः दंष्ट्र-अग्र गाम् गाम् उपलक्ष्य भीताम् तोदम् मृषन् निरगात् अम्बु-मध्यात् ग्राह आहतः स-करेणुः यथा इभः
तं नि:सरन्तं सलिलादनुद्रुतो
हिरण्यकेशो द्विरदं यथा झष: ।
करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद्
गतह्रियां किं त्वसतां विगर्हितम् ॥ ७ ॥
तम् निःसरन्तम् सलिलात् अनुद्रुतः हिरण्य-केशः द्विरदम् यथा झषः कराल-दंष्ट्रः अशनि-निस्वनः अब्रवीत् गत-ह्रियाम् किम् तु असताम् विगर्हितम्
स गामुदस्तात्सलिलस्य गोचरे
विन्यस्य तस्यामदधात्स्वसत्त्वम् ।
अभिष्टुतो विश्वसृजा प्रसूनै-
रापूर्यमाणो विबुधै: पश्यतोऽरे: ॥ ८ ॥
सः गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्व सत्त्वम् अभिष्टुतः विश्व-सृजा प्रसूनैः आपूर्यमाणः विबुधैः पश्यतः अरेः
परानुषक्तं तपनीयोपकल्पं
महागदं काञ्चनचित्रदंशम् ।
मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तै:
प्रचण्डमन्यु: प्रहसंस्तं बभाषे ॥ ९ ॥
परा अनुषक्तम् तपनीय-उपकल्पम् महा-गदम् काञ्चन चित्र दंशम् मर्माणि अभीक्ष्णम् प्रतुदन्तम् दुरुक्तैः प्रचण्ड मन्युः प्रहसन् तम् बभाषे
श्रीभगवानुवाच
सत्यं वयं भो वनगोचरा मृगा
युष्मद्विधान्मृगये ग्रामसिंहान् ।
न मृत्युपाशै: प्रतिमुक्तस्य वीरा
विकत्थनं तव गृह्णन्त्यभद्र ॥ १० ॥
श्री-भगवान् उवाच सत्यम् वयम् भोः वन-गोचराः मृगाः युष्मत्-विधान् मृगये ग्राम-सिंहान् न मृत्यु-पाशैः प्रतिमुक्तस्य वीराः विकत्थनम् तव गृह्णन्ति अभद्र
एते वयं न्यासहरा रसौकसां
गतह्रियो गदया द्रावितास्ते ।
तिष्ठामहेऽथापि कथञ्चिदाजौ
स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ ११ ॥
एते वयम् न्यास हराः रसा-ओकसाम् गत-ह्रियः गदया द्राविताः ते तिष्ठामहे अथ अपि कथञ्चित् आजौ स्थेयम् क्व यामः बलिना उत्पाद्य वैरम्
त्वं पद्रथानां किल यूथपाधिपो
घटस्व नोऽस्वस्तय आश्वनूह: ।
संस्थाप्य चास्मान् प्रमृजाश्रुस्वकानां
य: स्वां प्रतिज्ञां नातिपिपर्त्यसभ्य: ॥ १२ ॥
त्वम् पद्-रथानाम् किल यूथप अधिपः घटस्व नः अस्वस्तये आशु अनूहः संस्थाप्य च अस्मान् प्रमृज अश्रु स्वकानाम् यः स्वाम् प्रतिज्ञाम् न अतिपिपर्ति असभ्यः
मैत्रेय उवाचसोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् ।
आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३ ॥
मैत्रेयः उवाच सः अधिक्षिप्तः भगवता प्रलब्धः च रुषा भृशम् आजहार उल्बणम् क्रोधम् क्रीड्यमानः अहि-राट् इव
सृजन्नमर्षित: श्वासान्मन्युप्रचलितेन्द्रिय: ।
आसाद्य तरसा दैत्यो गदयान्यहनद्धरिम् ॥ १४ ॥
सृजन् अमर्षितः श्वासान् मन्यु प्रचलित इन्द्रियः आसाद्य तरसा दैत्यः गदया न्यहनत् हरिम्
भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि ।
अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम् ॥ १५ ॥
भगवान् तु गदा-वेगम् विसृष्टम् रिपुणा उरसि अवञ्चयत् तिरश्चीनः योग-आरूढः इव अन्तकम्
पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णश: ।
अभ्यधावद्धरि: क्रुद्ध: संरम्भाद्दष्टदच्छदम् ॥ १६ ॥
पुनः गदाम् स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः अभ्यधावत् हरिः क्रुद्धः संरम्भात् दष्ट दच्छदम्
ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभु: ।
आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७ ॥
ततः च गदया अरातिम् दक्षिणस्याम् भ्रुवि प्रभुः आजघ्ने सः तु ताम् सौम्य गदया कोविदः अहनत्
एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च ।
जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतु: ॥ १८ ॥
एवम् गदाभ्याम् गुर्वीभ्याम् हर्यक्षः हरिः एव च जिगीषया सुसंरब्धौ अन्योन्यम् अभिजघ्नतुः
तयो: स्पृधोस्तिग्मगदाहताङ्गयो:
क्षतास्रवघ्राणविवृद्धमन्य्वो: ।
विचित्रमार्गांश्चरतोर्जिगीषया
व्यभादिलायामिव शुष्मिणोर्मृध: ॥ १९ ॥
तयोः स्पृधोः तिग्म गदा आहत अङ्गयोः क्षत-आस्रव घ्राण विवृद्ध मन्य्वोः विचित्र मार्गान् चरतोः जिगीषया व्यभात् इलायाम् इव शुष्मिणोः मृधः
दैत्यस्य यज्ञावयवस्य माया-
गृहीतवाराहतनोर्महात्मन: ।
कौरव्य मह्यां द्विषतोर्विमर्दनं
दिदृक्षुरागादृषिभिर्वृत: स्वराट् ॥ २० ॥
दैत्यस्य यज्ञ-अवयवस्य माया गृहीत वाराह तनोः महा-आत्मनः कौरव्य मह्याम् द्विषतोः विमर्दनम् दिदृक्षुः आगात् ऋषिभिः वृतः स्वराट्
आसन्नशौण्डीरमपेतसाध्वसं
कृतप्रतीकारमहार्यविक्रमम् ।
विलक्ष्य दैत्यं भगवान् सहस्रणी-
र्जगाद नारायणमादिसूकरम् ॥ २१ ॥
आसन्न शौण्डीरम् अपेत साध्वसम् कृत प्रतीकारम् अहार्य विक्रमम् विलक्ष्य दैत्यम् भगवान् सहस्र-नीः जगाद नारायणम् आदि सूकरम्
ब्रह्मोवाच
एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम् ।
विप्राणां सौरभेयीणां भूतानामप्यनागसाम् ॥ २२ ॥
आगस्कृद्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुर: ।
अन्वेषन्नप्रतिरथो लोकानटति कण्टक: ॥ २३ ॥
ब्रह्मा उवाच एषः ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् विप्राणाम् सौरभेयीणाम् भूतानाम् अपि अनागसाम् आगः-कृत् भय-कृत् दुष्कृत् अस्मत् राद्ध-वरः असुरः अन्वेषन् अप्रतिरथः लोकान् अटति कण्टकः
मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम् ।
आक्रीड बालवद्देव यथाशीविषमुत्थितम् ॥ २४ ॥
मा एनम् माया-विनम् दृप्तम् निरङ्कुशम् असत्-तमम् आक्रीड बाल-वत् देव यथा आशीविषम् उत्थितम्
न यावदेष वर्धेत स्वां वेलां प्राप्य दारुण: ।
स्वां देव मायामास्थाय तावज्जह्यघमच्युत ॥ २५ ॥
न यावत् एषः वर्धेत स्वाम् वेलाम् प्राप्य दारुणः स्वाम् देव मायाम् आस्थाय तावत् जहि अघम् अच्युत
एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो ।
उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥
एषा घोर-तमा सन्ध्या लोक छम्बट्-करी प्रभो उपसर्पति सर्व-आत्मन् सुराणाम् जयम् आवह
अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् ।
शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७ ॥
अधुना एषः अभिजित् नाम योगः मौहूर्तिकः हि अगात् शिवाय नः त्वम् सुहृदाम् आशु निस्तर दुस्तरम्
दिष्टया त्वां विहितं मृत्युसमयमासादित: स्वयम् ।
विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ॥ २८ ॥
दिष्ट्या त्वाम् विहितम् मृत्युम् अयम् आसादितः स्वयम् विक्रम्य एनम् मृधे हत्वा लोकान् आधेहि शर्मणि
३.१९
मैत्रेय उवाच
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वच: ।
प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ॥ १ ॥
मैत्रेयः उवाच अवधार्य विरिञ्चस्य निर्व्यलीक अमृतम् वचः प्रहस्य प्रेम-गर्भेण तत् अपाङ्गेन सः अग्रहीत्
तत: सपत्नं मुखतश्चरन्तमकुतोभयम् ।
जघानोत्पत्य गदया हनावसुरमक्षज: ॥ २ ॥
ततः सपत्नम् मुखतः चरन्तम् अकुतः-भयम् जघान उत्पत्य गदया हनौ असुरम् अक्ष-जः
सा हता तेन गदया विहता भगवत्करात् ।
विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् ॥ ३ ॥
सा हता तेन गदया विहता भगवत् करात् विघूर्णिता अपतत् रेजे तत् अद्भुतम् इव अभवत्
स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् ।
मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४ ॥
सः तदा लब्ध-तीर्थः अपि न बबाधे निरायुधम् मानयन् सः मृधे धर्मम् विष्वक्सेनम् प्रकोपयन्
गदायामपविद्धायां हाहाकारे विनिर्गते ।
मानयामास तद्धर्मं सुनाभं चास्मरद्विभु: ॥ ५ ॥
गदायाम् अपविद्धायाम् हाहा-कारे विनिर्गते मानयाम् आस तत् धर्मम् सुनाभम् च अस्मरत् विभुः
तं व्यग्रचक्रं दितिपुत्राधमेन
स्वपार्षदमुख्येन विषज्जमानम् ।
चित्रा वाचोऽतद्विदां खेचराणां
तत्र स्मासन् स्वस्ति तेऽमुं जहीति ॥ ६ ॥
तम् व्यग्र चक्रम् दिति-पुत्र अधमेन स्व-पार्षद मुख्येन विषज्जमानम् चित्राः वाचः अ-तत्-विदाम् खे-चराणाम् तत्र स्म आसन् स्वस्ति ते अमुम् जहि इति
स तं निशाम्यात्तरथाङ्गमग्रतो
व्यवस्थितं पद्मपलाशलोचनम् ।
विलोक्य चामर्षपरिप्लुतेन्द्रियो
रुषा स्वदन्तच्छदमादशच्छ्वसन् ॥ ७ ॥
सः तम् निशाम्य आत्त-रथाङ्गम् अग्रतः व्यवस्थितम् पद्म पलाश लोचनम् विलोक्य च अमर्ष परिप्लुत इन्द्रियः रुषा स्व-दन्त-छदम् आदशत् श्वसन्
करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।
अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम् ॥ ८ ॥
कराल दंष्ट्रः चक्षुर्भ्याम् सञ्चक्षाणः दहन् इव अभिप्लुत्य स्व-गदया हतः असि इति आहनत् हरिम्
पदा सव्येन तां साधो भगवान् यज्ञसूकर: ।
लीलया मिषत: शत्रो: प्राहरद्वातरंहसम् ॥ ९ ॥
पदा सव्येन ताम् साधो भगवान् यज्ञ-सूकरः लीलया मिषतः शत्रोः प्राहरत् वात-रंहसम्
आह चायुधमाधत्स्व घटस्व त्वं
जिगीषसि ।
इत्युक्त:स तदा भूयस्ताडयन् व्यनदद् भृशम् ॥ १० ॥
आह च आयुधम् आधत्स्व घटस्व त्वम् जिगीषसि इति उक्तः सः तदा भूयः ताडयन् व्यनदत् भृशम्
तां स आपततीं वीक्ष्य भगवान्
समवस्थित: ।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११ ॥
ताम् सः आपततीम् वीक्ष्य भगवान् समवस्थितः जग्राह लीलया प्राप्ताम् गरुत्मान् इव पन्नगीम्
स्वपौरुषे प्रतिहते हतमानो
महासुर: ।
नैच्छद्गदां दीयमानां हरिणा विगतप्रभ: ॥ १२ ॥
स्व-पौरुषे प्रतिहते हत मानः महा-असुरः न ऐच्छत् गदाम् दीयमानाम् हरिणा विगत-प्रभः
जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् ।
यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३ ॥
जग्राह त्रि-शिखम् शूलम् ज्वलत् ज्वलन लोलुपम् यज्ञाय धृत-रूपाय विप्राय अभिचरन् यथा
तदोजसा दैत्यमहाभटार्पितं
चकासदन्त:ख उदीर्णदीधिति ।
चक्रेण चिच्छेद निशातनेमिना
हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४ ॥
तत् ओजसा दैत्य महा-भट अर्पितम् चकासत् अन्तः-खे उदीर्ण दीधिति चक्रेण चिच्छेद निशात नेमिना हरिः यथा तार्क्ष्य पतत्रम् उज्झितम्
वृक्णे स्वशूले बहुधारिणा हरे:
प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।
प्रवृद्धरोष: स कठोरमुष्टिना
नदन् प्रहृत्यान्तरधीयतासुर: ॥ १५ ॥
वृक्णे स्व-शूले बहुधा अरिणा हरेः प्रत्येत्य विस्तीर्णम् उरः विभूति-मत् प्रवृद्ध रोषः सः कठोर मुष्टिना नदन् प्रहृत्य अन्तरधीयत असुरः
तेनेत्थमाहत: क्षत्तर्भगवानादिसूकर: ।
नाकम्पत मनाक् क्वापि स्रजा हत इव द्विप: ॥ १६ ॥
तेन इत्थम् आहतः क्षत्तः भगवान् आदि-सूकरः न अकम्पत मनाक् क्व अपि स्रजा हतः इव द्विपः
अथोरुधासृजन्मायां योगमायेश्वरे हरौ ।
यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७ ॥
अथ उरुधा असृजत् मायाम् योग-माया-ईश्वरे हरौ याम् विलोक्य प्रजाः त्रस्ताः मेनिरे अस्य उपसंयमम्
प्रववुर्वायवश्चण्डास्तम: पांसवमैरयन् ।
दिग्भ्यो निपेतुर्ग्रावाण: क्षेपणै: प्रहिता इव ॥ १८ ॥
प्रववुः वायवः चण्डाः तमः पांसवम् ऐरयन् दिग्भ्यः निपेतुः ग्रावाणः क्षेपणैः प्रहिताः इव
द्यौर्नष्टभगणाभ्रौघै: सविद्युत्स्तनयित्नुभि: ।
वर्षद्भि: पूयकेशासृग्विण्मूत्रास्थीनि चासकृत् ॥ १९ ॥
द्यौः नष्ट भ-गण अभ्र ओघैः स विद्युत् स्तनयित्नुभिः वर्षद्भिः पूय केश असृक् विट् मूत्र अस्थीनि च असकृत्
गिरय: प्रत्यदृश्यन्त नानायुधमुचोऽनघ ।
दिग्वाससो यातुधान्य: शूलिन्यो मुक्तमूर्धजा: ॥ २० ॥
गिरयः प्रत्यदृश्यन्त नाना आयुध मुचः अनघ दिक्-वाससः यातुधान्यः शूलिन्यः मुक्त मूर्धजाः
बहुभिर्यक्षरक्षोभि: पत्त्यश्वरथकुञ्जरै: ।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसा: ॥ २१ ॥
बहुभिः यक्ष-रक्षोभिः पत्ति अश्व रथ कुञ्जरैः आततायिभिः उत्सृष्टाः हिंस्राः वाचः अति-वैशसाः
प्रादुष्कृतानां मायानामासुरीणां विनाशयत् ।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात् ॥ २२ ॥
प्रादुष्कृतानाम् मायानाम् आसुरीणाम् विनाशयत् सुदर्शन-अस्त्रम् भगवान् प्रायुङ्क्त दयितम् त्रि-पात्
तदा दिते: समभवत्सहसा हृदि वेपथु: ।
स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे ॥ २३ ॥
तदा दितेः समभवत् सहसा हृदि वेपथुः स्मरन्त्याः भर्तुः आदेशम् स्तनात् च असृक् प्रसुस्रुवे
विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् ।
रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहि: ॥ २४ ॥
विनष्टासु स्व-मायासु भूयः च आव्रज्य केशवम् रुषा उपगूहमानः अमुम् ददृशे अवस्थितम् बहिः
तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षज: ।
करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पति: ॥ २५ ॥
तम् मुष्टिभिः विनिघ्नन्तम् वज्र-सारैः अधोक्षजः करेण कर्ण-मूले अहन् यथा त्वाष्ट्रम् मरुत्-पतिः
स आहतो विश्वजिता ह्यवज्ञया
परिभ्रमद्गात्र उदस्तलोचन: ।
विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद्
यथा नगेन्द्रो लुलितो नभस्वता ॥ २६ ॥
सः आहतः विश्व-जिता हि अवज्ञया परिभ्रमत् गात्रः उदस्त लोचनः विशीर्ण बाहु अङ्घ्रि शिरः-रुहः अपतत् यथा नग-इन्द्रः लुलितः नभस्वता
क्षितौ शयानं तमकुण्ठवर्चसं
करालदंष्ट्रं परिदष्टदच्छदम् ।
अजादयो वीक्ष्य शशंसुरागता
अहो इमां को नु लभेत संस्थितिम् ॥ २७ ॥
क्षितौ शयानम् तम् अकुण्ठ वर्चसम् कराल दंष्ट्रम् परिदष्ट दत्-छदम् अज-आदयः वीक्ष्य शशंसुः आगताः अहो इमम् कः नु लभेत संस्थितिम्
यं योगिनो योगसमाधिना रहो
ध्यायन्ति लिङ्गादसतो मुमुक्षया ।
तस्यैष दैत्यऋषभ: पदाहतो
मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ॥ २८ ॥
यम् योगिनः योग-समाधिना रहः ध्यायन्ति लिङ्गात् असतः मुमुक्षया तस्य एषः दैत्य ऋषभः पदा आहतः मुखम् प्रपश्यन् तनुम् उत्ससर्ज ह
एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम् ।
पुन: कतिपयै: स्थानं प्रपत्स्येते ह जन्मभि: ॥ २९ ॥
एतौ तौ पार्षदौ अस्य शापात् यातौ असत्-गतिम् पुनः कतिपयैः स्थानम् प्रपत्स्येते ह जन्मभिः
देवा ऊचु:
नमो नमस्तेऽखिलयज्ञतन्तवे
स्थितौ गृहीतामलसत्त्वमूर्तये ।
दिष्टया हतोऽयं जगतामरुन्तुद-
स्त्वत्पादभक्त्या वयमीश निर्वृता: ॥ ३० ॥
देवाः ऊचुः नमः नमः ते अखिल-यज्ञ-तन्तवे स्थितौ गृहीत अमल सत्त्व मूर्तये दिष्ट्या हतः अयम् जगताम् अरुन्तुदः त्वत्-पाद भक्त्या वयम् ईश निर्वृताः
मैत्रेय उवाच
एवं हिरण्याक्षमसह्यविक्रमं
स सादयित्वा हरिरादिसूकर: ।
जगाम लोकं स्वमखण्डितोत्सवं
समीडित: पुष्करविष्टरादिभि: ॥ ३१ ॥
मैत्रेयः उवाच एवम् हिरण्याक्षम् असह्य-विक्रमम् सः सादयित्वा हरिः आदि-सूकरः जगाम लोकम् स्वम् अखण्डित उत्सवम् समीडितः पुष्कर-विष्टर आदिभिः
मया यथानूक्तमवादि ते हरे:
कृतावतारस्य सुमित्र चेष्टितम् ।
यथा हिरण्याक्ष उदारविक्रमो
महामृधे क्रीडनवन्निराकृत: ॥ ३२ ॥
मया यथा अनूक्तम् अवादि ते हरेः कृत-अवतारस्य सुमित्र चेष्टितम् यथा हिरण्याक्षः उदार विक्रमः महा-मृधे क्रीडन-वत् निराकृतः
सूत उवाच
इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् ।
क्षत्तानन्दं परं लेभे महाभागवतो द्विज ॥ ३३ ॥
सूतः उवाच इति कौषारव आख्याताम् आश्रुत्य भगवत्-कथाम् क्षत्ता आनन्दम् परम् लेभे महा-भागवतः द्विज
अन्येषां पुण्यश्लोकानामुद्दामयशसां
सताम् ।
उपश्रुत्य भवेन्मोद: श्रीवत्साङ्कस्य किं पुन: ॥ ३४ ॥
अन्येषाम् पुण्य-श्लोकानाम् उद्दाम-यशसाम् सताम् उपश्रुत्य भवेत् मोदः श्रीवत्स-अङ्कस्य किम् पुनः
यो गजेन्द्र झषग्रस्तं ध्यायन्तं
चरणाम्बुजम् ।
क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम् ॥ ३५ ॥
यः गज-इन्द्रम् झष ग्रस्तम् ध्यायन्तम् चरण अम्बुजम् क्रोशन्तीनाम् करेणूनाम् कृच्छ्रतः अमोचयत् द्रुतम्
तं
सुखाराध्यमृजुभिरनन्यशरणैर्नृभि: ।
कृतज्ञ: को न सेवेत
दुराराध्यमसाधुभि: ॥ ३६ ॥
तम् सुख आराध्यम् ऋजुभिः अनन्य शरणैः नृभिः कृत-ज्ञः कः न सेवेत दुराराध्यम् असाधुभिः
यो वै हिरण्याक्षवधं
महाद्भुतं
विक्रीडितं कारणसूकरात्मन: ।
शृणोति
गायत्यनुमोदतेऽञ्जसा
विमुच्यते ब्रह्मवधादपि द्विजा: ॥ ३७ ॥
यः वै हिरण्याक्ष-वधम् महा-अद्भुतम् विक्रीडितम् कारण सूकर आत्मनः शृणोति गायति अनुमोदते अञ्जसा विमुच्यते ब्रह्म-वधात् अपि द्विजाः
एतन्महापुण्यमलं पवित्रं
धन्यं यशस्यं पदमायुराशिषाम् ।
प्राणेन्द्रियाणां युधि शौर्यवर्धनं
नारायणोऽन्ते गतिरङ्ग शृण्वताम् ॥ ३८ ॥
एतत् महा-पुण्यम् अलम् पवित्रम् धन्यम् यशस्यम् पदम् आयुः आशिषाम् प्राण इन्द्रियाणाम् युधि शौर्य वर्धनम् नारायणः अन्ते गतिः अङ्ग शृण्वताम्
३.२०
शौनक उवाच
महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनु: ।
कान्यन्वतिष्ठद् द्वाराणि मार्गायावरजन्मनाम् ॥ १ ॥
शौनकः उवाच महीम् प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवः मनुः कानि अन्वतिष्ठत् द्वाराणि मार्गाय अवर जन्मनाम्
क्षत्ता महाभागवत: कृष्णस्यैकान्तिक: सुहृत् ।
यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति ॥ २ ॥
क्षत्ता महा-भागवतः कृष्णस्य एकान्तिकः सुहृत् यः तत्याज अग्र-जम् कृष्णे स-अपत्यम् अघ-वान् इति
द्वैपायनादनवरो महित्वे तस्य देहज: ।
सर्वात्मना श्रित: कृष्णं तत्परांश्चाप्यनुव्रत: ॥ ३ ॥
द्वैपायनात् अनवरः महित्वे तस्य देह-जः सर्व-आत्मना श्रितः कृष्णम् तत्-परान् च अपि अनुव्रतः
किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया ।
उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥
किम् अन्वपृच्छत् मैत्रेयम् विरजाः तीर्थ-सेवया उपगम्य कुशावर्ते आसीनम् तत्त्व-वित्-तमम्
तयो: संवदतो: सूत प्रवृत्ता ह्यमला: कथा: ।
आपो गाङ्गा इवाघघ्नीर्हरे: पादाम्बुजाश्रया: ॥ ५ ॥
तयोः संवदतोः सूत प्रवृत्ताः हि अमलाः कथाः आपः गाङ्गाः इव अघ-घ्नीः हरेः पाद-अम्बुज आश्रयाः
ता न: कीर्तय भद्रं ते कीर्तन्योदारकर्मण: ।
रसज्ञ: को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥
ताः नः कीर्तय भद्रम् ते कीर्तन्य उदार कर्मणः रस-ज्ञः कः नु तृप्येत हरि-लीला-अमृतम् पिबन्
एवमुग्रश्रवा: पृष्ट ऋषिभिर्नैमिषायनै: ।
भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति ॥ ७ ॥
एवम् उग्रश्रवाः पृष्टः ऋषिभिः नैमिष-अयनैः भगवति अर्पित अध्यात्मः तान् आह श्रूयताम् इति
सूत उवाच
हरेर्धृतक्रोडतनो: स्वमायया
निशम्य गोरुद्धरणं रसातलात् ।
लीलां हिरण्याक्षमवज्ञया हतं
सञ्जातहर्षो मुनिमाह भारत: ॥ ८ ॥
सूतः उवाच हरेः धृत क्रोड तनोः स्व-मायया निशम्य गोः उद्धरणम् रसातलात् लीलाम् हिरण्याक्षम् अवज्ञया हतम् सञ्जात-हर्षः मुनिम् आह भारतः
विदुर उवाच
प्रजापतिपति: सृष्ट्वा प्रजासर्गे प्रजापतीन् ।
किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥
विदुरः उवाच प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् किम् आरभत मे ब्रह्मन् प्रब्रूहि अव्यक्त-मार्ग-वित्
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनु: ।
ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥ १० ॥
ये मरीचि-आदयः विप्राः यः तु स्वायम्भुवः मनुः ते वै ब्रह्मणः आदेशात् कथम् एतत् अभावयन्
सद्वितीया: किमसृजन् स्वतन्त्रा उत कर्मसु ।
आहोस्वित्संहता: सर्व इदं स्म समकल्पयन् ॥ ११ ॥
स-द्वितीयाः किम् असृजन् स्व-तन्त्राः उत कर्मसु आहो स्वित् संहताः सर्वे इदम् स्म समकल्पयन्
मैत्रेय उवाच
दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।
जातक्षोभाद्भगवतो महानासीद् गुणत्रयात् ॥ १२ ॥
मैत्रेयः उवाच दैवेन दुर्वितर्क्येण परेण अनिमिषेण च जात-क्षोभात् भगवतः महान् आसीत् गुण-त्रयात्
रज:प्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् ।
जात: ससर्ज भूतादिर्वियदादीनि पञ्चश: ॥ १३ ॥
रजः-प्रधानात् महतः त्रि-लिङ्गः दैव-चोदितात् जातः ससर्ज भूत-आदिः वियत् आदीनि पञ्चशः
तानि चैकैकश: स्रष्टुमसमर्थानि भौतिकम् ।
संहत्य दैवयोगेन हैममण्डमवासृजन् ॥ १४ ॥
तानि च एक-एकशः स्रष्टुम् असमर्थानि भौतिकम् संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन्
सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मक: ।
साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वर: ॥ १५ ॥
सः अशयिष्ट अब्धि-सलिले आण्ड-कोशः निरात्मकः साग्रम् वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः
तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति ।
सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट् ॥ १६ ॥
तस्य नाभेः अभूत् पद्मम् सहस्र-अर्क उरु दीधिति सर्व जीव-निकाय ओकः यत्र स्वयम् अभूत् स्व-राट्
सोऽनुविष्टो भगवता य: शेते सलिलाशये ।
लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥
सः अनुविष्टः भगवता यः शेते सलिल-आशये लोक-संस्थाम् यथा पूर्वम् निर्ममे संस्थया स्वया
ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रत: ।
तामिस्रमन्धतामिस्रं तमो मोहो महातम: ॥ १८ ॥
ससर्ज छायया अविद्याम् पञ्च-पर्वाणम् अग्रतः तामिस्रम् अन्ध-तामिस्रम् तमः मोहः महा-तमः
विससर्जात्मन: कायं नाभिनन्दंस्तमोमयम् ।
जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ १९ ॥
विससर्ज आत्मनः कायम् न अभिनन्दन् तमः-मयम् जगृहुः यक्ष-रक्षांसि रात्रिम् क्षुत् तृट् समुद्भवाम्
क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवु: ।
मा रक्षतैनं जक्षध्वमित्यूचु: क्षुत्तृडर्दिता: ॥ २० ॥
क्षुत्-तृड्भ्याम् उपसृष्टाः ते तम् जग्धुम् अभिदुद्रुवुः मा रक्षत एनम् जक्षध्वम् इति ऊचुः क्षुत्-तृट्-अर्दिताः
देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।
अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥
देवः तान् आह संविग्नः मा माम् जक्षत रक्षत अहो मे यक्ष-रक्षांसि प्रजाः यूयम् बभूविथ
देवता: प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।
ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामह: ॥ २२ ॥
देवताः प्रभया याः याः दीव्यन् प्रमुखतः असृजत् ते अहार्षुः देवयन्तः विसृष्टाम् ताम् प्रभाम् अहः
देवोऽदेवाञ्जघनत: सृजति स्मातिलोलुपान् ।
त
एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥
देवः अदेवान् जघनतः सृजति स्म अति-लोलुपान् ते एनम् लोलुपतया मैथुनाय अभिपेदिरे
ततो हसन् स
भगवानसुरैर्निरपत्रपै: ।
अन्वीयमानस्तरसा क्रुद्धो भीत: परापतत् ॥ २४ ॥
ततः हसन् सः भगवान् असुरैः निरपत्रपैः अन्वीयमानः तरसा क्रुद्धः भीतः परापतत्
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।
अनुग्रहाय भक्तानामनुरूपात्मदर्शनम् ॥ २५ ॥
सः उपव्रज्य वर-दम् प्रपन्न आर्ति हरम् हरिम् अनुग्रहाय भक्तानाम् अनुरूप आत्म-दर्शनम्
पाहि मां परमात्मंस्ते प्रेषणेनासृजं
प्रजा: ।
ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥
पाहि माम् परम-आत्मन् ते प्रेषणेन असृजम् प्रजाः ताः इमाः यभितुम् पापाः उपाक्रामन्ति माम् प्रभो
त्वमेक: किल लोकानां क्लिष्टानां
क्लेशनाशन: ।
त्वमेक: क्लेशदस्तेषामनासन्नपदां तव ॥ २७ ॥
त्वम् एकः किल लोकानाम् क्लिष्टानाम् क्लेश नाशनः त्वम् एकः क्लेश-दः तेषाम् अनासन्न पदाम् तव
सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शन: ।
विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥
सः अवधार्य अस्य कार्पण्यम् विविक्त अध्यात्म दर्शनः विमुञ्च आत्म-तनुम् घोराम् इति उक्तः विमुमोच ह
तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् ।
काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम् ॥ २९ ॥
ताम् क्वणत् चरण-अम्भोजाम् मद विह्वल लोचनाम् काञ्ची-कलाप विलसत् दुकूल छन्न रोधसम्
अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम् ।
सुनासां सुद्विजां स्निग्धहासलीलावलोकनाम् ॥ ३० ॥
अन्योन्य श्लेषया उत्तुङ्ग निरन्तर पयः-धराम् सु-नासाम् सु-द्विजाम् स्निग्ध हास लीला-अवलोकनाम्
गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् ।
उपलभ्यासुरा धर्म सर्वे सम्मुमुहु: स्त्रियम् ॥ ३१ ॥
गूहन्तीम् व्रीडया आत्मानम् नील अलक वरूथिनीम् उपलभ्य असुराः धर्म सर्वे सम्मुमुहुः स्त्रियम्
अहो रूपमहो धैर्यमहो अस्या नवं वय: ।
मध्ये कामयमानानामकामेव विसर्पति ॥ ३२ ॥
अहो रूपम् अहो धैर्यम् अहो अस्याः नवम् वयः मध्ये कामयमानानाम् अकामा इव विसर्पति
वितर्कयन्तो बहुधा तां सन्ध्यां
प्रमदाकृतिम् ।
अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधस: ॥ ३३ ॥
वितर्कयन्तः बहुधा ताम् सन्ध्याम् प्रमदा आकृतिम् अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कु-मेधसः
कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र
भामिनि ।
रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥
का असि कस्य असि रम्भोरु कः वा अर्थः ते अत्र भामिनि रूप द्रविण पण्येन दुर्भगान् नः विबाधसे
या वा काचित्त्वमबले दिष्टया सन्दर्शनं तव ।
उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मन: ॥ ३५ ॥
या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनम् तव उत्सुनोषि ईक्षमाणानाम् कन्दुक क्रीडया मनः
नैकत्र ते जयति शालिनि पादपद्मं
घ्नन्त्या मुहु: करतलेन पतत्पतङ्गम् ।
मध्यं विषीदति बृहत्स्तनभारभीतं
शान्तेव दृष्टिरमला सुशिखासमूह: ॥ ३६ ॥
न एकत्र ते जयति शालिनि पाद-पद्मम् घ्नन्त्याः मुहुः कर-तलेन पतत् पतङ्गम् मध्यम् विषीदति बृहत् स्तन भार भीतम् शान्ता इव दृष्टिः अमला सु शिखा समूहः
इति सायन्तनीं सन्ध्यामसुरा: प्रमदायतीम् ।
प्रलोभयन्तीं जगृहुर्मत्वा मूढधिय: स्त्रियम् ॥ ३७ ॥
इति सायन्तनीम् सन्ध्याम् असुराः प्रमदायतीम् प्रलोभयन्तीम् जगृहुः मत्वा मूढ-धियः स्त्रियम्
प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना ।
कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥
प्रहस्य भाव-गम्भीरम् जिघ्रन्त्या आत्मानम् आत्मना कान्त्या ससर्ज भगवान् गन्धर्व अप्सरसाम् गणान्
विससर्ज तनुं तां वैज्योत्स्नां कान्तिमतीं प्रियाम् ।
त एव चाददु: प्रीत्या विश्वावसुपुरोगमा: ॥ ३९ ॥
विससर्ज तनुम् ताम् वै ज्योत्स्नाम् कान्ति-मतीम् प्रियाम् ते एव च आददुः प्रीत्या विश्वावसु-पुरः-गमाः
सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा ।
दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥
सृष्ट्वा भूत पिशाचान् च भगवान् आत्म तन्द्रिणा दिक्-वाससः मुक्त केशान् वीक्ष्य च अमीलयत् दृशौ
जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभो: ।
निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते ।
येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥
जगृहुः तत्-विसृष्टाम् ताम् जृम्भण-आख्याम् तनुम् प्रभोः निद्राम् इन्द्रिय-विक्लेदः यया भूतेषु दृश्यते येन उच्छिष्टान् धर्षयन्ति तम् उन्मादम् प्रचक्षते
ऊर्जस्वन्तं मन्यमान आत्मानं भगवानज: ।
साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभु: ॥ ४२ ॥
ऊर्जः-वन्तम् मन्यमानः आत्मानम् भगवान् अजः साध्यान् गणान् पितृ-गणान् परोक्षेण असृजत् प्रभुः
त आत्मसर्गं तं कायं पितर: प्रतिपेदिरे ।
साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥
ते आत्म-सर्गम् तम् कायम् पितरः प्रतिपेदिरे साध्येभ्यः च पितृभ्यः च कवयः यत् वितन्वते
सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥
सिद्धान् विद्याधरान् च एव तिरोधानेन सः असृजत् तेभ्यः अददात् तम् आत्मानम् अन्तर्धान-आख्यम् अद्भुतम्
स किन्नरान किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभु: ।
मानयन्नात्मनात्मानमात्माभासं विलोकयन् ॥ ४५ ॥
सः किन्नरान् किम्पुरुषान् प्रत्यात्म्येन असृजत् प्रभुः मानयन् आत्मना आत्मानम् आत्म-आभासम् विलोकयन्
ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना ।
मिथुनीभूय गायन्तस्तमेवोषसि कर्मभि: ॥ ४६ ॥
ते तु तत् जगृहुः रूपम् त्यक्तम् यत् परमेष्ठिना मिथुनी-भूय गायन्तः तम् एव उषसि कर्मभिः
देहेन वै भोगवता शयानो बहुचिन्तया ।
सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपु: ॥ ४७ ॥
देहेन वै भोगवता शयानः बहु चिन्तया सर्गे अनुपचिते क्रोधात् उत्ससर्ज ह तत् वपुः
येऽहीयन्तामुत: केशा अहयस्तेऽङ्ग जज्ञिरे ।
सर्पा: प्रसर्पत: क्रूरा नागा भोगोरुकन्धरा: ॥ ४८ ॥
ये अहीयन्त अमुतः केशाः अहयः ते अङ्ग जज्ञिरे सर्पाः प्रसर्पतः क्रूराः नागाः भोग उरु कन्धराः
स आत्मान् मन्यमान: कृतकृत्यमिवात्मभू: ।
तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥
सः आत्मानम् मन्यमानः कृत-कृत्यम् इव आत्मभूः तदा मनून् ससर्ज अन्ते मनसा लोक भावनान्
तेभ्य: सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् ।
तान् दृष्ट्वा ये पुरा सृष्टा: प्रशशंसु: प्रजापतिम् ॥ ५० ॥
तेभ्यः सः असृजत् स्वीयम् पुरम् पुरुषम् आत्म-वान् तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्
अहो एतज्जगत्स्रष्ट: सुकृतं बत ते कृतम् ।
प्रतिष्ठिता: क्रिया यस्मिन् साकमन्नमदामहे ॥ ५१ ॥
अहो एतत् जगत्-स्रष्टः सुकृतम् बत ते कृतम् प्रतिष्ठिताः क्रियाः यस्मिन् साकम् अन्नम् अदाम हे
तपसा विद्यया युक्तो योगेन सुसमाधिना ।
ऋषीनृषिर्हृषीकेश: ससर्जाभिमता: प्रजा: ॥ ५२ ॥
तपसा विद्यया युक्तः योगेन सु-समाधिना ऋषीन् ऋषिः हृषीकेशः ससर्ज अभिमताः प्रजाः
तेभ्यश्चैकैकश: स्वस्य देहस्यांशमदादज: ।
यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत् ॥ ५३ ॥
तेभ्यः च एकैकशः स्वस्य देहस्य अंशम् अदात् अजः यत् तत् समाधि योग ऋद्धि तपः विद्या विरक्ति मत्
३.२१
विदुर उवाच
स्वायम्भुवस्य च मनोर्वंश: परमसम्मत: ।
कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजा: ॥ १ ॥
विदुरः उवाच स्वायम्भुवस्य च मनोः वंशः परम सम्मतः कथ्यताम् भगवन् यत्र मैथुनेन एधिरे प्रजाः
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।
यथाधर्मं जुगुपतु: सप्तद्वीपवतीं महीम् ॥ २ ॥
प्रियव्रत उत्तानपादौ सुतौ स्वायम्भुवस्य वै यथा धर्मम् जुगुपतुः सप्त-द्वीप-वतीम् महीम्
तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता ।
पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥
तस्य वै दुहिता ब्रह्मन् देवहूति इति विश्रुता पत्नी प्रजापतेः उक्ता कर्दमस्य त्वया अनघ
तस्यां स वै महायोगी युक्तायां योगलक्षणै: ।
ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥
तस्याम् सः वै महा-योगी युक्तायाम् योग-लक्षणैः ससर्ज कतिधा वीर्यम् तत् मे शुश्रूषवे वद
रुचिर्यो भगवान् ब्रह्मन्दक्षो वा ब्रह्मण: सुत: ।
यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥
रुचिः यः भगवान् ब्रह्मन् दक्षः वा ब्रह्मणः सुतः यथा ससर्ज भूतानि लब्ध्वा भार्याम् च मानवीम्
मैत्रेय उवाच
प्रजा: सृजेति भगवान् कर्दमो ब्रह्मणोदित: ।
सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥
मैत्रेयः उवाच प्रजाः सृज इति भगवान् कर्दमः ब्रह्मणा उदितः सरस्वत्याम् तपः तेपे सहस्राणाम् समाः दश
तत: समाधियुक्तेन क्रियायोगेन कर्दम: ।
सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥
ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः सम्प्रपेदे हरिम् भक्त्या प्रपन्न वरदाशुषम्
तावत्प्रसन्नो भगवान् पुष्कराक्ष: कृते युगे ।
दर्शयामास तं क्षत्त: शाब्दं ब्रह्म दधद्वपु: ॥ ८ ॥
तावत् प्रसन्नः भगवान् पुष्कर-अक्षः कृते युगे दर्शयाम् आस तम् क्षत्तः शाब्दम् ब्रह्म दधत् वपुः
स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।
स्निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥
सः तम् विरजम् अर्क-आभम् सित पद्म उत्पल स्रजम् स्निग्ध नील अलक व्रात वक्त्र अब्जम् विरजः अम्बरम्
किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।
श्वेतोत्पलक्रीडनकं मन:स्पर्शस्मितेक्षणम् ॥ १० ॥
किरीटिनम् कुण्डलिनम् शङ्ख चक्र गदा धरम् श्वेत उत्पल क्रीडनकम् मनः स्पर्श स्मित ईक्षणम्
विन्यस्तचरणाम्भोजमंसदेशे गरुत्मत: ।
दृष्ट्वा खेऽवस्थितं वक्ष:श्रियं कौस्तुभकन्धरम् ॥ ११ ॥
विन्यस्त चरण-अम्भोजम् अंस-देशे गरुत्मतः दृष्ट्वा खे अवस्थितम् वक्षः श्रियम् कौस्तुभ कन्धरम्
जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथ: ।
गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलि: ॥ १२ ॥
जात-हर्षः अपतत् मूर्ध्ना क्षितौ लब्ध मनः-रथः गीर्भिः तु अभ्यगृणात् प्रीति-स्वभाव-आत्मा कृत-अञ्जलिः
ऋषिरुवाच
जुष्टं बताद्याखिलसत्त्वराशे:
सांसिद्ध्यमक्ष्णोस्तव दर्शनान्न: ।
यद्दर्शनं जन्मभिरीड्य सद्भि-
राशासते योगिनो रूढयोगा: ॥ १३ ॥
ऋषिः उवाच जुष्टम् बत अद्य अखिल सत्त्व राशेः सांसिद्ध्यम् अक्ष्णोः तव दर्शनात् नः यत् दर्शनम् जन्मभिः ईड्य सद्भिः आशासते योगिनः रूढ-योगाः
ये मायया ते हतमेधसस्त्वत्-
पादारविन्दं भवसिन्धुपोतम् ।
उपासते कामलवाय तेषां
रासीश कामान्निरयेऽपि ये स्यु: ॥ १४ ॥
ये मायया ते हत मेधसः त्वत् पाद-अरविन्दम् भव सिन्धु पोतम् उपासते काम-लवाय तेषाम् रासि ईश कामान् निरये अपि ये स्युः
तथा स चाहं परिवोढुकाम:
समानशीलां गृहमेधधेनुम् ।
उपेयिवान्मूलमशेषमूलं
दुराशय: कामदुघाङ्घ्रिपस्य ॥ १५ ॥
तथा सः च अहम् परिवोढु-कामः समान-शीलाम् गृह-मेध धेनुम् उपेयिवान् मूलम् अशेष मूलम् दुराशयः काम-दुघ अङ्घ्रिपस्य
प्रजापतेस्ते वचसाधीश तन्त्या
लोक: किलायं कामहतोऽनुबद्ध: ।
अहं च लोकानुगतो वहामि
बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥
प्रजापतेः ते वचसा अधीश तन्त्या लोकः किल अयम् काम-हतः अनुबद्धः अहम् च लोक-अनुगतः वहामि बलिम् च शुक्ल अनिमिषाय तुभ्यम्
लोकांश्च लोकानुगतान् पशूंश्च
हित्वा श्रितास्ते चरणातपत्रम् ।
परस्परं त्वद्गुणवादसीधु-
पीयूषनिर्यापितदेहधर्मा: ॥ १७ ॥
लोकान् च लोक-अनुगतान् पशून् च हित्वा श्रिताः ते चरण आतपत्रम् परस्परम् त्वत् गुण वाद सीधु पीयूष निर्यापित देह-धर्माः
न तेऽजराक्षभ्रमिरायुरेषां
त्रयोदशारं त्रिशतं षष्टिपर्व ।
षण्नेम्यनन्तच्छदि यत्त्रिणाभि
करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥
न ते अजर अक्ष भ्रमिः आयुः एषाम् त्रयोदश अरम् त्रि-शतम् षष्टि पर्व षट् नेमि अनन्त छदि यत् त्रि नाभि कराल-स्रोतः जगत् आच्छिद्य धावत्
एक: स्वयं सञ्जगत: सिसृक्षया-
द्वितीययात्मन्नधियोगमायया ।
सृजस्यद: पासि पुनर्ग्रसिष्यसे
यथोर्णनाभिर्भगवन् स्वशक्तिभि: ॥ १९ ॥
एकः स्वयम् सन् जगतः सिसृक्षया अद्वितीयया आत्मन् अधि योग-मायया सृजसि अदः पासि पुनः ग्रसिष्यसे यथा ऊर्ण-नाभिः भगवन् स्व-शक्तिभिः
नैतद्बताधीश पदं तवेप्सितं
यन्मायया नस्तनुषे भूतसूक्ष्मम् ।
अनुग्रहायास्त्वपि यर्ही मायया
लसत्तुलस्या भगवान् विलक्षित: ॥ २० ॥
न एतत् बत अधीश पदम् तव ईप्सितम् यत् मायया नः तनुषे भूत-सूक्ष्मम् अनुग्रहाय अस्तु अपि यर्हि मायया लसत् तुलस्या भगवान् विलक्षितः
तं त्वानुभूत्योपरतक्रियार्थं
स्वमायया वर्तितलोकतन्त्रम् ।
नमाम्यभीक्ष्णं नमनीयपाद-
सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥
तम् त्वा अनुभूत्या उपरत क्रिया अर्थम् स्व-मायया वर्तित लोक-तन्त्रम् नमामि अभीक्ष्णम् नमनीय पाद-सरोजम् अल्पीयसि काम वर्षम्
ऋषिरुवाच
इत्यव्यलीकं प्रणुतोऽब्जनाभ-
स्तमाबभाषे वचसामृतेन ।
सुपर्णपक्षोपरि रोचमान:
प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रू: ॥ २२ ॥
ऋषिः उवाच इति अव्यलीकम् प्रणुतः अब्ज-नाभः तम् आबभाषे वचसा अमृतेन सुपर्ण पक्ष उपरि रोचमानः प्रेम स्मित उद्वीक्षण विभ्रमत् भ्रूः
श्रीभगवानुवाच
विदित्वा तव चैत्यं मे पुरैव समयोजि तत् ।
यदर्थमात्मनियमैस्त्वयैवाहं समर्चित: ॥ २३ ॥
श्री-भगवान् उवाच विदित्वा तव चैत्यम् मे पुरा एव समयोजि तत् यत्-अर्थम् आत्म नियमैः त्वया एव अहम् समर्चितः
न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम् ।
भवद्विधेष्वतितरां मयि संगृभितात्मनाम् ॥ २४ ॥
न वै जातु मृषा एव स्यात् प्रजा अध्यक्ष मत्-अर्हणम् भवत्-विधेषु अतितराम् मयि सङ्गृभित आत्मनाम्
प्रजापतिसुत: सम्राण्मनुर्विख्यातमङ्गल: ।
ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥
प्रजापति-सुतः सम्राट् मनुः विख्यात मङ्गलः ब्रह्मावर्तम् यः अधिवसन् शास्ति सप्त अर्णवाम् महीम्
स चेह विप्र राजर्षिर्महिष्या शतरूपया ।
आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविद: ॥ २६ ॥
सः च इह विप्र राज-ऋषिः महिष्या शतरूपया आयास्यति दिदृक्षुः त्वाम् परश्वः धर्म कोविदः
आत्मजामसितापाङ्गीं वय:शीलगुणान्विताम् ।
मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो ॥ २७ ॥
आत्म-जाम् असित अपाङ्गीम् वयः शील गुण अन्विताम् मृगयन्तीम् पतिम् दास्यति अनुरूपाय ते प्रभो
समाहितं ते हृदयं यत्रेमान् परिवत्सरान् ।
सा त्वां ब्रह्मन्नृपवधू: काममाशु भजिष्यति ॥ २८ ॥
समाहितम् ते हृदयम् यत्र इमान् परिवत्सरान् सा त्वाम् ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति
या त आत्मभृतं वीर्यं नवधा प्रसविष्यति ।
वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसात्मन: ॥ २९ ॥
या ते आत्म-भृतम् वीर्यम् नव-धा प्रसविष्यति वीर्ये त्वदीये ऋषयः आधास्यन्ति अञ्जसा आत्मनः
त्वं च सम्यगनुष्ठाय निदेशं म उशत्तम: ।
मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥
त्वम् च सम्यक् अनुष्ठाय निदेशम् मे उशत्तमः मयि तीर्थी-कृत अशेष क्रिया अर्थः माम् प्रपत्स्यसे
कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् ।
मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥
कृत्वा दयाम् च जीवेषु दत्त्वा च अभयम् आत्म-वान् मयि आत्मानम् सह जगत् द्रक्ष्यसि आत्मनि च अपि माम्
सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।
तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥
सह अहम् स्व-अंश-कलया त्वत्-वीर्येण महा-मुने तव क्षेत्रे देवहूत्याम् प्रणेष्ये तत्त्व संहिताम्
मैत्रेय उवाच
एवं तमनुभाष्याथ भगवान् प्रत्यगक्षज: ।
जगाम बिन्दुसरस: सरस्वत्या परिश्रितात् ॥ ३३ ॥
मैत्रेयः उवाच एवम् तम् अनुभाष्य अथ भगवान् प्रत्यक् अक्ष जः जगाम बिन्दु-सरसः सरस्वत्या परिश्रितात्
निरीक्षतस्तस्य ययावशेष-
सिद्धेश्वराभिष्टुतसिद्धमार्ग: ।
आकर्णयन् पत्ररथेन्द्रपक्षै-
रुच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥
निरीक्षतः तस्य ययौ अशेष सिद्ध-ईश्वर अभिष्टुत सिद्ध-मार्गः आकर्णयन् पत्र-रथ-इन्द्र पक्षैः उच्चारितम् स्तोमम् उदीर्ण-साम
अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषि: ।
आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥
अथ सम्प्रस्थिते शुक्ले कर्दमः भगवान् ऋषिः आस्ते स्म बिन्दु-सरसि तम् कालम् प्रतिपालयन्
मनु: स्यन्दनमास्थाय शातकौम्भपरिच्छदम् ।
आरोप्य स्वां दुहितरं सभार्य: पर्यटन्महीम् ॥ ३६ ॥
मनुः स्यन्दनम् आस्थाय शातकौम्भ परिच्छदम् आरोप्य स्वाम् दुहितरम् स-भार्यः पर्यटन् महीम्
तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् ।
उपायादाश्रमपदं मुने: शान्तव्रतस्य तत् ॥ ३७ ॥
तस्मिन् सु-धन्वन् अहनि भगवान् यत् समादिशत् उपायात् आश्रम-पदम् मुनेः शान्त व्रतस्य तत्
यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दव: ।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥
तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।
पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥
यस्मिन् भगवतः नेत्रात् न्यपतन् अश्रु-बिन्दवः कृपया सम्परीतस्य प्रपन्ने अर्पितया भृशम् तत् वै बिन्दु-सरः नाम सरस्वत्या परिप्लुतम् पुण्यम् शिव अमृत जलम् महा-ऋषि गण सेवितम्
पुण्यद्रुमलताजालै: कूजत्पुण्यमृगद्विजै: ।
सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥
पुण्य द्रुम लता जालैः कूजत् पुण्य मृग द्विजैः सर्व ऋतु फल पुष्प आढ्यम् वन-राजि श्रिया अन्वितम्
मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम् ।
मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम् ॥ ४१ ॥
मत्त द्विज गणैः घुष्टम् मत्त भ्रमर विभ्रमम् मत्त बर्हि नट आटोपम् आह्वयत् मत्त कोकिलम्
कदम्बचम्पकाशोककरञ्जबकुलासनै: ।
कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् ॥ ४२ ॥
कारण्डवै: प्लवैर्हंसै: कुररैर्जलकुक्कुटै: ।
सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम् ॥ ४३ ॥
कदम्ब चम्पक अशोक करञ्ज बकुल आसनैः कुन्द चूत-पोतैः अलङ्कृतम् कारण्डवैः प्लवैः हंसैः कुररैः जल-कुक्कुटैः सारसैः चक्रवाकैः च चकोरैः वल्गु कूजितम्
तथैव हरिणै: क्रोडै: श्वाविद्गवयकुञ्जरै: ।
गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् ॥ ४४ ॥
तथा एव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिः वृतम्
प्रविश्य तत्तीर्थवरमादिराज: सहात्मज: ।
ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥
विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् ।
नातिक्षामं भगवत: स्निग्धापाङ्गावलोकनात् ।
त द्वयहृतामृतकलापीयूषश्रवणेन च ॥ ४६ ॥
प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् ।
उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम् ॥ ४७ ॥
प्रविश्य तत् तीर्थ-वरम् आदि-राजः सह-आत्मजः ददर्श मुनिम् आसीनम् तस्मिन् हुत हुत-अशनम् विद्योतमानम् वपुषा तपसि उग्र युजा चिरम् न अतिक्षामम् भगवतः स्निग्ध अपाङ्ग अवलोकनात् तत् व्याहृत अमृत-कला पीयूष श्रवणेन च प्रांशुम् पद्म पलाश अक्षम् जटिलम् चीर-वाससम् उपसंश्रित्य मलिनम् यथा अर्हणम् असंस्कृतम्
अथोटजमुपायातं नृदेवं प्रणतं पुर: ।
सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया ॥ ४८ ॥
अथ उटजम् उपायातम् नृदेवम् प्रणतम् पुरः सपर्यया पर्यगृह्णात् प्रतिनन्द्य अनुरूपया
गृहीतार्हणमासीनं संयतं प्रीणयन्मुनि: ।
स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा ॥ ४९ ॥
गृहीत अर्हणम् आसीनम् संयतम् प्रीणयन् मुनिः स्मरन् भगवत् आदेशम् इति आह श्लक्ष्णया गिरा
नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।
वधाय चासतां यस्त्वं हरे: शक्तिर्हि पालिनी ॥ ५० ॥
नूनम् चङ्क्रमणम् देव सताम् संरक्षणाय ते वधाय च असताम् यः त्वम् हरेः शक्तिः हि पालिनी
योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।
रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नम: ॥ ५१ ॥
यः अर्क इन्दु अग्नि इन्द्र वायूनाम् यम धर्म प्रचेतसाम् रूपाणि स्थाने आधत्से तस्मै शुक्लाय ते नमः
न यदा रथमास्थाय जैत्रं मणिगणार्पितम् ।
विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान् ॥ ५२ ॥
स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुव: ।
विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव ॥ ५३ ॥
तदैव सेतव: सर्वे वर्णाश्रमनिबन्धना: ।
भगवद्रचिता राजन् भिद्येरन् बत दस्युभि: ॥ ५४ ॥
न यदा रथम् आस्थाय जैत्रम् मणि गण अर्पितम् विस्फूर्जत् चण्ड कोदण्डः रथेन त्रासयन् अघान् स्व-सैन्य चरण क्षुण्णम् वेपयन् मण्डलम् भुवः विकर्षन् बृहतीम् सेनाम् पर्यटसि अंशुमान् इव तदा एव सेतवः सर्वे वर्ण आश्रम निबन्धनाः भगवत् रचिताः राजन् भिद्येरन् बत दस्युभिः
अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभि: ।
शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५ ॥
अधर्मः च समेधेत लोलुपैः व्यङ्कुशैः नृभिः शयाने त्वयि लोकः अयम् दस्यु ग्रस्तः विनङ्क्ष्यति
अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागत: ।
तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥
अथ अपि पृच्छे त्वाम् वीर यत्-अर्थम् त्वम् इह आगतः तत् वयम् निर्व्यलीकेन प्रतिपद्यामहे हृदा
३.२२
मैत्रेय उवाच
एवमाविष्कृताशेषगुणकर्मोदयो मुनिम् ।
सव्रीड इव तं सम्राडुपारतमुवाच ह ॥ १ ॥
मैत्रेयः उवाच एवम् आविष्कृत अशेष गुण कर्म उदयः मुनिम् स-व्रीडः इव तम् सम्राट् उपारतम् उवाच ह
मनुरुवाच
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया ।
छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान् ॥ २ ॥
मनुः उवाच ब्रह्मा असृजत् स्व-मुखतः युष्मान् आत्म-परीप्सया छन्दः-मयः तपः-विद्या-योग-युक्तान् अलम्पटान्
तत्त्राणायासृजच्चास्मान् दो:सहस्रात्सहस्रपात् ।
हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३ ॥
तत्-त्राणाय असृजत् च अस्मान् दोः-सहस्रात् सहस्र-पात् हृदयम् तस्य हि ब्रह्म क्षत्रम् अङ्गम् प्रचक्षते
अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षत: ।
रक्षति स्माव्ययो देव: स य: सदसदात्मक: ॥ ४ ॥
अतः हि अन्योन्यम् आत्मानम् ब्रह्म क्षत्रम् च रक्षतः रक्षति स्म अव्ययः देवः सः यः सत्-असत्-आत्मकः
तव सन्दर्शनादेवच्छिन्ना मे सर्वसंशया: ।
यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषो: ॥ ५ ॥
तव सन्दर्शनात् एव छिन्नाः मे सर्व-संशयाः यत् स्वयम् भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः
दिष्टया मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।
दिष्टया पादरज: स्पृष्टं शीर्ष्णा मे भवत: शिवम् ॥ ६ ॥
दिष्ट्या मे भगवान् दृष्टः दुर्दर्शः यः अकृत-आत्मनाम् दिष्ट्या पाद-रजः स्पृष्टम् शीर्ष्णा मे भवतः शिवम्
दिष्टया त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।
अपावृतै: कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिर: ॥ ७ ॥
दिष्ट्या त्वया अनुशिष्टः अहम् कृतः च अनुग्रहः महान् अपावृतैः कर्ण-रन्ध्रैः जुष्टाः दिष्ट्या उशतीः गिरः
स भवान्दुहितृस्नेहपरिक्लिष्टात्मनो मम ।
श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८ ॥
सः भवान् दुहितृ-स्नेह परिक्लिष्ट-आत्मनः मम श्रोतुम् अर्हसि दीनस्य श्रावितम् कृपया मुने
प्रियव्रतोत्तानपदो: स्वसेयं दुहिता मम ।
अन्विच्छति पतिं युक्तं वय: शीलगुणादिभि: ॥ ९ ॥
प्रियव्रत-उत्तानपदोः स्वसा इयम् दुहिता मम अन्विच्छति पतिम् युक्तम् वयः-शील-गुण-आदिभिः
यदा तु भवत: शीलश्रुतरूपवयोगुणान् ।
अशृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया ॥ १० ॥
यदा तु भवतः शील श्रुत रूप वयः गुणान् अशृणोत् नारदात् एषा त्वयि आसीत् कृत-निश्चया
तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११ ॥
तत् प्रतीच्छ द्विज-अग्र्य इमाम् श्रद्धया उपहृताम् मया सर्व-आत्मना अनुरूपाम् ते गृह-मेधिषु कर्मसु
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुन: ॥ १२ ॥
उद्यतस्य हि कामस्य प्रतिवादः न शस्यते अपि निर्मुक्त सङ्गस्य काम रक्तस्य किम् पुनः
य उद्यतमनादृत्य कीनाशमभियाचते ।
क्षीयते तद्यश: स्फीतं मानश्चावज्ञया हत: ॥ १३ ॥
यः उद्यतम् अनादृत्य कीनाशम् अभियाचते क्षीयते तत् यशः स्फीतम् मानः च अवज्ञया हतः
अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् ।
अतस्त्वमुपकुर्वाण: प्रत्तां प्रतिगृहाण मे ॥ १४ ॥
अहम् त्वा अशृणवम् विद्वन् विवाह-अर्थम् समुद्यतम् अतः त्वम् उपकुर्वाणः प्रत्ताम् प्रतिगृहाण मे
ऋषिरुवाच
बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा ।
आवयोरनुरूपोऽसावाद्यो वैवाहिको विधि: ॥ १५ ॥
ऋषिः उवाच बाढम् उद्वोढु-कामः अहम् अप्रत्ता च तव आत्म-जा आवयोः अनुरूपः असौ आद्यः वैवाहिकः विधिः
काम: स भूयान्नरदेव तेऽस्या:
पुत्र्या: समाम्नायविधौ प्रतीत: ।
क एव ते तनयां नाद्रियेत
स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥
कामः सः भूयात् नर-देव ते अस्याः पुत्र्याः समाम्नाय-विधौ प्रतीतः कः एव ते तनयाम् न आद्रियेत स्वया एव कान्त्या क्षिपतीम् इव श्रियम्
यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां
विक्रीडतीं कन्दुकविह्वलाक्षीम् ।
विश्वावसुर्न्यपतत्स्वाद्विमाना-
द्विलोक्य सम्मोहविमूढचेता: ॥ १७ ॥
याम् हर्म्य-पृष्ठे क्वणत्-अङ्घ्रि-शोभाम् विक्रीडतीम् कन्दुक-विह्वल-अक्षीम् विश्वावसुः न्यपतत् स्वात् विमानात् विलोक्य सम्मोह-विमूढ-चेताः
तां प्रार्थयन्तीं ललनाललाम-
मसेवितश्रीचरणैरदृष्टाम् ।
वत्सां मनोरुच्चपद: स्वसारं
को नानुमन्येत बुधोऽभियाताम् ॥ १८ ॥
ताम् प्रार्थयन्तीम् ललना-ललामम् असेवित-श्री-चरणैः अदृष्टाम् वत्साम् मनोः उच्चपदः स्वसारम् कः न अनुमन्येत बुधः अभियाताम्
अतो भजिष्ये समयेन साध्वीं
यावत्तेजो बिभृयादात्मनो मे ।
अतो धर्मान् पारमहंस्यमुख्यान्
शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९ ॥
अतः भजिष्ये समयेन साध्वीम् यावत् तेजः बिभृयात् आत्मनः मे अतः धर्मान् पारमहंस्य-मुख्यान् शुक्ल-प्रोक्तान् बहु मन्ये अविहिंस्रान्
यतोऽभवद्विश्वमिदं विचित्रं
संस्थास्यते यत्र च वावतिष्ठते ।
प्रजापतीनां पतिरेष मह्यं
परं प्रमाणं भगवाननन्त: ॥ २० ॥
यतः अभवत् विश्वम् इदम् विचित्रम् संस्थास्यते यत्र च वा अवतिष्ठते प्रजा-पतीनाम् पतिः एषः मह्यम् परम् प्रमाणम् भगवान् अनन्तः
मैत्रेय उवाच
स उग्रधन्वन्नियदेवाबभाषे
आसीच्च तूष्णीमरविन्दनाभम् ।
धियोपगृह्णन् स्मितशोभितेन
मुखेन चेतो लुलुभे देवहूत्या: ॥ २१ ॥
मैत्रेयः उवाच सः उग्र-धन्वन् इयत् एव आबभाषे आसीत् च तूष्णीम् अरविन्द-नाभम् धिया उपगृह्णन् स्मित-शोभितेन मुखेन चेतः लुलुभे देवहूत्याः
सोऽनुज्ञात्वा व्यवसितं महिष्या दुहितु: स्फुटम् ।
तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षित: ॥ २२ ॥
सः अनु ज्ञात्वा व्यवसितम् महिष्याः दुहितुः स्फुटम् तस्मै गुण-गण-आढ्याय ददौ तुल्याम् प्रहर्षितः
शतरूपा महाराज्ञी पारिबर्हान्महाधनान् ।
दम्पत्यो: पर्यदात्प्रीत्या भूषावास: परिच्छदान् ॥ २३ ॥
शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् दम्-पत्योः पर्यदात् प्रीत्या भूषा वासः परिच्छदान्
प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथ: ।
उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशय: ॥ २४ ॥
प्रत्ताम् दुहितरम् सम्राट् सदृक्षाय गत-व्यथः उपगुह्य च बाहुभ्याम् औत्कण्ठ्य-उन्मथित-आशयः
अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहु: ।
आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितु: शिखा: ॥ २५ ॥
अशक्नुवन् तत्-विरहम् मुञ्चन् बाष्प-कलाम् मुहुः आसिञ्चत् अम्ब वत्स इति नेत्र-उदैः दुहितुः शिखाः
आमन्त्र्य तं मुनिवरमनुज्ञात: सहानुग: ।
प्रतस्थे रथमारुह्य सभार्य: स्वपुरं नृप: ॥ २६ ॥
उभयोऋर्षिकुल्याया: सरस्वत्या: सुरोधसो: ।
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पद: ॥ २७ ॥
आमन्त्र्य तम् मुनि-वरम् अनुज्ञातः सह-अनुगः प्रतस्थे रथम् आरुह्य स-भार्यः स्व-पुरम् नृपः उभयोः ऋषि-कुल्यायाः सरस्वत्याः सु-रोधसोः ऋषीणाम् उपशान्तानाम् पश्यन् आश्रम-सम्पदः
तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजा: पतिम् ।
गीतसंस्तुतिवादित्रै: प्रत्युदीयु: प्रहर्षिता: ॥ २८ ॥
तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः
बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वत: ॥ २९ ॥
कुशा: काशास्त एवासन् शश्वद्धरितवर्चस: ।
ऋषयो यै: पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥
बर्हिष्मती नाम पुरी सर्व-सम्पत् समन्विता न्यपतन् यत्र रोमाणि यज्ञस्य अङ्गम् विधुन्वतः कुशाः काशाः ते एव आसन् शश्वत्-हरित वर्चसः ऋषयः यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनु: ।
अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१ ॥
कुश काश मयम् बर्हिः आस्तीर्य भगवान् मनुः अयजत् यज्ञ-पुरुषम् लब्धा स्थानम् यतः भुवम्
बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत् ।
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२ ॥
बर्हिष्मतीम् नाम विभुः याम् निर्विश्य समावसत् तस्याम् प्रविष्टः भवनम् ताप-त्रय विनाशनम्
सभार्य: सप्रज: कामान् बुभुजेऽन्याविरोधत: ।
सङ्गीयमानसत्कीर्ति: सस्त्रीभि: सुरगायकै: ।
प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन् हरे: कथा: ॥ ३३ ॥
स-भार्यः स-प्रजः कामान् बुभुजे अन्य अविरोधतः सङ्गीयमान सत्-कीर्तिः स-स्त्रीभिः सुर-गायकैः प्रति-ऊषेषु अनुबद्धेन हृदा शृण्वन् हरेः कथाः
निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।
यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४ ॥
निष्णातम् योग-मायासु मुनिम् स्वायम्भुवम् मनुम् यत् आभ्रंशयितुम् भोगाः न शेकुः भगवत्-परम्
अयातयामास्तस्यासन् यामा:स्वान्तरयापना: ।
शृण्वतो ध्यायतो विष्णो: कुर्वतो ब्रुवत: कथा: ॥ ३५ ॥
अयात-यामाः तस्य आसन् यामाः स्व-अन्तर यापनाः शृण्वतः ध्यायतः विष्णोः कुर्वतः ब्रुवतः कथाः
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् ।
वासुदेवप्रसङ्गेन परिभूतगतित्रय: ॥ ३६ ॥
सः एवम् स्व-अन्तरम् निन्ये युगानाम् एक-सप्ततिम् वासुदेव प्रसङ्गेन परिभूत गति-त्रयः
शारीरा मानसा दिव्या वैयासे ये च मानुषा: ।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥
शारीराः मानसाः दिव्याः वैयासे ये च मानुषाः भौतिकाः च कथम् क्लेशाः बाधन्ते हरि-संश्रयम्
य: पृष्टो मुनिभि: प्राह धर्मान्नानाविदाञ्छुभान् ।
नृणां वर्णाश्रमाणां च सर्वभूतहित: सदा ॥ ३८ ॥
यः पृष्टः मुनिभिः प्राह धर्मान् नाना-विधान् शुभान् नृणाम् वर्ण-आश्रमाणाम् च सर्व-भूत हितः सदा
एतत्त आदिराजस्य मनोश्चरितमद्भुतम् ।
वर्णितं वर्णनीयस्य तदपत्योदयं शृणु ॥ ३९ ॥
एतत् ते आदि-राजस्य मनोः चरितम् अद्भुतम् वर्णितम् वर्णनीयस्य तत्-अपत्य उदयम् शृणु
३.२३
मैत्रेय उवाच
पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा ।
नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम् ॥ १ ॥
मैत्रेयः उवाच पितृभ्याम् प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा नित्यम् पर्यचरत् प्रीत्या भवानी इव भवम् प्रभुम्
विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।
शुश्रूषया सौहृदेन वाचा मधुरया च भो: ॥ २ ॥
विश्रम्भेण आत्म-शौचेन गौरवेण दमेन च शुश्रूषया सौहृदेन वाचा मधुरया च भोः
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३ ॥
विसृज्य कामम् दम्भम् च द्वेषम् लोभम् अघम् मदम् अप्रमत्ता उद्यता नित्यम् तेजीयांसम् अतोषयत्
स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।
दैवाद्गरीयस: पत्युराशासानां महाशिष: ॥ ४ ॥
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।
प्रेमगद्गदया वाचा पीडित: कृपयाब्रवीत् ॥ ५ ॥
सः वै देव-ऋषि वर्यः ताम् मानवीम् समनुव्रताम् दैवात् गरीयसः पत्युः आशासानाम् महा-आशिषः कालेन भूयसा क्षामाम् कर्शिताम् व्रत-चर्यया प्रेम गद्गदया वाचा पीडितः कृपया अब्रवीत्
कर्दम उवाच
तुष्टोऽहमद्य तव मानवि मानदाया:
शुश्रूषया परमया परया च भक्त्या ।
यो देहिनामयमतीव सुहृत्स देहो
नावेक्षित: समुचित: क्षपितुं मदर्थे ॥ ६ ॥
कर्दमः उवाच तुष्टः अहम् अद्य तव मानवि मान-दायाः शुश्रूषया परमया परया च भक्त्या यः देहिनाम् अयम् अतीव सुहृत् सः देहः न अवेक्षितः समुचितः क्षपितुम् मत्-अर्थे
ये मे स्वधर्मनिरतस्य तप:समाधि-
विद्यात्मयोगविजिता भगवत्प्रसादा: ।
तानेव ते मदनुसेवनयावरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७ ॥
ये मे स्व-धर्म निरतस्य तपः समाधि विद्या आत्म-योग विजिताः भगवत्-प्रसादाः तान् एव ते मत् अनुसेवनया अवरुद्धान् दृष्टिम् प्रपश्य वितरामि अभयान् अशोकान्
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-
विभ्रंशितार्थरचना: किमुरुक्रमस्य ।
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभि: ॥ ८ ॥
अन्ये पुनः भगवतः भ्रुवः उद्विजृम्भ विभ्रंशित अर्थ-रचनाः किम् उरुक्रमस्य सिद्धा असि भुङ्क्ष्व विभवान् निज-धर्म दोहान् दिव्यान् नरैः दुरधिगान् नृप-विक्रियाभिः
एवं ब्रुवाणमबलाखिलयोगमाया-
विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।
सम्प्रश्रयप्रणयविह्वलया गिरेषद्-
व्रीडावलोकविलसद्धसिताननाह ॥ ९ ॥
एवम् ब्रुवाणम् अबला अखिल योग-माया विद्या-विचक्षणम् अवेक्ष्य गत-आधिः आसीत् सम्प्रश्रय प्रणय विह्वलया गिरा ईषत् व्रीडा अवलोक विलसत् हसित आनना आह
देवहूतिरुवाच
राद्धं बत द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्त: ।
यस्तेऽभ्यधायि समय: सकृदङ्गसङ्गो
भूयाद्गरीयसि गुण: प्रसव: सतीनाम् ॥ १० ॥
देवहूतिः उवाच राद्धम् बत द्विज-वृष एतत् अमोघ योग-माया अधिपे त्वयि विभो तत् अवैमि भर्तः यः ते अभ्यधायि समयः सकृत् अङ्ग-सङ्गः भूयात् गरीयसि गुणः प्रसवः सतीनाम्
तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
येनैष मे कर्शितोऽतिरिरंसयात्मा ।
सिद्ध्येत ते कृतमनोभवधर्षिताया
दीनस्तदीश भवनं सदृशं विचक्ष्व ॥ ११ ॥
तत्र इति-कृत्यम् उपशिक्ष यथा उपदेशम् येन एषः मे कर्शितः अतिरिरं-सया आत्मा सिद्ध्येत ते कृत मनः-भव धर्षितायाः दीनः तत् ईश भवनम् सदृशम् विचक्ष्व
मैत्रेय उवाच
प्रियाया: प्रियमन्विच्छन् कर्दमो योगमास्थित: ।
विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत् ॥ १२ ॥
मैत्रेयः उवाच प्रियायाः प्रियम् अन्विच्छन् कर्दमः योगम् आस्थितः विमानम् काम-गम् क्षत्तः तर्हि एव आविरचीकरत्
सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ।
सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३ ॥
सर्व काम दुघम् दिव्यम् सर्व-रत्न समन्वितम् सर्व ऋद्धि उपचय उदर्कम् मणि स्तम्भैः उपस्कृतम्
दिव्योपकरणोपेतं सर्वकालसुखावहम् ।
पट्टिकाभि: पताकाभिर्विचित्राभिरलंकृतम् ॥ १४ ॥
स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभि: ।
दुकूलक्षौमकौशेयैर्नानावस्रैर्विराजितम् ॥ १५ ॥
दिव्य उपकरण उपेतम् सर्व-काल सुख-आवहम् पट्टिकाभिः पताकाभिः विचित्राभिः अलङ्कृतम् स्रग्भिः विचित्र-माल्याभिः मञ्जु शिञ्जत् षट्-अङ्घ्रिभिः दुकूल क्षौम कौशेयैः नाना वस्त्रैः विराजितम्
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् ।
क्षिप्तै: कशिपुभि: कान्तं पर्यङ्कव्यजनासनै: ॥ १६ ॥
उपरि उपरि विन्यस्त निलयेषु पृथक् पृथक् क्षिप्तैः कशिपुभिः कान्तम् पर्यङ्क व्यजन आसनैः
तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम् ।
महामरकतस्थल्या जुष्टं विद्रुमवेदिभि: ॥ १७ ॥
तत्र तत्र विनिक्षिप्त नाना शिल्प उपशोभितम् महा-मरकत स्थल्या जुष्टम् विद्रुम वेदिभिः
द्वा:सु विद्रुमदेहल्या भातं वज्रकपाटवत् ।
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ॥ १८ ॥
द्वाःसु विद्रुम देहल्या भातम् वज्र कपाट-वत् शिखरेषु इन्द्र-नीलेषु हेम-कुम्भैः अधिश्रितम्
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितै: ।
जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणै: ॥ १९ ॥
चक्षुः-मत् पद्म-राग अग्र्यैः वज्र भित्तिषु निर्मितैः जुष्टम् विचित्र वैतानैः महा-अर्हैः हेम-तोरणैः
हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।
कृत्रिमान् मन्यमानै: स्वानधिरुह्याधिरुह्य च ॥ २० ॥
हंस पारावत व्रातैः तत्र तत्र निकूजितम् कृत्रिमान् मन्यमानैः स्वान् अधिरुह्य अधिरुह्य च
विहारस्थानविश्रामसंवेशप्राङ्गणाजिरै: ।
यथोपजोषं रचितैर्विस्मापनमिवात्मन: ॥ २१ ॥
विहार-स्थान विश्राम संवेश प्राङ्गण अजिरैः यथा-उपजोषम् रचितैः विस्मापनम् इव आत्मनः
ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा ।
सर्वभूताशयाभिज्ञ: प्रावोचत्कर्दम: स्वयम् ॥ २२ ॥
ईदृक् गृहम् तत् पश्यन्तीम् न अतिप्रीतेन चेतसा सर्व-भूत आशय-अभिज्ञः प्रावोचत् कर्दमः स्वयम्
निमज्ज्यास्मिन् हृदे भीरु विमानमिदमारुह ।
इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम् ॥ २३ ॥
निमज्ज्य अस्मिन् ह्रदे भीरु विमानम् इदम् आरुह इदम् शुक्ल-कृतम् तीर्थम् आशिषाम् यापकम् नृणाम्
सा तद्भर्तु: समादाय वच: कुवलयेक्षणा ।
सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४ ॥
सा तत् भर्तुः समादाय वचः कुवलय-ईक्षणा स-रजम् बिभ्रती वासः वेणी-भूतान् च मूर्ध-जान्
अङ्गं च मलपङ्केन संछन्नं शबलस्तनम् ।
आविवेश सरस्वत्या: सर: शिवजलाशयम् ॥ २५ ॥
अङ्गम् च मल-पङ्केन सञ्छन्नम् शबल स्तनम् आविवेश सरस्वत्याः सरः शिव जल आशयम्
सान्त:सरसि वेश्मस्था: शतानि दश कन्यका: ।
सर्वा: किशोरवयसो ददर्शोत्पलगन्धय: ॥ २६ ॥
सा अन्तः सरसि वेश्म-स्थाः शतानि दश कन्यकाः सर्वाः किशोर-वयसः ददर्श उत्पल गन्धयः
तां दृष्ट्वा सहसोत्थाय प्रोचु: प्राञ्जलय: स्त्रिय: ।
वयं कर्मकरीस्तुभ्यं शाधि न: करवाम किम् ॥ २७ ॥
ताम् दृष्ट्वा सहसा उत्थाय प्रोचुः प्राञ्जलयः स्त्रियः वयम् कर्म-करीः तुभ्यम् शाधि नः करवाम किम्
स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।
दुकूले निर्मले नूत्ने ददुरस्यै च मानदा: ॥ २८ ॥
स्नानेन ताम् महा-अर्हेण स्नापयित्वा मनस्विनीम् दुकूले निर्मले नूत्ने ददुः अस्यै च मान-दाः
भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९ ॥
भूषणानि पर-अर्ध्यानि वरीयांसि द्युमन्ति च अन्नम् सर्व-गुण उपेतम् पानम् च एव अमृत आसवम्
अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥
अथ आदर्शे स्वम् आत्मानम् स्रक्-विणम् विरज अम्बरम् विरजम् कृत-स्वस्ति-अयनम् कन्याभिः बहु-मानितम्
स्नातं कृतशिर:स्नानं सर्वाभरणभूषितम् ।
निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् ॥ ३१ ॥
स्नातम् कृत-शिरः स्नानम् सर्व आभरण भूषितम् निष्क ग्रीवम् वलयिनम् कूजत् काञ्चन नूपुरम्
श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ।
हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२ ॥
श्रोण्योः अध्यस्तया काञ्च्या काञ्चन्या बहु-रत्नया हारेण च महा-अर्हेण रुचकेन च भूषितम्
सुदता सुभ्रुवा श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा ।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥ ३३ ॥
सु-दता सु-भ्रुवा श्लक्ष्ण स्निग्ध अपाङ्गेन चक्षुषा पद्म-कोश स्पृधा नीलैः अलकैः च लसत् मुखम्
यदा सस्मार ऋषभमृषीणां दयितं पतिम् ।
तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापति: ॥ ३४ ॥
यदा सस्मार ऋषभम् ऋषीणाम् दयितम् पतिम् तत्र च आस्ते सह स्त्रीभिः यत्र आस्ते सः प्रजापतिः
भर्तु: पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५ ॥
भर्तुः पुरस्तात् आत्मानम् स्त्री-सहस्र वृतम् तदा निशाम्य तत् योग-गतिम् संशयम् प्रत्यपद्यत
स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् ।
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ३६ ॥
विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ।
जातभावो विमानं तदारोहयदमित्रहन् ॥ ३७ ॥
सः ताम् कृत-मल-स्नानाम् विभ्राजन्तीम् अपूर्व-वत् आत्मनः बिभ्रतीम् रूपम् संवीत रुचिर स्तनीम् विद्याधरी सहस्रेण सेव्यमानाम् सु-वाससम् जात-भावः विमानम् तत् आरोहयत् अमित्र-हन्
तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने ।
बभ्राज उत्कचकुमुद्गणवानपीच्य-
स्ताराभिरावृत इवोडुपतिर्नभ:स्थ: ॥ ३८ ॥
तस्मिन् अलुप्त महिमा प्रियया अनुरक्तः विद्याधरीभिः उपचीर्ण वपुः विमाने बभ्राज उत्कच कुमुत्-गणवान् अपीच्यः ताराभिः आवृतः इव उडु-पतिः नभः-स्थः
तेनाष्टलोकपविहारकुलाचलेन्द्र-
द्रोणीस्वनङ्गसखमारुतसौभगासु ।
सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी ॥ ३९ ॥
तेन अष्ट-लोक-प विहार कुल-अचल-इन्द्र द्रोणीषु अनङ्ग सख मारुत सौभगासु सिद्धैः नुतः द्यु-धुनि पात शिव-स्वनासु रेमे चिरम् धनद-वत् ललना वरूथी
वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च स रेमे रामया रत: ॥ ४० ॥
वैश्रम्भके सुरसने नन्दने पुष्पभद्रके मानसे चैत्ररथ्ये च सः रेमे रामया रतः
भ्राजिष्णुना विमानेन कामगेन महीयसा ।
वैमानिकानत्यशेत चरँल्लोकान् यथानिल: ॥ ४१ ॥
भ्राजिष्णुना विमानेन काम-गेन महीयसा वैमानिकान् अत्यशेत चरन् लोकान् यथा अनिलः
किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् ।
यैराश्रितस्तीर्थपदश्चरणो व्यसनात्यय: ॥ ४२ ॥
किम् दुरापादनम् तेषाम् पुंसाम् उद्दाम-चेतसाम् यैः आश्रितः तीर्थ-पदः चरणः व्यसन-अत्ययः
प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ।
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३ ॥
प्रेक्षयित्वा भुवः गोलम् पत्न्यै यावान् स्व-संस्थया बहु-आश्चर्यम् महा-योगी स्व-आश्रमाय न्यवर्तत
विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् ।
रामां निरमयन् रेमे वर्षपूगान्मुहूर्तवत् ॥ ४४ ॥
विभज्य नव-धा आत्मानम् मानवीम् सुरत उत्सुकाम् रामाम् निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत्
तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ ४५ ॥
तस्मिन् विमाने उत्कृष्टाम् शय्याम् रति-करीम् श्रिता न च अबुध्यत तम् कालम् पत्या अपीच्येन सङ्गता
एवं योगानुभावेन दम्पत्यो रममाणयो: ।
शतं व्यतीयु: शरद: कामलालसयोर्मनाक् ॥ ४६ ॥
एवम् योग-अनुभावेन दम्-पत्योः रममाणयोः शतम् व्यतीयुः शरदः काम लालसयोः मनाक्
तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित् ।
नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभु: ॥ ४७ ॥
तस्याम् आधत्त रेतः ताम् भावयन् आत्मना आत्म-वित् नोधा विधाय रूपम् स्वम् सर्व-सङ्कल्प-वित् विभुः
अत: सा सुषुवे सद्यो देवहूति: स्त्रिय: प्रजा: ।
सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धय: ॥ ४८ ॥
अतः सा सुषुवे सद्यः देवहूतिः स्त्रियः प्रजाः सर्वाः ताः चारु-सर्व-अङ्ग्यः लोहित उत्पल गन्धयः
पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशतीबहि: ।
स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९ ॥
पतिम् सा प्रव्रजिष्यन्तम् तदा आलक्ष्य उशती बहिः स्मयमाना विक्लवेन हृदयेन विदूयता
लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ।
उवाच ललितां वाचं निरुध्याश्रुकलां शनै: ॥ ५० ॥
लिखन्ती अधः-मुखी भूमिम् पदा नख मणि श्रिया उवाच ललिताम् वाचम् निरुध्य अश्रु-कलाम् शनैः
देवहूतिरुवाच
सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम् ।
अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१ ॥
देवहूतिः उवाच सर्वम् तत् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् अथ अपि मे प्रपन्नायै अभयम् दातुम् अर्हसि
ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्या: पतय: समा: ।
कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२ ॥
ब्रह्मन् दुहितृभिः तुभ्यम् विमृग्याः पतयः समाः कश्चित् स्यात् मे विशोकाय त्वयि प्रव्रजिते वनम्
एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।
इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मन: ॥ ५३ ॥
एतावता अलम् कालेन व्यतिक्रान्तेन मे प्रभो इन्द्रिय-अर्थ प्रसङ्गेन परित्यक्त पर-आत्मनः
इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृत: ।
अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे ॥ ५४ ॥
इन्द्रिय-अर्थेषु सज्जन्त्या प्रसङ्गः त्वयि मे कृतः अजानन्त्या परम् भावम् तथा अपि अस्तु अभयाय मे
सङ्गो य: संसृतेर्हेतुरसत्सु विहितोऽधिया ।
स एव साधुषु कृतो नि:सङ्गत्वाय कल्पते ॥ ५५ ॥
सङ्गः यः संसृतेः हेतुः असत्सु विहितः अधिया सः एव साधुषु कृतः निःसङ्गत्वाय कल्पते
नेह यत्कर्म धर्माय न विरागाय कल्पते ।
न तीर्थपदसेवायै जीवन्नपि मृतो हि स: ॥ ५६ ॥
न इह यत् कर्म धर्माय न विरागाय कल्पते न तीर्थ-पद सेवायै जीवन् अपि मृतः हि सः
साहं भगवतो नूनं वञ्चिता मायया दृढम् ।
यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७ ॥
सा अहम् भगवतः नूनम् वञ्चिता मायया दृढम् यत् त्वाम् विमुक्ति-दम् प्राप्य न मुमुक्षेय बन्धनात्
३.२४
मैत्रेय उवाच
निर्वेदवादिनीमेवं मनोर्दुहितरं मुनि: ।
दयालु: शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥
मैत्रेयः उवाच निर्वेद-वादिनीम् एवम् मनोः दुहितरम् मुनिः दयालुः शालिनीम् आह शुक्ल अभिव्याहृतम् स्मरन्
ऋषिरुवाच
मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते ।
भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते ॥ २ ॥
ऋषिः उवाच मा खिदः राज-पुत्रि इत्थम् आत्मानम् प्रति अनिन्दिते भगवान् ते अक्षरः गर्भम् अदूरात् सम्प्रपत्स्यते
धृतव्रतासि भद्रं ते दमेन नियमेन च ।
तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥
धृत-व्रता असि भद्रम् ते दमेन नियमेन च तपः द्रविण दानैः च श्रद्धया च ईश्वरम् भज
स त्वयाराधित: शुक्लो वितन्वन्मामकंयश: ।
छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावन: ॥ ४ ॥
सः त्वया आराधितः शुक्लः वितन्वन् मामकम् यशः छेत्ता ते हृदय ग्रन्थिम् औदर्यः ब्रह्म भावनः
मैत्रेय उवाच
देवहूत्यपि संदेशं गौरवेण प्रजापते: ।
सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद्गुरुम् ॥ ५ ॥
मैत्रेयः उवाच देवहूती अपि सन्देशम् गौरवेण प्रजापतेः सम्यक् श्रद्धाय पुरुषम् कूट-स्थम् अभजत् गुरुम्
तस्यां बहुतिथे काले भगवान्मधुसूदन: ।
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥
तस्याम् बहु-तिथे काले भगवान् मधु-सूदनः कार्दमम् वीर्यम् आपन्नः जज्ञे अग्निः इव दारुणि
अवादयंस्तदा व्योम्नि वादित्राणि घनाघना: ।
गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥ ७ ॥
अवादयन् तदा व्योम्नि वादित्राणि घनाघनाः गायन्ति तम् स्म गन्धर्वाः नृत्यन्ति अप्सरसः मुदा
पेतु: सुमनसो दिव्या: खेचरैरपवर्जिता: ।
प्रसेदुश्च दिश: सर्वा अम्भांसि च मनांसि च ॥ ८ ॥
पेतुः सुमनसः दिव्याः खे-चरैः अपवर्जिताः प्रसेदुः च दिशः सर्वाः अम्भांसि च मनांसि च
तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् ।
स्वयम्भू: साकमृषिभिर्मरीच्यादिभिरभ्ययात् ॥ ९ ॥
तत् कर्दम आश्रम-पदम् सरस्वत्या परिश्रितम् स्वयम्भूः साकम् ऋषिभिः मरीचि आदिभिः अभ्ययात्
भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।
तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानज: स्वराट् ॥ १० ॥
भगवन्तम् परम् ब्रह्म सत्त्वेन अंशेन शत्रु-हन् तत्त्व-सङ्ख्यान विज्ञप्त्यै जातम् विद्वान् अजः स्व-राट्
सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् ।
प्रहृष्यमाणैरसुभि: कर्दमं चेदमभ्यधात् ॥ ११ ॥
सभाजयन् विशुद्धेन चेतसा तत् चिकीर्षितम् प्रहृष्यमाणैः असुभिः कर्दमम् च इदम् अभ्यधात्
ब्रह्मोवाच
त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकत: ।
यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥
ब्रह्मा उवाच त्वया मे अपचितिः तात कल्पिता निर्व्यलीकतः यत् मे सञ्जगृहे वाक्यम् भवान् मान-द मानयन्
एतावत्येव शुश्रूषा कार्या पितरि पुत्रकै: ।
बाढमित्यनुमन्येत गौरवेण गुरोर्वच: ॥ १३ ॥
एतावती एव शुश्रूषा कार्या पितरि पुत्रकैः बाढम् इति अनुमन्येत गौरवेण गुरोः वचः
इमा दुहितर: सत्यस्तव वत्स सुमध्यमा: ।
सर्गमेतं प्रभावै: स्वैर्बृंहयिष्यन्त्यनेकधा ॥ १४ ॥
इमाः दुहितरः सत्यः तव वत्स सु-मध्यमाः सर्गम् एतम् प्रभावैः स्वैः बृंहयिष्यन्ति अनेक-धा
अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ।
आत्मजा: परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥
अतः त्वम् ऋषि-मुख्येभ्यः यथा-शीलम् यथा-रुचि आत्म-जाः परिदेहि अद्य विस्तृणीहि यशः भुवि
वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया ।
भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥
वेद अहम् आद्यम् पुरुषम् अवतीर्णम् स्व-मायया भूतानाम् शेवधिम् देहम् बिभ्राणम् कपिलम् मुने
ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटा: ।
हिरण्यकेश: पद्माक्ष: पद्ममुद्रापदाम्बुज: ॥ १७ ॥
ज्ञान विज्ञान योगेन कर्मणाम् उद्धरन् जटाः हिरण्य-केशः पद्म-अक्षः पद्म-मुद्रा पद-अम्बुजः
एष मानवि ते गर्भं प्रविष्ट: कैटभार्दन: ।
अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥
एषः मानवि ते गर्भम् प्रविष्टः कैटभ-अर्दनः अविद्या संशय ग्रन्थिम् छित्त्वा गाम् विचरिष्यति
अयं सिद्धगणाधीश: साङ्ख्याचार्यै: सुसम्मत: ।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धन: ॥ १९ ॥
अयम् सिद्ध-गण अधीशः साङ्ख्य-आचार्यैः सु-सम्मतः लोके कपिलः इति आख्याम् गन्ता ते कीर्ति वर्धनः
मैत्रेय उवाच
तावाश्वास्य जगत्स्रष्टा कुमारै: सहनारद: ।
हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥
मैत्रेयः उवाच तौ आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः हंसः हंसेन यानेन त्रि-धाम-परमम् ययौ
गते शतधृतौ क्षत्त: कर्दमस्तेन चोदित: ।
यथोदितं स्वदुहितृ: प्रादाद्विश्वसृजां तत: ॥ २१ ॥
गते शत-धृतौ क्षत्तः कर्दमः तेन चोदितः यथा-उदितम् स्व-दुहितॄः प्रादात् विश्व-सृजाम् ततः
मरीचये कलां प्रादादनसूयामथात्रये ।
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ॥ २२ ॥
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।
ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥
मरीचये कलाम् प्रादात् अनसूयाम् अथ अत्रये श्रद्धाम् अङ्गिरसे अयच्छत् पुलस्त्याय हविर्भुवम् पुलहाय गतिम् युक्ताम् क्रतवे च क्रियाम् सतीम् ख्यातिम् च भृगवे अयच्छत् वसिष्ठाय अपि अरुन्धतीम्
अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ।
विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥
अथर्वणे अददात् शान्तिम् यया यज्ञः वितन्यते विप्र-ऋषभान् कृत-उद्वाहान् स-दारान् समलालयत्
ततस्त ऋषय: क्षत्त कृतदारा निमन्त्र्य तम् ।
प्रातिष्ठन्नन्दिमापन्ना: स्वं स्वमाश्रममण्डलम् ॥ २५ ॥
ततः ते ऋषयः क्षत्तः कृत-दाराः निमन्त्र्य तम् प्रातिष्ठन् नन्दिम् आपन्नाः स्वम् स्वम् आश्रम-मण्डलम्
स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।
विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
सः च अवतीर्णम् त्रि-युगम् आज्ञाय विबुध-ऋषभम् विविक्ते उपसङ्गम्य प्रणम्य समभाषत
अहो पापच्यमानानां निरये स्वैरमङ्गलै: ।
कालेन भूयसा नूनं प्रसीदन्तीह देवता: ॥ २७ ॥
अहो पापच्यमानानाम् निरये स्वैः अमङ्गलैः कालेन भूयसा नूनम् प्रसीदन्ति इह देवताः
बहुजन्मविपक्वेन सम्यग्योगसमाधिना ।
द्रष्टुं यतन्ते यतय: शून्यागारेषु यत्पदम् ॥ २८ ॥
बहु जन्म विपक्वेन सम्यक् योग-समाधिना द्रष्टुम् यतन्ते यतयः शून्य-अगारेषु यत् पदम्
स एव भगवानद्य हेलनं नगणय्य न: ।
गृहेषु जातो ग्राम्याणां य: स्वानां पक्षपोषण: ॥ २९ ॥
सः एव भगवान् अद्य हेलनम् न गणय्य नः गृहेषु जातः ग्राम्याणाम् यः स्वानाम् पक्ष-पोषणः
स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे ।
चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धन: ॥ ३० ॥
स्वीयम् वाक्यम् ऋतम् कर्तुम् अवतीर्णः असि मे गृहे चिकीर्षुः भगवान् ज्ञानम् भक्तानाम् मान वर्धनः
तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।
यानि यानि च रोचन्ते स्वजनानामरूपिण: ॥ ३१ ॥
तानि एव ते अभिरूपाणि रूपाणि भगवन् तव यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः
त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा
सदाभिवादार्हणपादपीठम् ।
ऐश्वर्यवैराग्ययशोऽवबोध-
वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥
त्वाम् सूरिभिः तत्त्व बुभुत्सया अद्धा सदा अभिवाद अर्हण पाद पीठम् ऐश्वर्य वैराग्य यशः अवबोध वीर्य श्रिया पूर्तम् अहम् प्रपद्ये
परं प्रधानं पुरुषं महान्तं
कालं कविं त्रिवृतं लोकपालम् ।
आत्मानुभूत्यानुगतप्रपञ्चं
स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥
परम् प्रधानम् पुरुषम् महान्तम् कालम् कविम् त्रि-वृतम् लोक-पालम् आत्म अनुभूत्य अनुगत प्रपञ्चम् स्व-छन्द शक्तिम् कपिलम् प्रपद्ये
आ स्माभिपृच्छेऽद्य पतिं प्रजानां
त्वयावतीर्णर्ण उताप्तकाम: ।
परिव्रजत्पदवीमास्थितोऽहं
चरिष्ये त्वां हृदि युञ्जन् विशोक: ॥ ३४ ॥
आ स्म अभिपृच्छे अद्य पतिम् प्रजानाम् त्वया अवतीर्ण-ऋणः उत आप्त कामः परिव्रजत् पदवीम् आस्थितः अहम् चरिष्ये त्वाम् हृदि युञ्जन् विशोकः
श्री भगवानुवाच
मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।
अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥
श्री-भगवान् उवाच मया प्रोक्तम् हि लोकस्य प्रमाणम् सत्य लौकिके अथ अजनि मया तुभ्यम् यत् अवोचम् ऋतम् मुने
एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात् ।
प्रसंख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥
एतत् मे जन्म लोके अस्मिन् मुमुक्षूणाम् दुराशयात् प्रसङ्ख्यानाय तत्त्वानाम् सम्मताय आत्म-दर्शने
एष आत्मपथोऽव्यक्तो नष्ट: कालेन भूयसा ।
तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् ॥ ३७ ॥
एषः आत्म-पथः अव्यक्तः नष्टः कालेन भूयसा तम् प्रवर्तयितुम् देहम् इमम् विद्धि मया भृतम्
गच्छ कामं मयापृष्टो मयि संन्यस्तकर्मणा ।
जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज ॥ ३८ ॥
गच्छ कामम् मया आपृष्टः मयि सन्न्यस्त कर्मणा जित्वा सुदुर्जयम् मृत्युम् अमृतत्वाय माम् भज
मामात्मानं स्वयंज्योति: सर्वभूतगुहाशयम् ।
आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥
माम् आत्मानम् स्वयम्-ज्योतिः सर्व-भूत गुहा आशयम् आत्मनि एव आत्मना वीक्ष्य विशोकः अभयम् ऋच्छसि
मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।
वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥
मात्रे आध्यात्मिकीम् विद्याम् शमनीम् सर्व-कर्मणाम् वितरिष्ये यया च असौ भयम् च अतितरिष्यति
मैत्रेय उवाच
एवं समुदितस्तेन कपिलेन प्रजापति: ।
दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥
मैत्रेयः उवाच एवम् समुदितः तेन कपिलेन प्रजापतिः दक्षिणी-कृत्य तम् प्रीतः वनम् एव जगाम ह
व्रतं स आस्थितो मौनमात्मैकशरणो मुनि: ।
नि:सङ्गो व्यचरत्क्षोणीमनग्निरनिकेतन: ॥ ४२ ॥
व्रतम् सः आस्थितः मौनम् आत्म एक शरणः मुनिः निःसङ्गः व्यचरत् क्षोणीम् अनग्निः अनिकेतनः
मनो ब्रह्मणि युञ्जानो यत्तत्सदसत: परम् ।
गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥
मनः ब्रह्मणि युञ्जानः यत् तत् सत्-असतः परम् गुण-अवभासे विगुणे एक-भक्त्या अनुभाविते
निरहंकृतिर्निर्ममश्च निर्द्वन्द्व: समदृक् स्वदृक् ।
प्रत्यक्प्रशान्तधीर्धीर: प्रशान्तोर्मिरिवोदधि: ॥ ४४ ॥
निरहङ्कृतिः निर्ममः च निर्द्वन्द्वः सम-दृक् स्व-दृक् प्रत्यक् प्रशान्त धीः धीरः प्रशान्त ऊर्मिः इव उदधिः
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धन: ॥ ४५ ॥
वासुदेवे भगवति सर्व-ज्ञे प्रत्यक्-आत्मनि परेण भक्ति-भावेन लब्ध-आत्मा मुक्त-बन्धनः
आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥
आत्मानम् सर्व-भूतेषु भगवन्तम् अवस्थितम् अपश्यत् सर्व-भूतानि भगवति अपि च आत्मनि
इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ।
भगवद्भक्तियुक्तेन प्राप्ता भागवती गति: ॥ ४७ ॥
इच्छा द्वेष विहीनेन सर्वत्र सम चेतसा भगवत् भक्ति-युक्तेन प्राप्ता भागवती गतिः
३.२५
शौनक उवाच
कपिलस्तत्त्वसंख्याता भगवानात्ममायया ।
जात: स्वयमज: साक्षादात्मप्रज्ञप्तये नृणाम् ॥ १ ॥
शौनकः उवाच कपिलः तत्त्व सङ्ख्याता भगवान् आत्म-मायया जातः स्वयम् अजः साक्षात् आत्म-प्रज्ञप्तये नृणाम्
न ह्यस्य वर्ष्मण: पुंसां वरिम्ण: सर्वयोगिनाम् ।
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसव: ॥ २ ॥
न हि अस्य वर्ष्मणः पुंसाम् वरिम्णः सर्व योगिनाम् विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मे असवः
यद्यद्विधत्ते भगवान् स्वच्छन्दात्मात्ममायया ।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥
यत् यत् विधत्ते भगवान् स्व-छन्द-आत्मा आत्म-मायया तानि मे श्रद्दधानस्य कीर्तन्यानि अनुकीर्तय
सूत उवाच
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदित: ॥ ४ ॥
सूतः उवाच द्वैपायन-सखः तु एवम् मैत्रेयः भगवान् तथा प्राह इदम् विदुरम् प्रीतः आन्वीक्षिक्याम् प्रचोदितः
मैत्रेय उवाच
पितरि प्रस्थितेऽरण्यं मातु: प्रियचिकीर्षया ।
तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिल: किल ॥ ५ ॥
मैत्रेयः उवाच पितरि प्रस्थिते अरण्यम् मातुः प्रिय-चिकीर्षया तस्मिन् बिन्दुसरे अवात्सीत् भगवान् कपिलः किल
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।
स्वसुतं देवहूत्याह धातु: संस्मरती वच: ॥ ६ ॥
तम् आसीनम् अकर्माणम् तत्त्व मार्ग-अग्र दर्शनम् स्व-सुतम् देवहूतिः आह धातुः संस्मरती वचः
देवहूतिरुवाच
निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् ।
येन सम्भाव्यमानेन प्रपन्नान्धं तम: प्रभो ॥ ७ ॥
देवहूतिः उवाच निर्विण्णा नितराम् भूमन् असत् इन्द्रिय तर्षणात् येन सम्भाव्यमानेन प्रपन्ना अन्धम् तमः प्रभो
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥
तस्य त्वम् तमसः अन्धस्य दुष्पारस्य अद्य पार-गम् सत् चक्षुः जन्मनाम् अन्ते लब्धम् मे त्वत्-अनुग्रहात्
य आद्यो भगवान् पुंसामीश्वरो वै भवान् किल ।
लोकस्य तमसान्धस्य चक्षु: सूर्य इवोदित: ॥ ९ ॥
यः आद्यः भगवान् पुंसाम् ईश्वरः वै भवान् किल लोकस्य तमसा अन्धस्य चक्षुः सूर्यः इव उदितः
अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि ।
योऽवग्रहोऽहंममेतीत्येतस्मिन् योजितस्त्वया ॥ १० ॥
अथ मे देव सम्मोहम् अपाक्रष्टुम् त्वम् अर्हसि यः अवग्रहः अहम् मम इति इति एतस्मिन् योजितः त्वया
तं त्वा गताहं शरणं शरण्यं
स्वभृत्यसंसारतरो: कुठारम् ।
जिज्ञासयाहं प्रकृते: पूरुषस्य
नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥
तम् त्वा गता अहम् शरणम् शरण्यम् स्व-भृत्य संसार तरोः कुठारम् जिज्ञासया अहम् प्रकृतेः पूरुषस्य नमामि सत्-धर्म विदाम् वरिष्ठम्
मैत्रेय उवाच
इति स्वमातुर्निरवद्यमीप्सितं
निशम्य पुंसामपवर्गवर्धनम् ।
धियाभिनन्द्यात्मवतां सतां गति-
र्बभाष ईषत्स्मितशोभितानन: ॥ १२ ॥
मैत्रेयः उवाच इति स्व-मातुः निरवद्यम् ईप्सितम् निशम्य पुंसाम् अपवर्ग वर्धनम् धिया अभिनन्द्य आत्म-वताम् सताम् गतिः बभाषे ईषत् स्मित शोभित आननः
श्रीभगवानुवाच
योग आध्यात्मिक: पुंसां मतो नि:श्रेयसाय मे ।
अत्यन्तोपरतिर्यत्र दु:खस्य च सुखस्य च ॥ १३ ॥
श्री-भगवान् उवाच योगः आध्यात्मिकः पुंसाम् मतः निःश्रेयसाय मे अत्यन्त उपरतिः यत्र दुःखस्य च सुखस्य च
तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे ।
ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥
तम् इमम् ते प्रवक्ष्यामि यम् अवोचम् पुरा अनघे ऋषीणाम् श्रोतु-कामानाम् योगम् सर्व-अङ्ग नैपुणम्
चेत: खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥
चेतः खलु अस्य बन्धाय मुक्तये च आत्मनः मतम् गुणेषु सक्तम् बन्धाय रतम् वा पुंसि मुक्तये
अहंममाभिमानोत्थै: कामलोभादिभिर्मलै: ।
वीतं यदा मन: शुद्धमदु:खमसुखं समम् ॥ १६ ॥
अहम् मम अभिमान उत्थैः काम लोभ आदिभिः मलैः वीतम् यदा मनः शुद्धम् अदुःखम् असुखम् समम्
तदा पुरुष आत्मानं केवलं प्रकृते: परम् ।
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम् ॥ १७ ॥
तदा पुरुषः आत्मानम् केवलम् प्रकृतेः परम् निरन्तरम् स्वयम्-ज्योतिः अणिमानम् अखण्डितम्
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।
परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥
ज्ञान वैराग्य युक्तेन भक्ति युक्तेन च आत्मना परिपश्यति उदासीनम् प्रकृतिम् च हत-ओजसम्
न युज्यमानया भक्त्या भगवत्यखिलात्मनि ।
सदृशोऽस्ति शिव: पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥
न युज्यमानया भक्त्या भगवति अखिल-आत्मनि सदृशः अस्ति शिवः पन्थाः योगिनाम् ब्रह्म-सिद्धये
प्रसङ्गमजरं पाशमात्मन: कवयो विदु: ।
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥ २० ॥
प्रसङ्गम् अजरम् पाशम् आत्मनः कवयः विदुः सः एव साधुषु कृतः मोक्ष-द्वारम् अपावृतम्
तितिक्षव: कारुणिका: सुहृद: सर्वदेहिनाम् ।
अजातशत्रव: शान्ता: साधव: साधुभूषणा: ॥ २१ ॥
तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवा: ॥ २२ ॥
मयि अनन्येन भावेन भक्तिम् कुर्वन्ति ये दृढाम् मत्-कृते त्यक्त कर्माणः त्यक्त स्व-जन बान्धवाः
मदाश्रया: कथा मृष्टा:शृण्वन्ति कथयन्ति च ।
तपन्ति विविधास्तापा नैतान्मद्गतचेतस: ॥ २३ ॥
मत्-आश्रयाः कथाः मृष्टाः शृण्वन्ति कथयन्ति च तपन्ति विविधाः तापाः न एतान् मत्-गत चेतसः
त एते साधव: साध्वि सर्वसङ्गविवर्जिता: ।
सङ्गस्तेष्वथ ते प्रार्थ्य: सङ्गदोषहरा हि ते ॥ २४ ॥
ते एते साधवः साध्वि सर्व सङ्ग विवर्जिताः सङ्गः तेषु अथ ते प्रार्थ्यः सङ्ग-दोष हराः हि ते
सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायना: कथा: ।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥
सताम् प्रसङ्गात् मम वीर्य संविदः भवन्ति हृत् कर्ण रस-अयनाः कथाः तत् जोषणात् आशु अपवर्ग वर्त्मनि श्रद्धा रतिः भक्तिः अनुक्रमिष्यति
भक्त्या पुमाञ्जातविराग ऐन्द्रियाद्
दृष्टश्रुतान्मद्रचनानुचिन्तया ।
चित्तस्य यत्तो ग्रहणे योगयुक्तो
यतिष्यते ऋजुभिर्योगमार्गै: ॥ २६ ॥
भक्त्या पुमान् जात-विरागः ऐन्द्रियात् दृष्ट श्रुतात् मत्-रचन अनुचिन्तया चित्तस्य यत्तः ग्रहणे योग-युक्तः यतिष्यते ऋजुभिः योग-मार्गैः
असेवयायं प्रकृतेर्गुणानां
ज्ञानेन वैराग्यविजृम्भितेन ।
योगेन मय्यर्पितया च भक्त्या
मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥
असेवया अयम् प्रकृतेः गुणानाम् ज्ञानेन वैराग्य विजृम्भितेन योगेन मयि अर्पितया च भक्त्या माम् प्रत्यक्-आत्मानम् इह अवरुन्धे
देवहूतिरुवाच
काचित्त्वय्युचिता भक्ति: कीदृशी मम गोचरा ।
यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम् ॥ २८ ॥
देवहूतिः उवाच काचित् त्वयि उचिता भक्तिः कीदृशी मम गो-चरा यया पदम् ते निर्वाणम् अञ्जसा अन्वाश्नवै अहम्
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदित: ।
कीदृश: कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥
यः योगः भगवत्-बाणः निर्वाण-आत्मन् त्वया उदितः कीदृशः कति च अङ्गानि यतः तत्त्व अवबोधनम्
तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।
सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥
तत् एतत् मे विजानीहि यथा अहम् मन्द धीः हरे सुखम् बुद्ध्येय दुर्बोधम् योषा भवत्-अनुग्रहात्
मैत्रेय उवाच
विदित्वार्थं कपिलो मातुरित्थं
जातस्नेहो यत्र तन्वाभिजात: ।
तत्त्वाम्नायं यत्प्रवदन्ति सांख्यं
प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥
मैत्रेयः उवाच विदित्वा अर्थम् कपिलः मातुः इत्थम् जात-स्नेहः यत्र तन्वा अभिजातः तत्त्व-आम्नायम् यत् प्रवदन्ति साङ्ख्यम् प्रोवाच वै भक्ति वितान योगम्
श्रीभगवानुवाच
देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।
सत्त्व एवैकमनसो वृत्ति: स्वाभाविकी तु या ।
अनिमित्ता भागवती भक्ति: सिद्धेर्गरीयसी ॥ ३२ ॥
श्री-भगवान् उवाच देवानाम् गुण-लिङ्गानाम् आनुश्रविक कर्मणाम् सत्त्वे एव एक-मनसः वृत्तिः स्वाभाविकी तु या अनिमित्ता भागवती भक्तिः सिद्धेः गरीयसी
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥
जरयति आशु या कोशम् निगीर्णम् अनलः यथा
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्पादसेवाभिरता मदीहा: ।
येऽन्योन्यतो भागवता: प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥
न एक-आत्मताम् मे स्पृहयन्ति केचित् मत्-पाद-सेवा अभिरताः मत्-ईहाः ये अन्योन्यतः भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि
पश्यन्ति ते मे रुचिराण्यम्ब सन्त:
प्रसन्नवक्त्रारुणलोचनानि ।
रूपाणि दिव्यानि वरप्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥
पश्यन्ति ते मे रुचिराणि अम्ब सन्तः प्रसन्न वक्त्र अरुण लोचनानि रूपाणि दिव्यानि वर-प्रदानि साकम् वाचम् स्पृहणीयाम् वदन्ति
तैर्दर्शनीयावयवैरुदार-
विलासहासेक्षितवामसूक्तै: ।
हृतात्मनो हृतप्राणांश्च भक्ति-
रनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६ ॥
तैः दर्शनीय अवयवैः उदार विलास हास ईक्षित वाम सूक्तैः हृत आत्मनः हृत प्राणान् च भक्तिः अनिच्छतः मे गतिम् अण्वीम् प्रयुङ्क्ते
अथो विभूतिं मम मायाविनस्ता-
मैश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥
अथो विभूतिम् मम मायाविनः ताम् ऐश्वर्यम् अष्ट-अङ्गम् अनुप्रवृत्तम् श्रियम् भागवतीम् वा अस्पृहयन्ति भद्राम् परस्य मे ते अश्नुवते तु लोके
न कर्हिचिन्मत्परा: शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेति: ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरु: सुहृदो दैवमिष्टम् ॥ ३८ ॥
न कर्हिचित् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे अनिमिषः लेढि हेतिः येषाम् अहम् प्रियः आत्मा सुतः च सखा गुरुः सुहृदः दैवम् इष्टम्
इमं लोकं तथैवामुमात्मानमुभयायिनम् ।
आत्मानमनु ये चेह ये राय: पशवो गृहा: ॥ ३९ ॥
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् ।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥
इमम् लोकम् तथा एव अमुम् आत्मानम् उभय अयिनम् आत्मानम् अनु ये च इह ये रायः पशवः गृहाः विसृज्य सर्वान् अन्यान् च माम् एवम् विश्वतः-मुखम् भजन्ति अनन्यया भक्त्या तान् मृत्योः अतिपारये
नान्यत्र मद्भगवत: प्रधानपुरुषेश्वरात् ।
आत्मन: सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥
न अन्यत्र मत् भगवतः प्रधान-पुरुष-ईश्वरात् आत्मनः सर्व-भूतानाम् भयम् तीव्रम् निवर्तते
मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात् ।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥ ४२ ॥
मत्-भयात् वाति वातः अयम् सूर्यः तपति मत्-भयात् वर्षति इन्द्रः दहति अग्निः मृत्युः चरति मत्-भयात्
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिन: ।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ॥ ४३ ॥
ज्ञान वैराग्य युक्तेन भक्ति-योगेन योगिनः क्षेमाय पाद-मूलम् मे प्रविशन्ति अकुतः-भयम्
एतावानेव लोकेऽस्मिन् पुंसां नि:श्रेयसोदय: ।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥
एतावान् एव लोके अस्मिन् पुंसाम् निःश्रेयस उदयः तीव्रेण भक्ति-योगेन मनः मयि अर्पितम् स्थिरम्
३.२६
श्रीभगवानुवाच
अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।
यद्विदित्वा विमुच्येत पुरुष: प्राकृतैर्गुणै: ॥ १ ॥
श्री-भगवान् उवाच अथ ते सम्प्रवक्ष्यामि तत्त्वानाम् लक्षणम् पृथक् यत् विदित्वा विमुच्येत पुरुषः प्राकृतैः गुणैः
ज्ञानं नि:श्रेयसार्थाय पुरुषस्यात्मदर्शनम् ।
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २ ॥
ज्ञानम् निःश्रेयस-अर्थाय पुरुषस्य आत्म-दर्शनम् यत् आहुः वर्णये तत् ते हृदय ग्रन्थि भेदनम्
अनादिरात्मा पुरुषो निर्गुण: प्रकृते: पर: ।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥ ३ ॥
अनादिः आत्मा पुरुषः निर्गुणः प्रकृतेः परः प्रत्यक्-धामा स्वयम्-ज्योतिः विश्वम् येन समन्वितम्
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभु: ।
यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ४ ॥
सः एषः प्रकृतिम् सूक्ष्माम् दैवीम् गुण-मयीम् विभुः यदृच्छया इव उपगताम् अभ्यपद्यत लीलया
गुणैर्विचित्रा: सृजतीं सरूपा: प्रकृतिं प्रजा: ।
विलोक्य मुमुहे सद्य: स इह ज्ञानगूहया ॥ ५ ॥
गुणैः विचित्राः सृजतीम् स-रूपाः प्रकृतिम् प्रजाः विलोक्य मुमुहे सद्यः सः इह ज्ञान-गूहया
एवं पराभिध्यानेन कर्तृत्वं प्रकृते: पुमान् ।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥
एवम् पर अभिध्यानेन कर्तृत्वम् प्रकृतेः पुमान् कर्मसु क्रियमाणेषु गुणैः आत्मनि मन्यते
तदस्य संसृतिर्बन्ध: पारतन्त्र्यं च तत्कृतम् ।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मन: ॥ ७ ॥
तत् अस्य संसृतिः बन्धः पार-तन्त्र्यम् च तत्-कृतम् भवति अकर्तुः ईशस्य साक्षिणः निर्वृत-आत्मनः
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदु: ।
भोक्तृत्वे सुखदु:खानां पुरुषं प्रकृते: परम् ॥ ८ ॥
कार्य कारण कर्तृत्वे कारणम् प्रकृतिम् विदुः भोक्तृत्वे सुख दुःखानाम् पुरुषम् प्रकृतेः परम्
देवहूतिरुवाच
प्रकृते: पुरुषस्यापि लक्षणं पुरुषोत्तम ।
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९ ॥
देवहूतिः उवाच प्रकृतेः पुरुषस्य अपि लक्षणम् पुरुष-उत्तम ब्रूहि कारणयोः अस्य सत्-असत् च यत्-आत्मकम्
श्रीभगवानुवाच
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १० ॥
श्री-भगवान् उवाच यत् तत् त्रि-गुणम् अव्यक्तम् नित्यम् सत्-असत्-आत्मकम् प्रधानम् प्रकृतिम् प्राहुः अविशेषम् विशेष-वत्
पञ्चभि: पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदु: ॥ ११ ॥
पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिः दशभिः तथा एतत् चतुः-विंशतिकम् गणम् प्राधानिकम् विदुः
महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभ: ।
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२ ॥
महा-भूतानि पञ्च एव भूः आपः अग्निः मरुत् नभः तत्-मात्राणि च तावन्ति गन्ध-आदीनि मतानि मे
इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिका: ।
वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३ ॥
इन्द्रियाणि दश श्रोत्रम् त्वक् दृक् रसन नासिकाः वाक् करौ चरणौ मेढ्रम् पायुः दशमः उच्यते
मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४ ॥
मनः बुद्धिः अहङ्कारः चित्तम् इति अन्तः-आत्मकम् चतुः-धा लक्ष्यते भेदः वृत्त्या लक्षण-रूपया
एतावानेव सङ्ख्यातो ब्रह्मण: सगुणस्य ह ।
सन्निवेशो मया प्रोक्तो य: काल: पञ्चविंशक: ॥ १५ ॥
एतावान् एव सङ्ख्यातः ब्रह्मणः स-गुणस्य ह सन्निवेशः मया प्रोक्तः यः कालः पञ्च-विंशकः
प्रभावं पौरुषं प्राहु: कालमेके यतो भयम् ।
अहङ्कारविमूढस्य कर्तु: प्रकृतिमीयुष: ॥ १६ ॥
प्रभावम् पौरुषम् प्राहुः कालम् एके यतः भयम् अहङ्कार-विमूढस्य कर्तुः प्रकृतिम् ईयुषः
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।
चेष्टा यत: स भगवान्काल इत्युपलक्षित: ॥ १७ ॥
प्रकृतेः गुण-साम्यस्य निर्विशेषस्य मानवि चेष्टा यतः सः भगवान् कालः इति उपलक्षितः
अन्त: पुरुषरूपेण कालरूपेण यो बहि: ।
समन्वेत्येष सत्त्वानां भगवानात्ममायया ॥ १८ ॥
अन्तः पुरुष-रूपेण काल-रूपेण यः बहिः समन्वेति एषः सत्त्वानाम् भगवान् आत्म-मायया
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ पर: पुमान् ।
आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९ ॥
दैवात् क्षुभित धर्मिण्याम् स्वस्याम् योनौ परः पुमान् आधत्त वीर्यम् सा असूत महत्-तत्त्वम् हिरण्मयम्
विश्वमात्मगतं व्यञ्जन्कूटस्थो जगदङ्कुर: ।
स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तम: ॥ २० ॥
विश्वम् आत्म-गतम् व्यञ्जन् कूट-स्थः जगत्-अङ्कुरः स्व-तेजसा अपिबत् तीव्रम् आत्म-प्रस्वापनम् तमः
यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवत: पदम् ।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१ ॥
यत् तत् सत्त्व-गुणम् स्वच्छम् शान्तम् भगवतः पदम् यत् आहुः वासुदेव-आख्यम् चित्तम् तत् महत्-आत्मकम्
स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतस: ।
वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृति: परा ॥ २२ ॥
स्वच्छत्वम् अविकारित्वम् शान्तत्वम् इति चेतसः वृत्तिभिः लक्षणम् प्रोक्तम् यथा अपाम् प्रकृतिः परा
महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् ।
क्रियाशक्तिरहङ्कारस्त्रिविध: समपद्यत ॥ २३ ॥
वैकारिकस्तैजसश्च तामसश्च यतो भव: ।
मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥
महत्-तत्त्वात् विकुर्वाणात् भगवत्-वीर्य-सम्भवात् क्रिया-शक्तिः अहङ्कारः त्रि-विधः समपद्यत वैकारिकः तैजसः च तामसः च यतः भवः मनसः च इन्द्रियाणाम् च भूतानाम् महताम् अपि
सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५ ॥
सहस्र-शिरसम् साक्षात् यम् अनन्तम् प्रचक्षते सङ्कर्षण-आख्यम् पुरुषम् भूत इन्द्रिय मनः-मयम्
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।
शान्तघोरविमूढत्वमिति वा स्यादहङ्कृते: ॥ २६ ॥
कर्तृत्वम् करणत्वम् च कार्यत्वम् च इति लक्षणम् शान्त घोर विमूढत्वम् इति वा स्यात् अहङ्कृतेः
वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ।
यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भव: ॥ २७ ॥
वैकारिकात् विकुर्वाणात् मनः तत्त्वम् अजायत यत् सङ्कल्प विकल्पाभ्याम् वर्तते काम-सम्भवः
यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् ।
शारदेन्दीवरश्यामं संराध्यं योगिभि: शनै: ॥ २८ ॥
यत् विदुः हि अनिरुद्ध-आख्यम् हृषीकाणाम् अधीश्वरम् शारद इन्दीवर श्यामम् संराध्यम् योगिभिः शनैः
तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति ।
द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रह: ॥ २९ ॥
तैजसात् तु विकुर्वाणात् बुद्धि तत्त्वम् अभूत् सति द्रव्य स्फुरण विज्ञानम् इन्द्रियाणाम् अनुग्रहः
संशयोऽथ विपर्यासो निश्चय: स्मृतिरेव च ।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तित: पृथक् ॥ ३० ॥
संशयः अथ विपर्यासः निश्चयः स्मृतिः एव च स्वापः इति उच्यते बुद्धेः लक्षणम् वृत्तितः पृथक्
तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागश: ।
प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३१ ॥
तैजसानि इन्द्रियाणि एव क्रिया ज्ञान विभागशः प्राणस्य हि क्रिया-शक्तिः बुद्धेः विज्ञान-शक्तिता
तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् ।
शब्दमात्रमभूत्तस्मान्नभ: श्रोत्रं तु शब्दगम् ॥ ३२ ॥
तामसात् च विकुर्वाणात् भगवत्-वीर्य चोदितात् शब्द-मात्रम् अभूत् तस्मात् नभः श्रोत्रम् तु शब्द-गम्
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।
तन्मात्रत्वं च नभसो लक्षणं कवयो विदु: ॥ ३३ ॥
अर्थ-आश्रयत्वम् शब्दस्य द्रष्टुः लिङ्गत्वम् एव च तत्-मात्रत्वम् च नभसः लक्षणम् कवयः विदुः
भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।
प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४ ॥
भूतानाम् छिद्र-दातृत्वम् बहिः अन्तरम् एव च प्राण इन्द्रिय आत्म धिष्ण्यत्वम् नभसः वृत्ति लक्षणम्
नभस: शब्दतन्मात्रात्कालगत्या विकुर्वत: ।
स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च संग्रह: ॥ ३५ ॥
नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः स्पर्शः अभवत् ततः वायुः त्वक् स्पर्शस्य च सङ्ग्रहः
मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ।
एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वत: ॥ ३६ ॥
मृदुत्वम् कठिनत्वम् च शैत्यम् उष्णत्वम् एव च एतत् स्पर्शस्य स्पर्शत्वम् तत्-मात्रत्वम् नभस्वतः
चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयो: ।
सर्वेन्द्रियाणामात्मत्वं वायो: कर्माभिलक्षणम् ॥ ३७ ॥
चालनम् व्यूहनम् प्राप्तिः नेतृत्वम् द्रव्य-शब्दयोः सर्व-इन्द्रियाणाम् आत्मत्वम् वायोः कर्म अभिलक्षणम्
वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् ।
समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् ॥ ३८ ॥
वायोः च स्पर्श-तन्मात्रात् रूपम् दैव-ईरितात् अभूत् समुत्थितम् ततः तेजः चक्षुः रूप उपलम्भनम्
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।
तेजस्त्वं तेजस: साध्वि रूपमात्रस्य वृत्तय: ॥ ३९ ॥
द्रव्य आकृतित्वम् गुणता व्यक्ति-संस्थात्वम् एव च तेजस्त्वम् तेजसः साध्वि रूप-मात्रस्य वृत्तयः
द्योतनं पचनं पानमदनं हिममर्दनम् ।
तेजसो वृत्तयस्त्वेता: शोषणं क्षुत्तृडेव च ॥ ४० ॥
द्योतनम् पचनम् पानम् अदनम् हिम-मर्दनम् तेजसः वृत्तयः तु एताः शोषणम् क्षुत् तृट् एव च
रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् ।
रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रह: ॥ ४१ ॥
रूप-मात्रात् विकुर्वाणात् तेजसः दैव-चोदितात् रस-मात्रम् अभूत् तस्मात् अम्भः जिह्वा रस-ग्रहः
कषायो मधुरस्तिक्त: कट्वम्ल इति नैकधा ।
भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥
कषायः मधुरः तिक्तः कटु अम्लः इति न-एकधा भौतिकानाम् विकारेण रसः एकः विभिद्यते
क्लेदनं पिण्डनं तृप्ति: प्राणनाप्यायनोन्दनम् ।
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमा: ॥ ४३ ॥
क्लेदनम् पिण्डनम् तृप्तिः प्राणन आप्यायन उन्दनम् ताप अपनोदः भूयस्त्वम् अम्भसः वृत्तयः तु इमाः
रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात् ।
गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धग: ॥ ४४ ॥
रस-मात्रात् विकुर्वाणात् अम्भसः दैव-चोदितात् गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणः तु गन्ध-गः
करम्भपूतिसौरभ्यशान्तोग्राम्लादिभि: पृथक् ।
द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते ॥ ४५ ॥
करम्भ पूति सौरभ्य शान्त उग्र अम्ल आदिभिः पृथक् द्रव्य अवयव वैषम्यात् गन्धः एकः विभिद्यते
भावनं ब्रह्मण: स्थानं धारणं सद्विशेषणम् ।
सर्वसत्त्वगुणोद्भेद: पृथिवीवृत्तिलक्षणम् ॥ ४६ ॥
भावनम् ब्रह्मणः स्थानम् धारणम् सत्-विशेषणम् सर्व सत्त्व गुण उद्भेदः पृथिवी वृत्ति लक्षणम्
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।
वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदु: ॥ ४७ ॥
नभः-गुण-विशेषः अर्थः यस्य तत् श्रोत्रम् उच्यते वायोः गुण-विशेषः अर्थः यस्य तत् स्पर्शनम् विदुः
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।
अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदु: ।
भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८ ॥
तेजः-गुण-विशेषः अर्थः यस्य तत् चक्षुः उच्यते अम्भः-गुण-विशेषः अर्थः यस्य तत् रसनम् विदुः भूमेः गुण-विशेषः अर्थः यस्य सः घ्राणः उच्यते
परस्य दृश्यते धर्मो ह्यपरस्मिन्समन्वयात् ।
अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९ ॥
परस्य दृश्यते धर्मः हि अपरस्मिन् समन्वयात् अतः विशेषः भावानाम् भूमौ एव उपलक्ष्यते
एतान्यसंहत्य यदा महदादीनि सप्त वै ।
कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५० ॥
एतानि असंहत्य यदा महत्-आदीनि सप्त वै काल कर्म गुण उपेतः जगत्-आदिः उपाविशत्
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् ।
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५१ ॥
ततः तेन अनुविद्धेभ्यः युक्तेभ्यः अण्डम् अचेतनम् उत्थितम् पुरुषः यस्मात् उदतिष्ठत् असौ विराट्
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरै: ।
तोयादिभि: परिवृतं प्रधानेनावृतैर्बहि: ।
यत्र लोकवितानोऽयं रूपं भगवतो हरे: ॥ ५२ ॥
एतत् अण्डम् विशेष-आख्यम् क्रम वृद्धैः दश उत्तरैः तोय-आदिभिः परिवृतम् प्रधानेन आवृतैः बहिः यत्र लोक-वितानः अयम् रूपम् भगवतः हरेः
हिरण्मयादण्डकोशादुत्थाय सलिलेशयात् ।
तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३ ॥
हिरण्मयात् अण्ड-कोशात् उत्थाय सलिले शयात् तम् आविश्य महा-देवः बहुधा निर्बिभेद खम्
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।
वाण्या वह्निरथो नासे प्राणोतो घ्राण एतयो: ॥ ५४ ॥
निरभिद्यत अस्य प्रथमम् मुखम् वाणी ततः अभवत् वाण्या वह्निः अथः नासे प्राण उतः घ्राणः एतयोः
घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयो: ।
तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिश: ॥ ५५ ॥
घ्राणात् वायुः अभिद्येताम् अक्षिणी चक्षुः एतयोः तस्मात् सूर्यः न्यभिद्येताम् कर्णौ श्रोत्रम् ततः दिशः
निर्बिभेद विराजस्त्वग्रोमश्मश्रवादयस्तत: ।
तत ओषधयश्चासन् शिश्नं निर्बिभिदे तत: ॥ ५६ ॥
निर्बिभेद विराजः त्वक् रोम श्मश्रु आदयः ततः ततः ओषधयः च आसन् शिश्नम् निर्बिभिदे ततः
रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम् ।
गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्कर: ॥ ५७ ॥
रेतः तस्मात् आपः आसन् निरभिद्यत वै गुदम् गुदात् अपानः अपानात् च मृत्युः लोक-भयम्-करः
हस्तौ च निरभिद्येतां बलं ताभ्यां तत: स्वराट् ।
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरि: ॥ ५८ ॥
हस्तौ च निरभिद्येताम् बलम् ताभ्याम् ततः स्वराट् पादौ च निरभिद्येताम् गतिः ताभ्याम् ततः हरिः
नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् ।
नद्यस्तत: समभवन्नुदरं निरभिद्यत ॥ ५९ ॥
नाड्यः अस्य निरभिद्यन्त ताभ्यः लोहितम् आभृतम् नद्यः ततः समभवन् उदरम् निरभिद्यत
क्षुत्पिपासे तत: स्यातां समुद्रस्त्वेतयोरभूत् ।
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६० ॥
क्षुत्-पिपासे ततः स्याताम् समुद्रः तु एतयोः अभूत् अथ अस्य हृदयम् भिन्नम् हृदयात् मनः उत्थितम्
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पति: ।
अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥ ६१ ॥
मनसः चन्द्रमाः जातः बुद्धिः बुद्धेः गिराम् पतिः अहङ्कारः ततः रुद्रः चित्तम् चैत्यः ततः अभवत्
एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् ।
पुनराविविशु: खानि तमुत्थापयितुं क्रमात् ॥ ६२ ॥
एते हि अभ्युत्थिताः देवाः न एव अस्य उत्थापने अशकन् पुनः आविविशुः खानि तम् उत्थापयितुम् क्रमात्
वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् ।
घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ॥ ६३ ॥
वह्निः वाचा मुखम् भेजे न उदतिष्ठत् तदा विराट् घ्राणेन नासिके वायुः न उदतिष्ठत् तदा विराट्
अक्षिणी चक्षुषादित्यो नोदतिष्ठत्तदा विराट् ।
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् ॥ ६४ ॥
अक्षिणी चक्षुषा आदित्यः न उदतिष्ठत् तदा विराट् श्रोत्रेण कर्णौ च दिशः न उदतिष्ठत् तदा विराट्
त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट् ।
रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट् ॥ ६५ ॥
त्वचम् रोमभिः ओषध्यः न उदतिष्ठत् तदा विराट् रेतसा शिश्नम् आपः तु न उदतिष्ठत् तदा विराट्
गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् ।
हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् ॥ ६६ ॥
गुदम् मृत्युः अपानेन न उदतिष्ठत् तदा विराट् हस्तौ इन्द्रः बलेन एव न उदतिष्ठत् तदा विराट्
विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् ।
नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् ॥ ६७ ॥
विष्णुः गत्या एव चरणौ न उदतिष्ठत् तदा विराट् नाडीः नद्यः लोहितेन न उदतिष्ठत् तदा विराट्
क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट् ।
हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट् ॥ ६८ ॥
क्षुत्-तृड्भ्याम् उदरम् सिन्धुः न उदतिष्ठत् तदा विराट् हृदयम् मनसा चन्द्रः न उदतिष्ठत् तदा विराट्
बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट् ।
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट् ॥ ६९ ॥
बुद्ध्या ब्रह्मा अपि हृदयम् न उदतिष्ठत् तदा विराट् रुद्रः अभिमत्या हृदयम् न उदतिष्ठत् तदा विराट्
चित्तेन हृदयं चैत्य: क्षेत्रज्ञ: प्राविशद्यदा ।
विराट् तदैव पुरुष: सलिलादुदतिष्ठत ॥ ७० ॥
चित्तेन हृदयम् चैत्यः क्षेत्र-ज्ञः प्राविशत् यदा विराट् तदा एव पुरुषः सलिलात् उदतिष्ठत
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधिय: ।
प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१ ॥
यथा प्रसुप्तम् पुरुषम् प्राण इन्द्रिय मनः धियः प्रभवन्ति विना येन न उत्थापयितुम् ओजसा
तमस्मिन्प्रत्यगात्मानं धिया योगप्रवृत्तया ।
भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२ ॥
तम् अस्मिन् प्रत्यक्-आत्मानम् धिया योग-प्रवृत्तया भक्त्या विरक्त्या ज्ञानेन विविच्य आत्मनि चिन्तयेत्
३.२७
श्रीभगवानुवाच
प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणै: ।
अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् ॥ १ ॥
श्री-भगवान् उवाच प्रकृति-स्थः अपि पुरुषः न अज्यते प्राकृतैः गुणैः अविकारात् अकर्तृत्वात् निर्गुणत्वात् जल अर्कवत्
स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते ।
अहंक्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते ॥ २ ॥
सः एषः यर्हि प्रकृतेः गुणेषु अभिविषज्जते अहङ्क्रिया विमूढ आत्मा कर्ता अस्मि इति अभिमन्यते
तेन संसारपदवीमवशोऽभ्येत्यनिर्वृत: ।
प्रासङ्गिकै: कर्मदोषै: सदसन्मिश्रयोनिषु ॥ ३ ॥
तेन संसार पदवीम् अवशः अभ्येति अनिर्वृतः प्रासङ्गिकैः कर्म-दोषैः सत् असत् मिश्र योनिषु
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥
अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा
अत एव शनैश्चित्तं प्रसक्तमसतां पथि ।
भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५ ॥
अतः एव शनैः चित्तम् प्रसक्तम् असताम् पथि भक्ति-योगेन तीव्रेण विरक्त्या च नयेत् वशम्
यमादिभिर्योगपथैरभ्यसन्श्रद्धयान्वित: ।
मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६ ॥
यम-आदिभिः योग-पथैः अभ्यसन् श्रद्धया अन्वितः मयि भावेन सत्येन मत्-कथा श्रवणेन च
सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गत: ।
ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥
सर्व भूत समत्वेन निर्वैरेण अप्रसङ्गतः ब्रह्म-चर्येण मौनेन स्व-धर्मेण बलीयसा
यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनि: ।
विविक्तशरण: शान्तो मैत्र: करुण आत्मवान् ॥ ८ ॥
यदृच्छया उपलब्धेन सन्तुष्टः मित भुक् मुनिः विविक्त-शरणः शान्तः मैत्रः करुणः आत्म-वान्
सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् ।
ज्ञानेन दृष्टतत्त्वेन प्रकृते: पुरुषस्य च ॥ ९ ॥
स-अनुबन्धे च देहे अस्मिन् अकुर्वन् असत्-आग्रहम् ज्ञानेन दृष्ट तत्त्वेन प्रकृतेः पुरुषस्य च
निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शन: ।
उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक् ॥ १० ॥
निवृत्त बुद्धि-अवस्थानः दूरी-भूत अन्य दर्शनः उपलभ्य आत्मना आत्मानम् चक्षुषा इव अर्कम् आत्म-दृक्
मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते ।
सतो बन्धुमसच्चक्षु: सर्वानुस्यूतमद्वयम् ॥ ११ ॥
मुक्त-लिङ्गम् सत्-आभासम् असति प्रतिपद्यते सतः बन्धुम् असत्-चक्षुः सर्व-अनुस्यूतम् अद्वयम्
यथा जलस्थ आभास: स्थलस्थेनावदृश्यते ।
स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थित: ॥ १२ ॥
यथा जल-स्थः आभासः स्थल-स्थेन अवदृश्यते स्व-आभासेन तथा सूर्यः जल-स्थेन दिवि स्थितः
एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयै: ।
स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १३ ॥
एवम् त्रि-वृत् अहङ्कारः भूत-इन्द्रिय-मनः-मयैः स्व-आभासैः लक्षितः अनेन सत्-आभासेन सत्य-दृक्
भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।
लीनेष्वसति यस्तत्र विनिद्रो निरहंक्रिय: ॥ १४ ॥
भूत सूक्ष्म इन्द्रिय मनः बुद्धि आदिषु इह निद्रया लीनेषु असति यः तत्र विनिद्रः निरहङ्क्रियः
मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा ।
नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुर: ॥ १५ ॥
मन्यमानः तदा आत्मानम् अनष्टः नष्ट-वत् मृषा नष्टे अहङ्करणे द्रष्टा नष्ट-वित्तः इव आतुरः
एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।
साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रह: ॥ १६ ॥
एवम् प्रत्यवमृश्य असौ आत्मानम् प्रतिपद्यते स-अहङ्कारस्य द्रव्यस्य यः अवस्थानम् अनुग्रहः
देवहूतिरुवाच
पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित् ।
अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयो: प्रभो ॥ १७ ॥
देवहूतिः उवाच पुरुषम् प्रकृतिः ब्रह्मन् न विमुञ्चति कर्हिचित् अन्योन्य अपाश्रयत्वात् च नित्यत्वात् अनयोः प्रभो
यथा गन्धस्य भूमेश्च न भावो व्यतिरेकत: ।
अपां रसस्य च यथा तथा बुद्धे: परस्य च ॥ १८ ॥
यथा गन्धस्य भूमेः च न भावः व्यतिरेकतः अपाम् रसस्य च यथा तथा बुद्धेः परस्य च
अकर्तु: कर्मबन्धोऽयं पुरुषस्य यदाश्रय: ।
गुणेषु सत्सु प्रकृते: कैवल्यं तेष्वत: कथम् ॥ १९ ॥
अकर्तुः कर्म-बन्धः अयम् पुरुषस्य यत्-आश्रयः गुणेषु सत्सु प्रकृतेः कैवल्यम् तेषु अतः कथम्
क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।
अनिवृत्तनिमित्तत्वात्पुन: प्रत्यवतिष्ठते ॥ २० ॥
क्वचित् तत्त्व अवमर्शेन निवृत्तम् भयम् उल्बणम् अनिवृत्त निमित्तत्वात् पुनः प्रत्यवतिष्ठते
श्रीभगवानुवाच
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१ ॥
श्री-भगवान् उवाच अनिमित्त-निमित्तेन स्व-धर्मेण अमल-आत्मना तीव्रया मयि भक्त्या च श्रुत सम्भृतया चिरम्
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।
तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२ ॥
ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा तपः-युक्तेन योगेन तीव्रेण आत्म-समाधिना
प्रकृति: पुरुषस्येह दह्यमाना त्वहर्निशम् ।
तिरोभवित्री शनकैरग्नेर्योनिरिवारणि: ॥ २३ ॥
प्रकृतिः पुरुषस्य इह दह्यमाना तु अहः-निशम् तिरः-भवित्री शनकैः अग्नेः योनिः इव अरणिः
भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यश: ।
नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥
भुक्त भोगा परित्यक्ता दृष्ट दोषा च नित्यशः न ईश्वरस्य अशुभम् धत्ते स्वे महिम्नि स्थितस्य च
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥
यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु-अनर्थ-भृत् सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते
एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।
युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६ ॥
एवम् विदित-तत्त्वस्य प्रकृतिः मयि मानसम् युञ्जतः न अपकुरुते आत्म-आरामस्य कर्हिचित्
यदैवमध्यात्मरत: कालेन बहुजन्मना ।
सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनि: ॥ २७ ॥
यदा एवम् अध्यात्म-रतः कालेन बहु-जन्मना सर्वत्र जात-वैराग्यः आ-ब्रह्म-भुवनात् मुनिः
मद्भक्त: प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।
नि:श्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८ ॥
प्राप्नोतीहाञ्जसा धीर: स्वदृशाच्छिन्नसंशय: ।
यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे ॥ २९ ॥
मत्-भक्तः प्रतिबुद्ध-अर्थः मत्-प्रसादेन भूयसा निःश्रेयसम् स्व-संस्थानम् कैवल्य-आख्यम् मत्-आश्रयम् प्राप्नोति इह अञ्जसा धीरः स्व-दृशा छिन्न-संशयः यत् गत्वा न निवर्तेत योगी लिङ्गात् विनिर्गमे
यदा न योगोपचितासु चेतो
मायासु सिद्धस्य विषज्जतेऽङ्ग ।
अनन्यहेतुष्वथ मे गति: स्याद्
आत्यन्तिकी यत्र न मृत्युहास: ॥ ३० ॥
यदा न योग-उपचितासु चेतः मायासु सिद्धस्य विषज्जते अङ्ग अनन्य-हेतुषु अथ मे गतिः स्यात् आत्यन्तिकी यत्र न मृत्यु-हासः
३.२८
श्रीभगवानुवाच
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।
मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥
श्री-भगवान् उवाच योगस्य लक्षणम् वक्ष्ये सबीजस्य नृप-आत्म-जे मनः येन एव विधिना प्रसन्नम् याति सत्-पथम्
स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।
दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २ ॥
स्व-धर्म-आचरणम् शक्त्या विधर्मात् च निवर्तनम् दैवात् लब्धेन सन्तोषः आत्म-वित् चरण अर्चनम्
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।
मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥ ३ ॥
ग्राम्य धर्म निवृत्तिः च मोक्ष धर्म रतिः तथा मित मेध्य अदनम् शश्वत् विविक्त क्षेम सेवनम्
अहिंसा सत्यमस्तेयं यावदर्थपरिग्रह: ।
ब्रह्मचर्यं तप: शौचं स्वाध्याय: पुरुषार्चनम् ॥ ४ ॥
अहिंसा सत्यम् अस्तेयम् यावत्-अर्थ परिग्रहः ब्रह्मचर्यम् तपः शौचम् स्व-अध्यायः पुरुष-अर्चनम्
मौनं सदासनजय: स्थैर्यं प्राणजय: शनै: ।
प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥
मौनम् सत् आसन जयः स्थैर्यम् प्राण-जयः शनैः प्रत्याहारः च इन्द्रियाणाम् विषयात् मनसा हृदि
स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ।
वैकुण्ठलीलाभिध्यानं समाधानं तथात्मन: ॥ ६ ॥
स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण धारणम् वैकुण्ठ-लीला अभिध्यानम् समाधानम् तथा आत्मनः
एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ।
बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रित: ॥ ७ ॥
एतैः अन्यैः च पथिभिः मनः दुष्टम् असत्-पथम् बुद्ध्या युञ्जीत शनकैः जित-प्राणः हि अतन्द्रितः
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।
तस्मिन्स्वस्ति समासीन ऋजुकाय: समभ्यसेत् ॥ ८ ॥
शुचौ देशे प्रतिष्ठाप्य विजित-आसनः आसनम् तस्मिन् स्वस्ति समासीनः ऋजु-कायः समभ्यसेत्
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकै: ।
प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥ ९ ॥
प्राणस्य शोधयेत् मार्गम् पूर-कुम्भक-रेचकैः प्रतिकूलेन वा चित्तम् यथा स्थिरम् अचञ्चलम्
मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिन: ।
वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥
मनः अचिरात् स्यात् विरजम् जित-श्वासस्य योगिनः वायु-अग्निभ्याम् यथा लोहम् ध्मातम् त्यजति वै मलम्
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥
प्राणायामैः दहेत् दोषान् धारणाभिः च किल्बिषान् प्रत्याहारेण संसर्गान् ध्यानेन अनीश्वरान् गुणान्
यदा मन: स्वं विरजं योगेन सुसमाहितम् ।
काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकन: ॥ १२ ॥
यदा मनः स्वम् विरजम् योगेन सु-समाहितम् काष्ठाम् भगवतः ध्यायेत् स्व-नासा-अग्र अवलोकनः
प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥
प्रसन्न वदन अम्भोजम् पद्म-गर्भ अरुण ईक्षणम् नील-उत्पल दल श्यामम् शङ्ख चक्र गदा धरम्
लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ १४ ॥
लसत् पङ्कज किञ्जल्क पीत कौशेय वाससम् श्रीवत्स वक्षसम् भ्राजत् कौस्तुभ आमुक्त कन्धरम्
मत्तद्विरेफकलया परीतं वनमालया ।
परार्ध्यहारवलयकिरीटाङ्गदनूपुरम् ॥ १५ ॥
मत्त द्वि-रेफ कलया परीतम् वन-मालया परार्ध्य हार वलय किरीट अङ्गद नूपुरम्
काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् ।
दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ १६ ॥
काञ्ची गुण उल्लसत् श्रोणिम् हृदय अम्भोज विष्टरम् दर्शनीय-तमम् शान्तम् मनः नयन वर्धनम्
अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् ।
सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥
अपीच्य-दर्शनम् शश्वत् सर्व-लोक नमः-कृतम् सन्तम् वयसि कैशोरे भृत्य अनुग्रह कातरम्
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।
ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मन: ॥ १८ ॥
कीर्तन्य तीर्थ-यशसम् पुण्य-श्लोक यशः-करम् ध्यायेत् देवम् समग्र-अङ्गम् यावत् न च्यवते मनः
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।
प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥ १९ ॥
स्थितम् व्रजन्तम् आसीनम् शयानम् वा गुहा-आशयम् प्रेक्षणीय ईहितम् ध्यायेत् शुद्ध-भावेन चेतसा
तस्मिँल्लब्धपदं चित्तं सर्वावयवसंस्थितम् ।
विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनि: ॥ २० ॥
तस्मिन् लब्ध-पदम् चित्तम् सर्व अवयव संस्थितम् विलक्ष्य एकत्र संयुज्यात् अङ्गे भगवतः मुनिः
सञ्चिन्तयेद्भगवतश्चरणारविन्दं
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।
उत्तुङ्गरक्तविलसन्नखचक्रवाल-
ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ २१ ॥
सञ्चिन्तयेत् भगवतः चरण-अरविन्दम् वज्र अङ्कुश ध्वज सरोरुह लाञ्छन आढ्यम् उत्तुङ्ग रक्त विलसत् नख चक्रवाल ज्योत्स्नाभिः आहत महत् हृदय अन्धकारम्
यच्छौचनि:सृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्न्यधिकृतेन शिव: शिवोऽभूत् ।
ध्यातुर्मन:शमलशैलनिसृष्टवज्रं
ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥
यत् शौच निःसृत सरित्-प्रवर उदकेन तीर्थेन मूर्ध्नि अधिकृतेन शिवः शिवः अभूत् ध्यातुः मनः शमल-शैल निसृष्ट वज्रम् ध्यायेत् चिरम् भगवतः चरण-अरविन्दम्
जानुद्वयं जलजलोचनया जनन्या
लक्ष्म्याखिलस्य सुरवन्दितया विधातु: ।
ऊर्वोर्निधाय करपल्लवरोचिषा यत्
संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥
जानु-द्वयम् जलज-लोचनया जनन्या लक्ष्म्या अखिलस्य सुर-वन्दितया विधातुः ऊर्वोः निधाय कर-पल्लव-रोचिषा यत् संलालितम् हृदि विभोः अभवस्य कुर्यात्
ऊरू सुपर्णभुजयोरधिशोभमानाव्-
ओजोनिधी अतसिकाकुसुमावभासौ ।
व्यालम्बिपीतवरवाससि वर्तमान
काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥
ऊरू सुपर्ण भुजयोः अधि शोभमानौ ओजः-निधी अतसिका-कुसुम अवभासौ व्यालम्बि पीत वर वाससि वर्तमान काञ्ची-कलाप परिरम्भि नितम्ब-बिम्बम्
नाभिह्रदं भुवनकोशगुहोदरस्थं
यत्रात्मयोनिधिषणाखिललोकपद्मम् ।
व्यूढं हरिन्मणिवृषस्तनयोरमुष्य
ध्यायेद्द्वयं विशदहारमयूखगौरम् ॥ २५ ॥
नाभि-ह्रदम् भुवन-कोश गुहा उदर स्थम् यत्र आत्म-योनि धिषण अखिल-लोक पद्मम् व्यूढम् हरित्-मणि वृष स्तनयोः अमुष्य ध्यायेत् द्वयम् विशद हार मयूख गौरम्
वक्षोऽधिवासमृषभस्य महाविभूते:
पुंसां मनोनयननिर्वृतिमादधानम् ।
कण्ठं च कौस्तुभमणेरधिभूषणार्थं
कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ २६ ॥
वक्षः अधिवासम् ऋषभस्य महा-विभूतेः पुंसाम् मनः नयन निर्वृतिम् आदधानम् कण्ठम् च कौस्तुभ-मणेः अधिभूषण-अर्थम् कुर्यात् मनसि अखिल-लोक नमस्कृतस्य
बाहूंश्च मन्दरगिरे: परिवर्तनेन
निर्णिक्तबाहुवलयानधिलोकपालान् ।
सञ्चिन्तयेद्दशशतारमसह्यतेज:
शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥
बाहून् च मन्दर-गिरेः परिवर्तनेन निर्णिक्त बाहु-वलयान् अधिलोक-पालान् सञ्चिन्तयेत् दश-शत-अरम् असह्य-तेजः शङ्खम् च तत्-कर सरोरुह राज-हंसम्
कौमोदकीं भगवतो दयितां स्मरेत
दिग्धामरातिभटशोणितकर्दमेन ।
मालां मधुव्रतवरूथगिरोपघुष्टां
चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥
कौमोदकीम् भगवतः दयिताम् स्मरेत दिग्धाम् अराति भट शोणित-कर्दमेन मालाम् मधुव्रत वरूथ गिरा उपघुष्टाम् चैत्यस्य तत्त्वम् अमलम् मणिम् अस्य कण्ठे
भृत्यानुकम्पितधियेह गृहीतमूर्ते:
सञ्चिन्तयेद्भगवतो वदनारविन्दम् ।
यद्विस्फुरन्मकरकुण्डलवल्गितेन
विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥
भृत्य अनुकम्पित-धिया इह गृहीत-मूर्तेः सञ्चिन्तयेत् भगवतः वदन अरविन्दम् यत् विस्फुरन् मकर कुण्डल वल्गितेन विद्योतित अमल कपोलम् उदार नासम्
यच्छ्रीनिकेतमलिभि: परिसेव्यमानं
भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।
मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं
ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३० ॥
यत् श्री-निकेतम् अलिभिः परिसेव्यमानम् भूत्या स्वया कुटिल कुन्तल वृन्द जुष्टम् मीन द्वय आश्रयम् अधिक्षिपत् अब्ज नेत्रम् ध्यायेत् मनः-मयम् अतन्द्रितः उल्लसत् भ्रु
तस्यावलोकमधिकं कृपयातिघोर-
तापत्रयोपशमनाय निसृष्टमक्ष्णो: ।
स्निग्धस्मितानुगुणितं विपुलप्रसादं
ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥
तस्य अवलोकम् अधिकम् कृपया अतिघोर ताप-त्रय उपशमनाय निसृष्टम् अक्ष्णोः स्निग्ध स्मित अनुगुणितम् विपुल प्रसादम् ध्यायेत् चिरम् विपुल भावनया गुहायाम्
हासं हरेरवनताखिललोकतीव्र-
शोकाश्रुसागरविशोषणमत्युदारम् ।
सम्मोहनाय रचितं निजमाययास्य
भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥
हासम् हरेः अवनत अखिल लोक तीव्र-शोक अश्रु-सागर विशोषणम् अति-उदारम् सम्मोहनाय रचितम् निज-मायया अस्य भ्रू-मण्डलम् मुनि-कृते मकर-ध्वजस्य
ध्यानायनं प्रहसितं बहुलाधरोष्ठ-
भासारुणायिततनुद्विजकुन्दपङ्क्ति ।
ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर्
भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३ ॥
ध्यान-अयनम् प्रहसितम् बहुल अधर-ओष्ठ भास अरुणायित तनु द्विज कुन्द-पङ्क्ति ध्यायेत् स्व-देह-कुहरे अवसितस्य विष्णोः भक्त्या आर्द्रया अर्पित-मनाः न पृथक् दिदृक्षेत्
एवं हरौ भगवति प्रतिलब्धभावो
भक्त्या द्रवद्धृदय उत्पुलक: प्रमोदात् ।
औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस्
तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥
एवम् हरौ भगवति प्रतिलब्ध भावः भक्त्या द्रवत् हृदयः उत्पुलकः प्रमोदात् औत्कण्ठ्य बाष्प-कलया मुहुः अर्द्यमानः तत् च अपि चित्त बडिशम् शनकैः वियुङ्क्ते
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं
निर्वाणमृच्छति मन: सहसा यथार्चि: ।
आत्मानमत्र पुरुषोऽव्यवधानमेकम्
अन्वीक्षते प्रतिनिवृत्तगुणप्रवाह: ॥ ३५ ॥
मुक्त-आश्रयम् यर्हि निर्विषयम् विरक्तम् निर्वाणम् ऋच्छति मनः सहसा यथा अर्चिः आत्मानम् अत्र पुरुषः अव्यवधानम् एकम् अन्वीक्षते प्रतिनिवृत्त गुण-प्रवाहः
सोऽप्येतया चरमया मनसो निवृत्त्या
तस्मिन्महिम्न्यवसित: सुखदु:खबाह्ये ।
हेतुत्वमप्यसति कर्तरि दु:खयोर्यत्
स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठ: ॥ ३६ ॥
सः अपि एतया चरमया मनसः निवृत्त्या तस्मिन् महिम्नि अवसितः सुख-दुःख-बाह्ये हेतुत्वम् अपि असति कर्तरि दुःखयोः यत् स्व-आत्मन् विधत्ते उपलब्ध पर-आत्म काष्ठः
देहं च तं न चरम: स्थितमुत्थितं वा
सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ।
दैवादुपेतमथ दैववशादपेतं
वासो यथा परिकृतं मदिरामदान्ध: ॥ ३७ ॥
देहम् च तम् न चरमः स्थितम् उत्थितम् वा सिद्धः विपश्यति यतः अध्यगमत् स्व-रूपम् दैवात् उपेतम् अथ दैव-वशात् अपेतम् वासः यथा परिकृतम् मदिरा-मद-अन्धः
देहोऽपि दैववशग: खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासु: ।
तं सप्रपञ्चमधिरूढसमाधियोग:
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तु: ॥ ३८ ॥
देहः अपि दैव-वश-गः खलु कर्म यावत् स्व-आरम्भकम् प्रतिसमीक्षते एव स-असुः तम् स-प्रपञ्चम् अधिरूढ-समाधि-योगः स्वाप्नम् पुनः न भजते प्रतिबुद्ध वस्तुः
यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्य: प्रतीयते ।
अप्यात्मत्वेनाभिमताद्देहादे: पुरुषस्तथा ॥ ३९ ॥
यथा पुत्रात् च वित्तात् च पृथक् मर्त्यः प्रतीयते अपि आत्मत्वेन अभिमतात् देह-आदेः पुरुषः तथा
यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् ।
अप्यात्मत्वेनाभिमताद्यथाग्नि: पृथगुल्मुकात् ॥ ४० ॥
यथा उल्मुकात् विस्फुलिङ्गात् धूमात् वा अपि स्व-सम्भवात् अपि आत्मत्वेन अभिमतात् यथा अग्निः पृथक् उल्मुकात्
भूतेन्द्रियान्त:करणात्प्रधानाज्जीवसंज्ञितात् ।
आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञित: ॥ ४१ ॥
भूत इन्द्रिय अन्तः-करणात् प्रधानात् जीव-संज्ञितात् आत्मा तथा पृथक् द्रष्टा भगवान् ब्रह्म-संज्ञितः
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥
सर्व-भूतेषु च आत्मानम् सर्व-भूतानि च आत्मनि ईक्षेत अनन्य-भावेन भूतेषु इव तत्-आत्मताम्
स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते ।
योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थित: ॥ ४३ ॥
स्व-योनिषु यथा ज्योतिः एकम् नाना प्रतीयते योनीनाम् गुण-वैषम्यात् तथा आत्मा प्रकृतौ स्थितः
तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् ।
दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥
तस्मात् इमाम् स्वाम् प्रकृतिम् दैवीम् सत्-असत्-आत्मिकाम् दुर्विभाव्याम् पराभाव्य स्व-रूपेण अवतिष्ठते
३.२९
देवहूतिरुवाच
लक्षणं महदादीनां प्रकृते: पुरुषस्य च ।
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥
यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरश: प्रभो ॥ २ ॥
देवहूतिः उवाच लक्षणम् महत्-आदीनाम् प्रकृतेः पुरुषस्य च स्वरूपम् लक्ष्यते अमीषाम् येन तत्-पारम-अर्थिकम् यथा साङ्ख्येषु कथितम् यत् मूलम् तत् प्रचक्षते भक्ति-योगस्य मे मार्गम् ब्रूहि विस्तरशः प्रभो
विरागो येन पुरुषो भगवन्सर्वतो भवेत् ।
आचक्ष्व जीवलोकस्य विविधा मम संसृती: ॥ ३ ॥
विरागः येन पुरुषः भगवन् सर्वतः भवेत् आचक्ष्व जीव-लोकस्य विविधाः मम संसृतीः
कालस्येश्वररूपस्य परेषां च परस्य ते ।
स्वरूपं बत कुर्वन्ति यद्धेतो: कुशलं जना: ॥ ४ ॥
कालस्य ईश्वर-रूपस्य परेषाम् च परस्य ते स्वरूपम् बत कुर्वन्ति यत्-हेतोः कुशलम् जनाः
लोकस्य मिथ्याभिमतेरचक्षुष-
श्चिरं प्रसुप्तस्य तमस्यनाश्रये ।
श्रान्तस्य कर्मस्वनुविद्धया धिया
त्वमाविरासी: किल योगभास्कर: ॥ ५ ॥
लोकस्य मिथ्या-अभिमतेः अचक्षुषः चिरम् प्रसुप्तस्य तमसि अनाश्रये श्रान्तस्य कर्मसु अनुविद्धया धिया त्वम् आविरासीः किल योग भास्करः
मैत्रेय उवाच
इति मातुर्वच: श्लक्ष्णं प्रतिनन्द्य महामुनि: ।
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दित: ॥ ६ ॥
मैत्रेयः उवाच इति मातुः वचः श्लक्ष्णम् प्रतिनन्द्य महा-मुनिः आबभाषे कुरु-श्रेष्ठ प्रीतः ताम् करुणा अर्दितः
श्रीभगवानुवाच
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥
श्री-भगवान् उवाच भक्ति-योगः बहु-विधः मार्गैः भामिनि भाव्यते स्वभाव गुण मार्गेण पुंसाम् भावः विभिद्यते
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।
संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामस: ॥ ८ ॥
अभिसन्धाय यः हिंसाम् दम्भम् मात्सर्यम् एव वा संरम्भी भिन्न दृक् भावम् मयि कुर्यात् सः तामसः
विषयानभिसन्धाय यश ऐश्वर्यमेव वा ।
अर्चादावर्चयेद्यो मां पृथग्भाव: स राजस: ॥ ९ ॥
विषयान् अभिसन्धाय यशः ऐश्वर्यम् एव वा अर्चा-आदौ अर्चयेत् यः माम् पृथक्-भावः सः राजसः
कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम् ।
यजेद्यष्टव्यमिति वा पृथग्भाव: स सात्त्विक: ॥ १० ॥
कर्म निर्हारम् उद्दिश्य परस्मिन् वा तत्-अर्पणम् यजेत् यष्टव्यम् इति वा पृथक्-भावः सः सात्त्विकः
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।
अहैतुक्यव्यवहिता या भक्ति: पुरुषोत्तमे ॥ १२ ॥
मत् गुण श्रुति मात्रेण मयि सर्व-गुहा-आशये मनः-गतिः अविच्छिन्ना यथा गङ्गा अम्भसः अम्बुधौ लक्षणम् भक्ति-योगस्य निर्गुणस्य हि उदाहृतम् अहैतुकी अव्यवहिता या भक्तिः पुरुष-उत्तमे
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जना: ॥ १३ ॥
सालोक्य सार्ष्टि सामीप्य सारूप्य एकत्वम् अपि उत दीयमानम् न गृह्णन्ति विना मत् सेवनम् जनाः
स एव भक्तियोगाख्य आत्यन्तिक उदाहृत: ।
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ १४ ॥
सः एव भक्ति-योग आख्यः आत्यन्तिकः उदाहृतः येन अतिव्रज्य त्रि-गुणम् मत्-भावाय उपपद्यते
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यश: ॥ १५ ॥
निषेवितेन अनिमित्तेन स्व-धर्मेण महीयसा क्रिया-योगेन शस्तेन न अतिहिंस्रेण नित्यशः
मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनै: ।
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥
मत् धिष्ण्य दर्शन स्पर्श पूजा स्तुति अभिवन्दनैः भूतेषु मत् भावनया सत्त्वेन असङ्गमेन च
महतां बहुमानेन दीनानामनुकम्पया ।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥
महताम् बहु-मानेन दीनानाम् अनुकम्पया मैत्र्या च एव आत्म-तुल्येषु यमेन नियमेन च
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।
आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥ १८ ॥
आध्यात्मिक अनुश्रवणात् नाम-सङ्कीर्तनात् च मे आर्जवेन आर्य-सङ्गेन निरहङ्क्रियया तथा
मद्धर्मणो गुणैरेतै: परिसंशुद्ध आशय: ।
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥
मत्-धर्मणः गुणैः एतैः परिसंशुद्धः आशयः पुरुषस्य अञ्जसा अभ्येति श्रुत मात्र गुणम् हि माम्
यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् ।
एवं योगरतं चेत आत्मानमविकारि यत् ॥ २० ॥
यथा वात रथः घ्राणम् आवृङ्क्ते गन्धः आशयात् एवम् योग-रतम् चेतः आत्मानम् अविकारि यत्
अहं सर्वेषु भूतेषु भूतात्मावस्थित: सदा ।
तमवज्ञाय मां मर्त्य: कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥
अहम् सर्वेषु भूतेषु भूत-आत्मा अवस्थितः सदा तम् अवज्ञाय माम् मर्त्यः कुरुते अर्चा विडम्बनम्
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति स: ॥ २२ ॥
यः माम् सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् हित्वा अर्चाम् भजते मौढ्यात् भस्मनि एव जुहोति सः
द्विषत: परकाये मां मानिनो भिन्नदर्शिन: ।
भूतेषु बद्धवैरस्य न मन: शान्तिमृच्छति ॥ २३ ॥
द्विषतः पर-काये माम् मानिनः भिन्न-दर्शिनः भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति
अहमुच्चावचैर्द्रव्यै: क्रिययोत्पन्नयानघे ।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिन: ॥ २४ ॥
अहम् उच्च-अवचैः द्रव्यैः क्रियया उत्पन्नया अनघे न एव तुष्ये अर्चितः अर्चायाम् भूत-ग्राम अवमानिनः
अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् ।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥
अर्चा-आदौ अर्चयेत् तावत् ईश्वरम् माम् स्व कर्म कृत् यावत् न वेद स्व-हृदि सर्व-भूतेषु अवस्थितम्
आत्मनश्च परस्यापि य: करोत्यन्तरोदरम् ।
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ॥ २६ ॥
आत्मनः च परस्य अपि यः करोति अन्तरा उदरम् तस्य भिन्न-दृशः मृत्युः विदधे भयम् उल्बणम्
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।
अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥
अथ माम् सर्व-भूतेषु भूत-आत्मानम् कृत-आलयम् अर्हयेत् दान-मानाभ्याम् मैत्र्या अभिन्नेन चक्षुषा
जीवा: श्रेष्ठा ह्यजीवानां तत: प्राणभृत: शुभे ।
त: सचित्ता: प्रवरास्ततश्चेन्द्रियवृत्तय: ॥ २८ ॥
जीवाः श्रेष्ठाः हि अजीवानाम् ततः प्राण-भृतः शुभे ततः स-चित्ताः प्रवराः ततः च इन्द्रिय-वृत्तयः
तत्रापि स्पर्शवेदिभ्य: प्रवरा रसवेदिन: ।
तेभ्यो गन्धविद: श्रेष्ठास्तत: शब्दविदो वरा: ॥ २९ ॥
तत्र अपि स्पर्श-वेदिभ्यः प्रवराः रस-वेदिनः तेभ्यः गन्ध-विदः श्रेष्ठाः ततः शब्द-विदः वराः
रूपभेदविदस्तत्र ततश्चोभयतोदत: ।
तेषां बहुपदा: श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥
रूप-भेद विदः तत्र ततः च उभयतः दतः तेषाम् बहु-पदाः श्रेष्ठाः चतुः-पादः ततः द्वि-पात्
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तम: ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्तत: ॥ ३१ ॥
ततः वर्णाः च चत्वारः तेषाम् ब्राह्मणः उत्तमः ब्राह्मणेषु अपि वेद ज्ञः हि अर्थ ज्ञः अभ्यधिकः ततः
अर्थज्ञात्संशयच्छेत्ता तत: श्रेयान्स्वकर्मकृत् ।
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मन: ॥ ३२ ॥
अर्थ-ज्ञात् संशय छेत्ता ततः श्रेयान् स्व-कर्म कृत् मुक्त-सङ्गः ततः भूयान् अदोग्धा धर्मम् आत्मनः
तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तर: ।
मय्यर्पितात्मन: पुंसो मयि संन्यस्तकर्मण: ।
न पश्यामि परं भूतमकर्तु: समदर्शनात् ॥ ३३ ॥
तस्मात् मयि अर्पित अशेष क्रिया अर्थ आत्मा निरन्तरः मयि अर्पित आत्मनः पुंसः मयि सन्न्यस्त कर्मणः न पश्यामि परम् भूतम् अकर्तुः सम दर्शनात्
मनसैतानि भूतानि प्रणमेद्बहुमानयन् ।
ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥
मनसा एतानि भूतानि प्रणमेत् बहु-मानयन् ईश्वरः जीव कलया प्रविष्टः भगवान् इति
भक्तियोगश्च योगश्च मया मानव्युदीरित: ।
ययोरेकतरेणैव पुरुष: पुरुषं व्रजेत् ॥ ३५ ॥
भक्ति-योगः च योगः च मया मानवि उदीरितः ययोः एकतरेण एव पुरुषः पुरुषम् व्रजेत्
एतद्भगवतो रूपं ब्रह्मण: परमात्मन: ।
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥
एतत् भगवतः रूपम् ब्रह्मणः परम-आत्मनः परम् प्रधानम् पुरुषम् दैवम् कर्म-विचेष्टितम्
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।
भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
रूप-भेद आस्पदम् दिव्यम् कालः इति अभिधीयते भूतानाम् महत्-आदीनाम् यतः भिन्न-दृशाम् भयम्
योऽन्त: प्रविश्य भूतानि भूतैरत्त्यखिलाश्रय: ।
स विष्ण्वाख्योऽधियज्ञोऽसौ काल: कलयतां प्रभु: ॥ ३८ ॥
यः अन्तः प्रविश्य भूतानि भूतैः अत्ति अखिल आश्रयः सः विष्णु आख्यः अधियज्ञः असौ कालः कलयताम् प्रभुः
न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धव: ।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
न च अस्य कश्चित् दयितः न द्वेष्यः न च बान्धवः आविशति अप्रमत्तः असौ प्रमत्तम् जनम् अन्त-कृत्
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ॥ ४० ॥
यत् भयात् वाति वातः अयम् सूर्यः तपति यत् भयात् यत् भयात् वर्षते देवः भ-गणः भाति यत् भयात्
यद्वनस्पतयो भीता लताश्चौषधिभि: सह ।
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
यत् वनः-पतयः भीताः लताः च ओषधिभिः सह स्वे स्वे काले अभिगृह्णन्ति पुष्पाणि च फलानि च
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यत: ।
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥ ४२ ॥
स्रवन्ति सरितः भीताः न उत्सर्पति उद-धिः यतः अग्निः इन्धे स-गिरिभिः भूः न मज्जति यत् भयात्
नभो ददाति श्वसतां पदं यन्नियमादद: ।
लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥
नभः ददाति श्वसताम् पदम् यत् नियमात् अदः लोकम् स्व-देहम् तनुते महान् सप्तभिः आवृतम्
गुणाभिमानिनो देवा: सर्गादिष्वस्य यद्भयात् ।
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥
गुण अभिमानिनः देवाः सर्ग-आदिषु अस्य यत्-भयात् वर्तन्ते अनुयुगम् येषाम् वशे एतत् चर-अचरम्
सोऽनन्तोऽन्तकर: कालोऽनादिरादिकृदव्यय: ।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम् ॥ ४५ ॥
सः अनन्तः अन्त-करः कालः अनादिः आदि-कृत् अव्ययः जनम् जनेन जनयन् मारयन् मृत्युना अन्तकम्
३.३०
कपिल उवाच
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ।
काल्यमानोऽपि बलिनो वायोरिव घनावलि: ॥ १ ॥
कपिलः उवाच तस्य एतस्य जनः नूनम् न अयम् वेद उरु-विक्रमम् काल्यमानः अपि बलिनः वायोः इव घन आवलिः
यं यमर्थमुपादत्ते दु:खेन सुखहेतवे ।
तं तं धुनोति भगवान्पुमाञ्छोचति यत्कृते ॥ २ ॥
यम् यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे तम् तम् धुनोति भगवान् पुमान् शोचति यत्-कृते
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मति: ।
ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥
यत् अध्रुवस्य देहस्य स-अनुबन्धस्य दुर्मतिः ध्रुवाणि मन्यते मोहात् गृह क्षेत्र वसूनि च
जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत् ।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥
जन्तुः वै भवे एतस्मिन् याम् याम् योनिम् अनुव्रजेत् तस्याम् तस्याम् सः लभते निर्वृतिम् न विरज्यते
नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति ।
नारक्यां निर्वृतौ सत्यां देवमायाविमोहित: ॥ ५ ॥
नरक स्थः अपि देहम् वै न पुमान् त्यक्तुम् इच्छति नारक्याम् निर्वृतौ सत्याम् देव-माया विमोहितः
आत्मजायासुतागारपशुद्रविणबन्धुषु ।
निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६ ॥
आत्म जाया सुत अगार पशु द्रविण बन्धुषु निरूढ-मूल हृदयः आत्मानम् बहु मन्यते
सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना ।
करोत्यविरतं मूढो दुरितानि दुराशय: ॥ ७ ॥
सन्दह्यमान सर्व अङ्गः एषाम् उद्वहन आधिना करोति अविरतम् मूढः दुरितानि दुराशयः
आक्षिप्तात्मेन्द्रिय: स्त्रीणामसतीनां च मायया ।
रहो रचितयालापै: शिशूनां कलभाषिणाम् ॥
८ ॥
आक्षिप्त आत्म इन्द्रियः स्त्रीणाम् असतीनाम् च मायया रहः रचितया आलापैः शिशूनाम् कल-भाषिणाम्
गृहेषु कूटधर्मेषु दु:खतन्त्रेष्वतन्द्रित: ।
कुर्वन्दु:खप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥
गृहेषु कूट-धर्मेषु दुःख-तन्त्रेषु अतन्द्रितः कुर्वन् दुःख-प्रतीकारम् सुख-वत् मन्यते गृही
अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् ।
पुष्णाति येषां पोषेण शेषभुग्यात्यध: स्वयम् ॥ १० ॥
अर्थैः आपादितैः गुर्व्या हिंसया इतः-ततः च तान् पुष्णाति येषाम् पोषेण शेष भुक् याति अधः स्वयम्
वार्तायां लुप्यमानायामारब्धायां पुन: पुन: ।
लोभाभिभूतो नि:सत्त्व: परार्थे कुरुते स्पृहाम् ॥ ११ ॥
वार्तायाम् लुप्यमानायाम् आरब्धायाम् पुनः पुनः लोभ अभिभूतः निःसत्त्वः पर-अर्थे कुरुते स्पृहाम्
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यम: ।
श्रिया विहीन: कृपणो ध्यायञ्छ्वसिति मूढधी: ॥ १२ ॥
कुटुम्ब भरण अकल्पः मन्द-भाग्यः वृथा उद्यमः श्रिया विहीनः कृपणः ध्यायन् श्वसिति मूढ धीः
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा ।
नाद्रियन्ते यथापूर्वं कीनाशा इव गोजरम् ॥ १३ ॥
एवम् स्व-भरण अकल्पम् तत् कलत्र आदयः तथा न आद्रियन्ते यथा पूर्वम् कीनाशाः इव गो-जरम्
तत्राप्यजातनिर्वेदो भ्रियमाण: स्वयम्भृतै: ।
जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥
तत्र अपि अजात निर्वेदः भ्रियमाणः स्वयम् भृतैः जरया उपात्त वैरूप्यः मरण अभिमुखः गृहे
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ।
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टित: ॥ १५ ॥
आस्ते अवमत्या उपन्यस्तम् गृह-पालः इव आहरन् आमयावी अप्रदीप्त-अग्निः अल्प आहारः अल्प चेष्टितः
वायुनोत्क्रमतोत्तार: कफसंरुद्धनाडिक: ।
कासश्वासकृतायास: कण्ठे घुरघुरायते ॥ १६ ॥
वायुना उत्क्रमता उत्तारः कफ संरुद्ध नाडिकः कास श्वास कृत आयासः कण्ठे घुर-घुरायते
शयान: परिशोचद्भि: परिवीत: स्वबन्धुभि: ।
वाच्यमानोऽपि न ब्रूते कालपाशवशं गत: ॥ १७ ॥
शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः वाच्यमानः अपि न ब्रूते काल पाश वशम् गतः
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रिय: ।
म्रियते रुदतां स्वानामुरुवेदनयास्तधी: ॥ १८ ॥
एवम् कुटुम्ब-भरणे व्यापृत आत्मा अजित इन्द्रियः म्रियते रुदताम् स्वानाम् उरु वेदनया अस्त धीः
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।
स दृष्ट्वा त्रस्तहृदय: शकृन्मूत्रं विमुञ्चति ॥ १९ ॥
यम-दूतौ तदा प्राप्तौ भीमौ स-रभस ईक्षणौ सः दृष्ट्वा त्रस्त हृदयः शकृत् मूत्रम् विमुञ्चति
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् ।
नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥
यातना देहे आवृत्य पाशैः बद्ध्वा गले बलात् नयतः दीर्घम् अध्वानम् दण्ड्यम् राज-भटाः यथा
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथु: ।
पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥
तयोः निर्भिन्न हृदयः तर्जनैः जात वेपथुः पथि श्वभिः भक्ष्यमाणः आर्तः अघम् स्वम् अनुस्मरन्
क्षुत्तृट्परीतोऽर्कदवानलानिलै:
सन्तप्यमान: पथि तप्तवालुके ।
कृच्छ्रेण पृष्ठे कशया च ताडितश्
चलत्यशक्तोऽपि निराश्रमोदके ॥ २२ ॥
क्षुत्-तृट् परीतः अर्क दव-अनल अनिलैः सन्तप्यमानः पथि तप्त-वालुके कृच्छ्रेण पृष्ठे कशया च ताडितः चलति अशक्तः अपि निराश्रम-उदके
तत्र तत्र पतञ्छ्रान्तो मूर्च्छित: पुनरुत्थित: ।
पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३ ॥
तत्र तत्र पतन् श्रान्तः मूर्च्छितः पुनः उत्थितः पथा पापीयसा नीतः तरसा यम-सादनम्
योजनानां सहस्राणि नवतिं नव चाध्वन: ।
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीत: प्राप्नोति यातना: ॥ २४ ॥
योजनानाम् सहस्राणि नवतिम् नव च अध्वनः त्रिभिः मुहूर्तैः द्वाभ्याम् वा नीतः प्राप्नोति यातनाः
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभि: ।
आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५ ॥
आदीपनम् स्व-गात्राणाम् वेष्टयित्वा उल्मुक-आदिभिः आत्म-मांस अदनम् क्व अपि स्व-कृत्तम् परतः अपि वा
जीवतश्चान्त्राभ्युद्धार: श्वगृध्रैर्यमसादने ।
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम् ॥ २६ ॥
जीवतः च अन्त्र अभ्युद्धारः श्व-गृध्रैः यम-सादने सर्प वृश्चिक दंश आद्यैः दशद्भिः च आत्म-वैशसम्
कृन्तनम् च अवयवशः गज-आदिभ्यः भिदापनम् पातनम् गिरि शृङ्गेभ्यः रोधनम् च अम्बु-गर्तयोः
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातना: ।
भुङ्क्ते नरो वा नारी वा मिथ: सङ्गेन निर्मिता: ॥ २८ ॥
याः तामिस्र अन्ध-तामिस्राः रौरव आद्याः च यातनाः भुङ्क्ते नरः वा नारी वा मिथः सङ्गेन निर्मिताः
अत्रैव नरक: स्वर्ग इति मात: प्रचक्षते ।
या यातना वै नारक्यस्ता इहाप्युपलक्षिता: ॥ २९ ॥
अत्र एव नरकः स्वर्गः इति मातः प्रचक्षते याः यातनाः वै नारक्यः ताः इह अपि उपलक्षिताः
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥
एवम् कुटुम्बम् बिभ्राणः उदरम् भरः एव वा विसृज्य इह उभयम् प्रेत्य भुङ्क्ते तत् फलम् ईदृशम्
एक: प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् ।
कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम् ॥ ३१ ॥
एकः प्रपद्यते ध्वान्तम् हित्वा इदम् स्व कलेवरम् कुशल-इतर पाथेयः भूत द्रोहेण यत् भृतम्
दैवेनासादितं तस्य शमलं निरये पुमान् ।
भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुर: ॥ ३२ ॥
दैवेन आसादितम् तस्य शमलम् निरये पुमान् भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्तः इव आतुरः
केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुक: ।
याति जीवोऽन्धतामिस्रं चरमं तमस: पदम् ॥ ३३ ॥
केवलेन हि अधर्मेण कुटुम्ब भरण उत्सुकः याति जीवः अन्ध-तामिस्रम् चरमम् तमसः पदम्
अधस्तान्नरलोकस्य यावतीर्यातनादय: ।
क्रमश: समनुक्रम्य पुनरत्राव्रजेच्छुचि: ॥ ३४ ॥
अधस्तात् नर-लोकस्य यावतीः यातना आदयः क्रमशः समनुक्रम्य पुनः अत्र आव्रजेत् शुचिः
३.३१
श्रीभगवानुवाच
कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।
स्त्रिया: प्रविष्ट उदरं पुंसो रेत:कणाश्रय: ॥ १ ॥
श्री-भगवान् उवाच कर्मणा दैव-नेत्रेण जन्तुः देह उपपत्तये स्त्रियाः प्रविष्टः उदरम् पुंसः रेतः कण आश्रयः
कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
दशाहेन तु कर्कन्धू: पेश्यण्डं वा तत: परम् ॥ २ ॥
कललम् तु एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् दश-अहेन तु कर्कन्धूः पेशी अण्डम् वा ततः परम्
मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रह: ।
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभि: ॥ ३ ॥
मासेन तु शिरः द्वाभ्याम् बाहु अङ्घ्रि आदि अङ्ग विग्रहः नख लोम अस्थि चर्माणि लिङ्ग छिद्र उद्भवः त्रिभिः
चतुर्भिर्धातव: सप्त पञ्चभि: क्षुत्तृडुद्भव: ।
षड्भिर्जरायुणा वीत: कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥
चतुर्भिः धातवः सप्त पञ्चभिः क्षुत्-तृट् उद्भवः षड्भिः जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे
मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते ।
शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५ ॥
मातुः जग्ध अन्न-पान आद्यैः एधत् धातुः असम्मते शेते विट्-मूत्रयोः गर्ते सः जन्तुः जन्तु सम्भवे
कृमिभि: क्षतसर्वाङ्ग: सौकुमार्यात्प्रतिक्षणम् ।
मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यै: क्षुधितैर्मुहु: ॥ ६ ॥
कृमिभिः क्षत सर्व-अङ्गः सौकुमार्यात् प्रति-क्षणम् मूर्च्छाम् आप्नोति उरु-क्लेशः तत्रत्यैः क्षुधितैः मुहुः
कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणै: ।
मातृभुक्तैरुपस्पृष्ट: सर्वाङ्गोत्थितवेदन: ॥ ७ ॥
कटु तीक्ष्ण उष्ण लवण रूक्ष अम्ल आदिभिः उल्बणैः मातृ-भुक्तैः उपस्पृष्टः सर्व-अङ्ग उत्थित वेदनः
उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृत: ।
आस्ते कृत्वा शिर: कुक्षौ भुग्नपृष्ठशिरोधर: ॥ ८ ॥
उल्बेन संवृतः तस्मिन् अन्त्रैः च बहिः आवृतः आस्ते कृत्वा शिरः कुक्षौ भुग्न पृष्ठ शिरः-धरः
अकल्प: स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।
तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम् ।
स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९ ॥
अकल्पः स्व-अङ्ग चेष्टायाम् शकुन्तः इव पञ्जरे तत्र लब्ध-स्मृतिः दैवात् कर्म जन्म-शत-उद्भवम् स्मरन् दीर्घम् अनुच्छ्वासम् शर्म किम् नाम विन्दते
आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपित: ।
नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदर: ॥ १० ॥
आरभ्य सप्तमात् मासात् लब्ध-बोधः अपि वेपितः न एकत्र आस्ते सूति-वातैः विष्ठा-भूः इव स-उदरः
नाथमान ऋषिर्भीत: सप्तवध्रि: कृताञ्जलि: ।
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पित: ॥ ११ ॥
नाथमानः ऋषिः भीतः सप्त-वध्रिः कृत-अञ्जलिः स्तुवीत तम् विक्लवया वाचा येन उदरे अर्पितः
जन्तुरुवाच
तस्योपसन्नमवितुं जगदिच्छयात्त-
नानातनोर्भुवि चलच्चरणारविन्दम् ।
सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२ ॥
जन्तुः उवाच तस्य उपसन्नम् अवितुम् जगत् इच्छया आत्त-नाना-तनोः भुवि चलत् चरण-अरविन्दम् सः अहम् व्रजामि शरणम् हि अकुतः-भयम् मे येन ईदृशी गतिः अदर्शि असतः अनुरूपा
यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।
आस्ते विशुद्धमविकारमखण्डबोधम्
आतप्यमानहृदयेऽवसितं नमामि ॥ १३ ॥
यः तु अत्र बद्धः इव कर्मभिः आवृत आत्मा भूत इन्द्रिय आशय मयीम् अवलम्ब्य मायाम् आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् आतप्यमान हृदये अवसितम् नमामि
य: पञ्चभूतरचिते रहित: शरीरे
च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।
तेनाविकुण्ठमहिमानमृषिं तमेनं
वन्दे परं प्रकृतिपूरुषयो: पुमांसम् ॥ १४ ॥
यः पञ्च-भूत रचिते रहितः शरीरे छन्नः अयथा इन्द्रिय गुण अर्थ चित् आत्मकः अहम् तेन अविकुण्ठ-महिमानम् ऋषिम् तम् एनम् वन्दे परम् प्रकृति पूरुषयोः पुमांसम्
यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
सांसारिके पथि चरंस्तदभिश्रमेण ।
नष्टस्मृति: पुनरयं प्रवृणीत लोकं
युक्त्या कया महदनुग्रहमन्तरेण ॥ १५ ॥
यत् मायया उरु-गुण कर्म निबन्धने अस्मिन् सांसारिके पथि चरन् तत् अभिश्रमेण नष्ट स्मृतिः पुनः अयम् प्रवृणीत लोकम् युक्त्या कया महत्-अनुग्रहम् अन्तरेण
ज्ञानं यदेतददधात्कतम: स देवस्
त्रैकालिकं
स्थिरचरेष्वनुवर्तितांश: ।
तं
जीवकर्मपदवीमनुवर्तमानास्
तापत्रयोपशमनाय वयं भजेम ॥ १६ ॥
ज्ञानम् यत् एतत् अदधात् कतमः सः देवः त्रै-कालिकम् स्थिर-चरेषु अनुवर्तित अंशः तम् जीव कर्म-पदवीम् अनुवर्तमानाः ताप-त्रय उपशमनाय वयम् भजेम
देह्यन्यदेहविवरे जठराग्निनासृग्-
विण्मूत्रकूपपतितो भृशतप्तदेह: ।
इच्छन्नितो विवसितुं गणयन्स्वमासान्
निर्वास्यते कृपणधीर्भगवन्कदा नु ॥ १७ ॥
देही अन्य-देह विवरे जठर अग्निना असृक् विट् मूत्र कूप पतितः भृश तप्त देहः इच्छन् इतः विवसितुम् गणयन् स्वमासान् निर्वास्यते कृपण-धीः भगवन् कदा नु
येनेदृशीं गतिमसौ दशमास्य ईश
संग्राहित: पुरुदयेन भवादृशेन ।
स्वेनैव तुष्यतु कृतेन स दीननाथ:
को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८ ॥
येन ईदृशीम् गतिम् असौ दश-मास्यः ईश सङ्ग्राहितः पुरु-दयेन भवादृशेन स्वेन एव तुष्यतु कृतेन सः दीन-नाथः कः नाम तत् प्रति विना अञ्जलिम् अस्य कुर्यात्
पश्यत्ययं धिषणया ननु सप्तवध्रि:
शारीरके दमशरीर्यपर: स्वदेहे ।
यत्सृष्टयासं तमहं पुरुषं पुराणं
पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९ ॥
पश्यति अयम् धिषणया ननु सप्त-वध्रिः शारीरके दम-शरीरी अपरः स्व-देहे यत् सृष्टया आसम् तम् अहम् पुरुषम् पुराणम् पश्ये बहिः हृदि च चैत्यम् इव प्रतीतम्
सोऽहं वसन्नपि विभो बहुदु:खवासं
गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।
यत्रोपयातमुपसर्पति देवमाया
मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ॥ २० ॥
सः अहम् वसन् अपि विभो बहु-दुःख वासम् गर्भात् न निर्जिगमिषे बहिः अन्ध-कूपे यत्र उपयातम् उपसर्पति देव-माया मिथ्या मतिः यत् अनु संसृति चक्रम् एतत्
तस्मादहं विगतविक्लव उद्धरिष्य
आत्मानमाशु तमस: सुहृदात्मनैव ।
भूयो यथा व्यसनमेतदनेकरन्ध्रं
मा मे भविष्यदुपसादितविष्णुपाद: ॥ २१ ॥
तस्मात् अहम् विगत विक्लवः उद्धरिष्ये आत्मानम् आशु तमसः सुहृदा आत्मना एव भूयः यथा व्यसनम् एतत् अनेक-रन्ध्रम् मा मे भविष्यत् उपसादित विष्णु-पादः
कपिल उवाच
एवं कृतमतिर्गर्भे दशमास्य: स्तुवन्नृषि: ।
सद्य: क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुत: ॥ २२ ॥
कपिलः उवाच एवम् कृत-मतिः गर्भे दश-मास्यः स्तुवन् ऋषिः सद्यः क्षिपति अवाचीनम् प्रसूत्यै सूति-मारुतः
तेनावसृष्ट: सहसा कृत्वावाक्शिर आतुर: ।
विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृति: ॥ २३ ॥
तेन अवसृष्टः सहसा कृत्वा अवाक् शिरः आतुरः विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासः हत स्मृतिः
पतितो भुव्यसृङ्मिश्र: विष्ठाभूरिव चेष्टते ।
रोरूयति गते ज्ञाने विपरीतां गतिं गत: ॥ २४ ॥
पतितः भुवि असृक् मिश्रः विष्ठा-भूः इव चेष्टते रोरूयति गते ज्ञाने विपरीताम् गतिम् गतः
परच्छन्दं न विदुषा पुष्यमाणो जनेन स: ।
अनभिप्रेतमापन्न: प्रत्याख्यातुमनीश्वर: ॥ २५ ॥
पर-छन्दम् न विदुषा पुष्यमाणः जनेन सः अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः
शायितोऽशुचिपर्यङ्के जन्तु: स्वेदज-दूषिते ।
नेश: कण्डूयनेऽङ्गानामासनोत्थानचेष्टने ॥ २६ ॥
शायितः अशुचि-पर्यङ्के जन्तुः स्वेद-ज दूषिते न ईशः कण्डूयने अङ्गानाम् आसन उत्थान चेष्टने
तुदन्त्यामत्वचं दंशा मशका मत्कुणादय: ।
रुदन्तं विगतज्ञानं कृमय: कृमिकं यथा ॥ २७ ॥
तुदन्ति आम-त्वचम् दंशाः मशकाः मत्कुण आदयः रुदन्तम् विगत ज्ञानम् कृमयः कृमिकम् यथा
इत्येवं शैशवं भुक्त्वा दु:खं पौगण्डमेव च ।
अलब्धाभीप्सितोऽज्ञानादिद्धमन्यु: शुचार्पित: ॥ २८ ॥
इति एवम् शैशवम् भुक्त्वा दुःखम् पौगण्डम् एव च अलब्ध अभीप्सितः अज्ञानात् इद्ध मन्युः शुचा अर्पितः
सह देहेन मानेन वर्धमानेन मन्युना ।
करोति विग्रहं कामी कामिष्वन्ताय चात्मन: ॥ २९ ॥
सह देहेन मानेन वर्धमानेन मन्युना करोति विग्रहम् कामी कामिषु अन्ताय च आत्मनः
भूतै: पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।
अहंममेत्यसद्ग्राह: करोति कुमतिर्मतिम् ॥ ३० ॥
भूतैः पञ्चभिः आरब्धे देहे देही अबुधः असकृत् अहम् मम इति असत् ग्राहः करोति कु-मतिः मतिम्
तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ।
योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धन: ॥ ३१ ॥
तत्-अर्थम् कुरुते कर्म यत्-बद्धः याति संसृतिम् यः अनुयाति ददत् क्लेशम् अविद्या कर्म बन्धनः
यद्यसद्भि: पथि पुन: शिश्नोदरकृतोद्यमै: ।
आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ॥ ३२ ॥
यदि असद्भिः पथि पुनः शिश्न उदर कृत उद्यमैः आस्थितः रमते जन्तुः तमः विशति पूर्व-वत्
सत्यं शौचं दया मौनं बुद्धि: श्रीर्ह्रीर्यश: क्षमा ।
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३ ॥
सत्यम् शौचम् दया मौनम् बुद्धिः श्रीः ह्रीः यशः क्षमा शमः दमः भगः च इति यत्-सङ्गात् याति सङ्क्षयम्
तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।
सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३४ ॥
तेषु अशान्तेषु मूढेषु खण्डित-आत्मसु असाधुषु सङ्गम् न कुर्यात् शोच्येषु योषित् क्रीडा-मृगेषु च
न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गत: ।
योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गत: ॥ ३५ ॥
न तथा अस्य भवेत् मोहः बन्धः च अन्य-प्रसङ्गतः योषित्-सङ्गात् यथा पुंसः यथा तत्-सङ्गि सङ्गतः
प्रजापति: स्वां दुहितरं दृष्ट्वा तद्रूपधर्षित: ।
रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रप: ॥ ३६ ॥
प्रजा-पतिः स्वाम् दुहितरम् दृष्ट्वा तत्-रूप धर्षितः रोहित्-भूताम् सः अन्वधावत् ऋक्ष-रूपी हत त्रपः
तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधी: पुमान् ।
ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३७ ॥
तत् सृष्ट-सृष्ट-सृष्टेषु कः नु अखण्डित धीः पुमान् ऋषिम् नारायणम् ऋते योषित्-मय्या इह मायया
बलं मे पश्य मायाया: स्त्रीमय्या जयिनो दिशाम् ।
या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम् ॥ ३८ ॥
बलम् मे पश्य मायायाः स्त्री-मय्याः जयिनः दिशाम् या करोति पद-आक्रान्तान् भ्रूवि जृम्भेण केवलम्
सङ्गं न कुर्यात्प्रमदासु जातु
योगस्य पारं परमारुरुक्षु: ।
मत्सेवया प्रतिलब्धात्मलाभो
वदन्ति या निरयद्वारमस्य ॥ ३९ ॥
सङ्गम् न कुर्यात् प्रमदासु जातु योगस्य पारम् परम् आरुरुक्षुः मत्-सेवया प्रतिलब्ध आत्म-लाभः वदन्ति याः निरय द्वारम् अस्य
योपयाति शनैर्माया योषिद्देवविनिर्मिता ।
तामीक्षेतात्मनो मृत्युं तृणै: कूपमिवावृतम् ॥ ४० ॥
या उपयाति शनैः माया योषित् देव विनिर्मिता ताम् ईक्षेत आत्मनः मृत्युम् तृणैः कूपम् इव आवृतम्
यां मन्यते पतिं मोहान्मन्मायामृषभायतीम् ।
स्त्रीत्वं स्त्रीसङ्गत: प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१ ॥
याम् मन्यते पतिम् मोहात् मत्-मायाम् ऋषभ आयतीम् स्त्रीत्वम् स्त्री-सङ्गतः प्राप्तः वित्त अपत्य गृह प्रदम्
तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम् ।
दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२ ॥
ताम् आत्मनः विजानीयात् पति अपत्य गृह आत्मकम् दैव उपसादितम् मृत्युम् मृगयोः गायनम् यथा
देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ।
भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३ ॥
देहेन जीव-भूतेन लोकात् लोकम् अनुव्रजन् भुञ्जानः एव कर्माणि करोति अविरतम् पुमान्
जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमय: ।
तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भव: ॥ ४४ ॥
जीवः हि अस्य अनुगः देहः भूत इन्द्रिय मनः मयः तत् निरोधः अस्य मरणम् आविर्भावः तु सम्भवः
द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।
तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम् ॥ ४५ ॥
यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।
तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयो: ॥ ४६ ॥
द्रव्य उपलब्धि स्थानस्य द्रव्य ईक्षा अयोग्यता यदा तत् पञ्चत्वम् अहम्-मानात् उत्पत्तिः द्रव्य दर्शनम् यथा अक्ष्णोः द्रव्य अवयव दर्शन अयोग्यता यदा तदा एव चक्षुषः द्रष्टुः द्रष्टृत्व अयोग्यता अनयोः
तस्मान्न कार्य: सन्त्रासो न कार्पण्यं न सम्भ्रम: ।
बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७ ॥
तस्मात् न कार्यः सन्त्रासः न कार्पण्यम् न सम्भ्रमः बुद्ध्वा जीव-गतिम् धीरः मुक्त-सङ्गः चरेत् इह
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।
मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ॥ ४८ ॥
सम्यक्-दर्शनया बुद्ध्या योग वैराग्य युक्तया माया-विरचिते लोके चरेत् न्यस्य कलेवरम्
३.३२
कपिल उवाच
अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे ।
काममर्थं च धर्मान्स्वान्दोग्धि भूय: पिपर्ति तान् ॥ १ ॥
कपिलः उवाच अथ यः गृह-मेधीयान् धर्मान् एव आवसन् गृहे कामम् अर्थम् च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान्
स चापि भगवद्धर्मात्काममूढ: पराङ्मुख: ।
यजते क्रतुभिर्देवान्पितृंश्च श्रद्धयान्वित: ॥ २ ॥
सः च अपि भगवत्-धर्मात् काम-मूढः पराक्-मुखः यजते क्रतुभिः देवान् पितॄन् च श्रद्धया अन्वितः
तच्छ्रद्धयाक्रान्तमति: पितृदेवव्रत: पुमान् ।
गत्वा चान्द्रमसं लोकं सोमपा: पुनरेष्यति ॥ ३ ॥
तत् श्रद्धया आक्रान्त मतिः पितृ देव व्रतः पुमान् गत्वा चान्द्रमसम् लोकम् सोम-पाः पुनः एष्यति
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरि: ।
तदा लोका लयं यान्ति त एते गृहमेधिनाम् ॥ ४ ॥
यदा च अहि-इन्द्र शय्यायाम् शेते अनन्त-आसनः हरिः तदा लोकाः लयम् यान्ति ते एते गृह-मेधिनाम्
ये स्वधर्मान्न दुह्यन्ति धीरा: कामार्थहेतवे ।
नि:सङ्गा न्यस्तकर्माण: प्रशान्ता: शुद्धचेतस: ॥ ५ ॥
ये स्व-धर्मान् न दुह्यन्ति धीराः काम अर्थ हेतवे निःसङ्गाः न्यस्त कर्माणः प्रशान्ताः शुद्ध-चेतसः
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृता: ।
स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥
निवृत्ति-धर्म निरताः निर्ममाः निरहङ्कृताः स्व-धर्म आप्तेन सत्त्वेन परिशुद्धेन चेतसा
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।
परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ॥ ७ ॥
सूर्य-द्वारेण ते यान्ति पुरुषम् विश्वतः-मुखम् पर-अवर-ईशम् प्रकृतिम् अस्य उत्पत्ति अन्त भावनम्
द्विपरार्धावसाने य: प्रलयो ब्रह्मणस्तु ते ।
तावदध्यासते लोकं परस्य परचिन्तका: ॥ ८ ॥
द्वि-परार्ध अवसाने यः प्रलयः ब्रह्मणः तु ते तावत् अध्यासते लोकम् परस्य पर-चिन्तकाः
क्ष्माम्भोऽनलानिलवियन्मनइन्द्रियार्थ-
भूतादिभि: परिवृतं प्रतिसञ्जिहीर्षु: ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा
कालं पराख्यमनुभूय पर: स्वयम्भू: ॥ ९ ॥
क्ष्मा अम्भः अनल अनिल वियत् मनः इन्द्रिय अर्थ भूत आदिभिः परिवृतम् प्रतिसञ्जिहीर्षुः अव्याकृतम् विशति यर्हि गुण-त्रय-आत्मा कालम् पर-आख्यम् अनुभूय परः स्वयम्भूः
एवं परेत्य भगवन्तमनुप्रविष्टा
ये योगिनो जितमरुन्मनसो विरागा: ।
तेनैव साकममृतं पुरुषं पुराणं
ब्रह्म प्रधानमुपयान्त्यगताभिमाना: ॥ १० ॥
एवम् परेत्य भगवन्तम् अनुप्रविष्टाः ये योगिनः जित मरुत् मनसः विरागाः तेन एव साकम् अमृतम् पुरुषम् पुराणम् ब्रह्म प्रधानम् उपयान्ति अगत अभिमानाः
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।
श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥
अथ तम् सर्व-भूतानाम् हृत्-पद्मेषु कृत-आलयम् श्रुत-अनुभावम् शरणम् व्रज भावेन भामिनि
आद्य: स्थिरचराणां यो वेदगर्भ: सहर्षिभि: ।
योगेश्वरै: कुमाराद्यै: सिद्धैर्योगप्रवर्तकै: ॥ १२ ॥
भेददृष्टयाभिमानेन नि:सङ्गेनापि कर्मणा ।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥
स संसृत्य पुन: काले कालेनेश्वरमूर्तिना ।
जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ।
निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥
आद्यः स्थिर-चराणाम् यः वेद-गर्भः सह ऋषिभिः योग-ईश्वरैः कुमार-आद्यैः सिद्धैः योग-प्रवर्तकैः भेद-दृष्ट्या अभिमानेन निःसङ्गेन अपि कर्मणा कर्तृत्वात् स-गुणम् ब्रह्म पुरुषम् पुरुष-ऋषभम् सः संसृत्य पुनः काले कालेन ईश्वर-मूर्तिना जाते गुण-व्यतिकरे यथा पूर्वम् प्रजायते ऐश्वर्यम् पारमेष्ठ्यम् च ते अपि धर्म विनिर्मितम् निषेव्य पुनः आयान्ति गुण-व्यतिकरे सति
ये त्विहासक्तमनस: कर्मसु श्रद्धयान्विता: ।
कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नश: ॥ १६ ॥
ये तु इह आसक्त मनसः कर्मसु श्रद्धया अन्विताः कुर्वन्ति अप्रतिषिद्धानि नित्यानि अपि च कृत्स्नशः
रजसा कुण्ठमनस: कामात्मानोऽजितेन्द्रिया: ।
पितृन् यजन्त्यनुदिनं गृहेष्वभिरताशया: ॥ १७ ॥
रजसा कुण्ठ मनसः काम-आत्मानः अजित इन्द्रियाः पितॄन् यजन्ति अनुदिनम् गृहेषु अभिरत आशयाः
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधस: ।
कथायां कथनीयोरुविक्रमस्य मधुद्विष: ॥ १८ ॥
त्रै-वर्गिकाः ते पुरुषाः विमुखाः हरि-मेधसः कथायाम् कथनीय उरु-विक्रमस्य मधु-द्विषः
नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।
हित्वा शृण्वन्त्यसद्गाथा: पुरीषमिव विड्भुज: ॥ १९ ॥
नूनम् दैवेन विहताः ये च अच्युत कथा सुधाम् हित्वा शृण्वन्ति असत्-गाथाः पुरीषम् इव विट्-भुजः
दक्षिणेन पथार्यम्ण: पितृलोकं व्रजन्ति ते ।
प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृत: ॥ २० ॥
दक्षिणेन पथा अर्यम्णः पितृ-लोकम् व्रजन्ति ते प्रजाम् अनु प्रजायन्ते श्मशान अन्त क्रिया कृतः
ततस्ते क्षीणसुकृता: पुनर्लोकमिमं सति ।
पतन्ति विवशा देवै: सद्यो विभ्रंशितोदया: ॥ २१ ॥
ततः ते क्षीण सु-कृताः पुनः लोकम् इमम् सति पतन्ति विवशाः देवैः सद्यः विभ्रंशित उदयाः
तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ।
तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥
तस्मात् त्वम् सर्व-भावेन भजस्व परमेष्ठिनम् तत्-गुण आश्रयया भक्त्या भजनीय पद-अम्बुजम्
वासुदेवे भगवति भक्तियोग: प्रयोजित: ।
जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ॥ २३ ॥
वासुदेवे भगवति भक्ति-योगः प्रयोजितः जनयति आशु वैराग्यम् ज्ञानम् यत् ब्रह्म-दर्शनम्
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभि: ।
न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत ॥ २४ ॥
यदा अस्य चित्तम् अर्थेषु समेषु इन्द्रिय-वृत्तिभिः न विगृह्णाति वैषम्यम् प्रियम् अप्रियम् इति उत
स तदैवात्मनात्मानं नि:सङ्गं समदर्शनम् ।
हेयोपादेयरहितमारूढं पदमीक्षते ॥ २५ ॥
सः तदा एव आत्मना आत्मानम् निःसङ्गम् सम-दर्शनम् हेय उपादेय रहितम् आरूढम् पदम् ईक्षते
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वर: पुमान् ।
दृश्यादिभि: पृथग्भावैर्भगवानेक ईयते ॥ २६ ॥
ज्ञान मात्रम् परम् ब्रह्म परम-आत्मा ईश्वरः पुमान् दृशि-आदिभिः पृथक् भावैः भगवान् एकः ईयते
एतावानेव योगेन समग्रेणेह योगिन: ।
युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नश: ॥ २७ ॥
एतावान् एव योगेन समग्रेण इह योगिनः युज्यते अभिमतः हि अर्थः यत् असङ्गः तु कृत्स्नशः
ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥
ज्ञानम् एकम् पराचीनैः इन्द्रियैः ब्रह्म निर्गुणम् अवभाति अर्थ-रूपेण भ्रान्त्या शब्द-आदि धर्मिणा
यथा महानहंरूपस्त्रिवृत्पञ्चविध: स्वराट् ।
एकादशविधस्तस्य वपुरण्डं जगद्यत: ॥ २९ ॥
यथा महान् अहम्-रूपः त्रि-वृत् पञ्च-विधः स्व-राट् एकादश-विधः तस्य वपुः अण्डम् जगत् यतः
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यश: ।
समाहितात्मा नि:सङ्गो विरक्त्या परिपश्यति ॥ ३० ॥
एतत् वै श्रद्धया भक्त्या योग-अभ्यासेन नित्यशः समाहित-आत्मा निःसङ्गः विरक्त्या परिपश्यति
इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्म-दर्शनम् ।
येनानुबुद्ध्यते तत्त्वं प्रकृते: पुरुषस्य च ॥ ३१ ॥
इति एतत् कथितम् गुर्वि ज्ञानम् तत् ब्रह्म दर्शनम् येन अनुबुद्ध्यते तत्त्वम् प्रकृतेः पुरुषस्य च
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षण: ।
द्वयोरप्येक एवार्थो भगवच्छब्दलक्षण: ॥ ३२ ॥
ज्ञान-योगः च मत्-निष्ठः नैर्गुण्यः भक्ति लक्षणः द्वयोः अपि एकः एव अर्थः भगवत् शब्द लक्षणः
यथेन्द्रियै: पृथग्द्वारैरर्थो बहुगुणाश्रय: ।
एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभि: ॥ ३३ ॥
यथा इन्द्रियैः पृथक्-द्वारैः अर्थः बहु-गुण आश्रयः एकः नाना ईयते तद्वत् भगवान् शास्त्र-वर्त्मभिः
क्रियया क्रतुभिर्दानैस्तप:स्वाध्यायमर्शनै: ।
आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम् ॥ ३४ ॥
योगेन विविधाङ्गेन भक्तियोगेन चैव हि ।
धर्मेणोभयचिह्नेन य: प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ।
ईयते भगवानेभि: सगुणो निर्गुण: स्वदृक् ॥ ३६ ॥
क्रियया क्रतुभिः दानैः तपः स्वाध्याय मर्शनैः आत्म-इन्द्रिय-जयेन अपि सन्न्यासेन च कर्मणाम् योगेन विविध-अङ्गेन भक्ति-योगेन च एव हि धर्मेण उभय-चिह्नेन यः प्रवृत्ति निवृत्ति-मान् आत्म-तत्त्व अवबोधेन वैराग्येण दृढेन च ईयते भगवान् एभिः स-गुणः निर्गुणः स्व-दृक्
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।
कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥ ३७ ॥
प्रावोचम् भक्ति-योगस्य स्वरूपम् ते चतुः-विधम् कालस्य च अव्यक्त-गतेः यः अन्तर्धावति जन्तुषु
जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिता: ।
यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मन: ॥ ३८ ॥
जीवस्य संसृतीः बह्वीः अविद्या कर्म निर्मिताः यासु अङ्ग प्रविशन् आत्मा न वेद गतिम् आत्मनः
नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् ।
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥
न एतत् खलाय उपदिशेत् न अविनीताय कर्हिचित् न स्तब्धाय न भिन्नाय न एव धर्म-ध्वजाय च
न लोलुपायोपदिशेन्न गृहारूढचेतसे ।
नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४० ॥
न लोलुपाय उपदिशेत् न गृह-आरूढ-चेतसे न अभक्ताय च मे जातु न मत् भक्त द्विषाम् अपि
श्रद्दधानाय भक्ताय विनीतायानसूयवे ।
भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥
श्रद्दधानाय भक्ताय विनीताय अनसूयवे भूतेषु कृत-मैत्राय शुश्रूषा अभिरताय च
बहिर्जातविरागाय शान्तचित्ताय दीयताम् ।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रिय: ॥ ४२ ॥
बहिः जात-विरागाय शान्त-चित्ताय दीयताम् निर्मत्सराय शुचये यस्य अहम् प्रेयसाम् प्रियः
य इदं शृणुयादम्ब श्रद्धया पुरुष: सकृत् ।
यो वाभिधत्ते मच्चित्त: स ह्येति पदवीं च मे ॥ ४३ ॥
यः इदम् शृणुयात् अम्ब श्रद्धया पुरुषः सकृत् यः वा अभिधत्ते मत्-चित्तः सः हि एति पदवीम् च मे
३.३३
मैत्रेय उवाच
एवं निशम्य कपिलस्य वचो जनित्री
सा कर्दमस्य दयिता किल देवहूति: ।
विस्रस्तमोहपटला तमभिप्रणम्य
तुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम् ॥ १ ॥
मैत्रेयः उवाच एवम् निशम्य कपिलस्य वचः जनित्री सा कर्दमस्य दयिता किल देवहूतिः विस्रस्त मोह-पटला तम् अभिप्रणम्य तुष्टाव तत्त्व विषय अङ्कित सिद्धि भूमिम्
देवहूतिरुवाच
अथाप्यजोऽन्त:सलिले शयानं
भूतेन्द्रियार्थात्ममयं वपुस्ते ।
गुणप्रवाहं सदशेषबीजं
दध्यौ स्वयं यज्जठराब्जजात: ॥ २ ॥
देवहूतिः उवाच अथ अपि अजः अन्तः-सलिले शयानम् भूत इन्द्रिय अर्थ आत्म मयम् वपुः ते गुण-प्रवाहम् सत् अशेष बीजम् दध्यौ स्वयम् यत् जठर अब्ज जातः
स एव विश्वस्य भवान्विधत्ते
गुणप्रवाहेण विभक्तवीर्य: ।
सर्गाद्यनीहोऽवितथाभिसन्धिर्
आत्मेश्वरोऽतर्क्यसहस्रशक्ति: ॥ ३ ॥
सः एव विश्वस्य भवान् विधत्ते गुण-प्रवाहेण विभक्त वीर्यः सर्ग-आदि अनीहः अवितथ अभिसन्धिः आत्म-ईश्वरः अतर्क्य सहस्र शक्तिः
स त्वं भृतो मे जठरेण नाथ
कथं नु यस्योदर एतदासीत् ।
विश्वं युगान्ते वटपत्र एक:
शेते स्म माया-शिशुरङ्घ्रिपान: ॥ ४ ॥
सः त्वम् भृतः मे जठरेण नाथ कथम् नु यस्य उदरे एतत् आसीत् विश्वम् युग-अन्ते वट-पत्रे एकः शेते स्म माया शिशुः अङ्घ्रि पानः
त्वं देहतन्त्र: प्रशमाय पाप्मनां
निदेशभाजां च विभो विभूतये ।
यथावतारास्तव सूकरादयस्
तथायमप्यात्मपथोपलब्धये ॥ ५ ॥
त्वम् देह तन्त्रः प्रशमाय पाप्मनाम् निदेश-भाजाम् च विभो विभूतये यथा अवताराः तव सूकर-आदयः तथा अयम् अपि आत्म-पथ उपलब्धये
यन्नामधेयश्रवणानुकीर्तनाद्
यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ।
श्वादोऽपि सद्य: सवनाय कल्पते
कुत: पुनस्ते भगवन्नु दर्शनात् ॥ ६ ॥
यत् नामधेय श्रवण अनुकीर्तनात् यत् प्रह्वणात् यत् स्मरणात् अपि क्वचित् श्व-अदः अपि सद्यः सवनाय कल्पते कुतः पुनः ते भगवन् नु दर्शनात्
अहो बत श्वपचोऽतो गरीयान्
यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस्तपस्ते जुहुवु: सस्नुरार्या
ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥
अहो बत श्व-पचः अतः गरीयान् यत् जिह्वा-अग्रे वर्तते नाम तुभ्यम् तेपुः तपः ते जुहुवुः सस्नुः आर्याः ब्रह्म अनूचुः नाम गृणन्ति ये ते
तं त्वामहं ब्रह्म परं पुमांसं
प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ।
स्वतेजसा ध्वस्तगुणप्रवाहं
वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥
तम् त्वाम् अहम् ब्रह्म परम् पुमांसम् प्रत्यक्-स्रोतसि आत्मनि संविभाव्यम् स्व-तेजसा ध्वस्त गुण-प्रवाहम् वन्दे विष्णुम् कपिलम् वेद-गर्भम्
मैत्रेय उवाच
ईडितो भगवानेवं कपिलाख्य: पर: पुमान् ।
वाचाविक्लवयेत्याह मातरं मातृवत्सल: ॥ ९ ॥
मैत्रेयः उवाच ईडितः भगवान् एवम् कपिल-आख्यः परः पुमान् वाचा अविक्लवया इति आह मातरम् मातृ-वत्सलः
कपिल उवाच
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।
आस्थितेन परां काष्ठामचिरादवरोत्स्यसि ॥ १० ॥
कपिलः उवाच मार्गेण अनेन मातः ते सु-सेव्येन उदितेन मे आस्थितेन पराम् काष्ठाम् अचिरात् अवरोत्स्यसि
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभि: ।
येन मामभयं याया मृत्युमृच्छन्त्यतद्विद: ॥ ११ ॥
श्रद्धत्स्व एतत् मतम् मह्यम् जुष्टम् यत् ब्रह्म-वादिभिः येन माम् अभयम् यायाः मृत्युम् ऋच्छन्ति अ-तत्-विदः
मैत्रेय उवाच
इति प्रदर्श्य भगवान्सतीं तामात्मनो गतिम् ।
स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥
मैत्रेयः उवाच इति प्रदर्श्य भगवान् सतीम् ताम् आत्मनः गतिम् स्व-मात्रा ब्रह्म-वादिन्या कपिलः अनुमतः ययौ
सा चापि तनयोक्तेन योगादेशेन योगयुक् ।
तस्मिन्नाश्रम आपीडे सरस्वत्या: समाहिता ॥ १३ ॥
सा च अपि तनय उक्तेन योग-आदेशेन योग-युक् तस्मिन् आश्रमे आपीडे सरस्वत्याः समाहिता
अभीक्ष्णावगाहकपिशान्जटिलान्कुटिलालकान् ।
आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥
अभीक्ष्ण अवगाह कपिशान् जटिलान् कुटिल अलकान् आत्मानम् च उग्र-तपसा बिभ्रती चीरिणम् कृशम्
प्रजापते: कर्दमस्य तपोयोगविजृम्भितम् ।
स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥
प्रजा-पतेः कर्दमस्य तपः योग विजृम्भितम् स्व-गार्हस्थ्यम् अनौपम्यम् प्रार्थ्यम् वैमानिकैः अपि
पय:फेननिभा: शय्या दान्ता रुक्मपरिच्छदा: ।
आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥
पयः फेन निभाः शय्याः दान्ताः रुक्म परिच्छदाः आसनानि च हैमानि सु-स्पर्श आस्तरणानि च
स्वच्छस्फटिककुड्येषु महामारकतेषु च ।
रत्नप्रदीपा आभान्ति ललना रत्नसंयुता: ॥ १७ ॥
स्वच्छ स्फटिक कुड्येषु महा-मारकतेषु च रत्न-प्रदीपाः आभान्ति ललनाः रत्न संयुताः
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमै: ।
कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम् ॥ १८ ॥
गृह-उद्यानम् कुसुमितैः रम्यम् बहु-अमर-द्रुमैः कूजत् विहङ्ग मिथुनम् गायत् मत्त मधु-व्रतम्
यत्र प्रविष्टमात्मानं विबुधानुचरा जगु: ।
वाप्यामुत्पलगन्धिन्यां
कर्दमेनोपलालितम् ॥ १९ ॥
यत्र प्रविष्टम् आत्मानम् विबुध-अनुचराः जगुः वाप्याम् उत्पल गन्धिन्याम् कर्दमेन उपलालितम्
हित्वा तदीप्सिततममप्याखण्डलयोषिताम् ।
किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥
हित्वा तत् ईप्सित-तमम् अपि आखण्डल-योषिताम् किञ्चित् चकार वदनम् पुत्र-विश्लेषण आतुरा
वनं प्रव्रजिते पत्यावपत्यविरहातुरा ।
ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१ ॥
वनम् प्रव्रजिते पत्यौ अपत्य-विरह आतुरा ज्ञात-तत्त्वा अपि अभूत् नष्टे वत्से गौः इव वत्सला
तमेव ध्यायती देवमपत्यं कपिलं हरिम् ।
बभूवाचिरतो वत्स नि:स्पृहा तादृशे गृहे ॥ २२ ॥
तम् एव ध्यायती देवम् अपत्यम् कपिलम् हरिम् बभूव अचिरतः वत्स निःस्पृहा तादृशे गृहे
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ।
सुत: प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥
ध्यायती भगवत्-रूपम् यत् आह ध्यान-गोचरम् सुतः प्रसन्न-वदनम् समस्त व्यस्त चिन्तया
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥
विशुद्धेन तदात्मानमात्मना विश्वतोमुखम् ।
स्वानुभूत्या तिरोभूतमायागुणविशेषणम् ॥ २५ ॥
भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा युक्त-अनुष्ठान जातेन ज्ञानेन ब्रह्म-हेतुना विशुद्धेन तदा आत्मानम् आत्मना विश्वतः-मुखम् स्व-अनुभूत्या तिरः-भूत माया-गुण विशेषणम्
ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये ।
निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृति: ॥ २६ ॥
ब्रह्मणि अवस्थित मतिः भगवति आत्म-संश्रये निवृत्त जीव आपत्तित्वात् क्षीण क्लेश आप्त निर्वृतिः
नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा ।
न सस्मार तदात्मानं स्वप्ने दृष्टमिवोत्थित: ॥ २७ ॥
नित्य आरूढ समाधित्वात् परावृत्त गुण भ्रमा न सस्मार तदा आत्मानम् स्वप्ने दृष्टम् इव उत्थितः
तद्देह: परत: पोषोऽप्यकृशश्चाध्यसम्भवात् ।
बभौ मलैरवच्छन्न: सधूम इव पावक: ॥ २८ ॥
तत्-देहः परतः पोषः अपि अकृशः च आधि असम्भवात् बभौ मलैः अवच्छन्नः स-धूमः इव पावकः
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधी: ॥ २९ ॥
स्व-अङ्गम् तपः योग मयम् मुक्त केशम् गत अम्बरम् दैव गुप्तम् न बुबुधे वासुदेव प्रविष्ट धीः
एवं सा कपिलोक्तेन मार्गेणाचिरत: परम् ।
आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह ॥ ३० ॥
एवम् सा कपिल उक्तेन मार्गेण अचिरतः परम् आत्मानम् ब्रह्म निर्वाणम् भगवन्तम् अवाप ह
तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।
नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥
तत् वीर आसीत् पुण्य-तमम् क्षेत्रम् त्रै-लोक्य विश्रुतम् नाम्ना सिद्ध-पदम् यत्र सा संसिद्धिम् उपेयुषी
तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् ।
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥
तस्याः तत् योग विधुत मार्त्यम् मर्त्यम् अभूत् सरित् स्रोतसाम् प्रवरा सौम्य सिद्धि-दा सिद्ध सेविता
कपिलोऽपि महायोगी भगवान्पितुराश्रमात् ।
मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ ॥ ३३ ॥
कपिलः अपि महा-योगी भगवान् पितुः आश्रमात् मातरम् समनुज्ञाप्य प्राक्-उदीचीम् दिशम् ययौ
सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणै: ।
स्तूयमान: समुद्रेण दत्तार्हणनिकेतन: ॥ ३४ ॥
सिद्ध चारण गन्धर्वैः मुनिभिः च अप्सरः-गणैः स्तूयमानः समुद्रेण दत्त अर्हण निकेतनः
आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुत: ।
त्रयाणामपि लोकानामुपशान्त्यै समाहित: ॥ ३५ ॥
आस्ते योगम् समास्थाय साङ्ख्य आचार्यैः अभिष्टुतः त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ।
कपिलस्य च संवादो देवहूत्याश्च पावन: ॥ ३६ ॥
एतत् निगदितम् तात यत् पृष्टः अहम् तव अनघ कपिलस्य च संवादः देवहूत्याः च पावनः
य इदमनुशृणोति योऽभिधत्ते
कपिलमुनेर्मतमात्मयोगगुह्यम् ।
भगवति कृतधी: सुपर्णकेताव्
उपलभते भगवत्पदारविन्दम् ॥ ३७ ॥
एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।
इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ६ ॥
यः इदम् अनुशृणोति यः अभिधत्ते कपिल-मुनेः मतम् आत्म-योग गुह्यम् भगवति कृत-धीः सुपर्ण-केतौ उपलभते भगवत् पद-अरविन्दम्