श्रीमद्भागवतम् पदच्छेद - स्कंध ४

४.१

मैत्रेय उवाच
मनोस्तु शतरूपायां तिस्र: कन्याश्च जज्ञिरे ।
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुता: ॥ १ ॥

मैत्रेयः उवाच मनोः तु शतरूपायाम् तिस्रः कन्याः च जज्ञिरे आकूतिः देवहूतिः च प्रसूतिः इति विश्रुताः

आकूतिं रुचये प्रादादपि भ्रातृमतीं नृप: ।
पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदित: ॥ २ ॥

आकूतिम् रुचये प्रादात् अपि भ्रातृ-मतीम् नृपः पुत्रिका धर्मम् आश्रित्य शतरूपा अनुमोदितः

प्रजापति: स भगवान् रुचिस्तस्यामजीजनत् ।
मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥

प्रजापतिः सः भगवान् रुचिः तस्याम् अजीजनत् मिथुनम् ब्रह्म-वर्चस्वी परमेण समाधिना

यस्तयो: पुरुष: साक्षाद्विष्णुर्यज्ञस्वरूपधृक् ।
या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥ ४ ॥

यः तयोः पुरुषः साक्षात् विष्णुः यज्ञ स्वरूप-धृक् या स्त्री सा दक्षिणा भूतेः अंश-भूता अनपायिनी

आनिन्ये स्वगृहं पुत्र्या: पुत्रं विततरोचिषम् ।
स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥

आनिन्ये स्व-गृहम् पुत्र्याः पुत्रम् वितत-रोचिषम् स्वायम्भुवः मुदा युक्तः रुचिः जग्राह दक्षिणाम्

तां कामयानां भगवानुवाह यजुषां पति: ।
तुष्टायां तोषमापन्नोऽजनयद् द्वादशात्मजान् ॥ ६ ॥

ताम् कामयानाम् भगवान् उवाह यजुषाम् पतिः तुष्टायाम् तोषम् आपन्नः अजनयत् द्वादश आत्मजान्

तोष: प्रतोष: सन्तोषो भद्र: शान्तिरिडस्पति: ।
इध्म: कविर्विभु: स्वह्न: सुदेवो रोचनो द्विषट् ॥ ७ ॥

तोषः प्रतोषः सन्तोषः भद्रः शान्तिः इडस्पतिः इध्मः कविः विभुः स्वह्नः सुदेवः रोचनः द्वि-षट्

तुषिता नाम ते देवा आसन्स्वायम्भुवान्तरे ।
मरीचिमिश्रा ऋषयो यज्ञ: सुरगणेश्वर: ॥ ८ ॥

तुषिताः नाम ते देवाः आसन् स्वायम्भुव अन्तरे मरीचि-मिश्राः ऋषयः यज्ञः सुर-गण-ईश्वरः

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
तत्पुत्रपौत्रनप्तृणामनुवृत्तं तदन्तरम् ॥ ९ ॥

प्रियव्रत उत्तानपादौ मनु-पुत्रौ महा-ओजसौ तत् पुत्र पौत्र नप्तॄणाम् अनुवृत्तम् तत्-अन्तरम्

देवहूतिमदात्तात कर्दमायात्मजां मनु: ।
तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥

देवहूतिम् अदात् तात कर्दमाय आत्मजाम् मनुः तत्-सम्बन्धि श्रुत-प्रायम् भवता गदतः मम

दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनु: ।
प्रायच्छद्यत्कृत: सर्गस्त्रिलोक्यां विततो महान् ॥ ११ ॥

दक्षाय ब्रह्म-पुत्राय प्रसूतिम् भगवान् मनुः प्रायच्छत् यत्-कृतः सर्गः त्रि-लोक्याम् विततः महान्

या: कर्दमसुता: प्रोक्ता नव ब्रह्मर्षिपत्नय: ।
तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२ ॥

याः कर्दम-सुताः प्रोक्ताः नव ब्रह्म-ऋषि पत्नयः तासाम् प्रसूति-प्रसवम् प्रोच्यमानम् निबोध मे

पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।
कश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ १३ ॥

पत्नी मरीचेः तु कला सुषुवे कर्दम-आत्मजा कश्यपम् पूर्णिमानम् च ययोः आपूरितम् जगत्

पूर्णिमासूत विरजं विश्वगं च परन्तप ।
देवकुल्यां हरे: पादशौचाद्याभूत्सरिद्दिव: ॥ १४ ॥

पूर्णिमा असूत विरजम् विश्वगम् च परम्-तप देवकुल्याम् हरेः पाद-शौचात् या अभूत् सरित् दिवः

अत्रे: पत्‍न्यनसूया त्रीञ्जज्ञे सुयशस: सुतान् ।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ १५ ॥

अत्रेः पत्नी अनसूया त्रीन् जज्ञे सु-यशसः सुतान् दत्तम् दुर्वाससम् सोमम् आत्म ईश ब्रह्म सम्भवान्

विदुर उवाच
अत्रेर्गृहे सुरश्रेष्ठा: स्थित्युत्पत्त्यन्तहेतव: ।
किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥

विदुरः उवाच अत्रेः गृहे सुर-श्रेष्ठाः स्थिति उत्पत्ति अन्त हेतवः किञ्चित् चिकीर्षवः जाताः एतत् आख्याहि मे गुरो

मैत्रेय उवाच
ब्रह्मणा चोदित: सृष्टावत्रिर्ब्रह्मविदां वर: ।
सह पत्‍न्या ययावृक्षं कुलाद्रिं तपसि स्थित: ॥ १७ ॥

मैत्रेयः उवाच ब्रह्मणा चोदितः सृष्टौ अत्रिः ब्रह्म-विदाम् वरः सह पत्न्या ययौ ऋक्षम् कुल-अद्रिम् तपसि स्थितः

तस्मिन् प्रसूनस्तबकपलाशाशोककानने ।
वार्भि: स्रवद्‌भिरुद्‍घुष्टेनिर्विन्ध्याया: समन्तत: ॥ १८ ॥

तस्मिन् प्रसून-स्तबक पलाश अशोक कानने वार्भिः स्रवद्भिः उद्घुष्टे निर्विन्ध्यायाः समन्ततः

प्राणायामेन संयम्य मनो वर्षशतं मुनि: ।
अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजन: ॥ १९ ॥

प्राणायामेन संयम्य मनः वर्ष-शतम् मुनिः अतिष्ठत् एक-पादेन निर्द्वन्द्वः अनिल भोजनः

शरणं तं प्रपद्येऽहं य एव जगदीश्वर: ।
प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥

शरणम् तम् प्रपद्ये अहम् यः एव जगत्-ईश्वरः प्रजाम् आत्म-समाम् मह्यम् प्रयच्छतु इति चिन्तयन्

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।
निर्गतेन मुनेर्मूर्ध्न: समीक्ष्य प्रभवस्त्रय: ॥ २१ ॥

तप्यमानम् त्रि-भुवनम् प्राणायाम एधसा अग्निना निर्गतेन मुनेः मूर्ध्नः समीक्ष्य प्रभवः त्रयः

अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगै: ।
वितायमानयशसस्तदाश्रमपदं ययु: ॥ २२ ॥

अप्सरः मुनि गन्धर्व सिद्ध विद्याधर उरगैः वितायमान यशसः तत् आश्रम-पदम् ययुः

तत्प्रादुर्भावसंयोगविद्योतितमना मुनि: ।
उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३ ॥

तत् प्रादुर्भाव संयोग विद्योतित मनाः मुनिः उत्तिष्ठन् एक-पादेन ददर्श विबुध ऋषभान्

प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलि: ।
वृषहंससुपर्णस्थान् स्वै: स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥

प्रणम्य दण्ड-वत् भूमौ उपतस्थे अर्हण अञ्जलिः वृष हंस सुपर्ण स्थान् स्वैः स्वैः चिह्नैः च चिह्नितान्

कृपावलोकेन हसद्वदनेनोपलम्भितान् ।
तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥

कृपा-अवलोकेन हसत् वदनेन उपलम्भितान् तत् रोचिषा प्रतिहते निमील्य मुनिः अक्षिणी

चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलि: ।
श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयस: ॥ २६ ॥
अत्रिरुवाच
विश्वोद्भवस्थितिलयेषु विभज्यमानै-
र्मायागुणैरनुयुगं विगृहीतदेहा: ।
ते ब्रह्मविष्णुगिरिशा: प्रणतोऽस्म्यहं व-स्तेभ्य: क एव भवतां
म इहोपहूत: ॥ २७ ॥

चेतः तत्-प्रवणम् युञ्जन् अस्तावीत् संहत-अञ्जलिः श्लक्ष्णया सूक्तया वाचा सर्व-लोक गरीयसः अत्रिः उवाच विश्व उद्भव स्थिति लयेषु विभज्यमानैः माया-गुणैः अनुयुगम् विगृहीत देहाः ते ब्रह्म विष्णु गिरिशाः प्रणतः अस्मि अहम् वः तेभ्यः कः एव भवताम् मे इह उपहूतः

एको मयेह भगवान्विविधप्रधानै-
श्चित्तीकृत: प्रजननाय कथं नु यूयम् ।
अत्रागतास्तनुभृतां मनसोऽपि दूराद्
ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८ ॥

एकः मया इह भगवान् विविध प्रधानैः चित्ती-कृतः प्रजननाय कथम् नु यूयम् अत्र आगताः तनु-भृताम् मनसः अपि दूरात् ब्रूत प्रसीदत महान् इह विस्मयः मे

मैत्रेय उवाच
इति तस्य वच: श्रुत्वा त्रयस्ते विबुधर्षभा: ।
प्रत्याहु: श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥ २९ ॥

मैत्रेयः उवाच इति तस्य वचः श्रुत्वा त्रयः ते विबुध ऋषभाः प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिम् प्रभो

देवा ऊचु:
यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा ।
सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३० ॥

देवाः ऊचुः यथा कृतः ते सङ्कल्पः भाव्यम् तेन एव न अन्यथा सत्-सङ्कल्पस्य ते ब्रह्मन् यत् वै ध्यायति ते वयम्

अथास्मदंशभूतास्ते आत्मजा लोकविश्रुता: ।
भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यश: ॥ ३१ ॥

अथ अस्मत् अंश-भूताः ते आत्मजाः लोक-विश्रुताः भवितारः अङ्ग भद्रम् ते विस्रप्स्यन्ति च ते यशः

एवं कामवरं दत्त्वा प्रतिजग्मु: सुरेश्वरा: ।
सभाजितास्तयो: सम्यग्दम्पत्योर्मिषतोस्तत: ॥ ३२ ॥

एवम् काम-वरम् दत्त्वा प्रतिजग्मुः सुर-ईश्वराः सभाजिताः तयोः सम्यक् दम्पत्योः मिषतोः ततः

सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।
दुर्वासा: शङ्करस्यांशो निबोधाङ्गिरस: प्रजा: ॥ ३३ ॥

सोमः अभूत् ब्रह्मणः अंशेन दत्तः विष्णोः तु योग-वित् दुर्वासाः शङ्करस्य अंशः निबोध अङ्गिरसः प्रजाः

श्रद्धा त्वङ्गिरस: पत्नी चतस्रोऽसूत कन्यका: ।
सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥

श्रद्धा तु अङ्गिरसः पत्नी चतस्रः असूत कन्यकाः सिनीवाली कुहूः राका चतुर्थी अनुमतिः तथा

तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे ।
उतथ्यो भगवान्साक्षाद् ब्रह्मिष्ठश्च बृहस्पति: ॥ ३५ ॥

तत् पुत्रौ अपरौ आस्ताम् ख्यातौ स्वारोचिषे अन्तरे उतथ्यः भगवान् साक्षात् ब्रह्मिष्ठः च बृहस्पतिः

पुलस्त्योऽजनयत्पत्‍न्यामगस्त्यं च हविर्भुवि ।
सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपा: ॥ ३६ ॥

पुलस्त्यः अजनयत् पत्न्याम् अगस्त्यम् च हविर्भुवि सः अन्य-जन्मनि दह्र-अग्निः विश्रवाः च महा-तपाः

तस्य यक्षपतिर्देव: कुबेरस्त्विडविडासुत: ।
रावण: कुम्भकर्णश्च तथान्यस्यां विभीषण: ॥ ३७ ॥

तस्य यक्ष-पतिः देवः कुबेरः तु इडविडा सुतः रावणः कुम्भकर्णः च तथा अन्यस्याम् विभीषणः

पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् ।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥

पुलहस्य गतिः भार्या त्रीन् असूत सती सुतान् कर्म-श्रेष्ठम् वरीयांसम् सहिष्णुम् च महा-मते

क्रतोरपि क्रिया भार्या वालखिल्यानसूयत ।
ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥

क्रतोः अपि क्रिया भार्या वालखिल्यान् असूयत ऋषीन् षष्टि सहस्राणि ज्वलतः ब्रह्म-तेजसा

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप ।
चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमला: ॥ ४० ॥

ऊर्जायाम् जज्ञिरे पुत्राः वसिष्ठस्य परन्तप चित्रकेतु प्रधानाः ते सप्त ब्रह्म-ऋषयः अमलाः

चित्रकेतु: सुरोचिश्च विरजा मित्र एव च ।
उल्बणो वसुभृद्यानो द्युमान्शक्त्यादयोऽपरे ॥ ४१ ॥

चित्रकेतुः सुरोचिः च विरजाः मित्रः एव च उल्बणः वसुभृद्यानः द्युमान् शक्ति-आदयः अपरे

चित्तिस्त्वथर्वण: पत्नी लेभे पुत्रं धृतव्रतम् ।
दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥

चित्तिः तु अथर्वणः पत्नी लेभे पुत्रम् धृत-व्रतम् दध्यञ्चम् अश्वशिरसम् भृगोः वंशम् निबोध मे

भृगु: ख्यात्यां महाभाग: पत्‍न्यां पुत्रानजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥

भृगुः ख्यात्याम् महा-भागः पत्न्याम् पुत्रान् अजीजनत् धातारम् च विधातारम् श्रियम् च भगवत्-पराम्

आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।
ताभ्यां तयोरभवतां मृकण्ड: प्राण एव च ॥ ४४ ॥

आयतिम् नियतिम् च एव सुते मेरुः तयोः अदात् ताभ्याम् तयोः अभवताम् मृकण्डः प्राणः एव च

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनि: ।
कविश्च भार्गवो यस्य भगवानुशना सुत: ॥ ४५ ॥

मार्कण्डेयः मृकण्डस्य प्राणात् वेदशिराः मुनिः कविः च भार्गवः यस्य भगवान् उशना सुतः

त एते मुनय: क्षत्तर्लोकान्सर्गैरभावयन् ।
एष कर्दमदौहित्रसन्तान: कथितस्तव ॥ ४६ ॥
श‍ृण्वत: श्रद्दधानस्य सद्य: पापहर: पर: ।
प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मज: ॥ ४७ ॥

ते एते मुनयः क्षत्तः लोकान् सर्गैः अभावयन् एषः कर्दम दौहित्र सन्तानः कथितः तव शृण्वतः श्रद्दधानस्य सद्यः पाप-हरः परः प्रसूतिम् मानवीम् दक्षः उपयेमे हि अज-आत्मजः

तस्यां ससर्ज दुहितृ: षोडशामललोचना: ।
त्रयोदशादाद्धर्माय तथैकामग्नये विभु: ॥ ४८ ॥

तस्याम् ससर्ज दुहितॄः षोडश अमल-लोचनाः त्रयोदश अदात् धर्माय तथा एकाम् अग्नये विभुः

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ।
श्रद्धा मैत्री दया शान्तिस्तुष्टि: पुष्टि: क्रियोन्नति: ॥ ४९ ॥
बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नय: ।
श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ॥ ५० ॥
शान्ति: सुखं मुदं तुष्टि: स्मयं पुष्टिरसूयत ।
योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ॥ ५१ ॥
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्री: प्रश्रयं सुतम् ।
मूर्ति: सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥ ५२ ॥

पितृभ्यः एकाम् युक्तेभ्यः भवाय एकाम् भव-छिदे श्रद्धा, मैत्री, दया, शान्तिः, तुष्टिः, पुष्टिः, क्रिया, उन्नतिः, बुद्धिः, मेधा, तितिक्षा, ह्रीः, मूर्तिः धर्मस्य पत्नयः श्रद्धा असूत शुभम् मैत्री प्रसादम् अभयम् दया शान्तिः सुखम् मुदम् तुष्टिः स्मयम् पुष्टिः असूयत योगम् क्रिया उन्नतिः दर्पम् अर्थम् बुद्धिः असूयत मेधा स्मृतिम् तितिक्षा तु क्षेमम् ह्रीः प्रश्रयम् सुतम् मूर्तिः सर्व-गुण उत्पत्तिः नर-नारायणौ ऋषी

ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् ।
मनांसि ककुभो वाता: प्रसेदु: सरितोऽद्रय: ॥ ५३ ॥

ययोः जन्मनि अदः विश्वम् अभ्यनन्दत् सु-निर्वृतम् मनांसि ककुभः वाताः प्रसेदुः सरितः अद्रयः

दिव्यवाद्यन्त तूर्याणि पेतु: कुसुमवृष्टय: ।
मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नरा: ॥ ५४ ॥
नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम् ।
देवा ब्रह्मादय: सर्वे उपतस्थुरभिष्टवै: ॥ ५५ ॥

दिवि अवाद्यन्त तूर्याणि पेतुः कुसुम वृष्टयः मुनयः तुष्टुवुः तुष्टाः जगुः गन्धर्व किन्नराः नृत्यन्ति स्म स्त्रियः देव्यः आसीत् परम-मङ्गलम् देवाः ब्रह्म-आदयः सर्वे उपतस्थुः अभिष्टवैः

देवा ऊचु:
यो मायया विरचितं निजयात्मनीदं
खे रूपभेदमिव तत्प्रतिचक्षणाय ।
एतेन धर्मसदने ऋषिमूर्तिनाद्य
प्रादुश्चकार पुरुषाय नम: परस्मै ॥ ५६ ॥

देवाः ऊचुः यः मायया विरचितम् निजया आत्मनि इदम् खे रूप-भेदम् इव तत् प्रतिचक्षणाय एतेन धर्म-सदने ऋषि-मूर्तिना अद्य प्रादुश्चकार पुरुषाय नमः परस्मै

सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान्
सत्त्वेन न: सुरगणाननुमेयतत्त्व: ।
द‍ृश्याददभ्रकरुणेन विलोकनेन
यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥

सः अयम् स्थिति व्यतिकर उपशमाय सृष्टान् सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः दृश्यात् अदभ्र-करुणेन विलोकनेन यत् श्री-निकेतम् अमलम् क्षिपत अरविन्दम्

एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।
लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥ ५८ ॥

एवम् सुर-गणैः तात भगवन्तौ अभिष्टुतौ लब्ध अवलोकैः ययतुः अर्चितौ गन्ध-मादनम्

ताविमौ वै भगवतो हरेरंशाविहागतौ ।
भारव्ययाय च भुव: कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥

तौ इमौ वै भगवतः हरेः अंशौ इह आगतौ भार-व्ययाय च भुवः कृष्णौ यदु-कुरु-उद्वहौ

स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् ।
पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥

स्वाहा अभिमानिनः च अग्नेः आत्मजान् त्रीन् अजीजनत् पावकम् पवमानम् च शुचिम् च हुत-भोजनम्

तेभ्योऽग्नय: समभवन्चत्वारिंशच्च पञ्च च ।
त एवैकोनपञ्चाशत्साकं पितृपितामहै: ॥ ६१ ॥

तेभ्यः अग्नयः समभवन् चत्वारिंशत् च पञ्च च ते एव एकोन-पञ्चाशत् साकम् पितृ-पितामहैः

वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभि: ।
आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥ ६२ ॥

वैतानिके कर्मणि यत् नामभिः ब्रह्म-वादिभिः आग्नेय्यः इष्टयः यज्ञे निरूप्यन्ते अग्नयः तु ते

अग्निष्वात्ता बर्हिषद: सौम्या: पितर आज्यपा: ।
साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३ ॥

अग्निष्वात्ताः बर्हिषदः सौम्याः पितरः आज्यपाः स-अग्नयः अनग्नयः तेषाम् पत्नी दाक्षायणी स्वधा

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।
उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥ ६४ ॥

तेभ्यः दधार कन्ये द्वे वयुनाम् धारिणीम् स्वधा उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पार-गे

भवस्य पत्नी तु सती भवं देवमनुव्रता ।
आत्मन: सद‍ृशं पुत्रं न लेभे गुणशीलत: ॥ ६५ ॥

भवस्य पत्नी तु सती भवम् देवम् अनुव्रता आत्मनः सदृशम् पुत्रम् न लेभे गुण-शीलतः

पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।
अप्रौढैवात्मनात्मानमजहाद्योगसंयुता ॥ ६६ ॥

पितरि अप्रतिरूपे स्वे भवाय अनागसे रुषा अप्रौढा एव आत्मना आत्मानम् अजहात् योग-संयुता

४.२

विदुर उवाच
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सल: ।
विद्वेषमकरोत्कस्मादनाद‍ृत्यात्मजां सतीम् ॥ १ ॥

विदुरः उवाच भवे शीलवताम् श्रेष्ठे दक्षः दुहितृ-वत्सलः विद्वेषम् अकरोत् कस्मात् अनादृत्य आत्मजाम् सतीम्

कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥

कः तम् चर-अचर गुरुम् निर्वैरम् शान्त-विग्रहम् आत्म-आरामम् कथम् द्वेष्टि जगतः दैवतम् महत्

एतदाख्याहि मे ब्रह्मन्जामातु: श्वशुरस्य च ।
विद्वेषस्तु यत: प्राणांस्तत्यजे दुस्त्यजान्सती ॥ ३ ॥

एतत् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च विद्वेषः तु यतः प्राणान् तत्यजे दुस्त्यजान् सती

मैत्रेय उवाच
पुरा विश्वसृजां सत्रे समेता: परमर्षय: ।
तथामरगणा: सर्वे सानुगा मुनयोऽग्नय: ॥ ४ ॥

मैत्रेयः उवाच पुरा विश्व-सृजाम् सत्रे समेताः परम-ऋषयः तथा अमर-गणाः सर्वे स-अनुगाः मुनयः अग्नयः

तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा ।
भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सद: ॥ ५ ॥

तत्र प्रविष्टम् ऋषयः दृष्ट्वा अर्कम् इव रोचिषा भ्राजमानम् वितिमिरम् कुर्वन्तम् तत् महत् सदः

उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्य: सहाग्नय: ।
ऋते विरिञ्चां शर्वं च तद्भासाक्षिप्तचेतस: ॥ ६ ॥

उदतिष्ठन् सदस्याः ते स्व-धिष्ण्येभ्यः सह-अग्नयः ऋते विरिञ्चाम् शर्वम् च तत् भास आक्षिप्त चेतसः

सदसस्पतिभिर्दक्षो भगवान्साधु सत्कृत: ।
अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥

सदसः पतिभिः दक्षः भगवान् साधु सत्-कृतः अजम् लोक-गुरुम् नत्वा निषसाद तत्-आज्ञया

प्राङ्‍‌निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनाद‍ृत: ।
उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव ॥ ८ ॥

प्राक् निषण्णम् मृडम् दृष्ट्वा न अमृष्यत् तत् अनादृतः उवाच वामम् चक्षुर्भ्याम् अभिवीक्ष्य दहन् इव

श्रूयतां ब्रह्मर्षयो मे सहदेवा: सहाग्नय: ।
साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् ॥ ९ ॥

श्रूयताम् ब्रह्म-ऋषयः मे सह-देवाः सह-अग्नयः साधूनाम् ब्रुवतः वृत्तम् न अज्ञानात् न च मत्सरात्

अयं तु लोकपालानां यशोघ्नो निरपत्रप: ।
सद्‌भिराचरित: पन्था येन स्तब्धेन दूषित: ॥ १० ॥

अयम् तु लोक-पालानाम् यशः-घ्नः निरपत्रपः सद्भिः आचरितः पन्थाः येन स्तब्धेन दूषितः

एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् ।
पाणिं विप्राग्निमुखत: सावित्र्या इव साधुवत् ॥ ११ ॥

एषः मे शिष्यताम् प्राप्तः यत् मे दुहितुः अग्रहीत् पाणिम् विप्र-अग्नि मुखतः सावित्र्याः इव साधुवत्

गृहीत्वा मृगशावाक्ष्या: पाणिं मर्कटलोचन: ।
प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२ ॥

गृहीत्वा मृग-शाव अक्ष्याः पाणिम् मर्कट लोचनः प्रत्युत्थान अभिवाद अर्हे वाचा अपि अकृत न उचितम्

लुप्तक्रियायाशुचये मानिने भिन्नसेतवे ।
अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥

लुप्त-क्रियाय अशुचये मानिने भिन्न-सेतवे अनिच्छन् अपि अदाम् बालाम् शूद्राय इव उशतीम् गिरम्

प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृत: ।
अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥
चिताभस्मकृतस्‍नान: प्रेतस्रङ्‌न्रस्थिभूषण: ।
शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रिय: ।
पति: प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ १५ ॥

प्रेत-आवासेषु घोरेषु प्रेतैः भूत-गणैः वृतः अटति उन्मत्त-वत् नग्नः व्युप्त-केशः हसन् रुदन् चिता भस्म कृत-स्नानः प्रेत स्रक् नृ-अस्थि-भूषणः शिव-अपदेशः हि अशिवः मत्तः मत्त-जन-प्रियः पतिः प्रमथ-नाथानाम् तमः-मात्र-आत्मक-आत्मनाम्

तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।
दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥

तस्मै उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे दत्ता बत मया साध्वी चोदिते परमेष्ठिना

मैत्रेय उवाच
विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम् ।
दक्षोऽथाप उपस्पृश्य क्रुद्ध: शप्तुं प्रचक्रमे ॥ १७ ॥

मैत्रेयः उवाच विनिन्द्य एवम् सः गिरिशम् अप्रतीपम् अवस्थितम् दक्षः अथ अपः उपस्पृश्य क्रुद्धः शप्तुम् प्रचक्रमे

अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भव: ।
सह भागं न लभतां देवैर्देवगणाधम: ॥ १८ ॥

अयम् तु देव-यजने इन्द्र-उपेन्द्र-आदिभिः भवः सह भागम् न लभताम् देवैः देव-गण-अधमः

निषिध्यमान: स सदस्यमुख्यै-
र्दक्षो गिरित्राय विसृज्य शापम् ।
तस्माद्विनिष्क्रम्य विवृद्धमन्यु-
र्जगाम कौरव्य निजं निकेतनम् ॥ १९ ॥

निषिध्यमानः सः सदस्य-मुख्यैः दक्षः गिरित्राय विसृज्य शापम् तस्मात् विनिष्क्रम्य विवृद्ध-मन्युः जगाम कौरव्य निजम् निकेतनम्

विज्ञाय शापं गिरिशानुगाग्रणी-
र्नन्दीश्वरो रोषकषायदूषित: ।
दक्षाय शापं विससर्ज दारुणं
ये चान्वमोदंस्तदवाच्यतां द्विजा: ॥ २० ॥

विज्ञाय शापम् गिरिश अनुग-अग्रणीः नन्दीश्वरः रोष कषाय दूषितः दक्षाय शापम् विससर्ज दारुणम् ये च अन्वमोदन् तत्-अवाच्यताम् द्विजाः

य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।
द्रुह्यत्यज्ञ: पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २१ ॥

यः एतत् मर्त्यम् उद्दिश्य भगवति अप्रतिद्रुहि द्रुह्यति अज्ञः पृथक्-दृष्टिः तत्त्वतः विमुखः भवेत्

गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।
कर्मतन्त्रं वितनुते वेदवादविपन्नधी: ॥ २२ ॥

गृहेषु कूट-धर्मेषु सक्तः ग्राम्य-सुख-इच्छया कर्म-तन्त्रम् वितनुते वेद-वाद विपन्न-धीः

बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगति: पशु: ।
स्त्रीकाम: सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३ ॥

बुद्ध्या पर-अभिध्यायिन्या विस्मृत-आत्म-गतिः पशुः स्त्री-कामः सः अस्तु अतितराम् दक्षः बस्त-मुखः अचिरात्

विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जड: ।
संसरन्त्विह ये चामुमनु शर्वावमानिनम् ॥ २४ ॥

विद्या-बुद्धिः अविद्यायाम् कर्म-मय्याम् असौ जडः संसरन्तु इह ये च अमुम् अनु शर्व अवमानिनम्

गिर: श्रुताया: पुष्पिण्या मधुगन्धेन भूरिणा ।
मथ्ना चोन्मथितात्मान: सम्मुह्यन्तु हरद्विष: ॥ २५ ॥

गिरः श्रुतायाः पुष्पिण्याः मधु-गन्धेन भूरिणा मथ्ना च उन्मथित-आत्मानः सम्मुह्यन्तु हर-द्विषः

सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रता: ।
वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २६ ॥

सर्व-भक्षाः द्विजाः वृत्त्यै धृत-विद्या तपः व्रताः वित्त देह इन्द्रिय आरामाः याचकाः विचरन्तु इह

तस्यैवं वदत: शापं श्रुत्वा द्विजकुलाय वै ।
भृगु: प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७ ॥

तस्य एवम् वदतः शापम् श्रुत्वा द्विज-कुलाय वै भृगुः प्रत्यसृजत् शापम् ब्रह्म-दण्डम् दुरत्ययम्

भवव्रतधरा ये च ये च तान्समनुव्रता: ।
पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिन: ॥ २८ ॥

भव-व्रत-धराः ये च ये च तान् समनुव्रताः पाषण्डिनः ते भवन्तु सत्-शास्त्र-परिपन्थिनः

नष्टशौचा मूढधियो जटाभस्मास्थिधारिण: ।
विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९ ॥

नष्ट-शौचाः मूढ-धियः जटा-भस्म-अस्थि-धारिणः विशन्तु शिव-दीक्षायाम् यत्र दैवम् सुर-आसवम्

ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ ।
सेतुं विधारणं पुंसामत: पाषण्डमाश्रिता: ॥ ३० ॥

ब्रह्म च ब्राह्मणान् च एव यत् यूयम् परिनिन्दथ सेतुम् विधारणम् पुंसाम् अतः पाषण्डम् आश्रिताः

एष एव हि लोकानां शिव: पन्था: सनातन: ।
यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दन: ॥ ३१ ॥

एषः एव हि लोकानाम् शिवः पन्थाः सनातनः यम् पूर्वे च अनुसन्तस्थुः यत् प्रमाणम् जनार्दनः

तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।
विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ ३२ ॥

तत् ब्रह्म परमम् शुद्धम् सताम् वर्त्म सनातनम् विगर्ह्य यात पाषण्डम् दैवम् वः यत्र भूत-राट्

मैत्रेय उवाच
तस्यैवं वदत: शापं भृगो: स भगवान् भव: ।
निश्चक्राम तत: किञ्चिद्विमना इव सानुग: ॥ ३३ ॥

मैत्रेयः उवाच तस्य एवम् वदतः शापम् भृगोः सः भगवान् भवः निश्चक्राम ततः किञ्चित् विमनाः इव स-अनुगः

तेऽपि विश्वसृज: सत्रं सहस्रपरिवत्सरान् ।
संविधाय महेष्वास यत्रेज्य ऋषभो हरि: ॥ ३४ ॥

ते अपि विश्व-सृजः सत्रम् सहस्र परिवत्सरान् संविधाय महेष्वास यत्र इज्यः ऋषभः हरिः

आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता ।
विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्तत: ॥ ३५ ॥

आप्लुत्य अवभृथम् यत्र गङ्गा यमुनया अन्विता विरजेन आत्मना सर्वे स्वम् स्वम् धाम ययुः ततः

४.३

मैत्रेय उवाच
सदा विद्विषतोरेवं कालो वै ध्रियमाणयो: ।
जामातु: श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥

मैत्रेयः उवाच सदा विद्विषतोः एवम् कालः वै ध्रियमाणयोः जामातुः श्वशुरस्य अपि सु-महान् अतिचक्रमे

यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना ।
प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् ॥ २ ॥

यदा अभिषिक्तः दक्षः तु ब्रह्मणा परमेष्ठिना प्रजापतीनाम् सर्वेषाम् आधिपत्ये स्मयः अभवत्

इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च ।
बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥

इष्ट्वा सः वाजपेयेन ब्रह्मिष्ठान् अभिभूय च बृहस्पति-सवम् नाम समारेभे क्रतु-उत्तमम्

तस्मिन्ब्रह्मर्षय: सर्वे देवर्षिपितृदेवता: ।
आसन् कृतस्वस्त्ययनास्तत्पत्‍न्यश्च सभर्तृका: ॥ ४ ॥

तस्मिन् ब्रह्म-ऋषयः सर्वे देवर्षि पितृ देवताः आसन् कृत-स्वस्ति-अयनाः तत्-पत्न्यः च स-भर्तृकाः

तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् ।
सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ ५ ॥
व्रजन्ती: सर्वतो दिग्भ्य उपदेववरस्त्रिय: ।
विमानयाना: सप्रेष्ठा निष्ककण्ठी: सुवासस: ॥ ६ ॥
दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डला: ।
पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ॥ ७ ॥

तत् उपश्रुत्य नभसि खे-चराणाम् प्रजल्पताम् सती दाक्षायणी देवी पितृ-यज्ञ-महा-उत्सवम् व्रजन्तीः सर्वतः दिग्भ्यः उपदेव-वर-स्त्रियः विमान-यानाः स-प्रेष्ठाः निष्क-कण्ठीः सु-वाससः दृष्ट्वा स्व-निलय-अभ्याशे लोल-अक्षीः मृष्ट-कुण्डलाः पतिम् भूत-पतिम् देवम् औत्सुक्यात् अभ्यभाषत

सत्युवाच
प्रजापतेस्ते श्वशुरस्य साम्प्रतं
निर्यापितो यज्ञमहोत्सव: किल ।
वयं च तत्राभिसराम वाम ते
यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥

सती उवाच प्रजापतेः ते श्वशुरस्य साम्प्रतम् निर्यापितः यज्ञ-महा-उत्सवः किल वयम् च तत्र अभिसराम वाम ते यदि अर्थिता अमी विबुधाः व्रजन्ति हि

तस्मिन्भगिन्यो मम भर्तृभि: स्वकै-
र्ध्रुवं गमिष्यन्ति सुहृद्दिद‍ृक्षव: ।
अहं च तस्मिन्भवताभिकामये
सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥

तस्मिन् भगिन्यः मम भर्तृभिः स्वकैः ध्रुवम् गमिष्यन्ति सुहृत्-दिदृक्षवः अहम् च तस्मिन् भवता अभिकामये सह उपनीतम् परिबर्हम् अर्हितुम्

तत्र स्वसृर्मे ननु भर्तृसम्मिता
मातृष्वसृ: क्लिन्नधियं च मातरम् ।
द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि-
रुन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥

तत्र स्वसॄः मे ननु भर्तृ-सम्मिताः मातृ-स्वसॄः क्लिन्न-धियम् च मातरम् द्रक्ष्ये चिर-उत्कण्ठ-मनाः महा-ऋषिभिः उन्नीयमानम् च मृड अध्वर ध्वजम्

त्वय्येतदाश्चर्यमजात्ममायया
विनिर्मितं भाति गुणत्रयात्मकम् ।
तथाप्यहं योषिदतत्त्वविच्च ते
दीना दिद‍ृक्षे भव मे भवक्षितिम् ॥ ११ ॥

त्वयि एतत् आश्चर्यम् अज आत्म-मायया विनिर्मितम् भाति गुण-त्रय-आत्मकम् तथा अपि अहम् योषित् अतत्त्व-वित् च ते दीना दिदृक्षे भव मे भव-क्षितिम्

पश्य प्रयान्तीरभवान्ययोषितो
ऽप्यलड़्क़ृता: कान्तसखा वरूथश: ।
यासां व्रजद्‌भि: शितिकण्ठ मण्डितं
नभो विमानै: कलहंसपाण्डुभि: ॥ १२ ॥

पश्य प्रयान्तीः अभव अन्य-योषितः अपि अलङ्कृताः कान्त-सखाः वरूथशः यासाम् व्रजद्भिः शिति-कण्ठ मण्डितम् नभः विमानैः कल-हंस पाण्डुभिः

कथं सुताया: पितृगेहकौतुकं
निशम्य देह: सुरवर्य नेङ्गते ।
अनाहुता अप्यभियन्ति सौहृदं
भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥

कथम् सुतायाः पितृ-गेह-कौतुकम् निशम्य देहः सुर-वर्य न इङ्गते अनाहुताः अपि अभियन्ति सौहृदम् भर्तुः गुरोः देह-कृतः च केतनम्

तन्मे प्रसीदेदममर्त्य वाञ्छितं
कर्तुं भवान्कारुणिको बतार्हति ।
त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा
निरूपिता मानुगृहाण याचित: ॥ १४ ॥

तत् मे प्रसीद इदम् अमर्त्य वाञ्छितम् कर्तुम् भवान् कारुणिकः बत अर्हति त्वया आत्मनः अर्धे अहम् अदभ्र-चक्षुषा निरूपिता मा अनुगृहाण याचितः

ऋषिरुवाच
एवं गिरित्र: प्रिययाभिभाषित:
प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रिय: ।
संस्मारितो मर्मभिद: कुवागिषून्
यानाह को विश्वसृजां समक्षत: ॥ १५ ॥

ऋषिः उवाच एवम् गिरित्रः प्रियया अभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्-प्रियः संस्मारितः मर्म-भिदः कुवाक्-इषून् यान् आह कः विश्व-सृजाम् समक्षतः

श्रीभगवानुवाच
त्वयोदितं शोभनमेव शोभने
अनाहुता अप्यभियन्ति बन्धुषु ।
ते यद्यनुत्पादितदोषद‍ृष्टयो
बलीयसानात्म्यमदेन मन्युना ॥ १६ ॥

श्री-भगवान् उवाच त्वया उदितम् शोभनम् एव शोभने अनाहुताः अपि अभियन्ति बन्धुषु ते यदि अनुत्पादित-दोष-दृष्टयः बलीयसा अनात्म्य-मदेन मन्युना

विद्यातपोवित्तवपुर्वय:कुलै:
सतां गुणै: षड्‌भिरसत्तमेतरै: ।
स्मृतौ हतायां भृतमानदुर्दृश:
स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥

विद्या तपः वित्त वपुः वयः कुलैः सताम् गुणैः षड्भिः असत्तम-इतरैः स्मृतौ हतायाम् भृत-मान-दुर्दृशः स्तब्धाः न पश्यन्ति हि धाम भूयसाम्

नैताद‍ृशानां स्वजनव्यपेक्षया
गृहान्प्रतीयादनवस्थितात्मनाम् ।
येऽभ्यागतान् वक्रधियाभिचक्षते
आरोपितभ्रूभिरमर्षणाक्षिभि: ॥ १८ ॥

न एतादृशानाम् स्व-जन व्यपेक्षया गृहान् प्रतीयात् अनवस्थित आत्मनाम् ये अभ्यागतान् वक्र-धिया अभिचक्षते आरोपित-भ्रूभिः अमर्षण अक्षिभिः

तथारिभिर्न व्यथते शिलीमुखै:
शेतेऽर्दिताङ्गो हृदयेन दूयता ।
स्वानां यथा वक्रधियां दुरुक्तिभि-
र्दिवानिशं तप्यति मर्मताडित: ॥ १९ ॥

तथा अरिभिः न व्यथते शिलीमुखैः शेते अर्दित अङ्गः हृदयेन दूयता स्वानाम् यथा वक्र-धियाम् दुरुक्तिभिः दिवा-निशम् तप्यति मर्म-ताडितः

व्यक्तं त्वमुत्कृष्टगते: प्रजापते:
प्रियात्मजानामसि सुभ्रु मे मता ।
तथापि मानं न पितु: प्रपत्स्यसे
मदाश्रयात्क: परितप्यते यत: ॥ २० ॥

व्यक्तम् त्वम् उत्कृष्ट-गतेः प्रजापतेः प्रिया आत्मजानाम् असि सुभ्रु मे मता तथा अपि मानम् न पितुः प्रपत्स्यसे मत्-आश्रयात् कः परितप्यते यतः

पापच्यमानेन हृदातुरेन्द्रिय:
समृद्धिभि: पूरुषबुद्धिसाक्षिणाम् ।
अकल्प एषामधिरोढुमञ्जसा
परं पदं द्वेष्टि यथासुरा हरिम् ॥ २१ ॥

पापच्यमानेन हृदा आतुर-इन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् अकल्पः एषाम् अधिरोढुम् अञ्जसा परम् पदम् द्वेष्टि यथा असुराः हरिम्

प्रत्युद्गमप्रश्रयणाभिवादनं
विधीयते साधु मिथ: सुमध्यमे ।
प्राज्ञै: परस्मै पुरुषाय चेतसा
गुहाशयायैव न देहमानिने ॥ २२ ॥

प्रत्युद्गम प्रश्रयण अभिवादनम् विधीयते साधु मिथः सु-मध्यमे प्राज्ञैः परस्मै पुरुषाय चेतसा गुहा-शयाय एव न देह-मानिने

सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृत: ।
सत्त्वे च तस्मिन्भगवान्वासुदेवो
ह्यधोक्षजो मे नमसा विधीयते ॥ २३ ॥

सत्त्वम् विशुद्धम् वसुदेव शब्दितम् यत् ईयते तत्र पुमान् अपावृतः सत्त्वे च तस्मिन् भगवान् वासुदेवः हि अधोक्षजः मे नमसा विधीयते

तत्ते निरीक्ष्यो न पितापि देहकृद्
दक्षो मम द्विट्‌तदनुव्रताश्च ये ।
यो विश्वसृग्यज्ञगतं वरोरु मा-
मनागसं दुर्वचसाकरोत्तिर: ॥ २४ ॥

तत् ते निरीक्ष्यः न पिता अपि देह-कृत् दक्षः मम द्विट् तत्-अनुव्रताः च ये यः विश्व-सृक् यज्ञ-गतम् वर-ऊरु माम् अनागसम् दुर्वचसा अकरोत् तिरः

यदि व्रजिष्यस्यतिहाय मद्वचो
भद्रं भवत्या न ततो भविष्यति ।
सम्भावितस्य स्वजनात्पराभवो
यदा स सद्यो मरणाय कल्पते ॥ २५ ॥

यदि व्रजिष्यसि अतिहाय मत्-वचः भद्रम् भवत्याः न ततः भविष्यति सम्भावितस्य स्व-जनात् पराभवः यदा सः सद्यः मरणाय कल्पते

४.४

मैत्रेय उवाच
एतावदुक्त्वा विरराम शङ्कर:
पत्‍न्यङ्गनाशं ह्युभयत्र चिन्तयन् ।
सुहृद्दिद‍ृक्षु: परिशङ्किता भवान्
निष्क्रामती निर्विशती द्विधास सा ॥ १ ॥

मैत्रेयः उवाच एतावत् उक्त्वा विरराम शङ्करः पत्नी-अङ्ग-नाशम् हि उभयत्र चिन्तयन् सुहृत्-दिदृक्षुः परिशङ्किता भवात् निष्क्रामती निर्विशती द्विधा आस सा

सुहृद्दिद‍ृक्षाप्रतिघातदुर्मना:
स्‍नेहाद्रुदत्यश्रुकलातिविह्वला ।
भवं भवान्यप्रतिपूरुषं रुषा
प्रधक्ष्यतीवैक्षत जातवेपथु: ॥ २ ॥

सुहृत्-दिदृक्षा प्रतिघात दुर्मनाः स्नेहात् रुदती अश्रु-कला अतिविह्वला भवम् भवानी अप्रति-पूरुषम् रुषा प्रधक्ष्यती इव ऐक्षत जात-वेपथुः

ततो विनि:श्वस्य सती विहाय तं
शोकेन रोषेण च दूयता हृदा ।
पित्रोरगात्स्त्रैणविमूढधीर्गृहान्
प्रेम्णात्मनो योऽर्धमदात्सतां प्रिय: ॥ ३ ॥

ततः विनिःश्वस्य सती विहाय तम् शोकेन रोषेण च दूयता हृदा पित्रोः अगात् स्त्रैण विमूढ धीः गृहान् प्रेम्णा आत्मनः यः अर्धम् अदात् सताम् प्रियः

तामन्वगच्छन् द्रुतविक्रमां सतीम्
एकां त्रिनेत्रानुचरा: सहस्रश: ।
सपार्षदयक्षा मणिमन्मदादय:
पुरोवृषेन्द्रास्तरसा गतव्यथा: ॥ ४ ॥

ताम् अन्वगच्छन् द्रुत-विक्रमाम् सतीम् एकाम् त्रि-नेत्र अनुचराः सहस्रशः स-पार्षद-यक्षाः मणिमत्-मद-आदयः पुरः-वृष-इन्द्राः तरसा गत-व्यथाः

तां सारिकाकन्दुकदर्पणाम्बुज
श्वेतातपत्रव्यजनस्रगादिभि: ।
गीतायनैर्दुन्दुभिशङ्खवेणुभि-
र्वृषेन्द्रमारोप्य विटङ्किता ययु: ॥ ५ ॥

ताम् सारिका कन्दुक दर्पण अम्बुज श्वेत-आतपत्र व्यजन स्रक् आदिभिः गीता-अयनैः दुन्दुभि शङ्ख वेणुभिः वृष-इन्द्रम् आरोप्य विटङ्किताः ययुः

आब्रह्मघोषोर्जितयज्ञवैशसं
विप्रर्षिजुष्टं विबुधैश्च सर्वश: ।
मृद्दार्वय:काञ्चनदर्भचर्मभि-
र्निसृष्टभाण्डं यजनं समाविशत् ॥ ६ ॥

आ ब्रह्म-घोष ऊर्जित यज्ञ वैशसम् विप्रर्षि-जुष्टम् विबुधैः च सर्वशः मृत् दारु अयः काञ्चन दर्भ चर्मभिः निसृष्ट भाण्डम् यजनम् समाविशत्

तामागतां तत्र न कश्चनाद्रियद्
विमानितां यज्ञकृतो भयाज्जन: ।
ऋते स्वसृर्वै जननीं च सादरा:
प्रेमाश्रुकण्ठ्य: परिषस्वजुर्मुदा ॥ ७ ॥

ताम् आगताम् तत्र न कश्चन आद्रियत् विमानिताम् यज्ञ-कृतः भयात् जनः ऋते स्वसॄः वै जननीम् च स-आदराः प्रेम-अश्रु-कण्ठ्यः परिषस्वजुः मुदा

सौदर्यसम्प्रश्नसमर्थवार्तया
मात्रा च मातृष्वसृभिश्च सादरम् ।
दत्तां सपर्यां वरमासनं च सा
नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥

सौदर्य सम्प्रश्न समर्थ वार्तया मात्रा च मातृ-स्वसृभिः च स-आदरम् दत्ताम् सपर्याम् वरम् आसनम् च सा न आदत्त पित्रा अप्रतिनन्दिता सती

अरुद्रभागं तमवेक्ष्य चाध्वरं
पित्रा च देवे कृतहेलनं विभौ ।
अनाद‍ृता यज्ञसदस्यधीश्वरी
चुकोप लोकानिव धक्ष्यती रुषा ॥ ९ ॥

अरुद्र-भागम् तम् अवेक्ष्य च अध्वरम् पित्रा च देवे कृत-हेलनम् विभौ अनादृता यज्ञ-सदसि अधीश्वरी चुकोप लोकान् इव धक्ष्यती रुषा

जगर्ह सामर्षविपन्नया गिरा
शिवद्विषं धूमपथश्रमस्मयम् ।
स्वतेजसा भूतगणान्समुत्थितान्
निगृह्य देवी जगतोऽभिश‍ृण्वत: ॥ १० ॥

जगर्ह सा अमर्ष-विपन्नया गिरा शिव-द्विषम् धूम-पथ श्रम स्मयम् स्व-तेजसा भूत-गणान् समुत्थितान् निगृह्य देवी जगतः अभिशृण्वतः

देव्युवाच
न यस्य लोकेऽस्त्यतिशायन: प्रिय-
स्तथाप्रियो देहभृतां प्रियात्मन: ।
तस्मिन्समस्तात्मनि मुक्तवैरके
ऋते भवन्तं कतम: प्रतीपयेत् ॥ ११ ॥

देवी उवाच न यस्य लोके अस्ति अतिशायनः प्रियः तथा अप्रियः देह-भृताम् प्रिय-आत्मनः तस्मिन् समस्त-आत्मनि मुक्त-वैरके ऋते भवन्तम् कतमः प्रतीपयेत्

दोषान् परेषां हि गुणेषु साधवो
गृह्णन्ति केचिन्न भवाद‍ृशो द्विज ।
गुणांश्च फल्गून् बहुलीकरिष्णवो
महत्तमास्तेष्वविदद्भवानघम् ॥ १२ ॥

दोषान् परेषाम् हि गुणेषु साधवः गृह्णन्ति केचित् न भवादृशः द्विज गुणान् च फल्गून् बहुली-करिष्णवः महत्-तमाः तेषु अविदत् भवान् अघम्

नाश्चर्यमेतद्यदसत्सु सर्वदा
महद्विनिन्दा कुणपात्मवादिषु ।
सेर्ष्यं महापूरुषपादपांसुभि-
र्निरस्ततेज:सु तदेव शोभनम् ॥ १३ ॥

न आश्चर्यम् एतत् यत् असत्सु सर्वदा महत्-विनिन्दा कुणप-आत्म-वादिषु स-ईर्ष्यम् महा-पूरुष पाद-पांसुभिः निरस्त-तेजःसु तत् एव शोभनम्

यद्वय‍क्षरं नाम गिरेरितं नृणां
सकृत्प्रसङ्गादघमाशु हन्ति तत् ।
पवित्रकीर्तिं तमलङ्‌घ्यशासनं
भवानहो द्वेष्टि शिवं शिवेतर: ॥ १४ ॥

यत् द्वि-अक्षरम् नाम गिरा ईरितम् नृणाम् सकृत् प्रसङ्गात् अघम् आशु हन्ति तत् पवित्र-कीर्तिम् तम् अलङ्घ्य-शासनम् भवान् अहो द्वेष्टि शिवम् शिव-इतरः

यत्पादपद्मं महतां मनोऽलिभि-
र्निषेवितं ब्रह्मरसासवार्थिभि: ।
लोकस्य यद्वर्षति चाशिषोऽर्थिन-
स्तस्मै भवान्द्रुह्यति विश्वबन्धवे ॥ १५ ॥

यत्-पाद-पद्मम् महताम् मनः-अलिभिः निषेवितम् ब्रह्म-रस आसव-अर्थिभिः लोकस्य यत् वर्षति च आशिषः अर्थिनः तस्मै भवान् द्रुह्यति विश्व-बन्धवे

किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये
ब्रह्मादयस्तमवकीर्य जटा: श्मशाने ।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-
र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥

किम् वा शिव-आख्यम् अशिवम् न विदुः त्वत् अन्ये ब्रह्म-आदयः तम् अवकीर्य जटाः श्मशाने तत्-माल्य-भस्म-नृ-कपाली अवसत् पिशाचैः ये मूर्धभिः दधति तत्-चरण-अवसृष्टम्

कर्णौ पिधाय निरयाद्यदकल्प ईशे
धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।
छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चे-
ज्जिह्वामसूनपि ततो विसृजेत्स धर्म: ॥ १७ ॥

कर्णौ पिधाय निरयात् यत् अकल्पः ईशे धर्म-अवितरि असृणिभिः नृभिः अस्यमाने छिन्द्यात् प्रसह्य रुशतीम् असतीम् प्रभुः चेत् जिह्वाम् असून् अपि ततः विसृजेत् सः धर्मः

अतस्तवोत्पन्नमिदं कलेवरं
न धारयिष्ये शितिकण्ठगर्हिण: ।
जग्धस्य मोहाद्धि विशुद्धिमन्धसो
जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥

अतः तव उत्पन्नम् इदम् कलेवरम् न धारयिष्ये शिति-कण्ठ-गर्हिणः जग्धस्य मोहात् हि विशुद्धिम् अन्धसः जुगुप्सितस्य उद्धरणम् प्रचक्षते

न वेदवादाननुवर्तते मति:
स्व एव लोके रमतो महामुने: ।
यथा गतिर्देवमनुष्ययो: पृथक्
स्व एव धर्मे न परं क्षिपेत्स्थित: ॥ १९ ॥

न वेद-वादान् अनुवर्तते मतिः स्वे एव लोके रमतः महा-मुनेः यथा गतिः देव-मनुष्ययोः पृथक् स्वे एव धर्मे न परम् क्षिपेत् स्थितः

कर्म प्रवृत्तं च निवृत्तमप्यृतं
वेदे विविच्योभयलिङ्गमाश्रितम् ।
विरोधि तद्यौगपदैककर्तरि
द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २० ॥

कर्म प्रवृत्तम् च निवृत्तम् अपि ऋतम् वेदे विविच्य उभय-लिङ्गम् आश्रितम् विरोधि तत् यौगपद-एक-कर्तरि द्वयम् तथा ब्रह्मणि कर्म न ऋच्छति

मा व: पदव्य: पितरस्मदास्थिता
या यज्ञशालासु न धूमवर्त्मभि: ।
तदन्नतृप्तैरसुभृद्‌भिरीडिता
अव्यक्तलिङ्गा अवधूतसेविता: ॥ २१ ॥

मा वः पदव्यः पितः अस्मत्-आस्थिताः याः यज्ञ-शालासु न धूम-वर्त्मभिः तत्-अन्न-तृप्तैः असु-भृद्भिः ईडिताः अव्यक्त-लिङ्गाः अवधूत-सेविताः

नैतेन देहेन हरे कृतागसो
देहोद्भवेनालमलं कुजन्मना ।
व्रीडा ममाभूत्कुजनप्रसङ्गत-
स्तज्जन्म धिग्यो महतामवद्यकृत् ॥ २२ ॥

न एतेन देहेन हरे कृत-आगसः देह-उद्भवेन अलम् अलम् कु-जन्मना व्रीडा मम अभूत् कु-जन-प्रसङ्गतः तत् जन्म धिक् यः महताम् अवद्य-कृत्

गोत्रं त्वदीयं भगवान्वृषध्वजो
दाक्षायणीत्याह यदा सुदुर्मना: ।
व्यपेतनर्मस्मितमाशु तदाऽहं
व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् ॥ २३ ॥

गोत्रम् त्वदीयम् भगवान् वृषध्वजः दाक्षायणी इति आह यदा सुदुर्मनाः व्यपेत नर्म-स्मितम् आशु तदा अहम् व्युत्स्रक्ष्ये एतत् कुणपम् त्वत्-अङ्ग-जम्

मैत्रेय उवाच
इत्यध्वरे दक्षमनूद्य शत्रुहन्
क्षितावुदीचीं निषसाद शान्तवाक् ।
स्पृष्ट्वा जलं पीतदुकूलसंवृता
निमील्य द‍ृग्योगपथं समाविशत् ॥ २४ ॥

मैत्रेयः उवाच इति अध्वरे दक्षम् अनूद्य शत्रु-हन् क्षितौ उदीचीम् निषसाद शान्त-वाक् स्पृष्ट्वा जलम् पीत-दुकूल-संवृता निमील्य दृक् योग-पथम् समाविशत्

कृत्वा समानावनिलौ जितासना
सोदानमुत्थाप्य च नाभिचक्रत: ।
शनैर्हृदि स्थाप्य धियोरसि स्थितं
कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५ ॥

कृत्वा समानौ अनिलौ जित-आसना सा उदानम् उत्थाप्य च नाभि-चक्रतः शनैः हृदि स्थाप्य धिया उरसि स्थितम् कण्ठात् भ्रुवोः मध्यम् अनिन्दिता आनयत्

एवं स्वदेहं महतां महीयसा
मुहु: समारोपितमङ्कमादरात् ।
जिहासती दक्षरुषा मनस्विनी
दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६ ॥

एवम् स्व-देहम् महताम् महीयसा मुहुः समारोपितम् अङ्कम् आदरात् जिहासती दक्ष-रुषा मनस्विनी दधार गात्रेषु अनिल-अग्नि-धारणाम्

तत: स्वभर्तुश्चरणाम्बुजासवं
जगद्गुरोश्चिन्तयती न चापरम् ।
ददर्श देहो हतकल्मष: सती
सद्य: प्रजज्वाल समाधिजाग्निना ॥ २७ ॥

ततः स्व-भर्तुः चरण-अम्बुज-आसवम् जगत्-गुरोः चिन्तयती न च अपरम् ददर्श देहः हत-कल्मषः सती सद्यः प्रजज्वाल समाधि-ज-अग्निना

तत्पश्यतां खे भुवि चाद्भुतं महद्
हाहेति वाद: सुमहानजायत ।
हन्त प्रिया दैवतमस्य देवी
जहावसून् केन सती प्रकोपिता ॥ २८ ॥

तत् पश्यताम् खे भुवि च अद्भुतम् महत् हा हा इति वादः सु-महान् अजायत हन्त प्रिया दैव-तमस्य देवी जहौ असून् केन सती प्रकोपिता

अहो अनात्म्यं महदस्य पश्यत
प्रजापतेर्यस्य चराचरं प्रजा: ।
जहावसून् यद्विमतात्मजा सती
मनस्विनी मानमभीक्ष्णमर्हति ॥ २९ ॥

अहो अनात्म्यम् महत् अस्य पश्यत प्रजापतेः यस्य चर-अचरम् प्रजाः जहौ असून् यत् विमता आत्म-जा सती मनस्विनी मानम् अभीक्ष्णम् अर्हति

सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च
लोकेऽपकीर्तिं महतीमवाप्स्यति ।
यदङ्गजां स्वां पुरुषद्विडुद्यतां
न प्रत्यषेधन्मृतयेऽपराधत: ॥ ३० ॥

सः अयम् दुर्मर्ष-हृदयः ब्रह्म-ध्रुक् च लोके अपकीर्तिम् महतीम् अवाप्स्यति यत्-अङ्ग-जाम् स्वाम् पुरुष-द्विट् उद्यताम् न प्रत्यषेधत् मृतये अपराधतः

वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् ।
दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधा: ॥ ३१ ॥

वदति एवम् जने सत्याः दृष्ट्वा असु-त्यागम् अद्भुतम् दक्षम् तत्-पार्षदाः हन्तुम् उदतिष्ठन् उदायुधाः

तेषामापततां वेगं निशाम्य भगवान् भृगु: ।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२ ॥

तेषाम् आपतताम् वेगम् निशाम्य भगवान् भृगुः यज्ञ-घ्न-घ्नेन यजुषा दक्षिण-अग्नौ जुहाव ह

अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।
ऋभवो नाम तपसा सोमं प्राप्ता: सहस्रश: ॥ ३३ ॥

अध्वर्युणा हूयमाने देवाः उत्पेतुः ओजसा ऋभवः नाम तपसा सोमम् प्राप्ताः सहस्रशः

तैरलातायुधै: सर्वे प्रमथा: सहगुह्यका: ।
हन्यमाना दिशो भेजुरुशद्‌भिर्ब्रह्मतेजसा ॥ ३४ ॥

तैः अलात-आयुधैः सर्वे प्रमथाः सह-गुह्यकाः हन्यमानाः दिशः भेजुः उशद्भिः ब्रह्म-तेजसा

४.५

मैत्रेय उवाच
भवो भवान्या निधनं प्रजापते-
रसत्कृताया अवगम्य नारदात् ।
स्वपार्षदसैन्यं च तदध्वरर्भुभि-
र्विद्रावितं क्रोधमपारमादधे ॥ १ ॥

मैत्रेयः उवाच भवः भवान्याः निधनम् प्रजापतेः असत्-कृतायाः अवगम्य नारदात् स्व-पार्षद-सैन्यम् च तत्-अध्वर ऋभुभिः विद्रावितम् क्रोधम् अपारम् आदधे

क्रुद्ध: सुदष्टौष्ठपुट: स धूर्जटि-
र्जटां तडिद्वह्निसटोग्ररोचिषम् ।
उत्कृत्य रुद्र: सहसोत्थितो हसन्
गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥

क्रुद्धः सु-दष्ट-ओष्ठ-पुटः सः धूः-जटिः जटाम् तडित् वह्नि सटा उग्र रोचिषम् उत्कृत्य रुद्रः सहसा उत्थितः हसन् गम्भीर नादः विससर्ज ताम् भुवि

ततोऽतिकायस्तनुवा स्पृशन्दिवं
सहस्रबाहुर्घनरुक् त्रिसूर्यद‍ृक् ।
करालदंष्ट्रो ज्वलदग्निमूर्धज:
कपालमाली विविधोद्यतायुध: ॥ ३ ॥

ततः अतिकायः तनुवा स्पृशन् दिवम् सहस्र बाहुः घन-रुक् त्रि-सूर्य-दृक् कराल-दंष्ट्रः ज्वलत्-अग्नि मूर्धजः कपाल-माली विविध उद्यत आयुधः

तं किं करोमीति गृणन्तमाह
बद्धाञ्जलिं भगवान् भूतनाथ: ।
दक्षं सयज्ञं जहि मद्भटानां
त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥

तम् किम् करोमि इति गृणन्तम् आह बद्ध-अञ्जलिम् भगवान् भूत-नाथः दक्षम् स-यज्ञम् जहि मत्-भटानाम् त्वम् अग्रणीः रुद्र भट अंशकः मे

आज्ञप्त एवं कुपितेन मन्युना
स देवदेवं परिचक्रमे विभुम् ।
मेने तदात्मानमसङ्गरंहसा
महीयसां तात सह: सहिष्णुम् ॥ ५ ॥

आज्ञप्तः एवम् कुपितेन मन्युना सः देव-देवम् परिचक्रमे विभुम् मेने तदा आत्मानम् असङ्ग-रंहसा महीयसाम् तात सहः सहिष्णुम्

अन्वीयमान: स तु रुद्रपार्षदै-
र्भृशं नदद्‌भिर्व्यनदत्सुभैरवम् ।
उद्यम्य शूलं जगदन्तकान्तकं
सम्प्राद्रवद् घोषणभूषणाङ्‌घ्रि: ॥ ६ ॥

अन्वीयमानः सः तु रुद्र-पार्षदैः भृशम् नदद्भिः व्यनदत् सु-भैरवम् उद्यम्य शूलम् जगत्-अन्तक अन्तकम् सम्प्राद्रवत् घोषण भूषण-अङ्घ्रिः

अथर्त्विजो यजमान: सदस्या:
ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् ।
तम: किमेतत्कुत एतद्रजोऽभू-
दिति द्विजा द्विजपत्‍न्यश्च दध्यु: ॥ ७ ॥

अथ ऋत्विजः यजमानः सदस्याः ककुभि उदीच्याम् प्रसमीक्ष्य रेणुम् तमः किम् एतत् कुतः एतत् रजः अभूत् इति द्विजाः द्विज-पत्न्यः च दध्युः

वाता न वान्ति न हि सन्ति दस्यव:
प्राचीनबर्हिर्जीवति होग्रदण्ड: ।
गावो न काल्यन्त इदं कुतो रजो
लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥

वाताः न वान्ति न हि सन्ति दस्यवः प्राचीन-बर्हिः जीवति ह उग्र-दण्डः गावः न काल्यन्ते इदम् कुतः रजः लोकः अधुना किम् प्रलयाय कल्पते

प्रसूतिमिश्रा: स्त्रिय उद्विग्नचित्ता
ऊचुर्विपाको वृजिनस्यैव तस्य ।
यत्पश्यन्तीनां दुहितृणां प्रजेश:
सुतां सतीमवदध्यावनागाम् ॥ ९ ॥

प्रसूति-मिश्राः स्त्रियः उद्विग्न-चित्ताः ऊचुः विपाकः वृजिनस्य एव तस्य यत् पश्यन्तीनाम् दुहितॄणाम् प्रजेशः सुताम् सतीम् अवदध्यौ अनागाम्

यस्त्वन्तकाले व्युप्तजटाकलाप:
स्वशूलसूच्यर्पितदिग्गजेन्द्र: ।
वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान्
उच्चाट्टहासस्तनयित्नुभिन्नदिक् ॥ १० ॥

यः तु अन्त-काले व्युप्त जटा-कलापः स्व-शूल सूचि अर्पित दिक्-गजेन्द्रः वितत्य नृत्यति उदित अस्त्र दोः ध्वजान् उच्च अट्ट-हास स्तनयित्नु भिन्न दिक्

अमर्षयित्वा तमसह्यतेजसं
मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या ।
करालदंष्ट्राभिरुदस्तभागणं
स्यात्स्वस्ति किं कोपयतो विधातु: ॥ ११ ॥

अमर्षयित्वा तम् असह्य-तेजसम् मन्यु-प्लुतम् दुर्निरीक्ष्यम् भ्रु-कुट्या कराल-दंष्ट्राभिः उदस्त-भागणम् स्यात् स्वस्ति किम् कोपयतः विधातुः

बह्वेवमुद्विग्नद‍ृशोच्यमाने
जनेन दक्षस्य मुहुर्महात्मन: ।
उत्पेतुरुत्पाततमा: सहस्रशो
भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥

बहु एवम् उद्विग्न-दृशा उच्यमाने जनेन दक्षस्य मुहुः महा-आत्मनः उत्पेतुः उत्पात-तमाः सहस्रशः भय-आवहाः दिवि भूमौ च पर्यक्

तावत्स रुद्रानुचरैर्महामखो
नानायुधैर्वामनकैरुदायुधै: ।
पिङ्गै: पिशङ्गैर्मकरोदराननै:
पर्याद्रवद्‌भिर्विदुरान्वरुध्यत ॥ १३ ॥

तावत् सः रुद्र-अनुचरैः महा-मखः नाना आयुधैः वामनकैः उदायुधैः पिङ्गैः पिशङ्गैः मकर-उदर-आननैः पर्याद्रवद्भिः विदुर अन्वरुध्यत

केचिद्बभञ्जु: प्राग्वंशं पत्नीशालां तथापरे ।
सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥

केचित् बभञ्जुः प्राक्-वंशम् पत्नी-शालाम् तथा अपरे सदः आग्नीध्र-शालाम् च तत्-विहारम् महा-अनसम्

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।
कुण्डेष्वमूत्रयन् केचिद्‌बिभिदुर्वेदिमेखला: ॥ १५ ॥

रुरुजुः यज्ञ-पात्राणि तथा एके अग्नीन् अनाशयन् कुण्डेषु अमूत्रयन् केचित् बिभिदुः वेदि-मेखलाः

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् ।
अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥

अबाधन्त मुनीन् अन्ये एके पत्नीः अतर्जयन् अपरे जगृहुः देवान् प्रत्यासन्नान् पलायितान्

भृगुं बबन्ध मणिमान् वीरभद्र: प्रजापतिम् ।
चण्डेश: पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥

भृगुम् बबन्ध मणिमान् वीरभद्रः प्रजापतिम् चण्डेशः पूषणम् देवम् भगम् नन्दीश्वरः अग्रहीत्

सर्व एवर्त्विजो दृष्ट्वा सदस्या: सदिवौकस: ।
तैरर्द्यमाना: सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥

सर्वे एव ऋत्विजः दृष्ट्वा सदस्याः स-दिवौकसः तैः अर्द्यमानाः सु-भृशम् ग्रावभिः न एकधा अद्रवन्

जुह्वत: स्रुवहस्तस्य श्मश्रूणि भगवान् भव: ।
भृगोर्लुलुञ्चे सदसि योऽहसच्छ्‌मश्रु दर्शयन् ॥ १९ ॥

जुह्वतः स्रुव-हस्तस्य श्मश्रूणि भगवान् भवः भृगोः लुलुञ्चे सदसि यः अहसत् श्मश्रु दर्शयन्

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।
उज्जहार सदस्थोऽक्ष्णा य: शपन्तमसूसुचत् ॥ २० ॥

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि उज्जहार सद-स्थः अक्ष्णा यः शपन्तम् असूसुचत्

पूष्णो ह्यपातयद्दन्तान् कालिङ्गस्य यथा बल: ।
शप्यमाने गरिमणि योऽहसद्दर्शयन्दत: ॥ २१ ॥

पूष्णः हि अपातयत् दन्तान् कालिङ्गस्य यथा बलः शप्यमाने गरिमणि यः अहसत् दर्शयन् दतः

आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥

आक्रम्य उरसि दक्षस्य शित-धारेण हेतिना छिन्दन् अपि तत् उद्धर्तुम् न अशक्नोत् त्रि-अम्बकः तदा

शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हर: ।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥

शस्त्रैः अस्त्र-अन्वितैः एवम् अनिर्भिन्न त्वचम् हरः विस्मयम् परम् आपन्नः दध्यौ पशुपतिः चिरम्

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।
यजमानपशो: कस्य कायात्तेनाहरच्छिर: ॥ २४ ॥

दृष्ट्वा संज्ञपनम् योगम् पशूनाम् सः पतिः मखे यजमान-पशोः कस्य कायात् तेन अहरत् शिरः

साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम् ।
भूतप्रेतपिशाचानां अन्येषां तद्विपर्यय: ॥ २५ ॥

साधु-वादः तदा तेषाम् कर्म तत् तस्य पश्यताम् भूत-प्रेत-पिशाचानाम् अन्येषाम् तत्-विपर्ययः

जुहावैतच्छिरस्तस्मिन्दक्षिणाग्नावमर्षित: ।
तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥

जुहाव एतत् शिरः तस्मिन् दक्षिण-अग्नौ अमर्षितः तत् देव-यजनम् दग्ध्वा प्रातिष्ठत् गुह्यक-आलयम्

४.६

मैत्रेय उवाच
अथ देवगणा: सर्वे रुद्रानीकै: पराजिता: ।
शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरै: ॥ १ ॥
सञ्छिन्नभिन्नसर्वाङ्गा: सर्त्विक्सभ्या भयाकुला: ।
स्वयम्भुवे नमस्कृत्य कार्त्स्‍न्येनैतन्न्यवेदयन् ॥ २ ॥

मैत्रेयः उवाच अथ देव-गणाः सर्वे रुद्र-अनीकैः पराजिताः शूल पट्टिश निस्त्रिंश गदा परिघ मुद्गरैः सञ्छिन्न-भिन्न-सर्व-अङ्गाः स-ऋत्विक्-सभ्याः भय-आकुलाः स्वयम्भुवे नमस्कृत्य कार्त्स्न्येन एतत् न्यवेदयन्

उपलभ्य पुरैवैतद्भगवानब्जसम्भव: ।
नारायणश्च विश्वात्मा न कस्याध्वरमीयतु: ॥ ३ ॥

उपलभ्य पुरा एव एतत् भगवान् अब्ज-सम्भवः नारायणः च विश्व-आत्मा न कस्य अध्वरम् ईयतुः

तदाकर्ण्य विभु: प्राह तेजीयसि कृतागसि ।
क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् ॥ ४ ॥

तत् आकर्ण्य विभुः प्राह तेजीयसि कृत-आगसि क्षेमाय तत्र सा भूयात् न प्रायेण बुभूषताम्

अथापि यूयं कृतकिल्बिषा भवं
ये बर्हिषो भागभाजं परादु: ।
प्रसादयध्वं परिशुद्धचेतसा
क्षिप्रप्रसादं प्रगृहीताङ्‌घ्रि:पद्मम् ॥ ५ ॥

अथ अपि यूयम् कृत-किल्बिषाः भवम् ये बर्हिषः भाग-भाजम् परादुः प्रसादयध्वम् परिशुद्ध-चेतसा क्षिप्र-प्रसादम् प्रगृहीत-अङ्घ्रि-पद्मम्

आशासाना जीवितमध्वरस्य
लोक: सपाल: कुपिते न यस्मिन् ।
तमाशु देवं प्रियया विहीनं
क्षमापयध्वं हृदि विद्धं दुरुक्तै: ॥ ६ ॥

आशासानाः जीवितम् अध्वरस्य लोकः स-पालः कुपिते न यस्मिन् तम् आशु देवम् प्रियया विहीनम् क्षमापयध्वम् हृदि विद्धम् दुरुक्तैः

नाहं न यज्ञो न च यूयमन्ये
ये देहभाजो मुनयश्च तत्त्वम् ।
विदु: प्रमाणं बलवीर्ययोर्वा
यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥

न अहम् न यज्ञः न च यूयम् अन्ये ये देह-भाजः मुनयः च तत्त्वम् विदुः प्रमाणम् बल-वीर्ययोः वा यस्य आत्म-तन्त्रस्य कः उपायम् विधित्सेत्

स इत्थमादिश्य सुरानजस्तु तै:
समन्वित: पितृभि: सप्रजेशै: ।
ययौ स्वधिष्ण्यान्निलयं पुरद्विष:
कैलासमद्रिप्रवरं प्रियं प्रभो: ॥ ८ ॥

सः इत्थम् आदिश्य सुरान् अजः तु तैः समन्वितः पितृभिः स-प्रजेशैः ययौ स्व-धिष्ण्यात् निलयम् पुर-द्विषः कैलासम् अद्रि-प्रवरम् प्रियम् प्रभोः

जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरै: ।
जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥ ९ ॥

जन्म औषधि तपः मन्त्र योग सिद्धैः नर-इतरैः जुष्टम् किन्नर-गन्धर्वैः अप्सरोभिः वृतम् सदा

नानामणिमयै: श‍ृङ्गैर्नानाधातुविचित्रितै: ।
नानाद्रुमलतागुल्मैर्नानामृगगणावृतै: ॥ १० ॥

नाना मणि मयैः शृङ्गैः नाना-धातु-विचित्रितैः नाना द्रुम लता गुल्मैः नाना मृग-गण आवृतैः

नानामलप्रस्रवणैर्नानाकन्दरसानुभि: ।
रमणं विहरन्तीनां रमणै: सिद्धयोषिताम् ॥ ११ ॥

नाना अमल प्रस्रवणैः नाना कन्दर सानुभिः रमणम् विहरन्तीनाम् रमणैः सिद्ध-योषिताम्

मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।
प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥

मयूर केका अभिरुतम् मद अन्ध अलि विमूर्च्छितम् प्लावितैः रक्त-कण्ठानाम् कूजितैः च पतत्त्रिणाम्

आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमै: ।
व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरै: ॥ १३ ॥

आह्वयन्तम् इव उत्-हस्तैः द्विजान् काम-दुघैः द्रुमैः व्रजन्तम् इव मातङ्गैः गृणन्तम् इव निर्झरैः

मन्दारै: पारिजातैश्च सरलैश्चोपशोभितम् ।
तमालै: शालतालैश्च कोविदारासनार्जुनै: ॥ १४ ॥
चूतै: कदम्बैर्नीपैश्च नागपुन्नागचम्पकै: ।
पाटलाशोकबकुलै: कुन्दै: कुरबकैरपि ॥ १५ ॥

मन्दारैः पारिजातैः च सरलैः च उपशोभितम् तमालैः शाल-तालैः च कोविदार-आसन-अर्जुनैः चूतैः कदम्बैः नीपैः च नाग-पुन्नाग-चम्पकैः पाटल-अशोक-बकुलैः कुन्दैः कुरबकैः अपि

स्वर्णार्णशतपत्रैश्च वररेणुकजातिभि: ।
कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥

स्वर्णार्ण शत-पत्रैः च वर-रेणुक-जातिभिः कुब्जकैः मल्लिकाभिः च माधवीभिः च मण्डितम्

पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभि: ।
भूर्जैरोषधिभि: पूगै राजपूगैश्च जम्बुभि: ॥ १७ ॥

पनस-उदुम्बर-अश्वत्थ-प्लक्ष-न्यग्रोध-हिङ्गुभिः भूर्जैः ओषधिभिः पूगैः राजपूगैः च जम्बुभिः

खर्जूराम्रातकाम्राद्यै: प्रियालमधुकेङ्गुदै: ।
द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकै: ॥ १८ ॥

खर्जूर-आम्रातक-आम्र-आद्यैः प्रियाल-मधुक-इङ्गुदैः द्रुम-जातिभिः अन्यैः च राजितम् वेणु-कीचकैः

कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभि: ।
नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥ १९ ॥
मृगै: शाखामृगै: क्रोडैर्मृगेन्द्रैर्ऋ क्षशल्यकै: ।
गवयै: शरभैर्व्याघ्रै रुरुभिर्महिषादिभि: ॥ २० ॥

कुमुद उत्पल कह्लार शतपत्र वन ऋद्धिभिः नलिनीषु कलम् कूजत् खग वृन्द उपशोभितम् मृगैः शाखा-मृगैः क्रोडैः मृग-इन्द्रैः ऋक्ष-शल्यकैः गवयैः शरभैः व्याघ्रैः रुरुभिः महिष-आदिभिः

कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभि: ।
कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥ २१ ॥

कर्णान्त्र एकपद अश्वास्यैः निर्जुष्टम् वृक-नाभिभिः कदली खण्ड संरुद्ध नलिनी पुलिन श्रियम्

पर्यस्तं नन्दया सत्या: स्‍नानपुण्यतरोदया ।
विलोक्य भूतेशगिरिं विबुधा विस्मयं ययु: ॥ २२ ॥

पर्यस्तम् नन्दया सत्याः स्नान पुण्य-तर उदया विलोक्य भूत-ईश गिरिम् विबुधाः विस्मयम् ययुः

दद‍ृशुस्तत्र ते रम्यामलकां नाम वै पुरीम् ।
वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् ॥ २३ ॥

ददृशुः तत्र ते रम्याम् अलकाम् नाम वै पुरीम् वनम् सौगन्धिकम् च अपि यत्र तत्-नाम पङ्कजम्

नन्दा चालकनन्दा च सरितौ बाह्यत: पुर: ।
तीर्थपादपदाम्भोजरजसातीव पावने ॥ २४ ॥

नन्दा च अलकनन्दा च सरितौ बाह्यतः पुरः तीर्थ-पाद पद-अम्भोज रजसा अतीव पावने

ययो: सुरस्त्रिय: क्षत्तरवरुह्य स्वधिष्ण्यत: ।
क्रीडन्ति पुंस: सिञ्चन्त्यो विगाह्य रतिकर्शिता: ॥ २५ ॥

ययोः सुर-स्त्रियः क्षत्तः अवरुह्य स्व-धिष्ण्यतः क्रीडन्ति पुंसः सिञ्चन्त्यः विगाह्य रति-कर्शिताः

ययोस्तत्स्‍नानविभ्रष्टनवकुङ्कुमपिञ्जरम् ।
वितृषोऽपि पिबन्त्यम्भ: पाययन्तो गजा गजी: ॥ २६ ॥

ययोः तत्-स्नान विभ्रष्ट नव कुङ्कुम पिञ्जरम् वितृषः अपि पिबन्ति अम्भः पाययन्तः गजाः गजीः

तारहेममहारत्नविमानशतसङ्कुलाम् ।
जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम् ॥ २७ ॥

तार-हेम महा-रत्न विमान शत सङ्कुलाम् जुष्टाम् पुण्यजन-स्त्रीभिः यथा खम् स-तडित्-घनम्

हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।
द्रुमै: कामदुघैर्हृद्यं चित्रमाल्यफलच्छदै: ॥ २८ ॥

हित्वा यक्ष-ईश्वर पुरीम् वनम् सौगन्धिकम् च तत् द्रुमैः काम-दुघैः हृद्यम् चित्र माल्य फल छदैः

रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् ।
कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥

रक्त कण्ठ खग-अनीक स्वर मण्डित षट्-पदम् कलहंस-कुल प्रेष्ठम् खर-दण्ड जल-आशयम्

वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना ।
अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मन: ॥ ३० ॥

वन-कुञ्जर सङ्घृष्ट हरिचन्दन वायुना अधि पुण्यजन-स्त्रीणाम् मुहुः उन्मथयत् मनः

वैदूर्यकृतसोपाना वाप्य उत्पलमालिनी: ।
प्राप्तं किम्पुरुषैर्दृष्ट्वा त आराद्दद‍ृशुर्वटम् ॥ ३१ ॥

वैदूर्य-कृत सोपानाः वाप्यः उत्पल मालिनीः प्राप्तम् किम्पुरुषैः दृष्ट्वा ते आरात् ददृशुः वटम्

स योजनशतोत्सेध: पादोनविटपायत: ।
पर्यक्‍कृताचलच्छायो निर्नीडस्तापवर्जित: ॥ ३२ ॥

सः योजन-शत उत्सेधः पाद-ऊन विटप आयतः पर्यक् कृत अचल छायः निर्नीडः ताप-वर्जितः

तस्मिन्महायोगमये मुमुक्षुशरणे सुरा: ।
दद‍ृशु: शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥

तस्मिन् महा-योग-मये मुमुक्षु शरणे सुराः ददृशुः शिवम् आसीनम् त्यक्त-अमर्षम् इव अन्तकम्

सनन्दनाद्यैर्महासिद्धै: शान्तै: संशान्तविग्रहम् ।
उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥

सनन्दन-आद्यैः महा-सिद्धैः शान्तैः संशान्त-विग्रहम् उपास्यमानम् सख्या च भर्त्रा गुह्यक-रक्षसाम्

विद्यातपोयोगपथमास्थितं तमधीश्वरम् ।
चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् ॥ ३५ ॥

विद्या तपः योग-पथम् आस्थितम् तम् अधीश्वरम् चरन्तम् विश्व-सुहृदम् वात्सल्यात् लोक-मङ्गलम्

लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।
अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥

लिङ्गम् च तापस-अभीष्टम् भस्म दण्ड जटा अजिनम् अङ्गेन सन्ध्या-आभ्र रुचा चन्द्र-लेखाम् च बिभ्रतम्

उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।
नारदाय प्रवोचन्तं पृच्छते श‍ृण्वतां सताम् ॥ ३७ ॥

उपविष्टम् दर्भ-मय्याम् बृस्याम् ब्रह्म सनातनम् नारदाय प्रवोचन्तम् पृच्छते शृण्वताम् सताम्

कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।
बाहुं प्रकोष्ठेऽक्षमालाम् आसीनं तर्कमुद्रया ॥ ३८ ॥

कृत्वा ऊरौ दक्षिणे सव्यम् पाद-पद्मम् च जानुनि बाहुम् प्रकोष्ठे अक्ष-मालाम् आसीनम् तर्क-मुद्रया

तं ब्रह्मनिर्वाणसमाधिमाश्रितं
व्युपाश्रितं गिरिशं योगकक्षाम् ।
सलोकपाला मुनयो मनूनाम्
आद्यं मनुं प्राञ्जलय: प्रणेमु: ॥ ३९ ॥

तम् ब्रह्म-निर्वाण समाधिम् आश्रितम् व्युपाश्रितम् गिरिशम् योग-कक्षाम् स-लोक-पालाः मुनयः मनूनाम् आद्यम् मनुम् प्राञ्जलयः प्रणेमुः

स तूपलभ्यागतमात्मयोनिं
सुरासुरेशैरभिवन्दिताङ्‌घ्रि: ।
उत्थाय चक्रे शिरसाभिवन्दन-
मर्हत्तम: कस्य यथैव विष्णु: ॥ ४० ॥

सः तु उपलभ्य आगतम् आत्म-योनिम् सुर-असुर-ईशैः अभिवन्दित-अङ्घ्रिः उत्थाय चक्रे शिरसा अभिवन्दनम् अर्हत्तमः कस्य यथा एव विष्णुः

तथापरे सिद्धगणा महर्षिभि-
र्ये वै समन्तादनु नीललोहितम् ।
नमस्कृत: प्राह शशाङ्कशेखरं
कृतप्रणामं प्रहसन्निवात्मभू: ॥ ४१ ॥

तथा अपरे सिद्ध-गणाः महा-ऋषिभिः ये वै समन्तात् अनु नीललोहितम् नमस्कृतः प्राह शशाङ्क-शेखरम् कृत-प्रणामम् प्रहसन् इव आत्मभूः

ब्रह्मोवाच
जाने त्वामीशं विश्वस्य जगतो योनिबीजयो: ।
शक्ते: शिवस्य च परं यत्तद्ब्रह्म निरन्तरम् ॥ ४२ ॥

ब्रह्मा उवाच जाने त्वाम् ईशम् विश्वस्य जगतः योनि-बीजयोः शक्तेः शिवस्य च परम् यत् तत् ब्रह्म निरन्तरम्

त्वमेव भगवन्नेतच्छिवशक्त्यो: स्वरूपयो: ।
विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा ॥ ४३ ॥

त्वम् एव भगवन् एतत् शिव-शक्त्योः स्वरूपयोः विश्वम् सृजसि पासि अत्सि क्रीडन् ऊर्ण-पटः यथा

त्वमेव धर्मार्थदुघाभिपत्तये
दक्षेण सूत्रेण ससर्जिथाध्वरम् ।
त्वयैव लोकेऽवसिताश्च सेतवो
यान्ब्राह्मणा: श्रद्दधते धृतव्रता: ॥ ४४ ॥

त्वम् एव धर्म-अर्थ-दुघ अभिपत्तये दक्षेण सूत्रेण ससर्जिथ अध्वरम् त्वया एव लोके अवसिताः च सेतवः यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः

त्वं कर्मणां मङ्गल मङ्गलानां
कर्तु: स्वलोकं तनुषे स्व: परं वा ।
अमङ्गलानां च तमिस्रमुल्बणं
विपर्यय: केन तदेव कस्यचित् ॥ ४५ ॥

त्वम् कर्मणाम् मङ्गल मङ्गलानाम् कर्तुः स्व-लोकम् तनुषे स्वः परम् वा अमङ्गलानाम् च तमिस्रम् उल्बणम् विपर्ययः केन तत् एव कस्यचित्

न वै सतां त्वच्चरणार्पितात्मनां
भूतेषु सर्वेष्वभिपश्यतां तव ।
भूतानि चात्मन्यपृथग्दिद‍ृक्षतां
प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६ ॥

न वै सताम् त्वत्-चरण-अर्पित-आत्मनाम् भूतेषु सर्वेषु अभिपश्यताम् तव भूतानि च आत्मनि अपृथक् दिदृक्षताम् प्रायेण रोषः अभिभवेत् यथा पशुम्

पृथग्धिय: कर्मद‍ृशो दुराशया:
परोदयेनार्पितहृद्रुजोऽनिशम् ।
परान् दुरुक्तैर्वितुदन्त्यरुन्तुदा-
स्तान्मावधीद्दैववधान्भवद्विध: ॥ ४७ ॥

पृथक् धियः कर्म दृशः दुराशयाः पर-उदयेन अर्पित हृत् रुजः अनिशम् परान् दुरुक्तैः वितुदन्ति अरुन्तुदाः तान् मा अवधीत् दैव वधान् भवत् विधः

यस्मिन्यदा पुष्करनाभमायया
दुरन्तया स्पृष्टधिय: पृथग्दृश: ।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां
न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥

यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथक्-दृशः कुर्वन्ति तत्र हि अनुकम्पया कृपाम् न साधवः दैव-बलात् कृते क्रमम्

भवांस्तु पुंस: परमस्य मायया
दुरन्तयास्पृष्टमति: समस्तद‍ृक् ।
तया हतात्मस्वनुकर्मचेत:-
स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥

भवान् तु पुंसः परमस्य मायया दुरन्तया अस्पृष्ट मतिः समस्त-दृक् तया हत-आत्मसु अनुकर्म-चेतःसु अनुग्रहम् कर्तुम् इह अर्हसि प्रभो

कुर्वध्वरस्योद्धरणं हतस्य भो:
त्वयासमाप्तस्य मनो प्रजापते: ।
न यत्र भागं तव भागिनो ददु:
कुयाजिनो येन मखो निनीयते ॥ ५० ॥

कुरु अध्वरस्य उद्धरणम् हतस्य भोः त्वया असमाप्तस्य मनो प्रजापतेः न यत्र भागम् तव भागिनः ददुः कु-याजिनः येन मखः निनीयते

जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भग: ।
भृगो: श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥

जीवतात् यजमानः अयम् प्रपद्येत अक्षिणी भगः भृगोः श्मश्रूणि रोहन्तु पूष्णः दन्ताः च पूर्व-वत्

देवानां भग्नगात्राणामृत्विजां चायुधाश्मभि: ।
भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥

देवानाम् भग्न-गात्राणाम् ऋत्विजाम् च आयुध-अश्मभिः भवता अनुगृहीतानाम् आशु मन्यो अस्तु अनातुरम्

एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।
यज्ञस्ते रुद्रभागेन कल्पतामद्य यज्ञहन् ॥ ५३ ॥

एषः ते रुद्र भागः अस्तु यत् उच्छिष्टः अध्वरस्य वै यज्ञः ते रुद्र भागेन कल्पताम् अद्य यज्ञ-हन्

४.७

मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता ।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥

मैत्रेयः उवाच इति अजेन अनुनीतेन भवेन परितुष्यता अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति

महादेव उवाच
नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।
देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २ ॥

महादेवः उवाच न अघम् प्रजा-ईश बालानाम् वर्णये न अनुचिन्तये देव-माया अभिभूतानाम् दण्डः तत्र धृतः मया

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिर: ।
मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भग: ॥ ३ ॥

प्रजापतेः दग्ध-शीर्ष्णः भवतु अज-मुखम् शिरः मित्रस्य चक्षुषा ईक्षेत भागम् स्वम् बर्हिषः भगः

पूषा तु यजमानस्य दद्‌भिर्जक्षतु पिष्टभुक् ।
देवा: प्रकृतसर्वाङ्गा ये म उच्छेषणं ददु: ॥ ४ ॥

पूषा तु यजमानस्य दद्भिः जक्षतु पिष्ट-भुक् देवाः प्रकृत सर्व-अङ्गाः ये मे उच्छेषणम् ददुः

बाहुभ्यामश्विनो: पूष्णो हस्ताभ्यां कृतबाहव: ।
भवन्‍त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५ ॥

बाहुभ्याम् अश्विनोः पूष्णः हस्ताभ्याम् कृत-बाहवः भवन्तु अध्वर्यवः च अन्ये बस्त-श्मश्रुः भृगुः भवेत्

मैत्रेय उवाच
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।
परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६ ॥

मैत्रेयः उवाच तदा सर्वाणि भूतानि श्रुत्वा मीढुष्तम उदितम् परितुष्ट आत्मभिः तात साधु साधु इति अथ अब्रुवन्

ततो मीढ्‍वांसमामन्‍त्र्‍य शुनासीरा: सहर्षिभि: ।
भूयस्तद्देवयजनं समीढ्‍वद्वेधसो ययु: ॥ ७ ॥

ततः मीढ्वांसम् आमन्त्र्य शुनासीराः सह ऋषिभिः भूयः तत् देव-यजनम् स-मीढ्वत् वेधसः ययुः

विधाय कार्त्स्‍न्येन च तद्यदाह भगवान् भव: ।
सन्दधु: कस्य कायेन सवनीयपशो: शिर: ॥ ८ ॥

विधाय कार्त्स्न्येन च तत् यत् आह भगवान् भवः सन्दधुः कस्य कायेन सवनीय पशोः शिरः

सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षित: ।
सद्य: सुप्त इवोत्तस्थौ दद‍ृशे चाग्रतो मृडम् ॥ ९ ॥

सन्धीयमाने शिरसि दक्षः रुद्र-अभिवीक्षितः सद्यः सुप्ते इव उत्तस्थौ ददृशे च अग्रतः मृडम्

तदा वृषध्वजद्वेषकलिलात्मा प्रजापति: ।
शिवावलोकादभवच्छरद्‌ध्रद इवामल: ॥ १० ॥

तदा वृष-ध्वज द्वेष कलिल-आत्मा प्रजापतिः शिव अवलोकात् अभवत् शरत् ह्रदः इव अमलः

भवस्तवाय कृतधीर्नाशक्नोदनुरागत: ।
औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन् ॥ ११ ॥

भव-स्तवाय कृत-धीः न अशक्नोत् अनुरागतः औत्कण्ठ्यात् बाष्प-कलया सम्परेताम् सुताम् स्मरन्

कृच्छ्रात्संस्तभ्य च मन: प्रेमविह्वलित: सुधी: ।
शशंस निर्व्यलीकेन भावेनेशं प्रजापति: ॥ १२ ॥

कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सु-धीः शशंस निर्व्यलीकेन भावेन ईशम् प्रजापतिः

दक्ष उवाच
भूयाननुग्रह अहो भवता कृतो मे
दण्डस्त्वया मयि भृतो यदपि प्रलब्ध: ।
न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा
तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥ १३ ॥

दक्षः उवाच भूयान् अनुग्रहः अहो भवता कृतः मे दण्डः त्वया मयि भृतः यत् अपि प्रलब्धः न ब्रह्म-बन्धुषु च वाम् भगवन् अवज्ञा तुभ्यम् हरेः च कुतः एव धृत-व्रतेषु

विद्यातपोव्रतधरान् मुखत: स्म विप्रान्
ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक् ।
तद्ब्राह्मणान् परम सर्वविपत्सु पासि
पाल: पशूनिव विभो प्रगृहीतदण्ड: ॥ १४ ॥

विद्या तपः व्रत धरान् मुखतः स्म विप्रान् ब्रह्मा आत्म-तत्त्वम् अवितुम् प्रथमम् त्वम् अस्राक् तत् ब्राह्मणान् परम सर्व विपत्सु पासि पालः पशून् इव विभो प्रगृहीत दण्डः

योऽसौ मयाविदिततत्त्वद‍ृशा सभायां
क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।
अर्वाक् पतन्तमर्हत्तमनिन्दयापाद्
द‍ृष्टय‍ार्द्रया स भगवान्स्वकृतेन तुष्येत् ॥ १५ ॥

यः असौ मया अविदित-तत्त्व दृशा सभायाम् क्षिप्तः दुरुक्ति विशिखैः विगणय्य तत् माम् अर्वाक् पतन्तम् अर्हत्-तम निन्दया अपात् दृष्ट्या आर्द्रया सः भगवान् स्व-कृतेन तुष्येत्

मैत्रेय उवाच
क्षमाप्यैवं स मीढ्‍वांसं ब्रह्मणा चानुमन्त्रित: ।
कर्म सन्तानयामास सोपाध्यायर्त्विगादिभि: ॥ १६ ॥

मैत्रेयः उवाच क्षमा आप्य एवम् सः मीढ्वांसम् ब्रह्मणा च अनुमन्त्रितः कर्म सन्तानयाम् आस स उपाध्याय ऋत्विक् आदिभिः

वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमा: ।
पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७ ॥

वैष्णवम् यज्ञ सन्तत्यै त्रि-कपालम् द्विज-उत्तमाः पुरोडाशम् निरवपन् वीर संसर्ग शुद्धये

अध्वर्युणात्तहविषा यजमानो विशाम्पते ।
धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरि: ॥ १८ ॥

अध्वर्युणा आत्त हविषा यजमानः विशाम्-पते धिया विशुद्धया दध्यौ तथा प्रादुः अभूत् हरिः

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।
मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना ॥ १९ ॥

तदा स्व-प्रभया तेषाम् द्योतयन्त्या दिशः दश मुष्णन् तेजः उपानीतः तार्क्ष्येण स्तोत्र-वाजिना

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो
नीलालकभ्रमरमण्डितकुण्डलास्य: ।
शङ्खाब्जचक्रशरचापगदासिचर्म-
व्यग्रैर्हिरण्मयभुजैरिव कर्णिकार: ॥ २० ॥

श्यामः हिरण्य-रशनः अर्क-किरीट-जुष्टः नील-अलक भ्रमर मण्डित-कुण्डल-आस्यः शङ्ख अब्ज चक्र शर चाप गदा असि चर्म व्यग्रैः हिरण्मय भुजैः इव कर्णिकारः

वक्षस्यधिश्रितवधूर्वनमाल्युदार
हासावलोककलया रमयंश्च विश्वम् ।
पार्श्वभ्रमद्वय‍जनचामरराजहंस:
श्वेतातपत्रशशिनोपरि रज्यमान: ॥ २१ ॥

वक्षसि अधिश्रित वधूः वन-माली उदार हास अवलोक कलया रमयन् च विश्वम् पार्श्व भ्रमत् व्यजन-चामर राज-हंसः श्वेत-आतपत्र-शशिना उपरि रज्यमानः

तमुपागतमालक्ष्य सर्वे सुरगणादय: ।
प्रणेमु: सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायका: ॥ २२ ॥

तम् उपागतम् आलक्ष्य सर्वे सुर-गण-आदयः प्रणेमुः सहसा उत्थाय ब्रह्म इन्द्र त्रि-अक्ष नायकाः

तत्तेजसा हतरुच: सन्नजिह्वा: ससाध्वसा: ।
मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३ ॥

तत्-तेजसा हत-रुचः सन्न-जिह्वाः स-साध्वसाः मूर्ध्ना धृत-अञ्जलि-पुटाः उपतस्थुः अधोक्षजम्

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादय: ।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥

अपि अर्वाक्-वृत्तयः यस्य महि तु आत्मभू-आदयः यथा-मति गृणन्ति स्म कृत-अनुग्रह विग्रहम्

दक्षो गृहीतार्हणसादनोत्तमं
यज्ञेश्वरं विश्वसृजां परं गुरुम् ।
सुनन्दनन्दाद्यनुगैर्वृतं मुदा
गृणन् प्रपेदे प्रयत: कृताञ्जलि: ॥ २५ ॥

दक्षः गृहीत अर्हण सादन-उत्तमम् यज्ञ-ईश्वरम् विश्व-सृजाम् परम् गुरुम् सुनन्द-नन्द-आदि-अनुगैः वृतम् मुदा गृणन् प्रपेदे प्रयतः कृत-अञ्जलिः

दक्ष उवाच
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं
चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-
मास्ते भवानपरिशुद्ध इवात्मतन्त्र: ॥ २६ ॥

दक्षः उवाच शुद्धम् स्व-धाम्नि उपरत-अखिल बुद्धि-अवस्थम् चित्-मात्रम् एकम् अभयम् प्रतिषिध्य मायाम् तिष्ठन् तया एव पुरुषत्वम् उपेत्य तस्याम् आस्ते भवान् अपरिशुद्धः इव आत्म-तन्त्रः

ऋत्विज ऊचु:
तत्त्वं न ते वयमनञ्जन रुद्रशापात्
कर्मण्यवग्रहधियो भगवन्विदाम: ।
धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं
ज्ञातं यदर्थमधिदैवमदो व्यवस्था: ॥ २७ ॥

ऋत्विजः ऊचुः तत्त्वम् न ते वयम् अनञ्जन रुद्र शापात् कर्मणि अवग्रह धियः भगवन् विदामः धर्म उपलक्षणम् इदम् त्रि-वृत् अध्वर आख्यम् ज्ञातम् यत् अर्थम् अधिदैवम् अदः व्यवस्थाः

सदस्या ऊचु:
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र
व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभार: ।
द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थ:
पादौकस्ते शरणद कदा याति कामोपसृष्ट: ॥ २८ ॥

सदस्याः ऊचुः उत्पत्ति अध्वनि अशरणे उरु क्लेश दुर्गे अन्तक उग्र व्याल अन्विष्टे विषय मृग-तृषि आत्म गेह उरु भारः द्वन्द्व श्वभ्रे खल मृग भये शोक-दावे अज्ञ-स-अर्थः पाद-ओकः ते शरण-द कदा याति काम-उपसृष्टः

रुद्र उवाच
तव वरद वराङ्‌घ्रावाशिषेहाखिलार्थे
ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।
यदि रचितधियं माविद्यलोकोऽपविद्धं
जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९ ॥

रुद्रः उवाच तव वर-द वर-अङ्घ्रौ आशिषा इह अखिल-अर्थे हि अपि मुनिभिः असक्तैः आदरेण अर्हणीये यदि रचित-धियम् मा अविद्य-लोकः अपविद्धम् जपति न गणये तत् त्वत्-पर-अनुग्रहेण

भृगुरुवाच
यन्मायया गहनयापहृतात्मबोधा
ब्रह्मादयस्तनुभृतस्तमसि स्वपन्त: ।
नात्मन् श्रितं तव विदन्त्यधुनापि तत्त्वं
सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धु: ॥ ३० ॥

भृगुः उवाच यत् मायया गहनया अपहृत आत्म-बोधाः ब्रह्म-आदयः तनु-भृतः तमसि स्वपन्तः न आत्मन् श्रितम् तव विदन्ति अधुना अपि तत्त्वम् सः अयम् प्रसीदतु भवान् प्रणत-आत्म बन्धुः

ब्रह्मोवाच
नैतत्स्वरूपं भवतोऽसौ पदार्थ
भेदग्रहै: पुरुषो यावदीक्षेत् ।
ज्ञानस्य चार्थस्य गुणस्य चाश्रयो
मायामयाद्वय‍‌तिरिक्तो मतस्त्वम् ॥ ३१ ॥

ब्रह्मा उवाच न एतत् स्वरूपम् भवतः असौ पद-अर्थ भेद ग्रहैः पुरुषः यावत् ईक्षेत् ज्ञानस्य च अर्थस्य गुणस्य च आश्रयः माया-मयात् व्यतिरिक्तः मतः त्वम्

इन्द्र उवाच
इदमप्यच्युत विश्वभावनं
वपुरानन्दकरं मनोद‍ृशाम् ।
सुरविद्विट्‌क्षपणैरुदायुधै
र्भुजदण्डैरुपपन्नमष्टभि: ॥ ३२ ॥

इन्द्रः उवाच इदम् अपि अच्युत विश्व-भावनम् वपुः आनन्द-करम् मनः-दृशाम् सुर-विद्विट् क्षपणैः उद्-आयुधैः भुज-दण्डैः उपपन्नम् अष्टभिः

पत्‍न्य ऊचु:
यज्ञोऽयं तव यजनाय केन सृष्टो
विध्वस्त: पशुपतिनाद्य दक्षकोपात् ।
तं नस्त्वं शवशयनाभशान्तमेधं
यज्ञात्मन्नलिनरुचा द‍ृशा पुनीहि ॥ ३३ ॥

पत्न्यः ऊचुः यज्ञः अयम् तव यजनाय केन सृष्टः विध्वस्तः पशुपतिना अद्य दक्ष-कोपात् तम् नः त्वम् शव-शयन आभ शान्त-मेधम् यज्ञ-आत्मन् नलिन रुचा दृशा पुनीहि

ऋषय ऊचु:
अनन्वितं ते भगवन् विचेष्टितं
यदात्मना चरसि हि कर्म नाज्यसे ।
विभूतये यत उपसेदुरीश्वरीं
न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४ ॥

ऋषयः ऊचुः अनन्वितम् ते भगवन् विचेष्टितम् यत् आत्मना चरसि हि कर्म न अज्यसे विभूतये यतः उपसेदुः ईश्वरीम् न मन्यते स्वयम् अनुवर्ततीम् भवान्

सिद्धा ऊचु:
अयं त्वत्कथामृष्टपीयूषनद्यां
मनोवारण: क्लेशदावाग्निदग्ध: ।
तृषार्तोऽवगाढो न सस्मार दावं
न निष्क्रामति ब्रह्मसम्पन्नवन्न: ॥ ३५ ॥

सिद्धाः ऊचुः अयम् त्वत्-कथा मृष्ट पीयूष नद्याम् मनः वारणः क्लेश दाव-अग्नि दग्धः तृषा आर्तः अवगाढः न सस्मार दावम् न निष्क्रामति ब्रह्म सम्पन्न-वत् नः

यजमान्युवाच
स्वागतं ते प्रसीदेश तुभ्यं नम:
श्रीनिवास श्रिया कान्तया त्राहि न: ।
त्वामृतेऽधीश नाङ्गैर्मख: शोभते
शीर्षहीन: कबन्धो यथा पुरुष: ॥ ३६ ॥

यजमानी उवाच सु-आगतम् ते प्रसीद ईश तुभ्यम् नमः श्रीनिवास श्रिया कान्तया त्राहि नः त्वाम् ऋते अधीश न अङ्गैः मखः शोभते शीर्ष-हीनः क-बन्धः यथा पुरुषः

लोकपाला ऊचु:
द‍ृष्ट: किं नो द‍ृग्भिरसद्ग्रहैस्त्वं
प्रत्यग्द्रष्टा द‍ृश्यते येन विश्वम् ।
माया ह्येषा भवदीया हि भूमन्
यस्त्वं षष्ठ: पञ्चभिर्भासि भूतै: ॥ ३७ ॥

लोक-पालाः ऊचुः दृष्टः किम् नः दृग्भिः असत्-ग्रहैः त्वम् प्रत्यक्-द्रष्टा दृश्यते येन विश्वम् माया हि एषा भवदीया हि भूमन् यः त्वम् षष्ठः पञ्चभिः भासि भूतैः

योगेश्‍वरा ऊचु
प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो
विश्वात्मनीक्षेन्न पृथग्य आत्मन: ।
अथापि भक्त्येश तयोपधावता-
मनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८ ॥

योग-ईश्वराः ऊचुः प्रेयान् न ते अन्यः अस्ति अमुतः त्वयि प्रभो विश्व-आत्मनि ईक्षेत् न पृथक् यः आत्मनः अथ अपि भक्त्या ईश तया उपधावताम् अनन्य-वृत्त्या अनुगृहाण वत्सल

जगदुद्भवस्थितिलयेषु दैवतो
बहुभिद्यमानगुणयात्ममायया ।
रचितात्मभेदमतये स्वसंस्थया
विनिवर्तितभ्रमगुणात्मने नम: ॥ ३९ ॥

जगत् उद्भव स्थिति लयेषु दैवतः बहु भिद्यमान गुणया आत्म-मायया रचित आत्म भेद-मतये स्व-संस्थया विनिवर्तित भ्रम गुण आत्मने नमः

ब्रह्मोवाच
नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये ।
निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४० ॥

ब्रह्म उवाच नमः ते श्रित-सत्त्वाय धर्म-आदीनाम् च सूतये निर्गुणाय च यत् काष्ठाम् न अहम् वेद अपरे अपि च

अग्निरुवाच
यत्तेजसाहं सुसमिद्धतेजा
हव्यं वहे स्वध्वर आज्यसिक्तम् ।
तं यज्ञियं पञ्चविधं च पञ्चभि:
स्विष्टं यजुर्भि: प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥

अग्निः उवाच यत्-तेजसा अहम् सु-समिद्ध-तेजाः हव्यम् वहे सु-अध्वरे आज्य-सिक्तम् तम् यज्ञियम् पञ्च-विधम् च पञ्चभिः सु-इष्टम् यजुर्भिः प्रणतः अस्मि यज्ञम्

देवा ऊचु:
पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं
त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।
पुमान्शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदवि:
स एवाद्याक्ष्णोर्य: पथि चरसि भृत्यानवसि न: ॥ ४२ ॥

देवाः ऊचुः पुरा कल्प-अपाये स्व-कृतम् उदरी-कृत्य विकृतम् त्वम् एव आद्यः तस्मिन् सलिले उरग-इन्द्र अधिशयने पुमान् शेषे सिद्धैः हृदि विमृशित अध्यात्म-पदविः सः एव अद्य अक्ष्णोः यः पथि चरसि भृत्यान् अवसि नः

गन्धर्वा ऊचु:
अंशांशास्ते देव मरीच्यादय एते
ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगा: ।
क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्
तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३ ॥

गन्धर्वाः ऊचुः अंश-अंशाः ते देव मरीचि-आदयः एते ब्रह्म-इन्द्र-आद्याः देव-गणाः रुद्र-पुरोगाः क्रीडा-भाण्डम् विश्वम् इदम् यस्य विभूमन् तस्मै नित्यम् नाथ नमः ते करवाम

विद्याधरा ऊचु:
त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्
कृत्वा ममाहमिति दुर्मतिरुत्पथै: स्वै: ।
क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं
युष्मत्कथामृतनिषेवक उद्वय‍ुदस्येत् ॥ ४४ ॥

विद्याधराः ऊचुः त्वत्-मायया अर्थम् अभिपद्य कलेवरे अस्मिन् कृत्वा मम अहम् इति दुर्मतिः उत्पथैः स्वैः क्षिप्तः अपि असत् विषय-लालसः आत्म-मोहम् युष्मत् कथा अमृत निषेवकः उत् व्युदस्येत्

ब्राह्मणा ऊचु:
त्वं क्रतुस्त्वं हविस्त्वं हुताश: स्वयंत्वं हि मन्त्र: समिद्दर्भपात्राणि च ।
त्वं सदस्यर्त्विजो
दम्पती देवताअग्निहोत्रं स्वधा सोम आज्यं पशु: ॥ ४५ ॥

ब्राह्मणाः ऊचुः त्वम् क्रतुः त्वम् हविः त्वम् हुत-आशः स्वयम् त्वम् हि मन्त्रः समित्-दर्भ-पात्राणि च त्वम् सदस्य ऋत्विजः दम्पती देवता अग्नि-होत्रम् स्वधा सोमः आज्यम् पशुः

त्वं पुरा गां रसाया महासूकरो
दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।
स्तूयमानो नदल्लीलया योगिभि-
र्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतु: ॥ ४६ ॥

त्वम् पुरा गाम् रसायाः महा-सूकरः दंष्ट्रया पद्मिनीम् वारण-इन्द्रः यथा स्तूयमानः नदन् लीलया योगिभिः व्युज्जहर्थ त्रयी-गात्र यज्ञ-क्रतुः

स प्रसीद त्वमस्माकमाकाङ्‌क्षतां
दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।
कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते
यज्ञविघ्ना: क्षयं यान्ति तस्मै नम: ॥ ४७ ॥

सः प्रसीद त्वम् अस्माकम् आकाङ्क्षताम् दर्शनम् ते परिभ्रष्ट सत्-कर्मणाम् कीर्त्यमाने नृभिः नाम्नि यज्ञ-ईश ते यज्ञ-विघ्नाः क्षयम् यान्ति तस्मै नमः

मैत्रेय उवाच
इति दक्ष: कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।
कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८ ॥

मैत्रेयः उवाच इति दक्षः कविः यज्ञम् भद्र रुद्र-अभिमर्शितम् कीर्त्य-माने हृषीकेशे सन्निन्ये यज्ञ-भावने

भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।
दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९ ॥

भगवान् स्वेन भागेन सर्व-आत्मा सर्व-भाग-भुक् दक्षम् बभाषे आभाष्य प्रीयमाणः इव अनघ

श्रीभगवानुवाच
अहं ब्रह्मा च शर्वश्च जगत: कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयंद‍ृगविशेषण: ॥ ५० ॥

श्री-भगवान् उवाच अहम् ब्रह्मा च शर्वः च जगतः कारणम् परम् आत्म-ईश्वरः उपद्रष्टा स्वयम्-दृक् अविशेषणः

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।
सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१ ॥

आत्म-मायाम् समाविश्य सः अहम् गुण-मयीम् द्वि-ज सृजन् रक्षन् हरन् विश्वम् दध्रे संज्ञाम् क्रिया-उचिताम्

तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।
ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥

तस्मिन् ब्रह्मणि अद्वितीये केवले परम-आत्मनि ब्रह्म-रुद्रौ च भूतानि भेदेन अज्ञः अनुपश्यति

यथा पुमान्न स्वाङ्गेषु शिर:पाण्यादिषु क्‍वचित् ।
पारक्यबुद्धिं कुरुते एवं भूतेषु मत्पर: ॥ ५३ ॥

यथा पुमान् न स्व-अङ्गेषु शिरः-पाणि-आदिषु क्वचित् पारक्य-बुद्धिम् कुरुते एवम् भूतेषु मत्-परः

त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
सर्वभूतात्मनां ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥

त्रयाणाम् एक-भावानाम् यः न पश्यति वै भिदाम् सर्व-भूत-आत्मनाम् ब्रह्मन् सः शान्तिम् अधिगच्छति

मैत्रेय उवाच
एवं भगवतादिष्ट: प्रजापतिपतिर्हरिम् ।
अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५ ॥

मैत्रेयः उवाच एवम् भगवता आदिष्टः प्रजापति-पतिः हरिम् अर्चित्वा क्रतुना स्वेन देवान् उभयतः अयजत्

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहित: ।
कर्मणोदवसानेन सोमपानितरानपि ।
उदवस्य सहर्त्विग्भि: सस्‍नाववभृथं तत: ॥ ५६ ॥

रुद्रम् च स्वेन भागेन हि उपाधावत् समाहितः कर्मणा उदवसानेन सोम-पान् इतरान् अपि उदवस्य सह ऋत्विग्भिः सस्नौ अवभृथम् ततः

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।
धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययु: ॥ ५७ ॥

तस्मै अपि अनुभावेन स्वेन एव अवाप्त-राधसे धर्मे एव मतिम् दत्त्वा त्रिदशाः ते दिवम् ययुः

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।
जज्ञे हिमवत: क्षेत्रे मेनायामिति शुश्रुम ॥ ५८ ॥

एवम् दाक्षायणी हित्वा सती पूर्व-कलेवरम् जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम

तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका ।
अनन्यभावैकगतिं शक्ति: सुप्तेव पूरुषम् ॥ ५९ ॥

तम् एव दयितम् भूयः आवृङ्क्ते पतिम् अम्बिका अनन्य-भावा एक-गतिम् शक्तिः सुप्ता इव पूरुषम्

एतद्भगवत: शम्भो: कर्म दक्षाध्वरद्रुह: ।
श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पते: ॥ ६० ॥

एतत् भगवतः शम्भोः कर्म दक्ष-अध्वर-द्रुहः श्रुतम् भागवतात् शिष्यात् उद्धवात् मे बृहस्पतेः

इदं पवित्रं परमीशचेष्टितं
यशस्यमायुष्यमघौघमर्षणम् ।
यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद्
धुनोत्यघं कौरव भक्तिभावत: ॥ ६१ ॥

इदम् पवित्रम् परम् ईश-चेष्टितम् यशस्यम् आयुष्यम् अघ-ओघ-मर्षणम् यः नित्यदा आकर्ण्य नरः अनुकीर्तयेत् धुनोति अघम् कौरव भक्ति-भावतः

४.८

मैत्रेय उवाच
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यति: ।
नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतस: ॥ १ ॥

मैत्रेयः उवाच सनक-आद्याः नारदः च ऋभुः हंसः अरुणिः यतिः न एते गृहान् ब्रह्म-सुताः हि आवसन् ऊर्ध्व-रेतसः

मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन् ।
असूत मिथुनं तत्तु निऋर्तिर्जगृहेऽप्रज: ॥ २ ॥

मृषा अधर्मस्य भार्या आसीत् दम्भम् मायाम् च शत्रु-हन् असूत मिथुनम् तत् तु निरृतिः जगृहे अप्रजः

तयो: समभवल्लोभो निकृतिश्च महामते ।
ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्ति: स्वसा कलि: ॥ ३ ॥

तयोः समभवत् लोभः निकृतिः च महा-मते ताभ्याम् क्रोधः च हिंसा च यत् दुरुक्तिः स्वसा कलिः

दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।
तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥

दुरुक्तौ कलिः आधत्त भयम् मृत्युम् च सत्-तम तयोः च मिथुनम् जज्ञे यातना निरयः तथा

सङ्ग्रहेण मयाख्यात: प्रतिसर्गस्तवानघ ।
त्रि: श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥

सङ्ग्रहेण मया आख्यातः प्रतिसर्गः तव अनघ त्रिः श्रुत्वा एतत् पुमान् पुण्यम् विधुनोति आत्मनः मलम्

अथात: कीर्तये वंशं पुण्यकीर्ते: कुरूद्वह ।
स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मन: ॥ ६ ॥

अथ अतः कीर्तये वंशम् पुण्य-कीर्तेः कुरु-उद्वह स्वायम्भुवस्य अपि मनोः हरेः अंश अंश जन्मनः

प्रियव्रतोत्तानपादौ शतरूपापते: सुतौ ।
वासुदेवस्य कलया रक्षायां जगत: स्थितौ ॥ ७ ॥

प्रियव्रत उत्तानपादौ शतरूपा-पतेः सुतौ वासुदेवस्य कलया रक्षायाम् जगतः स्थितौ

जाये उत्तानपादस्य सुनीति: सुरुचिस्तयो: ।
सुरुचि: प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुव: ॥ ८ ॥

जाये उत्तानपादस्य सुनीतिः सुरुचिः तयोः सुरुचिः प्रेयसी पत्युः न इतरा यत् सुतः ध्रुवः

एकदा सुरुचे: पुत्रमङ्कमारोप्य लालयन् ।
उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥

एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् उत्तमम् न आरुरुक्षन्तम् ध्रुवम् राजा अभ्यनन्दत

तथा चिकीर्षमाणं तं सपत्‍न्यास्तनयं ध्रुवम् ।
सुरुचि: श‍ृण्वतो राज्ञ: सेर्ष्यमाहातिगर्विता ॥ १० ॥

तथा चिकीर्षमाणम् तम् स-पत्न्याः तनयम् ध्रुवम् सुरुचिः शृण्वतः राज्ञः स-ईर्ष्यम् आह अतिगर्विता

न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति ।
न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मज: ॥ ११ ॥

न वत्स नृपतेः धिष्ण्यम् भवान् आरोढुम् अर्हति न गृहीतः मया यत् त्वम् कुक्षौ अपि नृप-आत्मजः

बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् ।
नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथ: ॥ १२ ॥

बालः असि बत न आत्मानम् अन्य स्त्री गर्भ सम्भृतम् नूनम् वेद भवान् यस्य दुर्लभे अर्थे मनः-रथः

तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे ।
गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥

तपसा आराध्य पुरुषम् तस्य एव अनुग्रहेण मे गर्भे त्वम् साधय आत्मानम् यदि इच्छसि नृप-आसनम्

मैत्रेय उवाच
मातु: सपत्‍न्या: स दुरुक्तिविद्ध:
श्वसन् रुषा दण्डहतो यथाहि: ।
हित्वा मिषन्तं पितरं सन्नवाचं
जगाम मातु: प्ररुदन् सकाशम् ॥ १४ ॥

मैत्रेयः उवाच मातुः स-पत्न्याः सः दुरुक्ति विद्धः श्वसन् रुषा दण्ड-हतः यथा अहिः हित्वा मिषन्तम् पितरम् सन्न-वाचम् जगाम मातुः प्ररुदन् सकाशम्

तं नि:श्वसन्तं स्फुरिताधरोष्ठं
सुनीतिरुत्सङ्ग उदूह्य बालम् ।
निशम्य तत्पौरमुखान्नितान्तं
सा विव्यथे यद्गदितं सपत्‍न्या ॥ १५ ॥

तम् निःश्वसन्तम् स्फुरित अधर-ओष्ठम् सुनीतिः उत्सङ्गे उदूह्य बालम् निशम्य तत्-पौर-मुखात् नितान्तम् सा विव्यथे यत् गदितम् स-पत्न्या

सोत्सृज्य धैर्यं विललाप शोक
दावाग्निना दावलतेव बाला ।
वाक्यं सपत्‍न्या: स्मरती सरोज
श्रिया द‍ृशा बाष्पकलामुवाह ॥ १६ ॥

सा उत्सृज्य धैर्यम् विललाप शोक-दाव-अग्निना दाव-लता इव बाला वाक्यम् स-पत्न्याः स्मरती सरोज-श्रिया दृशा बाष्प-कलाम् उवाह

दीर्घं श्वसन्ती वृजिनस्य पार-
मपश्यती बालकमाह बाला ।
मामङ्गलं तात परेषु मंस्था
भुङ्क्ते जनो यत्परदु:खदस्तत् ॥ १७ ॥

दीर्घम् श्वसन्ती वृजिनस्य पारम् अपश्यती बालकम् आह बाला मा अमङ्गलम् तात परेषु मंस्थाः भुङ्क्ते जनः यत् पर-दुःखदः तत्

सत्यं सुरुच्याभिहितं भवान्मे
यद्दुर्भगाया उदरे गृहीत: ।
स्तन्येन वृद्धश्च विलज्जते यां
भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥

सत्यम् सुरुच्या अभिहितम् भवान् मे यत् दुर्भगायाः उदरे गृहीतः स्तन्येन वृद्धः च विलज्जते याम् भार्या इति वा वोढुम् इडः-पतिः माम्

आतिष्ठ तत्तात विमत्सरस्त्वम्
उक्तं समात्रापि यदव्यलीकम् ।
आराधयाधोक्षजपादपद्मं
यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥

आतिष्ठ तत् तात विमत्सरः त्वम् उक्तम् समात्रा अपि यत् अव्यलीकम् आराधय अधोक्षज पाद-पद्मम् यदि इच्छसे अध्यासनम् उत्तमः यथा

यस्याङ्‌घ्रि पद्मं परिचर्य विश्व
विभावनायात्तगुणाभिपत्ते: ।
अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं
पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥

यस्य अङ्घ्रि पद्मम् परिचर्य विश्व विभावनाय आत्त गुण-अभिपत्तेः अजः अध्यतिष्ठत् खलु पारमेष्ठ्यम् पदम् जित-आत्म श्वसन अभिवन्द्यम्

तथा मनुर्वो भगवान् पितामहो
यमेकमत्या पुरुदक्षिणैर्मखै: ।
इष्ट्वाभिपेदे दुरवापमन्यतो
भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥

तथा मनुः वः भगवान् पितामहः यम् एक-मत्या पुरु दक्षिणैः मखैः इष्ट्वा अभिपेदे दुरवापम् अन्यतः भौमम् सुखम् दिव्यम् अथ आपवर्ग्यम्

तमेव वत्साश्रय भृत्यवत्सलं
मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।
अनन्यभावे निजधर्मभाविते
मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥

तम् एव वत्स आश्रय भृत्य-वत्सलम् मुमुक्षुभिः मृग्य पद-अब्ज पद्धतिम् अनन्य-भावे निज-धर्म-भाविते मनसि अवस्थाप्य भजस्व पूरुषम्

नान्यं तत: पद्मपलाशलोचनाद्
दु:खच्छिदं ते मृगयामि कञ्चन ।
यो मृग्यते हस्तगृहीतपद्मया
श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३ ॥

न अन्यम् ततः पद्म-पलाश-लोचनात् दुःख-छिदम् ते मृगयामि कञ्चन यः मृग्यते हस्त-गृहीत-पद्मया श्रिया इतरैः अङ्ग विमृग्यमाणया

मैत्रेय उवाच
एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वच: ।
सन्नियम्यात्मनात्मानं निश्चक्राम पितु: पुरात् ॥ २४ ॥

मैत्रेयः उवाच एवम् सञ्जल्पितम् मातुः आकर्ण्य अर्थ-आगमम् वचः सन्नियम्य आत्मना आत्मानम् निश्चक्राम पितुः पुरात्

नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।
स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मित: ॥ २५ ॥

नारदः तत् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् स्पृष्ट्वा मूर्धनि अघ-घ्नेन पाणिना प्राह विस्मितः

अहो तेज: क्षत्रियाणां मानभङ्गममृष्यताम् ।
बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वच: ॥ २६ ॥

अहो तेजः क्षत्रियाणाम् मान-भङ्गम् अमृष्यताम् बालः अपि अयम् हृदा धत्ते यत् स-मातुः असत् वचः

नारद उवाच
नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक ।
लक्षयाम: कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥

नारदः उवाच न अधुना अपि अवमानम् ते सम्मानम् वा अपि पुत्रक लक्षयामः कुमारस्य सक्तस्य क्रीडन-आदिषु

विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतव: ।
पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभि: ॥ २८ ॥

विकल्पे विद्यमाने अपि न हि असन्तोष हेतवः पुंसः मोहम् ऋते भिन्नाः यत् लोके निज-कर्मभिः

परितुष्येत्ततस्तात तावन्मात्रेण पूरुष: ।
दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुध: ॥ २९ ॥

परितुष्येत् ततः तात तावत् मात्रेण पूरुषः दैव उपसादितम् यावत् वीक्ष्य ईश्वर-गतिम् बुधः

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।
यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥

अथ मात्रा उपदिष्टेन योगेन अवरुरुत्ससि यत्-प्रसादम् सः वै पुंसाम् दुराराध्यः मतः मम

मुनय: पदवीं यस्य नि:सङ्गेनोरुजन्मभि: ।
न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥

मुनयः पदवीम् यस्य निःसङ्गेन उरु-जन्मभिः न विदुः मृगयन्तः अपि तीव्र-योग समाधिना

अतो निवर्ततामेष निर्बन्धस्तव निष्फल: ।
यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥

अतः निवर्तताम् एषः निर्बन्धः तव निष्फलः यतिष्यति भवान् काले श्रेयसाम् समुपस्थिते

यस्य यद्दैवविहितं स तेन सुखदु:खयो: ।
आत्मानं तोषयन्देही तमस: पारमृच्छति ॥ ३३ ॥

यस्य यत् दैव विहितम् सः तेन सुख-दुःखयोः आत्मानम् तोषयन् देही तमसः पारम् ऋच्छति

गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् ।
मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥ ३४ ॥

गुण-अधिकात् मुदम् लिप्सेत् अनुक्रोशम् गुण-अधमात् मैत्रीम् समानात् अन्विच्छेत् न तापैः अभिभूयते

ध्रुव उवाच
सोऽयं शमो भगवता सुखदु:खहतात्मनाम् ।
दर्शित: कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु य: ॥ ३५ ॥

ध्रुवः उवाच सः अयम् शमः भगवता सुख-दुःख हत-आत्मनाम् दर्शितः कृपया पुंसाम् दुर्दर्शः अस्मत्-विधैः तु यः

अथापि मेऽविनीतस्य क्षात्‍त्रं घोरमुपेयुष: ।
सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥ ३६ ॥

अथ अपि मे अविनीतस्य क्षात्त्रम् घोरम् उपेयुषः सुरुच्याः दुर्वचः बाणैः न भिन्ने श्रयते हृदि

पदं त्रिभुवनोत्कृष्टं जिगीषो: साधु वर्त्म मे ।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥ ३७ ॥

पदम् त्रि-भुवन उत्कृष्टम् जिगीषोः साधु वर्त्म मे ब्रूहि अस्मत् पितृभिः ब्रह्मन् अन्यैः अपि अनधिष्ठितम्

नूनं भवान्भगवतो योऽङ्गज: परमेष्ठिन: ।
वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥

नूनम् भवान् भगवतः यः अङ्ग-जः परमेष्ठिनः वितुदन् अटते वीणाम् हिताय जगतः अर्क-वत्

मैत्रेय उवाच
इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा ।
प्रीत: प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥ ३९ ॥

मैत्रेयः उवाच इति उदाहृतम् आकर्ण्य भगवान् नारदः तदा प्रीतः प्रत्याह तम् बालम् सत्-वाक्यम् अनुकम्पया

नारद उवाच
जनन्याभिहित: पन्था: स वै नि:श्रेयसस्य ते ।
भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥

नारदः उवाच जनन्या अभिहितः पन्थाः सः वै निःश्रेयसस्य ते भगवान् वासुदेवः तम् भज तम् प्रवण-आत्मना

धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मन: ।
एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥

धर्म-अर्थ-काम-मोक्ष आख्यम् यः इच्छेत् श्रेयः आत्मनः एकम् हि एव हरेः तत्र कारणम् पाद-सेवनम्

तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरे: ॥ ४२ ॥

तत् तात गच्छ भद्रम् ते यमुनायाः तटम् शुचि पुण्यम् मधु-वनम् यत्र सान्निध्यम् नित्यदा हरेः

स्‍नात्वानुसवनं तस्मिन् कालिन्द्या: सलिले शिवे ।
कृत्वोचितानि निवसन्नात्मन: कल्पितासन: ॥ ४३ ॥

स्नात्वा अनुसवनम् तस्मिन् कालिन्द्याः सलिले शिवे कृत्वा उचितानि निवसन् आत्मनः कल्पित-आसनः

प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।
शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥ ४४ ॥

प्राणायामेन त्रि-वृता प्राण-इन्द्रिय मनः मलम् शनैः व्युदस्य अभिध्यायेत् मनसा गुरुणा गुरुम्

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् ।
सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥ ४५ ॥

प्रसाद-अभिमुखम् शश्वत् प्रसन्न वदन ईक्षणम् सु-नासम् सु-भ्रुवम् चारु कपोलम् सुर सुन्दरम्

तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम् ।
प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥

तरुणम् रमणीय अङ्गम् अरुण-ओष्ठ ईक्षण-अधरम् प्रणत आश्रयणम् नृम्णम् शरण्यम् करुणा अर्णवम्

श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् ।
शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥ ४७ ॥

श्रीवत्स-अङ्कम् घन-श्यामम् पुरुषम् वन-मालिनम् शङ्ख चक्र गदा पद्मैः अभिव्यक्त चतुः-भुजम्

किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ।
कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥

किरीटिनम् कुण्डलिनम् केयूर वलय-अन्वितम् कौस्तुभ-आभरण-ग्रीवम् पीत-कौशेय-वाससम्

काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् ।
दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥

काञ्ची-कलाप पर्यस्तम् लसत्-काञ्चन-नूपुरम् दर्शनीय-तमम् शान्तम् मनः-नयन-वर्धनम्

पद्‌भ्यां नखमणिश्रेण्या विलसद्‌भ्यां समर्चताम् ।
हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥ ५० ॥

पद्भ्याम् नख-मणि-श्रेण्या विलसद्भ्याम् समर्चताम् हृत्-पद्म-कर्णिका धिष्ण्यम् आक्रम्य आत्मनि अवस्थितम्

स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।
नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥

स्मयमानम् अभिध्यायेत् स-अनुराग-अवलोकनम् नियतेन एक-भूतेन मनसा वर-द-ऋषभम्

एवं भगवतो रूपं सुभद्रं ध्यायतो मन: ।
निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥

एवम् भगवतः रूपम् सु-भद्रम् ध्यायतः मनः निर्वृत्या परया तूर्णम् सम्पन्नम् न निवर्तते

जपश्च परमो गुह्य: श्रूयतां मे नृपात्मज ।
यं सप्तरात्रं प्रपठन्पुमान् पश्यति खेचरान् ॥ ५३ ॥

जपः च परमः गुह्यः श्रूयताम् मे नृप-आत्मज यम् सप्त-रात्रम् प्रपठन् पुमान् पश्यति खे-चरान्

ॐ नमो भगवते वासुदेवाय ।
मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुध: ।
सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥ ५४ ॥

ओम् नमः भगवते वासुदेवाय मन्त्रेण अनेन देवस्य कुर्यात् द्रव्यमयीम् बुधः सपर्याम् विविधैः द्रव्यैः देश काल विभाग-वित्

सलिलै: शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभि: ।
शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥ ५५ ॥

सलिलैः शुचिभिः माल्यैः वन्यैः मूल फल-आदिभिः शस्त अङ्कुर अंशुकैः च अर्चेत् तुलस्या प्रियया प्रभुम्

लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् ।
आभृतात्मा मुनि: शान्तो यतवाङ्‌मितवन्यभुक् ॥ ५६ ॥

लब्ध्वा द्रव्य-मयीम् अर्चाम् क्षिति अम्बु आदिषु वा अर्चयेत् आभृत-आत्मा मुनिः शान्तः यत-वाक् मित वन्य-भुक्

स्वेच्छावतारचरितैरचिन्त्यनिजमायया ।
करिष्यत्युत्तमश्लोकस्तद् ध्यायेद्‌धृदयङ्गमम् ॥ ५७ ॥

स्व-इच्छा अवतार चरितैः अचिन्त्य निज-मायया करिष्यति उत्तम-श्लोकः तत् ध्यायेत् हृदयम्-गमम्

परिचर्या भगवतो यावत्य: पूर्वसेविता: ।
ता मन्त्रहृदयेनैव प्रयुञ्‍ज्यान्मन्त्रमूर्तये ॥ ५८ ॥

परिचर्याः भगवतः यावत्यः पूर्व-सेविताः ताः मन्त्र हृदयेन एव प्रयुञ्ज्यात् मन्त्र-मूर्तये

एवं कायेन मनसा वचसा च मनोगतम् ।
परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥
पुंसाममायिनां सम्यग्भजतां भाववर्धन: ।
श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥ ६० ॥

एवम् कायेन मनसा वचसा च मनः-गतम् परिचर्यमाणः भगवान् भक्ति-मत् परिचर्यया पुंसाम् अमायिनाम् सम्यक् भजताम् भाव-वर्धनः श्रेयः दिशति अभिमतम् यत् धर्म-आदिषु देहिनाम्

विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।
तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६१ ॥

विरक्तः च इन्द्रिय-रतौ भक्ति-योगेन भूयसा तम् निरन्तर भावेन भजेत अद्धा विमुक्तये

इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भक: ।
ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६२ ॥

इति उक्तः तम् परिक्रम्य प्रणम्य च नृप-अर्भकः ययौ मधुवनम् पुण्यम् हरेः चरण-चर्चितम्

तपोवनं गते तस्मिन्प्रविष्टोऽन्त:पुरं मुनि: ।
अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ ६३ ॥

तपः-वनम् गते तस्मिन् प्रविष्टः अन्तः-पुरम् मुनिः अर्हित अर्हणकः राज्ञा सुख-आसीनः उवाच तम्

नारद उवाच
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।
किं वा न रिष्यते कामो धर्मो वार्थेन संयुत: ॥ ६४ ॥

नारदः उवाच राजन् किम् ध्यायसे दीर्घम् मुखेन परिशुष्यता किम् वा न रिष्यते कामः धर्मः वा अर्थेन संयुतः

राजोवाच
सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना ।
निर्वासित: पञ्चवर्ष: सह मात्रा महान्कवि: ॥ ६५ ॥

राजा उवाच सुतः मे बालकः ब्रह्मन् स्त्रैणेन अकरुणा-आत्मना निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः

अप्यनाथं वने ब्रह्मन्मा स्मादन्त्यर्भकं वृका: ।
श्रान्तं शयानं क्षुधितं परिम्‍लानमुखाम्बुजम् ॥ ६६ ॥

अपि अनाथम् वने ब्रह्मन् मा स्म अदन्ति अर्भकम् वृकाः श्रान्तम् शयानम् क्षुधितम् परिम्लान मुख-अम्बुजम्

अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।
योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तम: ॥ ६७ ॥

अहो मे बत दौरात्म्यम् स्त्री-जितस्य उपधारय यः अङ्कम् प्रेम्णा आरुरुक्षन्तम् न अभ्यनन्दम् असत्-तमः

नारद उवाच
मा मा शुच: स्वतनयं देवगुप्तं विशाम्पते ।
तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ ६८ ॥

नारदः उवाच मा मा शुचः स्व-तनयम् देव-गुप्तम् विशाम्-पते तत् प्रभावम् अविज्ञाय प्रावृङ्क्ते यत् यशः जगत्

सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभु: ।
ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ६९ ॥

सु-दुष्करम् कर्म कृत्वा लोक-पालैः अपि प्रभुः ऐष्यति अचिरतः राजन् यशः विपुलयन् तव

मैत्रेय उवाच
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपति: ।
राजलक्ष्मीमनाद‍ृत्य पुत्रमेवान्वचिन्तयत् ॥ ७० ॥

मैत्रेयः उवाच इति देवर्षिणा प्रोक्तम् विश्रुत्य जगती-पतिः राज-लक्ष्मीम् अनादृत्य पुत्रम् एव अन्वचिन्तयत्

तत्राभिषिक्त: प्रयतस्तामुपोष्य विभावरीम् ।
समाहित: पर्यचरद‍ृष्यादेशेन पूरुषम् ॥ ७१ ॥

तत्र अभिषिक्तः प्रयतः ताम् उपोष्य विभावरीम् समाहितः पर्यचरत् ऋषि आदेशेन पूरुषम्

त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशन: ।
आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम् ॥ ७२ ॥

त्रि रात्र-अन्ते त्रि रात्र-अन्ते कपित्थ-बदर अशनः आत्म-वृत्ति अनुसारेण मासम् निन्ये अर्चयन् हरिम्

द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।
तृणपर्णादिभि: शीर्णै: कृतान्नोऽभ्यर्चयन्विभुम् ॥ ७३ ॥

द्वितीयम् च तथा मासम् षष्ठे षष्ठे अर्भकः दिने तृण-पर्ण-आदिभिः शीर्णैः कृत-अन्नः अभ्यर्चयन् विभुम्

तृतीयं चानयन्मासं नवमे नवमेऽहनि ।
अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना ॥ ७४ ॥

तृतीयम् च आनयन् मासम् नवमे नवमे अहनि अप्-भक्षः उत्तम-श्लोकम् उपाधावत् समाधिना

चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।
वायुभक्षो जितश्वासो ध्यायन्देवमधारयत् ॥ ७५ ॥

चतुर्थम् अपि वै मासम् द्वादशे द्वादशे अहनि वायु भक्षः जित-श्वासः ध्यायन् देवम् अधारयत्

पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मज: ।
ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचल: ॥ ७६ ॥

पञ्चमे मासि अनुप्राप्ते जित-श्वासः नृप-आत्मजः ध्यायन् ब्रह्म पदा एकेन तस्थौ स्थाणुः इव अचलः

सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।
ध्यायन्भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् ॥ ७७ ॥

सर्वतः मनः आकृष्य हृदि भूत-इन्द्रिय-आशयम् ध्यायन् भगवतः रूपम् न अद्राक्षीत् किञ्चन अपरम्

आधारं महदादीनां प्रधानपुरुषेश्वरम् ।
ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥

आधारम् महत्-आदीनाम् प्रधान पुरुष-ईश्वरम् ब्रह्म धारयमाणस्य त्रयः लोकाः चकम्पिरे

यदैकपादेन स पार्थिवार्भक
स्तस्थौ तदङ्गुष्ठनिपीडिता मही ।
ननाम तत्रार्धमिभेन्द्रधिष्ठिता
तरीव सव्येतरत: पदे पदे ॥ ७९ ॥

यदा एक पादेन सः पार्थिव अर्भकः तस्थौ तत्-अङ्गुष्ठ निपीडिता मही ननाम तत्र अर्धम् इभ-इन्द्र धिष्ठिता तरी इव सव्य-इतरतः पदे पदे

तस्मिन्नभिध्यायति विश्वमात्मनो
द्वारं निरुध्यासुमनन्यया धिया ।
लोका निरुच्छ्‌वासनिपीडिता भृशं
सलोकपाला: शरणं ययुर्हरिम् ॥ ८० ॥

तस्मिन् अभिध्यायति विश्वम् आत्मनः द्वारम् निरुध्य असुम् अनन्यया धिया लोकाः निरुच्छ्वास निपीडिताः भृशम् स-लोक-पालाः शरणम् ययुः हरिम्

देवा ऊचु:
नैवं विदामो भगवन् प्राणरोधं
चराचरस्याखिलसत्त्वधाम्न: ।
विधेहि तन्नो वृजिनाद्विमोक्षं
प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥

देवाः ऊचुः न एवम् विदामः भगवन् प्राण-रोधम् चर अचरस्य अखिल सत्त्व धाम्नः विधेहि तत् नः वृजिनात् विमोक्षम् प्राप्ताः वयम् त्वाम् शरणम् शरण्यम्

श्रीभगवानुवाच
मा भैष्ट बालं तपसो दुरत्यया-
न्निवर्तयिष्ये प्रतियात स्वधाम ।
यतो हि व: प्राणनिरोध आसी-
दौत्तानपादिर्मयि सङ्गतात्मा ॥ ८२ ॥

श्री-भगवान् उवाच मा भैष्ट बालम् तपसः दुरत्ययात् निवर्तयिष्ये प्रतियात स्व-धाम यतः हि वः प्राण-निरोधः आसीत् औत्तानपादिः मयि सङ्गत-आत्मा

४.९

मैत्रेय उवाच
त एवमुत्सन्नभया उरुक्रमे
कृतावनामा: प्रययुस्त्रिविष्टपम् ।
सहस्रशीर्षापि ततो गरुत्मता
मधोर्वनं भृत्यदिद‍ृक्षया गत: ॥ १ ॥

मैत्रेयः उवाच ते एवम् उत्सन्न-भयाः उरुक्रमे कृत-अवनामाः प्रययुः त्रि-विष्टपम् सहस्र-शीर्षा अपि ततः गरुत्मता मधोः वनम् भृत्य दिदृक्षया गतः

स वै धिया योगविपाकतीव्रया
हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।
तिरोहितं सहसैवोपलक्ष्य
बहि:स्थितं तदवस्थं ददर्श ॥ २ ॥

सः वै धिया योग-विपाक-तीव्रया हृत् पद्म-कोशे स्फुरितम् तडित्-प्रभम् तिरोहितम् सहसा एव उपलक्ष्य बहिः-स्थितम् तत्-अवस्थम् ददर्श

तद्दर्शनेनागतसाध्वस: क्षिता-
ववन्दताङ्गं विनमय्य दण्डवत् ।
द‍ृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भक-
श्चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३ ॥

तत्-दर्शनेन आगत-साध्वसः क्षितौ अवन्दत अङ्गम् विनमय्य दण्डवत् दृग्भ्याम् प्रपश्यन् प्रपिबन् इव अर्भकः चुम्बन् इव आस्येन भुजैः इव आश्लिषन्

स तं विवक्षन्तमतद्विदं हरि-
र्ज्ञात्वास्य सर्वस्य च हृद्यवस्थित: ।
कृताञ्जलिं ब्रह्ममयेन कम्बुना
पस्पर्श बालं कृपया कपोले ॥ ४ ॥

सः तम् विवक्षन्तम् अ-तत्-विदम् हरिः ज्ञात्वा अस्य सर्वस्य च हृदि अवस्थितः कृत-अञ्जलिम् ब्रह्म-मयेन कम्बुना पस्पर्श बालम् कृपया कपोले

स वै तदैव प्रतिपादितां गिरं
दैवीं परिज्ञातपरात्मनिर्णय: ।
तं भक्तिभावोऽभ्यगृणादसत्वरं
परिश्रुतोरुश्रवसं ध्रुवक्षिति: ॥ ५ ॥

सः वै तदा एव प्रतिपादिताम् गिरम् दैवीम् परिज्ञात पर-आत्म निर्णयः तम् भक्ति-भावः अभ्यगृणात् असत्वरम् परिश्रुत उरु-श्रवसम् ध्रुव-क्षितिः

ध्रुव उवाच
योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥

ध्रुवः उवाच यः अन्तः प्रविश्य मम वाचम् इमाम् प्रसुप्ताम् सञ्जीवयति अखिल शक्ति धरः स्व-धाम्ना अन्यान् च हस्त चरण श्रवण त्वक् आदीन् प्राणान् नमः भगवते पुरुषाय तुभ्यम्

एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया महदाद्यशेषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥

एकः त्वम् एव भगवन् इदम् आत्म-शक्त्या माया-आख्यया उरु गुणया महत्-आदि अशेषम् सृष्ट्वा अनुविश्य पुरुषः तत् असत्-गुणेषु नाना इव दारुषु विभावसु-वत् विभासि

त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्न: ।
तस्यापवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥

त्वत्-दत्तया वयुनया इदम् अचष्ट विश्वम् सुप्त-प्रबुद्धः इव नाथ भवत्-प्रपन्नः तस्य आपवर्ग्य शरणम् तव पाद-मूलम् विस्मर्यते कृत-विदा कथम् आर्त-बन्धो

नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाप्ययविमोक्षणमन्यहेतो: ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्य-
मिच्छन्ति यत्स्पर्शजं निरयेऽपि नृणाम् ॥ ९ ॥

नूनम् विमुष्ट-मतयः तव मायया ते ये त्वाम् भव अप्यय विमोक्षणम् अन्य-हेतोः अर्चन्ति कल्पक-तरुम् कुणप उपभोग्यम् इच्छन्ति यत् स्पर्श-जम् निरये अपि नॄणाम्

या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥

या निर्वृतिः तनु-भृताम् तव पाद-पद्म ध्यानात् भवत्-जन कथा श्रवणेन वा स्यात् सा ब्रह्मणि स्व-महिमनि अपि नाथ मा भूत् किम् तु अन्तक-असि लुलितात् पतताम् विमानात्

भक्तिं मुहु: प्रवहतां त्वयि मे प्रसङ्गो
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्त: ॥ ११ ॥

भक्तिम् मुहुः प्रवहताम् त्वयि मे प्रसङ्गः भूयात् अनन्त महताम् अमल-आशयानाम् येन अञ्जसा उल्बणम् उरु व्यसनम् भव-अब्धिम् नेष्ये भवत् गुण कथा अमृत पान मत्तः

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं
ये चान्वद: सुतसुहृद्गृहवित्तदारा: ।
ये त्वब्जनाभ भवदीयपदारविन्द
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गा: ॥ १२ ॥

ते न स्मरन्ति अतितराम् प्रियम् ईश मर्त्यम् ये च अनु अदः सुत सुहृत् गृह वित्त दाराः ये तु अब्ज-नाभ भवदीय पद-अरविन्द सौगन्ध्य लुब्ध हृदयेषु कृत-प्रसङ्गाः

तिर्यङ्‌नगद्विजसरीसृपदेवदैत्य
मर्त्यादिभि: परिचितं सदसद्विशेषम् ।
रूपं स्थविष्ठमज ते महदाद्यनेकं
नात: परं परम वेद्मि न यत्र वाद: ॥ १३ ॥

तिर्यक् नग द्विज सरीसृप देव दैत्य मर्त्य-आदिभिः परिचितम् सत्-असत्-विशेषम् रूपम् स्थविष्ठम् अज ते महत्-आदि अनेकम् न अतः परम् परम वेद्मि न यत्र वादः

कल्पान्त एतदखिलं जठरेण गृह्णन्
शेते पुमान्स्वद‍ृगनन्तसखस्तदङ्के ।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-
गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥

कल्प-अन्ते एतत् अखिलम् जठरेण गृह्णन् शेते पुमान् स्व-दृक् अनन्त सखः तत्-अङ्के यत् नाभि सिन्धु रुह काञ्चन लोक पद्म गर्भे द्युमान् भगवते प्रणतः अस्मि तस्मै

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीश: ।
यद्बुद्ध्यवस्थितिमखण्डितया स्वद‍ृष्टय‍ा
द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥

त्वम् नित्य मुक्त परिशुद्ध विबुद्धः आत्मा कूट-स्थः आदि पुरुषः भगवान् त्रि-अधीशः यत् बुद्धि अवस्थितिम् अखण्डितया स्व-दृष्ट्या द्रष्टा स्थितौ अधिमखः व्यतिरिक्तः आस्से

यस्मिन्विरुद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
तद्ब्रह्म विश्वभवमेकमनन्तमाद्य-
मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥

यस्मिन् विरुद्ध-गतयः हि अनिशम् पतन्ति विद्या-आदयः विविध शक्तयः आनुपूर्व्यात् तत् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम् आनन्द-मात्रम् अविकारम् अहम् प्रपद्ये

सत्याशिषो हि भगवंस्तव पादपद्म-
माशीस्तथानुभजत: पुरुषार्थमूर्ते: ।
अप्येवमर्य भगवान्परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥

सत्य आशिषः हि भगवन् तव पाद-पद्मम् आशीः तथा अनुभजतः पुरुष-अर्थ मूर्तेः अपि एवम् अर्य भगवान् परिपाति दीनान् वाश्रा इव वत्सकम् अनुग्रह कातरः अस्मान्

मैत्रेय उवाच
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता ।
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥

मैत्रेयः उवाच अथ अभिष्टुतः एवम् वै सत्-सङ्कल्पेन धी-मता भृत्य-अनुरक्तः भगवान् प्रतिनन्द्य इदम् अब्रवीत्

श्रीभगवानुवाच
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १९ ॥

श्री-भगवान् उवाच वेद अहम् ते व्यवसितम् हृदि राजन्य-बालक तत् प्रयच्छामि भद्रम् ते दुरापम् अपि सु-व्रत

नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥
मेढ्यां गोचक्रवत्स्थास्‍नु परस्तात्कल्पवासिनाम् ।
धर्मोऽग्नि: कश्यप: शुक्रो मुनयो ये वनौकस: ।
चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारका: ॥ २१ ॥

न अन्यैः अधिष्ठितम् भद्र यत् भ्राजिष्णु ध्रुव-क्षिति यत्र ग्रह ऋक्ष ताराणाम् ज्योतिषाम् चक्रम् आहितम् मेढ्याम् गो चक्र वत् स्थास्नु परस्तात् कल्प वासिनाम् धर्मः अग्निः कश्यपः शुक्रः मुनयः ये वन-ओकसः चरन्ति दक्षिणी-कृत्य भ्रमन्तः यत् सतारकाः

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रय: ।
षट्-त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रिय: ॥ २२ ॥

प्रस्थिते तु वनम् पित्रा दत्त्वा गाम् धर्म-संश्रयः षट्-त्रिंशत् वर्ष साहस्रम् रक्षिता अव्याहत इन्द्रियः

त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मना: ।
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३ ॥

त्वत् भ्रातरि उत्तमे नष्टे मृगयायाम् तु तत्-मनाः अन्वेषन्ती वनम् माता दाव-अग्निम् सा प्रवेक्ष्यति

इष्ट्वा मां यज्ञहृदयं यज्ञै: पुष्कलदक्षिणै: ।
भुक्त्वा चेहाशिष: सत्या अन्ते मां संस्मरिष्यसि ॥ २४ ॥

इष्ट्वा माम् यज्ञ-हृदयम् यज्ञैः पुष्कल-दक्षिणैः भुक्त्वा च इह आशिषः सत्याः अन्ते माम् संस्मरिष्यसि

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।
उपरिष्टाद‍ृषिभ्यस्त्वं यतो नावर्तते गत: ॥ २५ ॥

ततः गन्ता असि मत्-स्थानम् सर्व-लोक नमः-कृतम् उपरिष्टात् ऋषिभ्यः त्वम् यतः न आवर्तते गतः

मैत्रेय उवाच
इत्यर्चित: स भगवानतिदिश्यात्मन: पदम् ।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वज: ॥ २६ ॥

मैत्रेयः उवाच इति अर्चितः सः भगवान् अतिदिश्य आत्मनः पदम् बालस्य पश्यतः धाम स्वम् अगात् गरुड-ध्वजः

सोऽपि सङ्कल्पजं विष्णो: पादसेवोपसादितम् ।
प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् ॥ २७ ॥

सः अपि सङ्कल्प-जम् विष्णोः पाद-सेवा उपसादितम् प्राप्य सङ्कल्प निर्वाणम् न अतिप्रीतः अभ्यगात् पुरम्

विदुर उवाच
सुदुर्लभं यत्परमं पदं हरे-
र्मायाविनस्तच्चरणार्चनार्जितम् ।
लब्ध्वाप्यसिद्धार्थमिवैकजन्मना
कथं स्वमात्मानममन्यतार्थवित् ॥ २८ ॥

विदुरः उवाच सुदुर्लभम् यत् परमम् पदम् हरेः माया-विनः तत् चरण अर्चन अर्जितम् लब्ध्वा अपि असिद्ध-अर्थम् इव एक-जन्मना कथम् स्वम् आत्मानम् अमन्यत अर्थ-वित्

मैत्रेय उवाच
मातु: सपत्‍न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन् ।
नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् ॥ २९ ॥

मैत्रेयः उवाच मातुः स-पत्न्याः वाक्-बाणैः हृदि विद्धः तु तान् स्मरन् न ऐच्छत् मुक्ति-पतेः मुक्तिम् तस्मात् तापम् उपेयिवान्

ध्रुव उवाच
समाधिना नैकभवेन यत्पदं
विदु: सनन्दादय ऊर्ध्वरेतस: ।
मासैरहं षड्‌भिरमुष्य पादयो-
श्छायामुपेत्यापगत: पृथङ्‍मति: ॥ ३० ॥

ध्रुवः उवाच समाधिना न एक-भवेन यत् पदम् विदुः सनन्द-आदयः ऊर्ध्व-रेतसः मासैः अहम् षड्भिः अमुष्य पादयोः छायाम् उपेत्य अपगतः पृथक्-मतिः

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।
भवच्छिद: पादमूलं गत्वायाचे यदन्तवत् ॥ ३१ ॥

अहो बत मम अनात्म्यम् मन्द-भाग्यस्य पश्यत भव छिदः पाद-मूलम् गत्वा याचे यत् अन्त-वत्

मतिर्विदूषिता देवै: पतद्‌भिरसहिष्णुभि: ।
यो नारदवचस्तथ्यं नाग्राहिषमसत्तम: ॥ ३२ ॥

मतिः विदूषिता देवैः पतद्भिः असहिष्णुभिः यः नारद वचः तथ्यम् न अग्राहिषम् असत्-तमः

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नद‍ृक् ।
तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३


दैवीम् मायाम् उपाश्रित्य प्रसुप्तः इव भिन्न-दृक् तप्ये द्वितीये अपि असति भ्रातृ भ्रातृव्य हृत् रुजा

मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।
प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ।
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जित: ॥ ३४ ॥

मया एतत् प्रार्थितम् व्यर्थम् चिकित्सा इव गत आयुषि प्रसाद्य जगत्-आत्मानम् तपसा दुष्प्रसादनम् भव-छिदम् अयाचे अहम् भवम् भाग्य विवर्जितः

वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत ।
ईश्वरात्क्षीणपुण्येन फलीकारानिवाधन: ॥
३५ ॥

स्वाराज्यम् यच्छतः मौढ्यात् मानः मे भिक्षितः बत ईश्वरात् क्षीण पुण्येन फली-कारान् इव अधनः

मैत्रेय उवाच
न वै मुकुन्दस्य पदारविन्दयोरजोजुषस्तात भवाद‍ृशा जना: ।
वाञ्छन्ति
तद्दास्यमृतेऽर्थमात्मनोयद‍ृच्छया लब्धमन:समृद्धय: ॥ ३६ ॥

मैत्रेयः उवाच न वै मुकुन्दस्य पद-अरविन्दयोः रजः-जुषः तात भवादृशाः जनाः वाञ्छन्ति तत् दास्यम् ऋते अर्थम् आत्मनः यदृच्छया लब्ध मनः-समृद्धयः

आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम् ।
राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥ ३७ ॥

आकर्ण्य आत्म-जम् आयान्तम् सम्परेत्य यथा आगतम् राजा न श्रद्दधे भद्रम् अभद्रस्य कुतः मम

श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षित: ।
वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८


श्रद्धाय वाक्यम् देवर्षेः हर्ष-वेगेन धर्षितः वार्ता-हर्तुः अतिप्रीतः हारम् प्रादात् महा-धनम्

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।
ब्राह्मणै: कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभि: ॥ ३९ ॥
शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभि: ।
निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुक: ॥ ४० ॥

सत्-अश्वम् रथम् आरुह्य कार्तस्वर-परिष्कृतम् ब्राह्मणैः कुल-वृद्धैः च पर्यस्तः अमात्य बन्धुभिः शङ्ख दुन्दुभि नादेन ब्रह्म-घोषेण वेणुभिः निश्चक्राम पुरात् तूर्णम् आत्म-ज अभीक्षण उत्सुकः

सुनीति: सुरुचिश्चास्य महिष्यौ रुक्‍मभूषिते ।
आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतु: ॥ ४१ ॥

सुनीतिः सुरुचिः च अस्य महिष्यौ रुक्म-भूषिते आरुह्य शिबिकाम् सार्धम् उत्तमेन अभिजग्मतुः

तं द‍ृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।
अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वल: ॥ ४२ ॥
परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमना: श्वसन् ।
विष्वक्सेनाङ्‌घ्रिसंस्पर्शहताशेषाघबन्धनम् ॥ ४३


तम् दृष्ट्वा उपवन अभ्याशे आयान्तम् तरसा रथात् अवरुह्य नृपः तूर्णम् आसाद्य प्रेम विह्वलः परिरेभे अङ्ग-जम् दोर्भ्याम् दीर्घ उत्कण्ठ मनाः श्वसन् विष्वक्सेन अङ्घ्रि संस्पर्श हत अशेष अघ बन्धनम्

अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभि: ।
स्‍नापयामास तनयं जातोद्दाममनोरथ: ॥ ४४ ॥

अथ आजिघ्रन् मुहुः मूर्ध्नि शीतैः नयन वारिभिः स्नापयाम् आस तनयम् जात उद्दाम मनः-रथः

अभिवन्द्य पितु: पादावाशीर्भिश्चाभिमन्त्रित: ।
ननाम मातरौ शीर्ष्णा सत्कृत:
सज्जनाग्रणी: ॥ ४५ ॥

अभिवन्द्य पितुः पादौ आशीर्भिः च अभिमन्त्रितः ननाम मातरौ शीर्ष्णा सत्-कृतः सत्-जन अग्रणीः

सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् ।
परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥ ४६ ॥

सुरुचिः तम् समुत्थाप्य पाद-अवनतम् अर्भकम् परिष्वज्य आह जीव इति बाष्प गद्गदया गिरा

यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरि: ।
तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥
४७ ॥

यस्य प्रसन्नः भगवान् गुणैः मैत्री-आदिभिः हरिः तस्मै नमन्ति भूतानि निम्नम् आपः इव स्वयम्

उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ ।
अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतु: ॥ ४८ ॥

उत्तमः च ध्रुवः च उभौ अन्योन्यम् प्रेम-विह्वलौ अङ्ग-सङ्गात् उत्पुलकौ अस्र ओघम् मुहुः ऊहतुः

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।
उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ॥ ४९ ॥

सुनीतिः अस्य जननी प्राणेभ्यः अपि प्रियम् सुतम् उपगुह्य जहौ आधिम् तत्-अङ्ग स्पर्श निर्वृता

पय: स्तनाभ्यां सुस्राव नेत्रजै: सलिलै: शिवै: ।
तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहु: ॥
५० ॥

पयः स्तनाभ्याम् सुस्राव नेत्र-जैः सलिलैः शिवैः तदा अभिषिच्यमानाभ्याम् वीर वीर-सुवः मुहुः

तां शशंसुर्जना राज्ञीं दिष्टय‍ा ते पुत्र आर्तिहा ।
प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुव:
॥ ५१ ॥

ताम् शशंसुः जनाः राज्ञीम् दिष्ट्या ते पुत्रः आर्ति-हा प्रतिलब्धः चिरम् नष्टः रक्षिता मण्डलम् भुवः

अभ्यर्चितस्त्वया नूनं भगवान्‌प्रणतार्तिहा ।
यदनुध्यायिनो धीरा मृत्युं जिग्यु: सुदुर्जयम् ॥ ५२


अभ्यर्चितः त्वया नूनम् भगवान् प्रणत-आर्ति-हा यत् अनुध्यायिनः धीराः मृत्युम् जिग्युः सुदुर्जयम्

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृप: ।
आरोप्य करिणीं हृष्ट: स्तूयमानोऽविशत्पुरम् ॥ ५३ ॥

लाल्यमानम् जनैः एवम् ध्रुवम् स-भ्रातरम् नृपः आरोप्य करिणीम् हृष्टः स्तूयमानः अविशत् पुरम्

तत्र तत्रोपसंक्लृप्तैर्लसन्मकरतोरणै: ।
सवृन्दै: कदलीस्तम्भै: पूगपोतैश्च तद्विधै: ॥ ५४ ॥

तत्र तत्र उपसङ्कॢप्तैः लसत् मकर तोरणैः स-वृन्दैः कदली स्तम्भैः पूग-पोतैः च तत्-विधैः

चूतपल्लववास:स्रङ्‍मुक्तादामविलम्बिभि: ।
उपस्कृतं प्रतिद्वारमपां कुम्भै: सदीपकै: ॥ ५५ ॥

चूत-पल्लव वासः स्रक् मुक्ता-दाम विलम्बिभिः उपस्कृतम् प्रति-द्वारम् अपाम् कुम्भैः स-दीपकैः

प्राकारैर्गोपुरागारै: शातकुम्भपरिच्छदै: ।
सर्वतोऽलड़्क़ृतं श्रीमद्विमानशिखरद्युभि: ॥ ५६ ॥

प्राकारैः गोपुर आगारैः शातकुम्भ परिच्छदैः सर्वतः अलङ्कृतम् श्रीमत् विमान शिखर द्युभिः

मृष्टचत्वररथ्याट्टमार्गं चन्दनचर्चितम् ।
लाजाक्षतै: पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ॥ ५७ ॥

मृष्ट चत्वर रथ्या अट्ट मार्गम् चन्दन चर्चितम् लाज अक्षतैः पुष्प फलैः तण्डुलैः बलिभिः युतम्

ध्रुवाय पथि द‍ृष्टाय तत्र तत्र पुरस्त्रिय: ।
सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि च ॥ ५८ ॥
उपजह्रु: प्रयुञ्जाना वात्सल्यादाशिष: सती: ।
श‍ृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितु: ॥
५९ ॥

ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः सिद्धार्थ अक्षत दधि अम्बु दूर्वा पुष्प फलानि च उपजह्रुः प्रयुञ्जानाः वात्सल्यात् आशिषः सतीः शृण्वन् तत् वल्गु गीतानि प्राविशत् भवनम् पितुः

महामणिव्रातमये स तस्मिन्भवनोत्तमे ।
लालितो नितरां पित्रा न्यवसद्दिवि देववत् ॥ ६० ॥

महा-मणि व्रात मये सः तस्मिन् भवन-उत्तमे लालितः नितराम् पित्रा न्यवसत् दिवि देव-वत्

पय:फेननिभा: शय्या दान्ता रुक्‍मपरिच्छदा: ।
आसनानि महार्हाणि यत्र रौक्‍मा उपस्करा: ॥
६१ ॥

पयः फेन निभाः शय्याः दान्ताः रुक्म परिच्छदाः आसनानि महा-अर्हाणि यत्र रौक्माः उपस्कराः

यत्र स्फटिककुड्येषु महामारकतेषु च ।
मणिप्रदीपा आभान्ति ललनारत्नसंयुता: ॥ ६२ ॥

यत्र स्फटिक कुड्येषु महा-मारकतेषु च मणि-प्रदीपाः आभान्ति ललना रत्न संयुताः

उद्यानानि च रम्याणि विचित्रैरमरद्रुमै: ।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतै: ॥ ६३ ॥

उद्यानानि च रम्याणि विचित्रैः अमर-द्रुमैः कूजत् विहङ्ग मिथुनैः गायत् मत्त मधु-व्रतैः

वाप्यो वैदूर्यसोपाना: पद्मोत्पलकुमुद्वती: ।
हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसै: ॥ ६४ ॥

वाप्यः वैदूर्य सोपानाः पद्म उत्पल कुमुत्-वतीः हंस कारण्डव कुलैः जुष्टाः चक्राह्व सारसैः

उत्तानपादो राजर्षि: प्रभावं तनयस्य तम् ।
श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ ६५


उत्तानपादः राज-ऋषिः प्रभावम् तनयस्य तम् श्रुत्वा दृष्ट्वा अद्भुत तमम् प्रपेदे विस्मयम् परम्

वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् ।
अनुरक्तप्रजं राजा ध्रुवं चक्रे भुव: पतिम् ॥ ६६ ॥

वीक्ष्य ऊढ-वयसम् तम् च प्रकृतीनाम् च सम्मतम् अनुरक्त प्रजम् राजा ध्रुवम् चक्रे भुवः पतिम्

आत्मानं च प्रवयसमाकलय्य विशाम्पति: ।
वनं विरक्त: प्रातिष्ठद्विमृशन्नात्मनो गतिम् ॥ ६७


आत्मानम् च प्रवयसम् आकलय्य विशाम्पतिः वनम् विरक्तः प्रातिष्ठत् विमृशन् आत्मनः गतिम्

४.१०

मैत्रेय उवाच
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुव: ।
उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥

मैत्रेयः उवाच प्रजापतेः दुहितरम् शिशुमारस्य वै ध्रुवः उपयेमे भ्रमिम् नाम तत्-सुतौ कल्प वत्सरौ

इलायामपि भार्यायां वायो: पुत्र्यां महाबल: ।
पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् ॥ २ ॥

इलायाम् अपि भार्यायाम् वायोः पुत्र्याम् महा-बलः पुत्रम् उत्कल नामानम् योषित् रत्नम् अजीजनत्

उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।
हत: पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥

उत्तमः तु अकृत उद्वाहः मृगयायाम् बलीयसा हतः पुण्य-जनेन अद्रौ तत् माता अस्य गतिम् गता

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पित: ।
जैत्रं स्यन्दनमास्थाय गत: पुण्यजनालयम् ॥ ४ ॥

ध्रुवः भ्रातृ-वधम् श्रुत्वा कोप अमर्ष शुचा अर्पितः जैत्रम् स्यन्दनम् आस्थाय गतः पुण्य-जन-आलयम्

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।
ददर्श हिमवद्‌द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ ५ ॥

गत्वा उदीचीम् दिशम् राजा रुद्र-अनुचर सेविताम् ददर्श हिमवत् द्रोण्याम् पुरीम् गुह्यक सङ्कुलाम्

दध्मौ शङ्खं बृहद्बाहु: खं दिशश्चानुनादयन् ।
येनोद्विग्नद‍ृश: क्षत्तरुपदेव्योऽत्रसन्भृशम् ॥ ६ ॥

दध्मौ शङ्खम् बृहत्-बाहुः खम् दिशः च अनुनादयन् येन उद्विग्न-दृशः क्षत्तः उपदेव्यः अत्रसन् भृशम्

ततो निष्क्रम्य बलिन उपदेवमहाभटा: ।
असहन्तस्तन्निनादमभिपेतुरुदायुधा: ॥ ७ ॥

ततः निष्क्रम्य बलिनः उपदेव महा-भटाः असहन्तः तत् निनादम् अभिपेतुः उदायुधाः

स तानापततो वीर उग्रधन्वा महारथ: ।
एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभि: ॥ ८ ॥

सः तान् आपततः वीरः उग्र-धन्वा महा-रथः एक-एकम् युगपत् सर्वान् अहन् बाणैः त्रिभिः त्रिभिः

ते वै ललाटलग्नैस्तैरिषुभि: सर्व एव हि ।
मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥ ९ ॥

ते वै ललाट-लग्नैः तैः इषुभिः सर्वे एव हि मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत्

तेऽपि चामुममृष्यन्त: पादस्पर्शमिवोरगा: ।
शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षव: ॥ १० ॥

ते अपि च अमुम् अमृष्यन्तः पाद-स्पर्शम् इव उरगाः शरैः अविध्यन् युगपत् द्वि-गुणम् प्रचिकीर्षवः

तत: परिघनिस्त्रिंशै: प्रासशूलपरश्वधै: ।
शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजै: शरैरपि ॥ ११ ॥
अभ्यवर्षन् प्रकुपिता: सरथं सहसारथिम् ।
इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश ॥ १२ ॥

ततः परिघ निस्त्रिंशैः प्रास-शूल परश्वधैः शक्ति ऋष्टिभिः भुशुण्डीभिः चित्र-वाजैः शरैः अपि अभ्यवर्षन् प्रकुपिताः स-रथम् सह-सारथिम् इच्छन्तः तत् प्रतीकर्तुम् अयुतानाम् त्रयोदश

औत्तानपादि: स तदा शस्त्रवर्षेण भूरिणा ।
न एवाद‍ृश्यताच्छन्न आसारेण यथा गिरि: ॥ १३ ॥

औत्तानपादिः सः तदा शस्त्र-वर्षेण भूरिणा न एव अदृश्यत आच्छन्नः आसारेण यथा गिरिः

हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम् ।
हतोऽयं मानव: सूर्यो मग्न: पुण्यजनार्णवे ॥ १४ ॥

हाहा-कारः तदा एव आसीत् सिद्धानाम् दिवि पश्यताम् हतः अयम् मानवः सूर्यः मग्नः पुण्य-जन अर्णवे

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।
उदतिष्ठद्रथस्तस्य नीहारादिव भास्कर: ॥ १५ ॥

नदत्सु यातुधानेषु जय-काशिषु अथो मृधे उदतिष्ठत् रथः तस्य नीहारात् इव भास्करः

धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् ।
अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिल: ॥ १६ ॥

धनुः विस्फूर्जयन् दिव्यम् द्विषताम् खेदम् उद्वहन् अस्त्र-ओघम् व्यधमत् बाणैः घन अनीकम् इव अनिलः

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।
कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥ १७ ॥

तस्य ते चाप निर्मुक्ताः भित्त्वा वर्माणि रक्षसाम् कायान् आविविशुः तिग्माः गिरीन् अशनयः यथा

भल्लै: सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलै: ।
ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभि: ॥ १८ ॥
हारकेयूरमुकुटैरुष्णीषैश्च महाधनै: ।
आस्तृतास्ता रणभुवो रेजुर्वीरमनोहरा: ॥ १९ ॥

भल्लैः सञ्छिद्यमानानाम् शिरोभिः चारु कुण्डलैः ऊरुभिः हेम-तालाभैः दोर्भिः वलय-वल्गुभिः हार केयूर मुकुटैः उष्णीषैः च महा-धनैः आस्तृताः ताः रण-भुवः रेजुः वीर मनः-हराः

हतावशिष्टा इतरे रणाजिराद्
रक्षोगणा: क्षत्रियवर्यसायकै: ।
प्रायो विवृक्णावयवा विदुद्रुवु-
र्मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥

हत-अवशिष्टाः इतरे रण-अजिरात् रक्षः-गणाः क्षत्रिय-वर्य सायकैः प्रायः विवृक्ण अवयवाः विदुद्रुवुः मृगेन्द्र विक्रीडित यूथपाः इव

अपश्यमान: स तदाततायिनं
महामृधे कञ्चन मानवोत्तम: ।
पुरीं दिद‍ृक्षन्नपि नाविशद्‌द्विषां
न मायिनां वेद चिकीर्षितं जन: ॥ २१ ॥

अपश्यमानः सः तदा आततायिनम् महा-मृधे कञ्चन मानव-उत्तमः पुरीम् दिदृक्षन् अपि न आविशत् द्विषाम् न मायिनाम् वेद चिकीर्षितम् जनः

इति ब्रुवंश्चित्ररथ: स्वसारथिं
यत्त: परेषां प्रतियोगशङ्कित: ।
शुश्राव शब्दं जलधेरिवेरितं
नभस्वतो दिक्षु रजोऽन्वद‍ृश्यत ॥ २२ ॥

इति ब्रुवन् चित्र-रथः स्व-सारथिम् यत्तः परेषाम् प्रतियोग शङ्कितः शुश्राव शब्दम् जलधेः इव ईरितम् नभस्वतः दिक्षु रजः अनु अदृश्यत

क्षणेनाच्छादितं व्योम घनानीकेन सर्वत: ।
विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥ २३ ॥

क्षणेन आच्छादितम् व्योम घन अनीकेन सर्वतः विस्फुरत् तडिता दिक्षु त्रासयत् स्तनयित्नुना

ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदस: ।
निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥

ववृषुः रुधिर ओघ असृक् पूय विट् मूत्र मेदसः निपेतुः गगनात् अस्य कबन्धानि अग्रतः अनघ

तत: खेऽद‍ृश्यत गिरिर्निपेतु: सर्वतोदिशम् ।
गदापरिघनिस्त्रिंशमुसला: साश्मवर्षिण: ॥ २५ ॥

ततः खे अदृश्यत गिरिः निपेतुः सर्वतः-दिशम् गदा परिघ निस्त्रिंश मुसलाः स-अश्म वर्षिणः

अहयोऽशनिनि:श्वासा वमन्तोऽग्निं रुषाक्षिभि: ।
अभ्यधावन् गजा मत्ता: सिंहव्याघ्राश्च यूथश: ॥ २६ ॥

अहयः अशनि निःश्वासाः वमन्तः अग्निम् रुषा-अक्षिभिः अभ्यधावन् गजाः मत्ताः सिंह व्याघ्राः च यूथशः

समुद्र ऊर्मिभिर्भीम: प्लावयन् सर्वतो भुवम् ।
आससाद महाह्राद: कल्पान्त इव भीषण: ॥ २७ ॥

समुद्रः ऊर्मिभिः भीमः प्लावयन् सर्वतः भुवम् आससाद महा-ह्रादः कल्प-अन्ते इव भीषणः

एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।
ससृजुस्तिग्मगतय आसुर्या माययासुरा: ॥ २८ ॥

एवम्-विधानि अनेकानि त्रासनानि अमनस्विनाम् ससृजुः तिग्म-गतयः आसुर्या मायया असुराः

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।
निशम्य तस्य मुनय: शमाशंसन् समागता: ॥ २९ ॥

ध्रुवे प्रयुक्ताम् असुरैः ताम् मायाम् अति-दुस्तराम् निशम्य तस्य मुनयः शम् आशंसन् समागताः

मुनय ऊचु:
औत्तानपाद भगवांस्तव शार्ङ्गधन्वा
देव: क्षिणोत्ववनतार्तिहरो विपक्षान् ।
यन्नामधेयमभिधाय निशम्य चाद्धा
लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३० ॥

मुनयः ऊचुः औत्तानपाद भगवान् तव शार्ङ्ग-धन्वा देवः क्षिणोतु अवनत आर्ति हरः विपक्षान् यत् नामधेयम् अभिधाय निशम्य च अद्धा लोकः अञ्जसा तरति दुस्तरम् अङ्ग मृत्युम्

४.११

मैत्रेय उवाच
निशम्य गदतामेवमृषीणां धनुषि ध्रुव: ।
सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १ ॥

मैत्रेयः उवाच निशम्य गदताम् एवम् ऋषीणाम् धनुषि ध्रुवः सन्दधे अस्त्रम् उपस्पृश्य यत् नारायण निर्मितम्

सन्धीयमान एतस्मिन्माया गुह्यकनिर्मिता: ।
क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ २ ॥

सन्धीयमाने एतस्मिन् मायाः गुह्यक-निर्मिताः क्षिप्रम् विनेशुः विदुर क्लेशाः ज्ञान-उदये यथा

तस्यार्षास्त्रं धनुषि प्रयुञ्जत:
सुवर्णपुङ्खा: कलहंसवासस: ।
विनि:सृता आविविशुर्द्विषद्बलं
यथा वनं भीमरवा: शिखण्डिन: ॥ ३ ॥

तस्य आर्ष-अस्त्रम् धनुषि प्रयुञ्जतः सुवर्ण-पुङ्खाः कलहंस-वाससः विनिःसृताः आविविशुः द्विषत्-बलम् यथा वनम् भीम-रवाः शिखण्डिनः

तैस्तिग्मधारै: प्रधने शिलीमुखै-
रितस्तत: पुण्यजना उपद्रुता: ।
तमभ्यधावन् कुपिता उदायुधा:
सुपर्णमुन्नद्धफणा इवाहय: ॥ ४ ॥

तैः तिग्म-धारैः प्रधने शिली-मुखैः इतः ततः पुण्य-जनाः उपद्रुताः तम् अभ्यधावन् कुपिताः उदायुधाः सुपर्णम् उन्नद्ध-फणाः इव अहयः

स तान् पृषत्कैरभिधावतो मृधे
निकृत्तबाहूरुशिरोधरोदरान् ।
निनाय लोकं परमर्कमण्डलं
व्रजन्ति निर्भिद्य यमूर्ध्वरेतस: ॥ ५ ॥

सः तान् पृषत्कैः अभिधावतः मृधे निकृत्त बाहु ऊरु शिरः-धर उदरान् निनाय लोकम् परम् अर्क-मण्डलम् व्रजन्ति निर्भिद्य यम् ऊर्ध्व-रेतसः

तान् हन्यमानानभिवीक्ष्य गुह्यका-
ननागसश्चित्ररथेन भूरिश: ।
औत्तानपादिं कृपया पितामहो
मनुर्जगादोपगत: सहर्षिभि: ॥ ६ ॥

तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् अनागसः चित्र-रथेन भूरिशः औत्तानपादिम् कृपया पिता-महः मनुः जगाद उपगतः सह-ऋषिभिः

मनुरुवाच
अलं वत्सातिरोषेण तमोद्वारेण पाप्मना ।
येन पुण्यजनानेतानवधीस्त्वमनागस: ॥ ७ ॥

मनुः उवाच अलम् वत्स अतिरोषेण तमः-द्वारेण पाप्मना येन पुण्य-जनान् एतान् अवधीः त्वम् अनागसः

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम् ।
वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम् ॥ ८ ॥

न अस्मत्-कुल उचितम् तात कर्म एतत् सत् विगर्हितम् वधः यत् उपदेवानाम् आरब्धः ते अकृत-एनसाम्

नन्वेकस्यापराधेन प्रसङ्गाद् बहवो हता: ।
भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥ ९ ॥

ननु एकस्य अपराधेन प्रसङ्गात् बहवः हताः भ्रातुः वध अभितप्तेन त्वया अङ्ग भ्रातृ-वत्सल

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।
यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् ॥ १० ॥

न अयम् मार्गः हि साधूनाम् हृषीकेश अनुवर्तिनाम् यत् आत्मानम् पराक् गृह्य पशु-वत् भूत वैशसम्

सर्वभूतात्मभावेन भूतावासं हरिं भवान् ।
आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥ ११ ॥

सर्व-भूत आत्म भावेन भूत आवासम् हरिम् भवान् आराध्य आप दुराराध्यम् विष्णोः तत् परमम् पदम्

स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मत: ।
कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम् ॥ १२ ॥

सः त्वम् हरेः अनुध्यातः तत् पुंसाम् अपि सम्मतः कथम् तु अवद्यम् कृतवान् अनुशिक्षन् सताम् व्रतम्

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु ।
समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ १३ ॥

तितिक्षया करुणया मैत्र्या च अखिल जन्तुषु समत्वेन च सर्व-आत्मा भगवान् सम्प्रसीदति

सम्प्रसन्ने भगवति पुरुष: प्राकृतैर्गुणै: ।
विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति ॥ १४ ॥

सम्प्रसन्ने भगवति पुरुषः प्राकृतैः गुणैः विमुक्तः जीव-निर्मुक्तः ब्रह्म निर्वाणम् ऋच्छति

भूतै: पञ्चभिरारब्धैर्योषित्पुरुष एव हि ।
तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह ॥ १५ ॥

भूतैः पञ्चभिः आरब्धैः योषित् पुरुषः एव हि तयोः व्यवायात् सम्भूतिः योषित् पुरुषयोः इह

एवं प्रवर्तते सर्ग: स्थिति: संयम एव च ।
गुणव्यतिकराद्राजन्मायया परमात्मन: ॥ १६ ॥

एवम् प्रवर्तते सर्गः स्थितिः संयमः एव च गुण व्यतिकरात् राजन् मायया परम-आत्मनः

निमित्तमात्रं तत्रासीन्निर्गुण: पुरुषर्षभ: ।
व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ १७ ॥

निमित्त-मात्रम् तत्र आसीत् निर्गुणः पुरुष-ऋषभः व्यक्त अव्यक्तम् इदम् विश्वम् यत्र भ्रमति लोह-वत्

स खल्विदं भगवान् कालशक्त्या
गुणप्रवाहेण विभक्तवीर्य: ।
करोत्यकर्तैव निहन्त्यहन्ता
चेष्टा विभूम्न: खलु दुर्विभाव्या ॥ १८ ॥

सः खलु इदम् भगवान् काल शक्त्या गुण-प्रवाहेण विभक्त वीर्यः करोति अकर्ता एव निहन्ति अहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या

सोऽनन्तोऽन्तकर: कालोऽनादिरादिकृदव्यय: ।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम् ॥ १९ ॥

सः अनन्तः अन्त-करः कालः अनादिः आदि-कृत् अव्ययः जनम् जनेन जनयन् मारयन् मृत्युना अन्तकम्

न वै स्वपक्षोऽस्य विपक्ष एव वा
परस्य मृत्योर्विशत: समं प्रजा: ।
तं धावमानमनुधावन्त्यनीशा
यथा रजांस्यनिलं भूतसङ्घा: ॥ २० ॥

न वै स्व-पक्षः अस्य विपक्षः एव वा परस्य मृत्योः विशतः समम् प्रजाः तम् धावमानम् अनुधावन्ति अनीशाः यथा रजांसि अनिलम् भूत-सङ्घाः

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभु: ।
उभाभ्यां रहित: स्वस्थो दु:स्थस्य विदधात्यसौ ॥ २१ ॥

आयुषः अपचयम् जन्तोः तथा एव उपचयम् विभुः उभाभ्याम् रहितः स्व-स्थः दुःस्थस्य विदधाति असौ

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप ।
एके कालं परे दैवं पुंस: काममुतापरे ॥ २२ ॥

केचित् कर्म वदन्ति एनम् स्वभावम् अपरे नृप एके कालम् परे दैवम् पुंसः कामम् उत अपरे

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च ।
न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ २३ ॥

अव्यक्तस्य अप्रमेयस्य नाना शक्ति उदयस्य च न वै चिकीर्षितम् तात कः वेद अथ स्व सम्भवम्

न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगा: ।
विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ २४ ॥

न च एते पुत्रक भ्रातुः हन्तारः धनद अनुगाः विसर्ग आदानयोः तात पुंसः दैवम् हि कारणम्

स एव विश्वं सृजति स एवावति हन्ति च ।
अथापि ह्यनहङ्कारान्नाज्यते गुणकर्मभि: ॥ २५ ॥

सः एव विश्वम् सृजति सः एव अवति हन्ति च अथ अपि हि अनहङ्कारात् न अज्यते गुण कर्मभिः

एष भूतानि भूतात्मा भूतेशो भूतभावन: ।
स्वशक्त्या मायया युक्त: सृजत्यत्ति च पाति च ॥ २६ ॥

एषः भूतानि भूत-आत्मा भूत-ईशः भूत-भावनः स्व-शक्त्या मायया युक्तः सृजति अत्ति च पाति च

तमेव मृत्युममृतं तात दैवं
सर्वात्मनोपेहि जगत्परायणम् ।
यस्मै बलिं विश्वसृजो हरन्ति
गावो यथा वै नसि दामयन्त्रिता: ॥ २७ ॥

तम् एव मृत्युम् अमृतम् तात दैवम् सर्व-आत्मना उपेहि जगत् परायणम् यस्मै बलिम् विश्व-सृजः हरन्ति गावः यथा वै नसि दाम यन्त्रिताः

य: पञ्चवर्षो जननीं त्वं विहाय
मातु: सपत्‍न्या वचसा भिन्नमर्मा ।
वनं गतस्तपसा प्रत्यगक्ष-
माराध्य लेभे मूर्ध्नि पदं त्रिलोक्या: ॥ २८ ॥

यः पञ्च-वर्षः जननीम् त्वम् विहाय मातुः स-पत्न्याः वचसा भिन्न-मर्मा वनम् गतः तपसा प्रत्यक्-अक्षम् आराध्य लेभे मूर्ध्नि पदम् त्रि-लोक्याः

तमेनमङ्गात्मनि मुक्तविग्रहे
व्यपाश्रितं निर्गुणमेकमक्षरम् ।
आत्मानमन्विच्छ विमुक्तमात्मद‍ृग्
यस्मिन्निदं भेदमसत्प्रतीयते ॥ २९ ॥

तम् एनम् अङ्ग आत्मनि मुक्त-विग्रहे व्यपाश्रितम् निर्गुणम् एकम् अक्षरम् आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृक् यस्मिन् इदम् भेदम् असत् प्रतीयते

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त
आनन्दमात्र उपपन्नसमस्तशक्तौ ।
भक्तिं विधाय परमां शनकैरविद्या-
ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३० ॥

त्वम् प्रत्यक्-आत्मनि तदा भगवति अनन्ते आनन्द-मात्रे उपपन्न समस्त शक्तौ भक्तिम् विधाय परमाम् शनकैः अविद्या ग्रन्थिम् विभेत्स्यसि मम अहम् इति प्ररूढम्

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् ।
श्रुतेन भूयसा राजन्नगदेन यथामयम् ॥ ३१ ॥

संयच्छ रोषम् भद्रम् ते प्रतीपम् श्रेयसाम् परम् श्रुतेन भूयसा राजन् अगदेन यथा आमयम्

येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम् ।
न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मन: ॥ ३२ ॥

येन उपसृष्टात् पुरुषात् लोकः उद्विजते भृशम् न बुधः तत् वशम् गच्छेत् इच्छन् अभयम् आत्मनः

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् ।
यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षित: ॥ ३३ ॥

हेलनम् गिरिश भ्रातुः धनदस्य त्वया कृतम् यत् जघ्निवान् पुण्य-जनान् भ्रातृ घ्नान् इति अमर्षितः

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभि: ।
न यावन्महतां तेज: कुलं नोऽभिभविष्यति ॥ ३४ ॥

तम् प्रसादय वत्स आशु सन्नत्या प्रश्रया उक्तिभिः न यावत् महताम् तेजः कुलम् नः अभिभविष्यति

एवं स्वायम्भुव: पौत्रमनुशास्य मनुर्ध्रुवम् ।
तेनाभिवन्दित: साकमृषिभि: स्वपुरं ययौ ॥ ३५ ॥

एवम् स्वायम्भुवः पौत्रम् अनुशास्य मनुः ध्रुवम् तेन अभिवन्दितः साकम् ऋषिभिः स्व-पुरम् ययौ

४.१२

मैत्रेय उवाच
ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसा-
दपेतमन्युं भगवान्धनेश्वर: ।
तत्रागतश्चारणयक्षकिन्नरै:
संस्तूयमानो न्यवदत्कृताञ्जलिम् ॥ १ ॥

मैत्रेयः उवाच ध्रुवम् निवृत्तम् प्रतिबुद्ध्य वैशसात् अपेत मन्युम् भगवान् धन-ईश्वरः तत्र आगतः चारण यक्ष किन्नरैः संस्तूयमानः न्यवदत् कृत-अञ्जलिम्

धनद उवाच
भो भो: क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।
यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यज: ॥ २ ॥

धन-दः उवाच भोः भोः क्षत्रिय-दायाद परितुष्टः अस्मि ते अनघ यत् त्वम् पितामह आदेशात् वैरम् दुस्त्यजम् अत्यजः

न भवानवधीद्यक्षान्न यक्षा भ्रातरं तव ।
काल एव हि भूतानां प्रभुरप्ययभावयो: ॥ ३ ॥

न भवान् अवधीत् यक्षान् न यक्षाः भ्रातरम् तव कालः एव हि भूतानाम् प्रभुः अप्यय-भावयोः

अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि ।
स्वाप्नीवाभात्यतद्ध्यानाद्यया बन्धविपर्ययौ ॥ ४ ॥

अहम् त्वम् इति अपार्था धीः अज्ञानात् पुरुषस्य हि स्वाप्नि इव आभाति अ-तत्-ध्यानात् यया बन्ध विपर्ययौ

तद्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम् ।
सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५ ॥

तत् गच्छ ध्रुव भद्रम् ते भगवन्तम् अधोक्षजम् सर्व-भूत आत्म-भावेन सर्व-भूत आत्म विग्रहम्

भजस्व भजनीयाङ्‌घ्रि मभवाय भवच्छिदम् ।
युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ॥ ६ ॥

भजस्व भजनीय अङ्घ्रिम् अभवाय भव-छिदम् युक्तम् विरहितम् शक्त्या गुण-मय्या आत्म-मायया

वृणीहि कामं नृप यन्मनोगतं
मत्तस्त्वमौत्तानपदेऽविशङ्कित: ।
वरं वरार्होऽम्बुजनाभपादयो-
रनन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥

वृणीहि कामम् नृप यत् मनः-गतम् मत्तः त्वम् औत्तानपदे अविशङ्कितः वरम् वर-अर्हः अम्बुज नाभ पादयोः अनन्तरम् त्वाम् वयम् अङ्ग शुश्रुम

मैत्रेय उवाच
स राजराजेन वराय चोदितो
ध्रुवो महाभागवतो महामति: ।
हरौ स वव्रेऽचलितां स्मृतिं यया
तरत्ययत्नेन दुरत्ययं तम: ॥ ८ ॥

मैत्रेयः उवाच सः राज-राजेन वराय चोदितः ध्रुवः महा-भागवतः महा-मतिः हरौ सः वव्रे अचलिताम् स्मृतिम् यया तरति अयत्नेन दुरत्ययम् तमः

तस्य प्रीतेन मनसा तां दत्त्वैडविडस्तत: ।
पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९ ॥

तस्य प्रीतेन मनसा ताम् दत्त्वा ऐडविडः ततः पश्यतः अन्तर्दधे सः अपि स्व-पुरम् प्रत्यपद्यत

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणै: ।
द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १० ॥

अथ अयजत यज्ञ-ईशम् क्रतुभिः भूरि दक्षिणैः द्रव्य-क्रिया-देवतानाम् कर्म कर्म-फल प्रदम्

सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् ।
ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११ ॥

सर्व-आत्मनि अच्युते असर्वे तीव्र-ओघाम् भक्तिम् उद्वहन् ददर्श आत्मनि भूतेषु तम् एव अवस्थितम् विभुम्

तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।
गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजा: ॥ १२ ॥

तम् एवम् शील सम्पन्नम् ब्रह्मण्यम् दीन वत्सलम् गोप्तारम् धर्म-सेतूनाम् मेनिरे पितरम् प्रजाः

षट्‌त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम् ।
भोगै: पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् ॥ १३ ॥

षट्-त्रिंशत् वर्ष साहस्रम् शशास क्षिति-मण्डलम् भोगैः पुण्य क्षयम् कुर्वन् अभोगैः अशुभ क्षयम्

एवं बहुसवं कालं महात्माविचलेन्द्रिय: ।
त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् ॥ १४ ॥

एवम् बहु सवम् कालम् महा-आत्मा अविचल-इन्द्रियः त्रि-वर्ग औपयिकम् नीत्वा पुत्राय अदात् नृप-आसनम्

मन्यमान इदं विश्वं मायारचितमात्मनि ।
अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥

मन्यमानः इदम् विश्वम् माया रचितम् आत्मनि अविद्या रचित स्वप्न गन्धर्व-नगर उपमम्

आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोश-
मन्त:पुरं परिविहारभुवश्च रम्या: ।
भूमण्डलं जलधिमेखलमाकलय्य
कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६ ॥

आत्म स्त्री अपत्य सुहृदः बलम् ऋद्ध-कोशम् अन्तः-पुरम् परिविहार-भुवः च रम्याः भू-मण्डलम् जल-धि मेखलम् आकलय्य काल उपसृष्टम् इति सः प्रययौ विशालाम्

तस्यां विशुद्धकरण: शिववार्विगाह्य
बद्ध्वासनं जितमरुन्मनसाहृताक्ष: ।
स्थूले दधार भगवत्प्रतिरूप एतद्
ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ ॥ १७ ॥

तस्याम् विशुद्ध करणः शिव वाः विगाह्य बद्ध्वा आसनम् जित मरुत् मनसा आहृत अक्षः स्थूले दधार भगवत्-प्रतिरूपे एतत् ध्यायन् तत् अव्यवहितः व्यसृजत् समाधौ

भक्तिं हरौ भगवति प्रवहन्नजस्र-
मानन्दबाष्पकलया मुहुरर्द्यमान: ।
विक्लिद्यमानहृदय: पुलकाचिताङ्गो
नात्मानमस्मरदसाविति मुक्तलिङ्ग: ॥ १८ ॥

भक्तिम् हरौ भगवति प्रवहन् अजस्रम् आनन्द बाष्प-कलया मुहुः अर्द्यमानः विक्लिद्यमान हृदयः पुलक आचित अङ्गः न आत्मानम् अस्मरत् असौ इति मुक्त-लिङ्गः

स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुव: ।
विभ्राजयद्दश दिशो राकापतिमिवोदितम् ॥ १९ ॥

सः ददर्श विमान अग्र्यम् नभसः अवतरत् ध्रुवः विभ्राजयत् दश दिशः राका-पतिम् इव उदितम्

तत्रानु देवप्रवरौ चतुर्भुजौ
श्यामौ किशोरावरुणाम्बुजेक्षणौ ।
स्थिताववष्टभ्य गदां सुवाससौ
किरीटहाराङ्गदचारुकुण्डलौ ॥ २० ॥

तत्र अनु देव-प्रवरौ चतुः-भुजौ श्यामौ किशोरौ अरुण अम्बुज ईक्षणौ स्थितौ अवष्टभ्य गदाम् सुवाससौ किरीट हार अङ्गद चारु कुण्डलौ

विज्ञाय तावुत्तमगायकिङ्करा-
वभ्युत्थित: साध्वसविस्मृतक्रम: ।
ननाम नामानि गृणन्मधुद्विष:
पार्षत्प्रधानाविति संहताञ्जलि: ॥ २१ ॥

विज्ञाय तौ उत्तम-गाय किङ्करौ अभ्युत्थितः साध्वस विस्मृत क्रमः ननाम नामानि गृणन् मधु-द्विषः पार्षत् प्रधानौ इति संहत अञ्जलिः

तं कृष्णपादाभिनिविष्टचेतसं
बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।
सुनन्दनन्दावुपसृत्य सस्मितं
प्रत्यूचतु: पुष्करनाभसम्मतौ ॥ २२ ॥

तम् कृष्ण पाद अभिनिविष्ट चेतसम् बद्ध-अञ्जलिम् प्रश्रय नम्र कन्धरम् सुनन्द नन्दौ उपसृत्य स-स्मितम् प्रत्यूचतुः पुष्कर-नाभ सम्मतौ

सुनन्दनन्दावूचतु:
भो भो राजन्सुभद्रं ते वाचं नोऽवहित: श‍ृणु ।
य: पञ्चवर्षस्तपसा भवान्देवमतीतृपत् ॥ २३ ॥

सुनन्द-नन्दौ ऊचतुः भोः भोः राजन् सु-भद्रम् ते वाचम् नः अवहितः शृणु यः पञ्च-वर्षः तपसा भवान् देवम् अतीतृपत्

तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिण: ।
पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४ ॥

तस्य अखिल जगत् धातुः आवाम् देवस्य शार्ङ्गिणः पार्षदौ इह सम्प्राप्तौ नेतुम् त्वाम् भगवत्-पदम्

सुदुर्जयं विष्णुपदं जितं त्वया
यत्सूरयोऽप्राप्य विचक्षते परम् ।
आतिष्ठ तच्चन्द्रदिवाकरादयो
ग्रहर्क्षतारा: परियन्ति दक्षिणम् ॥ २५ ॥

सुदुर्जयम् विष्णु-पदम् जितम् त्वया यत् सूरयः अप्राप्य विचक्षते परम् आतिष्ठ तत् चन्द्र दिव-आकर आदयः ग्रह ऋक्ष-ताराः परियन्ति दक्षिणम्

अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।
आतिष्ठ जगतां वन्द्यं तद्विष्णो: परमं पदम् ॥ २६ ॥

अनास्थितम् ते पितृभिः अन्यैः अपि अङ्ग कर्हिचित् आतिष्ठ जगताम् वन्द्यम् तत् विष्णोः परमम् पदम्

एतद्विमानप्रवरमुत्तमश्लोकमौलिना ।
उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि ॥ २७ ॥

एतत् विमान प्रवरम् उत्तमश्लोक मौलिना उपस्थापितम् आयुष्मन् अधिरोढुम् त्वम् अर्हसि

मैत्रेय उवाच
निशम्य वैकुण्ठनियोज्यमुख्ययो-
र्मधुच्युतं वाचमुरुक्रमप्रिय: ।
कृताभिषेक: कृतनित्यमङ्गलो
मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८ ॥

मैत्रेयः उवाच निशम्य वैकुण्ठ नियोज्य मुख्ययोः मधु-च्युतम् वाचम् उरुक्रम-प्रियः कृत-अभिषेकः कृत नित्य-मङ्गलः मुनीन् प्रणम्य आशिषम् अभ्यवादयत्

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च ।
इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ २९ ॥

परीत्य अभ्यर्च्य धिष्ण्य-अग्र्यम् पार्षदौ अभिवन्द्य च इयेष तत् अधिष्ठातुम् बिभ्रत् रूपम् हिरण्मयम्

तदोत्तानपद: पुत्रो ददर्शान्तकमागतम् ।
मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ ३० ॥

तदा उत्तानपदः पुत्रः ददर्श अन्तकम् आगतम् मृत्योः मूर्ध्नि पदम् दत्त्वा आरुरोह अद्भुतम् गृहम्

तदा दुन्दुभयो नेदुर्मृदङ्गपणवादय: ।
गन्धर्वमुख्या: प्रजगु: पेतु: कुसुमवृष्टय: ॥ ३१ ॥

तदा दुन्दुभयः नेदुः मृदङ्ग पणव आदयः गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम वृष्टयः

स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुव: ।
अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२ ॥

सः च स्वः-लोकम् आरोक्ष्यन् सुनीतिम् जननीम् ध्रुवः अन्वस्मरत् अगम् हित्वा दीनाम् यास्ये त्रि-विष्टपम्

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।
दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३ ॥

इति व्यवसितम् तस्य व्यवसाय सुर-उत्तमौ दर्शयाम् आसतुः देवीम् पुरः यानेन गच्छतीम्

तत्र तत्र प्रशंसद्‌भि: पथि वैमानिकै: सुरै: ।
अवकीर्यमाणो दद‍ृशे कुसुमै: क्रमशो ग्रहान् ॥ ३४ ॥

तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः अवकीर्यमाणः ददृशे कुसुमैः क्रमशः ग्रहान्

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।
परस्ताद्यद् ध्रुवगतिर्विष्णो: पदमथाभ्यगात् ॥ ३५ ॥

त्रि-लोकीम् देव-यानेन सः अतिव्रज्य मुनीन् अपि परस्तात् यत् ध्रुव-गतिः विष्णोः पदम् अथ अभ्यगात्

यद्भ्राजमानं स्वरुचैव सर्वतो
लोकास्त्रयो ह्यनु विभ्राजन्त एते ।
यन्नाव्रजञ्जन्तुषु येऽननुग्रहा
व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६ ॥

यत् भ्राजमानम् स्व-रुचा एव सर्वतः लोकाः त्रयः हि अनु विभ्राजन्ते एते यत् न अव्रजन् जन्तुषु ये अननुग्रहाः व्रजन्ति भद्राणि चरन्ति ये अनिशम्

शान्ता: समद‍ृश: शुद्धा: सर्वभूतानुरञ्जना: ।
यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवा: ॥ ३७ ॥

शान्ताः सम-दृशः शुद्धाः सर्व भूत अनुरञ्जनाः यान्ति अञ्जसा अच्युत पदम् अच्युत-प्रिय बान्धवाः

इत्युत्तानपद: पुत्रो ध्रुव: कृष्णपरायण: ।
अभूत्‍त्रयाणां लोकानां चूडामणिरिवामल: ॥ ३८ ॥

इति उत्तानपदः पुत्रः ध्रुवः कृष्ण-परायणः अभूत् त्रयाणाम् लोकानाम् चूडा-मणिः इव अमलः

गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् ।
यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गण: ॥ ३९ ॥

गम्भीर-वेगः अनिमिषम् ज्योतिषाम् चक्रम् आहितम् यस्मिन् भ्रमति कौरव्य मेढ्याम् इव गवाम् गणः

महिमानं विलोक्यास्य नारदो भगवानृषि: ।
आतोद्यं वितुदञ्श्लोकान् सत्रेऽगायत्प्रचेतसाम् ॥ ४० ॥

महिमानम् विलोक्य अस्य नारदः भगवान् ऋषिः आतोद्यम् वितुदन् श्लोकान् सत्रे अगायत् प्रचेतसाम्

नारद उवाच
नूनं सुनीते: पतिदेवताया-
स्तप:प्रभावस्य सुतस्य तां गतिम् ।
दृष्ट्वाभ्युपायानपि वेदवादिनो
नैवाधिगन्तुं प्रभवन्ति किं नृपा: ॥ ४१ ॥

नारदः उवाच नूनम् सुनीतेः पति-देवतायाः तपः-प्रभावस्य सुतस्य ताम् गतिम् दृष्ट्वा अभ्युपायान् अपि वेद-वादिनः न एव अधिगन्तुम् प्रभवन्ति किम् नृपाः

य: पञ्चवर्षो गुरुदारवाक्शरै-
र्भिन्नेन यातो हृदयेन दूयता ।
वनं मदादेशकरोऽजितं प्रभुं
जिगाय तद्भक्तगुणै: पराजितम् ॥ ४२ ॥

यः पञ्च-वर्षः गुरु-दार वाक्-शरैः भिन्नेन यातः हृदयेन दूयता वनम् मत्-आदेश करः अजितम् प्रभुम् जिगाय तत् भक्त गुणैः पराजितम्

य: क्षत्रबन्धुर्भुवि तस्याधिरूढ-
मन्वारुरुक्षेदपि वर्षपूगै: ।
प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३ ॥ षट्पञ्चवर्षो यदहोभिरल्पै:

यः क्षत्र-बन्धुः भुवि तस्य अधिरूढम् अनु आरुरुक्षेत् अपि वर्ष-पूगैः षट्-पञ्च-वर्षः यत् अहोभिः अल्पैः प्रसाद्य वैकुण्ठम् अवाप तत्-पदम्

मैत्रेय उवाच
एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया ।
ध्रुवस्योद्दामयशसश्‍चरितं सम्मतं सताम् ॥ ४४ ॥

मैत्रेयः उवाच एतत् ते अभिहितम् सर्वम् यत् पृष्टः अहम् इह त्वया ध्रुवस्य उद्दाम यशसः चरितम् सम्मतम् सताम्

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५ ॥

धन्यम् यशस्यम् आयुष्यम् पुण्यम् स्वस्ति-अयनम् महत् स्वर्ग्यम् ध्रौव्यम् सौमनस्यम् प्रशस्यम् अघ-मर्षणम्

श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम् ।
भवेद्भक्तिर्भगवति यया स्यात्‍क्‍लेशसङ्‌क्षय: ॥ ४६ ॥

श्रुत्वा एतत् श्रद्धया अभीक्ष्णम् अच्युत प्रिय चेष्टितम् भवेत् भक्तिः भगवति यया स्यात् क्लेश सङ्क्षयः

महत्त्वमिच्छतां तीर्थं श्रोतु: शीलादयो गुणा: ।
यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७ ॥

महत्त्वम् इच्छताम् तीर्थम् श्रोतुः शील-आदयः गुणाः यत्र तेजः तत् इच्छूनाम् मानः यत्र मनस्विनाम्

प्रयत: कीर्तयेत्प्रात: समवाये द्विजन्मनाम् ।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८ ॥

प्रयतः कीर्तयेत् प्रातः समवाये द्वि-जन्मनाम् सायम् च पुण्य-श्लोकस्य ध्रुवस्य चरितम् महत्

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।
दिनक्षये व्यतीपाते सङ्‌क्रमेऽर्कदिनेऽपि वा ॥ ४९ ॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रय: ।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ ५० ॥

पौर्णमास्याम् सिनीवाल्याम् द्वादश्याम् श्रवणे अथवा दिन-क्षये व्यतीपाते सङ्क्रमे अर्कदिने अपि वा श्रावयेत् श्रद्दधानानाम् तीर्थ-पाद पद-आश्रयः न इच्छन् तत्र आत्मना आत्मानम् सन्तुष्टः इति सिध्यति

ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् ।
कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१ ॥

ज्ञानम् अज्ञात-तत्त्वाय यः दद्यात् सत्-पथे अमृतम् कृपालोः दीन-नाथस्य देवाः तस्य अनुगृह्णते

इदं मया तेऽभिहितं कुरूद्वहध्रुवस्य विख्यातविशुद्धकर्मण: ।
हित्वार्भक: क्रीडनकानि मातु-र्गृहं
च विष्णुं शरणं यो जगाम ॥ ५२ ॥

इदम् मया ते अभिहितम् कुरु-उद्वह ध्रुवस्य विख्यात विशुद्ध कर्मणः हित्वा अर्भकः क्रीडनकानि मातुः गृहम् च विष्णुम् शरणम् यः जगाम

४.१३

सूत उवाच
निशम्य कौषारविणोपवर्णितंध्रुवस्य वैकुण्ठपदाधिरोहणम् ।
प्ररूढभावो भगवत्यधोक्षजेप्रष्टुं पुनस्तं
विदुर: प्रचक्रमे ॥ १ ॥

सूतः उवाच निशम्य कौषारविणा उपवर्णितम् ध्रुवस्य वैकुण्ठ-पद अधिरोहणम् प्ररूढ भावः भगवति अधोक्षजे प्रष्टुम् पुनः तम् विदुरः प्रचक्रमे

विदुर उवाच
के ते प्रचेतसो नाम कस्यापत्यानि
सुव्रत ।
कस्यान्ववाये प्रख्याता: कुत्र वा सत्रमासत ॥ २ ॥

विदुरः उवाच के ते प्रचेतसः नाम कस्य अपत्यानि सु-व्रत कस्य अन्ववाये प्रख्याताः कुत्र वा सत्रम् आसत

मन्ये महाभागवतं नारदं देवदर्शनम् ।
येन
प्रोक्त: क्रियायोग: परिचर्याविधिर्हरे: ॥ ३ ॥

मन्ये महा-भागवतम् नारदम् देव दर्शनम् येन प्रोक्तः क्रिया-योगः परिचर्या विधिः हरेः

स्वधर्मशीलै: पुरुषैर्भगवान् यज्ञपूरुष: ।
इज्यमानो भक्तिमता नारदेनेरित: किल ॥ ४ ॥

स्व-धर्म-शीलैः पुरुषैः भगवान् यज्ञ-पूरुषः इज्यमानः भक्तिमता नारदेन ईरितः किल

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथा: ।
मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्‍न्येनाचष्टुमर्हसि ॥ ५ ॥

याः ताः देवर्षिणा तत्र वर्णिताः भगवत्-कथाः मह्यम् शुश्रूषवे ब्रह्मन् कार्त्स्न्येन आचष्टुम् अर्हसि

मैत्रेय उवाच
ध्रुवस्य चोत्कल: पुत्र: पितरि प्रस्थिते वनम् ।
सार्वभौमश्रियं नैच्छदधिराजासनं पितु: ॥ ६ ॥

मैत्रेयः उवाच ध्रुवस्य च उत्कलः पुत्रः पितरि प्रस्थिते वनम् सार्व-भौम श्रियम् न ऐच्छत् अधिराज आसनम् पितुः

स जन्मनोपशान्तात्मा नि:सङ्ग: समदर्शन: ।
ददर्श लोके विततमात्मानं लोकमात्मनि ॥ ७ ॥

सः जन्मना उपशान्त आत्मा निःसङ्गः सम-दर्शनः ददर्श लोके विततम् आत्मानम् लोकम् आत्मनि

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् ।
अवबोधरसैकात्म्यमानन्दमनुसन्ततम् ॥ ८ ॥
अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशय: ।
स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९ ॥

आत्मानम् ब्रह्म निर्वाणम् प्रत्यस्तमित विग्रहम् अवबोध-रस एक-आत्म्यम् आनन्दम् अनुसन्ततम् अव्यवच्छिन्न योग अग्नि दग्ध कर्म मल आशयः स्वरूपम् अवरुन्धानः न आत्मनः अन्यम् तदा ऐक्षत

जडान्धबधिरोन्मत्तमूकाकृतिरतन्मति: ।
लक्षित: पथि बालानां प्रशान्तार्चिरिवानल: ॥ १० ॥

जड अन्ध बधिर उन्मत्त मूक आकृतिः अ-तत् मतिः लक्षितः पथि बालानाम् प्रशान्त अर्चिः इव अनलः

मत्वा तं जडमुन्मत्तं कुलवृद्धा: समन्त्रिण: ।
वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमे: सुतम् ॥ ११ ॥

मत्वा तम् जडम् उन्मत्तम् कुल-वृद्धाः समन्त्रिणः वत्सरम् भू-पतिम् चक्रुः यवीयांसम् भ्रमेः सुतम्

स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।
पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥

स्वर्वीथिः वत्सरस्य इष्टा भार्या असूत षट् आत्मजान् पुष्पार्णम् तिग्मकेतुम् च इषम् ऊर्जम् वसुम् जयम्

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतु: ।
प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुता: ॥ १३ ॥

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः प्रातः मध्यन्दिनम् सायम् इति हि आसन् प्रभा-सुताः

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रय: ।
व्युष्ट: सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥

प्रदोषः निशिथः व्युष्टः इति दोषा सुताः त्रयः व्युष्टः सुतम् पुष्करिण्याम् सर्व-तेजसम् आदधे

स चक्षु: सुतमाकूत्यां पत्‍न्यां मनुमवाप ह ।
मनोरसूत महिषी विरजान्नड्‌वला सुतान् ॥ १५ ॥
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।
अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥

सः चक्षुः सुतम् आकूत्याम् पत्न्याम् मनुम् अवाप ह मनोः असूत महिषी विरजान् नड्वला सुतान् पुरुम् कुत्सम् त्रितम् द्युम्नम् सत्यवन्तम् ऋतम् व्रतम् अग्निष्टोमम् अतीरात्रम् प्रद्युम्नम् शिबिम् उल्मुकम्

उल्मुकोऽजनयत्पुत्रान्पुष्करिण्यां षडुत्तमान् ।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥ १७ ॥

उल्मुकः अजनयत् पुत्रान् पुष्करिण्याम् षट् उत्तमान् अङ्गम् सुमनसम् ख्यातिम् क्रतुम् अङ्गिरसम् गयम्

सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् ।
यद्दौ:शील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात् ॥ १८ ॥

सुनीथा अङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् यत् दौःशील्यात् सः राज-ऋषिः निर्विण्णः निरगात् पुरात्

यमङ्ग शेपु: कुपिता वाग्वज्रा मुनय: किल ।
गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥
अराजके तदा लोके दस्युभि: पीडिता: प्रजा: ।
जातो नारायणांशेन पृथुराद्य: क्षितीश्वर: ॥ २० ॥

यम् अङ्ग शेपुः कुपिताः वाक्-वज्राः मुनयः किल गत-असोः तस्य भूयः ते ममन्थुः दक्षिणम् करम् अराजके तदा लोके दस्युभिः पीडिताः प्रजाः जातः नारायण अंशेन पृथुः आद्यः क्षिति-ईश्वरः

विदुर उवाच
तस्य शीलनिधे: साधोर्ब्रह्मण्यस्य महात्मन: ।
राज्ञ: कथमभूद्दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥

विदुरः उवाच तस्य शील-निधेः साधोः ब्रह्मण्यस्य महात्मनः राज्ञः कथम् अभूत् दुष्टा प्रजा यत् विमनाः ययौ

किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन् ।
दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदा: ॥ २२ ॥

किम् वा अंहः वेने उद्दिश्य ब्रह्म-दण्डम् अयूयुजन् दण्ड-व्रत-धरे राज्ञि मुनयः धर्म-कोविदाः

नावध्येय: प्रजापाल: प्रजाभिरघवानपि ।
यदसौ लोकपालानां बिभर्त्योज: स्वतेजसा ॥ २३ ॥

न अवध्येयः प्रजा-पालः प्रजाभिः अघवान् अपि यत् असौ लोक-पालानाम् बिभर्ति ओजः स्व-तेजसा

एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम् ।
श्रद्दधानाय भक्ताय त्वं परावरवित्तम: ॥ २४ ॥

एतत् आख्याहि मे ब्रह्मन् सुनीथा-आत्मज चेष्टितम् श्रद्दधानाय भक्ताय त्वम् पर-अवर वित्-तमः

मैत्रेय उवाच
अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम् ।
नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभि: ॥ २५ ॥

मैत्रेयः उवाच अङ्गः अश्वमेधम् राज-ऋषिः आजहार महा-क्रतुम् न आजग्मुः देवताः तस्मिन् आहूताः ब्रह्म-वादिभिः

तमूचुर्विस्मितास्तत्र यजमानमथर्त्विज: ।
हवींषि हूयमानानि न ते गृह्णन्ति देवता: ॥ २६ ॥

तम् ऊचुः विस्मिताः तत्र यजमानम् अथ ऋत्विजः हवींषि हूयमानानि न ते गृह्णन्ति देवताः

राजन् हवींष्यदुष्टानि श्रद्धयासादितानि ते ।
छन्दांस्ययातयामानि योजितानि धृतव्रतै: ॥ २७ ॥

राजन् हवींषि अदुष्टानि श्रद्धया आसादितानि ते छन्दांसि अयात-यामानि योजितानि धृत-व्रतैः

न विदामेह देवानां हेलनं वयमण्वपि ।
यन्न गृह्णन्ति भागान् स्वान् ये देवा: कर्मसाक्षिण: ॥ २८ ॥

न विदाम इह देवानाम् हेलनम् वयम् अणु अपि यत् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः

मैत्रेय उवाच
अङ्गो द्विजवच: श्रुत्वा यजमान: सुदुर्मना: ।
तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥ २९ ॥

मैत्रेयः उवाच अङ्गः द्विज-वचः श्रुत्वा यजमानः सुदुर्मनाः तत् प्रष्टुम् व्यसृजत् वाचम् सदस्यान् तत् अनुज्ञया

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।
सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥

न आगच्छन्ति आहुताः देवाः न गृह्णन्ति ग्रहान् इह सदसः-पतयः ब्रूत किम् अवद्यम् मया कृतम्

सदसस्पतय ऊचु:
नरदेवेह भवतो नाघं तावन् मनाक्स्थितम् ।
अस्त्येकं प्राक्तनमघं यदिहेद‍ृक् त्वमप्रज: ॥ ३१ ॥

सदसः-पतयः ऊचुः नर-देव इह भवतः न अघम् तावत् मनाक् स्थितम् अस्ति एकम् प्राक्तनम् अघम् यत् इह ईदृक् त्वम् अप्रजः

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।
इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥

तथा साधय भद्रम् ते आत्मानम् सु-प्रजम् नृप इष्टः ते पुत्र-कामस्य पुत्रम् दास्यति यज्ञ-भुक्

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकस: ।
यद्यज्ञपुरुष: साक्षादपत्याय हरिर्वृत: ॥ ३३ ॥

तथा स्व-भाग-धेयानि ग्रहीष्यन्ति दिव-ओकसः यत् यज्ञ-पुरुषः साक्षात् अपत्याय हरिः वृतः

तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जन: ।
आराधितो यथैवैष तथा पुंसां फलोदय: ॥ ३४ ॥

तान् तान् कामान् हरिः दद्यात् यान् यान् कामयते जनः आराधितः यथा एव एषः तथा पुंसाम् फल-उदयः

इति व्यवसिता विप्रास्तस्य राज्ञ: प्रजातये ।
पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥

इति व्यवसिताः विप्राः तस्य राज्ञः प्रजातये पुरोडाशम् निरवपन् शिपि-विष्टाय विष्णवे

तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बर: ।
हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥

तस्मात् पुरुषः उत्तस्थौ हेम-माली अमल-अम्बरः हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम्

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।
अवघ्राय मुदा युक्त: प्रादात्पत्‍न्या उदारधी: ॥ ३७ ॥

सः विप्र अनुमतः राजा गृहीत्वा अञ्जलिना ओदनम् अवघ्राय मुदा युक्तः प्रादात् पत्न्यै उदार-धीः

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।
गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥

सा तत् पुम्-सवनम् राज्ञी प्राश्य वै पत्युः आदधे गर्भम् काले उपावृत्ते कुमारम् सुषुवे अप्रजा

स बाल एव पुरुषो मातामहमनुव्रत: ।
अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिक: ॥ ३९ ॥

सः बालः एव पुरुषः माता-महम् अनुव्रतः अधर्म अंश उद्भवम् मृत्युम् तेन अभवत् अधार्मिकः

स शरासनमुद्यम्य मृगयुर्वनगोचर: ।
हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जन: ॥ ४० ॥

सः शरासनम् उद्यम्य मृगयुः वन-गोचरः हन्ति असाधुः मृगान् दीनान् वेनः असौ इति अरौत् जनः

आक्रीडे क्रीडतो बालान् वयस्यानतिदारुण: ।
प्रसह्य निरनुक्रोश: पशुमारममारयत् ॥ ४१ ॥

आक्रीडे क्रीडतः बालान् वयस्यान् अति-दारुणः प्रसह्य निरनुक्रोशः पशु-मारम् अमारयत्

तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृप: ।
यदा न शासितुं कल्पो भृशमासीत्सुदुर्मना: ॥ ४२ ॥

तम् विचक्ष्य खलम् पुत्रम् शासनैः विविधैः नृपः यदा न शासितुम् कल्पः भृशम् आसीत् सु-दुर्मनाः

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिन: ।
कदपत्यभृतं दु:खं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥

प्रायेण अभ्यर्चितः देवः ये अप्रजाः गृह-मेधिनः कद्-अपत्य भृतम् दुःखम् ये न विन्दन्ति दुर्भरम्

यत: पापीयसी कीर्तिरधर्मश्च महान्नृणाम् ।
यतो विरोध: सर्वेषां यत आधिरनन्तक: ॥ ४४ ॥

यतः पापीयसी कीर्तिः अधर्मः च महान् नृणाम् यतः विरोधः सर्वेषाम् यतः आधिः अनन्तकः

कस्तं प्रजापदेशं वै मोहबन्धनमात्मन: ।
पण्डितो बहु मन्येत यदर्था: क्लेशदा गृहा: ॥ ४५ ॥

कः तम् प्रजा-अपदेशम् वै मोह बन्धनम् आत्मनः पण्डितः बहु मन्येत यत्-अर्थाः क्लेश-दाः गृहाः

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।
निर्विद्येत गृहान्मर्त्यो यत्‍क्‍लेशनिवहा गृहा: ॥ ४६ ॥

कद्-अपत्यम् वरम् मन्ये सत्-अपत्यात् शुचाम् पदात् निर्विद्येत गृहात् मर्त्यः यत् क्लेश-निवहाः गृहाः

एवं स निर्विण्णमना नृपो गृहा-
न्निशीथ उत्थाय महोदयोदयात् ।
अलब्धनिद्रोऽनुपलक्षितो नृभि-
र्हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥

एवम् सः निर्विण्ण-मनाः नृपः गृहात् निशीथे उत्थाय महा-उदय-उदयात् अलब्ध-निद्रः अनुपलक्षितः नृभिः हित्वा गतः वेन-सुवम् प्रसुप्ताम्

विज्ञाय निर्विद्य गतं पतिं प्रजा:
पुरोहितामात्यसुहृद्गणादय: ।
विचिक्युरुर्व्यामतिशोककातरा
यथा निगूढं पुरुषं कुयोगिन: ॥ ४८ ॥

विज्ञाय निर्विद्य गतम् पतिम् प्रजाः पुरोहित अमात्य सुहृत् गण-आदयः विचिक्युः उर्व्याम् अति-शोक-कातराः यथा निगूढम् पुरुषम् कु-योगिनः

अलक्षयन्त: पदवीं प्रजापते-
र्हतोद्यमा: प्रत्युपसृत्य ते पुरीम् ।
ऋषीन् समेतानभिवन्द्य साश्रवो
न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥

अलक्षयन्तः पदवीम् प्रजापतेः हत-उद्यमाः प्रत्युपसृत्य ते पुरीम् ऋषीन् समेतान् अभिवन्द्य स-अश्रवः न्यवेदयन् पौरव भर्तृ विप्लवम्

४.१४

मैत्रेय उवाच
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिन: ।
गोप्तर्यसति वै नृणां पश्यन्त: पशुसाम्यताम् ॥ १ ॥

मैत्रेयः उवाच भृगु-आदयः ते मुनयः लोकानाम् क्षेम-दर्शिनः गोप्तरि असति वै नॄणाम् पश्यन्तः पशु-साम्यताम्

वीरमातरमाहूय सुनीथां ब्रह्मवादिन: ।
प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुव: ॥ २ ॥

वीर मातरम् आहूय सुनीथाम् ब्रह्म-वादिनः प्रकृति असम्मतम् वेनम् अभ्यषिञ्चन् पतिम् भुवः

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।
निलिल्युर्दस्यव: सद्य: सर्पत्रस्ता इवाखव: ॥ ३ ॥

श्रुत्वा नृप आसन-गतम् वेनम् अति उग्र शासनम् निलिल्युः दस्यवः सद्यः सर्प त्रस्ताः इव आखवः

स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभि: ।
अवमेने महाभागान् स्तब्ध: सम्भावित: स्वत: ॥ ४ ॥

सः आरूढ नृप-स्थानः उन्नद्धः अष्ट विभूतिभिः अवमेने महा-भागान् स्तब्धः सम्भावितः स्वतः

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विप: ।
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५ ॥

एवम् मद-अन्धः उत्सिक्तः निरङ्कुशः इव द्विपः पर्यटन् रथम् आस्थाय कम्पयन् इव रोदसी

न यष्टव्यं न दातव्यं न होतव्यं द्विजा: क्‍वचित् ।
इति न्यवारयद्धर्मं भेरीघोषेण सर्वश: ॥ ६ ॥

न यष्टव्यम् न दातव्यम् न होतव्यम् द्विजाः क्वचित् इति न्यवारयत् धर्मम् भेरी घोषेण सर्वशः

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।
विमृश्य लोकव्यसनं कृपयोचु: स्म सत्रिण: ॥ ७ ॥

वेनस्य आवेक्ष्य मुनयः दुर्वृत्तस्य विचेष्टितम् विमृश्य लोक-व्यसनम् कृपया ऊचुः स्म सत्रिणः

अहो उभयत: प्राप्तं लोकस्य व्यसनं महत् ।
दारुण्युभयतो दीप्ते इव तस्करपालयो: ॥ ८ ॥

अहो उभयतः प्राप्तम् लोकस्य व्यसनम् महत् दारुणि उभयतः दीप्ते इव तस्कर पालयोः

अराजकभयादेष कृतो राजातदर्हण: ।
ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ॥ ९ ॥

अराजक भयात् एषः कृतः राजा अ-तत्-अर्हणः ततः अपि आसीत् भयम् तु अद्य कथम् स्यात् स्वस्ति देहिनाम्

अहेरिव पय:पोष: पोषकस्याप्यनर्थभृत् ।
वेन: प्रकृत्यैव खल: सुनीथागर्भसम्भव: ॥ १० ॥

अहेः इव पयः पोषः पोषकस्य अपि अनर्थ भृत् वेनः प्रकृत्या एव खलः सुनीथा गर्भ सम्भवः

निरूपित: प्रजापाल: स जिघांसति वै प्रजा: ।
तथापि सान्‍त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ॥ ११ ॥

निरूपितः प्रजा-पालः सः जिघांसति वै प्रजाः तथा अपि सान्त्वयेम अमुम् न अस्मान् तत् पातकम् स्पृशेत्

तद्विद्वद्‌भिरसद्‍वृत्तो वेनोऽस्माभि: कृतो नृप: ।
सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।
लोकधिक्कारसन्दग्धं दहिष्याम: स्वतेजसा ॥ १२ ॥

तत् विद्वद्भिः असत्-वृत्तः वेनः अस्माभिः कृतः नृपः सान्त्वितः यदि नः वाचम् न ग्रहीष्यति अधर्म-कृत् लोक-धिक्-कार सन्दग्धम् दहिष्यामः स्व-तेजसा

एवमध्यवसायैनं मुनयो गूढमन्यव: ।
उपव्रज्याब्रुवन् वेनं सान्‍त्वयित्वा च सामभि: ॥ १३ ॥

एवम् अध्यवसाय एनम् मुनयः गूढ-मन्यवः उपव्रज्य अब्रुवन् वेनम् सान्त्वयित्वा च सामभिः

मुनय ऊचु:
नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भो: ।
आयु:श्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥

मुनयः ऊचुः नृप-वर्य निबोध एतत् यत् ते विज्ञापयाम भोः आयुः श्री बल कीर्तीनाम् तव तात विवर्धनम्

धर्म आचरित: पुंसां वाङ्‍मन:कायबुद्धिभि: ।
लोकान् विशोकान् वतरत्यथानन्त्यमसङ्गिनाम् ॥ १५ ॥

धर्मः आचरितः पुंसाम् वाक् मनः काय बुद्धिभिः लोकान् विशोकान् वितरति अथ आनन्त्यम् असङ्गिनाम्

स ते मा विनशेद्वीर प्रजानां क्षेमलक्षण: ।
यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥ १६ ॥

सः ते मा विनशेत् वीर प्रजानाम् क्षेम-लक्षणः यस्मिन् विनष्टे नृपतिः ऐश्वर्यात् अवरोहति

राजन्नसाध्वमात्येभ्यश्चोरादिभ्य: प्रजा नृप: ।
रक्षन्यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥ १७ ॥

राजन् असाधु अमात्येभ्यः चोर-आदिभ्यः प्रजाः नृपः रक्षन् यथा बलिम् गृह्णन् इह प्रेत्य च मोदते

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुष: ।
इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितै: ॥ १८ ॥

यस्य राष्ट्रे पुरे च एव भगवान् यज्ञ-पूरुषः इज्यते स्वेन धर्मेण जनैः वर्ण-आश्रम अन्वितैः

तस्य राज्ञो महाभाग भगवान् भूतभावन: ।
परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥

तस्य राज्ञः महा-भाग भगवान् भूत-भावनः परितुष्यति विश्व-आत्मा तिष्ठतः निज-शासने

तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।
लोका: सपाला ह्येतस्मै हरन्ति बलिमाद‍ृता: ॥ २० ॥

तस्मिन् तुष्टे किम् अप्राप्यम् जगताम् ईश्वर-ईश्वरे लोकाः सपालाः हि एतस्मै हरन्ति बलिम् आदृताः

तं सर्वलोकामरयज्ञसङ्ग्रहं
त्रयीमयं द्रव्यमयं तपोमयम् ।
यज्ञैर्विचित्रैर्यजतो भवाय ते
राजन् स्वदेशाननुरोद्धुमर्हसि ॥ २१ ॥

तम् सर्व-लोक अमर यज्ञ सङ्ग्रहम् त्रयी-मयम् द्रव्य-मयम् तपः-मयम् यज्ञैः विचित्रैः यजतः भवाय ते राजन् स्व-देशान् अनुरोद्धुम् अर्हसि

यज्ञेन युष्मद्विषये द्विजातिभि-
र्वितायमानेन सुरा: कला हरे: ।
स्विष्टा: सुतुष्टा: प्रदिशन्ति वाञ्छितं
तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥

यज्ञेन युष्मत् विषये द्विजातिभिः वितायमानेन सुराः कलाः हरेः सु-इष्टाः सु-तुष्टाः प्रदिशन्ति वाञ्छितम् तत्-हेलनम् न अर्हसि वीर चेष्टितुम्

वेन उवाच
बालिशा बत यूयं वा अधर्मे धर्ममानिन: ।
ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥

वेनः उवाच बालिशाः बत यूयम् वा अधर्मे धर्म-मानिनः ये वृत्तिदम् पतिम् हित्वा जारम् पतिम् उपासते

अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४ ॥

अवजानन्ति अमी मूढाः नृप-रूपिणम् ईश्वरम् न अनुविन्दन्ति ते भद्रम् इह लोके परत्र च

को यज्ञपुरुषो नाम यत्र वो भक्तिरीद‍ृशी ।
भर्तृस्‍नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥

कः यज्ञ-पुरुषः नाम यत्र वः भक्तिः ईदृशी भर्तृ स्नेह विदूराणाम् यथा जारे कु-योषिताम्

विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रवि: ।
पर्जन्यो धनद: सोम: क्षितिरग्निरपाम्पति: ॥ २६ ॥
एते चान्ये च विबुधा: प्रभवो वरशापयो: ।
देहे भवन्ति नृपते: सर्वदेवमयो नृप: ॥ २७ ॥

विष्णुः विरिञ्चः गिरिशः इन्द्रः वायुः यमः रविः पर्जन्यः धन-दः सोमः क्षितिः अग्निः अपाम्-पतिः एते च अन्ये च विबुधाः प्रभवः वर-शापयोः देहे भवन्ति नृपतेः सर्व-देवमयः नृपः

तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सरा: ।
बलिं च मह्यं हरत मत्तोऽन्य: कोऽग्रभुक्पुमान् ॥ २८ ॥

तस्मात् माम् कर्मभिः विप्राः यजध्वम् गत मत्सराः बलिम् च मह्यम् हरत मत्तः अन्यः कः अग्र-भुक् पुमान्

मैत्रेय उवाच
इत्थं विपर्ययमति: पापीयानुत्पथं गत: ।
अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गल: ॥ २९ ॥

मैत्रेयः उवाच इत्थम् विपर्यय-मतिः पापीयान् उत्पथम् गतः अनुनीयमानः तत्-याच्ञाम् न चक्रे भ्रष्ट मङ्गलः

इति तेऽसत्कृतास्तेन द्विजा: पण्डितमानिना ।
भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधु: ॥ ३० ॥

इति ते असत्-कृताः तेन द्विजाः पण्डित-मानिना भग्नायाम् भव्य याच्ञायाम् तस्मै विदुर चुक्रुधुः

हन्यतां हन्यतामेष पाप: प्रकृतिदारुण: ।
जीवञ्जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥

हन्यताम् हन्यताम् एषः पापः प्रकृति दारुणः जीवन् जगत् असौ आशु कुरुते भस्मसात् ध्रुवम्

नायमर्हत्यसद्‍वृत्तो नरदेववरासनम् ।
योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रप: ॥ ३२ ॥

न अयम् अर्हति असत्-वृत्तः नर-देव वर-आसनम् यः अधियज्ञ-पतिम् विष्णुम् विनिन्दति अनपत्रपः

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।
प्राप्त ईद‍ृशमैश्वर्यं यदनुग्रहभाजन: ॥ ३३ ॥

कः वा एनम् परिचक्षीत वेनम् एकम् ऋते अशुभम् प्राप्तः ईदृशम् ऐश्वर्यम् यत् अनुग्रह भाजनः

इत्थं व्यवसिता हन्तुमृषयो रूढमन्यव: ।
निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥

इत्थम् व्यवसिताः हन्तुम् ऋषयः रूढ मन्यवः निजघ्नुः हुम्-कृतैः वेनम् हतम् अच्युत निन्दया

ऋषिभि: स्वाश्रमपदं गते पुत्रकलेवरम् ।
सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥

ऋषिभिः स्व-आश्रम-पदम् गते पुत्र कलेवरम् सुनीथा पालयाम् आस विद्या-योगेन शोचती

एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुता: ।
हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टा: सरित्तटे ॥ ३६ ॥

एकदा मुनयः ते तु सरस्वत् सलिल आप्लुताः हुत्वा अग्नीन् सत्-कथाः चक्रुः उपविष्टाः सरित्-तटे

वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान् ।
अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुव: ॥ ३७ ॥

वीक्ष्य उत्थितान् तदा उत्पातान् आहुः लोक भयम्-करान् अपि अभद्रम् अनाथायाः दस्युभ्यः न भवेत् भुवः

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।
पांसु: समुत्थितो भूरिश्चोराणामभिलुम्पताम् ॥ ३८ ॥

एवम् मृशन्तः ऋषयः धावताम् सर्वतः-दिशम् पांसुः समुत्थितः भूरिः चोराणाम् अभिलुम्पताम्

तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।
भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥ ३९ ॥
चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।
लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिन: ॥ ४० ॥

तत् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् भर्तरि उपरते तस्मिन् अन्योन्यम् च जिघां सताम् चोर-प्रायम् जन-पदम् हीन सत्त्वम् अराजकम् लोकान् न अवारयन् शक्ताः अपि तत्-दोष दर्शिनः

ब्राह्मण: समद‍ृक् शान्तो दीनानां समुपेक्षक: ।
स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥

ब्राह्मणः सम-दृक् शान्तः दीनानाम् समुपेक्षकः स्रवते ब्रह्म तस्य अपि भिन्न-भाण्डात् पयः यथा

नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति ।
अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रया: ॥ ४२ ॥

न अङ्गस्य वंशः राज-ऋषेः एषः संस्थातुम् अर्हति अमोघ वीर्याः हि नृपाः वंशे अस्मिन् केशव आश्रयाः

विनिश्चित्यैवमृषयो विपन्नस्य महीपते: ।
ममन्थुरूरुं तरसा तत्रासीद्बाहुको नर: ॥ ४३ ॥

विनिश्चित्य एवम् ऋषयः विपन्नस्य मही-पतेः ममन्थुः ऊरुम् तरसा तत्र आसीत् बाहुकः नरः

काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनु: ।
ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धज: ॥ ४४ ॥

काक-कृष्णः अति-ह्रस्व अङ्गः ह्रस्व बाहुः महा हनुः ह्रस्व पात् निम्न नास-अग्रः रक्त अक्षः ताम्र मूर्ध-जः

तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥

तम् तु ते अवनतम् दीनम् किम् करोमि इति वादिनम् निषीद इति अब्रुवन् तात सः निषादः ततः अभवत्

तस्य वंश्यास्तु नैषादा गिरिकाननगोचरा: ।
येनाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥

तस्य वंश्याः तु नैषादाः गिरि-कानन गोचराः येन अहरत् जायमानः वेन कल्मषम् उल्बणम्

४.१५

मैत्रेय उवाच
अथ तस्य पुनर्विप्रैरपुत्रस्य महीपते: ।
बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १ ॥

मैत्रेयः उवाच अथ तस्य पुनः विप्रैः अपुत्रस्य महीपतेः बाहुभ्याम् मथ्यमानाभ्याम् मिथुनम् समपद्यत

तद् दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिन: ।
ऊचु: परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २ ॥

तत् दृष्ट्वा मिथुनम् जातम् ऋषयः ब्रह्म-वादिनः ऊचुः परम सन्तुष्टाः विदित्वा भगवत् कलाम्

ऋषय ऊचु:
एष विष्णोर्भगवत: कला भुवनपालिनी ।
इयं च लक्ष्म्या: सम्भूति: पुरुषस्यानपायिनी ॥ ३ ॥

ऋषयः ऊचुः एषः विष्णोः भगवतः कला भुवन-पालिनी इयम् च लक्ष्म्याः सम्भूतिः पुरुषस्य अनपायिनी

अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यश: ।
पृथुर्नाम महाराजो भविष्यति पृथुश्रवा: ॥ ४ ॥

अयम् तु प्रथमः राज्ञाम् पुमान् प्रथयिता यशः पृथुः नाम महा-राजः भविष्यति पृथु-श्रवाः

इयं च सुदती देवी गुणभूषणभूषणा ।
अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५ ॥

इयम् च सु-दती देवी गुण भूषण भूषणा अर्चिः नाम वर-आरोहा पृथुम् एव अवरुन्धती

एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।
इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥ ६ ॥

एषः साक्षात् हरेः अंशः जातः लोक रिरक्षया इयम् च तत्-परा हि श्रीः अनुजज्ञे अनपायिनी

मैत्रेय उवाच
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगु: ।
मुमुचु: सुमनोधारा: सिद्धा नृत्यन्ति स्व:स्त्रिय: ॥ ७ ॥

मैत्रेयः उवाच प्रशंसन्ति स्म तम् विप्राः गन्धर्व-प्रवराः जगुः मुमुचुः सुमनः-धाराः सिद्धाः नृत्यन्ति स्वः स्त्रियः

शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि ।
तत्र सर्व उपाजग्मुर्देवर्षिपितृणां गणा: ॥ ८ ॥

शङ्ख तूर्य मृदङ्ग आद्याः नेदुः दुन्दुभयः दिवि तत्र सर्वे उपाजग्मुः देव-ऋषि पितॄणाम् गणाः

ब्रह्मा जगद्गुरुर्देवै: सहासृत्य सुरेश्वरै: ।
वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृत: ॥ ९ ॥
पादयोररविन्दं च तं वै मेने हरे: कलाम् ।
यस्याप्रतिहतं चक्रमंश: स परमेष्ठिन: ॥ १० ॥

ब्रह्मा जगत्-गुरुः देवैः सह आसृत्य सुर-ईश्वरैः वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नम् गदा-भृतः पादयोः अरविन्दम् च तम् वै मेने हरेः कलाम् यस्य अप्रतिहतम् चक्रम् अंशः सः परमेष्ठिनः

तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभि: ।
आभिषेचनिकान्यस्मै आजह्रु: सर्वतो जना: ॥ ११ ॥

तस्य अभिषेकः आरब्धः ब्राह्मणैः ब्रह्म-वादिभिः आभिषेचनिकानि अस्मै आजह्रुः सर्वतः जनाः

सरित्समुद्रा गिरयो नागा गाव: खगा मृगा: ।
द्यौ: क्षिति: सर्वभूतानि समाजह्रुरुपायनम् ॥ १२ ॥

सरित् समुद्राः गिरयः नागाः गावः खगाः मृगाः द्यौः क्षितिः सर्व-भूतानि समाजह्रुः उपायनम्

सोऽभिषिक्तो महाराज: सुवासा: साध्वलड़्क़ृत: ।
पत्‍न्यार्चिषालड्‌क़ृतया विरेजेऽग्निरिवापर: ॥ १३ ॥

सः अभिषिक्तः महाराजः सु-वासाः साधु-अलङ्कृतः पत्न्या अर्चिषा अलङ्कृतया विरेजे अग्निः इव अपरः

तस्मै जहार धनदो हैमं वीर वरासनम् ।
वरुण: सलिलस्रावमातपत्रं शशिप्रभम् ॥ १४ ॥

तस्मै जहार धन-दः हैमम् वीर वर-आसनम् वरुणः सलिल-स्रावम् आतपत्रम् शशि-प्रभम्

वायुश्च वालव्यजने धर्म: कीर्तिमयीं स्रजम् ।
इन्द्र: किरीटमुत्कृष्टं दण्डं संयमनं यम: ॥ १५ ॥

वायुः च वाल-व्यजने धर्मः कीर्ति-मयीम् स्रजम् इन्द्रः किरीटम् उत्कृष्टम् दण्डम् संयमनम् यमः

ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् ।
हरि: सुदर्शनं चक्रं तत्पत्‍न्यव्याहतां श्रियम् ॥ १६ ॥

ब्रह्मा ब्रह्म-मयम् वर्म भारती हारम् उत्तमम् हरिः सुदर्शनम् चक्रम् तत्-पत्नी अव्याहताम् श्रियम्

दशचन्द्रमसिं रुद्र: शतचन्द्रं तथाम्बिका ।
सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् ॥ १७ ॥

दश-चन्द्रम् असिम् रुद्रः शत-चन्द्रम् तथा अम्बिका सोमः अमृत-मयान् अश्वान् त्वष्टा रूप-आश्रयम् रथम्

अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ।
भू: पादुके योगमय्यौ द्यौ: पुष्पावलिमन्वहम् ॥ १८ ॥

अग्निः आज-गवम् चापम् सूर्यः रश्मि-मयान् इषून् भूः पादुके योग-मय्यौ द्यौः पुष्प आवलिम् अनु-अहम्

नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचरा: ।
ऋषयश्चाशिष: सत्या: समुद्र: शङ्खमात्मजम् ॥ १९ ॥

नाट्यम् सु-गीतम् वादित्रम् अन्तर्धानम् च खे-चराः ऋषयः च आशिषः सत्याः समुद्रः शङ्खम् आत्म-जम्

सिन्धव: पर्वता नद्यो रथवीथीर्महात्मन: ।
सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २० ॥

सिन्धवः पर्वताः नद्यः रथ-वीथीः महा-आत्मनः सूतः अथ मागधः वन्दी तम् स्तोतुम् उपतस्थिरे

स्तावकांस्तानभिप्रेत्य पृथुर्वैन्य: प्रतापवान् ।
मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत् ॥ २१ ॥

स्तावकान् तान् अभिप्रेत्य पृथुः वैन्यः प्रताप-वान् मेघ-निर्ह्रादया वाचा प्रहसन् इदम् अब्रवीत्

पृथुरुवाच
भो: सूत हे मागध सौम्य वन्दिँ-
ल्लोकेऽधुनास्पष्टगुणस्य मे स्यात् ।
किमाश्रयो मे स्तव एष योज्यतां
मा मय्यभूवन्वितथा गिरो व: ॥ २२ ॥

पृथुः उवाच भोः सूत हे मागध सौम्य वन्दिन् लोके अधुना अस्पष्ट गुणस्य मे स्यात् किम् आश्रयः मे स्तवः एषः योज्यताम् मा मयि अभूवन् वितथाः गिरः वः

तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं
करिष्यथ स्तोत्रमपीच्यवाच: ।
सत्युत्तमश्लोकगुणानुवादे
जुगुप्सितं न स्तवयन्ति सभ्या: ॥ २३ ॥

तस्मात् परोक्षे अस्मत् उपश्रुतानि अलम् करिष्यथ स्तोत्रम् अपीच्य-वाचः सति उत्तम-श्लोक गुण अनुवादे जुगुप्सितम् न स्तवयन्ति सभ्याः

महद्गुणानात्मनि कर्तुमीश:
क: स्तावकै: स्तावयतेऽसतोऽपि ।
तेऽस्याभविष्यन्निति विप्रलब्धो
जनावहासं कुमतिर्न वेद ॥ २४ ॥

महत् गुणान् आत्मनि कर्तुम् ईशः कः स्तावकैः स्तावयते असतः अपि ते अस्य अभविष्यन् इति विप्रलब्धः जन अवहासम् कुमतिः न वेद

प्रभवो ह्यात्मन: स्तोत्रं जुगुप्सन्त्यपि विश्रुता: ।
ह्रीमन्त: परमोदारा: पौरुषं वा विगर्हितम् ॥ २५ ॥

प्रभवः हि आत्मनः स्तोत्रम् जुगुप्सन्ति अपि विश्रुताः ह्री-मन्तः परम-उदाराः पौरुषम् वा विगर्हितम्

वयं त्वविदिता लोके सूताद्यापि वरीमभि: ।
कर्मभि: कथमात्मानं गापयिष्याम बालवत् ॥ २६ ॥

वयम् तु अविदिताः लोके सूत-आद्य अपि वरीमभिः कर्मभिः कथम् आत्मानम् गापयिष्याम बालवत्

४.१६

मैत्रेय उवाच
इति ब्रुवाणं नृपतिं गायका मुनिचोदिता: ।
तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥ १ ॥

मैत्रेयः उवाच इति ब्रुवाणम् नृपतिम् गायकाः मुनि चोदिताः तुष्टुवुः तुष्ट मनसः तत् वाक् अमृत सेवया

नालं वयं ते महिमानुवर्णने
यो देववर्योऽवततार मायया ।
वेनाङ्गजातस्य च पौरुषाणि ते
वाचस्पतीनामपि बभ्रमुर्धिय: ॥ २ ॥

न अलम् वयम् ते महिम अनुवर्णने यः देव वर्यः अवततार मायया वेन-अङ्ग जातस्य च पौरुषाणि ते वाचः-पतीनाम् अपि बभ्रमुः धियः

अथाप्युदारश्रवस: पृथोर्हरे:
कलावतारस्य कथामृताद‍ृता: ।
यथोपदेशं मुनिभि: प्रचोदिता:
श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥

अथ अपि उदार श्रवसः पृथोः हरेः कला अवतारस्य कथा अमृत आदृताः यथा उपदेशम् मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयम् वितन्महि

एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।
गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥

एषः धर्म-भृताम् श्रेष्ठः लोकम् धर्मे अनुवर्तयन् गोप्ता च धर्म-सेतूनाम् शास्ता तत्-परिपन्थिनाम्

एष वै लोकपालानां बिभर्त्येकस्तनौ तनू: ।
काले काले यथाभागं लोकयोरुभयोर्हितम् ॥ ५ ॥

एषः वै लोक-पालानाम् बिभर्ति एकः तनौ तनूः काले काले यथा भागम् लोकयोः उभयोः हितम्

वसु काल उपादत्ते काले चायं विमुञ्चति ।
सम: सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभु: ॥ ६ ॥

वसु काले उपादत्ते काले च अयम् विमुञ्चति समः सर्वेषु भूतेषु प्रतपन् सूर्य-वत् विभुः

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।
भूतानां करुण: शश्वदार्तानां क्षितिवृत्तिमान् ॥ ७ ॥

तितिक्षति अक्रमम् वैन्यः उपरि आक्रमताम् अपि भूतानाम् करुणः शश्वत् आर्तानाम् क्षिति-वृत्ति-मान्

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरि: ।
कृच्छ्रप्राणा: प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥ ८ ॥

देवे अवर्षति असौ देवः नर-देव वपुः हरिः कृच्छ्र-प्राणाः प्रजाः हि एषः रक्षिष्यति अञ्जसा इन्द्र-वत्

आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।
सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥

आप्याययति असौ लोकम् वदन अमृत-मूर्तिना स-अनुराग अवलोकेन विशद स्मित चारुणा

अव्यक्तवर्त्मैष निगूढकार्योगम्भीरवेधा उपगुप्तवित्त: ।
अनन्तमाहात्म्यगुणैकधामापृथु: प्रचेता इव
संवृतात्मा ॥ १० ॥

अव्यक्त वर्त्मा एषः निगूढ कार्यः गम्भीर वेधाः उपगुप्त वित्तः अनन्त माहात्म्य गुण एक-धामा पृथुः प्रचेताः इव संवृत आत्मा

दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।
नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनल: ॥ ११ ॥

दुरासदः दुर्विषहः आसन्नः अपि विदूर-वत् न एव अभिभवितुम् शक्यः वेन अरणि उत्थितः अनलः

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणै: ।
उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२


अन्तः बहिः च भूतानाम् पश्यन् कर्माणि चारणैः उदासीनः इव अध्यक्षः वायुः आत्मा इव देहिनाम्

नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।
दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थित: ॥ १३ ॥

न अदण्ड्यम् दण्डयति एषः सुतम् आत्म-द्विषाम् अपि दण्डयति आत्म-जम् अपि दण्ड्यम् धर्म-पथे स्थितः

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् ।
वर्तते भगवानर्को यावत्तपति गोगणै: ॥ १४ ॥

अस्य अप्रतिहतम् चक्रम् पृथोः आ-मानस-अचलात् वर्तते भगवान् अर्कः यावत् तपति गो-गणैः

रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितै: ।
अथामुमाहू राजानं मनोरञ्जनकै: प्रजा: ॥ १५ ॥

रञ्जयिष्यति यत् लोकम् अयम् आत्म विचेष्टितैः अथ अमुम् आहुः राजानम् मनः-रञ्जनकैः प्रजाः

द‍ृढव्रत: सत्यसन्धो ब्रह्मण्यो वृद्धसेवक: ।
शरण्य: सर्वभूतानां मानदो दीनवत्सल: ॥ १६ ॥

दृढ-व्रतः सत्य-सन्धः ब्रह्मण्यः वृद्ध-सेवकः शरण्यः सर्व-भूतानाम् मान-दः दीन-वत्सलः

मातृभक्ति: परस्त्रीषु पत्‍न्यामर्ध इवात्मन: ।
प्रजासु पितृवत्स्‍निग्ध: किङ्करो ब्रह्मवादिनाम्
॥ १७ ॥

मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्धः इव आत्मनः प्रजासु पितृ-वत् स्निग्धः किङ्करः ब्रह्म-वादिनाम्

देहिनामात्मवत्प्रेष्ठ: सुहृदां नन्दिवर्धन: ।
मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥ १८ ॥

देहिनाम् आत्म-वत् प्रेष्ठः सुहृदाम् नन्दि-वर्धनः मुक्त-सङ्ग प्रसङ्गः अयम् दण्ड-पाणिः असाधुषु

अयं तु साक्षाद्भगवांस्त्र्यधीश:कूटस्थ आत्मा कलयावतीर्ण: ।
यस्मिन्नविद्यारचितं
निरर्थकंपश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥

अयम् तु साक्षात् भगवान् त्रि-अधीशः कूट-स्थः आत्मा कलया अवतीर्णः यस्मिन् अविद्या-रचितम् निरर्थकम् पश्यन्ति नानात्वम् अपि प्रतीतम्

अयं भुवो मण्डलमोदयाद्रे-र्गोप्तैकवीरो नरदेवनाथ: ।
आस्थाय जैत्रं रथमात्तचाप:पर्यस्यते
दक्षिणतो यथार्क: ॥ २० ॥

अयम् भुवः मण्डलम् आ-उदय-अद्रेः गोप्ता एक वीरः नर-देव नाथः आस्थाय जैत्रम् रथम् आत्त-चापः पर्यस्यते दक्षिणतः यथा अर्कः

अस्मै नृपाला: किल तत्र तत्रबलिं हरिष्यन्ति सलोकपाला: ।
मंस्यन्त एषां स्त्रिय
आदिराजंचक्रायुधं तद्यश उद्धरन्त्य: ॥ २१ ॥

अस्मै नृ-पालाः किल तत्र तत्र बलिम् हरिष्यन्ति स लोक-पालाः मंस्यन्ते एषाम् स्त्रियः आदि-राजम् चक्र-आयुधम् तत् यशः उद्धरन्त्यः

अयं महीं गां दुदुहेऽधिराज:प्रजापतिर्वृत्तिकर: प्रजानाम् ।
यो लीलयाद्रीन्
स्वशरासकोट्याभिन्दन् समां गामकरोद्यथेन्द्र: ॥ २२ ॥

अयम् महीम् गाम् दुदुहे अधिराजः प्रजा-पतिः वृत्ति-करः प्रजानाम् यः लीलया अद्रीन् स्व-शरास कोट्या भिन्दन् समाम् गाम् अकरोत् यथा इन्द्रः

विस्फूर्जयन्नाजगवं धनु: स्वयंयदाचरत्क्ष्मामविषह्यमाजौ ।
तदा निलिल्युर्दिशि
दिश्यसन्तोलाङ्गूलमुद्यम्य यथा मृगेन्द्र: ॥ २३ ॥

विस्फूर्जयन् आज-गवम् धनुः स्वयम् यदा अचरत् क्ष्माम् अविषह्यम् आजौ तदा निलिल्युः दिशि दिशि असन्तः लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः

एषोऽश्वमेधाञ् शतमाजहारसरस्वती प्रादुरभावि यत्र ।
अहार्षीद्यस्य हयं पुरन्दर:शतक्रतुश्चरमे
वर्तमाने ॥ २४ ॥

एषः अश्वमेधान् शतम् आजहार सरस्वती प्रादुरभावि यत्र अहार्षीत् यस्य हयम् पुरन्दरः शत-क्रतुः चरमे वर्तमाने

एष स्वसद्मोपवने समेत्यसनत्कुमारं भगवन्तमेकम् ।
आराध्य भक्त्यालभतामलं तज्ज्ञानं यतो ब्रह्म परं
विदन्ति ॥ २५ ॥

एषः स्व-सद्म उपवने समेत्य सनत्-कुमारम् भगवन्तम् एकम् आराध्य भक्त्या अलभत अमलम् तत् ज्ञानम् यतः ब्रह्म परम् विदन्ति

तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रम: ।
श्रोष्यत्यात्माश्रिता गाथा: पृथु: पृथुपराक्रम:
॥ २६ ॥

तत्र तत्र गिरः ताः ताः इति विश्रुत-विक्रमः श्रोष्यति आत्म-आश्रिताः गाथाः पृथुः पृथु-पराक्रमः

दिशो विजित्याप्रतिरुद्धचक्र:स्वतेजसोत्पाटितलोकशल्य: ।
सुरासुरेन्द्रैरुपगीयमानमहानुभावो
भविता पतिर्भुव: ॥ २७ ॥

दिशः विजित्य अप्रतिरुद्ध चक्रः स्व-तेजसा उत्पाटित लोक-शल्यः सुर असुर इन्द्रैः उपगीयमान महा-अनुभावः भविता पतिः भुवः

४.१७

मैत्रेय उवाच
एवं स भगवान् वैन्य: ख्यापितो गुणकर्मभि: ।
छन्दयामास तान् कामै: प्रतिपूज्याभिनन्द्य च ॥
१ ॥

मैत्रेयः उवाच एवम् सः भगवान् वैन्यः ख्यापितः गुण-कर्मभिः छन्दयाम् आस तान् कामैः प्रतिपूज्य अभिनन्द्य च

ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधस: ।
पौराञ्जानपदान् श्रेणी: प्रकृती: समपूजयत् ॥ २


ब्राह्मण-प्रमुखान् वर्णान् भृत्य अमात्य पुरोधसः पौरान् जान-पदान् श्रेणीः प्रकृतीः समपूजयत्

विदुर उवाच
कस्माद्दधार गोरूपं धरित्री बहुरूपिणी ।
यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३ ॥

विदुरः उवाच कस्मात् दधार गो-रूपम् धरित्री बहु-रूपिणी याम् दुदोह पृथुः तत्र कः वत्सः दोहनम् च किम्

प्रकृत्या विषमा देवी कृता तेन समा कथम् ।
तस्य मेध्यं हयं देव: कस्य हेतोरपाहरत् ॥ ४ ॥

प्रकृत्या विषमा देवी कृता तेन समा कथम् तस्य मेध्यम् हयम् देवः कस्य हेतोः अपाहरत्

सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् ।
लब्ध्वा ज्ञानं सविज्ञानं राजर्षि: कां गतिं
गत: ॥ ५ ॥

सनत्-कुमारात् भगवतः ब्रह्मन् ब्रह्म-वित्-उत्तमात् लब्ध्वा ज्ञानम् स-विज्ञानम् राज-ऋषिः काम् गतिम् गतः

यच्चान्यदपि कृष्णस्य भवान् भगवत: प्रभो: ।
श्रव: सुश्रवस: पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च ।
वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ॥ ७ ॥

यत् च अन्यत् अपि कृष्णस्य भवान् भगवतः प्रभोः श्रवः सु-श्रवसः पुण्यम् पूर्व-देह कथा-आश्रयम् भक्ताय मे अनुरक्ताय तव च अधोक्षजस्य च वक्तुम् अर्हसि यः अदुह्यत् वैन्य-रूपेण गाम् इमाम्

सूत उवाच
चोदितो विदुरेणैवं वासुदेवकथां प्रति ।
प्रशस्य तं प्रीतमना मैत्रेय: प्रत्यभाषत ॥ ८ ॥

सूतः उवाच चोदितः विदुरेण एवम् वासुदेव कथाम् प्रति प्रशस्य तम् प्रीत-मनाः मैत्रेयः प्रत्यभाषत

मैत्रेय उवाच
यदाभिषिक्त: पृथुरङ्ग विप्रै-रामन्त्रितो जनतायाश्च पाल: ।
प्रजा निरन्ने क्षितिपृष्ठ
एत्यक्षुत्क्षामदेहा: पतिमभ्यवोचन् ॥ ९ ॥

मैत्रेयः उवाच यदा अभिषिक्तः पृथुः अङ्ग विप्रैः आमन्त्रितः जनतायाः च पालः प्रजाः निरन्ने क्षिति-पृष्ठे एत्य क्षुत् क्षाम देहाः पतिम् अभ्यवोचन्

वयं राजञ्जाठरेणाभितप्तायथाग्निना कोटरस्थेन वृक्षा: ।
त्वामद्य याता: शरणं शरण्यंय:
साधितो वृत्तिकर: पतिर्न: ॥ १० ॥ तन्नो भवानीहतु रातवेऽन्नंक्षुधार्दितानां नरदेवदेव ।
यावन्न नङ्‍क्ष्यामह उज्झितोर्जावार्तापतिस्त्वं किल लोकपाल: ॥ ११ ॥

वयम् राजन् जाठरेण अभितप्ताः यथा अग्निना कोटर-स्थेन वृक्षाः त्वाम् अद्य याताः शरणम् शरण्यम् यः साधितः वृत्ति-करः पतिः नः तत् नः भवान् ईहतु रातवे अन्नम् क्षुधा अर्दितानाम् नर-देव-देव यावत् न नङ्क्ष्यामहे उज्झित ऊर्जाः वार्ता पतिः त्वम् किल लोक-पालः

मैत्रेय उवाच
पृथु: प्रजानां करुणं निशम्य परिदेवितम् ।
दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥

मैत्रेयः उवाच पृथुः प्रजानाम् करुणम् निशम्य परिदेवितम् दीर्घम् दध्यौ कुरु-श्रेष्ठ निमित्तम् सः अन्वपद्यत

इति व्यवसितो बुद्ध्या प्रगृहीतशरासन: ।
सन्दधे विशिखं भूमे: क्रुद्धस्त्रिपुरहा यथा ॥ १३ ॥

इति व्यवसितः बुद्ध्या प्रगृहीत शरासनः सन्दधे विशिखम् भूमेः क्रुद्धः त्रि-पुर-हा यथा

प्रवेपमाना धरणी निशाम्योदायुधं च तम् ।
गौ: सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता ॥ १४ ॥

प्रवेपमाना धरणी निशाम्य उदायुधम् च तम् गौः सती अपाद्रवत् भीता मृगी इव मृगयु द्रुता

तामन्वधावत्तद्वैन्य: कुपितोऽत्यरुणेक्षण: ।
शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५ ॥

ताम् अन्वधावत् तत् वैन्यः कुपितः अति-अरुण ईक्षणः शरम् धनुषि सन्धाय यत्र यत्र पलायते

सा दिशो विदिशो देवी रोदसी चान्तरं तयो: ।
धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६


सा दिशः विदिशः देवी रोदसी च अन्तरम् तयोः धावन्ती तत्र तत्र एनम् ददर्श अनु उद्यत आयुधम्

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजा: ।
त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥

लोके न अविन्दत त्राणम् वैन्यात् मृत्योः इव प्रजाः त्रस्ता तदा निववृते हृदयेन विदूयता

उवाच च महाभागं धर्मज्ञापन्नवत्सल ।
त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८ ॥

उवाच च महा-भागम् धर्म-ज्ञ आपन्न-वत्सल त्राहि माम् अपि भूतानाम् पालने अवस्थितः भवान्

स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम् ।
अहनिष्यत्कथं योषां धर्मज्ञ इति यो मत: ॥ १९


सः त्वम् जिघांससे कस्मात् दीनाम् अकृत किल्बिषाम् अहनिष्यत् कथम् योषाम् धर्म-ज्ञः इति यः मतः

प्रहरन्ति न वै स्त्रीषु कृताग:स्वपि जन्तव: ।
किमुत त्वद्विधा राजन् करुणा दीनवत्सला: ॥
२० ॥

प्रहरन्ति न वै स्त्रीषु कृत-आगःसु अपि जन्तवः किम् उत त्वत्-विधाः राजन् करुणाः दीन-वत्सलाः

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् ।
आत्मानं च प्रजाश्चेमा: कथमम्भसि धास्यसि
॥ २१ ॥

माम् विपाट्य अजराम् नावम् यत्र विश्वम् प्रतिष्ठितम् आत्मानम् च प्रजाः च इमाः कथम् अम्भसि धास्यसि

पृथुरुवाच
वसुधे त्वां वधिष्यामि मच्छासनपराङ्‍मुखीम् ।
भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥
२२ ॥

पृथुः उवाच वसु-धे त्वाम् वधिष्यामि मत् शासन पराक्-मुखीम् भागम् बर्हिषि या वृङ्क्ते न तनोति च नः वसु

यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पय: ।
तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३ ॥

यवसम् जग्धि अनुदिनम् न एव दोग्धि औधसम् पयः तस्याम् एवम् हि दुष्टायाम् दण्डः न अत्र न शस्यते

त्वं खल्वोषधिबीजानि प्राक् सृष्टानि स्वयम्भुवा ।
न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधी:
॥ २४ ॥

त्वम् खलु ओषधि बीजानि प्राक् सृष्टानि स्वयम्भुवा न मुञ्चसि आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः

अमूषां क्षुत्परीतानामार्तानां परिदेवितम् ।
शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेदसा ॥ २५ ॥

अमूषाम् क्षुत्-परीतानाम् आर्तानाम् परिदेवितम् शमयिष्यामि मत्-बाणैः भिन्नायाः तव मेदसा

पुमान् योषिदुत क्लीब आत्मसम्भावनोऽधम: ।
भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवध: ॥ २६ ॥

पुमान् योषित् उत क्लीबः आत्म-सम्भावनः अधमः भूतेषु निरनुक्रोशः नृपाणाम् तत् वधः अवधः

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलश: शरै: ।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजा: ॥ २७ ॥

त्वाम् स्तब्धाम् दुर्मदाम् नीत्वा माया-गाम् तिलशः शरैः आत्म योग-बलेन इमाः धारयिष्यामि अहम् प्रजाः

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् ।
प्रणता प्राञ्जलि: प्राह मही सञ्जातवेपथु: ॥ २८ ॥

एवम् मन्यु-मयीम् मूर्तिम् कृत-अन्तम् इव बिभ्रतम् प्रणता प्राञ्जलिः प्राह मही सञ्जात वेपथुः

धरोवाच
नम: परस्मै पुरुषाय मायया
विन्यस्तनानातनवे गुणात्मने ।
नम: स्वरूपानुभवेन निर्धुत
द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९ ॥

धरा उवाच नमः परस्मै पुरुषाय मायया विन्यस्त नाना तनवे गुण-आत्मने नमः स्वरूप अनुभवेन निर्धुत द्रव्य क्रिया कारक विभ्रम ऊर्मये

येनाहमात्मायतनं विनिर्मिता
धात्रा यतोऽयं गुणसर्गसङ्ग्रह: ।
स एव मां हन्तुमुदायुध: स्वरा-
डुपस्थितोऽन्यं शरणं कमाश्रये ॥ ३० ॥

येन अहम् आत्म-आयतनम् विनिर्मिता धात्रा यतः अयम् गुण-सर्ग-सङ्ग्रहः सः एव माम् हन्तुम् उदायुधः स्वराट् उपस्थितः अन्यम् शरणम् कम् आश्रये

य एतदादावसृजच्चराचरं
स्वमाययात्माश्रययावितर्क्यया ।
तयैव सोऽयं किल गोप्तुमुद्यत:
कथं नु मां धर्मपरो जिघांसति ॥ ३१ ॥

यः एतत् आदौ असृजत् चर-अचरम् स्व-मायया आत्म-आश्रयया अवितर्क्यया तया एव सः अयम् किल गोप्तुम् उद्यतः कथम् नु माम् धर्म-परः जिघांसति

नूनं बतेशस्य समीहितं जनै-
स्तन्मायया दुर्जययाकृतात्मभि: ।
न लक्ष्यते यस्त्वकरोदकारयद्
योऽनेक एक: परतश्च ईश्वर: ॥ ३२ ॥

नूनम् बत ईशस्य समीहितम् जनैः तत्-मायया दुर्जयया अकृत-आत्मभिः न लक्ष्यते यः तु अकरोत् अकारयत् यः अनेकः एकः परतः च ईश्वरः

सर्गादि योऽस्यानुरुणद्धि शक्तिभि-
र्द्रव्यक्रियाकारकचेतनात्मभि: ।
तस्मै समुन्नद्धनिरुद्धशक्तये
नम: परस्मै पुरुषाय वेधसे ॥ ३३ ॥

सर्ग-आदि यः अस्य अनुरुणद्धि शक्तिभिः द्रव्य क्रिया कारक चेतना आत्मभिः तस्मै समुन्नद्ध निरुद्ध शक्तये नमः परस्मै पुरुषाय वेधसे

स वै भवानात्मविनिर्मितं जगद्
भूतेन्द्रियान्त:करणात्मकं विभो ।
संस्थापयिष्यन्नज मां रसातला-
दभ्युज्जहाराम्भस आदिसूकर: ॥ ३४ ॥

सः वै भवान् आत्म विनिर्मितम् जगत् भूत इन्द्रिय अन्तः-करण आत्मकम् विभो संस्थापयिष्यन् अज माम् रसातलात् अभ्युज्जहार अम्भसः आदि सूकरः

अपामुपस्थे मयि नाव्यवस्थिता:
प्रजा भवानद्य रिरक्षिषु: किल ।
स वीरमूर्ति: समभूद्धराधरो
यो मां पयस्युग्रशरो जिघांससि ॥ ३५ ॥

अपाम् उपस्थे मयि नावि अवस्थिताः प्रजाः भवान् अद्य रिरक्षिषुः किल सः वीर-मूर्तिः समभूत् धरा-धरः यः माम् पयसि उग्र-शरः जिघांससि

नूनं जनैरीहितमीश्वराणा-
मस्मद्विधैस्तद्गुणसर्गमायया ।
न ज्ञायते मोहितचित्तवर्त्मभि-
स्तेभ्यो नमो वीरयशस्करेभ्य: ॥ ३६ ॥

नूनम् जनैः ईहितम् ईश्वराणाम् अस्मत्-विधैः तत् गुण सर्ग मायया न ज्ञायते मोहित चित्त वर्त्मभिः तेभ्यः नमः वीर-यशः-करेभ्यः

४.१८

मैत्रेय उवाच
इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् ।
पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥

मैत्रेयः उवाच इत्थम् पृथुम् अभिष्टूय रुषा प्रस्फुरित अधरम् पुनः आह अवनिः भीता संस्तभ्य आत्मानम् आत्मना

सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे ।
सर्वत: सारमादत्ते यथा मधुकरो बुध: ॥ २ ॥

सन्नियच्छ अभिभो मन्युम् निबोध श्रावितम् च मे सर्वतः सारम् आदत्ते यथा मधु-करः बुधः

अस्मिँल्लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभि: ।
द‍ृष्टा योगा: प्रयुक्ताश्च पुंसां श्रेय:प्रसिद्धये ॥ ३ ॥

अस्मिन् लोके अथ वा अमुष्मिन् मुनिभिः तत्त्व दर्शिभिः दृष्टाः योगाः प्रयुक्ताः च पुंसाम् श्रेयः प्रसिद्धये

तानातिष्ठति य: सम्यगुपायान् पूर्वदर्शितान् ।
अवर: श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥

तान् आतिष्ठति यः सम्यक् उपायान् पूर्व दर्शितान् अवरः श्रद्धया उपेतः उपेयान् विन्दते अञ्जसा

ताननाद‍ृत्य योऽविद्वानर्थानारभते स्वयम् ।
तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुन: पुन: ॥ ५ ॥

तान् अनादृत्य यः अविद्वान् अर्थान् आरभते स्वयम् तस्य व्यभिचरन्ति अर्थाः आरब्धाः च पुनः पुनः

पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते ।
भुज्यमाना मया द‍ृष्टा असद्‌भिरधृतव्रतै: ॥ ६ ॥

पुरा सृष्टाः हि ओषधयः ब्रह्मणा याः विशाम्-पते भुज्यमानाः मया दृष्टाः असद्भिः अधृत-व्रतैः

अपालितानाद‍ृता च भवद्‌भिर्लोकपालकै: ।
चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधी: ॥ ७ ॥

अपालिता अनादृता च भवद्भिः लोक-पालकैः चोरी-भूते अथ लोके अहम् यज्ञ-अर्थे अग्रसम् ओषधीः

नूनं ता वीरुध: क्षीणा मयि कालेन भूयसा ।
तत्र योगेन द‍ृष्टेन भवानादातुमर्हति ॥ ८ ॥

नूनम् ताः वीरुधः क्षीणाः मयि कालेन भूयसा तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति

वत्सं कल्पय मे वीर येनाहं वत्सला तव ।
धोक्ष्ये क्षीरमयान्कामाननुरूपं च दोहनम् ॥ ९ ॥
दोग्धारं च महाबाहो भूतानां भूतभावन ।
अन्नमीप्सितमूर्जस्वद्भगवान् वाञ्छते यदि ॥ १० ॥

वत्सम् कल्पय मे वीर येन अहम् वत्सला तव धोक्ष्ये क्षीर-मयान् कामान् अनुरूपम् च दोहनम् दोग्धारम् च महा-बाहो भूतानाम् भूत-भावन अन्नम् ईप्सितम् ऊर्जः-वत् भगवान् वाञ्छते यदि

समां च कुरु मां राजन्देववृष्टं यथा पय: ।
अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥

समाम् च कुरु माम् राजन् देव-वृष्टम् यथा पयः अप-ऋतौ अपि भद्रम् ते उपावर्तेत मे विभो

इति प्रियं हितं वाक्यं भुव आदाय भूपति: ।
वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधी: ॥ १२ ॥

इति प्रियम् हितम् वाक्यम् भुवः आदाय भू-पतिः वत्सम् कृत्वा मनुम् पाणौ अदुहत् सकल ओषधीः

तथापरे च सर्वत्र सारमाददते बुधा: ।
ततोऽन्ये च यथाकामं दुदुहु: पृथुभाविताम् ॥ १३ ॥

तथा अपरे च सर्वत्र सारम् आददते बुधाः ततः अन्ये च यथा-कामम् दुदुहुः पृथु-भाविताम्

ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम ।
वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥

ऋषयः दुदुहुः देवीम् इन्द्रियेषु अथ सत्तम वत्सम् बृहस्पतिम् कृत्वा पयः छन्दः-मयम् शुचि

कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।
हिरण्मयेन पात्रेण वीर्यमोजो बलं पय: ॥ १५ ॥

कृत्वा वत्सम् सुर-गणाः इन्द्रम् सोमम् अदूदुहन् हिरण्मयेन पात्रेण वीर्यम् ओजः बलम् पयः

दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् ।
विधायादूदुहन् क्षीरमय:पात्रे सुरासवम् ॥ १६ ॥

दैतेयाः दानवाः वत्सम् प्रह्लादम् असुर ऋषभम् विधाय अदूदुहन् क्षीरम् अयः पात्रे सुरा आसवम्

गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पय: ।
वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥

गन्धर्व अप्सरसः अधुक्षन् पात्रे पद्म-मये पयः वत्सम् विश्वावसुम् कृत्वा गान्धर्वम् मधु सौभगम्

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत ।
आमपात्रे महाभागा: श्रद्धया श्राद्धदेवता: ॥ १८ ॥

वत्सेन पितरः अर्यम्णा कव्यम् क्षीरम् अधुक्षत आम-पात्रे महा-भागाः श्रद्धया श्राद्ध-देवताः

प्रकल्प्य वत्सं कपिलं सिद्धा: सङ्कल्पनामयीम् ।
सिद्धिं नभसि विद्यां च ये च विद्याधरादय: ॥ १९ ॥

प्रकल्प्य वत्सम् कपिलम् सिद्धाः सङ्कल्पना-मयीम् सिद्धिम् नभसि विद्याम् च ये च विद्याधर-आदयः

अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम् ।
मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥

अन्ये च मायिनः मायाम् अन्तर्धान अद्भुत आत्मनाम् मयम् प्रकल्प्य वत्सम् ते दुदुहुः धारणामयीम्

यक्षरक्षांसि भूतानि पिशाचा: पिशिताशना: ।
भूतेशवत्सा दुदुहु: कपाले क्षतजासवम् ॥ २१ ॥

यक्ष रक्षांसि भूतानि पिशाचाः पिशित-अशनाः भूतेश वत्साः दुदुहुः कपाले क्षत-ज आसवम्

तथाहयो दन्दशूका: सर्पा नागाश्च तक्षकम् ।
विधाय वत्सं दुदुहुर्बिलपात्रे विषं पय: ॥ २२ ॥

तथा अहयः दन्दशूकाः सर्पाः नागाः च तक्षकम् विधाय वत्सम् दुदुहुः बिल-पात्रे विषम् पयः

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् ।
अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिण: ॥ २३ ॥
क्रव्यादा: प्राणिन: क्रव्यं दुदुहु: स्वे कलेवरे ।
सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥ २४ ॥

पशवः यवसम् क्षीरम् वत्सम् कृत्वा च गो-वृषम् अरण्य-पात्रे च अधुक्षन् मृग-इन्द्रेण च दंष्ट्रिणः क्रव्य-अदाः प्राणिनः क्रव्यम् दुदुहुः स्वे कलेवरे सुपर्ण वत्साः विहगाः चरम् च अचरम् एव च

वटवत्सा वनस्पतय: पृथग्रसमयं पय: ।
गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥

वट-वत्साः वनः-पतयः पृथक् रस-मयम् पयः गिरयः हिमवत्-वत्साः नाना धातून् स्व सानुषु

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पय: ।
सर्वकामदुघां पृथ्वीं दुदुहु: पृथुभाविताम् ॥ २६ ॥

सर्वे स्व-मुख्य वत्सेन स्वे स्वे पात्रे पृथक् पयः सर्व-काम दुघाम् पृथ्वीम् दुदुहुः पृथु-भाविताम्

एवं पृथ्वादय: पृथ्वीमन्नादा: स्वन्नमात्मन: ।
दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥

एवम् पृथु-आदयः पृथ्वीम् अन्न-अदाः सु-अन्नम् आत्मनः दोह वत्स-आदि भेदेन क्षीर भेदम् कुरु-उद्वह

ततो महीपति: प्रीत: सर्वकामदुघां पृथु: ।
दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सल: ॥ २८ ॥

ततः मही-पतिः प्रीतः सर्व-काम दुघाम् पृथुः दुहितृत्वे चकार इमाम् प्रेम्णा दुहितृ-वत्सलः

चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट् ।
भूमण्डलमिदं वैन्य: प्रायश्चक्रे समं विभु: ॥ २९ ॥

चूर्णयन् स्व धनुः-कोट्या गिरि कूटानि राज-राट् भू-मण्डलम् इदम् वैन्यः प्रायः चक्रे समम् विभुः

अथास्मिन् भगवान् वैन्य: प्रजानां वृत्तिद: पिता ।
निवासान् कल्पयां चक्रे तत्र तत्र यथार्हत: ॥ ३० ॥

अथ अस्मिन् भगवान् वैन्यः प्रजानाम् वृत्तिदः पिता निवासान् कल्पयाम् चक्रे तत्र तत्र यथा अर्हतः

ग्रामान् पुर: पत्तनानि दुर्गाणि विविधानि च ।
घोषान् व्रजान् सशिबिरानाकरान् खेटखर्वटान् ॥ ३१ ॥

ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च घोषान् व्रजान् स-शिबिरान् आकरान् खेट खर्वटान्

प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना ।
यथासुखं वसन्ति स्म तत्र तत्राकुतोभया: ॥ ३२ ॥

प्राक् पृथोः इह न एव एषा पुर ग्राम-आदि कल्पना यथा सुखम् वसन्ति स्म तत्र तत्र अकुतः-भयाः

४.१९

मैत्रेय उवाच
अथादीक्षत राजा तु हयमेधशतेन स: ।
ब्रह्मावर्ते मनो: क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥

मैत्रेयः उवाच अथ अदीक्षत राजा तु हय मेध शतेन सः ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती

तदभिप्रेत्य भगवान् कर्मातिशयमात्मन: ।
शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥

तत् अभिप्रेत्य भगवान् कर्म-अतिशयम् आत्मनः शत-क्रतुः न ममृषे पृथोः यज्ञ महा-उत्सवम्

यत्र यज्ञपति: साक्षाद्भगवान् हरिरीश्वर: ।
अन्वभूयत सर्वात्मा सर्वलोकगुरु: प्रभु: ॥ ३ ॥

यत्र यज्ञ-पतिः साक्षात् भगवान् हरिः ईश्वरः अन्वभूयत सर्व-आत्मा सर्व-लोक-गुरुः प्रभुः

अन्वितो ब्रह्मशर्वाभ्यां लोकपालै: सहानुगै: ।
उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणै: ॥ ४ ॥

अन्वितः ब्रह्म शर्वाभ्याम् लोक-पालैः सह अनुगैः उपगीयमानः गन्धर्वैः मुनिभिः च अप्सरः-गणैः

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादय: ।
सुनन्दनन्दप्रमुखा: पार्षदप्रवरा हरे: ॥ ५ ॥

सिद्धाः विद्याधराः दैत्याः दानवाः गुह्यक-आदयः सुनन्द-नन्द-प्रमुखाः पार्षद प्रवराः हरेः

कपिलो नारदो दत्तो योगेशा: सनकादय: ।
तमन्वीयुर्भागवता ये च तत्सेवनोत्सुका: ॥ ६ ॥

कपिलः नारदः दत्तः योग-ईशाः सनक-आदयः तम् अन्वीयुः भागवताः ये च तत्-सेवन-उत्सुकाः

यत्र धर्मदुघा भूमि: सर्वकामदुघा सती ।
दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥ ७ ॥

यत्र धर्म-दुघा भूमिः सर्व-काम दुघा सती दोग्धि स्म अभीप्सितान् अर्थान् यजमानस्य भारत

ऊहु: सर्वरसान्नद्य: क्षीरदध्यन्नगोरसान् ।
तरवो भूरिवर्ष्माण: प्रासूयन्त मधुच्युत: ॥ ८ ॥

ऊहुः सर्व-रसान् नद्यः क्षीर दधि अन्न गो-रसान् तरवः भूरि वर्ष्माणः प्रासूयन्त मधु-च्युतः

सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् ।
उपायनमुपाजह्रु: सर्वे लोका: सपालका: ॥ ९ ॥

सिन्धवः रत्न-निकरान् गिरयः अन्नम् चतुः-विधम् उपायनम् उपाजह्रुः सर्वे लोकाः स-पालकाः

इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् ।
असूयन् भगवानिन्द्र: प्रतिघातमचीकरत् ॥ १० ॥

इति च अधोक्षज-ईशस्य पृथोः तु परम उदयम् असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत्

चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।
वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहित: ॥ ११ ॥

चरमेण अश्व-मेधेन यजमाने यजुः-पतिम् वैन्ये यज्ञ-पशुम् स्पर्धन् अपोवाह तिरोहितः

तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा ।
आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रम: ॥ १२ ॥

तम् अत्रिः भगवान् ऐक्षत् त्वरमाणम् विहायसा आमुक्तम् इव पाखण्डम् यः अधर्मे धर्म विभ्रमः

अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथ: ।
अन्वधावत सङ्‍कुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥

अत्रिणा चोदितः हन्तुम् पृथु-पुत्रः महा-रथः अन्वधावत सङ्क्रुद्धः तिष्ठ तिष्ठ इति च अब्रवीत्

तं ताद‍ृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥

तम् तादृश-आकृतिम् वीक्ष्य मेने धर्मम् शरीरिणम् जटिलम् भस्मना आच्छन्नम् तस्मै बाणम् न मुञ्चति

वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् ।
जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५ ॥

वधात् निवृत्तम् तम् भूयः हन्तवे अत्रिः अचोदयत् जहि यज्ञ-हनम् तात महा-इन्द्रम् विबुध-अधमम्

एवं वैन्यसुत: प्रोक्तस्त्वरमाणं विहायसा ।
अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥

एवम् वैन्य-सुतः प्रोक्तः त्वरमाणम् विहायसा अन्वद्रवत् अभिक्रुद्धः रावणम् गृध्र-राट् इव

सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हित: स्वराट् ।
वीर: स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥

सः अश्वम् रूपम् च तत् हित्वा तस्मै अन्तर्हितः स्व-राट् वीरः स्व-पशुम् आदाय पितुः यज्ञम् उपेयिवान्

तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षय: ।
नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥

तत् तस्य च अद्भुतम् कर्म विचक्ष्य परम-ऋषयः नामधेयम् ददुः तस्मै विजित-अश्वः इति प्रभो

उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरि: ।
चषालयूपतश्छन्नो हिरण्यरशनं विभु: ॥ १९ ॥

उपसृज्य तमः तीव्रम् जहार अश्वम् पुनः हरिः चषाल-यूपतः छन्नः हिरण्य-रशनम् विभुः

अत्रि: सन्दर्शयामास त्वरमाणं विहायसा ।
कपालखट्‍वाङ्गधरं वीरो नैनमबाधत ॥ २० ॥

अत्रिः सन्दर्शयाम् आस त्वरमाणम् विहायसा कपाल-खट्वाङ्ग धरम् वीरः न एनम् अबाधत

अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।
सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हित: स्वराट् ॥ २१ ॥

अत्रिणा चोदितः तस्मै सन्दधे विशिखम् रुषा सः अश्वम् रूपम् च तत् हित्वा तस्थौ अन्तर्हितः स्व-राट्

वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।
तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बला: ॥ २२ ॥

वीरः च अश्वम् उपादाय पितृ-यज्ञम् अथ अव्रजत् तत् अवद्यम् हरेः रूपम् जगृहुः ज्ञान-दुर्बलाः

यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।
तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥ २३ ॥

यानि रूपाणि जगृहे इन्द्रः हय जिहीर्षया तानि पापस्य खण्डानि लिङ्गम् खण्डम् इह उच्यते

एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।
तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४ ॥
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।
प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥

एवम् इन्द्रे हरति अश्वम् वैन्य यज्ञ जिघांसया तत् गृहीत विसृष्टेषु पाखण्डेषु मतिः नृणाम् धर्मः इति उपधर्मेषु नग्न रक्त-पट आदिषु प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु

तदभिज्ञाय भगवान्पृथु: पृथुपराक्रम: ।
इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुक: ॥ २६ ॥

तत् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः इन्द्राय कुपितः बाणम् आदत्त उद्यत कार्मुकः

तमृत्विज: शक्रवधाभिसन्धितंविचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् ।
निवारयामासुरहो महामतेन
युज्यतेऽत्रान्यवध: प्रचोदितात् ॥ २७ ॥

तम् ऋत्विजः शक्र-वध अभिसन्धितम् विचक्ष्य दुष्प्रेक्ष्यम् असह्य रंहसम् निवारयाम् आसुः अहो महा-मते न युज्यते अत्र अन्य वधः प्रचोदितात्

वयं मरुत्वन्तमिहार्थनाशनंह्वयामहे त्वच्छ्रवसा हतत्विषम् ।
अयातयामोपहवैरनन्तरंप्रसह्य राजन्
जुहवाम तेऽहितम् ॥ २८ ॥

वयम् मरुत्-वन्तम् इह अर्थ नाशनम् ह्वयामहे त्वत्-श्रवसा हत-त्विषम् अयातयाम उपहवैः अनन्तरम् प्रसह्य राजन् जुहवाम ते अहितम्

इत्यामन्‍त्र्‍य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।
स्रुग्घस्ताञ्जुह्वतोऽभ्येत्य स्वयम्भू: प्रत्यषेधत ॥ २९ ॥

इति आमन्त्र्य क्रतु-पतिम् विदुर अस्य ऋत्विजः रुषा स्रुक्-हस्तान् जुह्वतः अभ्येत्य स्वयम्भूः प्रत्यषेधत

न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनु: ।
यं जिघांसथ यज्ञेन यस्येष्टास्तनव: सुरा: ॥ ३० ॥

न वध्यः भवताम् इन्द्रः यत् यज्ञः भगवत्-तनुः यम् जिघांसथ यज्ञेन यस्य इष्टाः तनवः सुराः

तदिदं पश्यत महद्धर्मव्यतिकरं द्विजा: ।
इन्द्रेणानुष्ठितं राज्ञ: कर्मैतद्विजिघांसता ॥ ३१ ॥

तत् इदम् पश्यत महत् धर्म व्यतिकरम् द्विजाः इन्द्रेण अनुष्ठितम् राज्ञः कर्म एतत् विजिघांसता

पृथुकीर्ते: पृथोर्भूयात्तर्ह्येकोनशतक्रतु: ।
अलं ते क्रतुभि: स्विष्टैर्यद्भवान्मोक्षधर्मवित् ॥ ३२


पृथु-कीर्तेः पृथोः भूयात् तर्हि एक-ऊन-शत-क्रतुः अलम् ते क्रतुभिः सु-इष्टैः यत् भवान् मोक्ष-धर्म-वित्

नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।
उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥

न एव आत्मने महा-इन्द्राय रोषम् आहर्तुम् अर्हसि उभौ अपि हि भद्रम् ते उत्तम-श्लोक-विग्रहौ

मास्मिन्महाराज कृथा: स्म चिन्तांनिशामयास्मद्वच आद‍ृतात्मा ।
यद्ध्यायतो दैवहतं नु
कर्तुंमनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४ ॥

मा अस्मिन् महा-राज कृथाः स्म चिन्ताम् निशामय अस्मत् वचः आदृत-आत्मा यत् ध्यायतः दैव-हतम् नु कर्तुम् मनः अति-रुष्टम् विशते तमः अन्धम्

क्रतुर्विरमतामेष देवेषु दुरवग्रह: ।
धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितै: ॥ ३५ ॥

क्रतुः विरमताम् एषः देवेषु दुरवग्रहः धर्म-व्यतिकरः यत्र पाखण्डैः इन्द्र निर्मितैः

एभिरिन्द्रोपसंसृष्टै: पाखण्डैर्हारिभिर्जनम् ।
ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥

एभिः इन्द्र-उपसंसृष्टैः पाखण्डैः हारिभिः जनम् ह्रियमाणम् विचक्ष्व एनम् यः ते यज्ञ-ध्रुक् अश्व-मुट्

भवान् परित्रातुमिहावतीर्णो
धर्मं जनानां समयानुरूपम् ।
वेनापचारादवलुप्तमद्य
तद्देहतो विष्णुकलासि वैन्य ॥ ३७ ॥

भवान् परित्रातुम् इह अवतीर्णः धर्मम् जनानाम् समय-अनुरूपम् वेन-अपचारात् अवलुप्तम् अद्य तत् देहतः विष्णु कला असि वैन्य

स त्वं विमृश्यास्य भवं प्रजापते
सङ्कल्पनं विश्वसृजां पिपीपृहि ।
ऐन्द्रीं च मायामुपधर्ममातरं
प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥

सः त्वम् विमृश्य अस्य भवम् प्रजा-पते सङ्कल्पनम् विश्व-सृजाम् पिपीपृहि ऐन्द्रीम् च मायाम् उपधर्म मातरम् प्रचण्ड पाखण्ड-पथम् प्रभो जहि

मैत्रेय उवाच
इत्थं स लोकगुरुणा समादिष्टो विशाम्पति: ।
तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥

मैत्रेयः उवाच इत्थम् सः लोक-गुरुणा समादिष्टः विशाम्-पतिः तथा च कृत्वा वात्सल्यम् मघोना अपि च सन्दधे

कृतावभृथस्‍नानाय पृथवे भूरिकर्मणे ।
वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिता: ॥ ४० ॥

कृत अवभृथ-स्नानाय पृथवे भूरि-कर्मणे वरान् ददुः ते वर-दाः ये तत्-बर्हिषि तर्पिताः

विप्रा: सत्याशिषस्तुष्टा: श्रद्धया लब्धदक्षिणा: ।
आशिषो युयुजु: क्षत्तरादिराजाय सत्कृता: ॥ ४१ ॥

विप्राः सत्य आशिषः तुष्टाः श्रद्धया लब्ध-दक्षिणाः आशिषः युयुजुः क्षत्तः आदि-राजाय सत्-कृताः

त्वयाहूता महाबाहो सर्व एव समागता: ।
पूजिता दानमानाभ्यां पितृदेवर्षिमानवा: ॥ ४२ ॥

त्वया आहूताः महा-बाहो सर्वे एव समागताः पूजिताः दान मानाभ्याम् पितृ देव ऋषि मानवाः

४.२०

मैत्रेयः उवाच भगवान् अपि वैकुण्ठः साकम् मघवता विभुः यज्ञैः यज्ञ-पतिः तुष्टः यज्ञ-भुक् तम् अभाषत

श्रीभगवानुवाच
एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह ।
क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥ २ ॥

श्री-भगवान् उवाच एषः ते अकार्षीत् भङ्गम् हय मेध शतस्य ह क्षमापयतः आत्मानम् अमुष्य क्षन्तुम् अर्हसि

सुधिय: साधवो लोके नरदेव नरोत्तमा: ।
नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३ ॥

सु-धियः साधवः लोके नर-देव नर-उत्तमाः न अभिद्रुह्यन्ति भूतेभ्यः यर्हि न आत्मा कलेवरम्

पुरुषा यदि मुह्यन्ति त्वाद‍ृशा देवमायया ।
श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४ ॥

पुरुषाः यदि मुह्यन्ति त्वादृशाः देव मायया श्रमः एव परम् जातः दीर्घया वृद्ध-सेवया

अत: कायमिमं विद्वानविद्याकामकर्मभि: ।
आरब्ध इति नैवास्मिन्प्रतिबुद्धोऽनुषज्जते ॥ ५ ॥

अतः कायम् इमम् विद्वान् अविद्या काम कर्मभिः आरब्धः इति न एव अस्मिन् प्रतिबुद्धः अनुषज्जते

असंसक्त: शरीरेऽस्मिन्नमुनोत्पादिते गृहे ।
अपत्ये द्रविणे वापि क: कुर्यान्ममतां बुध: ॥ ६ ॥

असंसक्तः शरीरे अस्मिन् अमुना उत्पादिते गृहे अपत्ये द्रविणे वा अपि कः कुर्यात् ममताम् बुधः

एक: शुद्ध: स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रय: ।
सर्वगोऽनावृत: साक्षी निरात्मात्मात्मन: पर: ॥ ७ ॥

एकः शुद्धः स्वयम् ज्योतिः निर्गुणः असौ गुण-आश्रयः सर्व-गः अनावृतः साक्षी निरात्मा आत्म-आत्मनः परः

य एवं सन्तमात्मानमात्मस्थं वेद पूरुष: ।
नाज्यते प्रकृतिस्थोऽपि तद्गुणै: स मयि स्थित: ॥ ८ ॥

यः एवम् सन्तम् आत्मानम् आत्म-स्थम् वेद पूरुषः न अज्यते प्रकृति स्थः अपि तत्-गुणैः सः मयि स्थितः

य: स्वधर्मेण मां नित्यं निराशी: श्रद्धयान्वित: ।
भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९ ॥

यः स्व-धर्मेण माम् नित्यम् निराशीः श्रद्धया अन्वितः भजते शनकैः तस्य मनः राजन् प्रसीदति

परित्यक्तगुण: सम्यग्दर्शनो विशदाशय: ।
शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥ १० ॥

परित्यक्त-गुणः सम्यक् दर्शनः विशद आशयः शान्तिम् मे समवस्थानम् ब्रह्म कैवल्यम् अश्नुते

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।
कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ ११ ॥

उदासीनम् इव अध्यक्षम् द्रव्य ज्ञान क्रिया आत्मनाम् कूट-स्थम् इमम् आत्मानम् यः वेद आप्नोति शोभनम्

भिन्नस्य लिङ्गस्य गुणप्रवाहो
द्रव्यक्रियाकारकचेतनात्मन: ।
द‍ृष्टासु सम्पत्सु विपत्सु सूरयो
न विक्रियन्ते मयि बद्धसौहृदा: ॥ १२ ॥

भिन्नस्य लिङ्गस्य गुण प्रवाहः द्रव्य क्रिया कारक चेतना आत्मनः दृष्टासु सम्पत्सु विपत्सु सूरयः न विक्रियन्ते मयि बद्ध-सौहृदाः

सम: समानोत्तममध्यमाधम:
सुखे च दु:खे च जितेन्द्रियाशय: ।
मयोपक्लृप्ताखिललोकसंयुतो
विधत्स्व वीराखिललोकरक्षणम् ॥ १३ ॥

समः समान उत्तम मध्यम अधमः सुखे च दुःखे च जित-इन्द्रिय आशयः मया उपकॢप्त अखिल लोक संयुतः विधत्स्व वीर अखिल लोक रक्षणम्

श्रेय: प्रजापालनमेव राज्ञो
यत्साम्पराये सुकृतात् षष्ठमंशम् ।
हर्तान्यथा हृतपुण्य: प्रजाना-
मरक्षिता करहारोऽघमत्ति ॥ १४ ॥

श्रेयः प्रजा-पालनम् एव राज्ञः यत् साम्पराये सु-कृतात् षष्ठम् अंशम् हर्ता अन्यथा हृत-पुण्यः प्रजानाम् अरक्षिता कर-हारः अघम् अत्ति

एवं द्विजाग्र्यानुमतानुवृत्त
धर्मप्रधानोऽन्यतमोऽवितास्या: ।
ह्रस्वेन कालेन गृहोपयातान्
द्रष्टासि सिद्धाननुरक्तलोक: ॥ १५ ॥

एवम् द्विज अग्र्य अनुमत अनुवृत्त धर्म प्रधानः अन्यतमः अविता अस्याः ह्रस्वेन कालेन गृह उपयातान् द्रष्टासि सिद्धान् अनुरक्त-लोकः

वरं च मत्कञ्चन मानवेन्द्र
वृणीष्व तेऽहं गुणशीलयन्त्रित: ।
नाहं मखैर्वै सुलभस्तपोभि-
र्योगेन वा यत्समचित्तवर्ती ॥ १६ ॥

वरम् च मत् कञ्चन मानव-इन्द्र वृणीष्व ते अहम् गुण-शील यन्त्रितः न अहम् मखैः वै सु-लभः तपोभिः योगेन वा यत् सम-चित्त वर्ती

मैत्रेय उवाच
स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।
अनुशासित आदेशं शिरसा जगृहे हरे: ॥ १७ ॥

मैत्रेयः उवाच सः इत्थम् लोक-गुरुणा विष्वक्सेनेन विश्व-जित् अनुशासितः आदेशम् शिरसा जगृहे हरेः

स्पृशन्तं पादयो: प्रेम्णा व्रीडितं स्वेन कर्मणा ।
शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८ ॥

स्पृशन्तम् पादयोः प्रेम्णा व्रीडितम् स्वेन कर्मणा शत-क्रतुम् परिष्वज्य विद्वेषम् विससर्ज ह

भगवानथ विश्वात्मा पृथुनोपहृतार्हण: ।
समुज्जिहानया भक्त्या गृहीतचरणाम्बुज: ॥ १९ ॥

भगवान् अथ विश्व-आत्मा पृथुना उपहृत अर्हणः समुज्जिहानया भक्त्या गृहीत चरण-अम्बुजः

प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बित: ।
पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २० ॥

प्रस्थान अभिमुखः अपि एनम् अनुग्रह विलम्बितः पश्यन् पद्म-पलाश-अक्षः न प्रतस्थे सुहृत् सताम्

स आदिराजो रचिताञ्जलिर्हरिं
विलोकितुं नाशकदश्रुलोचन: ।
न किञ्चनोवाच स बाष्पविक्लवो
हृदोपगुह्यामुमधादवस्थित: ॥ २१ ॥

सः आदि-राजः रचित-अञ्जलिः हरिम् विलोकितुम् न अशकत् अश्रु-लोचनः न किञ्चन उवाच सः बाष्प-विक्लवः हृदा उपगुह्य अमुम् अधात् अवस्थितः

अथावमृज्याश्रुकला विलोकयन्-
नतृप्तद‍ृग्गोचरमाह पूरुषम् ।
पदा स्पृशन्तं क्षितिमंस उन्नते
विन्यस्तहस्ताग्रमुरङ्गविद्विष: ॥ २२ ॥

अथ अवमृज्य अश्रु-कलाः विलोकयन् अतृप्त दृक्-गोचरम् आह पूरुषम् पदा स्पृशन्तम् क्षितिम् अंसे उन्नते विन्यस्त हस्त अग्रम् उरङ्ग-विद्विषः

पृथुरुवाच
वरान्विभो त्वद्वरदेश्वराद् बुध:
कथं वृणीते गुणविक्रियात्मनाम् ।
ये नारकाणामपि सन्ति देहिनां
तानीश कैवल्यपते वृणे न च ॥ २३ ॥

पृथुः उवाच वरान् विभो त्वत् वर-द-ईश्वरात् बुधः कथम् वृणीते गुण-विक्रिया आत्मनाम् ये नारकाणाम् अपि सन्ति देहिनाम् तान् ईश कैवल्य-पते वृणे न च

न कामये नाथ तदप्यहं क्‍वचिन्
न यत्र युष्मच्चरणाम्बुजासव: ।
महत्तमान्तर्हृदयान्मुखच्युतो
विधत्स्व कर्णायुतमेष मे वर: ॥ २४ ॥

न कामये नाथ तत् अपि अहम् क्वचित् न यत्र युष्मत् चरण-अम्बुज आसवः महत्-तम अन्तः-हृदयात् मुख च्युतः विधत्स्व कर्ण अयुतम् एषः मे वरः

स उत्तमश्लोक महन्मुखच्युतो
भवत्पदाम्भोजसुधा कणानिल: ।
स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां
कुयोगिनां नो वितरत्यलं वरै: ॥ २५ ॥

सः उत्तम-श्लोक महत् मुख-च्युतः भवत् पद-अम्भोज सुधा कण अनिलः स्मृतिम् पुनः विस्मृत तत्त्व वर्त्मनाम् कु-योगिनाम् नः वितरति अलम् वरैः

यश: शिवं सुश्रव आर्यसङ्गमे
यद‍ृच्छया चोपश‍ृणोति ते सकृत् ।
कथं गुणज्ञो विरमेद्विना पशुं
श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥ २६ ॥

यशः शिवम् सु-श्रवः आर्य-सङ्गमे यदृच्छया च उपशृणोति ते सकृत् कथम् गुण-ज्ञः विरमेत् विना पशुम् श्रीः यत् प्रवव्रे गुण सङ्ग्रह इच्छया

अथाभजे त्वाखिलपूरुषोत्तमं
गुणालयं पद्मकरेव लालस: ।
अप्यावयोरेकपतिस्पृधो: कलि-
र्न स्यात्कृतत्वच्चरणैकतानयो: ॥ २७ ॥

अथ आभजे त्वा अखिल पूरुष-उत्तमम् गुण-आलयम् पद्म-करा इव लालसः अपि आवयोः एक-पति स्पृधोः कलिः न स्यात् कृत त्वत्-चरण एक-तानयोः

जगज्जनन्यां जगदीश वैशसं
स्यादेव यत्कर्मणि न: समीहितम् ।
करोषि फल्ग्वप्युरु दीनवत्सल:
स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८ ॥

जगत्-जनन्याम् जगत्-ईश वैशसम् स्यात् एव यत्-कर्मणि नः समीहितम् करोषि फल्गु अपि उरु दीन-वत्सलः स्वे एव धिष्ण्ये अभिरतस्य किम् तया

भजन्त्यथ त्वामत एव साधवो
व्युदस्तमायागुणविभ्रमोदयम् ।
भवत्पदानुस्मरणाद‍ृते सतां
निमित्तमन्यद्भगवन्न विद्महे ॥ २९ ॥

भजन्ति अथ त्वाम् अतः एव साधवः व्युदस्त माया-गुण विभ्रम उदयम् भवत् पद अनुस्मरणात् ऋते सताम् निमित्तम् अन्यत् भगवन् न विद्महे

मन्ये गिरं ते जगतां विमोहिनीं
वरं वृणीष्वेति भजन्तमात्थ यत् ।
वाचा नु तन्त्या यदि ते जनोऽसित:
कथं पुन: कर्म करोति मोहित: ॥ ३० ॥

मन्ये गिरम् ते जगताम् विमोहिनीम् वरम् वृणीष्व इति भजन्तम् आत्थ यत् वाचा नु तन्त्या यदि ते जनः असितः कथम् पुनः कर्म करोति मोहितः

त्वन्माययाद्धा जन ईश खण्डितो
यदन्यदाशास्त ऋतात्मनोऽबुध: ।
यथा चरेद् बालहितं पिता स्वयं
तथा त्वमेवार्हसि न: समीहितुम् ॥ ३१ ॥

त्वत् मायया अद्धा जनः ईश खण्डितः यत् अन्यत् आशास्ते ऋत आत्मनः अबुधः यथा चरेत् बाल-हितम् पिता स्वयम् तथा त्वम् एव अर्हसि नः समीहितुम्

मैत्रेय उवाच
इत्यादिराजेन नुत: स विश्वद‍ृक्
तमाह राजन्मयि भक्तिरस्तु ते ।
दिष्ट्येद‍ृशी धीर्मयि ते कृता यया
मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२ ॥

मैत्रेयः उवाच इति आदि-राजेन नुतः सः विश्व-दृक् तम् आह राजन् मयि भक्तिः अस्तु ते दिष्ट्या ईदृशी धीः मयि ते कृता यया मायाम् मदीयाम् तरति स्म दुस्त्यजाम्

तत्त्वं कुरु मयादिष्टमप्रमत्त: प्रजापते ।
मदादेशकरो लोक: सर्वत्राप्नोति शोभनम् ॥ ३३ ॥

तत् त्वम् कुरु मया आदिष्टम् अप्रमत्तः प्रजा-पते मत् आदेश-करः लोकः सर्वत्र आप्नोति शोभनम्

मैत्रेय उवाच
इति वैन्यस्य राजर्षे: प्रतिनन्द्यार्थवद्वच: ।
पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४ ॥

मैत्रेयः उवाच इति वैन्यस्य राज-ऋषेः प्रतिनन्द्य अर्थ-वत् वचः पूजितः अनुगृहीत्वा एनम् गन्तुम् चक्रे अच्युतः मतिम्

देवर्षिपितृगन्धर्वसिद्धचारणपन्नगा: ।
किन्नराप्सरसो मर्त्या: खगा भूतान्यनेकश: ॥ ३५ ॥
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तित: ।
सभाजिता ययु: सर्वे वैकुण्ठानुगतास्तत: ॥ ३६ ॥

देव ऋषि पितृ गन्धर्व सिद्ध चारण पन्नगाः किन्नर अप्सरसः मर्त्याः खगाः भूतानि अनेकशः यज्ञ-ईश्वर-धिया राज्ञा वाक् वित्त अञ्जलि भक्तितः सभाजिताः ययुः सर्वे वैकुण्ठ अनुगताः ततः

भगवानपि राजर्षे: सोपाध्यायस्य चाच्युत: ।
हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७ ॥

भगवान् अपि राज-ऋषेः स-उपाध्यायस्य च अच्युतः हरन् इव मनः अमुष्य स्व-धाम प्रत्यपद्यत

अद‍ृष्टाय नमस्कृत्य नृप: सन्दर्शितात्मने ।
अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८ ॥

अदृष्टाय नमः-कृत्य नृपः सन्दर्शित आत्मने अव्यक्ताय च देवानाम् देवाय स्व-पुरम् ययौ

४.२१

मैत्रेयः उवाच मौक्तिकैः कुसुम स्रग्भिः दुकूलैः स्वर्ण तोरणैः महा-सुरभिभिः धूपैः मण्डितम् तत्र तत्र वै

चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् ।
पुष्पाक्षतफलैस्तोक्‍मैर्लाजैरर्चिर्भिरर्चितम् ॥ २ ॥

चन्दन अगुरु तोय आर्द्र रथ्या चत्वर मार्गवत् पुष्प अक्षत फलैः तोक्मैः लाजैः अर्चिर्भिः अर्चितम्

सवृन्दै: कदलीस्तम्भै: पूगपोतै: परिष्कृतम् ।
तरुपल्लवमालाभि: सर्वत: समलङ्‌कृतम् ॥ ३ ॥

स-वृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् तरु पल्लव मालाभिः सर्वतः समलङ्कृतम्

प्रजास्तं दीपबलिभि: सम्भृताशेषमङ्गलै: ।
अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिता: ॥ ४ ॥

प्रजाः तम् दीप-बलिभिः सम्भृत अशेष मङ्गलैः अभीयुः मृष्ट कन्याः च मृष्ट कुण्डल मण्डिताः

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।
विवेश भवनं वीर: स्तूयमानो गतस्मय: ॥ ५ ॥

शङ्ख दुन्दुभि घोषेण ब्रह्म घोषेण च ऋत्विजाम् विवेश भवनम् वीरः स्तूयमानः गत-स्मयः

पूजित: पूजयामास तत्र तत्र महायशा: ।
पौराञ्जानपदांस्तांस्तान्प्रीत: प्रियवरप्रद: ॥ ६ ॥

पूजितः पूजयाम् आस तत्र तत्र महा-यशाः पौरान् जान-पदान् तान् तान् प्रीतः प्रिय-वर-प्रदः

स एवमादीन्यनवद्यचेष्टित:
कर्माणि भूयांसि महान्महत्तम: ।
कुर्वन् शशासावनिमण्डलं यश:
स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥

सः एवम् आदीनि अनवद्य चेष्टितः कर्माणि भूयांसि महान् महत्-तमः कुर्वन् शशास अवनि-मण्डलम् यशः स्फीतम् निधाय आरुरुहे परम् पदम्

सूत उवाच
तदादिराजस्य यशो विजृम्भितं
गुणैरशेषैर्गुणवत्सभाजितम् ।
क्षत्ता महाभागवत: सदस्पते
कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥

सूतः उवाच तत् आदि-राजस्य यशः विजृम्भितम् गुणैः अशेषैः गुण-वत् सभाजितम् क्षत्ता महा-भागवतः सदः-पते कौषारविम् प्राह गृणन्तम् अर्चयन्

विदुर उवाच
सोऽभिषिक्त: पृथुर्विप्रैर्लब्धाशेषसुरार्हण: ।
बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥

विदुरः उवाच सः अभिषिक्तः पृथुः विप्रैः लब्ध अशेष सुर-अर्हणः बिभ्रत् सः वैष्णवम् तेजः बाह्वोः याभ्याम् दुदोह गाम्

को न्वस्य कीर्तिं न श‍ृणोत्यभिज्ञो
यद्विक्रमोच्छिष्टमशेषभूपा: ।
लोका: सपाला उपजीवन्ति काम-
मद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥

कः नु अस्य कीर्तिम् न शृणोति अभिज्ञः यत् विक्रम उच्छिष्टम् अशेष भूपाः लोकाः स-पालाः उपजीवन्ति कामम् अद्य अपि तत् मे वद कर्म शुद्धम्

मैत्रेय उवाच
गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् ।
आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥

मैत्रेयः उवाच गङ्गा यमुनयोः नद्योः अन्तरा क्षेत्रम् आवसन् आरब्धान् एव बुभुजे भोगान् पुण्य जिहासया

सर्वत्रास्खलितादेश: सप्तद्वीपैकदण्डधृक् ।
अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रत: ॥ १२ ॥

सर्वत्र अस्खलित आदेशः सप्त-द्वीप एक दण्ड-धृक् अन्यत्र ब्राह्मण-कुलात् अन्यत्र अच्युत-गोत्रतः

एकदासीन्महासत्रदीक्षा तत्र दिवौकसाम् ।
समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३ ॥

एकदा आसीत् महा-सत्र दीक्षा तत्र दिव-ओकसाम् समाजः ब्रह्म-ऋषीणाम् च राज-ऋषीणाम् च सत्-तम

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हत: ।
उत्थित: सदसो मध्ये ताराणामुडुराडिव ॥ १४ ॥

तस्मिन् अर्हत्सु सर्वेषु सु-अर्चितेषु यथा-अर्हतः उत्थितः सदसः मध्ये ताराणाम् उडु-राट् इव

प्रांशु: पीनायतभुजो गौर: कञ्जारुणेक्षण: ।
सुनास: सुमुख: सौम्य: पीनांस: सुद्विजस्मित: ॥ १५ ॥

प्रांशुः पीन-आयत भुजः गौरः कञ्ज अरुण-ईक्षणः सु-नासः सु-मुखः सौम्यः पीन-अंसः सु द्विज स्मितः

व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदर: ।
आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६ ॥

व्यूढ वक्षाः बृहत्-श्रोणिः वलि वल्गु दल उदरः आवर्त नाभिः ओजस्वी काञ्चन उरुः उदग्र-पात्

सूक्ष्मवक्रासितस्‍निग्धमूर्धज: कम्बुकन्धर: ।
महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७ ॥

सूक्ष्म वक्र असित स्निग्ध मूर्धजः कम्बु कन्धरः महा-धने दुकूल-अग्र्ये परिधाय उपवीय च

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषण: ।
कृष्णाजिनधर: श्रीमान् कुशपाणि:कृतोचित: ॥ १८ ॥

व्यञ्जित अशेष गात्र श्रीः नियमे न्यस्त भूषणः कृष्ण अजिन धरः श्रीमान् कुश-पाणिः कृत उचितः

शिशिरस्‍निग्धताराक्ष: समैक्षत समन्तत: ।
ऊचिवानिदमुर्वीश: सद: संहर्षयन्निव ॥ १९ ॥

शिशिर स्निग्ध तारा अक्षः समैक्षत समन्ततः ऊचिवान् इदम् उर्वीशः सदः संहर्षयन् इव

चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् ।
सर्वेषामुपकारार्थं तदा अनुवदन्निव ॥ २० ॥

चारु चित्र-पदम् श्लक्ष्णम् मृष्टम् गूढम् अविक्लवम् सर्वेषाम् उपकार-अर्थम् तदा अनुवदन् इव

राजोवाच
सभ्या: श‍ृणुत भद्रं व: साधवो य इहागता: ।
सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् ॥ २१ ॥

राजा उवाच सभ्याः शृणुत भद्रम् वः साधवः ये इह आगताः सत्सु जिज्ञासुभिः धर्मम् आवेद्यम् स्व-मनीषितम्

अहं दण्डधरो राजा प्रजानामिह योजित: ।
रक्षिता वृत्तिद: स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥

अहम् दण्ड-धरः राजा प्रजानाम् इह योजितः रक्षिता वृत्ति-दः स्वेषु सेतुषु स्थापिता पृथक्

तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिन: ।
लोका: स्यु: कामसन्दोहा यस्य तुष्यति दिष्टद‍ृक् ॥ २३ ॥

तस्य मे तत् अनुष्ठानात् यान् आहुः ब्रह्म-वादिनः लोकाः स्युः काम-सन्दोहाः यस्य तुष्यति दिष्ट-दृक्

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।
प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति स: ॥ २४ ॥

यः उद्धरेत् करम् राजा प्रजाः धर्मेषु अशिक्षयन् प्रजानाम् शमलम् भुङ्क्ते भगम् च स्वम् जहाति सः

तत् प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयव: ।
कुरुताधोक्षजधियस्तर्हि मेऽनुग्रह: कृत: ॥ २५ ॥

तत् प्रजाः भर्तृ पिण्ड-अर्थम् स्व-अर्थम् एव अनसूयवः कुरुत अधोक्षज धियः तर्हि मे अनुग्रहः कृतः

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमला: ।
कर्तु: शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् ॥ २६ ॥

यूयम् तत् अनुमोदध्वम् पितृ देव ऋषयः अमलाः कर्तुः शास्तुः अनुज्ञातुः तुल्यम् यत् प्रेत्य तत् फलम्

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमा: ।
इहामुत्र च लक्ष्यन्ते ज्योत्‍स्‍नावत्य: क्‍वचिद्भुव: ॥ २७ ॥

अस्ति यज्ञ-पतिः नाम केषाञ्चित् अर्ह-सत्तमाः इह अमुत्र च लक्ष्यन्ते ज्योत्स्ना-वत्यः क्वचित् भुवः

मनोरुत्तानपादस्य ध्रुवस्यापि महीपते: ।
प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितु: पितु: ॥ २८ ॥
ईद‍ृशानामथान्येषामजस्य च भवस्य च ।
प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९ ॥

मनोः उत्तानपादस्य ध्रुवस्य अपि मही-पतेः प्रियव्रतस्य राजर्षेः अङ्गस्य अस्मत् पितुः पितुः ईदृशानाम् अथ अन्येषाम् अजस्य च भवस्य च प्रह्लादस्य बलेः च अपि कृत्यम् अस्ति गदा-भृता

दौहित्रादीनृते मृत्यो: शोच्यान् धर्मविमोहितान् ।
वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३० ॥

दौहित्र-आदीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् वर्ग स्वर्ग अपवर्गाणाम् प्रायेण एक आत्म्य हेतुना

यत्पादसेवाभिरुचिस्तपस्विना-
मशेषजन्मोपचितं मलं धिय: ।
सद्य: क्षिणोत्यन्वहमेधती सती
यथा पदाङ्गुष्ठविनि:सृता सरित् ॥ ३१ ॥

यत्-पाद सेवा अभिरुचिः तपस्विनाम् अशेष जन्म उपचितम् मलम् धियः सद्यः क्षिणोति अन्वहम् एधती सती यथा पद-अङ्गुष्ठ विनिःसृता सरित्

विनिर्धुताशेषमनोमल: पुमा-
नसङ्गविज्ञानविशेषवीर्यवान् ।
यदङ्‌घ्रिमूले कृतकेतन: पुन-
र्न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२ ॥

विनिर्धुत अशेष मनः-मलः पुमान् असङ्ग विज्ञान विशेष वीर्य-वान् यत् अङ्घ्रि मूले कृत-केतनः पुनः न संसृतिम् क्लेश-वहाम् प्रपद्यते

तमेव यूयं भजतात्मवृत्तिभि-
र्मनोवच:कायगुणै: स्वकर्मभि: ।
अमायिन: कामदुघाङ्‌घ्रिपङ्कजं
यथाधिकारावसितार्थसिद्धय: ॥ ३३ ॥

तम् एव यूयम् भजत आत्म वृत्तिभिः मनः वचः काय गुणैः स्व-कर्मभिः अमायिनः काम-दुघ अङ्घ्रि-पङ्कजम् यथा अधिकार अवसित-अर्थ सिद्धयः

असाविहानेकगुणोऽगुणोऽध्वर:
पृथग्विधद्रव्यगुणक्रियोक्तिभि: ।
सम्पद्यतेऽर्थाशयलिङ्गनामभि-
र्विशुद्धविज्ञानघन: स्वरूपत: ॥ ३४ ॥

असौ इह अनेक गुणः अगुणः अध्वरः पृथक्-विध द्रव्य गुण क्रिया उक्तिभिः सम्पद्यते अर्थ आशय लिङ्ग नामभिः विशुद्ध विज्ञान घनः स्व-रूपतः

प्रधानकालाशयधर्मसङ्ग्रहे
शरीर एष प्रतिपद्य चेतनाम् ।
क्रियाफलत्वेन विभुर्विभाव्यते
यथानलो दारुषु तद्गुणात्मक: ॥ ३५ ॥

प्रधान काल आशय धर्म सङ्ग्रहे शरीरे एषः प्रतिपद्य चेतनाम् क्रिया फलत्वेन विभुः विभाव्यते यथा अनलः दारुषु तत्-गुण-आत्मकः

अहो ममामी वितरन्त्यनुग्रहं
हरिं गुरुं यज्ञभुजामधीश्वरम् ।
स्वधर्मयोगेन यजन्ति मामका
निरन्तरं क्षोणितले द‍ृढव्रता: ॥ ३६ ॥

अहो मम अमी वितरन्ति अनुग्रहम् हरिम् गुरुम् यज्ञ-भुजाम् अधीश्वरम् स्व-धर्म योगेन यजन्ति मामकाः निरन्तरम् क्षोणि-तले दृढ-व्रताः

मा जातु तेज: प्रभवेन्महर्द्धिभि-
स्तितिक्षया तपसा विद्यया च ।
देदीप्यमानेऽजितदेवतानां
कुले स्वयं राजकुलाद् द्विजानाम् ॥ ३७ ॥

मा जातु तेजः प्रभवेत् महा ऋद्धिभिः तितिक्षया तपसा विद्यया च देदीप्यमाने अजित-देवतानाम् कुले स्वयम् राज-कुलात् द्विजानाम्

ब्रह्मण्यदेव: पुरुष: पुरातनो
नित्यं हरिर्यच्चरणाभिवन्दनात् ।
अवाप लक्ष्मीमनपायिनीं यशो
जगत्पवित्रं च महत्तमाग्रणी: ॥ ३८ ॥

ब्रह्मण्य-देवः पुरुषः पुरातनः नित्यम् हरिः यत् चरण अभिवन्दनात् अवाप लक्ष्मीम् अनपायिनीम् यशः जगत् पवित्रम् च महत् तम अग्रणीः

यत्सेवयाशेषगुहाशय: स्वराड्
विप्रप्रियस्तुष्यति काममीश्वर: ।
तदेव तद्धर्मपरैर्विनीतै:
सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९ ॥

यत् सेवया अशेष गुहा-आशयः स्व-राट् विप्र-प्रियः तुष्यति कामम् ईश्वरः तत् एव तत्-धर्म-परैः विनीतैः सर्व-आत्मना ब्रह्म-कुलम् निषेव्यताम्

पुमाँल्लभेतानतिवेलमात्मन:
प्रसीदतोऽत्यन्तशमं स्वत: स्वयम् ।
यन्नित्यसम्बन्धनिषेवया तत:
परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४० ॥

पुमान् लभेत अनति-वेलम् आत्मनः प्रसीदतः अत्यन्त शमम् स्वतः स्वयम् यत् नित्य सम्बन्ध निषेवया ततः परम् किम् अत्र अस्ति मुखम् हविः भुजाम्

अश्नात्यनन्त: खलु तत्त्वकोविदै:
श्रद्धाहुतं यन्मुख इज्यनामभि: ।
न वै तथा चेतनया बहिष्कृते
हुताशने पारमहंस्यपर्यगु: ॥ ४१ ॥

अश्नाति अनन्तः खलु तत्त्व-कोविदैः श्रद्धा हुतम् यत्-मुखे इज्य-नामभिः न वै तथा चेतनया बहिः-कृते हुत-अशने पारमहंस्य पर्यगुः

यद्ब्रह्म नित्यं विरजं सनातनं
श्रद्धातपोमङ्गलमौनसंयमै: ।
समाधिना बिभ्रति हार्थद‍ृष्टये
यत्रेदमादर्श इवावभासते ॥ ४२ ॥

यत् ब्रह्म नित्यम् विरजम् सनातनम् श्रद्धा तपः मङ्गल मौन संयमैः समाधिना बिभ्रति ह अर्थ दृष्टये यत्र इदम् आदर्शे इव अवभासते

तेषामहं पादसरोजरेणु-
मार्या वहेयाधिकिरीटमायु: ।
यं नित्यदा बिभ्रत आशु पापं
नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३ ॥

तेषाम् अहम् पाद सरोज रेणुम् आर्याः वहेय अधि किरीटम् आयुः यम् नित्यदा बिभ्रतः आशु पापम् नश्यति अमुम् सर्व-गुणाः भजन्ति

गुणायनं शीलधनं कृतज्ञं
वृद्धाश्रयं संवृणतेऽनु सम्पद: ।
प्रसीदतां ब्रह्मकुलं गवां च
जनार्दन: सानुचरश्च मह्यम् ॥ ४४ ॥

गुण-अयनम् शील-धनम् कृत-ज्ञम् वृद्ध-आश्रयम् संवृणते अनु सम्पदः प्रसीदताम् ब्रह्म-कुलम् गवाम् च जनार्दनः स अनुचरः च मह्यम्

मैत्रेय उवाच
इति ब्रुवाणं नृपतिं पितृदेवद्विजातय: ।
तुष्टुवुर्हृष्टमनस: साधुवादेन साधव: ॥ ४५ ॥

मैत्रेयः उवाच इति ब्रुवाणम् नृ-पतिम् पितृ देव द्वि-जातयः तुष्टुवुः हृष्ट-मनसः साधु-वादेन साधवः

पुत्रेण जयते लोकानिति सत्यवती श्रुति: ।
ब्रह्मदण्डहत: पापो यद्वेनोऽत्यतरत्तम: ॥ ४६ ॥

पुत्रेण जयते लोकान् इति सत्य-वती श्रुतिः ब्रह्म-दण्ड हतः पापः यत् वेनः अति अतरत् तमः

हिरण्यकशिपुश्चापि भगवन्निन्दया तम: ।
विविक्षुरत्यगात्सूनो: प्रह्लादस्यानुभावत: ॥ ४७ ॥

हिरण्यकशिपुः च अपि भगवत् निन्दया तमः विविक्षुः अत्यगात् सूनोः प्रह्लादस्य अनुभावतः

वीरवर्य पित: पृथ्व्या: समा: सञ्जीव शाश्वती: ।
यस्येद‍ृश्यच्युते भक्ति: सर्वलोकैकभर्तरि ॥ ४८ ॥

वीर-वर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः यस्य ईदृशी अच्युते भक्तिः सर्व लोक एक भर्तरि

अहो वयं ह्यद्य पवित्रकीर्ते
त्वयैव नाथेन मुकुन्दनाथा: ।
य उत्तमश्लोकतमस्य विष्णो-
र्ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ४९ ॥

अहो वयम् हि अद्य पवित्र-कीर्ते त्वया एव नाथेन मुकुन्द नाथाः ये उत्तम-श्लोक-तमस्य विष्णोः ब्रह्मण्य-देवस्य कथाम् व्यनक्ति

नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् ।
प्रजानुरागो महतां प्रकृति: करुणात्मनाम् ॥ ५० ॥

न अति अद्भुतम् इदम् नाथ तव आजीव्य अनुशासनम् प्रजा अनुरागः महताम् प्रकृतिः करुण आत्मनाम्

अद्य नस्तमस: पारस्त्वयोपासादित: प्रभो ।
भ्राम्यतां नष्टद‍ृष्टीनां कर्मभिर्दैवसंज्ञितै: ॥ ५१ ॥

अद्य नः तमसः पारः त्वया उपासादितः प्रभो भ्राम्यताम् नष्ट-दृष्टीनाम् कर्मभिः दैव-संज्ञितैः

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।
यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५२ ॥

नमः विवृद्ध सत्त्वाय पुरुषाय महीयसे यः ब्रह्म क्षत्रम् आविश्य बिभर्ति इदम् स्व-तेजसा

४.२२

मैत्रेय उवाच
जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् ।
तत्रोपजग्मुर्मुनयश्चत्वार: सूर्यवर्चस: ॥ १ ॥

मैत्रेयः उवाच जनेषु प्रगृणत्सु एवम् पृथुम् पृथुल विक्रमम् तत्र उपजग्मुः मुनयः चत्वारः सूर्य वर्चसः

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।
लोकानपापान् कुर्वाणान् सानुगोऽचष्ट लक्षितान् ॥ २ ॥

तान् तु सिद्ध-ईश्वरान् राजा व्योम्नः अवतरतः अर्चिषा लोकान् अपापान् कुर्वाणान् स-अनुगः अचष्ट लक्षितान्

तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थित: ।
ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३ ॥

तत् दर्शन उद्गतान् प्राणान् प्रत्यादित्सुः इव उत्थितः स सदस्य अनुगः वैन्यः इन्द्रिय-ईशः गुणान् इव

गौरवाद्यन्त्रित: सभ्य: प्रश्रयानतकन्धर: ।
विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ ४ ॥

गौरवात् यन्त्रितः सभ्यः प्रश्रय आनत-कन्धरः विधि-वत् पूजयाम् चक्रे गृहीत अधि अर्हण आसनान्

तत्पादशौचसलिलैर्मार्जितालकबन्धन: ।
तत्र शीलवतां वृत्तमाचरन्मानयन्निव ॥ ५ ॥

तत्-पाद शौच सलिलैः मार्जित अलक बन्धनः तत्र शीलवताम् वृत्तम् आचरन् मानयन् इव

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् ।
श्रद्धासंयमसंयुक्त: प्रीत: प्राह भवाग्रजान् ॥ ६ ॥

हाटक-आसने आसीनान् स्व-धिष्ण्येषु इव पावकान् श्रद्धा संयम संयुक्तः प्रीतः प्राह भव अग्र-जान्

पृथुरुवाच
अहो आचरितं किं मे मङ्गलं मङ्गलायना: ।
यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभि: ॥ ७ ॥

पृथुः उवाच अहो आचरितम् किम् मे मङ्गलम् मङ्गल-आयनाः यस्य वः दर्शनम् हि आसीत् दुर्दर्शानाम् च योगिभिः

किं तस्य दुर्लभतरमिह लोके परत्र च ।
यस्य विप्रा: प्रसीदन्ति शिवो विष्णुश्च सानुग: ॥ ८ ॥

किम् तस्य दुर्लभ-तरम् इह लोके परत्र च यस्य विप्राः प्रसीदन्ति शिवः विष्णुः च स-अनुगः

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।
यथा सर्वद‍ृशं सर्व आत्मानं येऽस्य हेतव: ॥ ९ ॥

न एव लक्षयते लोकः लोकान् पर्यटतः अपि यान् यथा सर्व-दृशम् सर्वे आत्मानम् ये अस्य हेतवः

अधना अपि ते धन्या: साधवो गृहमेधिन: ।
यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावरा: ॥ १० ॥

अधनाः अपि ते धन्याः साधवः गृह-मेधिनः यत्-गृहाः हि अर्ह-वर्य अम्बु तृण भूमि ईश्वर अवराः

व्यालालयद्रुमा वै तेष्वरिक्ताखिलसम्पद: ।
यद्गृहास्तीर्थपादीयपादतीर्थविवर्जिता: ॥ ११ ॥

व्याल आलय द्रुमाः वै तेषु अरिक्त अखिल सम्पदः यत् गृहाः तीर्थ-पादीय पाद-तीर्थ विवर्जिताः

स्वागतं वो द्विजश्रेष्ठा यद्‌व्रतानि मुमुक्षव: ।
चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२ ॥

सु-आगतम् वः द्विज-श्रेष्ठाः यत् व्रतानि मुमुक्षवः चरन्ति श्रद्धया धीराः बालाः एव बृहन्ति च

कच्चिन्न: कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् ।
व्यसनावाप एतस्मिन्पतितानां स्वकर्मभि: ॥ १३ ॥

कच्चित् नः कुशलम् नाथाः इन्द्रिय-अर्थ अर्थ-वेदिनाम् व्यसन आवापे एतस्मिन् पतितानाम् स्व-कर्मभिः

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।
कुशलाकुशला यत्र न सन्ति मतिवृत्तय: ॥ १४ ॥

भवत्सु कुशल प्रश्नः आत्म-आरामेषु न इष्यते कुशल अकुशलाः यत्र न सन्ति मति-वृत्तयः

तदहं कृतविश्रम्भ: सुहृदो वस्तपस्विनाम् ।
सम्पृच्छे भव एतस्मिन् क्षेम: केनाञ्जसा भवेत् ॥ १५ ॥

तत् अहम् कृत-विश्रम्भः सु-हृदः वः तपस्विनाम् सम्पृच्छे भवे एतस्मिन् क्षेमः केन अञ्जसा भवेत्

व्यक्तमात्मवतामात्मा भगवानात्मभावन: ।
स्वानामनुग्रहायेमां सिद्धरूपी चरत्यज: ॥ १६ ॥

व्यक्तम् आत्म-वताम् आत्मा भगवान् आत्म-भावनः स्वानाम् अनुग्रहाय इमाम् सिद्ध-रूपी चरति अजः

मैत्रेय उवाच
पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।
स्मयमान इव प्रीत्या कुमार: प्रत्युवाच ह ॥ १७ ॥

मैत्रेयः उवाच पृथोः तत् सूक्तम् आकर्ण्य सारम् सुष्ठु मितम् मधु स्मयमानः इव प्रीत्या कुमारः प्रत्युवाच ह

सनत्कुमार उवाच
साधु पृष्टं महाराज सर्वभूतहितात्मना ।
भवता विदुषा चापि साधूनां मतिरीद‍ृशी ॥ १८ ॥

सनत्-कुमारः उवाच साधु पृष्टम् महाराज सर्व-भूत हित-आत्मना भवता विदुषा च अपि साधूनाम् मतिः ईदृशी

सङ्गम: खलु साधूनामुभयेषां च सम्मत: ।
यत्सम्भाषणसम्प्रश्न: सर्वेषां वितनोति शम् ॥ १९ ॥

सङ्गमः खलु साधूनाम् उभयेषाम् च सम्मतः यत् सम्भाषण सम्प्रश्नः सर्वेषाम् वितनोति शम्

अस्त्येव राजन् भवतो मधुद्विष:
पादारविन्दस्य गुणानुवादने ।
रतिर्दुरापा विधुनोति नैष्ठिकी
कामं कषायं मलमन्तरात्मन: ॥ २० ॥

अस्ति एव राजन् भवतः मधु-द्विषः पाद-अरविन्दस्य गुण-अनुवादने रतिः दुरापा विधुनोति नैष्ठिकी कामम् कषायम् मलम् अन्तः-आत्मनः

शास्त्रेष्वियानेव सुनिश्चितो नृणां
क्षेमस्य सध्र्‌यग्विमृशेषु हेतु: ।
असङ्ग आत्मव्यतिरिक्त आत्मनि
द‍ृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥

शास्त्रेषु इयान् एव सु-निश्चितः नृणाम् क्षेमस्य सध्र्यक् विमृशेषु हेतुः असङ्गः आत्म-व्यतिरिक्ते आत्मनि दृढा रतिः ब्रह्मणि निर्गुणे च या

सा श्रद्धया भगवद्धर्मचर्यया
जिज्ञासयाध्यात्मिकयोगनिष्ठया ।
योगेश्वरोपासनया च नित्यं
पुण्यश्रव:कथया पुण्यया च ॥ २२ ॥

सा श्रद्धया भगवत्-धर्म चर्यया जिज्ञासया अध्यात्मिक योग-निष्ठया योग-ईश्वर उपासनया च नित्यम् पुण्य-श्रवः कथया पुण्यया च

अर्थेन्द्रियारामसगोष्ठ्यतृष्णया
तत्सम्मतानामपरिग्रहेण च ।
विविक्तरुच्या परितोष आत्मनि
विना हरेर्गुणपीयूषपानात् ॥ २३ ॥

अर्थ इन्द्रिय आराम स-गोष्ठी अतृष्णया तत् सम्मतानाम् अपरिग्रहेण च विविक्त-रुच्या परितोषे आत्मनि विना हरेः गुण पीयूष पानात्

अहिंसया पारमहंस्यचर्यया
स्मृत्या मुकुन्दाचरिताग्र्यसीधुना ।
यमैरकामैर्नियमैश्चाप्यनिन्दया
निरीहया द्वन्द्वतितिक्षया च ॥ २४ ॥

अहिंसया पारमहंस्य-चर्यया स्मृत्या मुकुन्द आचरित-अग्र्य सीधुना यमैः अकामैः नियमैः च अपि अनिन्दया निरीहया द्वन्द्व तितिक्षया च

हरेर्मुहुस्तत्परकर्णपूर
गुणाभिधानेन विजृम्भमाणया ।
भक्त्या ह्यसङ्ग: सदसत्यनात्मनि
स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रति: ॥ २५ ॥

हरेः मुहुः तत्-पर कर्ण-पूर गुण-अभिधानेन विजृम्भमाणया भक्त्या हि असङ्गः सत्-असति अनात्मनि स्यात् निर्गुणे ब्रह्मणि च अञ्जसा रतिः

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-
नाचार्यवान् ज्ञानविरागरंहसा ।
दहत्यवीर्यं हृदयं जीवकोशं
पञ्चात्मकं योनिमिवोत्थितोऽग्नि: ॥ २६ ॥

यदा रतिः ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञान विराग रंहसा दहति अवीर्यम् हृदयम् जीव-कोशम् पञ्च-आत्मकम् योनिम् इव उत्थितः अग्निः

दग्धाशयो मुक्तसमस्ततद्गुणो
नैवात्मनो बहिरन्तर्विचष्टे ।
परात्मनोर्यद्वय‍वधानं पुरस्तात्
स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७ ॥

दग्ध-आशयः मुक्त समस्त तत्-गुणः न एव आत्मनः बहिः अन्तः विचष्टे पर-आत्मनोः यत् व्यवधानम् पुरस्तात् स्वप्ने यथा पुरुषः तत् विनाशे

आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।
सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८ ॥

आत्मानम् इन्द्रिय-अर्थम् च परम् यत् उभयोः अपि सति आशये उपाधौ वै पुमान् पश्यति न अन्यदा

निमित्ते सति सर्वत्र जलादावपि पूरुष: ।
आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९ ॥

निमित्ते सति सर्वत्र जल-आदौ अपि पूरुषः आत्मनः च परस्य अपि भिदाम् पश्यति न अन्यदा

इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मन: ।
चेतनां हरते बुद्धे: स्तम्बस्तोयमिव ह्रदात् ॥ ३० ॥

इन्द्रियैः विषय आकृष्टैः आक्षिप्तम् ध्यायताम् मनः चेतनाम् हरते बुद्धेः स्तम्बः तोयम् इव ह्रदात्

भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंश: स्मृतिक्षये ।
तद्रोधं कवय: प्राहुरात्मापह्नवमात्मन: ॥ ३१ ॥

भ्रश्यति अनुस्मृतिः चित्तम् ज्ञान-भ्रंशः स्मृति-क्षये तत्-रोधम् कवयः प्राहुः आत्म अपह्नवम् आत्मनः

नात: परतरो लोके पुंस: स्वार्थव्यतिक्रम: ।
यदध्यन्यस्य प्रेयस्त्वमात्मन: स्वव्यतिक्रमात् ॥ ३२ ॥

न अतः परतरः लोके पुंसः स्व-अर्थ व्यतिक्रमः यत्-अधि अन्यस्य प्रेयस्त्वम् आत्मनः स्व व्यतिक्रमात्

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।
भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् ॥ ३३ ॥

अर्थ इन्द्रिय-अर्थ अभिध्यानम् सर्व-अर्थ अपह्नवः नृणाम् भ्रंशितः ज्ञान विज्ञानात् येन आविशति मुख्यताम्

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषु: ।
धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥

न कुर्यात् कर्हिचित् सङ्गम् तमः तीव्रम् तितीरिषुः धर्म अर्थ काम मोक्षाणाम् यत् अत्यन्त विघातकम्

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुत: ॥ ३५ ॥

तत्र अपि मोक्षः एव अर्थे आत्यन्तिकतया इष्यते त्रै-वर्ग्यः अर्थः यतः नित्यम् कृत-अन्त भय संयुतः

परेऽवरे च ये भावा गुणव्यतिकरादनु ।
न तेषां विद्यते क्षेममीशविध्वंसिताशिषाम् ॥ ३६ ॥

परे अवरे च ये भावाः गुण व्यतिकरात् अनु न तेषाम् विद्यते क्षेमम् ईश विध्वंसित आशिषाम्

तत्त्वं नरेन्द्र जगतामथ तस्थूषां च
देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।
य: क्षेत्रवित्तपतया हृदि विश्वगावि:
प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि ॥ ३७ ॥

तत् त्वम् नर-इन्द्र जगताम् अथ तस्थूषाम् च देह इन्द्रिय असु धिषणा आत्मभिः आवृतानाम् यः क्षेत्र-वित् तपतया हृदि विश्वक् आविः प्रत्यक् चकास्ति भगवान् तम् अवेहि सः अस्मि

यस्मिन्निदं सदसदात्मतया विभाति
माया विवेकविधुति स्रजि वाहिबुद्धि: ।
तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं
प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८ ॥

यस्मिन् इदम् सत्-असत् आत्मतया विभाति माया विवेक-विधुति स्रजि वा अहि बुद्धिः तम् नित्य मुक्त परिशुद्ध विशुद्ध तत्त्वम् प्रत्यूढ कर्म कलिल प्रकृतिम् प्रपद्ये

यत्पादपङ्कजपलाशविलासभक्त्या
कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्त: ।
तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध
स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९ ॥

यत् पाद पङ्कज पलाश विलास भक्त्या कर्म आशयम् ग्रथितम् उद्ग्रथयन्ति सन्तः तत् वत् न रिक्त-मतयः यतयः अपि रुद्ध स्रोतः-गणाः तम् अरणम् भज वासुदेवम्

कृच्छ्रो महानिह भवार्णवमप्लवेशां
षड्‌वर्गनक्रमसुखेन तितीर्षन्ति ।
तत्त्वं हरेर्भगवतो भजनीयमङ्‌घ्रिं
कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४० ॥

कृच्छ्रः महान् इह भव-अर्णवम् अप्लव-ईशाम् षट्-वर्ग नक्रम् असुखेन तितीर्षन्ति तत् त्वम् हरेः भगवतः भजनीयम् अङ्घ्रिम् कृत्वा उडुपम् व्यसनम् उत्तर दुस्तर अर्णम्

मैत्रेय उवाच
स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा ।
दर्शितात्मगति: सम्यक्प्रशस्योवाच तं नृप: ॥ ४१ ॥

मैत्रेयः उवाच सः एवम् ब्रह्म-पुत्रेण कुमारेण आत्म-मेधसा दर्शित आत्म-गतिः सम्यक् प्रशस्य उवाच तम् नृपः

राजोवाच
कृतो मेऽनुग्रह: पूर्वं हरिणार्तानुकम्पिना ।
तमापादयितुं ब्रह्मन् भगवन् यूयमागता: ॥ ४२ ॥

राजा उवाच कृतः मे अनुग्रहः पूर्वम् हरिणा आर्त-अनुकम्पिना तम् आपादयितुम् ब्रह्मन् भगवन् यूयम् आगताः

निष्पादितश्च कार्त्स्‍न्येन भगवद्‌भिर्घृणालुभि: ।
साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे ॥ ४३ ॥

निष्पादितः च कार्त्स्न्येन भगवद्भिः घृणालुभिः साधु-उच्छिष्टम् हि मे सर्वम् आत्मना सह किम् ददे

प्राणा दारा: सुता ब्रह्मन् गृहाश्च सपरिच्छदा: ।
राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४ ॥

प्राणाः दाराः सुताः ब्रह्मन् गृहाः च स परिच्छदाः राज्यम् बलम् मही कोशः इति सर्वम् निवेदितम्

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।
सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५ ॥

सैना-पत्यम् च राज्यम् च दण्ड नेतृत्वम् एव च सर्व लोक-अधिपत्यम् च वेद-शास्त्र-वित् अर्हति

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादय: ॥ ४६ ॥

स्वम् एव ब्राह्मणः भुङ्क्ते स्वम् वस्ते स्वम् ददाति च तस्य एव अनुग्रहेण अन्नम् भुञ्जते क्षत्रिय-आदयः

यैरीद‍ृशी भगवतो गतिरात्मवाद
एकान्ततो निगमिभि: प्रतिपादिता न: ।
तुष्यन्‍त्वदभ्रकरुणा: स्वकृतेन नित्यं
को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७ ॥

यैः ईदृशी भगवतः गतिः आत्म-वादे एकान्ततः निगमिभिः प्रतिपादिता नः तुष्यन्तु अदभ्र करुणाः स्व-कृतेन नित्यम् कः नाम तत् प्रतिकरोति विना उद-पात्रम्

मैत्रेय उवाच
त आत्मयोगपतय आदिराजेन पूजिता: ।
शीलं तदीयं शंसन्त: खेऽभवन्मिषतां नृणाम् ॥ ४८ ॥

मैत्रेयः उवाच ते आत्म-योग-पतयः आदि-राजेन पूजिताः शीलम् तदीयम् शंसन्तः खे अभवन् मिषताम् नृणाम्

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया ।
आप्तकाममिवात्मानं मेन आत्मन्यवस्थित: ॥ ४९ ॥

वैन्यः तु धुर्यः महताम् संस्थित्या आध्यात्म-शिक्षया आप्त कामम् इव आत्मानम् मेने आत्मनि अवस्थितः

कर्माणि च यथाकालं यथादेशं यथाबलम् ।
यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ॥ ५० ॥

कर्माणि च यथा-कालम् यथा-देशम् यथा-बलम् यथा-उचितम् यथा-वित्तम् अकरोत् ब्रह्म-सात् कृतम्

फलं ब्रह्मणि संन्यस्य निर्विषङ्ग: समाहित: ।
कर्माध्यक्षं च मन्वान आत्मानं प्रकृते: परम् ॥ ५१ ॥

फलम् ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः कर्म अध्यक्षम् च मन्वानः आत्मानम् प्रकृतेः परम्

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वित: ।
नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत् ॥ ५२ ॥

गृहेषु वर्तमानः अपि सः साम्राज्य श्रिया अन्वितः न असज्जत इन्द्रिय-अर्थेषु निः अहम् मतिः अर्क वत्

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन् ।
पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ॥ ५३ ॥

एवम् अध्यात्म-योगेन कर्माणि अनु समाचरन् पुत्रान् उत्पादयाम् आस पञ्च अर्चिषि आत्म सम्मतान्

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं
वृकम् ।
सर्वेषां लोकपालानां दधारैक: पृथुर्गुणान् ॥ ५४ ॥

विजिताश्वम् धूम्रकेशम् हर्यक्षम् द्रविणम् वृकम् सर्वेषाम् लोक-पालानाम् दधार एकः पृथुः गुणान्

गोपीथाय जगत्सृष्टे: काले स्वे
स्वेऽच्युतात्मक: ।
मनोवाग्वृत्तिभि: सौम्यैर्गुणै: संरञ्जयन्
प्रजा: ॥ ५५ ॥

गोपीथाय जगत्-सृष्टेः काले स्वे स्वे अच्युत-आत्मकः मनः वाक् वृत्तिभिः सौम्यैः गुणैः संरञ्जयन् प्रजाः

राजेत्यधान्नामधेयं सोमराज इवापर: ।
सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६ ॥

राजा इति अधात् नामधेयम् सोम-राजः इव अपरः सूर्य-वत् विसृजन् गृह्णन् प्रतपन् च भुवः वसु

दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जय: ।
तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७ ॥

दुर्धर्षः तेजसा इव अग्निः महा-इन्द्रः इव दुर्जयः तितिक्षया धरित्री इव द्यौः इव अभीष्ट-दः नृणाम्

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् ।
समुद्र इव दुर्बोध: सत्त्वेनाचलराडिव ॥ ५८ ॥

वर्षति स्म यथा-कामम् पर्जन्यः इव तर्पयन् समुद्रः इव दुर्बोधः सत्त्वेन अचल राट् इव

धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव ।
कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९ ॥

धर्म-राट् इव शिक्षायाम् आश्चर्ये हिमवान् इव कुवेरः इव कोश-आढ्यः गुप्त-अर्थः वरुणः यथा

मातरिश्वेव सर्वात्मा बलेन महसौजसा ।
अविषह्यतया देवो भगवान् भूतराडिव ॥ ६० ॥

मातरिश्वा इव सर्व-आत्मा बलेन महसा ओजसा अविषह्यतया देवः भगवान् भूत-राट् इव

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।
वात्सल्ये मनुवन्नृणां प्रभुत्वे भगवानज: ॥ ६१ ॥

कन्दर्पः इव सौन्दर्ये मनस्वी मृग-राट् इव वात्सल्ये मनु-वत् नृणाम् प्रभुत्वे भगवान् अजः

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरि: ।
भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ।
ह्रिया प्रश्रयशीलाभ्यामात्मतुल्य: परोद्यमे ॥ ६२ ॥

बृहस्पतिः ब्रह्म-वादे आत्म-वत्त्वे स्वयम् हरिः भक्त्या गो गुरु विप्रेषु विष्वक्सेन अनुवर्तिषु ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः पर-उद्यमे

कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह ।
प्रविष्ट: कर्णरन्ध्रेषु स्त्रीणां राम: सतामिव ॥ ६३ ॥

कीर्त्या ऊर्ध्व-गीतया पुम्भिः त्रै-लोक्ये तत्र तत्र ह प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणाम् रामः सताम् इव

४.२३

मैत्रेय उवाच
दृष्ट्वात्मानं प्रवयसमेकदा वैन्य आत्मवान् ।
आत्मना वर्धिताशेषस्वानुसर्ग: प्रजापति: ॥ १ ॥
जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् ।
निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥
आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव ।
प्रजासु विमन:स्वेक: सदारोऽगात्तपोवनम् ॥ ३ ॥

मैत्रेयः उवाच दृष्ट्वा आत्मानम् प्रवयसम् एकदा वैन्यः आत्म-वान् आत्मना वर्धित अशेष स्व-अनुसर्गः प्रजा-पतिः जगतः तस्थुषः च अपि वृत्ति-दः धर्म-भृत् सताम् निष्पादित ईश्वर आदेशः यत्-अर्थम् इह जज्ञिवान् आत्म-जेषु आत्म-जाम् न्यस्य विरहात् रुदतीम् इव प्रजासु विमनःसु एकः स-दारः अगात् तपः-वनम्

तत्राप्यदाभ्यनियमो वैखानससुसम्मते ।
आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥

तत्र अपि अदाभ्य नियमः वैखानस सु-सम्मते आरब्धः उग्र तपसि यथा स्व-विजये पुरा

कन्दमूलफलाहार: शुष्कपर्णाशन: क्‍वचित् ।
अब्भक्ष: कतिचित्पक्षान् वायुभक्षस्तत: परम् ॥ ५ ॥

कन्द मूल फल आहारः शुष्क पर्ण अशनः क्वचित् अप्-भक्षः कतिचित् पक्षान् वायु भक्षः ततः परम्

ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनि: ।
आकण्ठमग्न: शिशिरे उदके स्थण्डिलेशय: ॥ ६ ॥

ग्रीष्मे पञ्च-तपाः वीरः वर्षासु आसारषाट् मुनिः आकण्ठ मग्नः शिशिरे उदके स्थण्डिले-शयः

तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिल: ।
आरिराधयिषु: कृष्णमचरत्तप उत्तमम् ॥ ७ ॥

तितिक्षुः यत वाक् दान्तः ऊर्ध्व-रेताः जित-अनिलः आरिराधयिषुः कृष्णम् अचरत् तपः उत्तमम्

तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशय: ।
प्राणायामै: सन्निरुद्धषड्‌वर्गश्छिन्नबन्धन: ॥ ८ ॥

तेन क्रम अनु सिद्धेन ध्वस्त कर्म मल आशयः प्राण-आयामैः सन् निरुद्ध षट्-वर्गः छिन्न-बन्धनः

सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् ।
योगं तेनैव पुरुषमभजत्पुरुषर्षभ: ॥ ९ ॥

सनत्-कुमारः भगवान् यत् आह आध्यात्मिकम् परम् योगम् तेन एव पुरुषम् अभजत् पुरुष-ऋषभः

भगवद्धर्मिण: साधो: श्रद्धया यतत: सदा ।
भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥ १० ॥

भगवत्-धर्मिणः साधोः श्रद्धया यततः सदा भक्तिः भगवति ब्रह्मणि अनन्य-विषया अभवत्

तस्यानया भगवत: परिकर्मशुद्ध
सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या ।
ज्ञानं विरक्तिमदभून्निशितेन येन
चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥

तस्य अनया भगवतः परिकर्म शुद्ध सत्त्व आत्मनः तत् अनुसंस्मरण अनुपूर्त्या ज्ञानम् विरक्ति मत् अभूत् निशितेन येन चिच्छेद संशय-पदम् निज जीव-कोशम्

छिन्नान्यधीरधिगतात्मगतिर्निरीह-
स्तत्तत्यजेऽच्छिनदिदं वयुनेन येन ।
तावन्न योगगतिभिर्यतिरप्रमत्तो
यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥

छिन्न अन्य-धीः अधिगत आत्म-गतिः निरीहः तत् तत्यजे अच्छिनत् इदम् वयुनेन येन तावत् न योग-गतिभिः यतिः अप्रमत्तः यावत् गदाग्रज कथासु रतिम् न कुर्यात्

एवं स वीरप्रवर: संयोज्यात्मानमात्मनि ।
ब्रह्मभूतो द‍ृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥

एवम् सः वीर-प्रवरः संयोज्य आत्मानम् आत्मनि ब्रह्म-भूतः दृढम् काले तत्याज स्वम् कलेवरम्

सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनै: ।
नाभ्यां कोष्ठेष्ववस्थाप्य हृदुर:कण्ठशीर्षणि ॥ १४ ॥

सम्पीड्य पायुम् पार्ष्णिभ्याम् वायुम् उत्सारयन् शनैः नाभ्याम् कोष्ठेषु अवस्थाप्य हृत् उरः कण्ठ शीर्षणि

उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य नि:स्पृह: ।
वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥

उत्सर्पयन् तु तम् मूर्ध्नि क्रमेण आवेश्य निःस्पृहः वायुम् वायौ क्षितौ कायम् तेजः तेजसि अयूयुजत्

खान्याकाशे द्रवं तोये यथास्थानं विभागश: ।
क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥

खानि आकाशे द्रवम् तोये यथा-स्थानम् विभागशः क्षितिम् अम्भसि तत् तेजसि अदः वायौ नभसि अमुम्

इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् ।
भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥

इन्द्रियेषु मनः तानि तत्-मात्रेषु यथा-उद्भवम् भूत-आदिना अमूनि उत्कृष्य महति आत्मनि सन्दधे

तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।
तं चानुशयमात्मस्थमसावनुशयी पुमान् ।
ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभु: ॥ १८ ॥

तम् सर्व-गुण-विन्यासम् जीवे माया-मये न्यधात् तम् च अनुशयम् आत्म-स्थम् असौ अनुशयी पुमान् ज्ञान वैराग्य वीर्येण स्वरूप-स्थः अजहात् प्रभुः

अर्चिर्नाम महाराज्ञी तत्पत्‍न्यनुगता वनम् ।
सुकुमार्यतदर्हा च यत्पद्‌भ्यां स्पर्शनं भुव: ॥ १९ ॥

अर्चिः नाम महा-राज्ञी तत्-पत्नी अनुगता वनम् सु-कुमारी अ-तत्-अर्हा च यत्-पद्भ्याम् स्पर्शनम् भुवः

अतीव भर्तुर्व्रतधर्मनिष्ठया
शुश्रूषया चार्षदेहयात्रया ।
नाविन्दतार्तिं परिकर्शितापि सा
प्रेयस्करस्पर्शनमाननिर्वृति: ॥ २० ॥

अतीव भर्तुः व्रत-धर्म निष्ठया शुश्रूषया च आर्ष देह यात्रया न अविन्दत आर्तिम् परिकर्शिता अपि सा प्रेयः-कर स्पर्शन मान निर्वृतिः

देहं विपन्नाखिलचेतनादिकं
पत्यु: पृथिव्या दयितस्य चात्मन: ।
आलक्ष्य किञ्चिच्च विलप्य सा सती
चितामथारोपयदद्रिसानुनि ॥ २१ ॥

देहम् विपन्न अखिल चेतन आदिकम् पत्युः पृथिव्याः दयितस्य च आत्मनः आलक्ष्य किञ्चित् च विलप्य सा सती चिताम् अथ आरोपयत् अद्रि सानुनि

विधाय कृत्यं ह्रदिनीजलाप्लुता
दत्त्वोदकं भर्तुरुदारकर्मण: ।
नत्वा दिविस्थांस्त्रिदशांस्त्रि: परीत्य
विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥

विधाय कृत्यम् ह्रदिनी जल-आप्लुता दत्त्वा उदकम् भर्तुः उदार-कर्मणः नत्वा दिवि-स्थान् त्रि-दशान् त्रिः परीत्य विवेश वह्निम् ध्यायती भर्तृ पादौ

विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् ।
तुष्टुवुर्वरदा देवैर्देवपत्‍न्य: सहस्रश: ॥ २३ ॥

विलोक्य अनुगताम् साध्वीम् पृथुम् वीर-वरम् पतिम् तुष्टुवुः वर-दाः देवैः देव-पत्न्यः सहस्रशः

कुर्वत्य: कुसुमासारं तस्मिन्मन्दरसानुनि ।
नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥

कुर्वत्यः कुसुम-आसारम् तस्मिन् मन्दर सानुनि नदत्सु अमर-तूर्येषु गृणन्ति स्म परस्परम्

देव्य ऊचु:
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥

देव्यः ऊचुः अहो इयम् वधूः धन्या या च एवम् भू भुजाम् पतिम् सर्व-आत्मना पतिम् भेजे यज्ञ-ईशम् श्रीः वधूः इव

सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती ।
पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ २६ ॥

सा एषा नूनम् व्रजति ऊर्ध्वम् अनु वैन्यम् पतिम् सती पश्यत अस्मान् अतीत्य अर्चिः दुर्विभाव्येन कर्मणा

तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम् ।
भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥

तेषाम् दुरापम् किम् तु अन्यत् मर्त्यानाम् भगवत्-पदम् भुवि लोल आयुषः ये वै नैष्कर्म्यम् साधयन्ति उत

स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि ।
लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥

सः वञ्चितः बत आत्म-ध्रुक् कृच्छ्रेण महता भुवि लब्ध्वा आपवर्ग्यम् मानुष्यम् विषयेषु विषज्जते

मैत्रेय उवाच
स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधू: ।
यं वा आत्मविदां धुर्यो वैन्य: प्रापाच्युताश्रय: ॥ २९ ॥

मैत्रेयः उवाच स्तुवतीषु अमर-स्त्रीषु पति-लोकम् गता वधूः यम् वा आत्म-विदाम् धुर्यः वैन्यः प्राप अच्युत-आश्रयः

इत्थम्भूतानुभावोऽसौ पृथु: स भगवत्तम: ।
कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥ ३० ॥

इत्थम्-भूत अनुभावः असौ पृथुः सः भगवत्-तमः कीर्तितम् तस्य चरितम् उद्दाम चरितस्य ते

य इदं सुमहत्पुण्यं श्रद्धयावहित: पठेत् ।
श्रावयेच्छृणुयाद्वापि स पृथो: पदवीमियात् ॥ ३१ ॥

यः इदम् सु-महत् पुण्यम् श्रद्धया अवहितः पठेत् श्रावयेत् शृणुयात् वा अपि सः पृथोः पदवीम् इयात्

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपति: ।
वैश्य: पठन् विट्पति: स्याच्छूद्र: सत्तमतामियात् ॥ ३२ ॥

ब्राह्मणः ब्रह्म-वर्चस्वी राजन्यः जगती-पतिः वैश्यः पठन् विट्-पतिः स्यात् शूद्रः सत्तम-ताम् इयात्

त्रि: कृत्व इदमाकर्ण्य नरो नार्यथवाद‍ृता ।
अप्रज: सुप्रजतमो निर्धनो धनवत्तम: ॥ ३३ ॥

त्रिः कृत्वः इदम् आकर्ण्य नरः नारी अथवा आदृता अप्रजः सु-प्रज-तमः निर्धनः धन-वत् तमः

अस्पष्टकीर्ति: सुयशा मूर्खो भवति पण्डित: ।
इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ॥ ३४ ॥

अस्पष्ट-कीर्तिः सु-यशाः मूर्खः भवति पण्डितः इदम् स्वस्ति-अयनम् पुंसाम् अमङ्गल्य निवारणम्

धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् ।
धर्मार्थकाममोक्षाणां सम्यक्सिद्धिमभीप्सुभि: ।
श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥

धन्यम् यशस्यम् आयुष्यम् स्वर्ग्यम् कलि मल-अपहम् धर्म अर्थ काम मोक्षाणाम् सम्यक् सिद्धिम् अभीप्सुभिः श्रद्धया एतत् अनुश्राव्यम् चतुर्णाम् कारणम् परम्

विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् ।
बलिं तस्मै हरन्त्यग्रे राजान: पृथवे यथा ॥ ३६ ॥

विजय-अभिमुखः राजा श्रुत्वा एतत् अभियाति यान् बलिम् तस्मै हरन्ति अग्रे राजानः पृथवे यथा

मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन् ।
वैन्यस्य चरितं पुण्यं श‍ृणुयाच्छ्रावयेत्पठेत् ॥ ३७ ॥

मुक्त-अन्य-सङ्गः भगवति अमलाम् भक्तिम् उद्वहन् वैन्यस्य चरितम् पुण्यम् शृणुयात् श्रावयेत् पठेत्

वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् ।
अस्मिन् कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥

वैचित्रवीर्य अभिहितम् महत् माहात्म्य सूचकम् अस्मिन् कृतम् अति-मर्त्यम् पार्थवीम् गतिम् आप्नुयात्

अनुदिनमिदमादरेण श‍ृण्वन्
पृथुचरितं प्रथयन् विमुक्तसङ्ग: ।
भगवति भवसिन्धुपोतपादे
स च निपुणां लभते रतिं मनुष्य: ॥ ३९ ॥

अनु-दिनम् इदम् आदरेण शृण्वन् पृथु-चरितम् प्रथयन् विमुक्त सङ्गः भगवति भव-सिन्धु पोत पादे सः च निपुणाम् लभते रतिम् मनुष्यः

४.२४

मैत्रेय उवाच
विजिताश्वोऽधिराजासीत्पृथुपुत्र: पृथुश्रवा: ।
यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सल: ॥ १ ॥

मैत्रेयः उवाच विजिताश्वः अधिराजा आसीत् पृथु-पुत्रः पृथु-श्रवाः यवीयोभ्यः अददात् काष्ठाः भ्रातृभ्यः भ्रातृ-वत्सलः

हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।
प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभु: ॥ २ ॥

हर्यक्षाय अदिशत् प्राचीम् धूम्रकेशाय दक्षिणाम् प्रतीचीम् वृक-संज्ञाय तुर्याम् द्रविणसे विभुः

अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञित: ।
अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥

अन्तर्धान गतिम् शक्रात् लब्ध्वा अन्तर्धान संज्ञितः अपत्य त्रयम् आधत्त शिखण्डिन्याम् सु-सम्मतम्

पावक: पवमानश्च शुचिरित्यग्नय: पुरा ।
वसिष्ठशापादुत्पन्ना: पुनर्योगगतिं गता: ॥ ४ ॥

पावकः पवमानः च शुचिः इति अग्नयः पुरा वसिष्ठ शापात् उत्पन्नाः पुनः योग-गतिम् गताः

अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।
य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥

अन्तर्धानः नभस्वत्याम् हविर्धानम् अविन्दत यः इन्द्रम् अश्व-हर्तारम् विद्वान् अपि न जघ्निवान्

राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् ।
मन्यमानो दीर्घसत्‍त्रव्याजेन विससर्ज ह ॥ ६ ॥

राज्ञाम् वृत्तिम् कर आदान दण्ड शुल्क आदि दारुणाम् मन्यमानः दीर्घ सत्त्र व्याजेन विससर्ज ह

तत्रापि हंसं पुरुषं परमात्मानमात्मद‍ृक् ।
यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥

तत्र अपि हंसम् पुरुषम् परम-आत्मानम् आत्म-दृक् यजन् तत्-लोकताम् आप कुशलेन समाधिना

हविर्धानाद्धविर्धानी विदुरासूत षट्‌सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥

हविर्धानात् हविर्धानी विदुर असूत षट् सुतान् बर्हिषदम् गयम् शुक्लम् कृष्णम् सत्यम् जितव्रतम्

बर्हिषत् सुमहाभागो हाविर्धानि: प्रजापति: ।
क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥

बर्हिषत् सु-महा-भागः हाविर्धानिः प्रजा-पतिः क्रिया-काण्डेषु निष्णातः योगेषु च कुरु-उद्वह

यस्येदं देवयजनमनुयज्ञं वितन्वत: ।
प्राचीनाग्रै: कुशैरासीदास्तृतं वसुधातलम् ॥ १० ॥

यस्य इदम् देव-यजनम् अनुयज्ञम् वितन्वतः प्राचीन-अग्रैः कुशैः आसीत् आस्तृतम् वसुधा-तलम्

सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।
यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ।
परिक्रमन्तीमुद्वाहे चकमेऽग्नि: शुकीमिव ॥ ११ ॥

सामुद्रीम् देव-देव-उक्ताम् उपयेमे शतद्रुतिम् याम् वीक्ष्य चारु सर्व-अङ्गीम् किशोरीम् सुष्ठु अलङ्कृताम् परिक्रमन्तीम् उद्वाहे चकमे अग्निः शुकीम् इव

विबुधासुरगन्धर्वमुनिसिद्धनरोरगा: ।
विजिता: सूर्यया दिक्षु क्‍वणयन्त्यैव नूपुरै: ॥ १२ ॥

विबुध असुर गन्धर्व मुनि सिद्ध नर उरगाः विजिताः सूर्यया दिक्षु क्वणयन्त्या एव नूपुरैः

प्राचीनबर्हिष: पुत्रा: शतद्रुत्यां दशाभवन् ।
तुल्यनामव्रता: सर्वे धर्मस्‍नाता: प्रचेतस: ॥ १३ ॥

प्राचीनबर्हिषः पुत्राः शतद्रुत्याम् दश अभवन् तुल्य नाम व्रताः सर्वे धर्म स्नाताः प्रचेतसः

पित्रादिष्टा: प्रजासर्गे तपसेऽर्णवमाविशन् ।
दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४ ॥

पित्रा आदिष्टाः प्रजा-सर्गे तपसे अर्णवम् आविशन् दश-वर्ष सहस्राणि तपसा आर्चन् तपः पतिम्

यदुक्तं पथि द‍ृष्टेन गिरिशेन प्रसीदता ।
तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयता: ॥ १५ ॥

यत् उक्तम् पथि दृष्टेन गिरिशेन प्रसीदता तत् ध्यायन्तः जपन्तः च पूजयन्तः च संयताः

विदुर उवाच
प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गम: ।
यदुताह हर: प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥

विदुरः उवाच प्रचेतसाम् गिरित्रेण यथा आसीत् पथि सङ्गमः यत् उत आह हरः प्रीतः तत् नः ब्रह्मन् वद अर्थ-वत्

सङ्गम: खलु विप्रर्षे शिवेनेह शरीरिणाम् ।
दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७ ॥

सङ्गमः खलु विप्र-ऋषे शिवेन इह शरीरिणाम् दुर्लभः मुनयः दध्युः असङ्गात् यम् अभीप्सितम्

आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।
शक्त्या युक्तो विचरति घोरया भगवान् भव: ॥ १८ ॥

आत्म-आरामः अपि यः तु अस्य लोक कल्पस्य राधसे शक्त्या युक्तः विचरति घोरया भगवान् भवः

मैत्रेय उवाच
प्रचेतस: पितुर्वाक्यं शिरसादाय साधव: ।
दिशं प्रतीचीं प्रययुस्तपस्याद‍ृतचेतस: ॥ १९ ॥

मैत्रेयः उवाच प्रचेतसः पितुः वाक्यम् शिरसा आदाय साधवः दिशम् प्रतीचीम् प्रययुः तपसि आदृत चेतसः

ससमुद्रमुप विस्तीर्णमपश्यन् सुमहत्सर: ।
महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥

स-समुद्रम् उप विस्तीर्णम् अपश्यन् सु-महत् सरः महत् मनः इव सु-अच्छम् प्रसन्न सलिल आशयम्

नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् ।
हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१ ॥

नील रक्त उत्पल अम्भः-ज कह्लार इन्दीवर आकरम् हंस सारस चक्राह्व कारण्डव निकूजितम्

मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्‌घ्रिपम् ।
पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥

मत्त भ्रमर सौ-स्वर्य हृष्ट रोम लता अङ्घ्रिपम् पद्म कोश रजः दिक्षु विक्षिपत् पवन उत्सवम्

तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।
विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥

तत्र गान्धर्वम् आकर्ण्य दिव्य मार्ग मनः-हरम् विसिस्म्युः राज-पुत्राः ते मृदङ्ग पणव आदि अनु

तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।
उपगीयमानममरप्रवरं विबुधानुगै: ॥ २४ ॥
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुका: ॥ २५ ॥

तर्हि एव सरसः तस्मात् निष्क्रामन्तम् सह-अनुगम् उपगीयमानम् अमर-प्रवरम् विबुध-अनुगैः तप्त-हेम निकाय-आभम् शिति-कण्ठम् त्रि-लोचनम् प्रसाद सु-मुखम् वीक्ष्य प्रणेमुः जात कौतुकाः

स तान् प्रपन्नार्तिहरो भगवान्धर्मवत्सल: ।
धर्मज्ञान् शीलसम्पन्नान् प्रीत: प्रीतानुवाच ह ॥ २६ ॥

सः तान् प्रपन्न-आर्ति-हरः भगवान् धर्म-वत्सलः धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह

श्रीरुद्र उवाच
यूयं वेदिषद: पुत्रा विदितं वश्चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं
कृतम् ॥ २७ ॥

श्री-रुद्रः उवाच यूयम् वेदिषदः पुत्राः विदितम् वः चिकीर्षितम् अनुग्रहाय भद्रम् वः एवम् मे दर्शनम् कृतम्

य: परं रंहस:
साक्षात्‍त्रिरगुणाज्जीवसंज्ञितात् ।
भगवन्तं वासुदेवं प्रपन्न: स प्रियो हि
मे ॥ २८ ॥

यः परम् रंहसः साक्षात् त्रि-गुणात् जीव-संज्ञितात् भगवन्तम् वासुदेवम् प्रपन्नः सः प्रियः हि मे

स्वधर्मनिष्ठ: शतजन्मभि: पुमान्
विरिञ्चतामेति तत: परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधा: कलात्यये ॥ २९ ॥

स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति ततः परम् हि माम् अव्याकृतम् भागवतः अथ वैष्णवम् पदम् यथा अहम् विबुधाः कला-अत्यये

अथ भागवता यूयं प्रिया: स्थ भगवान् यथा ।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥

अथ भागवताः यूयम् प्रियाः स्थ भगवान् यथा न मत् भागवतानाम् च प्रेयान् अन्यः अस्ति कर्हिचित्

इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
नि:श्रेयसकरं चापि श्रूयतां तद्वदामि व: ॥ ३१ ॥

इदम् विविक्तम् जप्तव्यम् पवित्रम् मङ्गलम् परम् निःश्रेयस-करम् च अपि श्रूयताम् तत् वदामि वः

मैत्रेय उवाच
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिव: ।
बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वच: ॥ ३२ ॥

मैत्रेयः उवाच इति अनुक्रोश-हृदयः भगवान् आह तान् शिवः बद्ध-अञ्जलीन् राज-पुत्रान् नारायण-परः वचः

श्रीरुद्र उवाच
जितं त आत्मविद्वर्यस्वस्तये स्वस्तिरस्तु मे ।
भवताराधसा राद्धं सर्वस्मा आत्मने नम: ॥ ३३ ॥

श्री-रुद्रः उवाच जितम् ते आत्म-वित् वर्य स्वस्तये स्वस्तिः अस्तु मे भवता आराधसा राद्धम् सर्वस्मै आत्मने नमः

नम: पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।
वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥

नमः पङ्कज-नाभाय भूत-सूक्ष्म इन्द्रिय आत्मने वासुदेवाय शान्ताय कूट-स्थाय स्व-रोचिषे

सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥

सङ्कर्षणाय सूक्ष्माय दुरन्ताय अन्तकाय च नमः विश्व-प्रबोधाय प्रद्युम्नाय अन्तः-आत्मने

नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।
नम: परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥

नमः नमः अनिरुद्धाय हृषीकेश इन्द्रिय-आत्मने नमः परम-हंसाय पूर्णाय निभृत-आत्मने

स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नम: ।
नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥

स्वर्ग अपवर्ग द्वाराय नित्यम् शुचि-सदे नमः नमः हिरण्य वीर्याय चातुः-होत्राय तन्तवे

नम ऊर्ज इषे त्रय्या: पतये यज्ञरेतसे ।
तृप्तिदाय च जीवानां नम: सर्वरसात्मने ॥ ३८ ॥

नमः ऊर्जे इषे त्रय्याः पतये यज्ञ रेतसे तृप्ति-दाय च जीवानाम् नमः सर्व-रस-आत्मने

सर्वसत्त्वात्मदेहाय विशेषाय
स्थवीयसे ।
नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥

सर्व सत्त्व आत्म देहाय विशेषाय स्थवीयसे नमः त्रै-लोक्य पालाय सह ओजः बलाय च

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।
नम: पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥

अर्थ लिङ्गाय नभसे नमः अन्तः बहिः आत्मने नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे

प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।
नमोऽधर्मविपाकाय मृत्यवे दु:खदाय च ॥ ४१ ॥

प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे नमः अधर्म विपाकाय मृत्यवे दुःख-दाय च

नमस्त आशिषामीश मनवे कारणात्मने ।
नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।
पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥

नमः ते आशिषाम् ईश मनवे कारण-आत्मने नमः धर्माय बृहते कृष्णाय अकुण्ठ-मेधसे पुरुषाय पुराणाय साङ्ख्य-योग-ईश्वराय च

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ।
चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥

शक्ति-त्रय समेताय मीढुषे अहङ्कृत-आत्मने चेतः आकूति रूपाय नमः वाचः विभूतये

दर्शनं नो दिद‍ृक्षूणां देहि भागवतार्चितम् ।
रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥

दर्शनम् नः दिदृक्षूणाम् देहि भागवत अर्चितम् रूपम् प्रिय-तमम् स्वानाम् सर्व-इन्द्रिय गुण अञ्जनम्

स्‍निग्धप्रावृड्‌घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।
चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४५ ॥
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।
सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥

स्निग्ध प्रावृट् घन-श्यामम् सर्व सौन्दर्य सङ्ग्रहम् चारु आयत चतुः-बाहु सु-जात रुचिर आननम् पद्म-कोश पलाश अक्षम् सुन्दर भ्रु सु-नासिकम् सु-द्विजम् सु-कपोल आस्यम् सम-कर्ण विभूषणम्

प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् ।
लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७ ॥
स्फुरत्किरीटवलयहारनूपुरमेखलम् ।
शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८ ॥

प्रीति प्रहसित अपाङ्गम् अलकैः रूप शोभितम् लसत् पङ्कज किञ्जल्क दुकूलम् मृष्ट कुण्डलम् स्फुरत् किरीट वलय हार नूपुर मेखलम् शङ्ख चक्र गदा पद्म माला मणि उत्तम ऋद्धि-मत्

सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् ।
श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९ ॥

सिंह स्कन्ध त्विषः बिभ्रत् सौभग ग्रीव कौस्तुभम् श्रिया अनपायिन्या क्षिप्त निकष अश्म उरसा उल्लसत्

पूररेचकसंविग्नवलिवल्गुदलोदरम् ।
प्रतिसङ्‌क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥

पूर रेचक संविग्न वलि वल्गु दल उदरम् प्रतिसङ्क्रामयत् विश्वम् नाभ्या आवर्त गभीरया

श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् ।
समचार्वङ्‌घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१ ॥

श्याम श्रोणि अधि रोचिष्णु दुकूल स्वर्ण मेखलम् सम चारु अङ्घ्रि जङ्घ ऊरु निम्न जानु सु-दर्शनम्

पदा शरत्पद्मपलाशरोचिषा
नखद्युभिर्नोऽन्तरघं विधुन्वता ।
प्रदर्शय स्वीयमपास्तसाध्वसं
पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥

पदा शरत् पद्म पलाश रोचिषा नख द्युभिः नः अन्तः-अघम् विधुन्वता प्रदर्शय स्वीयम् अपास्त साध्वसम् पदम् गुरो मार्ग गुरुः तमः-जुषाम्

एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।
यद्भक्तियोगोऽभयद: स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥

एतत् रूपम् अनुध्येयम् आत्म शुद्धिम् अभीप्सताम् यत् भक्ति-योगः अभय-दः स्व-धर्मम् अनुतिष्ठताम्

भवान् भक्तिमता लभ्यो दुर्लभ: सर्वदेहिनाम् ।
स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गति: ॥ ५४ ॥

भवान् भक्ति-मता लभ्यः दुर्लभः सर्व-देहिनाम् स्वाराज्यस्य अपि अभिमतः एकान्तेन आत्म-वित् गतिः

तं दुराराध्यमाराध्य सतामपि दुरापया ।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहि: ॥ ५५ ॥

तम् दुराराध्यम् आराध्य सताम् अपि दुरापया एकान्त भक्त्या कः वाञ्छेत् पाद-मूलम् विना बहिः

यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।
विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥

यत्र निर्विष्टम् अरणम् कृत-अन्तः न अभिमन्यते विश्वम् विध्वंसयन् वीर्य शौर्य विस्फूर्जित भ्रुवा

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ५७ ॥

क्षण-अर्धेन अपि तुलये न स्वर्गम् न अपुनः-भवम् भगवत् सङ्गि सङ्गस्य मर्त्यानाम् किम् उत आशिषः

अथानघाङ्‌घ्रेस्तव कीर्तितीर्थयो-
रन्तर्बहि:स्‍नानविधूतपाप्मनाम् ।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां
स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥

अथ अनघ-अङ्घ्रेः तव कीर्ति तीर्थयोः अन्तः बहिः स्नान विधूत पाप्मनाम् भूतेषु अनुक्रोश सु-सत्त्व शीलिनाम् स्यात् सङ्गमः अनुग्रहः एषः नः तव

न यस्य चित्तं बहिरर्थविभ्रमं
तमोगुहायां च विशुद्धमाविशत् ।
यद्भक्तियोगानुगृहीतमञ्जसा
मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥

न यस्य चित्तम् बहिः अर्थ विभ्रमम् तमः गुहायाम् च विशुद्धम् आविशत् यत् भक्ति-योग अनुगृहीतम् अञ्जसा मुनिः विचष्टे ननु तत्र ते गतिम्

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।
तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥

यत्र इदम् व्यज्यते विश्वम् विश्वस्मिन् अवभाति यत् तत् त्वम् ब्रह्म परम् ज्योतिः आकाशम् इव विस्तृतम्

यो माययेदं पुरुरूपयासृजद्
बिभर्ति भूय: क्षपयत्यविक्रिय: ।
यद्भेदबुद्धि: सदिवात्मदु:स्थया
त्वमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥

यः मायया इदम् पुरु रूपया असृजत् बिभर्ति भूयः क्षपयति अविक्रियः यत् भेद-बुद्धिः सत् इव आत्म-दुःस्थया त्वम् आत्म-तन्त्रम् भगवन् प्रतीमहि

क्रियाकलापैरिदमेव योगिन:
श्रद्धान्विता: साधु यजन्ति सिद्धये ।
भूतेन्द्रियान्त:करणोपलक्षितं
वेदे च तन्त्रे च त एव कोविदा: ॥ ६२ ॥

क्रिया कलापैः इदम् एव योगिनः श्रद्धा-अन्विताः साधु यजन्ति सिद्धये भूत इन्द्रिय अन्तः-करण उपलक्षितम् वेदे च तन्त्रे च ते एव कोविदाः

त्वमेक आद्य: पुरुष: सुप्तशक्ति-
स्तया रज:सत्त्वतमो विभिद्यते ।
महानहं खं मरुदग्निवार्धरा:
सुरर्षयो भूतगणा इदं यत: ॥ ६३ ॥

त्वम् एकः आद्यः पुरुषः सुप्त शक्तिः तया रजः सत्त्व तमः विभिद्यते महान् अहम् खम् मरुत् अग्नि वाः धराः सुर-ऋषयः भूत-गणाः इदम् यतः

सृष्टं स्वशक्त्येदमनुप्रविष्ट-
श्चचतुर्विधं पुरमात्मांशकेन ।
अथो विदुस्तं पुरुषं सन्तमन्त-
र्भुङ्क्ते हृषीकैर्मधु सारघं य: ॥ ६४ ॥

सृष्टम् स्व-शक्त्या इदम् अनुप्रविष्टः चतुः-विधम् पुरम् आत्म-अंशकेन अथो विदुः तम् पुरुषम् सन्तम् अन्तः भुङ्क्ते हृषीकैः मधु सार-घम् यः

स एष लोकानतिचण्डवेगो
विकर्षसि त्वं खलु कालयान: ।
भूतानि भूतैरनुमेयतत्त्वो
घनावलीर्वायुरिवाविषह्य: ॥ ६५ ॥

सः एषः लोकान् अति चण्ड-वेगः विकर्षसि त्वम् खलु काल-यानः भूतानि भूतैः अनुमेय-तत्त्वः घन-आवलीः वायुः इव अविषह्यः

प्रमत्तमुच्चैरिति कृत्यचिन्तया
प्रवृद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्त: सहसाभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखुमन्तक: ॥ ६६ ॥

प्रमत्तम् उच्चैः इति कृत्य चिन्तया प्रवृद्ध लोभम् विषयेषु लालसम् त्वम् अप्रमत्तः सहसा अभिपद्यसे क्षुत् लेलिहानः अहिः इव आखुम् अन्तकः

कस्त्वत्पदाब्जं विजहाति पण्डितो
यस्तेऽवमानव्ययमानकेतन: ।
विशङ्कयास्मद्गुरुरर्चति स्म यद्
विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥

कः त्वत् पद-अब्जम् विजहाति पण्डितः यः ते अवमान व्ययमान केतनः विशङ्कया अस्मत् गुरुः अर्चति स्म यत् विना उपपत्तिम् मनवः चतुः-दश

अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।
विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गति: ॥ ६८ ॥

अथ त्वम् असि नः ब्रह्मन् परम-आत्मन् विपश्चिताम् विश्वम् रुद्र-भय ध्वस्तम् अकुतश्चित्-भया गतिः

इदं जपत भद्रं वो विशुद्धा नृपनन्दना: ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशया: ॥ ६९ ॥

इदम् जपत भद्रम् वः विशुद्धाः नृप-नन्दनाः स्व-धर्मम् अनुतिष्ठन्तः भगवति अर्पित आशयाः

तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥

तम् एव आत्मानम् आत्म-स्थम् सर्व भूतेषु अवस्थितम् पूजयध्वम् गृणन्तः च ध्यायन्तः च असकृत् हरिम्

योगादेशमुपासाद्य धारयन्तो मुनिव्रता: ।
समाहितधिय: सर्व एतदभ्यसताद‍ृता: ॥ ७१ ॥

योग-आदेशम् उपासाद्य धारयन्तः मुनि-व्रताः समाहित धियः सर्वे एतत् अभ्यसत आदृताः

इदमाह पुरास्माकं भगवान् विश्वसृक्पति: ।
भृग्वादीनामात्मजानां सिसृक्षु: संसिसृक्षताम् ॥ ७२ ॥

इदम् आह पुरा अस्माकम् भगवान् विश्व-सृक् पतिः भृगु-आदीनाम् आत्मजानाम् सिसृक्षुः संसिसृक्षताम्

ते वयं नोदिता: सर्वे प्रजासर्गे प्रजेश्वरा: ।
अनेन ध्वस्ततमस: सिसृक्ष्मो विविधा: प्रजा: ॥ ७३ ॥

ते वयम् नोदिताः सर्वे प्रजा-सर्गे प्रजा-ईश्वराः अनेन ध्वस्त-तमसः सिसृक्ष्मः विविधाः प्रजाः

अथेदं नित्यदा युक्तो जपन्नवहित: पुमान् ।
अचिराच्छ्रेय आप्नोति वासुदेवपरायण: ॥ ७४ ॥

अथ इदम् नित्यदा युक्तः जपन् अवहितः पुमान् अचिरात् श्रेयः आप्नोति वासुदेव-परायणः

श्रेयसामिह सर्वेषां ज्ञानं नि:श्रेयसं परम् ।
सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥

श्रेयसाम् इह सर्वेषाम् ज्ञानम् निःश्रेयसम् परम् सुखम् तरति दुष्पारम् ज्ञान नौः व्यसन अर्णवम्

य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।
अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६ ॥

यः इमम् श्रद्धया युक्तः मत्-गीतम् भगवत्-स्तवम् अधीयानः दुराराध्यम् हरिम् आराधयति असौ

विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् ।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७ ॥

विन्दते पुरुषः अमुष्मात् यत् यत् इच्छति असत्वरम् मत्-गीत गीतात् सु-प्रीतात् श्रेयसाम् एक वल्लभात्

इदं य: कल्य उत्थाय प्राञ्जलि: श्रद्धयान्वित: ।
श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनै: ॥ ७८ ॥

इदम् यः कल्ये उत्थाय प्राञ्जलिः श्रद्धया अन्वितः शृणुयात् श्रावयेत् मर्त्यः मुच्यते कर्म-बन्धनैः

गीतं मयेदं नरदेवनन्दना:
परस्य पुंस: परमात्मन: स्तवम् ।
जपन्त एकाग्रधियस्तपो महत्
चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥

गीतम् मया इदम् नरदेव-नन्दनाः परस्य पुंसः परम-आत्मनः स्तवम् जपन्तः एक-अग्र धियः तपः महत् चरध्वम् अन्ते ततः आप्स्यथ ईप्सितम्

४.२५

मैत्रेय उवाच
इति सन्दिश्य भगवान् बार्हिषदैरभिपूजित: ।
पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हर: ॥ १ ॥

मैत्रेयः उवाच इति सन्दिश्य भगवान् बार्हिषदैः अभिपूजितः पश्यताम् राज-पुत्राणाम् तत्र एव अन्तर्दधे हरः

रुद्रगीतं भगवत: स्तोत्रं सर्वे प्रचेतस: ।
जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥ २ ॥

रुद्र-गीतम् भगवतः स्तोत्रम् सर्वे प्रचेतसः जपन्तः ते तपः तेपुः वर्षाणाम् अयुतम् जले

प्राचीनबर्हिषं क्षत्त: कर्मस्वासक्तमानसम् ।
नारदोऽध्यात्मतत्त्वज्ञ: कृपालु: प्रत्यबोधयत् ॥ ३ ॥

प्राचीनबर्हिषम् क्षत्तः कर्मसु आसक्त मानसम् नारदः अध्यात्म तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत्

श्रेयस्त्वं कतमद्राजन् कर्मणात्मन ईहसे ।
दु:खहानि: सुखावाप्ति: श्रेयस्तन्नेह चेष्यते ॥ ४ ॥

श्रेयः त्वम् कतमत् राजन् कर्मणा आत्मनः ईहसे दुःख-हानिः सुख-अवाप्तिः श्रेयः तत् न इह च इष्यते

राजोवाच
न जानामि महाभाग परं कर्मापविद्धधी: ।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभि: ॥ ५ ॥

राजा उवाच न जानामि महा-भाग परम् कर्म अपविद्ध धीः ब्रूहि मे विमलम् ज्ञानम् येन मुच्येय कर्मभिः

गृहेषु कूटधर्मेषु पुत्रदारधनार्थधी: ।
न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ६ ॥

गृहेषु कूट-धर्मेषु पुत्र दार धन अर्थ धीः न परम् विन्दते मूढः भ्राम्यन् संसार वर्त्मसु

नारद उवाच
भो भो: प्रजापते राजन् पशून् पश्य
त्वयाध्वरे ।
संज्ञापिताञ्जीवसङ्घान्निर्घृणेन सहस्रश: ॥ ७ ॥

नारदः उवाच भोः भोः प्रजा-पते राजन् पशून् पश्य त्वया अध्वरे संज्ञापितान् जीव-सङ्घान् निर्घृणेन सहस्रशः

एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं
तव ।
सम्परेतम् अय:कूटैश्छिन्दन्त्युत्थितमन्यव: ॥ ८ ॥

एते त्वाम् सम्प्रतीक्षन्ते स्मरन्तः वैशसम् तव सम्परेतम् अयः कूटैः छिन्दन्ति उत्थित मन्यवः

अत्र ते कथयिष्येऽमुमितिहासं पुरातनम् ।
पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९ ॥

अत्र ते कथयिष्ये अमुम् इतिहासम् पुरातनम् पुरञ्-जनस्य चरितम् निबोध गदतः मम

आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवा: ।
तस्याविज्ञातनामासीत्सखाविज्ञातचेष्टित: ॥ १० ॥

आसीत् पुरञ्जनः नाम राजा राजन् बृहत्-श्रवाः तस्य अविज्ञात नामा आसीत् सखा अविज्ञात चेष्टितः

सोऽन्वेषमाण: शरणं बभ्राम पृथिवीं प्रभु: ।
नानुरूपं यदाविन्ददभूत्स विमना इव ॥ ११ ॥

सः अन्वेषमाणः शरणम् बभ्राम पृथिवीम् प्रभुः न अनुरूपम् यदा अविन्दत् अभूत् सः विमनाः इव

न साधु मेने ता: सर्वा भूतले यावती:
पुर: ।
कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२ ॥

न साधु मेने ताः सर्वाः भू-तले यावतीः पुरः कामान् कामयमानः असौ तस्य तस्य उपपत्तये

स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।
ददर्श नवभिर्द्वार्भि: पुरं लक्षितलक्षणाम् ॥ १३ ॥

सः एकदा हिमवतः दक्षिणेषु अथ सानुषु ददर्श नवभिः द्वार्भिः पुरम् लक्षित लक्षणाम्

प्राकारोपवनाट्टालपरिखैरक्षतोरणै: ।
स्वर्णरौप्यायसै: श‍ृङ्गै: सङ्कुलां सर्वतो गृहै: ॥ १४ ॥

प्राकार उपवन अट्टाल परिखैः अक्ष तोरणैः स्वर्ण रौप्य अयसैः शृङ्गैः सङ्कुलाम् सर्वतः गृहैः

नीलस्फटिकवैदूर्यमुक्तामरकतारुणै: ।
क्लृप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५ ॥

नील स्फटिक वैदूर्य मुक्ता मरकत अरुणैः कॢप्त हर्म्य-स्थलीम् दीप्ताम् श्रिया भोगवतीम् इव

सभाचत्वररथ्याभिराक्रीडायतनापणै: ।
चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभि: ॥ १६ ॥

सभा चत्वर रथ्याभिः आक्रीड-आयतन आपणैः चैत्य ध्वज-पताकाभिः युक्ताम् विद्रुम वेदिभिः

पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले ।
नदद्विहङ्गालिकुलकोलाहलजलाशये ॥ १७ ॥

पुर्याः तु बाह्य-उपवने दिव्य द्रुम लता आकुले नदत् विहङ्ग अलि कुल कोलाहल जल-आशये

हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना ।
चलत्प्रवालविटपनलिनीतटसम्पदि ॥ १८ ॥

हिम-निर्झर विप्रुट्-मत् कुसुम-आकर वायुना चलत् प्रवाल विटप नलिनी-तट सम्पदि

नानारण्यमृगव्रातैरनाबाधे मुनिव्रतै: ।
आहूतं मन्यते पान्थो यत्र कोकिलकूजितै: ॥ १९ ॥

नाना अरण्य मृग व्रातैः अनाबाधे मुनि-व्रतैः आहूतम् मन्यते पान्थः यत्र कोकिल कूजितैः

यद‍ृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् ।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकै: ॥ २० ॥

यदृच्छया आगताम् तत्र ददर्श प्रमदा उत्तमाम् भृत्यैः दशभिः आयान्तीम् एक-एक शत नायकैः

पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वत: ।
अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् ॥ २१ ॥

पञ्च शीर्ष अहिना गुप्ताम् प्रतीहारेण सर्वतः अन्वेषमाणाम् ऋषभम् अप्रौढाम् काम-रूपिणीम्

सुनासां सुदतीं बालां सुकपोलां वराननाम् ।
समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२ ॥

सु-नासाम् सु-दतीम् बालाम् सु-कपोलाम् वर-आननाम् सम विन्यस्त कर्णाभ्याम् बिभ्रतीम् कुण्डल-श्रियम्

पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् ।
पद्‌भ्यां क्‍वणद्‌भ्यां चलन्तीं नूपुरैर्देवतामिव ॥ २३ ॥

पिशङ्ग नीवीम् सु-श्रोणीम् श्यामाम् कनक मेखलाम् पद्भ्याम् क्वणद्भ्याम् चलन्तीम् नूपुरैः देवताम् इव

स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ।
वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४ ॥

स्तनौ व्यञ्जित कैशोरौ सम-वृत्तौ निरन्तरौ वस्त्र-अन्तेन निगूहन्तीम् व्रीडया गज-गामिनीम्

तामाह ललितं वीर: सव्रीडस्मितशोभनाम् ।
स्‍निग्धेनापाङ्गपुङ्खेन स्पृष्ट: प्रेमोद्भ्रमद्भ्रुवा ॥ २५ ॥

ताम् आह ललितम् वीरः स-व्रीड स्मित शोभनाम् स्निग्धेन अपाङ्ग-पुङ्खेन स्पृष्टः प्रेम-उद्भ्रमत् भ्रुवा

का त्वं कञ्जपलाशाक्षि कस्यासीह कुत: सति ।
इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६ ॥

का त्वम् कञ्ज-पलाश अक्षि कस्य असि इह कुतः सति इमाम् उप पुरीम् भीरु किम् चिकीर्षसि शंस मे

क एतेऽनुपथा ये त एकादश महाभटा: ।
एता वा ललना: सुभ्रु कोऽयं तेऽहि: पुर:सर: ॥ २७ ॥

के एते अनुपथाः ये ते एकादश महा-भटाः एताः वा ललनाः सु-भ्रु कः अयम् ते अहिः पुरः सरः

त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं
विचिन्वती किं मुनिवद्रहो वने ।
त्वदङ्‌घ्रिकामाप्तसमस्तकामं
क्‍व पद्मकोश: पतित: कराग्रात् ॥ २८ ॥

त्वम् ह्रीः भवानी असि अथ वाक् रमा पतिम् विचिन्वती किम् मुनि-वत् रहः वने त्वत्-अङ्घ्रि काम आप्त समस्त कामम् क्व पद्म-कोशः पतितः कर अग्रात्

नासां वरोर्वन्यतमा भुविस्पृक्
पुरीमिमां वीरवरेण साकम् ।
अर्हस्यलङ्कर्तुमदभ्रकर्मणा
लोकं परं श्रीरिव यज्ञपुंसा ॥ २९ ॥

न आसाम् वरोरु अन्य-तमा भुवि-स्पृक् पुरीम् इमाम् वीर-वरेण साकम् अर्हसि अलङ्कर्तुम् अदभ्र कर्मणा लोकम् परम् श्रीः इव यज्ञ-पुंसा

यदेष मापाङ्गविखण्डितेन्द्रियं
सव्रीडभावस्मितविभ्रमद्भ्रुवा ।
त्वयोपसृष्टो भगवान्मनोभव:
प्रबाधतेऽथानुगृहाण शोभने ॥ ३० ॥

यत् एषः मा अपाङ्ग विखण्डित इन्द्रियम् स-व्रीड भाव स्मित विभ्रमत् भ्रुवा त्वया उपसृष्टः भगवान् मनः-भवः प्रबाधते अथ अनुगृहाण शोभने

त्वदाननं सुभ्रु सुतारलोचनं
व्यालम्बिनीलालकवृन्दसंवृतम् ।
उन्नीय मे दर्शय वल्गुवाचकं
यद्‌व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१ ॥

त्वत् आननम् सु-भ्रु सु-तार लोचनम् व्यालम्बि नील अलक-वृन्द संवृतम् उन्नीय मे दर्शय वल्गु-वाचकम् यत् व्रीडया न अभिमुखम् शुचि-स्मिते

नारद उवाच
इत्थं पुरञ्जनं नारी याचमानमधीरवत् ।
अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ ३२ ॥

नारदः उवाच इत्थम् पुरञ्जनम् नारी याचमानम् अधीर-वत् अभ्यनन्दत तम् वीरम् हसन्ती वीर मोहिता

न विदाम वयं सम्यक्‍कर्तारं पुरुषर्षभ ।
आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३ ॥

न विदाम वयम् सम्यक् कर्तारम् पुरुष-ऋषभ आत्मनः च परस्य अपि गोत्रम् नाम च यत्-कृतम्

इहाद्य सन्तमात्मानं विदाम न तत: परम् ।
येनेयं निर्मिता वीर पुरी शरणमात्मन: ॥ ३४ ॥

इह अद्य सन्तम् आत्मानम् विदाम न ततः परम् येन इयम् निर्मिता वीर पुरी शरणम् आत्मनः

एते सखाय: सख्यो मे नरा नार्यश्च मानद ।
सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५ ॥

एते सखायः सख्यः मे नराः नार्यः च मान-द सुप्तायाम् मयि जागर्ति नागः अयम् पालयन् पुरीम्

दिष्ट्यागतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे ।
उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥ ३६ ॥

दिष्ट्या आगतः असि भद्रम् ते ग्राम्यान् कामान् अभीप्ससे उद्वहिष्यामि तान् ते अहम् स्व-बन्धुभिः अरिम्-दम

इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो ।
मयोपनीतान् गृह्णान: कामभोगान् शतं समा: ॥ ३७ ॥

इमाम् त्वम् अधितिष्ठस्व पुरीम् नव-मुखीम् विभो मया उपनीतान् गृह्णानः काम-भोगान् शतम् समाः

कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् ।
असम्परायाभिमुखमश्वस्तनविदं पशुम् ॥ ३८ ॥

कम् नु त्वत् अन्यम् रमये हि अरति-ज्ञम् अकोविदम् असम्पराय अभिमुखम् अश्वस्तन-विदम् पशुम्

धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यश: ।
लोका विशोका विरजा यान्न केवलिनो विदु: ॥ ३९ ॥

धर्मः हि अत्र अर्थ कामौ च प्रजा-आनन्दः अमृतम् यशः लोकाः विशोकाः विरजाः यान् न केवलिनः विदुः

पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह ।
क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रम: ॥ ४० ॥

पितृ देव ऋषि मर्त्यानाम् भूतानाम् आत्मनः च ह क्षेम्यम् वदन्ति शरणम् भवे अस्मिन् यत् गृह-आश्रमः

का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् ।
न वृणीत प्रियं प्राप्तं माद‍ृशी त्वाद‍ृशं पतिम् ॥ ४१ ॥

का नाम वीर विख्यातम् वदान्यम् प्रिय-दर्शनम् न वृणीत प्रियम् प्राप्तम् मादृशी त्वादृशम् पतिम्

कस्या मनस्ते भुवि भोगिभोगयो:
स्त्रिया न सज्जेद्भुजयोर्महाभुज ।
योऽनाथवर्गाधिमलं घृणोद्धत
स्मितावलोकेन चरत्यपोहितुम् ॥ ४२ ॥

कस्याः मनः ते भुवि भोगि-भोगयोः स्त्रियाः न सज्जेत् भुजयोः महा-भुज यः अनाथ-वर्गा अधिम् अलम् घृणा-उद्धत स्मित-अवलोकेन चरति अपोहितुम्

नारद उवाच
इति तौ दम्पती तत्र समुद्य समयं मिथ: ।
तां प्रविश्य पुरीं राजन्मुमुदाते शतं समा: ॥ ४३ ॥

नारदः उवाच इति तौ दम्-पती तत्र समुद्य समयम् मिथः ताम् प्रविश्य पुरीम् राजन् मुमुदाते शतम् समाः

उपगीयमानो ललितं तत्र तत्र च गायकै: ।
क्रीडन् परिवृत: स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥ ४४ ॥

उपगीयमानः ललितम् तत्र तत्र च गायकैः क्रीडन् परिवृतः स्त्रीभिः ह्रदिनीम् आविशत् शुचौ

सप्तोपरि कृता द्वार: पुरस्तस्यास्तु द्वे अध: ।
पृथग्विषयगत्यर्थं तस्यां य: कश्चनेश्वर: ॥ ४५ ॥

सप्त उपरि कृताः द्वारः पुरः तस्याः तु द्वे अधः पृथक् विषय गति-अर्थम् तस्याम् यः कश्चन ईश्वरः

पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६ ॥

पञ्च द्वारः तु पौरस्त्याः दक्षिणा एका तथा उत्तरा पश्चिमे द्वे अमूषाम् ते नामानि नृप वर्णये

खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते ।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्सख: ॥ ४७ ॥

खद्योता आविर्मुखी च प्राक् द्वारौ एकत्र निर्मिते विभ्राजितम् जन-पदम् याति ताभ्याम् द्युमत् सखः

नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते ।
अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८ ॥

नलिनी नालिनी च प्राक् द्वारौ एकत्र निर्मिते अवधूत सखः ताभ्याम् विषयम् याति सौरभम्

मुख्या नाम पुरस्ताद् द्वास्तयापणबहूदनौ ।
विषयौ याति पुरराड्रसज्ञविपणान्वित: ॥ ४९ ॥

मुख्या नाम पुरस्तात् द्वाः तया आपण बहूदनौ विषयौ याति पुर-राट् रस-ज्ञ विपण अन्वितः

पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जन: ।
राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वित: ॥ ५० ॥

पितृहूः नृप पुर्याः द्वाः दक्षिणेन पुरञ्जनः राष्ट्रम् दक्षिण पञ्चालम् याति श्रुत-धर-अन्वितः

देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जन: ।
राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वित: ॥ ५१ ॥

देवहूः नाम पुर्याः द्वाः उत्तरेण पुरञ्जनः राष्ट्रम् उत्तर पञ्चालम् याति श्रुत-धर-अन्वितः

आसुरी नाम पश्चाद् द्वास्तया याति पुरञ्जन: ।
ग्रामकं नाम विषयं दुर्मदेन समन्वित: ॥ ५२ ॥

आसुरी नाम पश्चात् द्वाः तया याति पुरञ्जनः ग्रामकम् नाम विषयम् दुर्मदेन समन्वितः

निऋर्तिर्नाम पश्चाद् द्वास्तया याति पुरञ्जन: ।
वैशसं नाम विषयं लुब्धकेन समन्वित: ॥ ५३ ॥

निरृतिः नाम पश्चात् द्वाः तया याति पुरञ्जनः वैशसम् नाम विषयम् लुब्धकेन समन्वितः

अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ ।
अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥ ५४ ॥

अन्धौ अमीषाम् पौराणाम् निर्वाक् पेशस्कृतौ उभौ अक्षण्-वताम् अधिपतिः ताभ्याम् याति करोति च

स यर्ह्यन्त:पुरगतो विषूचीनसमन्वित: ।
मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ ५५ ॥

सः यर्हि अन्तः-पुर गतः विषूचीन समन्वितः मोहम् प्रसादम् हर्षम् वा याति जाया आत्म-ज उद्भवम्

एवं कर्मसु संसक्त: कामात्मा वञ्चितोऽबुध: ।
महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥ ५६ ॥

एवम् कर्मसु संसक्तः काम-आत्मा वञ्चितः अबुधः महिषी यत् यत् ईहेत तत् तत् एव अन्ववर्तत

क्‍वचित्पिबन्त्यां पिबति मदिरां मदविह्वल: ।
अश्नन्त्यां क्‍वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७ ॥
क्‍वचिद्गायति गायन्त्यां रुदत्यां रुदति क्‍वचित् ।
क्‍वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८ ॥
क्‍वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।
अनु शेते शयानायामन्वास्ते क्‍वचिदासतीम् ॥ ५९ ॥
क्‍वचिच्छृणोति श‍ृण्वन्त्यां पश्यन्त्यामनु पश्यति ।
क्‍वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्‍वचित् ॥ ६० ॥
क्‍वचिच्च शोचतीं जायामनुशोचति दीनवत् ।
अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ ६१ ॥

क्वचित् पिबन्त्याम् पिबति मदिराम् मद-विह्वलः अश्नन्त्याम् क्वचित् अश्नाति जक्षत्याम् सह जक्षिति क्वचित् गायति गायन्त्याम् रुदत्याम् रुदति क्वचित् क्वचित् हसन्त्याम् हसति जल्पन्त्याम् अनु जल्पति क्वचित् धावति धावन्त्याम् तिष्ठन्त्याम् अनु तिष्ठति अनु शेते शयानायाम् अनु आस्ते क्वचित् आसतीम् क्वचित् शृणोति शृण्वन्त्याम् पश्यन्त्याम् अनु पश्यति क्वचित् जिघ्रति जिघ्रन्त्याम् स्पृशन्त्याम् स्पृशति क्वचित् क्वचित् च शोचतीम् जायाम् अनु शोचति दीन-वत् अनु हृष्यति हृष्यन्त्याम् मुदिताम् अनु मोदते

विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चित: ।
नेच्छन्ननुकरोत्यज्ञ: क्लैब्यात्क्रीडामृगो यथा ॥ ६२ ॥

विप्रलब्धः महिष्या एवम् सर्व प्रकृति वञ्चितः न इच्छन् अनुकरोति अज्ञः क्लैब्यात् क्रीडा-मृगः यथा

४.२६

नारद उवाच
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।
द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥
एकरश्म्येकदमनमेकनीडं द्विकूबरम् ।
पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २ ॥
हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधि: ।
एकादशचमूनाथ: पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥

नारदः उवाच सः एकदा महा-इष्वासः रथम् पञ्च-अश्वम् आशु-गम् द्वि-ईषम् द्वि-चक्रम् एक अक्षम् त्रि वेणुम् पञ्च बन्धुरम् एक रश्मि एक दमनम् एक नीडम् द्वि कूबरम् पञ्च प्रहरणम् सप्त वरूथम् पञ्च विक्रमम् हैम उपस्करम् आरुह्य स्वर्ण वर्मा अक्षय इषु-धिः एकादश चमू-नाथः पञ्च प्रस्थम् अगात् वनम्

चचार मृगयां तत्र द‍ृप्त आत्तेषुकार्मुक: ।
विहाय जायामतदर्हां मृगव्यसनलालस: ॥ ४ ॥

चचार मृगयाम् तत्र दृप्तः आत्त इषु कार्मुकः विहाय जायाम् अ-तत्-अर्हाम् मृग व्यसन लालसः

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रह: ।
न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५ ॥

आसुरीम् वृत्तिम् आश्रित्य घोर आत्मा निरनुग्रहः न्यहनत् निशितैः बाणैः वनेषु वन-गोचरान्

तीर्थेषु प्रतिद‍ृष्टेषु राजा मेध्यान् पशून् वने ।
यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने यावत् अर्थम् अलम् लुब्धः हन्यात् इति नियम्यते

य एवं कर्म नियतं विद्वान् कुर्वीत मानव: ।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥

यः एवम् कर्म नियतम् विद्वान् कुर्वीत मानवः कर्मणा तेन राज-इन्द्र ज्ञानेन न सः लिप्यते

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।
गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यध: ॥ ८ ॥

अन्यथा कर्म कुर्वाणः मान-आरूढः निबध्यते गुण-प्रवाह पतितः नष्ट-प्रज्ञः व्रजति अधः

तत्र निर्भिन्नगात्राणां चित्रवाजै: शिलीमुखै: ।
विप्लवोऽभूद्दु:खितानां दु:सह: करुणात्मनाम् ॥ ९ ॥

तत्र निर्भिन्न गात्राणाम् चित्र-वाजैः शिली-मुखैः विप्लवः अभूत् दुःखितानाम् दुःसहः करुण-आत्मनाम्

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।
मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥

शशान् वराहान् महिषान् गवयान् रुरु शल्यकान् मेध्यान् अन्यान् च विविधान् विनिघ्नन् श्रमम् अध्यगात्

तत: क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् ।
कृतस्‍नानोचिताहार: संविवेश गतक्लम: ॥ ११ ॥

ततः क्षुत् तृट् परिश्रान्तः निवृत्तः गृहम् एयिवान् कृत स्नान उचित-आहारः संविवेश गत-क्लमः

आत्मानमर्हयां चक्रे धूपालेपस्रगादिभि: ।
साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मन: ॥ १२ ॥

आत्मानम् अर्हयाम् चक्रे धूप आलेप स्रक् आदिभिः साधु अलङ्कृत सर्व-अङ्गः महिष्याम् आदधे मनः

तृप्तो हृष्ट: सुद‍ृप्तश्च कन्दर्पाकृष्टमानस: ।
न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥

तृप्तः हृष्टः सु-दृप्तः च कन्दर्प आकृष्ट मानसः न व्यचष्ट वर-आरोहाम् गृहिणीम् गृह-मेधिनीम्

अन्त:पुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् ।
अपि व: कुशलं रामा: सेश्वरीणां यथा पुरा ॥ १४ ॥

अन्तः-पुर स्त्रियः अपृच्छत् विमनाः इव वेदिषत् अपि वः कुशलम् रामाः स-ईश्वरीणाम् यथा पुरा

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पद: ।
यदि न स्याद्गृहे माता पत्नी वा पतिदेवता ।
व्यङ्गे रथ इव प्राज्ञ: को नामासीत दीनवत् ॥ १५ ॥

न तथा एतर्हि रोचन्ते गृहेषु गृह-सम्पदः यदि न स्यात् गृहे माता पत्नी वा पति-देवता व्यङ्गे रथे इव प्राज्ञः कः नाम आसीत दीन-वत्

क्‍व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।
या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥

क्व वर्तते सा ललना मज्जन्तम् व्यसन-अर्णवे या माम् उद्धरते प्रज्ञाम् दीपयन्ती पदे पदे

रामा ऊचु:
नरनाथ न जानीमस्त्वत्प्रिया यद्वय‍वस्यति ।
भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥

रामाः ऊचुः नर-नाथ न जानीमः त्वत्-प्रिया यत् व्यवस्यति भू-तले निरवस्तारे शयानाम् पश्य शत्रु-हन्

नारद उवाच
पुरञ्जन: स्वमहिषीं निरीक्ष्यावधुतां भुवि ।
तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥

नारदः उवाच पुरञ्जनः स्व-महिषीम् निरीक्ष्य अवधुताम् भुवि तत् सङ्ग उन्मथित ज्ञानः वैक्लव्यम् परमम् ययौ

सान्‍त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।
प्रेयस्या: स्‍नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥ १९ ॥

सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता प्रेयस्याः स्नेह संरम्भ लिङ्गम् आत्मनि न अभ्यगात्

अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविद: ।
पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २० ॥

अनुनिन्ये अथ शनकैः वीरः अनुनय-कोविदः पस्पर्श पाद-युगलम् आह च उत्सङ्ग लालिताम्

पुरञ्जन उवाच
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वरा: शुभे ।
कृताग:स्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥

पुरञ्जनः उवाच नूनम् तु अकृत-पुण्याः ते भृत्याः येषु ईश्वराः शुभे कृत-आगःसु आत्मसात् कृत्वा शिक्षा दण्डम् न युञ्जते

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पित: ।
बालो न वेद तत्तन्वि बन्धुकृत्यममर्षण: ॥ २२ ॥

परमः अनुग्रहः दण्डः भृत्येषु प्रभुणा अर्पितः बालः न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः

सा त्वं मुखं सुदति सुभ्र्‌वनुरागभार
व्रीडाविलम्बविलसद्धसितावलोकम् ।
नीलालकालिभिरुपस्कृतमुन्नसं न:
स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥

सा त्वम् मुखम् सु-दति सु-भ्रु अनुराग भार व्रीडा विलम्ब विलसत् हसित अवलोकम् नील अलक अलिभिः उपस्कृतम् उन्नसम् नः स्वानाम् प्रदर्शय मनस्विनि वल्गु-वाक्यम्

तस्मिन्दधे दममहं तव वीरपत्नि
योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।
पश्ये न वीतभयमुन्मुदितं त्रिलोक्या-
मन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥

तस्मिन् दधे दमम् अहम् तव वीर-पत्नि यः अन्यत्र भू-सुर-कुलात् कृत किल्बिषः तम् पश्ये न वीत भयम् उन्मुदितम् त्रि-लोक्याम् अन्यत्र वै मुर-रिपोः इतरत्र दासात्

वक्त्रं न ते वितिलकं मलिनं विहर्षं
संरम्भभीममविमृष्टमपेतरागम् ।
पश्ये स्तनावपि शुचोपहतौ सुजातौ
बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५ ॥

वक्त्रम् न ते वितिलकम् मलिनम् विहर्षम् संरम्भ भीमम् अविमृष्टम् अपेत-रागम् पश्ये स्तनौ अपि शुचा-उपहतौ सु-जातौ बिम्ब-अधरम् विगत कुङ्कुम-पङ्क रागम्

तन्मे प्रसीद सुहृद: कृतकिल्बिषस्य
स्वैरं गतस्य मृगयां व्यसनातुरस्य ।
का देवरं वशगतं कुसुमास्त्रवेग
विस्रस्तपौंस्‍नमुशती न भजेत कृत्ये ॥ २६ ॥

तत् मे प्रसीद सु-हृदः कृत-किल्बिषस्य स्वैरम् गतस्य मृगयाम् व्यसन-आतुरस्य का देवरम् वश-गतम् कुसुम-अस्त्र-वेग विस्रस्त पौंस्नम् उशती न भजेत कृत्ये

४.२७

नारद उवाच
इत्थं पुरञ्जनं सध्र्यग्वशमानीय विभ्रमै: ।
पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥

नारदः उवाच इत्थम् पुरञ्जनम् सध्र्यक् वशमानीय विभ्रमैः पुरञ्जनी महा-राज रेमे रमयती पतिम्

स राजा महिषीं राजन् सुस्‍नातां
रुचिराननाम् ।
कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥ २ ॥

सः राजा महिषीम् राजन् सु-स्नाताम् रुचिर-आननाम् कृत-स्वस्ति-अयनाम् तृप्ताम् अभ्यनन्दत् उपागताम्

तयोपगूढ: परिरब्धकन्धरो
रहोऽनुमन्त्रैरपकृष्टचेतन: ।

कालरंहो बुबुधे दुरत्ययं
दिवा निशेति प्रमदापरिग्रह: ॥ ३ ॥

तया उपगूढः परिरब्ध कन्धरः रहः अनुमन्त्रैः अपकृष्ट-चेतनः न काल-रंहः बुबुधे दुरत्ययम् दिवा निशा इति प्रमदा परिग्रहः

शयान उन्नद्धमदो महामना
महार्हतल्पे महिषीभुजोपधि: ।
तामेव वीरो मनुते परं यत-
स्तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥

शयानः उन्नद्ध-मदः महा-मनाः महा-अर्ह-तल्पे महिषी भुज उपधिः ताम् एव वीरः मनुते परम् यतः तमः अभिभूतः न निजम् परम् च यत्

तयैवं रममाणस्य कामकश्मलचेतस: ।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वय: ॥ ५ ॥

तया एवम् रममाणस्य काम कश्मल चेतसः क्षण-अर्धम् इव राज-इन्द्र व्यतिक्रान्तम् नवम् वयः

तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जन: ।
शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥ ६ ॥

तस्याम् अजनयत् पुत्रान् पुरञ्जन्याम् पुरञ्जनः शतानि एकादश विराट् आयुषः अर्धम् अथ अत्यगात्

दुहितृर्दशोत्तरशतं पितृमातृयशस्करी: ।
शीलौदार्यगुणोपेता: पौरञ्जन्य: प्रजापते ॥ ७ ॥

दुहितॄः दश-उत्तर शतम् पितृ मातृ यशस्करीः शील औदार्य गुण उपेताः पौरञ्जन्यः प्रजा-पते

स पञ्चालपति: पुत्रान् पितृवंशविवर्धनान् ।
दारै: संयोजयामास दुहितृ: सद‍ृशैर्वरै: ॥ ८ ॥

सः पञ्चाल-पतिः पुत्रान् पितृ-वंश विवर्धनान् दारैः संयोजयाम् आस दुहितॄः सदृशैः वरैः

पुत्राणां चाभवन्पुत्रा एकैकस्य शतं शतम् ।
यैर्वै पौरञ्जनो वंश: पञ्चालेषु समेधित: ॥ ९ ॥

पुत्राणाम् च अभवन् पुत्राः एक-एकस्य शतम् शतम् यैः वै पौरञ्जनः वंशः पञ्चालेषु समेधितः

तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।
निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥

तेषु तत्-रिक्थ-हारेषु गृह कोश अनुजीविषु निरूढेन ममत्वेन विषयेषु अन्वबध्यत

ईजे च क्रतुभिर्घोरैर्दीक्षित: पशुमारकै: ।
देवान् पितृन् भूतपतीन्नानाकामो यथा भवान् ॥ ११ ॥

ईजे च क्रतुभिः घोरैः दीक्षितः पशु-मारकैः देवान् पितॄन् भूत-पतीन् नाना कामः यथा भवान्

युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतस: ।
आससाद स वै कालो योऽप्रिय: प्रिययोषिताम् ॥ १२ ॥

युक्तेषु एवम् प्रमत्तस्य कुटुम्ब आसक्त चेतसः आससाद सः वै कालः यः अप्रियः प्रिय-योषिताम्

चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप ।
गन्धर्वास्तस्य बलिन: षष्ट्युत्तरशतत्रयम् ॥ १३ ॥

चण्डवेगः इति ख्यातः गन्धर्व अधिपतिः नृप गन्धर्वाः तस्य बलिनः षष्टि उत्तर शत त्रयम्

गन्धर्व्यस्ताद‍ृशीरस्य मैथुन्यश्च सितासिता: ।
परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥

गन्धर्व्यः तादृशीः अस्य मैथुन्यः च सित असिताः परिवृत्त्या विलुम्पन्ति सर्व-काम विनिर्मिताम्

ते चण्डवेगानुचरा: पुरञ्जनपुरं यदा ।
हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागर: ॥ १५ ॥

ते चण्डवेग अनुचराः पुरञ्जन पुरम् यदा हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः

स सप्तभि: शतैरेको विंशत्या च शतं समा: ।
पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥

सः सप्तभिः शतैः एकः विंशत्या च शतम् समाः पुरञ्जन पुर-अध्यक्षः गन्धर्वैः युयुधे बली

क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा ।
चिन्तां परां जगामार्त: सराष्ट्रपुरबान्धव: ॥ १७ ॥

क्षीयमाणे स्व-सम्बन्धे एकस्मिन् बहुभिः युधा चिन्ताम् पराम् जगाम आर्तः स राष्ट्र पुर बान्धवः

स एव पुर्यां मधुभुक्पञ्चालेषु स्वपार्षदै: ।
उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥ १८ ॥

सः एव पुर्याम् मधु-भुक् पञ्चालेषु स्व-पार्षदैः उपनीतम् बलिम् गृह्णन् स्त्री-जितः न अविदत् भयम्

कालस्य दुहिता काचित्‍त्रिलोकीं वरमिच्छती ।
पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥

कालस्य दुहिता काचित् त्रि-लोकीम् वरम् इच्छती पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन

दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।
या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥

दौर्भाग्येन आत्मनः लोके विश्रुता दुर्भगा इति सा या तुष्टा राज-ऋषये तु वृता अदात् पूरवे वरम्

कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् ।
वव्रे बृहद्‌व्रतं मां तु जानती काममोहिता ॥ २१ ॥

कदाचित् अटमाना सा ब्रह्म-लोकात् महीम् गतम् वव्रे बृहत्-व्रतम् माम् तु जानती काम-मोहिता

मयि संरभ्य विपुलमदाच्छापं सुदु:सहम् ।
स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥ २२ ॥

मयि संरभ्य विपुल मदात् शापम् सु-दुःसहम् स्थातुम् अर्हसि न एकत्र मत् याच्ञा विमुखः मुने

ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् ।
मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥

ततः विहत-सङ्कल्पा कन्यका यवन-ईश्वरम् मया उपदिष्टम् आसाद्य वव्रे नाम्ना भयम् पतिम्

ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।
सङ्कल्पस्त्वयि भूतानां कृत: किल न रिष्यति ॥ २४ ॥

ऋषभम् यवनानाम् त्वाम् वृणे वीर ईप्सितम् पतिम् सङ्कल्पः त्वयि भूतानाम् कृतः किल न रिष्यति

द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।
यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥

द्वौ इमौ अनुशोचन्ति बालौ असत् अवग्रहौ यत् लोक शास्त्र उपनतम् न राति न तत् इच्छति

अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।
एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥ २६ ॥

अथो भजस्व माम् भद्र भजन्तीम् मे दयाम् कुरु एतावान् पौरुषः धर्मः यत् आर्तान् अनुकम्पते

कालकन्योदितवचो निशम्य यवनेश्वर: ।
चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥

काल-कन्या उदित वचः निशम्य यवन-ईश्वरः चिकीर्षुः देव गुह्यम् सः स-स्मितम् ताम् अभाषत

मया निरूपितस्तुभ्यं पतिरात्मसमाधिना ।
नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥ २८ ॥

मया निरूपितः तुभ्यम् पतिः आत्म समाधिना न अभिनन्दति लोकः अयम् त्वाम् अभद्राम् असम्मताम्

त्वमव्यक्तगतिर्भुङ्‌क्ष्व लोकं कर्मविनिर्मितम् ।
या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥

त्वम् अव्यक्त-गतिः भुङ्क्ष्व लोकम् कर्म-विनिर्मितम् या हि मे पृतना युक्ता प्रजा-नाशम् प्रणेष्यसि

प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।
चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिक: ॥ ३० ॥

प्रज्वारः अयम् मम भ्राता त्वम् च मे भगिनी भव चरामि उभाभ्याम् लोके अस्मिन् अव्यक्तः भीम सैनिकः

४.२८

नारद उवाच
सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिण: ।
प्रज्वारकालकन्याभ्यां
विचेरुरवनीमिमाम् ॥ १ ॥

नारदः उवाच सैनिकाः भय-नाम्नः ये बर्हिष्मन् दिष्ट-कारिणः प्रज्वार काल-कन्याभ्याम् विचेरुः अवनीम् इमाम्

त एकदा तु रभसा पुरञ्जनपुरीं नृप ।
रुरुधुर्भौमभोगाढ्यां
जरत्पन्नगपालिताम् ॥ २ ॥

ते एकदा तु रभसा पुरञ्जन-पुरीम् नृप रुरुधुः भौम-भोग-आढ्याम् जरत् पन्नग पालिताम्

कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् ।
ययाभिभूत: पुरुष: सद्यो नि:सारतामियात् ॥ ३ ॥

काल-कन्या अपि बुभुजे पुरञ्जन-पुरम् बलात् यया अभिभूतः पुरुषः सद्यः निःसारताम् इयात्

तयोपभुज्यमानां वै यवना: सर्वतोदिशम् ।
द्वार्भि: प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥

तया उपभुज्यमानाम् वै यवनाः सर्वतः-दिशम् द्वार्भिः प्रविश्य सु-भृशम् प्रार्दयन् सकलाम् पुरीम्

तस्यां प्रपीड्यमानायामभिमानी पुरञ्जन: ।
अवापोरुविधांस्तापान् कुटुम्बी ममताकुल: ॥ ५ ॥

तस्याम् प्रपीड्यमानायाम् अभिमानी पुरञ्जनः अवाप उरु विधान् तापान् कुटुम्बी ममता-आकुलः

कन्योपगूढो नष्टश्री: कृपणो विषयात्मक: ।
नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ६ ॥

कन्या उपगूढः नष्ट-श्रीः कृपणः विषय-आत्मकः नष्ट-प्रज्ञः हृत-ऐश्वर्यः गन्धर्व यवनैः बलात्

विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननाद‍ृतान् ।
पुत्रान् पौत्रानुगामात्याञ्जायां च गतसौहृदाम् ॥ ७ ॥

विशीर्णाम् स्व-पुरीम् वीक्ष्य प्रतिकूलान् अनादृतान् पुत्रान् पौत्र अनुग अमात्यान् जायाम् च गत-सौहृदाम्

आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान् ।
दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥

आत्मानम् कन्यया ग्रस्तम् पञ्चालान् अरि-दूषितान् दुरन्त चिन्ताम् आपन्नः न लेभे तत् प्रतिक्रियाम्

कामानभिलषन्दीनो यातयामांश्च कन्यया ।
विगतात्मगतिस्‍नेह: पुत्रदारांश्च लालयन् ॥ ९ ॥

कामान् अभिलषन् दीनः यात-यामान् च कन्यया विगत आत्म-गति स्नेहः पुत्र दारान् च लालयन्

गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् ।
हातुं प्रचक्रमे राजा तां पुरीमनिकामत: ॥ १० ॥

गन्धर्व यवन आक्रान्ताम् काल-कन्या उपमर्दिताम् हातुम् प्रचक्रमे राजा ताम् पुरीम् अनिकामतः

भयनाम्नोऽग्रजो भ्राता प्रज्वार: प्रत्युपस्थित: ।
ददाह तां पुरीं कृत्‍स्‍नां भ्रातु: प्रियचिकीर्षया ॥ ११ ॥

भय-नाम्नः अग्र-जः भ्राता प्रज्वारः प्रत्युपस्थितः ददाह ताम् पुरीम् कृत्स्नाम् भ्रातुः प्रिय-चिकीर्षया

तस्यां सन्दह्यमानायां सपौर: सपरिच्छद: ।
कौटुम्बिक: कुटुम्बिन्या उपातप्यत सान्वय: ॥ १२ ॥

तस्याम् सन्दह्यमानायाम् स-पौरः स-परिच्छदः कौटुम्बिकः कुटुम्बिन्या उपातप्यत स-अन्वयः

यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।
पुर्यां प्रज्वारसंसृष्ट:
पुरपालोऽन्वतप्यत ॥ १३ ॥

यवन उपरुद्ध आयतनः ग्रस्तायाम् काल-कन्यया पुर्याम् प्रज्वार-संसृष्टः पुर-पालः अन्वतप्यत

न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथु: ।
गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात् ॥ १४ ॥

न शेके सः अवितुम् तत्र पुरु कृच्छ्र उरु वेपथुः गन्तुम् ऐच्छत् ततः वृक्ष कोटरात् इव स-अनलात्

शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुष: ।
यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥ १५ ॥

शिथिल अवयवः यर्हि गन्धर्वैः हृत पौरुषः यवनैः अरिभिः राजन् उपरुद्धः रुरोद ह

दुहितृ: पुत्रपौत्रांश्च जामिजामातृपार्षदान् ।
स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥

दुहितॄः पुत्र पौत्रान् च जामि जामातृ पार्षदान् स्वत्व अवशिष्टम् यत् किञ्चित् गृह कोश परिच्छदम्

अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥

अहम् मम इति स्वी-कृत्य गृहेषु कु-मतिः गृही दध्यौ प्रमदया दीनः विप्रयोगे उपस्थिते

लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।
वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥ १८ ॥

लोक-अन्तरम् गतवति मयि अनाथा कुटुम्बिनी वर्तिष्यते कथम् तु एषा बालकान् अनुशोचती

न मय्यनाशिते भुङ्क्ते नास्‍नाते स्‍नाति मत्परा ।
मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥

न मयि अनाशिते भुङ्क्ते न अस्नाते स्नाति मत्-परा मयि रुष्टे सु-सन्त्रस्ता भर्त्सिते यत-वाक् भयात्

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।
वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥

प्रबोधयति मा अविज्ञम् व्युषिते शोक कर्शिता वर्त्म एतत् गृह-मेधीयम् वीर-सूः अपि नेष्यति

कथं नु दारका दीना दारकीर्वापरायणा: ।
वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥

कथम् नु दारकाः दीनाः दारकीः वा अपरायणाः वर्तिष्यन्ते मयि गते भिन्न नावः इव उदधौ

एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् ।
ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥

एवम् कृपणया बुद्ध्या शोचन्तम् अ-तत्-अर्हणम् ग्रहीतुम् कृत-धीः एनम् भय-नामा अभ्यपद्यत

पशुवद्यवनैरेष नीयमान: स्वकं क्षयम् ।
अन्वद्रवन्ननुपथा: शोचन्तो भृशमातुरा: ॥ २३ ॥

पशु-वत् यवनैः एषः नीयमानः स्वकम् क्षयम् अन्वद्रवन् अनुपथाः शोचन्तः भृशम् आतुराः

पुरीं विहायोपगत उपरुद्धो भुजङ्गम: ।
यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥

पुरीम् विहाय उपगतः उपरुद्धः भुजङ्गमः यदा तम् एव अनु पुरी विशीर्णा प्रकृतिम् गता

विकृष्यमाण: प्रसभं यवनेन बलीयसा ।
नाविन्दत्तमसाविष्ट: सखायं सुहृदं पुर: ॥ २५ ॥

विकृष्यमाणः प्रसभम् यवनेन बलीयसा न अविन्दत् तमसा आविष्टः सखायम् सुहृदम् पुरः

तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।
कुठारैश्चिच्छिदु: क्रुद्धा: स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥

तम् यज्ञ-पशवः अनेन संज्ञप्ताः ये अदयालुना कुठारैः चिच्छिदुः क्रुद्धाः स्मरन्तः अमीवम् अस्य तत्

अनन्तपारे तमसि मग्नो नष्टस्मृति: समा: ।
शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषित: ॥ २७ ॥

अनन्त-पारे तमसि मग्नः नष्ट-स्मृतिः समाः शाश्वतीः अनुभूय आर्तिम् प्रमदा सङ्ग दूषितः

तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा ।
अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥

ताम् एव मनसा गृह्णन् बभूव प्रमदा उत्तमा अनन्तरम् विदर्भस्य राज-सिंहस्य वेश्मनि

उपयेमे वीर्यपणां वैदर्भीं मलयध्वज: ।
युधि निर्जित्य राजन्यान् पाण्ड्य: परपुरञ्जय: ॥ २९ ॥

उपयेमे वीर्य पणाम् वैदर्भीम् मलय-ध्वजः युधि निर्जित्य राजन्यान् पाण्ड्यः पर पुरम् जयः

तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् ।
यवीयस: सप्त सुतान् सप्त द्रविडभूभृत: ॥ ३० ॥

तस्याम् सः जनयाम् चक्रे आत्मजाम् असित ईक्षणाम् यवीयसः सप्त सुतान् सप्त द्रविड भू भृतः

एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् ।
भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ॥ ३१ ॥

एक-एकस्य अभवत् तेषाम् राजन् अर्बुदम् अर्बुदम् भोक्ष्यते यत् वंश-धरैः मही मनु-अन्तरम् परम्

अगस्त्य: प्राग्दुहितरमुपयेमे धृतव्रताम् ।
यस्यां द‍ृढच्युतो जात इध्मवाहात्मजो मुनि: ॥ ३२ ॥

अगस्त्यः प्राक् दुहितरम् उपयेमे धृत-व्रताम् यस्याम् दृढच्युतः जातः इध्मवाह आत्म-जः मुनिः

विभज्य तनयेभ्य: क्ष्मां राजर्षिर्मलयध्वज: ।
आरिराधयिषु: कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥

विभज्य तनयेभ्यः क्ष्माम् राज-ऋषिः मलयध्वजः आरिराधयिषुः कृष्णम् सः जगाम कुलाचलम्

हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।
अन्वधावत पाण्ड्येशं ज्योत्‍स्‍नेव रजनीकरम् ॥ ३४ ॥

हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिर-ईक्षणा अन्वधावत पाण्ड्य-ईशम् ज्योत्स्ना इव रजनी-करम्

तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।
तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ॥ ३५ ॥
कन्दाष्टिभिर्मूलफलै: पुष्पपर्णैस्तृणोदकै: ।
वर्तमान: शनैर्गात्रकर्शनं तप आस्थित: ॥ ३६ ॥

तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका तत् पुण्य सलिलैः नित्यम् उभयत्र आत्मनः मृजन् कन्द अष्टिभिः मूल फलैः पुष्प पर्णैः तृणा उदकैः वर्तमानः शनैः गात्र कर्शनम् तपः आस्थितः

शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये ।
सुखदु:खे इति द्वन्द्वान्यजयत्समदर्शन: ॥ ३७ ॥

शीत उष्ण वात वर्षाणि क्षुत् पिपासे प्रिय अप्रिये सुख दुःखे इति द्वन्द्वानि अजयत् सम-दर्शनः

तपसा विद्यया पक्‍वकषायो नियमैर्यमै: ।
युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशय: ॥ ३८ ॥

तपसा विद्यया पक्व कषायः नियमैः यमैः युयुजे ब्रह्मणि आत्मानम् विजित अक्ष अनिल आशयः

आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिर: ।
वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम् ॥ ३९ ॥

आस्ते स्थाणुः इव एकत्र दिव्यम् वर्ष शतम् स्थिरः वासुदेवे भगवति न अन्यत् वेद उद्वहन् रतिम्

स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि ।
विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह ॥ ४० ॥

सः व्यापकतया आत्मानम् व्यतिरिक्ततया आत्मनि विद्वान् स्वप्ने इव अमर्श साक्षिणम् विरराम ह

साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप ।
विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥

साक्षात् भगवता उक्तेन गुरुणा हरिणा नृप विशुद्ध ज्ञान दीपेन स्फुरता विश्वतः-मुखम्

परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।
वीक्षमाणो
विहायेक्षामस्मादुपरराम ह ॥ ४२ ॥

परे ब्रह्मणि च आत्मानम् परम् ब्रह्म तथा आत्मनि वीक्षमाणः विहाय ईक्षाम् अस्मात् उपरराम ह

पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् ।
प्रेम्णा पर्यचरद्धित्वा भोगान् सा
पतिदेवता ॥ ४३ ॥

पतिम् परम धर्म-ज्ञम् वैदर्भी मलय-ध्वजम् प्रेम्णा पर्यचरत् हित्वा भोगान् सा पति-देवता

चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ।
बभावुप पतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥

चीर-वासा व्रत-क्षामा वेणी-भूत शिरोरुहा बभौ उप पतिम् शान्ता शिखा शान्तम् इव अनलम्

अजानती प्रियतमं यदोपरतमङ्गना ।
सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥

अजानती प्रिय-तमम् यदा उपरतम् अङ्गना सुस्थिर आसनम् आसाद्य यथा पूर्वम् उपाचरत्

यदा नोपलभेताङ्‌घ्रावूष्माणं पत्युरर्चती ।
आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥

यदा न उपलभेत अङ्घ्रौ ऊष्माणम् पत्युः अर्चती आसीत् संविग्न हृदया यूथ-भ्रष्टा मृगी यथा

आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभि: ।
स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥

आत्मानम् शोचती दीनम् अबन्धुम् विक्लव अश्रुभिः स्तनौ आसिच्य विपिने सुस्वरम् प्ररुरोद सा

उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम् ।
दस्युभ्य: क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥

उत्तिष्ठ उत्तिष्ठ राज-ऋषे इमाम् उदधि मेखलाम् दस्युभ्यः क्षत्र-बन्धुभ्यः बिभ्यतीम् पातुम् अर्हसि

एवं विलपन्ती बाला विपिनेऽनुगता पतिम् ।
पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥

एवम् विलपन्ती बाला विपिने अनुगता पतिम् पतिता पादयोः भर्तुः रुदती अश्रूणि अवर्तयत्

चितिं दारुमयीं चित्वा तस्यां पत्यु: कलेवरम् ।
आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥

चितिम् दारु-मयीम् चित्वा तस्याम् पत्युः कलेवरम् आदीप्य च अनुमरणे विलपन्ती मनः दधे

तत्र पूर्वतर: कश्चित्सखा ब्राह्मण आत्मवान् ।
सान्‍त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥

तत्र पूर्वतरः कश्चित् सखा ब्राह्मणः आत्मवान् सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीम् प्रभो

ब्राह्मण उवाच
का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।
जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥

ब्राह्मणः उवाच का त्वम् कस्य असि कः वा अयम् शयानः यस्य शोचसि जानासि किम् सखायम् माम् येन अग्रे विचचर्थ ह

अपि स्मरसि चात्मानमविज्ञातसखं सखे ।
हित्वा मां पदमन्विच्छन् भौमभोगरतो गत: ॥ ५३ ॥

अपि स्मरसि च आत्मानम् अविज्ञात सखम् सखे हित्वा माम् पदम् अन्विच्छन् भौम भोग रतः गतः

हंसावहं च त्वं चार्य सखायौ मानसायनौ ।
अभूतामन्तरा वौक: सहस्रपरिवत्सरान् ॥ ५४ ॥

हंसौ अहम् च त्वम् च आर्य सखायौ मानस-अयनौ अभूताम् अन्तरा वा ओकः सहस्र परि वत्सरान्

स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् ।
विचरन् पदमद्राक्षी: कयाचिन्निर्मितं स्त्रिया ॥ ५५ ॥

सः त्वम् विहाय माम् बन्धो गतः ग्राम्य मतिः महीम् विचरन् पदम् अद्राक्षीः कयाचित् निर्मितम् स्त्रिया

पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् ।
षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥

पञ्च-आरामम् नव-द्वारम् एक पालम् त्रि कोष्ठकम् षट् कुलम् पञ्च विपणम् पञ्च प्रकृति स्त्री धवम्

पञ्चेन्द्रियार्था आरामा द्वार: प्राणा नव प्रभो ।
तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रह: ॥ ५७ ॥

पञ्च इन्द्रिय-अर्थाः आरामाः द्वारः प्राणाः नव प्रभो तेजः-अप् अन्नानि कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः

विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया ।
शक्त्यधीश: पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥

विपणः तु क्रिया-शक्तिः भूत प्रकृतिः अव्यया शक्ति अधीशः पुमान् तु अत्र प्रविष्टः न अवबुध्यते

तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृति: ।
तत्सङ्गादीद‍ृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥

तस्मिन् त्वम् रामया स्पृष्टः रममाणः अश्रुत-स्मृतिः तत् सङ्गात् ईदृशीम् प्राप्तः दशाम् पापीयसीम् प्रभो

न त्वं विदर्भदुहिता नायं वीर: सुहृत्तव ।
न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ ६० ॥

न त्वम् विदर्भ-दुहिता न अयम् वीरः सु-हृत् तव न पतिः त्वम् पुरञ्जन्याः रुद्धः नव-मुखे यया

माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् ।
मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ॥ ६१ ॥

माया हि एषा मया सृष्टा यत् पुमांसम् स्त्रियम् सतीम् मन्यसे न उभयम् यत् वै हंसौ पश्य आवयोः गतिम्

अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो: ।
न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥

अहम् भवान् न च अन्यः त्वम् त्वम् एव अहम् विचक्ष्व भोः न नौ पश्यन्ति कवयः छिद्रम् जातु मनाक् अपि

यथा पुरुष आत्मानमेकमादर्शचक्षुषो: ।
द्विधाभूतमवेक्षेत तथैवान्तरमावयो: ॥ ६३ ॥

यथा पुरुषः आत्मानम् एकम् आदर्श चक्षुषोः द्विधा-आभूतम् अवेक्षेत तथा एव अन्तरम् आवयोः

एवं स मानसो हंसो हंसेन प्रतिबोधित: ।
स्वस्थस्तद्वय‍‌भिचारेण नष्टामाप पुन: स्मृतिम् ॥ ६४ ॥

एवम् सः मानसः हंसः हंसेन प्रतिबोधितः स्व-स्थः तत्-व्यभिचारेण नष्टाम् आप पुनः स्मृतिम्

बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् ।
यत्परोक्षप्रियो देवो भगवान् विश्वभावन: ॥ ६५ ॥

बर्हिष्मन् एतत् अध्यात्मम् पारोक्ष्येण प्रदर्शितम् यत् परोक्ष-प्रियः देवः भगवान् विश्व-भावनः

४.२९

प्राचीनबर्हिरुवाच
भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते ।
कवयस्तद्विजानन्ति न वयं कर्ममोहिता: ॥ १ ॥

प्राचीनबर्हिः उवाच भगवन् ते वचः अस्माभिः न सम्यक् अवगम्यते कवयः तत् विजानन्ति न वयम् कर्म मोहिताः

नारद उवाच
पुरुषं पुरञ्जनं विद्याद्यद् व्यनक्त्यात्मन: पुरम् ।
एकद्वित्रिचतुष्पादं बहुपादमपादकम् ॥ २ ॥

नारदः उवाच पुरुषम् पुरञ्जनम् विद्यात् यत् व्यनक्ति आत्मनः पुरम् एक द्वि त्रि चतुः-पादम् बहु-पादम् अपादकम्

योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वर: ।
यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणै: ॥ ३ ॥

यः अविज्ञात आहृतः तस्य पुरुषस्य सखा ईश्वरः यत् न विज्ञायते पुम्भिः नामभिः वा क्रिया-गुणैः

यदा जिघृक्षन् पुरुष: कार्त्स्‍न्येन प्रकृतेर्गुणान् ।
नवद्वारं द्विहस्ताङ्‌घ्रि तत्रामनुत साध्विति ॥ ४ ॥

यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेः गुणान् नव-द्वारम् द्वि हस्त अङ्घ्रि तत्र अमनुत साधु इति

बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् ।
यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥ ५ ॥

बुद्धिम् तु प्रमदाम् विद्यात् मम अहम् इति यत्-कृतम् याम् अधिष्ठाय देहे अस्मिन् पुमान् भुङ्क्ते अक्षभिः गुणान्

सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् ।
सख्यस्तद्वृत्तय: प्राण: पञ्चवृत्तिर्यथोरग: ॥ ६ ॥

सखायः इन्द्रिय-गणाः ज्ञानम् कर्म च यत्-कृतम् सख्यः तत् वृत्तयः प्राणः पञ्च-वृत्तिः यथा उरगः

बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् ।
पञ्चाला: पञ्च विषया यन्मध्ये नवखं पुरम् ॥ ७ ॥

बृहत्-बलम् मनः विद्यात् उभय-इन्द्रिय नायकम् पञ्चालाः पञ्च विषयाः यत् मध्ये नव-खम् पुरम्

अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति ।
द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुत: ॥ ८ ॥

अक्षिणी नासिके कर्णौ मुखम् शिश्न गुदौ इति द्वे द्वे द्वारौ बहिः याति यः तत् इन्द्रिय संयुतः

अक्षिणी नासिके आस्यमिति पञ्चपुर: कृता: ।
दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत: ।
पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते ॥ ९ ॥

अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः दक्षिणा दक्षिणः कर्णः उत्तरा च उत्तरः स्मृतः पश्चिमे इति अधः द्वारौ गुदम् शिश्नम् इह उच्यते

खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।
रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वर: ॥ १० ॥

खद्योता आविर्मुखी च अत्र नेत्रे एकत्र निर्मिते रूपम् विभ्राजितम् ताभ्याम् विचष्टे चक्षुषा ईश्वरः

नलिनी नालिनी नासे गन्ध: सौरभ उच्यते ।
घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रस: ॥ ११ ॥

नलिनी नालिनी नासे गन्धः सौरभः उच्यते घ्राणः अवधूतः मुख्या आस्यम् विपणः वाक् रस-वित् रसः

आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।
पितृहूर्दक्षिण: कर्ण उत्तरो देवहू: स्मृत: ॥ १२ ॥

आपणः व्यवहारः अत्र चित्रम् अन्धः बहूदनम् पितृ-हूः दक्षिणः कर्णः उत्तरः देव-हूः स्मृतः

प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् ।
पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्‌व्रजेत् ॥ १३ ॥

प्रवृत्तम् च निवृत्तम् च शास्त्रम् पञ्चाल संज्ञितम् पितृ-यानम् देव-यानम् श्रोत्रात् श्रुत-धरात् व्रजेत्

आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रति: ।
उपस्थो दुर्मद: प्रोक्तो निऋर्तिर्गुद उच्यते ॥ १४ ॥

आसुरी मेढ्रम् अर्वाक् द्वाः व्यवायः ग्रामिणाम् रतिः उपस्थः दुर्मदः प्रोक्तः निरृतिः गुदः उच्यते

वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे श‍ृणु ।
हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५ ॥

वैशसम् नरकम् पायुः लुब्धकः अन्धौ तु मे शृणु हस्त-पादौ पुमान् ताभ्याम् युक्तः याति करोति च

अन्त:पुरं च हृदयं विषूचिर्मन उच्यते ।
तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणै: ॥ १६ ॥

अन्तः-पुरम् च हृदयम् विषूचिः मनः उच्यते तत्र मोहम् प्रसादम् वा हर्षम् प्राप्नोति तत् गुणैः

यथा यथा विक्रियते गुणाक्तो विकरोति वा ।
तथा तथोपद्रष्टात्मा तद्वृत्तीरनुकार्यते ॥ १७ ॥

यथा यथा विक्रियते गुण-अक्तः विकरोति वा तथा तथा उपद्रष्टा आत्मा तत् वृत्तीः अनुकार्यते

देहो रथस्त्विन्द्रियाश्व: संवत्सररयोऽगति: ।
द्विकर्मचक्रस्त्रिगुणध्वज: पञ्चासुबन्धुर: ॥ १८ ॥
मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबर: ।
पञ्चेन्द्रियार्थप्रक्षेप: सप्तधातुवरूथक: ॥ १९ ॥
आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।
एकादशेन्द्रियचमू: पञ्चसूनाविनोदकृत् ॥ २० ॥

देहः रथः तु इन्द्रिय अश्वः संवत्सर रयः अगतिः द्वि कर्म चक्रः त्रि गुण ध्वजः पञ्च असु बन्धुरः मनः रश्मिः बुद्धि सूतः हृत् नीडः द्वन्द्व कूबरः पञ्च इन्द्रिय-अर्थ प्रक्षेपः सप्त धातु वरूथकः आकूतिः विक्रमः बाह्यः मृग-तृष्णाम् प्रधावति एकादश इन्द्रिय चमूः पञ्च सूना विनोद कृत्

संवत्सरश्चण्डवेग: कालो येनोपलक्षित: ।
तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रय: स्मृता: ।
हरन्त्यायु: परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१ ॥

संवत्सरः चण्ड-वेगः कालः येन उपलक्षितः तस्य अहानि इह गन्धर्वाः गन्धर्व्यः रात्रयः स्मृताः हरन्ति आयुः परिक्रान्त्या षष्टि उत्तर शत त्रयम्

कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति ।
स्वसारं जगृहे मृत्यु: क्षयाय यवनेश्वर: ॥ २२ ॥

काल-कन्या जरा साक्षात् लोकः ताम् न अभिनन्दति स्वसारम् जगृहे मृत्युः क्षयाय यवन-ईश्वरः

आधयो व्याधयस्तस्य सैनिका यवनाश्चरा: ।
भूतोपसर्गाशुरय: प्रज्वारो द्विविधो ज्वर: ॥ २३ ॥
एवं बहुविधैर्दु:खैर्दैवभूतात्मसम्भवै: ।
क्लिश्यमान: शतं वर्षं देहे देही तमोवृत: ॥ २४ ॥
प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुण: ।
शेते कामलवान्ध्यायन्ममाहमिति कर्मकृत् ॥ २५ ॥

आधयः व्याधयः तस्य सैनिकाः यवनाः चराः भूत उपसर्ग आशु रयः प्रज्वारः द्वि-विधः ज्वरः एवम् बहु-विधैः दुःखैः दैव भूत आत्म सम्भवैः क्लिश्यमानः शतम् वर्षम् देहे देही तमः-वृतः प्राण इन्द्रिय मनः धर्मान् आत्मनि अध्यस्य निर्गुणः शेते काम लवान् ध्यायन् मम अहम् इति कर्म-कृत्

यदात्मानमविज्ञाय भगवन्तं परं गुरुम् ।
पुरुषस्तु विषज्जेत गुणेषु प्रकृते: स्वद‍ृक् ॥ २६ ॥
गुणाभिमानी स तदा कर्माणि कुरुतेऽवश: ।
शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २७ ॥

यदा आत्मानम् अविज्ञाय भगवन्तम् परम् गुरुम् पुरुषः तु विषज्जेत गुणेषु प्रकृतेः स्व-दृक् गुण-अभिमानी सः तदा कर्माणि कुरुते अवशः शुक्लम् कृष्णम् लोहितम् वा यथा कर्म अभिजायते

शुक्लात्प्रकाशभूयिष्ठाँल्लोकानाप्नोति कर्हिचित् ।
दु:खोदर्कान् क्रियायासांस्तम:शोकोत्कटान् क्‍वचित् ॥ २८ ॥

शुक्लात् प्रकाश भूयिष्ठान् लोकान् आप्नोति कर्हिचित् दुःख उदर्कान् क्रिया-आयासान् तमः शोक उत्कटान् क्वचित्

क्‍वचित्पुमान् क्‍वचिच्च स्त्री क्‍वचिन्नोभयमन्धधी: ।
देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भव: ॥ २९ ॥

क्वचित् पुमान् क्वचित् च स्त्री क्वचित् न उभयम् अन्ध धीः देवः मनुष्यः तिर्यक् वा यथा कर्म गुणम् भवः

क्षुत्परीतो यथा दीन: सारमेयो गृहं गृहम् ।
चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३० ॥
तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।
उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१ ॥

क्षुत्-परीतः यथा दीनः सारमेयः गृहम् गृहम् चरन् विन्दति यत् दिष्टम् दण्डम् ओदनम् एव वा तथा काम-आशयः जीवः उच्च अवच पथा भ्रमन् उपरि अधः वा मध्ये वा याति दिष्टम् प्रिय अप्रियम्

दु:खेष्वेकतरेणापि दैवभूतात्महेतुषु ।
जीवस्य न व्यवच्छेद: स्याच्चेत्तत्तत्प्रतिक्रिया ॥ ३२ ॥

दुःखेषु एकतरेण अपि दैव भूत आत्म हेतुषु जीवस्य न व्यवच्छेदः स्यात् चेत् तत्-तत् प्रतिक्रिया

यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।
तं स्कन्धेन स आधत्ते तथा सर्वा: प्रतिक्रिया: ॥ ३३ ॥

यथा हि पुरुषः भारम् शिरसा गुरुम् उद्वहन् तम् स्कन्धेन सः आधत्ते तथा सर्वाः प्रतिक्रियाः

नैकान्तत: प्रतीकार: कर्मणां कर्म केवलम् ।
द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४ ॥

न एकान्ततः प्रतीकारः कर्मणाम् कर्म केवलम् द्वयम् हि अविद्या उपसृतम् स्वप्ने स्वप्नः इव अनघ

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३५ ॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते मनसा लिङ्ग-रूपेण स्वप्ने विचरतः यथा

अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा ।
संसृतिस्तद्वय‍वच्छेदो भक्त्या परमया गुरौ ॥ ३६ ॥
वासुदेवे भगवति भक्तियोग: समाहित: ।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७ ॥

अथ आत्मनः अर्थ-भूतस्य यतः अनर्थ परम्-परा संसृतिः तत् व्यवच्छेदः भक्त्या परमया गुरौ वासुदेवे भगवति भक्ति-योगः समाहितः सध्रीचीनेन वैराग्यम् ज्ञानम् च जनयिष्यति

सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रय: ।
श‍ृण्वत: श्रद्दधानस्य नित्यदा स्यादधीयत: ॥ ३८ ॥

सः अचिरात् एव राज-ऋषे स्यात् अच्युत कथा आश्रयः शृण्वतः श्रद्दधानस्य नित्यदा स्यात् अधीयतः

यत्र भागवता राजन् साधवो विशदाशया: ।
भगवद्गुणानुकथनश्रवणव्यग्रचेतस: ॥ ३९ ॥
तस्मिन्महन्मुखरिता मधुभिच्चरित्र-
पीयूषशेषसरित: परित: स्रवन्ति ।
ता ये पिबन्त्यवितृषो नृप गाढकर्णै-
स्तान्न स्पृशन्त्यशनतृड्भयशोकमोहा: ॥ ४० ॥

यत्र भागवताः राजन् साधवः विशद-आशयाः भगवत् गुण अनुकथन श्रवण व्यग्र चेतसः तस्मिन् महत् मुखरिताः मधु-भित् चरित्र पीयूष शेष सरितः परितः स्रवन्ति ताः ये पिबन्ति अवितृषः नृप गाढ कर्णैः तान् न स्पृशन्ति अशन तृट् भय शोक मोहाः

एतैरुपद्रुतो नित्यं जीवलोक: स्वभावजै: ।
न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१ ॥

एतैः उपद्रुतः नित्यम् जीव-लोकः स्व-भाव-जैः न करोति हरेः नूनम् कथा अमृत निधौ रतिम्

प्रजापतिपति: साक्षाद्भगवान् गिरिशो मनु: ।
दक्षादय: प्रजाध्यक्षा नैष्ठिका: सनकादय: ॥ ४२ ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्य: पुलह: क्रतु: ।
भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिन: ॥ ४३ ॥
अद्यापि वाचस्पतयस्तपोविद्यासमाधिभि: ।
पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४ ॥

प्रजापति-पतिः साक्षात् भगवान् गिरिशः मनुः दक्ष-आदयः प्रजा-अध्यक्षाः नैष्ठिकाः सनक-आदयः मरीचिः अत्रि-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः भृगुः वसिष्ठः इति एते मत्-अन्ताः ब्रह्म-वादिनः अद्य अपि वाचः-पतयः तपः विद्या समाधिभिः पश्यन्तः अपि न पश्यन्ति पश्यन्तम् परम-ईश्वरम्

शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।
मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदु: परम् ॥ ४५ ॥

शब्द-ब्रह्मणि दुष्पारे चरन्तः उरु विस्तरे मन्त्र लिङ्गैः व्यवच्छिन्नम् भजन्तः न विदुः परम्

यदा यस्यानुगृह्णाति भगवानात्मभावित: ।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६ ॥

यदा यस्य अनुगृह्णाति भगवान् आत्म-भावितः सः जहाति मतिम् लोके वेदे च परिनिष्ठिताम्

तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु ।
मार्थद‍ृष्टिं कृथा: श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७ ॥

तस्मात् कर्मसु बर्हिष्मन् अज्ञानात् अर्थ-काशिषु मा अर्थ-दृष्टिम् कृथाः श्रोत्र-स्पर्शिषु अस्पृष्ट वस्तुषु

स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दन: ।
आहुर्धूम्रधियो वेदं सकर्मकमतद्विद: ॥ ४८ ॥

स्वम् लोकम् न विदुः ते वै यत्र देवः जनार्दनः आहुः धूम्र-धियः वेदम् स-कर्मकम् अ-तत्-विदः

आस्तीर्य दर्भै: प्रागग्रै: कार्त्स्‍न्येन क्षितिमण्डलम् ।
स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम् ।
तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥ ४९ ॥

आस्तीर्य दर्भैः प्राक्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् स्तब्धः बृहत् वधात् मानी कर्म न अवैषि यत् परम् तत् कर्म हरि-तोषम् यत् सा विद्या तत् मतिः यया

हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वर: ।
तत्पादमूलं शरणं यत: क्षेमो नृणामिह ॥ ५० ॥

हरिः देह-भृताम् आत्मा स्वयम् प्रकृतिः ईश्वरः तत् पाद-मूलम् शरणम् यतः क्षेमः नृणाम् इह

स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।
इति वेद स वै विद्वान्यो विद्वान्स गुरुर्हरि: ॥ ५१ ॥

सः वै प्रिय-तमः च आत्मा यतः न भयम् अणु अपि इति वेद सः वै विद्वान् यः विद्वान् सः गुरुः हरिः

नारद उवाच
प्रश्न एवं हि सञ्छिन्नो भवत: पुरुषर्षभ ।
अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२ ॥

नारदः उवाच प्रश्नः एवम् हि सञ्छिन्नः भवतः पुरुष-ऋषभ अत्र मे वदतः गुह्यम् निशामय सु-निश्चितम्

क्षुद्रं चरं सुमनसां शरणे मिथित्वा
रक्तं षडङ्‌घ्रिगणसामसु लुब्धकर्णम् ।
अग्रे वृकानसुतृपोऽविगणय्य यान्तं
पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् ॥ ५३ ॥

क्षुद्रम् चरम् सुमनसाम् शरणे मिथित्वा रक्तम् षट्-अङ्घ्रि गण सामसु लुब्ध-कर्णम् अग्रे वृकान् असु-तृपः अविगणय्य यान्तम् पृष्ठे मृगम् मृगय लुब्धक बाण भिन्नम्

सुमन:समधर्मणां स्‍त्रीणां शरण आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं
जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभिनिवेशितमनसंषडङ्‌घ्रिगणसामगीत
वदतिमनोहरवनितादिजनालापेष्वतितरामतिप्रलोभितकर्णमग्रे वृकयूथवदात्मन
आयुर्हरतोऽहोरात्रान्तान् काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो
लुब्धक: कृतान्तोऽन्त:शरेण यमिह पराविध्यति तमिममात्मानमहो राजन् भिन्नहृदयं
द्रष्टुमर्हसीति ॥ ५४ ॥

सुमनः सम-धर्मणाम् स्त्रीणाम् शरणे आश्रमे पुष्प मधु गन्ध वत् क्षुद्र-तमम् काम्य कर्म विपाक-जम् काम-सुख लवम् जैह्व्य औपस्थ्य आदि विचिन्वन्तम् मिथुनी-भूय तत् अभिनिवेशित मनसम् षट्-अङ्घ्रि गण साम गीत वत् अति मनोहर वनिता-आदि जन आलापेषु अतितराम् अति प्रलोभित कर्णम् अग्रे वृक-यूथ वत् आत्मनः आयुः हरतः अहः-रात्रान् तान् काल-लव-विशेषान् अविगणय्य गृहेषु विहरन्तम् पृष्ठतः एव परोक्षम् अनुप्रवृत्तः लुब्धकः कृत-अन्तः अन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्न-हृदयम् द्रष्टुम् अर्हसि इति

स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्त-
श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते ।
जह्यङ्गनाश्रममसत्तमयूथगाथं
प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५ ॥

सः त्वम् विचक्ष्य मृग-चेष्टितम् आत्मनः अन्तः चित्तम् नियच्छ हृदि कर्ण-धुनीम् च चित्ते जहि अङ्गना-आश्रमम् असत्-तम यूथ-गाथम् प्रीणीहि हंस-शरणम् विरम क्रमेण

राजोवाच
श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत ।
नैतज्जानन्त्युपाध्याया: किं न ब्रूयुर्विदुर्यदि ॥ ५६ ॥

राजा उवाच श्रुतम् अन्वीक्षितम् ब्रह्मन् भगवान् यत् अभाषत न एतत् जानन्ति उपाध्यायाः किम् न ब्रूयुः विदुः यदि

संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् ।
ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तय: ॥ ५७ ॥

संशयः अत्र तु मे विप्र सञ्छिन्नः तत्-कृतः महान् ऋषयः अपि हि मुह्यन्ति यत्र न इन्द्रिय वृत्तयः

कर्माण्यारभते येन पुमानिह विहाय तम् ।
अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८ ॥

कर्माणि आरभते येन पुमान् इह विहाय तम् अमुत्र अन्येन देहेन जुष्टानि सः यत् अश्नुते

इति वेदविदां वाद: श्रूयते तत्र तत्र ह ।
कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९ ॥

इति वेद-विदाम् वादः श्रूयते तत्र तत्र ह कर्म यत् क्रियते प्रोक्तम् परोक्षम् न प्रकाशते

नारद उवाच
येनैवारभते कर्म तेनैवामुत्र तत्पुमान् ।
भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ ६० ॥

नारदः उवाच येन एव आरभते कर्म तेन एव अमुत्र तत् पुमान् भुङ्क्ते हि अव्यवधानेन लिङ्गेन मनसा स्वयम्

शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा ।
कर्मात्मन्याहितं भुङ्क्ते ताद‍ृशेनेतरेण वा ॥ ६१ ॥

शयानम् इमम् उत्सृज्य श्वसन्तम् पुरुषः यथा कर्म आत्मनि आहितम् भुङ्क्ते तादृशेन इतरेण वा

ममैते मनसा यद्यदसावहमिति ब्रुवन् ।
गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भव: ॥ ६२ ॥

मम एते मनसा यत् यत् असौ अहम् इति ब्रुवन् गृह्णीयात् तत् पुमान् राद्धम् कर्म येन पुनः भवः

यथानुमीयते चित्तमुभयैरिन्द्रियेहितै: ।
एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभि: ॥ ६३ ॥

यथा अनुमीयते चित्तम् उभयैः इन्द्रिय ईहितैः एवम् प्राक् देहजम् कर्म लक्ष्यते चित्त वृत्तिभिः

नानुभूतं क्‍व चानेन देहेनाद‍ृष्टमश्रुतम् ।
कदाचिदुपलभ्येत यद्रूपं याद‍ृगात्मनि ॥ ६४ ॥

न अनुभूतम् क्व च अनेन देहेन अदृष्टम् अश्रुतम् कदाचित् उपलभ्येत यत् रूपम् यादृक् आत्मनि

तेनास्य ताद‍ृशं राजँल्लिङ्गिनो देहसम्भवम् ।
श्रद्धत्स्वाननुभूतोऽर्थो न मन: स्प्रष्टुमर्हति ॥ ६५ ॥

तेन अस्य तादृशम् राजन् लिङ्गिनः देह-सम्भवम् श्रद्धत्स्व अननुभूतः अर्थः न मनः स्प्रष्टुम् अर्हति

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।
भविष्यतश्च भद्रं ते तथैव न भविष्यत: ॥ ६६ ॥

मनः एव मनुष्यस्य पूर्व रूपाणि शंसति भविष्यतः च भद्रम् ते तथा एव न भविष्यतः

अद‍ृष्टमश्रुतं चात्र क्‍वचिन्मनसि द‍ृश्यते ।
यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७ ॥

अदृष्टम् अश्रुतम् च अत्र क्वचित् मनसि दृश्यते यथा तथा अनुमन्तव्यम् देश काल क्रिया आश्रयम्

सर्वे क्रमानुरोधेन मनसीन्द्रियगोचरा: ।
आयान्ति बहुशो यान्ति सर्वे समनसो जना: ॥ ६८ ॥

सर्वे क्रम-अनुरोधेन मनसि इन्द्रिय गोचराः आयान्ति बहुशः यान्ति सर्वे समनसः जनाः

सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।
तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥ ६९ ॥

सत्त्व-एक-निष्ठे मनसि भगवत् पार्श्व-वर्तिनि तमः चन्द्रमसि इव इदम् उपरज्य अवभासते

नाहं ममेति भावोऽयं पुरुषे व्यवधीयते ।
यावद् बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥ ७० ॥

न अहम् मम इति भावः अयम् पुरुषे व्यवधीयते यावत् बुद्धि मनः अक्ष अर्थ गुण व्यूहः हि अनादि-मान्

सुप्तिमूर्च्छोपतापेषु प्राणायनविघातत: ।
नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१ ॥

सुप्ति मूर्च्छ उपतापेषु प्राण-अयन विघाततः न ईहते अहम् इति ज्ञानम् मृत्यु प्रज्वारयोः अपि

गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।
लिङ्गं न द‍ृश्यते यून: कुह्वां चन्द्रमसो यथा ॥ ७२ ॥

गर्भे बाल्ये अपि अपौष्कल्यात् एकादश विधम् तदा लिङ्गम् न दृश्यते यूनः कुह्वाम् चन्द्रमसः यथा

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३ ॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा

एवं पञ्चविधं लिङ्गं त्रिवृत् षोडश विस्तृतम् ।
एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४ ॥

एवम् पञ्च-विधम् लिङ्गम् त्रि-वृत् षोडश विस्तृतम् एषः चेतनया युक्तः जीवः इति अभिधीयते

अनेन पुरुषो देहानुपादत्ते विमुञ्चति ।
हर्षं शोकं भयं दु:खं सुखं चानेन विन्दति ॥ ७५ ॥

अनेन पुरुषः देहान् उपादत्ते विमुञ्चति हर्षम् शोकम् भयम् दुःखम् सुखम् च अनेन विन्दति

यथा तृणजलूकेयं नापयात्यपयाति च ।
न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जन: ॥ ७६ ॥
यावदन्यं न विन्देत व्यवधानेन कर्मणाम् ।
मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७ ॥

यथा तृण-जलूका इयम् न अपयाति अपयाति च न त्यजेत् म्रियमाणः अपि प्राक् देह अभिमतिम् जनः यावत् अन्यम् न विन्देत व्यवधानेन कर्मणाम् मनः एव मनुष्य-इन्द्र भूतानाम् भव भावनम्

यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् ।
सति कर्मण्यविद्यायां बन्ध: कर्मण्यनात्मन: ॥ ७८ ॥

यदा अक्षैः चरितान् ध्यायन् कर्माणि आचिनुते असकृत् सति कर्मणि अविद्यायाम् बन्धः कर्मणि अनात्मनः

अतस्तदपवादार्थं भज सर्वात्मना हरिम् ।
पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यत: ॥ ७९ ॥

अतः तत् अपवाद-अर्थम् भज सर्व-आत्मना हरिम् पश्यन् तत् आत्मकम् विश्वम् स्थिति उत्पत्ति अप्ययाः यतः

मैत्रेय उवाच
भागवतमुख्यो भगवान्नारदो हंसयोर्गतिम् ।
प्रदर्श्य ह्यमुमामन्‍त्र्य सिद्धलोकं ततोऽगमत् ॥ ८० ॥

मैत्रेयः उवाच भागवत मुख्यः भगवान् नारदः हंसयोः गतिम् प्रदर्श्य हि अमुम् आमन्त्र्य सिद्ध-लोकम् ततः अगमत्

प्राचीनबर्ही राजर्षि: प्रजासर्गाभिरक्षणे ।
आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम् ॥ ८१ ॥

प्राचीनबर्हिः राज-ऋषिः प्रजा-सर्ग अभिरक्षणे आदिश्य पुत्रान् अगमत् तपसे कपिल-आश्रमम्

तत्रैकाग्रमना धीरो गोविन्दचरणाम्बुजम् ।
विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२ ॥

तत्र एक-अग्र-मनाः धीरः गोविन्द चरण-अम्बुजम् विमुक्त सङ्गः अनुभजन् भक्त्या तत् साम्यताम् अगात्

एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ ।
य: श्रावयेद्य: श‍ृणुयात्स लिङ्गेन विमुच्यते ॥ ८३ ॥

एतत् अध्यात्म पारोक्ष्यम् गीतम् देव-ऋषिणा अनघ यः श्रावयेत् यः शृणुयात् सः लिङ्गेन विमुच्यते

एतन्मुकुन्दयशसा भुवनं पुनानं
देवर्षिवर्यमुखनि:सृतमात्मशौचम् ।
य: कीर्त्यमानमधिगच्छति पारमेष्ठ्यं
नास्मिन् भवे भ्रमति मुक्तसमस्तबन्ध: ॥ ८४ ॥

एतत् मुकुन्द-यशसा भुवनम् पुनानम् देव-ऋषि वर्य मुख निःसृतम् आत्म-शौचम् यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यम् न अस्मिन् भवे भ्रमति मुक्त समस्त बन्धः

अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम् ।
एवं स्त्रियाश्रम: पुंसश्छिन्नोऽमुत्र च संशय: ॥ ८५ ॥

अध्यात्म पारोक्ष्यम् इदम् मया अधिगतम् अद्भुतम् एवम् स्त्रिया आश्रमः पुंसः छिन्नः अमुत्र च संशयः

सर्वेषामेव जन्तूनां सततं देहपोषणे ।
अस्ति प्रज्ञा समायत्ता को विशेषस्तदा नृणाम् ॥ १अ ॥
लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम् ।
आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥ २अ ॥

सर्वेषाम् एव जन्तूनाम् सततम् देह-पोषणे अस्ति प्रज्ञा समायत्ता कः विशेषः तदा नृणाम् लब्ध्वा इह अन्ते मनुष्यत्वम् हित्वा देह-आदि असत्-ग्रहम् आत्म सृत्या विहाय इदम् जीव-आत्मा सः विशिष्यते

भक्ति: कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।
यदि स्यादात्मनो भूयादपवर्गस्तु संसृते: ॥ १ब ॥

भक्तिः कृष्णे दया जीवेषु अकुण्ठ-ज्ञानम् आत्मनि यदि स्यात् आत्मनः भूयात् अपवर्गः तु संसृतेः

श्लोक २ब
अद‍ृष्टं द‍ृष्टवन्नङ्‌क्षेद्भूतं स्वप्नवदन्यथा ।
भूतं भवद्भविष्यच्च सुप्तं सर्वरहोरह: ॥ २ब ॥

अदृष्टम् दृष्ट-वत् नङ्क्षेत् भूतम् स्वप्नवत् अन्यथा भूतम् भवत् भविष्यत् च सुप्तम् सर्व रहः-रहः

४.३०

विदुर उवाच
ये त्वयाभिहिता ब्रह्मन् सुता: प्राचीनबर्हिष: ।
ते रुद्रगीतेन हरिं सिद्धिमापु: प्रतोष्य काम् ॥ १ ॥

विदुरः उवाच ये त्वया अभिहिताः ब्रह्मन् सुताः प्राचीनबर्हिषः ते रुद्र-गीतेन हरिम् सिद्धिम् आपुः प्रतोष्य काम्

किं बार्हस्पत्येह परत्र वाथ
कैवल्यनाथप्रियपार्श्ववर्तिन: ।
आसाद्य देवं गिरिशं यद‍ृच्छया
प्रापु: परं नूनमथ प्रचेतस: ॥ २ ॥

किम् बार्हस्पत्य इह परत्र वा अथ कैवल्य-नाथ प्रिय पार्श्व-वर्तिनः आसाद्य देवम् गिरि-शम् यदृच्छया प्रापुः परम् नूनम् अथ प्रचेतसः

मैत्रेय उवाच
प्रचेतसोऽन्तरुदधौ पितुरादेशकारिण: ।
जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥

मैत्रेयः उवाच प्रचेतसः अन्तः उदधौ पितुः आदेश-कारिणः जप-यज्ञेन तपसा पुरम्-जनम् अतोषयन्

दशवर्षसहस्रान्ते पुरुषस्तु सनातन: ।
तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥

दश-वर्ष सहस्र-अन्ते पुरुषः तु सनातनः तेषाम् आविरभूत् कृच्छ्रम् शान्तेन शमयन् रुचा

सुपर्णस्कन्धमारूढो मेरुश‍ृङ्गमिवाम्बुद: ।
पीतवासा मणिग्रीव: कुर्वन्वितिमिरा दिश: ॥ ५ ॥

सुपर्ण स्कन्धम् आरूढः मेरु शृङ्गम् इव अम्बुदः पीत-वासाः मणि-ग्रीवः कुर्वन् वितिमिराः दिशः

काशिष्णुना कनकवर्णविभूषणेन
भ्राजत्कपोलवदनो विलसत्किरीट: ।
अष्टायुधैरनुचरैर्मुनिभि: सुरेन्द्रै-
रासेवितो गरुडकिन्नरगीतकीर्ति: ॥ ६ ॥

काशिष्णुना कनक वर्ण विभूषणेन भ्राजत् कपोल वदनः विलसत् किरीटः अष्ट आयुधैः अनुचरैः मुनिभिः सुर-इन्द्रैः आसेवितः गरुड किन्नर गीत कीर्तिः

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या
स्पर्धच्छ्रिया परिवृतो वनमालयाद्य: ।
बर्हिष्मत: पुरुष आह सुतान् प्रपन्नान्
पर्जन्यनादरुतया सघृणावलोक: ॥ ७ ॥

पीन आयत अष्ट भुज मण्डल मध्य लक्ष्म्या स्पर्धत् श्रिया परिवृतः वन-मालया आद्यः बर्हिष्मतः पुरुषः आह सुतान् प्रपन्नान् पर्जन्य नाद रुतया स-घृण अवलोकः

श्रीभगवानुवाच
वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दना: ।
सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन व: ॥ ८ ॥

श्री-भगवान् उवाच वरम् वृणीध्वम् भद्रम् वः यूयम् मे नृप-नन्दनाः सौहार्देन अपृथक् धर्माः तुष्टः अहम् सौहृदेन वः

योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नर: ।
तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥

यः अनुस्मरति सन्ध्यायाम् युष्मान् अनुदिनम् नरः तस्य भ्रातृषु आत्म-साम्यम् तथा भूतेषु सौहृदम्

ये तु मां रुद्रगीतेन सायं प्रात: समाहिता: ।
स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥

ये तु माम् रुद्र-गीतेन सायम् प्रातः समाहिताः स्तुवन्ति अहम् काम-वरान् दास्ये प्रज्ञाम् च शोभनाम्

यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विता: ।
अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥ ११ ॥

यत् यूयम् पितुः आदेशम् अग्रहीष्ट मुदा-अन्विताः अथो वः उशती कीर्तिः लोकान् अनु भविष्यति

भविता विश्रुत: पुत्रोऽनवमो ब्रह्मणो गुणै: ।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥

भविता विश्रुतः पुत्रः अनवमः ब्रह्मणः गुणैः यः एताम् आत्म-वीर्येण त्रि-लोकीम् पूरयिष्यति

कण्डो: प्रम्‍लोचया लब्धा कन्या कमललोचना ।
तां चापविद्धां जगृहुर्भूरुहा नृपनन्दना: ॥ १३ ॥

कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना ताम् च अपविद्धाम् जगृहुः भूरुहाः नृप-नन्दनाः

क्षुत्क्षामाया मुखे राजा सोम: पीयूषवर्षिणीम् ।
देशिनीं रोदमानाया निदधे स दयान्वित: ॥ १४ ॥

क्षुत् क्षामायाः मुखे राजा सोमः पीयूष वर्षिणीम् देशिनीम् रोदमानायाः निदधे सः दया-अन्वितः

प्रजाविसर्ग आदिष्टा: पित्रा मामनुवर्तता ।
तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥ १५ ॥

प्रजा-विसर्गे आदिष्टाः पित्रा माम् अनुवर्तता तत्र कन्याम् वर-आरोहाम् ताम् उद्वहत मा चिरम्

अपृथग्धर्मशीलानां सर्वेषां व: सुमध्यमा ।
अपृथग्धर्मशीलेयं भूयात्पत्‍न्यर्पिताशया ॥ १६ ॥

अपृथक् धर्म शीलानाम् सर्वेषाम् वः सु-मध्यमा अपृथक् धर्म शीला इयम् भूयात् पत्नी अर्पित-आशया

दिव्यवर्षसहस्राणां सहस्रमहतौजस: ।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥

दिव्य वर्ष सहस्राणाम् सहस्रम् अहत ओजसः भौमान् भोक्ष्यथ भोगान् वै दिव्यान् च अनुग्रहात् मम

अथ मय्यनपायिन्या भक्त्या पक्‍वगुणाशया: ।
उपयास्यथ मद्धाम निर्विद्य निरयादत: ॥ १८ ॥

अथ मयि अनपायिन्या भक्त्या पक्व-गुण आशयाः उपयास्यथ मत्-धाम निर्विद्य निरयात् अतः

गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।
मद्वार्तायातयामानां न बन्धाय गृहा मता: ॥ १९ ॥

गृहेषु आविशताम् च अपि पुंसाम् कुशल-कर्मणाम् मत्-वार्ता यात यामानाम् न बन्धाय गृहाः मताः

नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभि: ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गता: ॥ २० ॥

नव्य-वत् हृदये यत् ज्ञः ब्रह्म एतत् ब्रह्म-वादिभिः न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतः गताः

मैत्रेय उवाच
एवं ब्रुवाणं पुरुषार्थभाजनं
जनार्दनं प्राञ्जलय: प्रचेतस: ।
तद्दर्शनध्वस्ततमोरजोमला
गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥

मैत्रेयः उवाच एवम् ब्रुवाणम् पुरुष-अर्थ भाजनम् जन-अर्दनम् प्राञ्जलयः प्रचेतसः तत् दर्शन ध्वस्त तमः रजः मलाः गिरा अगृणन् गद्गदया सुहृत्-तमम्

प्रचेतसः ऊचुः नमः नमः क्लेश विनाशनाय निरूपित उदार गुण आह्वयाय मनः वचः वेग पुरः जवाय सर्व-अक्ष मार्गैः अगत अध्वने नमः

शुद्धाय शान्ताय नम: स्वनिष्ठया
मनस्यपार्थं विलसद्‌द्वयाय ।
नमो जगत्स्थानलयोदयेषु
गृहीतमायागुणविग्रहाय ॥ २३ ॥

शुद्धाय शान्ताय नमः स्व-निष्ठया मनसि अपार्थम् विलसत् द्वयाय नमः जगत् स्थान लय उदयेषु गृहीत माया गुण विग्रहाय

नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।
वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥

नमः विशुद्ध-सत्त्वाय हरये हरि-मेधसे वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम्

नम: कमलनाभाय नम: कमलमालिने ।
नम: कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥

नमः कमल-नाभाय नमः कमल-मालिने नमः कमल-पादाय नमः ते कमल-ईक्षण

नम: कमलकिञ्जल्कपिशङ्गामलवाससे ।
सर्वभूतनिवासाय नमोऽयुङ्‌क्ष्महि साक्षिणे ॥ २६ ॥

नमः कमल-किञ्जल्क पिशङ्ग अमल वाससे सर्व-भूत निवासाय नमः अयुङ्क्ष्महि साक्षिणे

रूपं भगवता त्वेतदशेषक्लेशसङ्‌क्षयम् ।
आविष्कृतं न: क्लिष्टानां किमन्यदनुकम्पितम् ॥ २७ ॥

रूपम् भगवता तु एतत् अशेष क्लेश सङ्क्षयम् आविष्कृतम् नः क्लिष्टानाम् किम् अन्यत् अनुकम्पितम्

एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलै: ।
यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥

एतावत् त्वम् हि विभुभिः भाव्यम् दीनेषु वत्सलैः यत् अनुस्मर्यते काले स्व-बुद्ध्या अभद्र-रन्धन

येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् ।
अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिष: ॥ २९


येन उपशान्तिः भूतानाम् क्षुल्लकानाम् अपि ईहताम् अन्तर्हितः अन्तः-हृदये कस्मात् नः वेद न आशिषः

असावेव वरोऽस्माकमीप्सितो जगत: पते ।
प्रसन्नो भगवान् येषामपवर्गगुरुर्गति: ॥ ३० ॥

असौ एव वरः अस्माकम् ईप्सितः जगतः पते प्रसन्नः भगवान् येषाम् अपवर्ग गुरुः गतिः

वरं वृणीमहेऽथापि नाथ त्वत्परत: परात् ।
न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥

वरम् वृणीमहे अथ अपि नाथ त्वत् परतः परात् न हि अन्तः त्वत् विभूतीनाम् सः अनन्तः इति गीयसे

पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते ।
त्वदङ्‌घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥

पारिजाते अञ्जसा लब्धे सारङ्गः अन्यत् न सेवते त्वत्-अङ्घ्रि मूलम् आसाद्य साक्षात् किम् किम् वृणीमहि

यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभि: ।
तावद्भवत्प्रसङ्गानां सङ्ग: स्यान्नो भवे भवे ॥ ३३ ॥

यावत् ते मायया स्पृष्टाः भ्रमामः इह कर्मभिः तावत् भवत्-प्रसङ्गानाम् सङ्गः स्यात् नः भवे भवे

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ३४ ॥

तुलयाम लवेन अपि न स्वर्गम् न अपुनः-भवम् भगवत् सङ्गि सङ्गस्य मर्त्यानाम् किम् उत आशिषः

यत्रेड्यन्ते कथा मृष्टास्तृष्णाया: प्रशमो यत: ।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥

यत्र ईड्यन्ते कथाः मृष्टाः तृष्णायाः प्रशमः यतः निर्वैरम् यत्र भूतेषु न उद्वेगः यत्र कश्चन

यत्र नारायण: साक्षाद्भगवान्न्यासिनां गति: ।
संस्तूयते सत्कथासु मुक्तसङ्गै: पुन: पुन: ॥ ३६ ॥

यत्र नारायणः साक्षात् भगवान् न्यासिनाम् गतिः संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः

तेषां विचरतां पद्‌भ्यां तीर्थानां पावनेच्छया ।
भीतस्य किं न रोचेत तावकानां समागम: ॥ ३७ ॥

तेषाम् विचरताम् पद्भ्याम् तीर्थानाम् पावन-इच्छया भीतस्य किम् न रोचेत तावकानाम् समागमः

वयं तु साक्षाद्भगवन् भवस्य
प्रियस्य सख्यु: क्षणसङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्यो-
र्भिषक्तमं त्वाद्य गतिं गता: स्म ॥ ३८ ॥

वयम् तु साक्षात् भगवन् भवस्य प्रियस्य सख्युः क्षण सङ्गमेन सुदुश्चिकित्स्यस्य भवस्य मृत्योः भिषक्-तमम् त्वा अद्य गतिम् गताः स्म

यन्न: स्वधीतं गुरव: प्रसादिता
विप्राश्च वृद्धाश्च सदानुवृत्त्या ।
आर्या नता: सुहृदो भ्रातरश्च
सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥
यन्न: सुतप्तं तप एतदीश
निरन्धसां कालमदभ्रमप्सु ।
सर्वं तदेतत्पुरुषस्य भूम्नो
वृणीमहे ते परितोषणाय ॥ ४० ॥

यत् नः स्वधीतम् गुरवः प्रसादिताः विप्राः च वृद्धाः च सत्-आनुवृत्त्या आर्याः नताः सु-हृदः भ्रातरः च सर्वाणि भूतानि अनसूयया एव यत् नः सु-तप्तम् तपः एतत् ईश निरन्धसाम् कालम् अदभ्रम् अप्सु सर्वम् तत् एतत् पुरुषस्य भूम्नः वृणीमहे ते परितोषणाय

मनु: स्वयम्भूर्भगवान् भवश्च
येऽन्ये तपोज्ञानविशुद्धसत्त्वा: ।
अद‍ृष्टपारा अपि यन्महिम्न:
स्तुवन्त्यथो त्वात्मसमं गृणीम: ॥ ४१ ॥

मनुः स्वयम्भूः भगवान् भवः च ये अन्ये तपः ज्ञान विशुद्ध सत्त्वाः अदृष्ट-पाराः अपि यत् महिम्नः स्तुवन्ति अथो त्वा आत्म-समम् गृणीमः

नम: समाय शुद्धाय पुरुषाय पराय च ।
वासुदेवाय सत्त्वाय तुभ्यं भगवते नम: ॥ ४२ ॥

नमः समाय शुद्धाय पुरुषाय पराय च वासुदेवाय सत्त्वाय तुभ्यम् भगवते नमः

मैत्रेय उवाच
इति प्रचेतोभिरभिष्टुतो हरि:
प्रीतस्तथेत्याह शरण्यवत्सल: ।
अनिच्छतां यानमतृप्तचक्षुषां
ययौ स्वधामानपवर्गवीर्य: ॥ ४३ ॥

मैत्रेयः उवाच इति प्रचेतोभिः अभिष्टुतः हरिः प्रीतः तथा इति आह शरण्य वत्सलः अनिच्छताम् यानम् अतृप्त चक्षुषाम् ययौ स्व-धाम अनपवर्ग-वीर्यः

अथ निर्याय सलिलात्प्रचेतस उदन्वत: ।
वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितै: ॥ ४४ ॥

अथ निर्याय सलिलात् प्रचेतसः उदन्वतः वीक्ष्य अकुप्यन् द्रुमैः छन्नाम् गाम् गाम् रोद्धुम् इव उच्छ्रितैः

ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा ।
महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥

ततः अग्नि मारुतौ राजन् अमुञ्चन् मुखतः रुषा महीम् निर्वीरुधम् कर्तुम् संवर्तकः इव अत्यये

भस्मसात्क्रियमाणांस्तान् द्रुमान्वीक्ष्य पितामह: ।
आगत: शमयामास पुत्रान् बर्हिष्मतो नयै: ॥ ४६ ॥

भस्मसात् क्रियमाणान् तान् द्रुमान् वीक्ष्य पितामहः आगतः शमयाम् आस पुत्रान् बर्हिष्मतः नयैः

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।
उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टा: स्वयम्भुवा ॥ ४७ ॥

तत्र अवशिष्टाः ये वृक्षाः भीताः दुहितरम् तदा उज्जह्रुः ते प्रचेतोभ्यः उपदिष्टाः स्वयम्भुवा

ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे ।
यस्यां महदवज्ञानादजन्यजनयोनिज: ॥ ४८ ॥

ते च ब्रह्मणः आदेशात् मारिषाम् उपयेमिरे यस्याम् महत् अवज्ञानात् अजनि अजन-योनि-जः

चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।
य: ससर्ज प्रजा इष्टा: स दक्षो दैवचोदित: ॥ ४९ ॥

चाक्षुषे तु अन्तरे प्राप्ते प्राक् सर्गे काल-विद्रुते यः ससर्ज प्रजाः इष्टाः सः दक्षः दैव चोदितः

यो जायमान: सर्वेषां तेजस्तेजस्विनां रुचा ।
स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥
तं प्रजासर्गरक्षायामनादिरभिषिच्य च ।
युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥

यः जायमानः सर्वेषाम् तेजः तेजस्विनाम् रुचा स्वया उपादत्त दाक्ष्यात् च कर्मणाम् दक्षम् अब्रुवन् तम् प्रजा सर्ग रक्षायाम् अनादिः अभिषिच्य च युयोज युयुजे अन्यान् च सः वै सर्व प्रजा-पतीन्

४.३१

मैत्रेय उवाच
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।
स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥

मैत्रेयः उवाच ततः उत्पन्न विज्ञानाः आशु अधोक्षज भाषितम् स्मरन्तः आत्म-जे भार्याम् विसृज्य प्राव्रजन् गृहात्

दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।
प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलि: ॥ २ ॥

दीक्षिताः ब्रह्म-सत्रेण सर्व भूत आत्म-मेधसा प्रतीच्याम् दिशि वेलायाम् सिद्धः अभूत् यत्र जाजलिः

तान्निर्जितप्राणमनोवचोद‍ृशो
जितासनान् शान्तसमानविग्रहान् ।
परेऽमले ब्रह्मणि योजितात्मन:
सुरासुरेड्यो दद‍ृशे स्म नारद: ॥ ३ ॥

तान् निर्जित प्राण मनः वचः दृशः जित-आसनान् शान्त समान विग्रहान् परे अमले ब्रह्मणि योजित आत्मनः सुर-असुर-ईड्यः ददृशे स्म नारदः

तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।
पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥ ४ ॥

तम् आगतम् ते उत्थाय प्रणिपत्य अभिनन्द्य च पूजयित्वा यथा आदेशम् सुख-आसीनम् अथ अब्रुवन्

प्रचेतस ऊचु:
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गत: ।
तव चङ्‌क्रमणं ब्रह्मन्नभयाय यथा रवे: ॥ ५ ॥

प्रचेतसः ऊचुः सु-आगतम् ते सुर-ऋषे अद्य दिष्ट्या नः दर्शनम् गतः तव चङ्क्रमणम् ब्रह्मन् अभयाय यथा रवेः

यदादिष्टं भगवता शिवेनाधोक्षजेन च ।
तद् गृहेषु प्रसक्तानां प्रायश: क्षपितं प्रभो ॥ ६ ॥

यत् आदिष्टम् भगवता शिवेन अधोक्षजेन च तत् गृहेषु प्रसक्तानाम् प्रायशः क्षपितम् प्रभो

तन्न: प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् ।
येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥

तत् नः प्रद्योतय अध्यात्म ज्ञानम् तत्त्व अर्थ दर्शनम् येन अञ्जसा तरिष्यामः दुस्तरम् भव-सागरम्

मैत्रेय उवाच
इति प्रचेतसां पृष्टो भगवान्नारदो मुनि: ।
भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् ॥ ८ ॥

मैत्रेयः उवाच इति प्रचेतसाम् पृष्टः भगवान् नारदः मुनिः भगवति उत्तम-श्लोके आविष्ट आत्मा अब्रवीत् नृपान्

नारद उवाच
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वच: ।
नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वर: ॥ ९ ॥

नारदः उवाच तत् जन्म तानि कर्माणि तत् आयुः तत् मनः वचः नृणाम् येन हि विश्व-आत्मा सेव्यते हरिः ईश्वरः

किं जन्मभिस्त्रिभिर्वेह शौक्रसावित्रयाज्ञिकै: ।
कर्मभिर्वा त्रयीप्रोक्तै: पुंसोऽपि विबुधायुषा ॥ १० ॥

किम् जन्मभिः त्रिभिः वा इह शौक्र सावित्र याज्ञिकैः कर्मभिः वा त्रयी प्रोक्तैः पुंसः अपि विबुध आयुषा

श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभि: ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥

श्रुतेन तपसा वा किम् वचोभिः चित्त वृत्तिभिः बुद्ध्या वा किम् निपुणया बलेन इन्द्रिय-राधसा

किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि ।
किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरि: ॥ १२ ॥

किम् वा योगेन साङ्ख्येन न्यास स्वाध्याययोः अपि किम् वा श्रेयोभिः अन्यैः च न यत्र आत्म-प्रदः हरिः

श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थत: ।
सर्वेषामपि भूतानां हरिरात्मात्मद: प्रिय: ॥ १३ ॥

श्रेयसाम् अपि सर्वेषाम् आत्मा हि अवधिः अर्थतः सर्वेषाम् अपि भूतानाम् हरिः आत्मा आत्म-दः प्रियः

यथा तरोर्मूलनिषेचनेन
तृप्यन्ति तत्स्कन्धभुजोपशाखा: ।
प्राणोपहाराच्च यथेन्द्रियाणां
तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥

यथा तरोः मूल निषेचनेन तृप्यन्ति तत् स्कन्ध भुज उपशाखाः प्राण उपहारात् च यथा इन्द्रियाणाम् तथा एव सर्व अर्हणम् अच्युत इज्या

यथैव सूर्यात्प्रभवन्ति वार:
पुनश्च तस्मिन्प्रविशन्ति काले ।
भूतानि भूमौ स्थिरजङ्गमानि
तथा हरावेव गुणप्रवाह: ॥ १५ ॥

यथा एव सूर्यात् प्रभवन्ति वारः पुनः च तस्मिन् प्रविशन्ति काले भूतानि भूमौ स्थिर जङ्गमानि तथा हरौ एव गुण-प्रवाहः

एतत्पदं तज्जगदात्मन: परं
सकृद्विभातं सवितुर्यथा प्रभा ।
यथासवो जाग्रति सुप्तशक्तयो
द्रव्यक्रियाज्ञानभिदाभ्रमात्यय: ॥ १६ ॥

एतत् पदम् तत् जगत्-आत्मनः परम् सकृत् विभातम् सवितुः यथा प्रभा यथा असवः जाग्रति सुप्त शक्तयः द्रव्य क्रिया ज्ञान भिदा-भ्रम अत्ययः

यथा नभस्यभ्रतम:प्रकाशा
भवन्ति भूपा न भवन्त्यनुक्रमात् ।
एवं परे ब्रह्मणि शक्तयस्त्वमू
रजस्तम:सत्त्वमिति प्रवाह: ॥ १७ ॥

यथा नभसि अभ्र तमः प्रकाशाः भवन्ति भू-पाः न भवन्ति अनुक्रमात् एवम् परे ब्रह्मणि शक्तयः तु अमूः रजः तमः सत्त्वम् इति प्रवाहः

तेनैकमात्मानमशेषदेहिनां
कालं प्रधानं पुरुषं परेशम् ।
स्वतेजसा ध्वस्तगुणप्रवाह-
मात्मैकभावेन भजध्वमद्धा ॥ १८ ॥

तेन एकम् आत्मानम् अशेष देहिनाम् कालम् प्रधानम् पुरुषम् पर-ईशम् स्व-तेजसा ध्वस्त गुण-प्रवाहम् आत्म एक-भावेन भजध्वम् अद्धा

दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दन: ॥ १९ ॥

दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा सर्व-इन्द्रिय उपशान्त्या च तुष्यति आशु जनार्दनः

अपहतसकलैषणामलात्म-
न्यविरतमेधितभावनोपहूत: ।
निजजनवशगत्वमात्मनोऽय-
न्न सरति छिद्रवदक्षर: सतां हि ॥ २० ॥

अपहत सकल एषण अमल आत्मनि अविरतम् एधित भावना उपहूतः निज-जन वश गत्वम् आत्मनः अयन् न सरति छिद्र-वत् अक्षरः सताम् हि

न भजति कुमनीषिणां स इज्यां
हरिरधनात्मधनप्रियो रसज्ञ: ।
श्रुतधनकुलकर्मणां मदैर्ये
विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥

न भजति कु-मनीषिणाम् सः इज्याम् हरिः अधन आत्म-धन प्रियः रस-ज्ञः श्रुत धन कुल कर्मणाम् मदैः ये विदधति पापम् अकिञ्चनेषु सत्सु

श्रियमनुचरतीं तदर्थिनश्च
द्विपदपतीन् विबुधांश्च यत्स्वपूर्ण: ।
न भजति निजभृत्यवर्गतन्त्र:
कथममुमुद्विसृजेत्पुमान् कृतज्ञ: ॥ २२ ॥

श्रियम् अनुचरतीम् तत् अर्थिनः च द्विपद-पतीन् विबुधान् च यत् स्व-पूर्णः न भजति निज भृत्य-वर्ग तन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः

मैत्रेय उवाच
इति प्रचेतसो राजन्नन्याश्च भगवत्कथा: ।
श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनि: ॥ २३ ॥

मैत्रेयः उवाच इति प्रचेतसः राजन् अन्याः च भगवत्-कथाः श्रावयित्वा ब्रह्म-लोकम् ययौ स्वायम्भुवः मुनिः

तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।
हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययु: ॥ २४ ॥

ते अपि तत् मुख निर्यातम् यशः लोक मल अपहम् हरेः निशम्य तत् पादम् ध्यायन्तः तत्-गतिम् ययुः

एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् ।
प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥

एतत् ते अभिहितम् क्षत्तः यत् माम् त्वम् परिपृष्टवान् प्रचेतसाम् नारदस्य संवादम् हरि-कीर्तनम्

श्रीशुक उवाच
य एष उत्तानपदो मानवस्यानुवर्णित: ।
वंश: प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥

श्री-शुकः उवाच यः एषः उत्तानपदः मानवस्य अनुवर्णितः वंशः प्रियव्रतस्य अपि निबोध नृप-सत्तम

यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥

यः नारदात् आत्म-विद्याम् अधिगम्य पुनः महीम् भुक्त्वा विभज्य पुत्रेभ्यः ऐश्वरम् समगात् पदम्

इमां तु कौषारविणोपवर्णितां
क्षत्ता निशम्याजितवादसत्कथाम् ।
प्रवृद्धभावोऽश्रुकलाकुलो मुने-
र्दधार मूर्ध्ना चरणं हृदा हरे: ॥ २८ ॥

इमाम् तु कौषारविणा उपवर्णिताम् क्षत्ता निशम्य अजित-वाद सत्-कथाम् प्रवृद्ध भावः अश्रु कला आकुलः मुनेः दधार मूर्ध्ना चरणम् हृदा हरेः

विदुर उवाच
सोऽयमद्य महायोगिन् भवता करुणात्मना ।
दर्शितस्तमस: पारो यत्राकिञ्चनगो हरि: ॥ २९ ॥

विदुरः उवाच सः अयम् अद्य महा-योगिन् भवता करुण-आत्मना दर्शितः तमसः पारः यत्र अकिञ्चन-गः हरिः

श्रीशुक उवाच
इत्यानम्य तमामन्‍त्र्य विदुरो गजसाह्वयम् ।
स्वानां दिद‍ृक्षु: प्रययौ ज्ञातीनां निर्वृताशय: ॥ ३० ॥

श्री-शुकः उवाच इति आनम्य तम् आमन्त्र्य विदुरः गज-साह्वयम् स्वानाम् दिदृक्षुः प्रययौ ज्ञातीनाम् निर्वृत-आशयः

एतद्य: श‍ृणुयाद्राजन् राज्ञां हर्यर्पितात्मनाम् ।
आयुर्धनं यश: स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१ ॥
ऋषभ उवाच
नायं देहो देहभाजां नृलोके
कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
शुद्ध्येद्यस्माद् ब्रह्मसौख्यं त्वनन्तम् ॥ १ ॥

एतत् यः शृणुयात् राजन् राज्ञाम् हरि अर्पित-आत्मनाम् आयुः धनम् यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात्