श्रीमद्भागवतम् पदच्छेद - स्कंध ५

५.१

राजोवाच
प्रियव्रतो भागवत आत्माराम: कथं मुने ।
गृहेऽरमत यन्मूल: कर्मबन्ध: पराभव: ॥ १ ॥

राजा उवाच प्रिय-व्रतः भागवतः आत्म-आरामः कथम् मुने गृहे अरमत यत्-मूलः कर्म-बन्धः पराभवः

न नूनं मुक्तसङ्गानां ताद‍ृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥

न नूनम् मुक्त-सङ्गानाम् तादृशानाम् द्विज-ऋषभ गृहेषु अभिनिवेशः अयम् पुंसाम् भवितुम् अर्हति

महतां खलु विप्रर्षे उत्तमश्लोकपादयो: ।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामति: ॥ ३ ॥

महताम् खलु विप्र-ऋषे उत्तम-श्लोक-पादयोः छाया निर्वृत चित्तानाम् न कुटुम्बे स्पृहा-मतिः

संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४ ॥

संशयः अयम् महान् ब्रह्मन् दार आगार सुत आदिषु सक्तस्य यत् सिद्धिः अभूत् कृष्णे च मतिः अच्युता

श्रीशुक उवाच
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंस
दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ ५ ॥

श्री-शुकः उवाच बाढम् उक्तम् भगवतः उत्तम-श्लोकस्य श्रीमत्-चरण-अरविन्द मकरन्द रसे आवेशित चेतसः भागवत परमहंस दयित कथाम् किञ्चित् अन्तराय विहताम् स्वाम् शिव-तमाम् पदवीम् न प्रायेण हिन्वन्ति

यर्हि वाव ह राजन् स राजपुत्र: प्रियव्रत: परमभागवतो नारदस्य
चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाण:
अवनितलपरिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव
एवाव्यवधानसमाधियोगेन समावेशित-सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि
तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्माद सतोऽपि पराभवमन्वीक्षमाण: ॥ ६ ॥

यर्हि वाव ह राजन् सः राज-पुत्रः प्रियव्रतः परम भागवतः नारदस्य चरण उपसेवया अञ्जसा अवगत परम-अर्थ स-तत्त्वः ब्रह्म-सत्रेण दीक्षिष्यमाणः अवनि-तल परिपालनाय आम्नात प्रवर गुण गण एकान्त भाजनतया स्व-पित्रा उपामन्त्रितः भगवति वासुदेवे एव अव्यवधान समाधि-योगेन समावेशित सकल कारक क्रिया-कलापः न एव अभ्यनन्दत् यद्यपि तत् अप्रत्याम्नातव्यम् तत्-अधिकरणे आत्मनः अन्यस्मात् असतः अपि पराभवम् अन्वीक्षमाणः

अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसित सकलजगदभिप्राय
आत्मयोनिरखिलनिगमनिजगणपरिवेष्टित: स्वभवनादवततार ॥ ७ ॥

अथ ह भगवान् आदि-देवः एतस्य गुण-विसर्गस्य परिबृंहण अनुध्यान व्यवसित सकल जगत् अभिप्रायः आत्म योनिः अखिल निगम निज-गण परिवेष्टितः स्व-भवनात् अवततार

स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमान: पथि पथि च
वरूथश: सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८ ॥

सः तत्र तत्र गगन-तले उडु-पतिः इव विमान-आवलिभिः अनुपथम् अमर परिवृढैः अभिपूज्यमानः पथि पथि च वरूथशः सिद्ध गन्धर्व साध्य चारण मुनि-गणैः उपगीयमानः गन्ध-मादन द्रोणीम् अवभासयन् उपससर्प

तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमान: सहसैवोत्थायार्हणेन सह
पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९ ॥

तत्र ह वा एनम् देव-ऋषिः हंस-यानेन पितरम् भगवन्तम् हिरण्य-गर्भम् उपलभमानः सहसा एव उत्थाय अर्हणेन सह पिता-पुत्राभ्याम् अवहित-अञ्जलिः उपतस्थे

भगवानपि भारत तदुपनीतार्हण: सूक्तवाकेनातितरामुदितगुणगणावतारसुजय: प्रियव्रतमादि
पुरुषस्तं सदयहासावलोक इति होवाच ॥ १० ॥

भगवान् अपि भारत तत् उपनीत अर्हणः सूक्त वाकेन अतितराम् उदित गुण-गण अवतार सु-जयः प्रियव्रतम् आदि-पुरुषः तम् स-दय हास अवलोकः इति ह उवाच

श्रीभगवानुवाच
निबोध तातेदमृतं ब्रवीमि
मासूयितुं देवमर्हस्यप्रमेयम् ।
वयं भवस्ते तत एष महर्षि-
र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११ ॥

श्री-भगवान् उवाच निबोध तात इदम् ऋतम् ब्रवीमि मा असूयितुम् देवम् अर्हसि अप्रमेयम् वयम् भवः ते ततः एषः महा-ऋषिः वहामः सर्वे विवशाः यस्य दिष्टम्

न तस्य कश्चित्तपसा विद्यया वा
न योगवीर्येण मनीषया वा ।
नैवार्थधर्मै: परत: स्वतो वा
कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२ ॥

न तस्य कश्चित् तपसा विद्यया वा न योग वीर्येण मनीषया वा न एव अर्थ धर्मैः परतः स्वतः वा कृतम् विहन्तुम् तनु-भृत् विभूयात्

भवाय नाशाय च कर्म कर्तुं
शोकाय मोहाय सदा भयाय ।
सुखाय दु:खाय च देहयोग-
मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३ ॥

भवाय नाशाय च कर्म कर्तुम् शोकाय मोहाय सदा भयाय सुखाय दुःखाय च देह-योगम् अव्यक्त दिष्टम् जनता अङ्ग धत्ते

यद्वाचि तन्त्यां गुणकर्मदामभि:
सुदुस्तरैर्वत्स वयं सुयोजिता: ।
सर्वे वहामो बलिमीश्वराय
प्रोता नसीव द्विपदे चतुष्पद: ॥ १४ ॥

यत् वाचि तन्त्याम् गुण कर्म दामभिः सु-दुस्तरैः वत्स वयम् सु-योजिताः सर्वे वहामः बलिम् ईश्वराय प्रोताः नसि इव द्वि-पदे चतुः-पदः

ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग
दु:खं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय तत्तद्यदयुङ्क्त नाथ-
श्चक्षुष्मतान्धा इव नीयमाना: ॥ १५ ॥

ईश-अभिसृष्टम् हि अवरुन्ध्महे अङ्ग दुःखम् सुखम् वा गुण-कर्म सङ्गात् आस्थाय तत् तत् यत् अयुङ्क्त नाथः चक्षुष्मता अन्धाः इव नीयमानाः

मुक्तोऽपि तावद्ब‍िभृयात्स्वदेह-
मारब्धमश्नन्नभिमानशून्य: ।
यथानुभूतं प्रतियातनिद्र:
किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६ ॥

मुक्तः अपि तावत् बिभृयात् स्व-देहम् आरब्धम् अश्नन् अभिमान-शून्यः यथा अनुभूतम् प्रतियात-निद्रः किम् तु अन्य-देहाय गुणान् न वृङ्क्ते

भयं प्रमत्तस्य वनेष्वपि स्याद्
यत: स आस्ते
सहषट्‌सपत्न: ।
जितेन्द्रियस्यात्मरतेर्बुधस्य
गृहाश्रम:
किं नु
करोत्यवद्यम् ॥ १७ ॥

भयम् प्रमत्तस्य वनेषु अपि स्यात् यतः सः आस्ते सह षट्-सपत्नः जित-इन्द्रियस्य आत्म-रतेः बुधस्य गृह-आश्रमः किम् नु करोति अवद्यम्

य: षट् सपत्नान् विजिगीषमाणो
गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्गाश्रित ऊर्जितारीन्
क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८ ॥

यः षट् सपत्नान् विजिगीषमाणः गृहेषु निर्विश्य यतेत पूर्वम् अत्येति दुर्ग-आश्रितः ऊर्जित-अरीन् क्षीणेषु कामम् विचरेत् विपश्चित्

त्वं त्वब्जनाभाङ्‌घ्रिसरोजकोश-
दुर्गाश्रितो निर्जितषट्‌सपत्न: ।
भुङ्‌क्ष्वेह भोगान् पुरुषातिदिष्टान्
विमुक्तसङ्ग: प्रकृतिं भजस्व ॥ १९ ॥

त्वम् तु अब्ज-नाभ अङ्घ्रि सरोज कोश दुर्ग आश्रितः निर्जित षट्-सपत्नः भुङ्क्ष्व इह भोगान् पुरुष अतिदिष्टान् विमुक्त सङ्गः प्रकृतिम् भजस्व

श्रीशुक उवाच
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो
बाढमिति सबहुमानमुवाह ॥ २० ॥

श्री-शुकः उवाच इति समभिहितः महा-भागवतः भगवतः त्रि-भुवन गुरोः अनुशासनम् आत्मनः लघुतया अवनत शिरोधरः बाढम् इति स-बहु-मानम् उवाह

भगवानपि मनुना यथावदुपकल्पितापचिति:
प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्‍मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत्
॥ २१ ॥

भगवान् अपि मनुना यथावत् उपकल्पित-अपचितिः प्रियव्रत-नारदयोः अविषमम् अभिसमीक्षमाणयोः आत्मसम् अवस्थानम् अवाक्-मनसम् क्षयम् अव्यवहृतम् प्रवर्तयन् अगमत्

मनुरपि परेणैवं प्रतिसन्धितमनोरथ: सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य
स्वयमतिविषमविषयविषजलाशयाशाया उपरराम ॥ २२ ॥

मनुः अपि परेण एवम् प्रतिसन्धित मनः-रथः सुर-ऋषि-वर अनुमतेन आत्म-जम् अखिल धरा-मण्डल स्थिति गुप्तये आस्थाप्य स्वयम् अति-विषम विषय विष जल-आशय आशायाः उपरराम

इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्ब‍न्धध्वंसनपरानुभावस्य
भगवत आदिपुरुषस्याङ्‌घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो
महतां महीतलमनुशशास ॥ २३ ॥

इति ह वाव सः जगती-पतिः ईश्वर-इच्छया अधिनिवेशित कर्म-अधिकारः अखिल-जगत् बन्ध ध्वंसन पर अनुभावस्य भगवतः आदि-पुरुषस्य अङ्घ्रि युगल अनवरत ध्यान-अनुभावेन परिरन्धित कषाय आशयः अवदातः अपि मान-वर्धनः महताम् महीतलम् अनुशशास

अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव
आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ॥
२४ ॥

अथ च दुहितरम् प्रजापतेः विश्वकर्मणः उपयेमे बर्हिष्मतीम् नाम तस्याम् उ ह वाव आत्म-जान् आत्म-समान शील गुण कर्म रूप वीर्य उदारान् दश भावयाम् बभूव कन्याम् च यवीयसीम् ऊर्जस्वतीम् नाम

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व
एवाग्निनामान: ॥ २५ ॥

आग्नीध्र इध्म-जिह्व यज्ञ-बाहु महा-वीर हिरण्य-रेतः घृतपृष्ठ सवन मेधा-तिथि वीतिहोत्र कवयः इति सर्वे एव अग्नि नामानः

एतेषां कविर्महावीर: सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य
कृतपरिचया: पारमहंस्यमेवाश्रममभजन् ॥ २६ ॥

एतेषाम् कविः महावीरः सवनः इति त्रयः आसन् ऊर्ध्व-रेतसः ते आत्म-विद्यायाम् अर्भ-भावात् आरभ्य कृत-परिचयाः पारमहंस्यम् एव आश्रमम् अभजन्

तस्मिन्नु ह वा उपशमशीला: परमर्षय: सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां
शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन
परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवा-
त्मनस्तादात्म्यमविशेषेण समीयु: ॥ २७ ॥

तस्मिन् उ ह वा उपशम-शीलाः परम-ऋषयः सकल जीव निकाय आवासस्य भगवतः वासुदेवस्य भीतानाम् शरण-भूतस्य श्रीमत् चरण-अरविन्द अविरत स्मरण अविगलित परम भक्ति-योग अनुभावेन परिभावित अन्तः हृदय अधिगते भगवति सर्वेषाम् भूतानाम् आत्म-भूते प्रत्यक् आत्मनि एव आत्मनः तादात्म्यम् अविशेषेण समीयुः

अन्यस्यामपि जायायां त्रय: पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतय: ॥ २८ ॥

अन्यस्याम् अपि जायायाम् त्रयः पुत्राः आसन् उत्तमः तामसः रैवतः इति मनु-अन्तर अधिपतयः

एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश
परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो
बर्हिष्मत्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभि:
पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ २९ ॥

एवम् उपशम-अयनेषु स्व-तनयेषु अथ जगती-पतिः जगतीम् अर्बुदानि एकादश परिवत्सराणाम् अव्याहत अखिल पुरुष-कार सार सम्भृत दोः-दण्डः युगल आपीडित मौर्वी-गुण स्तनित विरमित धर्म प्रतिपक्षः बर्हिष्मत्याः च अनुदिनम् एधमान प्रमोद प्रसरण यौषिण्य व्रीडा प्रमुषित हास अवलोक रुचिर क्ष्वेलि-आदिभिः पराभूयमान विवेकः इव अनवबुध्यमानः इव महा-मनाः बुभुजे

यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति
तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि
दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्ग: ॥ ३० ॥

यावत् अवभासयति सुर-गिरिम् अनुपरिक्रामन् भगवान् आदित्यः वसुधा-तलम् अर्धेन एव प्रतपति अर्धेन अवच्छादयति तदा हि भगवत्-उपासना उपचित अति-पुरुष प्रभावः तत् अनभिनन्दन् समजवेन रथेन ज्योतिः-मयेन रजनीम् अपि दिनम् करिष्यामि इति सप्त-कृत् वस्तरणिम् अनुपर्यक्रामत् द्वितीयः इव पतङ्गः

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृता: सप्त भुवो द्वीपा: ॥
३१ ॥

ये वा उ ह तत्-रथ चरण नेमि कृत परिखाताः ते सप्त सिन्धवः आसन् यतः एव कृताः सप्त भुवः द्वीपाः

जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो
यथासंख्यं द्विगुणमानेन बहि: समन्तत उपक्‍ल‍ृप्ता: ॥ ३२ ॥

जम्बू प्लक्ष शाल्मलि कुश क्रौञ्च शाक पुष्कर संज्ञाः तेषाम् परिमाणम् पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः यथा सङ्ख्यम् द्वि-गुण मानेन बहिः समन्ततः उपकॢप्ताः

क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदा: सप्त जलधय: सप्त द्वीपपरिखा
इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु
जम्ब्वादिषु
बर्हिष्मतीपतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान्
यथा संख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे ॥ ३३ ॥

क्षार उद इक्षु-रस उद सुरा उद घृत उद क्षीर उद दधि-मण्ड उद शुद्ध-उदाः सप्त जल-धयः सप्त द्वीप परिखाः इव अभ्यन्तर द्वीप समानाः एक-एकश्येन यथा-अनुपूर्वम् सप्तसु अपि बहिः द्वीपेषु पृथक् परितः उपकल्पिताः तेषु जम्बू-आदिषु बर्हिष्मती पतिः अनुव्रतान् आत्म-जान् आग्नीध्र-इध्मजिह्व-यज्ञबाहु-हिरण्यरेतः-घृतपृष्ठ-मेधातिथि-वीतिहोत्र-संज्ञान् यथा-सङ्ख्येन एक-एकस्मिन् एकम् एव अधि-पतिम् विदधे

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता ॥ ३४ ॥

दुहितरम् च ऊर्जस्वतीम् नाम उशनसे प्रायच्छत् यस्याम् आसीत् देवयानी नाम काव्य-सुता

नैवंविध: पुरुषकार उरुक्रमस्यपुंसां तदङ्‌घ्रिरजसा जितषड्‌गुणानाम् ।
चित्रं विदूरविगत:
सकृदाददीतयन्नामधेयमधुना स जहाति बन्धम् ॥ ३५ ॥

न एवम्-विधः पुरुष-कारः उरु-क्रमस्य पुंसाम् तत्-अङ्घ्रि रजसा जित-षट्-गुणानाम् चित्रम् विदूर-विगतः सकृत् आददीत यत् नामधेयम् अधुना सः जहाति बन्धम्

स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं
मन्यमान आत्मनिर्वेद इदमाह ॥ ३६ ॥

सः एवम् अपरिमित बल पराक्रमः एकदा तु देव-ऋषि चरण-अनुशयन अनु पतित गुण-विसर्ग संसर्गेण अनिर्वृतम् इव आत्मानम् मन्यमानः आत्म निर्वेदः इदम् आह

अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या
वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३७ ॥

अहो असाधु अनुष्ठितम् यत् अभिनिवेशितः अहम् इन्द्रियैः अविद्या रचित विषम विषय अन्ध-कूपे तत् अलम् अलम् अमुष्याः वनितायाः विनोद-मृगम् माम् धिक् धिक् इति गर्हयाम् चकार

परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्य: पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च
महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो
भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३८ ॥

पर-देवता प्रसाद अधिगत आत्म-प्रत्यवमर्शेन अनुप्रवृत्तेभ्यः पुत्रेभ्यः इमाम् यथा-दायम् विभज्य भुक्त-भोगाम् च महिषीम् मृतकम् इव सह महा-विभूतिम् अपहाय स्वयम् निहित निर्वेदः हृदि गृहीत हरि विहार अनुभावः भगवतः नारदस्य पदवीम् पुनः एव अनुससार

तस्य ह वा एते श्लोका:—
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ॥
३९ ॥

तस्य ह वा एते श्लोकाः प्रियव्रत कृतम् कर्म कः नु कुर्यात् विना ईश्वरम् यः नेमि निम्नैः अकरोत् छायाम् घ्नन् सप्त वारिधीन्

भूसंस्थानं कृतं येन सरिद्ग‍िरिवनादिभि: ।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागश: ॥ ४० ॥

भू-संस्थानम् कृतम् येन सरित् गिरि वन-आदिभिः सीमा च भूत निर्वृत्यै द्वीपे द्वीपे विभागशः

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रिय: ॥ ४१ ॥

भौमम् दिव्यम् मानुषम् च महित्वम् कर्म योग जम् यः चक्रे निरय औपम्यम् पुरुष अनुजन प्रियः

५.२

श्रीशुक उवाच
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकस: प्रजा
औरसवद्धर्मावेक्षमाण: पर्यगोपायत् ॥ १ ॥

श्री-शुकः उवाच एवम् पितरि सम्प्रवृत्ते तत्-अनुशासने वर्तमानः आग्नीध्रः जम्बू-द्वीप-ओकसः प्रजाः औरस-वत् धर्म अवेक्षमाणः पर्यगोपायत्

स च कदाचित्पितृलोककाम: सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां
पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयां बभूव ॥ २ ॥

सः च कदाचित् पितृलोक कामः सुर-वर वनिता आक्रीडा अचल-द्रोण्याम् भगवन्तम् विश्व-सृजाम् पतिम् आभृत परिचर्या-उपकरणः आत्म एक-अग्र्येण तपस्वी आराधयाम् बभूव

तदुपलभ्य भगवानादिपुरुष: सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास ॥ ३ ॥

तत् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीम् पूर्वचित्तिम् नाम अप्सरसम् अभियापयाम् आस

सा च तदाश्रमोपवनमतिरमणीयं
विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनै: प्रोच्यमानश्रुतिभि:
प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ॥ ४


सा च तत् आश्रम उपवनम् अति रमणीयम् विविध निबिड विटपि विटप निकर संश्लिष्ट पुरट लता आरूढ स्थल-विहङ्गम मिथुनैः प्रोच्यमान श्रुतिभिः प्रतिबोध्यमान सलिल-कुक्कुट कारण्डव कल-हंस आदिभिः विचित्रम् उपकूजित अमल जल-आशय कमल-आकरम् उपबभ्राम

तस्या: सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमार: समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ॥ ५ ॥

तस्याः सुललित गमन पद-विन्यास गति विलासायाः च अनुपदम् खण-खणायमान रुचिर चरण-आभरण स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि योगेन आमीलित नयन नलिन मुकुल युगलम् ईषत् विकचय्य व्यचष्ट

तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं
दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां
कुसुमायुधस्य विदधतीं विवरं निजमुख विगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन
द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो
मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ॥ ६ ॥

ताम् एव अविदूरे मधुकरीम् इव सुमनसः उपजिघ्रन्तीम् दिवि-ज मनु-ज मनः नयन आह्लाद दुघैः गति विहार व्रीडा विनय अवलोक सु-स्वर-अक्षर अवयवैः मनसि नृणाम् कुसुम-आयुधस्य विदधतीम् विवरम् निज-मुख विगलित अमृत-आसव स-हास भाषण आमोद मद-अन्ध मधुकर निकर उपरोधेन द्रुत पद विन्यासेन वल्गु स्पन्दन स्तन कलश कबर भार रशनाम् देवीम् तत्-अवलोकनेन विवृत-अवसरस्य भगवतः मकर-ध्वजस्य वशम् उपनीतः जड-वत् इति ह उवाच

का त्वं चिकीर्षसि च किं मुनिवर्य शैले
मायासि कापि भगवत्परदेवताया: ।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थेकिं वा मृगान्मृगयसे
विपिने प्रमत्तान् ॥ ७ ॥

का त्वम् चिकीर्षसि च किम् मुनि-वर्य शैले माया असि कापि भगवत् पर-देवतायाः विज्ये बिभर्षि धनुषी सुहृत् आत्मनः अर्थे किम् वा मृगान् मृगयसे विपिने प्रमत्तान्

बाणाविमौ भगवत: शतपत्रपत्रौशान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।
कस्मै युयुङ्‌क्षसि वने
विचरन्न विद्म:क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८ ॥

बाणौ इमौ भगवतः शत-पत्र-पत्रौ शान्तौ अपुङ्ख रुचिरौ अति-तिग्म-दन्तौ कस्मै युयुङ्क्षसि वने विचरन् न विद्मः क्षेमाय नः जड-धियाम् तव विक्रमः अस्तु

शिष्या इमे भगवत: परित: पठन्तिगायन्ति साम सरहस्यमजस्रमीशम् ।
युष्मच्छिखाविलुलिता:
सुमनोऽभिवृष्टी:सर्वे भजन्त्यृषिगणा इव वेदशाखा: ॥ ९ ॥

शिष्याः इमे भगवतः परितः पठन्ति गायन्ति साम स-रहस्यम् अजस्रम् ईशम् युष्मत् शिखा विलुलिताः सुमनः अभिवृष्टीः सर्वे भजन्ति ऋषि-गणाः इव वेद-शाखाः

वाचं परं चरणपञ्जरतित्तिरीणांब्रह्मन्नरूपमुखरां श‍ृणवाम तुभ्यम् ।
लब्धा
कदम्बरुचिरङ्कविटङ्कबिम्बेयस्यामलातपरिधि: क्‍व च वल्कलं ते ॥ १० ॥

वाचम् परम् चरण-पञ्जर तित्तिरीणाम् ब्रह्मन् अरूप मुखराम् शृणवाम तुभ्यम् लब्धा कदम्ब रुचिः अङ्क-विटङ्क-बिम्बे यस्याम् अलात-परिधिः क्व च वल्कलम् ते

किं सम्भृतं रुचिरयोर्द्विज श‍ृङ्गयोस्तेमध्ये कृशो वहसि यत्र द‍ृशि: श्रिता मे ।
पङ्कोऽरुण:
सुरभीरात्मविषाण ईद‍ृग्येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११ ॥

किम् सम्भृतम् रुचिरयोः द्विज शृङ्गयोः ते मध्ये कृशः वहसि यत्र दृशिः श्रिता मे पङ्कः अरुणः सुरभिः आत्म-विषाणे ईदृक् येन आश्रमम् सु-भग मे सुरभी-करोषि

लोकं प्रदर्शय सुहृत्तम तावकं मेयत्रत्य इत्थमुरसावयवावपूर्वौ ।
अस्मद्विधस्य मनउन्नयनौ
बिभर्तिबह्वद्भ‍ुतं सरसराससुधादि वक्त्रे ॥ १२ ॥

लोकम् प्रदर्शय सुहृत्-तम तावकम् मे यत्रत्यः इत्थम् उरसा अवयवौ अपूर्वौ अस्मत्-विधस्य मनः-उन्नयनौ बिभर्ति बहु अद्भुतम् सरस रास सुधा-आदि वक्त्रे

का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वातिविष्णो: कलास्यनिमिषोन्मकरौ च कर्णौ ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-रासन्नभृङ्गनिकरं सर इन्मुखं ते ॥ १३ ॥

का वा आत्म-वृत्तिः अदनात् हविः अङ्ग वाति विष्णोः कला असि अनिमिष उन्मकरौ च कर्णौ उद्विग्न मीन-युगलम् द्विज-पङ्क्ति शोचिः आसन्न भृङ्ग-निकरम् सरः इत् मुखम् ते

योऽसौ त्वया करसरोजहत: पतङ्गोदिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे ।
मुक्तं न ते स्मरसि
वक्रजटावरूथंकष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४ ॥

यः असौ त्वया कर-सरोज हतः पतङ्गः दिक्षु भ्रमन् भ्रमतः एजयते अक्षिणी मे मुक्तम् न ते स्मरसि वक्र जटा वरूथम् कष्टः अनिलः हरति लम्पटः एषः नीवीम्

रूपं तपोधन तपश्चरतां तपोघ्नंह्येतत्तु केन तपसा भवतोपलब्धम् ।
चर्तुं तपोऽर्हसि मया सह मित्र
मह्यंकिं वा प्रसीदति स वै भवभावनो मे ॥ १५ ॥

रूपम् तपः-धन तपः चरताम् तपः-घ्नम् हि एतत् तु केन तपसा भवता उपलब्धम् चर्तुम् तपः अर्हसि मया सह मित्र मह्यम् किम् वा प्रसीदति सः वै भव-भावनः मे

न त्वां त्यजामि दयितं द्विजदेवदत्तंयस्मिन्मनो द‍ृगपि नो न वियाति लग्नम् ।
मां
चारुश‍ृङ्‌ग्यर्हसि नेतुमनुव्रतं तेचित्तं यत: प्रतिसरन्तु शिवा: सचिव्य: ॥ १६ ॥

न त्वाम् त्यजामि दयितम् द्विज-देव दत्तम् यस्मिन् मनः दृक् अपि नः न वियाति लग्नम् माम् चारु-शृङ्गि अर्हसि नेतुम् अनुव्रतम् ते चित्तम् यतः प्रतिसरन्तु शिवाः सचिव्यः

श्रीशुक उवाच
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं
विबुधमतिरधिसभाजयामास ॥ १७ ॥

श्री-शुकः उवाच इति ललना अनुनय अति-विशारदः ग्राम्य-वैदग्ध्यया परिभाषया ताम् विबुध-वधूम् विबुध-मतिः अधिसभाजयाम् आस

सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवय:श्रियौदार्येण पराक्षिप्तमनास्तेन
सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ॥ १८ ॥

सा च ततः तस्य वीर-यूथ-पतेः बुद्धि शील रूप वयः श्रिया औदार्येण पराक्षिप्त मनाः तेन सह अयुत अयुत परिवत्सर उपलक्षणम् कालम् जम्बूद्वीप-पतिना भौम स्वर्ग भोगान् बुभुजे

तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत् ॥ १९ ॥

तस्याम् उ ह वा आत्म-जान् सः राज-वरः आग्नीध्रः नाभि किंपुरुष हरि-वर्ष इलावृत रम्यक हिरण्मय कुरु भद्राश्व केतु-माल संज्ञान् नव पुत्रान् अजनयत्

सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २० ॥

सा सूत्वा अथ सुतान् नव अनुवत्सरम् गृहे एव अपहाय पूर्वचित्तिः भूयः एव अजम् देवम् उपतस्थे

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेता: पित्रा विभक्ता आत्मतुल्यनामानि
यथाभागं जम्बूद्वीपवर्षाणि बुभुजु: ॥ २१ ॥

आग्नीध्र-सुताः ते मातुः अनुग्रहात् औत्पत्तिकेन एव संहनन बल उपेताः पित्रा विभक्ताः आत्म-तुल्य नामानि यथा-भागम् जम्बूद्वीप-वर्षाणि बुभुजुः

आग्नीध्रो राजातृप्त: कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्या: सलोकतां श्रुतिभिरवारुन्ध
यत्र पितरो मादयन्ते ॥ २२ ॥

आग्नीध्रः राजा अतृप्तः कामानाम् अप्सरसम् एव अनुदिनम् अधि मन्यमानः तस्याः स-लोकताम् श्रुतिभिः अवारुन्ध यत्र पितरः मादयन्ते

सम्परेते पितरि नव भ्रातरो मेरुदुहितृर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं
भद्रां देववीतिमितिसंज्ञा नवोदवहन् ॥ २३ ॥

सम्परेते पितरि नव भ्रातरः मेरु-दुहितॄः मेरुदेवीम् प्रति-रूपाम् उग्र-दंष्ट्रीम् लताम् रम्याम् श्यामाम् नारीम् भद्राम् देव-वीतिम् इति संज्ञाः नव उदवहन्

५.३

श्रीशुक उवाच
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत ॥ १ ॥

श्री-शुकः उवाच नाभिः अपत्य-कामः अप्रजया मेरुदेव्या भगवन्तम् यज्ञ-पुरुषम् अवहित-आत्मा अयजत

तस्य ह वाव श्रद्धया विशुद्धभावेन यजत: प्रवर्ग्येषु प्रचरत्सु
द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया
सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं
मनोनयनानन्दनावयवाभिराममाविश्चकार ॥ २ ॥

तस्य ह वाव श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य देश काल मन्त्र ऋत्विक् दक्षिणा विधान योग उपपत्त्या दुरधिगमः अपि भगवान् भागवत-वात्सल्यतया सु-प्रतीकः आत्मानम् अपराजितम् निज-जन अभिप्रेत-अर्थ विधित्सया गृहीत-हृदयः हृदयङ्गमम् मनः-नयन-आनन्दन अवयव अभिरामम् आविश्चकार

अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं
स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषणविभूषितमृत्विक् सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण उपतस्थु: ॥ ३ ॥

अथ ह तम् आविष्कृत-भुज-युगल-द्वयम् हिरण्मयम् पुरुष-विशेषम् कपिश-कौशेय-अम्बर-धरम् उरसि विलसत् श्रीवत्स ललामम् दर-वर वन-रुह वन-माला अच्छूरि अमृत-मणि गदा-आदिभिः उपलक्षितम् स्फुट-किरण प्रवर मुकुट कुण्डल कटक कटि-सूत्र हार केयूर नूपुर आदि अङ्ग भूषण विभूषितम् ऋत्विक् सदस्य गृह-पतयः अधनाः इव उत्तम-धनम् उपलभ्य स-बहु-मानम् अर्हणेन अवनत शीर्षाणः उपतस्थुः

ऋत्विज ऊचु:
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान्
प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभी
रूपनिरूपणम् ॥ ४ ॥ सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेशकथनाद‍ृते ॥ ५ ॥

ऋत्विजः ऊचुः अर्हसि मुहुः अर्हत्-तम अर्हणम् अस्माकम् अनुपथानाम् नमः नमः इति एतावत् सत् उपशिक्षितम् कः अर्हति पुमान् प्रकृति गुण व्यतिकर मतिः अनीशः ईश्वरस्य परस्य प्रकृति-पुरुषयोः अर्वाक्तनाभिः नाम-रूप-आकृतिभिः रूप निरूपणम् सकल जन-निकाय वृजिन निरसन शिवतम प्रवर गुण-गण एक-देश कथनात् ऋते

परिजनानुरागविरचितशबलसंशब्दसलिलसितकिसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल
परम परितुष्यसि ॥ ६ ॥

परिजन अनुराग विरचित शबल संशब्द सलिल सित-किसलय तुलसिका दूर्वा-अङ्कुरैः अपि सम्भृतया सपर्यया किल परम परितुष्यसि

अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे ॥ ७ ॥

अथ अनया अपि न भवतः इज्यया उरुभार-भरया समुचितम् अर्थम् इह उपलभामहे

आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष
आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥ ८ ॥

आत्मनः एव अनुसवनम् अञ्जसा अव्यतिरेकेण बोभूयमान अशेष पुरुष-अर्थ स्व-रूपस्य किन्तु नाथ आशिषः आशासानानाम् एतत् अभिसंराधन मात्रम् भवितुम् अर्हति

श्लोक ५.३.९
तद्यथा बालिशानां स्वयमात्मन: श्रेय: परमविदुषां परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं
चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित एवेतरवदिहोपलक्षित: ॥ ९ ॥

तत् यथा बालिशानाम् स्वयम् आत्मनः श्रेयः परम् अविदुषाम् परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानम् च अपवर्ग-आख्यम् उपकल्पयिष्यन् स्वयम् न अपचितः एव इतर-वत् इह उपलक्षितः

अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो भवान्निजपुरुषेक्षणविषय आसीत् ॥ १०


अथ अयम् एव वरः हि अर्हत्-तम यर्हि बर्हिषि राज-ऋषेः वरद-ऋषभः भवान् निज-पुरुष ईक्षण-विषयः आसीत्

असङ्गनिशितज्ञानानलविधूताशेषमलानां भवत्स्वभावानामात्मारामाणां
मुनीनामनवरतपरिगुणितगुणगण परममङ्गलायनगुणगणकथनोऽसि ॥ ११ ॥

असङ्ग निशित ज्ञान अनल विधूत अशेष मलानाम् भवत्-स्वभावानाम् आत्म-आरामाणाम् मुनीनाम् अनवरत परिगुणित गुण-गण परम-मङ्गल आयन गुण-गण-कथनः असि

अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु विवशानां न: स्मरणाय ज्वरमरणदशायामपि
सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु ॥ १२ ॥

अथ कथञ्चित् स्खलन क्षुत् पतन जृम्भण दुरवस्थान आदिषु विवशानाम् नः स्मरणाय ज्वर-मरण-दशायाम् अपि सकल कश्मल निरसनानि तव गुण कृत नामधेयानि वचन-गोचराणि भवन्तु

किञ्चायं राजर्षिरपत्यकाम: प्रजां भवाद‍ृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि
भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधन: फलीकरणम् ॥ १३ ॥

किञ्च अयम् राज-ऋषिः अपत्य-कामः प्रजाम् भवादृशीम् आशासानः ईश्वरम् आशिषाम् स्वर्ग-अपवर्गयोः अपि भवन्तम् उपधावति प्रजायाम् अर्थ-प्रत्ययः धन-दम् इव अधनः फलीकरणम्

को वा इह तेऽपराजितोऽपराजितया
माययानवसितपदव्यानावृतमतिर्विषयविषरयानावृतप्रकृतिरनुपासितमहच्चरण: ॥ १४ ॥

कः वा इह ते अपराजितः अपराजितया मायया अनवसित-पदव्य अनावृत-मतिः विषय-विष रय अनावृत प्रकृतिः अनुपासित महत्-चरणः

यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि
साम्येन सर्वान् प्रतिवोढुमविदुषाम् ॥ १५ ॥

यत् उ ह वाव तव पुनः अदभ्र-कर्तः इह समाहूतः तत्र अर्थ-धियाम् मन्दानाम् नः तत् यत् देव-हेलनम् देव-देव अर्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम्

श्रीशुक उवाच
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरण: सदयमिदमाह ॥
१६ ॥

श्री-शुकः उवाच इति निगदेन अभिष्टूयमानः भगवान् अनिमिष-ऋषभः वर्ष-धर अभिवादित अभिवन्दित चरणः सदयम् इदम् आह

श्रीभगवानुवाच
अहो बताहमृषयो भवद्भ‍िरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सद‍ृशो भूयादिति
ममाहमेवाभिरूप: कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद् द्विजदेवकुलम्
॥ १७ ॥

श्री-भगवान् उवाच अहो बत अहम् ऋषयः भवद्भिः अवितथ-गीर्भिः वरम् असुलभम् अभियाचितः यत् अमुष्य आत्म-जः मया सदृशः भूयात् इति मम अहम् एव अभिरूपः कैवल्यात् अथापि ब्रह्म-वादः न मृषा भवितुम् अर्हति मम एव हि मुखम् यत् द्विज-देव-कुलम्

तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्यमनुपलभमान: ॥ १८ ॥

ततः आग्नीध्रीये अंश-कलया अवतरिष्यामि आत्म-तुल्यम् अनुपलभमानः

श्रीशुक उवाच
इति निशामयन्त्या मेरुदेव्या: पतिमभिधायान्तर्दधे भगवान् ॥ १९ ॥

श्री-शुकः उवाच इति निशामयन्त्याः मेरुदेव्याः पतिम् अभिधाय अन्तर्दधे भगवान्

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभि: प्रसादितो नाभे: प्रियचिकीर्षया
तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो वातरशनानां श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार ॥ २० ॥

बर्हिषि तस्मिन् एव विष्णु-दत्त भगवान् परम-ऋषिभिः प्रसादितः नाभेः प्रिय-चिकीर्षया तत्-अवरोधायने मेरुदेव्याम् धर्मान् दर्शयितु-कामः वात-रशनानाम् श्रमणानाम् ऋषीणाम् ऊर्ध्व-मन्थिनाम् शुक्लया तनुवा अवततार

५.४

श्रीशुक उवाच
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं
साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिनमेधमानानुभावं प्रकृतय: प्रजा ब्राह्मणा
देवताश्चावनितलसमवनायातितरां जगृधु: ॥ १ ॥

श्री-शुकः उवाच अथ ह तम् उत्पत्त्या एव अभिव्यज्यमान भगवत्-लक्षणम् साम्य उपशम वैराग्य ऐश्वर्य महा-विभूतिभिः अनुदिनम् एधमान अनुभावम् प्रकृतयः प्रजाः ब्राह्मणाः देवताः च अवनि-तल समवनाय अतितराम् जगृधुः

तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्‌लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च
पिता ऋषभ इतीदं नाम चकार ॥ २ ॥

तस्य ह वा इत्थम् वर्ष्मणा वरीयसा बृहत्-श्लोकेन च ओजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्याम् च पिता ऋषभः इति इदम् नाम चकार

यस्य हीन्द्र: स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वर:
प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षत् ॥ ३ ॥

यस्य हि इन्द्रः स्पर्धमानः भगवान् वर्षे न ववर्ष तत् अवधार्य भगवान् ऋषभदेवः योग-ईश्वरः प्रहस्य आत्म-योग-मायया स्व-वर्षम् अजनाभम् नाम अभ्यवर्षत्

नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत
नरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां
निर्वृतिमुपगत: ॥ ४ ॥

नाभिः तु यथा-अभिलषितम् सु-प्रजस्त्वम् अवरुध्य अति-प्रमोद भर विह्वलः गद्गद-अक्षरया गिरा स्वैरम् गृहीत नर-लोक-सधर्मम् भगवन्तम् पुराण-पुरुषम् माया विलसित मतिः वत्स तात इति स-अनुरागम् उपलालयन् पराम् निर्वृतिम् उपगतः

विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य
ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं
भगवन्तं वासुदेवमुपासीन: कालेन तन्महिमानमवाप ॥ ५ ॥

विदित अनुरागम् आपौर-प्रकृति जन-पदः राजा नाभिः आत्मजम् समय-सेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषु उपनिधाय सह मेरुदेव्या विशालायाम् प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायण-आख्यम् भगवन्तम् वासुदेवम् उपासीनः कालेन तत्-महिमानम् अवाप

यस्य ह पाण्डवेय श्लोकावुदाहरन्ति—
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।
अपत्यतामगाद्यस्य हरि: शुद्धेन कर्मणा ॥ ६ ॥

यस्य ह पाण्डवेय श्लोकौ उदाहरन्ति कः नु तत् कर्म राज-ऋषेः नाभेः अनु आचरेत् पुमान् अपत्यताम् अगात् यस्य हरिः शुद्धेन कर्मणा

ब्रह्मण्योऽन्य: कुतो नाभेर्विप्रा मङ्गलपूजिता: ।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७ ॥

ब्रह्मण्यः अन्यः कुतः नाभेः विप्राः मङ्गल-पूजिताः यस्य बर्हिषि यज्ञ-ईशम् दर्शयाम् आसुः ओजसा

अथ ह भगवानृषभदेव: स्ववर्षं कर्मक्षेत्रमनुमन्यमान: प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो
गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म
समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास ॥ ८ ॥

अथ ह भगवान् ऋषभ-देवः स्व वर्षम् कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित गुरुकुल-वासः लब्ध वरैः गुरुभिः अनुज्ञातः गृह-मेधिनाम् धर्मान् अनुशिक्षमाणः जयन्त्याम् इन्द्र-दत्तायाम् उभय-लक्षणम् कर्म समाम्नायाम्नातम् अभियुञ्जन् आत्मजानाम् आत्म-समानानाम् शतम् जनयाम् आस

येषां खलु महायोगी भरतो ज्येष्ठ: श्रेष्ठगुण आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९ ॥

येषाम् खलु महा-योगी भरतः ज्येष्ठः श्रेष्ठ-गुणः आसीत् येन इदम् वर्षम् भारतम् इति व्यपदिशन्ति

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलय: केतुर्भद्रसेन इन्द्रस्पृग्विदर्भ: कीकट इति नव
नवति प्रधाना: ॥ १० ॥

तम् अनु कुशावर्त इलावर्तः ब्रह्मावर्तः मलयः केतुः भद्र-सेनः इन्द्र-स्पृक् विदर्भः कीकटः इति नव नवति प्रधानाः

कविर्हविरन्तरिक्ष: प्रबुद्ध: पिप्पलायन: ।
आविर्होत्रोऽथ द्रुमिलश्चमस: करभाजन: ॥ ११ ॥
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं
वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्याम: ॥ १२ ॥

कविः हविः अन्तरिक्षः प्रबुद्धः पिप्पलायनः आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः इति भागवत-धर्म-दर्शनाः नव महा-भागवताः तेषाम् सुचरितम् भगवत्-महिमा-उपबृंहितम् वसुदेव-नारद-संवादम् उपशमायनम् उपरिष्टात् वर्णयिष्यामः

यवीयांस एकाशीतिर्जायन्तेया: पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीला:
कर्मविशुद्धा ब्राह्मणा बभूवु: ॥ १३ ॥

यवीयांसः एकाशीतिः जायन्तेयाः पितुः आदेशकराः महा-शालीनाः महा-श्रोत्रियाः यज्ञ-शीलाः कर्म-विशुद्धाः ब्राह्मणाः बभूवुः

भगवानृषभसंज्ञ आत्मतन्त्र: स्वयं नित्यनिवृत्तानर्थपरम्पर: केवलानन्दानुभव ईश्वर एव
विपरीतवत्कर्माण्यारभमाण: कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्र:
कारुणिको धर्मार्थयश: प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ १४ ॥

भगवान् ऋषभ संज्ञः आत्म-तन्त्रः स्वयम् नित्य निवृत्त अनर्थ परम्परः केवल आनन्द-अनुभवः ईश्वरः एव विपरीत-वत् कर्माणि आरभमाणः कालेन अनुगतम् धर्मम् आचरणेन उपशिक्षयन् अ-तत्-विदाम् समः उपशान्तः मैत्रः कारुणिकः धर्म अर्थ यशः प्रजा आनन्द अमृत अवरोधेन गृहेषु लोकम् नियमयत्

यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोक: ॥ १५ ॥

यत् यत् शीर्षण्य आचरितम् तत् तत् अनुवर्तते लोकः

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास
॥ १६ ॥

यद्यपि स्व-विदितम् सकल-धर्मम् ब्राह्मम् गुह्यम् ब्राह्मणैः दर्शित-मार्गेण साम-आदिभिः उपायैः जनताम् अनुशशास

द्रव्यदेशकालवय:श्रद्धर्त्विग्विविधोद्देशोपचितै: सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज ॥ १७


द्रव्य देश काल वयः श्रद्धा ऋत्विक् विविध-उद्देश उपचितैः सर्वैः अपि क्रतुभिः यथा-उपदेशम् शत-कृत्वः इयाज

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो
वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं
विजृम्भितस्‍नेहातिशयमन्तरेण ॥ १८ ॥

भगवता ऋषभेण परिरक्ष्यमाणे एतस्मिन् वर्षे न कश्चन पुरुषः वाञ्छति अविद्यमानम् इव आत्मनः अन्यस्मात् कथञ्चन किमपि कर्हिचित् अवेक्षते भर्तरि अनुसवनम् विजृम्भित स्नेह-अतिशयम् अन्तरेण

स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां
निशामयन्तीनामात्मजानवहितात्मन: प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच ॥ १९


सः कदाचित् अटमानः भगवान् ऋषभः ब्रह्मावर्त-गतः ब्रह्म-ऋषि-प्रवर-सभायाम् प्रजानाम् निशामयन्तीनाम् आत्मजान् अवहित-आत्मनः प्रश्रय प्रणय भर सु-यन्त्रितान् अपि उपशिक्षयन् इति ह उवाच

५.५

ऋषभ उवाच
नायं देहो देहभाजां नृलोके
कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
शुद्ध्येद्यस्माद् ब्रह्मसौख्यं त्वनन्तम् ॥ १ ॥

ऋषभः उवाच न अयम् देहः देह-भाजाम् नृ-लोके कष्टान् कामान् अर्हते विट्-भुजाम् ये तपः दिव्यम् पुत्रकाः येन सत्त्वम् शुद्ध्येत् यस्मात् ब्रह्म-सौख्यम् तु अनन्तम्

महत्सेवां द्वारमाहुर्विमुक्ते-
स्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ता: प्रशान्ता
विमन्यव: सुहृद: साधवो ये ॥ २ ॥

महत्-सेवाम् द्वारम् आहुः विमुक्तेः तमः-द्वारम् योषिताम् सङ्गि सङ्गम् महान्तः ते सम-चित्ताः प्रशान्ताः विमन्यवः सुहृदः साधवः ये

ये वा मयीशे कृतसौहृदार्था
जनेषु देहम्भरवार्तिकेषु॒ ।
गृहेषु जायात्मजरातिमत्सु
न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३ ॥

ये वा मयि ईशे कृत-सौहृद-अर्थाः जनेषु देहम्भर-वार्तिकेषु गृहेषु जाया आत्म-ज राति मत्सु न प्रीति-युक्ताः यावत्-अर्थाः च लोके

नूनं प्रमत्त: कुरुते विकर्म
यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽय-
मसन्नपि क्लेशद आस देह: ॥ ४ ॥

नूनम् प्रमत्तः कुरुते विकर्म यत् इन्द्रिय-प्रीतये आपृणोति न साधु मन्ये यतः आत्मनः अयम् असन् अपि क्लेश-दः आस देहः

पराभवस्तावदबोधजातो
यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै
कर्मात्मकं येन शरीरबन्ध: ॥ ५ ॥

पराभवः तावत् अबोध-जातः यावत् न जिज्ञासते आत्म-तत्त्वम् यावत् क्रियाः तावत् इदम् मनः वै कर्म-आत्मकम् येन शरीर-बन्धः

एवं मन: कर्मवशं प्रयुङ्क्ते
अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे
न मुच्यते देहयोगेन तावत् ॥ ६ ॥

एवम् मनः कर्म-वशम् प्रयुङ्क्ते अविद्यया आत्मनि उपधीयमाने प्रीतिः न यावत् मयि वासुदेवे न मुच्यते देह-योगेन तावत्

यदा न पश्यत्ययथा गुणेहां
स्वार्थे प्रमत्त: सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापा-
नासाद्य मैथुन्यमगारमज्ञ: ॥ ७ ॥

यदा न पश्यति अयथा गुण-ईहाम् स्व-अर्थे प्रमत्तः सहसा विपश्चित् गत-स्मृतिः विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः

पुंस: स्त्रिया मिथुनीभावमेतं
तयोर्मिथो हृदयग्रन्थिमाहु: ।
अतो गृहक्षेत्रसुताप्तवित्तै-
र्जनस्य मोहोऽयमहं ममेति ॥ ८ ॥

पुंसः स्त्रियाः मिथुनी-भावम् एतम् तयोः मिथः हृदय-ग्रन्थिम् आहुः अतः गृह क्षेत्र सुत आप्त वित्तैः जनस्य मोहः अयम् अहम् मम इति

यदा मनोहृदयग्रन्थिरस्य
कर्मानुबद्धो द‍ृढ आश्लथेत ।
तदा जन: सम्परिवर्ततेऽस्माद्
मुक्त: परं यात्यतिहाय हेतुम् ॥ ९ ॥

यदा मनः हृदय-ग्रन्थिः अस्य कर्म-अनुबद्धः दृढः आश्लथेत तदा जनः सम्परिवर्तते अस्मात् मुक्तः परम् याति अतिहाय हेतुम्

हंसे गुरौ मयि भक्त्यानुवृत्या
वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या
जिज्ञासया तपसेहानिवृत्त्या ॥ १० ॥
मत्कर्मभिर्मत्कथया च नित्यं
मद्देवसङ्गाद् गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा
जिहासया देहगेहात्मबुद्धे: ॥ ११ ॥
अध्यात्मयोगेन विविक्तसेवया
प्राणेन्द्रियात्माभिजयेन सध्य्रक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्वद्
असम्प्रमादेन यमेन वाचाम् ॥ १२ ॥
सर्वत्र मद्भ‍ावविचक्षणेन
ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो
लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३ ॥

हंसे गुरौ मयि भक्त्या अनुवृत्या वितृष्णया द्वन्द्व तितिक्षया च सर्वत्र जन्तोः व्यसन अवगत्या जिज्ञासया तपसा ईहा-निवृत्त्या मत्-कर्मभिः मत्-कथया च नित्यम् मत्-देव-सङ्गात् गुण-कीर्तनात् मे निर्वैर साम्य उपशमेन पुत्राः जिहासया देह गेह आत्म-बुद्धेः अध्यात्म-योगेन विविक्त-सेवया प्राण इन्द्रिय आत्म अभिजयेन सध्र्यक् सत्-श्रद्धया ब्रह्मचर्येण शश्वत् असम्प्रमादेन यमेन वाचाम् सर्वत्र मत्-भाव विचक्षणेन ज्ञानेन विज्ञान विराजितेन योगेन धृति उद्यम सत्त्व युक्तः लिङ्गम् व्यपोहेत् कुशलः अहम्-आख्यम्

कर्माशयं हृदयग्रन्थिबन्ध-
मविद्ययासादितमप्रमत्त: ।
अनेन योगेन यथोपदेशं
सम्यग्व्यपोह्योपरमेत योगात् ॥ १४ ॥

कर्म-आशयम् हृदय-ग्रन्थि बन्धम् अविद्यया आसादितम् अप्रमत्तः अनेन योगेन यथा-उपदेशम् सम्यक् व्यपोह्य उपरमेत योगात्

पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा
मल्लोककामो मदनुग्रहार्थ: ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान्
न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन्मनुजोऽर्थं लभेत
निपातयन्नष्टद‍ृशं हि गर्ते ॥ १५ ॥

पुत्रान् च शिष्यान् च नृपः गुरुः वा मत्-लोक-कामः मत्-अनुग्रह-अर्थः इत्थम् विमन्युः अनुशिष्यात् अ-तत्-ज्ञान् न योजयेत् कर्मसु कर्म-मूढान् कम् योजयन् मनु-जः अर्थम् लभेत निपातयन् नष्ट-दृशम् हि गर्ते

लोक: स्वयं श्रेयसि नष्टद‍ृष्टि-
र्योऽर्थान् समीहेत निकामकाम: ।
अन्योन्यवैर: सुखलेशहेतो-
रनन्तदु:खं च न वेद मूढ: ॥ १६ ॥

लोकः स्वयम् श्रेयसि नष्ट-दृष्टिः यः अर्थान् समीहेत निकाम-कामः अन्योन्य-वैरः सुख-लेश-हेतोः अनन्त-दुःखम् च न वेद मूढः

कस्तं स्वयं तदभिज्ञो विपश्चिद्
अविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृण: कुबुद्धिं
प्रयोजयेदुत्पथगं यथान्धम् ॥ १७ ॥

कः तम् स्वयम् तत्-अभिज्ञः विपश्चित् अविद्यायाम् अन्तरे वर्तमानम् दृष्ट्वा पुनः तम् स-घृणः कु-बुद्धिम् प्रयोजयेत् उत्पथ-गम् यथा अन्धम्

गुरुर्न स स्यात्स्वजनो न स स्यात्
पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्या-
न्न मोचयेद्य: समुपेतमृत्युम् ॥ १८ ॥

गुरुः न सः स्यात् स्व-जनः न सः स्यात् पिता न सः स्यात् जननी न सा स्यात् दैवम् न तत् स्यात् न पतिः च सः स्यात् न मोचयेत् यः समुपेत-मृत्युम्

इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्म: ।
पृष्ठे कृतो मे यदधर्म आराद्
अतो हि मामृषभं प्राहुरार्या: ॥ १९ ॥

इदम् शरीरम् मम दुर्विभाव्यम् सत्त्वम् हि मे हृदयम् यत्र धर्मः पृष्ठे कृतः मे यत् अधर्मः आरात् अतः हि माम् ऋषभम् प्राहुः आर्याः

तस्माद्भवन्तो हृदयेन जाता:
सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं
शुश्रूषणं तद्भरणं प्रजानाम् ॥ २० ॥

तस्मात् भवन्तः हृदयेन जाताः सर्वे महीयांसम् अमुम् स-नाभम् अक्लिष्ट-बुद्ध्या भरतम् भजध्वम् शुश्रूषणम् तत् भरणम् प्रजानाम्

भूतेषु वीरुद्‍भ्य उदुत्तमा ये
सरीसृपास्तेषु सबोधनिष्ठा: ।
ततो मनुष्या: प्रमथास्ततोऽपि
गन्धर्वसिद्धा विबुधानुगा ये ॥ २१ ॥
देवासुरेभ्यो मघवत्प्रधाना
दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भव: पर: सोऽथ विरिञ्चवीर्य:
स मत्परोऽहं द्विजदेवदेव: ॥ २२ ॥

भूतेषु वीरुद्भ्यः उदुत्तमाः ये सरीसृपाः तेषु स-बोध-निष्ठाः ततः मनुष्याः प्रमथाः ततः अपि गन्धर्व सिद्धाः विबुध-अनुगाः ये देव असुरेभ्यः मघवत्-प्रधानाः दक्ष-आदयः ब्रह्म-सुताः तु तेषाम् भवः परः सः अथ विरिञ्च-वीर्यः सः मत्-परः अहम् द्विज-देव-देवः

न ब्राह्मणैस्तुलये भूतमन्यत्
पश्यामि विप्रा: किमत: परं तु ।
यस्मिन्नृभि: प्रहुतं श्रद्धयाह-
मश्नामि कामं न तथाग्निहोत्रे ॥ २३ ॥

न ब्राह्मणैः तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतः परम् तु यस्मिन् नृभिः प्रहुतम् श्रद्धया अहम् अश्नामि कामम् न तथा अग्नि-होत्रे

धृता तनूरुशती मे पुराणी
येनेह सत्त्वं परमं पवित्रम् ।
शमो दम: सत्यमनुग्रहश्च
तपस्तितिक्षानुभवश्च यत्र ॥ २४ ॥

धृता तनूः उशती मे पुराणी येन इह सत्त्वम् परमम् पवित्रम् शमः दमः सत्यम् अनुग्रहः च तपः तितिक्षा अनुभवः च यत्र

मत्तोऽप्यनन्तात्परत: परस्मात्
स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषा-
मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५ ॥

मत्तः अपि अनन्तात् परतः परस्मात् स्वर्ग-अपवर्ग-अधिपतेः न किञ्चित् येषाम् किम् उ स्यात् इतरेण तेषाम् अकिञ्चनानाम् मयि भक्ति-भाजाम्

सर्वाणि मद्धिष्ण्यतया भवद्भ‍ि-
श्चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो
विविक्तद‍ृग्भिस्तदु हार्हणं मे ॥ २६ ॥

सर्वाणि मत्-धिष्ण्यतया भवद्भिः चराणि भूतानि सुताः ध्रुवाणि सम्भावितव्यानि पदे पदे वः विविक्त-दृग्भिः तत् उ ह अर्हणम् मे

मनोवचोद‍ृक्करणेहितस्य
साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान् येन महाविमोहात्
कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७ ॥

मनः वचः दृक् करण ईहितस्य साक्षात्-कृतम् मे परिबर्हणम् हि विना पुमान् येन महा-विमोहात् कृतान्त-पाशात् न विमोक्तुम् ईशेत्

श्रीशुक उवाच
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभाव: परमसुहृद्भगवानृषभापदेश
उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाण:
स्वतनयशतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतं धरणिपालनायाभिषिच्य स्वयं भवन
एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधान: प्रकीर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥ २८ ॥

श्री-शुकः उवाच एवम् अनुशास्य आत्म-जान् स्वयम् अनुशिष्टान् अपि लोक-अनुशासन-अर्थम् महा-अनुभावः परम-सुहृत् भगवान् ऋषभ-अपदेशः उपशम-शीलानाम् उपरत-कर्मणाम् महा-मुनीनाम् भक्ति ज्ञान वैराग्य लक्षणम् पारमहंस्य धर्मम् उपशिक्षमाणः स्व-तनय शत ज्येष्ठम् परम-भागवतम् भगवत्-जन-परायणम् भरतम् धरणि-पालनाय अभिषिच्य स्वयम् भवने एव उर्वरित शरीर-मात्र परिग्रहः उन्मत्तः इव गगन-परिधानः प्रकीर्ण-केशः आत्मनि आरोपित आहवनीयः ब्रह्मावर्तात् प्रवव्राज

जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥
२९ ॥

जड अन्ध मूक बधिर पिशाच उन्मादक वत् अवधूत-वेषः अभिभाष्यमाणः अपि जनानाम् गृहीत मौन व्रतः तूष्णीम् बभूव

तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदै:
परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्रज:प्रक्षेपपूतिवातदुरुक्तै-
स्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण
स्वमहिमावस्थानेनासमारोपिताहंममाभिमानत्वादविखण्डितमना: पृथिवीमेकचर: परिबभ्राम ॥ ३०


तत्र तत्र पुर ग्राम आकर खेट वाट खर्वट शिबिर व्रज घोष सार्थ गिरि वन आश्रम आदिषु अनुपथम् अवनिचर-अपसदैः परिभूयमानः मक्षिकाभिः इव वन-गजः तर्जन ताडन अवमेहन ष्ठीवन ग्राव-शकृत् रजः प्रक्षेप पूति-वात दुरुक्तैः तत् अविगणयन् एव असत्-संस्थाने एतस्मिन् देह-उपलक्षणे सत्-अपदेशे उभय-अनुभव-स्वरूपेण स्व-महिम अवस्थानेन असमारोपित-अहम्-मम-अभिमानत्वात् अविखण्डित-मनाः पृथिवीम् एक-चरः परिबभ्राम

अतिसुकुमारकरचरणोर:स्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यास: प्रकृतिसुन्दरस्वभावहाससुमुखो
नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिर: सद‍ृशसुभगकपोलकर्णकण्ठनासो
विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधान:
परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवाद‍ृश्यत ॥ ३१ ॥

अति-सु-कुमार कर चरण उरः-स्थल विपुल बाहु अंस गल वदन आदि अवयव विन्यासः प्रकृति सुन्दर स्व-भाव हास सु-मुखः नव-नलिन-दलायमान शिशिर तार अरुण आयत नयन रुचिरः सदृश सुभग कपोल कर्ण कण्ठ नासः विगूढ-स्मित वदन महा-उत्सवेन पुर-वनितानाम् मनसि कुसुम-शरासनम् उपदधानः पराक् अवलम्बमान कुटिल जटिल कपिश केश भूरि-भारः अवधूत मलिन निज-शरीरेण ग्रह-गृहीतः इव अदृश्यत

यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा
प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थित: शयान एवाश्नाति
पिबति
खादत्यवमेहति
हदति स्म चेष्टमान उच्चरित आदिग्धोद्देश: ॥ ३२ ॥

यर्हि वाव सः भगवान् लोकम् इमम् योगस्य अद्धा प्रतीपम् इव आचक्षाणः तत् प्रतिक्रिया कर्म बीभत्सितम् इति व्रतम् आजगरम् आस्थितः शयानः एव अश्नाति पिबति खादति अवमेहति हदति स्म चेष्टमानः उच्चरिते आदिग्ध-उद्देशः

तस्य ह य: पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्तात्
सुरभिं
चकार ॥ ३३ ॥

तस्य ह यः पुरीष सुरभि सौगन्ध्य वायुः तम् देशम् दश योजनम् समन्तात् सुरभिम् चकार

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीन: शयान: काकमृगगोचरित: पिबति खादत्यवमेहति स्म ॥
३४ ॥

एवम् गो मृग काक चर्यया व्रजन् तिष्ठन् आसीनः शयानः काक-मृग-गो-चरितः पिबति खादति अवमेहति स्म

इति नानायोगचर्याचरणो भगवान् कैवल्यपतिऋर्षभोऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां
भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो
योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यद‍ृच्छयोपगतानि नाञ्जसा नृप
हृदयेनाभ्यनन्दत् ॥ ३५ ॥

इति नाना योग चर्या आचरणः भगवान् कैवल्य-पतिः ऋषभः अविरत परम महा आनन्द-अनुभवः आत्मनि सर्वेषाम् भूतानाम् आत्म-भूते भगवति वासुदेवे आत्मनः अव्यवधान अनन्त रोदर भावेन सिद्ध समस्त अर्थ परिपूर्णः योग-ऐश्वर्याणि वैहायस मनः-जव अन्तर्धान परकाय-प्रवेश दूर-ग्रहण आदीनि यदृच्छया उपगतानि न अञ्जसा नृप हृदयेन अभ्यनन्दत्

५.६

ऋषिरुवाच
सत्यमुक्तं किन्‍त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २ ॥

राजा उवाच न नूनम् भगवः आत्मारामाणाम् योग-समीरित ज्ञान अवभर्जित कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्छया उपगतानि

ऋषिरुवाच
सत्यमुक्तं किन्‍त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २ ॥

ऋषिः उवाच सत्यम् उक्तम् किन्तु इह वा एके न मनसः अद्धा विश्रम्भम् अनवस्थानस्य शठ किरातः इव सङ्गच्छन्ते

तथा चोक्तम्—
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३ ॥

तथा च उक्तम् न कुर्यात् कर्हिचित् सख्यम् मनसि हि अनवस्थिते यत् विश्रम्भात् चिरात् चीर्णम् चस्कन्द तपः ऐश्वरम्

नित्यं ददाति कामस्यच्छिद्रं तमनु येऽरय: ।
योगिन: कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४ ॥

नित्यम् ददाति कामस्य छिद्रम् तम् अनु ये अरयः योगिनः कृत-मैत्रस्य पत्युः जाया इव पुंश्चली

कामो मन्युर्मदो लोभ: शोकमोहभयादय: ।
कर्मबन्धश्च यन्मूल: स्वीकुर्यात्को नु तद् बुध: ॥ ५ ॥

कामः मन्युः मदः लोभः शोक मोह भय आदयः कर्म-बन्धः च यत्-मूलः स्वीकुर्यात् कः नु तत् बुधः

अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥ ६ ॥

अथ एवम् अखिल-लोक-पाल-ललामः अपि विलक्षणैः जड-वत् अवधूत-वेष-भाषा-चरितैः अविलक्षित-भगवत्-प्रभावः योगिनाम् साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरम् जिहासुः आत्मनि आत्मानम् असंव्यवहितम् अनर्थ-अन्तर-भावेन अन्वीक्षमाणः उपरत-अनुवृत्तिः उपरराम

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन
सङ्‍क्रममाण: कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान् यद‍ृच्छयोपगत: कुटकाचलोपवन
आस्यकृताश्मकवल उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७ ॥

तस्य ह वा एवम् मुक्त-लिङ्गस्य भगवतः ऋषभस्य योग-माया-वासनया देहः इमाम् जगतीम् अभिमान-आभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण कर्णाटकान् देशान् यदृच्छया उपगतः कुटकाचल-उपवने आस्य कृत-अश्म-कवलः उन्मादः इव मुक्त-मूर्धजः असंवीतः एव विचचार

अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहान: सह तेन ददाह ॥ ८ ॥

अथ समीर-वेग विधूत वेणु विकर्षण जात उग्र दाव-अनलः तत् वनम् आलेलिहानः सह तेन ददाह

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे
भवितव्येन विमोहित: स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्द:
सम्प्रवर्तयिष्यते ॥ ९ ॥

यस्य किल अनुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानाम् राजा अर्हत्-नाम उपशिक्ष्य कलौ अधर्मे उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथम् अकुतः-भयम् अपहाय कु-पथ-पाखण्डम् असमञ्जसम् निज-मनीषया मन्दः सम्प्रवर्तयिष्यते

येन ह वाव कलौ मनुजापसदा देवमायामोहिता: स्वविधिनियोगशौचचारित्रविहीना
देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्‍नानानाचमनाशौचकेशोल्लुञ्चनादीनि
कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषका: प्रायेण भविष्यन्ति ॥ १० ॥

येन ह वाव कलौ मनुज-अपसदाः देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीनाः देव-हेलनानि अपव्रतानि निज-निज-इच्छया गृह्णानाः अस्नान-अनाचमन-अशौच-केश-उल्लुञ्चन-आदीनि कलिना अधर्म-बहुलेन उपहत-धियः ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति

ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११


ते च हि अर्वाक्तनया निज-लोक-यात्रया अन्ध-परम्परया आश्वस्ताः तमसि अन्धे स्वयम् एव प्रपतिष्यन्ति

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थ: ॥ १२ ॥

अयम् अवतारः रजसा उपप्लुत कैवल्य-उपशिक्षण-अर्थः

तस्यानुगुणान् श्लोकान् गायन्ति—
अहो भुव: सप्तसमुद्रवत्या
द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारे:
कर्माणि भद्राण्यवतारवन्ति ॥ १३ ॥

तस्य अनुगुणान् श्लोकान् गायन्ति अहो भुवः सप्त-समुद्र-वत्याः द्वीपेषु वर्षेषु अधिपुण्यम् एतत् गायन्ति यत्रत्य-जनाः मुरारेः कर्माणि भद्राणि अवतारवन्ति

अहो नु वंशो यशसावदात:
प्रैयव्रतो यत्र पुमान् पुराण: ।
कृतावतार: पुरुष: स आद्य-
श्चचार धर्मं यदकर्महेतुम् ॥ १४ ॥

अहो नु वंशः यशसा अवदातः प्रैयव्रतः यत्र पुमान् पुराणः कृत-अवतारः पुरुषः सः आद्यः चचार धर्मम् यत् अकर्म-हेतुम्

को न्वस्य काष्ठामपरोऽनुगच्छे-
न्मनोरथेनाप्यभवस्य योगी ।
यो योगमाया: स्पृहयत्युदस्ता
ह्यसत्तया येन कृतप्रयत्ना: ॥ १५ ॥

कः नु अस्य काष्ठाम् अपरः अनुगच्छेत् मनः-रथेन अपि अभवस्य योगी यः योग-मायाः स्पृहयति उदस्ताः हि असत्तया येन कृत-प्रयत्नाः

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां
समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुश‍ृणोत्याश्रावयति वावहितो
भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥ १६ ॥

इति ह स्म सकल वेद लोक देव ब्राह्मण गवाम् परम गुरोः भगवतः ऋषभ-आख्यस्य विशुद्ध आचरितम् ईरितम् पुंसाम् समस्त दुश्चरित अभिहरणम् परम महा मङ्गल अयनम् इदम् अनुश्रद्धया उपचितया अनुशृणोति आश्रावयति वा अवहितः भगवति तस्मिन् वासुदेवे एक-अन्ततः भक्तिः अनयोः अपि समनुवर्तते

यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्‍नापयन्तस्तयैव परया
निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्था: ॥ १७ ॥

यस्याम् एव कवयः आत्मानम् अविरतम् विविध वृजिन संसार परिताप उपतप्यमानम् अनुसवनम् स्नापयन्तः तया एव परया निर्वृत्या हि अपवर्गम् आत्यन्तिकम् परम-पुरुष-अर्थम् अपि स्वयम् आसादितम् नो एव आद्रियन्ते भगवदीयत्वेन एव परिसमाप्त-सर्व-अर्थाः

राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रिय: कुलपति: क्‍व च किङ्करो व: ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८ ॥

राजन् पतिः गुरुः अलम् भवताम् यदूनाम् दैवम् प्रियः कुल-पतिः क्व च किङ्करः वः अस्तु एवम् अङ्ग भगवान् भजताम् मुकुन्दः मुक्तिम् ददाति कर्हिचित् स्म न भक्ति-योगम्

नित्यानुभूतनिजलाभनिवृत्ततृष्ण:
श्रेयस्यतद्रचनया चिरसुप्तबुद्धे: ।
लोकस्य य: करुणयाभयमात्मलोक-
माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९ ॥

नित्य-अनुभूत निज-लाभ-निवृत्त-तृष्णः श्रेयसि अ-तत्-रचनया चिर सुप्त बुद्धेः लोकस्य यः करुणया अभयम् आत्म-लोकम् आख्यात् नमः भगवते ऋषभाय तस्मै

५.७

श्रीशुक उवाच
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपर: पञ्चजनीं
विश्वरूपदुहितरमुपयेमे ॥ १ ॥

श्री-शुकः उवाच भरतः तु महा-भागवतः यदा भगवता अवनि-तल परिपालनाय सञ्चिन्तितः तत्-अनुशासन-परः पञ्चजनीम् विश्वरूप-दुहितरम् उपयेमे

तस्यामु ह वा आत्मजान् कार्त्स्‍न्येनानुरूपानात्मन: पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि
सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति ॥ २ ॥

तस्याम् उ ह वा आत्म-जान् कार्त्स्न्येन अनुरूपान् आत्मनः पञ्च जनयाम् आस भूत-आदिः इव भूत-सूक्ष्माणि सु-मतिम् राष्ट्र-भृतम् सु-दर्शनम् आवरणम् धूम्र-केतुम् इति

अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति ॥ ३ ॥

अजनाभम् नाम एतत् वर्षम् भारतम् इति यतः आरभ्य व्यपदिशन्ति

स बहुविन्महीपति: पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमाना: प्रजा:
स्वधर्ममनुवर्तमान: पर्यपालयत् ॥ ४ ॥

सः बहु-वित् मही-पतिः पितृ पितामह वत् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनुवर्तमानः पर्यपालयत्

ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचै:
श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं
चातुर्होत्रविधिना ॥ ५ ॥

ईजे च भगवन्तम् यज्ञ-क्रतु-रूपम् क्रतुभिः उच्चावचैः श्रद्धया आहृत अग्नि-होत्र दर्श पूर्णमास चातुर्मास्य पशु-सोमानाम् प्रकृति विकृतिभिः अनुसवनम् चातुः-होत्र-विधिना

सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे
सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो हवि:ष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्
पुरुषावयवेष्वभ्यध्यायत् ॥ ६ ॥

सम्प्रचरत्सु नाना-यागेषु विरचित-अङ्ग-क्रियेषु अपूर्वम् यत् तत् क्रिया-फलम् धर्म-आख्यम् परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानाम् मन्त्राणाम् अर्थ-नियाम-कतया साक्षात्-कर्तरि पर-देवतायाम् भगवति वासुदेवे एव भावयमानः आत्म-नैपुण्य-मृदित-कषायः हविःषु अध्वर्युभिः गृह्यमाणेषु सः यजमानः यज्ञ-भाजः देवान् तान् पुरुष-अवयवेषु अभ्यध्यायत्

एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे
महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि
पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ॥ ७ ॥

एवम् कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्य अन्तः-हृदय-आकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष रूप उपलक्षणे श्रीवत्स कौस्तुभ वन-माला अरि-दर गदा-आदिभिः उपलक्षिते निज-पुरुष-हृत्-लिखितेन आत्मनि पुरुष-रूपेण विरोचमाने उच्चैस्तराम् भक्तिः अनुदिनम् एधमान रया अजायत

एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं
यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥ ८ ॥

एवम् वर्ष-अयुत-सहस्र पर्यन्त अवसित-कर्म-निर्वाण-अवसरः अधिभुज्यमानम् स्व-तनयेभ्यः रिक्थम् पितृ-पैतामहम् यथा-दायम् विभज्य स्वयम् सकल-सम्पत् निकेतात् स्व-निकेतात् पुलह-आश्रमम् प्रवव्राज

यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यत इच्छारूपेण ॥
९ ॥

यत्र ह वाव भगवान् हरिः अद्य-अपि तत्रत्यानाम् निज-जनानाम् वात्सल्येन सन्निधाप्यते इच्छा-रूपेण

यत्राश्रमपदान्युभयतोनाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वत: पवित्रीकरोति ॥
१० ॥

यत्र आश्रम-पदानि उभयतः नाभिभिः दृषत् चक्रैः चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री-करोति

तस्मिन् वाव किल स एकल: पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभि: कन्दमूलफलोपहारैश्च
समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशम: परां निर्वृतिमवाप ॥ ११


तस्मिन् वाव किल सः एकलः पुलह-आश्रम-उपवने विविध-कुसुम-किसलय-तुलसिका-अम्बुभिः कन्द-मूल-फल-उपहारैः च समीहमानः भगवतः आराधनम् विविक्तः उपरत विषय-अभिलाषः उपभृत उपशमः पराम् निर्वृतिम् अवाप

तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्य:
प्रहर्षवेगेनात्मन्युद्भ‍िद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन एवं
निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन
परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार ॥ १२


तया इत्थम् अविरत पुरुष परिचर्यया भगवति प्रवर्धमान अनुराग भर द्रुत हृदय शैथिल्यः प्रहर्ष-वेगेन आत्मनि उद्भिद्यमान-रोम-पुलक-कुलकः औत्कण्ठ्य प्रवृत्त प्रणय-बाष्प-निरुद्ध-अवलोक-नयनः एवम् निज-रमण-अरुण-चरण-अरविन्द अनुध्यान परिचित भक्ति-योगेन परिप्लुत परम आह्लाद गम्भीर हृदय-ह्रद अवगाढ धिषणः ताम् अपि क्रियमाणाम् भगवत् सपर्याम् न सस्मार

इत्थं धृतभगवद्‌व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमान:
सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच ॥ १३ ॥

इत्थम् धृत-भगवत्-व्रतः ऐणेय-अजिन-वासस अनुसवन अभिषेक अर्द्र कपिश कुटिल-जटा कलापेन च विरोचमानः सूर्यर्चा भगवन्तम् हिरण्मयम् पुरुषम् उज्जिहाने सूर्य-मण्डले अभ्युपतिष्ठन् एतत् उ ह उवाच

परोरज: सवितुर्जातवेदो
देवस्य भर्गो मनसेदं जजान ।
सुरेतसाद: पुनराविश्य चष्टे
हंसं गृध्राणं नृषद्रिङ्गिरामिम: ॥ १४ ॥

परः-रजः सवितुः जात-वेदः देवस्य भर्गः मनसा इदम् जजान सु-रेतसा अदः पुनः आविश्य चष्टे हंसम् गृध्राणम् नृषत् रिङ्गिराम् इमः

५.८

श्रीशुक उवाच
एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश
॥ १ ॥

श्री-शुकः उवाच एकदा तु महा-नद्याम् कृत-अभिषेक-नैयमिक-अवश्यकः ब्रह्म-अक्षरम् अभिगृणानः मुहूर्त-त्रयम् उदक-अन्ते उपविवेश

तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम ॥ २ ॥

तत्र तदा राजन् हरिणी पिपासया जलाशय-अभ्याशम् एक एव उपजगाम

तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥ ३ ॥

तया पेपीयमाने उदके तावत् एव अविदूरेण नदतः मृग-पतेः उन्नादः लोक-भयम्-कर उदपतत्

तमुपश्रुत्य सा मृगवधू: प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपिहरिभयाभिनिवेशव्यग्रहृदया
पारिप्लवद‍ृष्टिरगततृषा भयात् सहसैवोच्चक्राम ॥ ४ ॥

तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि भय अभिनिवेश व्यग्र-हृदया पारिप्लव-दृष्टिः अगत-तृषा भयात् सहसा एव उच्चक्राम

तस्या उत्पतन्त्या अन्तर्वत्‍न्या उरुभयावगलितो योनिनिर्गतो गर्भ: स्रोतसि निपपात ॥ ५ ॥

तस्याः उत्पतन्त्याः अन्तर्वत्न्याः उरु-भय अवगलितः योनि-निर्गतः गर्भः स्रोतसि निपपात

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च
ममार ॥ ६ ॥

तत्-प्रसव उत्सर्पण भय खेद आतुरा स्व-गणेन वियुज्यमाना कस्याञ्चित् दर्याम् कृष्ण-सारसती निपपात अथ च ममार

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय
मृतमातरमित्याश्रमपदमनयत् ॥ ७ ॥

तम् तु एण-कुणकम् कृपणम् स्रोतसा अनूह्यमानम् अभिवीक्ष्य अपविद्धम् बन्धुः इव अनुकम्पया राज-ऋषिः भरतः आदाय मृत-मातरम् इति आश्रम-पदम् अनयत्

तस्य ह वा एणकुणक उच्चैरेतस्मिन्
कृतनिजाभिमानस्याहरहस्तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमा: सहयमा:
पुरुषपरिचर्यादय एकैकश: कतिपयेनाहर्गणेन वियुज्यमाना: किल सर्व एवोदवसन् ॥ ८ ॥

तस्य ह वा एण-कुणके उच्चैः एतस्मिन् कृत-निज-अभिमानस्य अहः-अहः तत्-पोषण पालन लालन प्रीणन अनुध्यानेन आत्म-नियमाः सह-यमाः पुरुष-परिचर्या-आदयः एक-एकशः कतिपयेन अहः-गणेन वियुज्यमानाः किल सर्वे एव उदवसन्

अहो बतायं हरिणकुणक: कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद् बन्धुभ्य: परिवर्जित: शरणं च
मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद
मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं
शरण्योपेक्षादोषविदुषा ॥ ९ ॥

अहो बत अयम् हरिण-कुणकः कृपणः ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण सुहृत् बन्धुभ्यः परिवर्जितः शरणम् च मा उपसादितः माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यौथिकान् च एव उपेयाय न अन्यम् कञ्चन वेद मयि अति विस्रब्धः च अतः एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुना अनुष्ठेयम् शरण्य उपेक्षा दोष-विदुषा

नूनं ह्यार्या: साधव उपशमशीला: कृपणसुहृद एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १० ॥

नूनम् हि आर्याः साधवः उपशम-शीलाः कृपण-सुहृदः एवं-विध-अर्थे स्व-अर्थान् अपि गुरु-तरान् उपेक्षन्ते

इति कृतानुषङ्ग आसनशयनाटनस्‍नानाशनादिषु सह मृगजहुना स्‍नेहानुबद्धहृदय आसीत् ॥ ११ ॥

इति कृत-अनुषङ्गः आसन शयन अटन स्नान आशन-आदिषु सह मृग-जहुना स्नेह-अनुबद्ध हृदयः आसीत्

कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह
हरिणकुणकेन वनं समाविशति ॥ १२ ॥

कुश कुसुम समित् पलाश फल-मूल उदकानि आहरिष्यमाणः वृकसाला-वृक आदिभ्यः भयम् आशंसमानः यदा सह हरिण-कुणकेन वनम् समाविशति

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदय: कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग
उरसि चाधायोपलालयन्मुदं परमामवाप ॥ १३ ॥

पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति प्रणय भर हृदयः कार्पण्यात् स्कन्धेन उद्वहति एवम् उत्सङ्गे उरसि च आधाय उपलालयन् मुदम् परमाम् अवाप

क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपति:
प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति ॥ १४ ॥

क्रियायाम् निर्वर्त्यमानायाम् अन्तराले अपि उत्थाय उत्थाय यदा एनम् अभिचक्षीत तर्हि वाव सः वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मै आशिषः आशास्ते स्वस्ति स्तात् वत्स ते सर्वतः इति

अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपण: सकरुणमतितर्षेण हरिणकुणक
विरहविह्वलहृदयसन्तापस्तमेवानुशोचन् किल कश्मलं महदभिरम्भित इति होवाच ॥ १५ ॥

अन्यदा भृशम् उद्विग्न-मनाः नष्ट-द्रविणः इव कृपणः स-करुणम् अति-तर्षेण हरिण-कुणक विरह विह्वल हृदय सन्तापः तम् एव अनुशोचन् किल कश्मलम् महत् अभिरम्भितः इति ह उवाच

अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य
कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन इवागमिष्यति ॥ १६ ॥

अपि बत सः वै कृपणः एण-बालकः मृत-हरिणी-सुतः अहो मम अनार्यस्य शठ किरात मतेः अकृत-सुकृतस्य कृत-विस्रम्भः आत्म-प्रत्ययेन तत् अविगणयन् सु-जनः इव अगमिष्यति

अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि ॥ १७ ॥

अपि क्षेमेण अस्मिन् आश्रम-उपवने शष्पाणि चरन्तम् देव-गुप्तम् द्रक्ष्यामि

अपि च न वृक: सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति ॥ १८ ॥

अपि च न वृकः साला-वृकः अन्यतमः वा न-एक-चरः एक-चरः वा भक्षयति

निम्‍लोचति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति ॥ १९ ॥

निम्लोचति ह भगवान् सकल-जगत् क्षेम-उदयः त्रयी-आत्मा अद्य अपि मम न मृग-वधू-न्यासः आगच्छति

अपिस्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो
विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन् ॥ २० ॥

अपि स्वित् अकृत-सुकृतम् आगत्य माम् सुखयिष्यति हरिण-राज-कुमारः विविध रुचिर दर्शनीय निज मृग-दारक विनोदैः असन्तोषम् स्वानाम् अपनुदन्

क्ष्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषदपरुषविषाणाग्रेण
लुठति ॥ २१ ॥

क्ष्वेलिकायाम् माम् मृषा समाधिना आमीलित-दृशम् प्रेम-संरम्भेण चकित-चकितः आगत्य पृषत् अपरुष विषाण अग्रेण लुठति

आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीत: सपद्युपरतरास
ऋषिकुमारवदवहितकरणकलाप आस्ते ॥ २२ ॥

आसादित हविषि बर्हिषि दूषिते मया उपालब्धः भीत-भीतः सपदि उपरत-रासः ऋषि-कुमारवत् अवहित करण-कलापः आस्ते

किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनि:
सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम
द्रविणपदवीं सूचयन्त्यात्मानं च सर्वत: कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति
॥ २३ ॥

किम् वा अरे आचरितम् तपः तपस्विन्या अनया यत् इयम् अवनिः स-विनय कृष्ण-सार-तनय तनुतर सुभग शिव-तम अखर खुर पद-पङ्क्तिभिः द्रविण-विधुर-आतुरस्य कृपणस्य मम द्रविण-पदवीम् सूचयन्ति आत्मानम् च सर्वतः कृत-कौतुकम् द्विजानाम् स्वर्ग-अपवर्ग-कामानाम् देव-यजनम् करोति

अपिस्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया
कृपणजनवत्सल: परिपाति ॥ २४ ॥

अपि स्वित् असौ भगवान् उडु-पतिः एनम् मृग-पति-भयात् मृत-मातरम् मृग-बालकम् स्व-आश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति

किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं
शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभि: स्वधयतीति च ॥ २५ ॥

किम् वा आत्म-ज विश्लेष ज्वर दव-दहन शिखाभिः उपतप्यमान हृदय स्थल-नलिनीकम् माम् उपसृत-मृगी-तनयम् शिशिर-शान्त अनुराग गुणित निज-वदन-सलिल अमृत-मय गभस्तिभिः स्वधयति इति च

एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशित: स
योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्ग:
साक्षान्नि:श्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवमन्तरायविहत
योगारम्भणस्य राजर्षेर्भरतस्य तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत
आत्मानमहिरिवाखुबिलं दुरतिक्रम: काल: करालरभस आपद्यत ॥ २६ ॥

एवम् अघटमान मनः-रथ आकुल हृदयः मृग-दारक-आभासेन स्व-आरब्ध-कर्मणा योग-आरम्भणतः विभ्रंशितः सः योग-तापसः भगवत्-आराधन-लक्षणात् च कथम् इतरथा जाति-अन्तरे एण-कुणके आसङ्गः साक्षात् निःश्रेयस प्रतिपक्षतया प्राक् परित्यक्त दुस्त्यज हृदय-अभिजातस्य तस्य एवम् अन्तराय विहत योग-आरम्भणस्य राज-ऋषेः भरतस्य तावत् मृग-अर्भक पोषण पालन प्रीणन लालन अनुषङ्गेण अविगणयतः आत्मानम् अहिः इव आखु-बिलम् दुरतिक्रमः कालः कराल रभसः आपद्यत

तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य
लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप ॥ २७ ॥

तदानीम् अपि पार्श्व-वर्तिनम् आत्म-जम् इव अनुशोचन्तम् अभिवीक्षमाणः मृगे एव अभिनिवेशित-मनाः विसृज्य लोकम् इमम् सह मृगेण कलेवरम् मृतम् अनु न मृत जन्म-अनुस्मृतिः इतर-वत् मृग-शरीरम् अवाप

तत्रापि ह वा आत्मनो मृगत्वकारणं
भगवदाराधनसमीहानुभावेनानुस्मृत्य
भृशमनुतप्यमान आह ॥ २८ ॥

तत्र अपि ह वा आत्मनः मृगत्व-कारणम् भगवत्-आराधन-समीहा अनुभावेन अनुस्मृत्य भृशम् अनुतप्य-मानः आह

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत
आत्मनि सर्वेषामात्मनां भगवति वासुदेवे
तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं
कार्त्स्‍न्येन मनस्तत्तु पुनर्ममाबुधस्यारान्मृगसुतमनु परिसुस्राव ॥ २९ ॥

अहो कष्टम् भ्रष्टः अहम् आत्म-वताम् अनुपथात् यत् विमुक्त-समस्त-सङ्गस्य विविक्त पुण्य-अरण्य शरणस्य आत्म-वतः आत्मनि सर्वेषाम् आत्मनाम् भगवति वासुदेवे तत् अनुश्रवण मनन सङ्कीर्तन आराधन अनुस्मरण अभियोगेन अशून्य सकल-यामेन कालेन समावेशितम् समाहितम् कार्त्स्न्येन मनः तत् तु पुनः मम अबुधस्य आरात् मृग-सुतम् अनु परिसुस्राव

इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं
पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम ॥ ३० ॥

इति एवम् निगूढ निर्वेदः विसृज्य मृगीम् मातरम् पुनः भगवत्-क्षेत्रम् उपशम-शील मुनि-गण-दयितम् शालग्रामम् पुलस्त्य-पुलह-आश्रमम् कालञ्जरात् प्रत्याजगाम

तस्मिन् अपि कालम् प्रतीक्षमाणः सङ्गात् च भृशम् उद्विग्नः आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानः मृगत्व-निमित्त अवसानम् एव गणयन् मृग-शरीरम् तीर्थ-उदक-क्लिन्नम् उत्ससर्ज

५.९

श्रीशुक उवाच
अथ कस्यचिद् द्विजवरस्याङ्गिर:प्रवरस्य
शमदमतप:स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसद‍ृशश्रुतशीलाचाररूपौदार्यगुणा
नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ १ ॥
यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहु:
॥ २ ॥

श्री-शुकः उवाच अथ कस्यचित् द्विज-वरस्य अङ्गिरः-प्रवरस्य शम दम तपः स्वाध्याय अध्ययन त्याग सन्तोष तितिक्षा प्रश्रय विद्या अनसूय आत्म-ज्ञान-आनन्द युक्तस्य आत्म-सदृश श्रुत शील आचार रूप औदार्य गुणाः नव स-उदर्याः अङ्ग-जाः बभूवुः मिथुनम् च यवीयस्याम् भार्यायाम् यः तु तत्र पुमान् तम् परम-भागवतम् राज-ऋषि प्रवरम् भरतम् उत्सृष्ट मृग-शरीरम् चरम-शरीरेण विप्रत्वम् गतम् आहुः

तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवत:
कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मन: प्रतिघातमाशङ्कमानो
भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य ॥ ३ ॥

तत्र अपि स्व-जन-सङ्गात् च भृशम् उद्विजमानः भगवतः कर्म-बन्ध विध्वंसन श्रवण स्मरण गुण-विवरण चरण-अरविन्द युगलम् मनसा विदधत् आत्मनः प्रतिघातम् आशङ्कमानः भगवत्-अनुग्रहेण अनुस्मृत स्व-पूर्व जन्म-आवलिः आत्मानम् उन्मत्त जड अन्ध बधिर स्वरूपेण दर्शयाम् आस लोकस्य

तस्यापि ह वा आत्मजस्य विप्र: पुत्रस्‍नेहानुबद्धमना आसमावर्तनात्संस्कारान् यथोपदेशं विदधान
उपनीतस्य च पुन: शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं
पितु: पुत्रेणेति ॥ ४ ॥

तस्य अपि ह वा आत्म-जस्य विप्रः पुत्र-स्नेह-अनुबद्ध-मनाः आ-सम-आवर्तनात् संस्कारान् यथा-उपदेशम् विदधानः उपनीतस्य च पुनः शौच-आचमन-आदीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयत् अनुशिष्टेन हि भाव्यम् पितुः पुत्रेण इति

स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन्सह व्याहृतिभि:
सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ ५ ॥

सः च अपि तत् उ ह पितृ-सन्निधौ एव असध्रीचीनम् इव स्म करोति छन्दांसि अध्यापयिष्यन् सह व्याहृतिभिः स-प्रणव-शिरः त्रि-पदीम् सावित्रीम् ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अपि असमवेत-रूपम् ग्राहयाम् आस

एवं स्वतनुज आत्मन्यनुरागावेशितचित्त:
शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रह: पुत्रमनुशास्य स्वयं तावद् अनधिगतमनोरथ: कालेनाप्रमत्तेन स्वयं गृह एव
प्रमत्त उपसंहृत: ॥ ६ ॥

एवम् स्व तनु-जे आत्मनि अनुराग-आवेशित-चित्तः शौच अध्ययन व्रत नियम गुरु अनल शुश्रूषण-आदि औपकुर्वाणक कर्माणि अनभियुक्तानि अपि समनुशिष्टेन भाव्यम् इति असत्-आग्रहः पुत्रम् अनुशास्य स्वयम् तावत् अनधिगत-मनोरथः कालेन अप्रमत्तेन स्वयम् गृहे एव प्रमत्तः उपसंहृतः

अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्‍न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ॥ ७


अथ यवीयसी द्विज-सती स्व-गर्भ-जातम् मिथुनम् सपत्न्यै उपन्यस्य स्वयम् अनुसंस्थया पति-लोकम् अगात्

पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां
जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८ ॥

पितरि उपरते भ्रातरः एनम् अ-तत्-प्रभाव-विदः त्रय्याम् विद्यायाम् एव पर्यवसित मतयः न पर-विद्यायाम् जड-मतिः इति भ्रातुः अनुशासन-निर्बन्धात् न्यवृत्सन्त

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि
च कार्यमाण:
परेच्छया करोति विष्टितो वेतनतो वा याच्ञया यद‍ृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं
वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् ।
नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगम:
सुखदु:खयोर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमान: ॥ ९ ॥
शीतोष्णवातवर्षेषु वृष इवानावृताङ्ग: पीन: संहननाङ्ग: स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा
महामणिरिवानभिव्यक्तब्रह्मवर्चस: कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति
ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥ १० ॥

सः च प्राकृतैः द्वि-पद-पशुभिः उन्मत्त जड बधिर मूक इति अभिभाष्यमाणः यदा तत्-अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः पर-इच्छया करोति विष्टितः वेतनतः वा याच्ञया यदृच्छया वा उपसादितम् अल्पम् बहु मृष्टम् कत्-अन्नम् वा अभ्यवहरति परम् न इन्द्रिय-प्रीति-निमित्तम् नित्य निवृत्त निमित्त स्व-सिद्ध विशुद्ध अनुभव-आनन्द स्व-आत्म-लाभ-अधिगमः सुख-दुःखयोः द्वन्द्व-निमित्तयोः असम्भावित-देह-अभिमानः शीत उष्ण वात वर्षेषु वृषः इव अनावृत-अङ्गः पीनः संहनन-अङ्गः स्थण्डिल-संवेशन अनुन्मर्दन अमज्जन रजसा महा-मणिः इव अनभिव्यक्त ब्रह्म-वर्चसः कु-पट-आवृत कटिः उपवीतेन उरु-मषिणा द्वि-जातिः इति ब्रह्म-बन्धुः इति संज्ञया अ-तत्-ज्ञ-जन अवमतः विचचार

यदा तु परत आहारं कर्मवेतनत ईहमान: स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति
किन्तु न समं विषमं न्यूनमधिकमिति वेद
कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११ ॥

यदा तु परतः आहारम् कर्म-वेतनतः ईहमानः स्व-भ्रातृभिः अपि केदार-कर्मणि निरूपितः तत् अपि करोति किन्तु न समम् विषमम् न्यूनम् अधिकम् इति वेद कण पिण्याक फली-करण कुल्माष स्थाली-पुरीष-आदीनि अपि अमृत-वत् अभ्यवहरति

अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकाम: ॥ १२ ॥

अथ कदाचित् कश्चित् वृषल-पतिः भद्र-काल्यै पुरुष-पशुम् आलभत अपत्य-कामः

तस्य ह दैवमुक्तस्य पशो: पदवीं तदनुचरा: परिधावन्तो निशि निशीथसमये
तमसाऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्य:
संरक्षमाणमङ्गिर:प्रवरसुतमपश्यन् ॥ १३ ॥

तस्य ह दैव-मुक्तस्य पशोः पदवीम् तत्-अनुचराः परिधावन्तः निशि निशीथ-समये तमसा आवृतायाम् अनधिगत-पशवः आकस्मिकेन विधिना केदारान् वीर-आसनेन मृग-वराह-आदिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन्

अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया
चण्डिकागृहमुपनिन्युर्मुदा विकसितवदना: ॥ १४ ॥

अथ ते एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिम् मन्यमानाः बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युः मुदा विकसित-वदनाः

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं
धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थयामहता गीतस्तुतिमृदङ्गपणवघोषेण च
पुरुषपशुं भद्रकाल्या: पुरत उपवेशयामासु: ॥ १५ ॥

अथ पणयः तम् स्व-विधिना अभिषिच्य अहतेन वाससा आच्छाद्य भूषण आलेप स्रक् तिलक-आदिभिः उपस्कृतम् भुक्तवन्तम् धूप दीप माल्य लाज किसलय-अङ्कुर फल उपहार उपेतया वैशस-संस्थया महता गीत-स्तुति मृदङ्ग पणव घोषेण च पुरुष-पशुम् भद्र-काल्याः पुरतः उपवेशयाम् आसुः

अथ वृषलराजपणि: पुरुषपशोरसृगासवेन देवीं भद्रकालीं
यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे ॥ १६ ॥

अथ वृषल-राज-पणिः पुरुष-पशोः असृक्-आसवेन देवीम् भद्र-कालीम् यक्ष्यमाणः तत्-अभिमन्त्रितम् असिम् अति-कराल निशितम् उपाददे

इति तेषां वृषलानां रजस्तम:प्रकृतीनां धनमदरजउत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन
स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य
सर्वभूतसुहृद: सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा
सहसोच्चचाट सैव देवी भद्रकाली ॥ १७ ॥

इति तेषाम् वृषलानाम् रजः तमः प्रकृतीनाम् धन-मद रजः उत्सिक्त मनसाम् भगवत्-कला वीर-कुलम् कत्-अर्थी-कृत्य उत्पथेन स्वैरम् विहरताम् हिंसा-विहाराणाम् कर्म अति-दारुणम् यत् ब्रह्म-भूतस्य साक्षात् ब्रह्म-ऋषि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अपि अननुमतम् आलम्भनम् तत् उपलभ्य ब्रह्म-तेजसा अति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसा उच्चचाट सा एव देवी भद्र-काली

भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं
महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां
गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदै: सह जगौ
ननर्त च विजहार च शिर:कन्दुकलीलया ॥ १८ ॥

भृशम् अमर्ष रोष आवेश रभस-विलसित भ्रु-कुटि विटप कुटिल दंष्ट्र अरुण-ईक्षण आटोप अति भयानक वदना हन्तु-कामा इव इदम् महा-अट्ट-हासम् अति संरम्भेण विमुञ्चन्ती ततः उत्पत्य पापीयसाम् दुष्टानाम् तेन एव असिना विवृक्ण शीर्ष्णाम् गलात् स्रवन्तम् असृक्-आसवम् अति-उष्णम् सह गणेन निपीय अति-पान मद विह्वला उच्चैः-तराम् स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक लीलया

एवमेव खलु महदभिचारातिक्रम: कार्त्स्‍न्येनात्मने फलति ॥ १९ ॥

एवम् एव खलु महत् अभिचार अति-क्रमः कार्त्स्न्येन आत्मने फलति

न वा एतद्विष्णुदत्त महदद्भ‍ुतं यदसम्भ्रम: स्वशिरश्छेदन आपतितेऽपि
विमुक्तदेहाद्यात्मभावसुद‍ृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां
साक्षाद्भ‍गवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावै: परिरक्ष्यमाणानां
तत्पादमूलमकुतश्चिद्भ‍यमुपसृतानां भागवतपरमहंसानाम् ॥ २० ॥

न वा एतत् विष्णु-दत्त महत् अद्भुतम् यत् असम्भ्रमः स्व-शिरः-छेदने आपतिते अपि विमुक्त देह-आदि-आत्म-भाव सु-दृढ हृदय-ग्रन्थीनाम् सर्व-सत्त्व-सुहृत्-आत्मनाम् निर्वैराणाम् साक्षात् भगवता अनिमिष अरि-वर आयुधेन अप्रमत्तेन तैः तैः भावैः परिरक्ष्यमाणानाम् तत्-पाद-मूलम् अकुतश्चित् भयम् उपसृतानाम् भागवत परम-हंसानाम्

५.१०

श्रीशुक उवाच
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये
दैवेनोपसादित: स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहीतै: सह गृहीत: प्रसभमतदर्ह उवाह शिबिकां स महानुभाव: ॥ १ ॥

श्री-शुकः उवाच अथ सिन्धु-सौवीर-पतेः रहू-गणस्य व्रजतः इक्षु-मत्याः तटे तत्-कुल-पतिना शिबिका-वाह पुरुष-अन्वेषण-समये दैवेन उपसादितः सः द्विज-वरः उपलब्धः एषः पीवा युवा संहनन-अङ्गः गो-खर-वत् धुरम् वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अ-तत्-अर्हः उवाह शिबिकाम् सः महा-अनुभावः

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण
उपधार्य पुरुषानधिवहत आह हे वोढार: साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २ ॥

यदा हि द्विज-वरस्य इषु-मात्र अवलोक-अनुगतेः न समाहिता पुरुष-गतिः तदा विषम-गताम् स्व-शिबिकाम् रहूगणः उपधार्य पुरुषान् अधिवहतः आह हे वोढारः साधु अतिक्रमत किम् इति विषमम् उह्यते यानम् इति

अथ त ईश्वरवच: सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयांबभूवु: ॥ ३ ॥

अथ ते ईश्वर-वचः स-उपालम्भम् उपाकर्ण्य उपाय तुरीयात् शङ्कित-मनसः तम् विज्ञापयाम् बभूवुः

न वयं नरदेव प्रमत्ता भवन्नियमानुपथा: साध्वेव वहाम: ।
अयमधुनैव नियुक्तोऽपि न द्रुतं
व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४ ॥

न वयम् नर-देव प्रमत्ताः भवत्-नियम-अनुपथाः साधु एव वहामः अयम् अधुना एव नियुक्तः अपि न द्रुतम् व्रजति न अनेन सह वोढुम् उ ह वयम् पारयामः इति

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य
कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं
जातवेदसमिव रजसाऽऽवृतमतिराह ॥ ५ ॥

सांसर्गिकः दोषः एव नूनम् एकस्य अपि सर्वेषाम् सांसर्गिकाणाम् भवितुम् अर्हति इति निश्चित्य निशम्य कृपण-वचः राजा रहूगणः उपासित-वृद्धः अपि निसर्गेण बलात् कृतः ईषत् उत्थित मन्युः अविस्पष्ट ब्रह्म-तेजसम् जात-वेदसम् इव रजसा आवृत मतिः आह

अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न
संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति
बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं
ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६ ॥

अहो कष्टम् भ्रातः व्यक्तम् उरु परिश्रान्तः दीर्घम् अध्वानम् एकः एव ऊहिवान् सु-चिरम् न अति-पीवा न संहनन-अङ्गः जरसा च उपद्रुतः भवान् सखे नो एव अपरे एते सङ्घट्टिनः इति बहु विप्रलब्धः अपि अविद्यया रचित द्रव्य-गुण-कर्म-आशय स्व-चरम-कलेवरे अवस्तुनि संस्थान-विशेषे अहम् मम इति अनध्यारोपित मिथ्या प्रत्ययः ब्रह्म-भूतः तूष्णीम् शिबिकाम् पूर्व-वत् उवाह

अथ पुन: स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगण: किमिदमरे त्वं जीवन्मृतो मां
कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा
प्रकृतिं स्वां भजिष्यस इति ॥ ७ ॥

अथ पुनः स्व-शिबिकायाम् विषम-गतायाम् प्रकुपितः उवाच रहूगणः किम् इदम् अरे त्वम् जीवत् मृतः माम् कत्-अर्थी-कृत्य भर्तृ-शासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्साम् दण्ड-पाणिः इव जनतायाः यथा प्रकृतिम् स्वाम् भजिष्यसे इति

एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं
पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतसर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं
स्मयमान इव विगतस्मय इदमाह ॥ ८ ॥

एवम् बहु अबद्धम् अपि भाषमाणम् नर-देव-अभिमानम् रजसा तमसा अनुविद्धेन मदेन तिरस्कृत अशेष भगवत्-प्रिय-निकेतम् पण्डित-मानिनम् सः भगवान् ब्राह्मणः ब्रह्म-भूत सर्व-भूत-सुहृत्-आत्मा योग-ईश्वर चर्यायाम् न अति-व्युत्पन्न-मतिम् स्मयमानः इव विगत-स्मयः इदम् आह

ब्राह्मण उवाच
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तु: स मे स्याद्यदि वीर भार: ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवाद: ॥ ९ ॥

ब्राह्मणः उवाच त्वया उदितम् व्यक्तम् अविप्रलब्धम् भर्तुः सः मे स्यात् यदि वीर भारः गन्तुः यदि स्यात् अधिगम्यम् अध्वा पीवा इति राशौ न विदाम् प्रवादः

स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड् भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहंमद: शुचो
देहेन जातस्य हि मे न सन्ति ॥ १० ॥

स्थौल्यम् कार्श्यम् व्याधयः आधयः च क्षुत् तृट् भयम् कलिः इच्छा जरा च निद्रा रतिः मन्युः अहम् मदः शुचः देहेन जातस्य हि मे न सन्ति

जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य द‍ृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोग: ॥ ११ ॥

जीवत्-मृतत्वम् नियमेन राजन् आदि-अन्त-वत् यत् विकृतस्य दृष्टम् स्व-स्वाम्य-भावः ध्रुवः ईड्य यत्र तर्हि उच्यते असौ विधि-कृत्य-योगः

विशेषबुद्धेर्विवरं मनाक् च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते ॥ १२ ॥

विशेष-बुद्धेः विवरम् मनाक् च पश्यामः यत् न व्यवहारतः अन्यत् कः ईश्वरः तत्र किम् ईशितव्यम् तथापि राजन् करवाम किम् ते

उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर चिकित्सितेन ।
अर्थ: कियान् भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेष: ॥ १३ ॥

उन्मत्त मत्त जड-वत् स्व-संस्थाम् गतस्य मे वीर चिकित्सितेन अर्थः कियान् भवता शिक्षितेन स्तब्ध प्रमत्तस्य च पिष्ट-पेषः

श्रीशुक उवाच
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं
व्यपनयन् राजयानमपि तथोवाह ॥ १४ ॥

श्री-शुकः उवाच एतावत् अनुवाद-परिभाषया प्रत्युदीर्य मुनि-वरः उपशम-शीलः उपरत अनात्म्य निमित्तः उपभोगेन कर्म-आरब्धम् व्यपनयन् राज-यानम् अपि तथा उवाह

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां
सम्यक्‌श्रद्धयाधिकृताधिकारस्तद्‌धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य
शिरसा पादमूलमुपसृत: क्षमापयन् विगतनृपदेवस्मय उवाच ॥ १५ ॥

सः च अपि पाण्डवेय सिन्धु-सौवीर-पतिः तत्त्व-जिज्ञासायाम् सम्यक्-श्रद्धया अधिकृत-अधिकारः तत् हृदय-ग्रन्थि मोचनम् द्विज-वचः आश्रुत्य बहु-योग-ग्रन्थ-सम्मतम् त्वरया अवरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मयः उवाच

कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूत: ।
कस्यासि कुत्रत्य इहापि कस्मात्
क्षेमाय नश्चेदसि नोत शुक्ल: ॥ १६ ॥

कः त्वम् निगूढः चरसि द्विजानाम् बिभर्षि सूत्रम् कतमः अवधूतः कस्य असि कुत्रत्यः इह अपि कस्मात् क्षेमाय नः चेत् असि न उत शुक्लः

नाहं विशङ्के सुरराजवज्रा-
न्न त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्‍न्‍यर्कसोमानिलवित्तपास्त्रा-
च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७ ॥

न अहम् विशङ्के सुर-राज-वज्रात् न त्र्यक्ष-शूलात् न यमस्य दण्डात् न अग्नि अर्क सोम अनिल वित्त-प अस्त्रात् शङ्के भृशम् ब्रह्म-कुल अवमानात्

तद्ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपार: ।
वचांसि योगग्रथितानि साधो
न न: क्षमन्ते मनसापि भेत्तुम् ॥ १८ ॥

तत् ब्रूहि असङ्गः जड-वत् निगूढ विज्ञान-वीर्यः विचरसि अपारः वचांसि योग-ग्रथितानि साधो न नः क्षमन्ते मनसा अपि भेत्तुम्

अहं च योगेश्वरमात्मतत्त्व-
विदां मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्त: किमिहारणं तत्
साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९ ॥

अहम् च योग-ईश्वरम् आत्म-तत्त्व-विदाम् मुनीनाम् परमम् गुरुम् वै प्रष्टुम् प्रवृत्तः किम् इह अरणम् तत् साक्षात् हरिम् ज्ञान-कला-अवतीर्णम्

स वै भवाँल्लोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपिस्वित् ।
योगेश्वराणां गतिमन्धबुद्धि:
कथं विचक्षीत गृहानुबन्ध: ॥ २० ॥

सः वै भवान् लोक-निरीक्षण-अर्थम् अव्यक्त-लिङ्गः विचरति अपि स्वित् योग-ईश्वराणाम् गतिम् अन्ध-बुद्धिः कथम् विचक्षीत गृह-अनुबन्धः

द‍ृष्ट: श्रम: कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात्
समूल इष्टो व्यवहारमार्ग: ॥ २१ ॥

दृष्टः श्रमः कर्मतः आत्मनः वै भर्तुः गन्तुः भवतः च अनुमन्ये यथा असता उद आनयन-आदि अभावात् स-मूलः इष्टः व्यवहार-मार्गः

स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धि: ।
देहेन्द्रियास्वाशयसन्निकर्षात्
तत्संसृति: पुरुषस्यानुरोधात् ॥ २२ ॥

स्थालि अग्नि-तापात् पयसः अभितापः तत्-तापतः तण्डुल-गर्भ-रन्धिः देह-इन्द्रिय-अस्वाशय सन्निकर्षात् तत्-संसृतिः पुरुषस्य अनुरोधात्

शास्ताभिगोप्ता नृपति: प्रजानांय: किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्ययदीहमानो विजहात्यघौघम् ॥ २३ ॥

शास्ता अभिगोप्ता नृ-पतिः प्रजानाम् यः किङ्करः वै न पिनष्टि पिष्टम् स्व-धर्मम् आराधनम् अच्युतस्य यत् ईहमानः विजहाति अघ-ओघम्

तन्मे भवान्नरदेवाभिमान-मदेन तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्रीद‍ृशमार्तबन्धोयथा तरे
सदवध्यानमंह: ॥ २४ ॥

तत् मे भवान् नर-देव-अभिमान-मदेन तुच्छीकृत सत्-तमस्य कृषीष्ट मैत्री-दृशम् आर्त-बन्धो यथा तरे सत्-अवध्यानम् अंहः

न विक्रिया विश्वसुहृत्सखस्यसाम्येन वीताभिमतेस्तवापि ।
महद्विमानात् स्वकृताद्धि
माद‍ृङ्नङ्‌क्ष्यत्यदूरादपि शूलपाणि: ॥ २५ ॥

न विक्रिया विश्व-सुहृत् सखस्य साम्येन वीत-अभिमतेः तव अपि महत्-विमानात् स्व-कृतात् हि मादृक् नङ्क्ष्यति अदूरात् अपि शूल-पाणिः

५.११

ब्राह्मण उवाच
अकोविद: कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठ: ।
न सूरयो हि
व्यवहारमेनंतत्त्वावमर्शेन सहामनन्ति ॥ १ ॥

ब्राह्मणः उवाच अकोविदः कोविद-वाद-वादान् वदसि अथो न अति-विदाम् वरिष्ठः न सूरयः हि व्यवहारम् एनम् तत्त्व अवमर्शेन सह आमनन्ति

तथैव राजन्नुरुगार्हमेध-वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववाद:प्रायेण शुद्धो नु
चकास्ति साधु: ॥ २ ॥

तथा एव राजन् उरु-गार्ह-मेध वितान-विद्या उरु विजृम्भितेषु न वेद-वादेषु हि तत्त्व-वादः प्रायेण शुद्धः नु चकास्ति साधुः

न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाच: समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यंन
यस्य हेयानुमितं स्वयं स्यात् ॥ ३ ॥

न तस्य तत्त्व-ग्रहणाय साक्षात् वरीयसीः अपि वाचः समासन् स्वप्ने निरुक्त्या गृह-मेधि-सौख्यम् न यस्य हेय-अनुमितम् स्वयम् स्यात्

यावन्मनो रजसा पूरुषस्यसत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोतिनिरङ्कुशं कुशलं
चेतरं वा ॥ ४ ॥

यावत् मनः रजसा पूरुषस्य सत्त्वेन वा तमसा वा अनुरुद्धम् चेतोभिः आकूतिभिः आतनोति निरङ्कुशम् कुशलम् च इतरम् वा

स वासनात्मा विषयोपरक्तोगुणप्रवाहो विकृत: षोडशात्मा ।
बिभ्रत्पृथङ्‌नामभि
रूपभेद-मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५ ॥

सः वासना आत्मा विषय-उपरक्तः गुण-प्रवाहः विकृतः षोडश-आत्मा बिभ्रत् पृथक्-नामभिः रूप-भेदम् अन्तः-बहिष्ट्वम् च पुरैः तनोति

दु:खं सुखं व्यतिरिक्तं च तीव्रंकालोपपन्नं फलमाव्यनक्ति ।
आलिङ्‌ग्य
मायारचितान्तरात्मास्वदेहिनं संसृतिचक्रकूट: ॥ ६ ॥

दुःखम् सुखम् व्यतिरिक्तम् च तीव्रम् काल-उपपन्नम् फलम् आव्यनक्ति आलिङ्ग्य माया-रचित अन्तः-आत्मा स्व-देहिनम् संसृति चक्र-कूटः

तावानयं व्यवहार: सदावि:क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्म: ।
तस्मान्मनो लिङ्गमदो
वदन्तिगुणागुणत्वस्य परावरस्य ॥ ७ ॥

तावान् अयम् व्यवहारः सदा आविः क्षेत्र-ज्ञ साक्ष्यः भवति स्थूल-सूक्ष्मः तस्मात् मनः लिङ्गम् अदः वदन्ति गुण-अगुणत्वस्य पर-अवरस्य

गुणानुरक्तं व्यसनाय जन्तो:
क्षेमाय नैर्गुण्यमथो मन: स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखा: सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मन: श्रयतेऽन्यत्र तत्त्वम् ॥ ८ ॥

गुण-अनुरक्तम् व्यसनाय जन्तोः क्षेमाय नैर्गुण्यम् अथो मनः स्यात् यथा प्रदीपः घृत-वर्तिम् अश्नन् शिखाः सधूमाः भजति हि अन्यदा स्वम् पदम् तथा गुण-कर्म-अनुबद्धम् वृत्तीः मनः श्रयते अन्यत्र तत्त्वम्

एकादशासन्मनसो हि वृत्तय
आकूतय: पञ्च धियोऽभिमान: ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमी: ॥ ९ ॥

एकादश आसन् मनसः हि वृत्तयः आकूतयः पञ्च धियः अभिमानः मात्राणि कर्माणि पुरम् च तासाम् वदन्ति ह एकादश वीर भूमीः

गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पा: ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहु: ॥ १० ॥

गन्ध आकृति स्पर्श रस श्रवांसि विसर्ग रति अर्ति अभिजल्प शिल्पाः एकादशम् स्वीकरणम् मम इति शय्याम् अहम् द्वादशम् एके आहुः

द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकारा: ।
सहस्रश: शतश: कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वत: स्यु: ॥ ११ ॥

द्रव्य स्व-भाव आशय कर्म कालैः एकादश अमी मनसः विकाराः सहस्रशः शतशः कोटिशः च क्षेत्र-ज्ञतः न मिथः न स्वतः स्युः

क्षेत्रज्ञ एता मनसो विभूती-
र्जीवस्य मायारचितस्य नित्या: ।
आविर्हिता: क्‍वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तु: ॥ १२ ॥

क्षेत्र-ज्ञः एताः मनसः विभूतीः जीवस्य माया-रचितस्य नित्याः आविर्हिताः क्वापि तिरोहिताः च शुद्धः विचष्टे हि अविशुद्ध कर्तुः

क्षेत्रज्ञ आत्मा पुरुष: पुराण:
साक्षात्स्वयंज्योतिरज: परेश: ।
नारायणो भगवान् वासुदेव:
स्वमाययाऽऽत्मन्यवधीयमान: ॥ १३ ॥
यथानिल: स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेव:
क्षेत्रज्ञ आत्मेदमनुप्रविष्ट: ॥ १४ ॥

क्षेत्र-ज्ञः आत्मा पुरुषः पुराणः साक्षात् स्वयम् ज्योतिः अजः परेशः नारायणः भगवान् वासुदेवः स्व-मायया आत्मनि अवधीयमानः यथा अनिलः स्थावर जङ्गमानाम् आत्म-स्वरूपेण निविष्टः ईशेत् एवम् परः भगवान् वासुदेवः क्षेत्र-ज्ञः आत्मा इदम् अनुप्रविष्टः

न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्‌सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५ ॥

न यावत् एताम् तनु-भृत् नरेन्द्र विधूय मायाम् वयुना उदयेन विमुक्त-सङ्गः जित-षट्-सपत्नः वेद आत्म-तत्त्वम् भ्रमति इह तावत्

न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६ ॥

न यावत् एतत् मनः आत्म-लिङ्गम् संसार-ताप आवपनम् जनस्य यत् शोक मोह आमय राग लोभ वैर अनुबन्धम् ममताम् विधत्ते

भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्त: ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७ ॥

भ्रातृव्यम् एनम् तत् अदभ्र-वीर्यम् उपेक्षया अध्येधितम् अप्रमत्तः गुरोः हरेः चरण उपासना-अस्त्रः जहि व्यलीकम् स्वयम् आत्म-मोषम्

५.१२

रहूगण उवाच
नमो नम: कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूत द्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥ १ ॥

रहूगणः उवाच नमः नमः कारण-विग्रहाय स्वरूप-तुच्छीकृत-विग्रहाय नमः अवधूत द्विज-बन्धु-लिङ्ग निगूढ नित्य-अनुभवाय तुभ्यम्

ज्वरामयार्तस्य यथागदं सत्
निदाघदग्धस्य यथा हिमाम्भ: ।
कुदेहमानाहिविदष्टद‍ृष्टे:
ब्रह्मन् वचस्तेऽमृतमौषधं मे ॥ २ ॥

ज्वर आमय आर्तस्य यथा अगदम् सत् निदाघ-दग्धस्य यथा हिम-अम्भः कु-देह मान अहि विदष्ट दृष्टेः ब्रह्मन् वचः ते अमृतम् औषधम् मे

तस्माद्भ‍वन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥ ३ ॥

तस्मात् भवन्तम् मम संशय-अर्थम् प्रक्ष्यामि पश्चात् अधुना सु-बोधम् अध्यात्म-योग ग्रथितम् तव उक्तम् आख्याहि कौतूहल-चेतसः मे

यदाह योगेश्वर द‍ृश्यमानं
क्रियाफलं सद्‌व्यहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे ॥ ४ ॥

यत् आह योग-ईश्वर दृश्यमानम् क्रिया-फलम् सत् व्यवहार-मूलम् न हि अञ्जसा तत्त्व-विमर्शनाय भवान् अमुष्मिन् भ्रमते मनः मे

ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां
य: पार्थिव: पार्थिव कस्य हेतो: ।
तस्यापि चाङ्‌घ्र्योयोरधि गुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसा: ॥ ५ ॥
अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्ध: ॥ ६ ॥

ब्राह्मणः उवाच अयम् जनः नाम चलन् पृथिव्याम् यः पार्थिवः पार्थिव कस्य हेतोः तस्य अपि च अङ्घ्र्योः अधि गुल्फ जङ्घा जानु उरु मध्योर शिरः-धर अंसाः अंसे अधि दार्वी शिबिका च यस्याम् सौवीर-राजा इति अपदेशः आस्ते यस्मिन् भवान् रूढ निज-अभिमानः राजा अस्मि सिन्धुषु इति दुर्मद-अन्धः

शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्ट: ॥ ७ ॥

शोच्यान् इमान् त्वम् अधि-कष्ट-दीनान् विष्ट्या निगृह्णन् निरनुग्रहः असि जनस्य गोप्ता अस्मि विकत्थमानः न शोभसे वृद्ध-सभासु धृष्टः

यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद् व्यवहारमूलं
निरूप्यतां सत् क्रिययानुमेयम् ॥ ८ ॥

यदा क्षितौ एव चर-अचरस्य विदाम निष्ठाम् प्रभवम् च नित्यम् तत् नामतः अन्यत् व्यवहार-मूलम् निरूप्यताम् सत्-क्रियया अनुमेयम्

एवं निरुक्तं क्षितिशब्दवृत्त-
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेष: ॥ ९ ॥

एवम् निरुक्तम् क्षिति-शब्द वृत्तम् असत् निधानात् परम-अणवः ये अविद्यया मनसा कल्पिताः ते येषाम् समूहेन कृतः विशेषः

एवं कृशं स्थूलमणुर्बृहद्यद्
असच्च सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥ १० ॥

एवम् कृशम् स्थूलम् अणुः बृहत् यत् असत् च सत् जीवम् अजीवम् अन्यत् द्रव्य स्व-भाव आशय काल कर्म नाम्ना अजया अवेहि कृतम् द्वितीयम्

ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥

ज्ञानम् विशुद्धम् परम-अर्थम् एकम् अनन्तरम् तु अबहिः ब्रह्म सत्यम् प्रत्यक् प्रशान्तम् भगवत्-शब्द-संज्ञम् यत् वासुदेवम् कवयः वदन्ति

रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद् गृहाद्वा ।
नच्छन्दसा नैव जलाग्निसूर्यै-
र्विना महत्पादरजोऽभिषेकम् ॥ १२ ॥

रहूगण एतत् तपसा न याति न च इज्यया निर्वपणात् गृहात् वा न छन्दसा न एव जल-अग्नि-सूर्यैः विना महत् पाद-रजः अभिषेकम्

यत्रोत्तमश्लोकगुणानुवाद:
प्रस्तूयते ग्राम्यकथाविघात: ।
निषेव्यमाणोऽनुदिनं मुमुक्षो-
र्मतिं सतीं यच्छति वासुदेवे ॥ १३ ॥

यत्र उत्तम-श्लोक-गुण-अनुवादः प्रस्तूयते ग्राम्य-कथा-विघातः निषेव्यमाणः अनुदिनम् मुमुक्षोः मतिम् सतीम् यच्छति वासुदेवे

अहं पुरा भरतो नाम राजा
विमुक्तद‍ृष्टश्रुतसङ्गबन्ध: ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थ: ॥ १४ ॥

अहम् पुरा भरतः नाम राजा विमुक्त दृष्ट-श्रुत सङ्ग-बन्धः आराधनम् भगवतः ईहमानः मृगः अभवम् मृग-सङ्गात् हत-अर्थः

सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥ १५ ॥

सा माम् स्मृतिः मृग-देहे अपि वीर कृष्ण-अर्चन-प्रभवा नो जहाति अथो अहम् जन-सङ्गात् असङ्गः विशङ्कमानः अविवृतः चरामि

तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोह: ।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वन: ॥ १६ ॥

तस्मात् नरः असङ्ग सु-सङ्ग जात ज्ञान-असिना इह एव विवृक्ण-मोहः हरिम् तद्-ईहा कथन-श्रुताभ्याम् लब्ध-स्मृतिः याति अतिपारम् अध्वनः

५.१३

ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तम:सत्त्वविभक्तकर्मद‍ृक् ।
स एष सार्थोऽर्थपर: परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥ १ ॥

ब्राह्मणः उवाच दुरत्यये अध्वनि अजया निवेशितः रजः-तमः-सत्त्व-विभक्त-कर्म-दृक् सः एषः स-अर्थः अर्थ-परः परिभ्रमन् भव-अटवीम् याति न शर्म विन्दति

यस्यामिमे षण्नरदेव दस्यव:
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृका: ॥ २ ॥

यस्याम् इमे षट् नर-देव दस्यवः स-अर्थम् विलुम्पन्ति कु-नायकम् बलात् गोमायवः यत्र हरन्ति स-अर्थिकम् प्रमत्तम् आविश्य यथा उरणम् वृकाः

प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुत: ।
क्‍वचित्तु गन्धर्वपुरं प्रपश्यति
क्‍वचित्‍क्‍वचिच्चाशुरयोल्मुकग्रहम् ॥ ३ ॥

प्रभूत वीरुत् तृण गुल्म गह्वरे कठोर दंशैः मशकैः उपद्रुतः क्वचित् तु गन्धर्व-पुरम् प्रपश्यति क्वचित् क्वचित् च आशु-रय उल्मुक ग्रहम्

निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम् ।
क्‍वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्ष: ॥ ४ ॥

निवास तोय द्रविण आत्म-बुद्धिः ततः ततः धावति भोः अटव्याम् क्वचित् च वात्या उत्थित पांसु धूम्राः दिशः न जानाति रजः-वल-अक्षः

अद‍ृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्‍वचित् ॥ ५ ॥

अदृश्य झिल्ली स्वन कर्ण-शूल उलूक वाग्भिः व्यथित अन्तः-आत्मा अपुण्य-वृक्षान् श्रयते क्षुध अर्दितः मरीचि-तोयानि अभिधावति क्वचित्

क्‍वचिद्वितोया: सरितोऽभियाति
परस्परं चालषते निरन्ध: ।
आसाद्य दावं क्‍वचिदग्नितप्तो
निर्विद्यते क्‍व च यक्षैर्हृतासु: ॥ ६ ॥

क्वचित् वितोयाः सरितः अभियाति परस्परम् च आलषते निरन्धः आसाद्य दावम् क्वचित् अग्नि-तप्तः निर्विद्यते क्व च यक्षैः हृत असुः

शूरैर्हृतस्व: क्‍व च निर्विण्णचेता:
शोचन् विमुह्यन्नुपयाति कश्मलम् ।
क्‍वचिच्च गन्धर्वपुरं प्रविष्ट:
प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७ ॥

शूरैः हृत-स्वः क्व च निर्विण्ण-चेताः शोचन् विमुह्यन् उपयाति कश्मलम् क्वचित् च गन्धर्व-पुरम् प्रविष्टः प्रमोदते निर्वृत-वत् मुहूर्तम्

चलन् क्‍वचित्कण्टकशर्कराङ्‌घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दित:
कौटुम्बिक: क्रुध्यति वै जनाय ॥ ८ ॥

चलन् क्वचित् कण्टक-शर्कर अङ्घ्रिः नग आरुरुक्षुः विमनाः इव आस्ते पदे पदे अभ्यन्तर वह्निना अर्दितः कौटुम्बिकः क्रुध्यति वै जनाय

क्‍वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्ध: ।
दष्ट: स्म शेते क्‍व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९ ॥

क्वचित् निगीर्णः अजगर-अहिना जनः न अवैति किञ्चित् विपिने अपविद्धः दष्टः स्म शेते क्व च दन्द-शूकैः अन्धः अन्ध-कूपे पतितः तमिस्रे

कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमान: ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १० ॥

कर्हि स्म चित् क्षुद्र रसान् विचिन्वन् तत् मक्षिकाभिः व्यथितः विमानः तत्र अति कृच्छ्रात् प्रतिलब्धमानः बलात् विलुम्पन्ति अथ तम् ततः अन्ये

क्‍वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्‍वचिन्मिथो विपणन् यच्च किञ्चिद्
विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११ ॥

क्वचित् च शीत-आतप-वात-वर्ष प्रतिक्रियाम् कर्तुम् अनीशः आस्ते क्वचित् मिथः विपणन् यत् च किञ्चित् विद्वेषम् ऋच्छति उत वित्त-शाठ्यात्

क्‍वचित्‍क्‍वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीन: ।
याचन् परादप्रतिलब्धकाम:
पारक्यद‍ृष्टिर्लभतेऽवमानम् ॥ १२ ॥

क्वचित् क्वचित् क्षीण-धनः तु तस्मिन् शय्या आसन स्थान विहार हीनः याचन् परात् अप्रतिलब्ध-कामः पारक्य-दृष्टिः लभते अवमानम्

अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन्मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्न: ॥ १३ ॥

अन्योन्य वित्त-व्यतिषङ्ग वृद्ध वैर-अनुबन्धः विवहन् मिथः च अध्वनि अमुष्मिन् उरु-कृच्छ्र वित्त-बाध उपसर्गैः विहरन् विपन्नः

तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थ: ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वन: पारमुपैति योगम् ॥ १४ ॥

तान् तान् विपन्नान् सः हि तत्र तत्र विहाय जातम् परिगृह्य स-अर्थः आवर्तते अद्य अपि न कश्चित् अत्र वीर अध्वनः पारम् उपैति योगम्

मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैरा: ।
मृधे शयीरन्न तु तद्‌व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५ ॥

मनस्विनः निर्जित-दिक्-गजेन्द्राः मम इति सर्वे भुवि बद्ध-वैराः मृधे शयीरन् न तु तत् व्रजन्ति यत् न्यस्त-दण्डः गत-वैरः अभियाति

प्रसज्जति क्‍वापि लताभुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृह: ।
क्‍वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रै: ॥ १६ ॥

प्रसज्जति क्वापि लता-भुज-आश्रयः तत्-आश्रय अव्यक्त-पद द्विज-स्पृहः क्वचित् कदाचित् हरि-चक्रतः त्रसन् सख्यम् विधत्ते बक-कङ्क-गृध्रैः

तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रिय:
परस्परोद्वीक्षणविस्मृतावधि: ॥ १७ ॥

तैः वञ्चितः हंस-कुलम् समाविशन् अरोचयन् शीलम् उपैति वानरान् तत्-जाति-रासेन सुनिर्वृत-इन्द्रियः परस्पर उद्वीक्षण विस्मृत अवधिः

द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवश: स्वबन्धने ।
क्‍वचित्प्रमादाद् गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थित: ॥ १८ ॥

द्रुमेषु रंस्यन् सुत-दार-वत्सलः व्यवाय-दीनः विवशः स्व-बन्धने क्वचित् प्रमादात् गिरि-कन्दरे पतन् वल्लीम् गृहीत्वा गज-भीतः आस्थितः

अत: कथञ्चित्स विमुक्त आपद:
पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९ ॥

अतः कथञ्चित् सः विमुक्तः आपदः पुनः च स-अर्थम् प्रविशति अरिम्-दम अध्वनि अमुष्मिन् अजया निवेशितः भ्रमन् जनः अद्य अपि न वेद कश्चन

रहूगण त्वमपि ह्यध्वनोऽस्य
सन्न्यस्तदण्ड: कृतभूतमैत्र: ।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥ २० ॥

रहूगण त्वम् अपि हि अध्वनः अस्य सन्न्यस्त-दण्डः कृत-भूत-मैत्रः असत्-जित-आत्मा हरि-सेवया शितम् ज्ञान-असिम् आदाय तर अति-पारम्

राजोवाच
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्‌धृषीकेशयश:कृतात्मनां
महात्मनां व: प्रचुर: समागम: ॥ २१ ॥

राजा उवाच अहो नृ-जन्म अखिल-जन्म-शोभनम् किम् जन्मभिः तु अपरैः अपि अमुष्मिन् न यत् हृषीकेश-यशः कृत-आत्मनाम् महा-आत्मनाम् वः प्रचुरः समागमः

न ह्यद्भ‍ुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेक: ॥ २२ ॥

न हि अद्भुतम् त्वत्-चरण-अब्ज-रेणुभिः हत-अंहसः भक्तिः अधोक्षजे अमला मौहूर्तिकात् यस्य समागमात् च मे दुस्तर्क मूलः अपहतः अविवेकः

नमो महद्‍भ्योऽस्तु नम: शिशुभ्यो
नमो युवभ्यो नम आवटुभ्य: ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्य: शिवमस्तु राज्ञाम् ॥ २३ ॥

नमः महद्भ्यः अस्तु नमः शिशुभ्यः नमः युवभ्यः नमः आ-वटुभ्यः ये ब्राह्मणाः गाम् अवधूत-लिङ्गाः चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम्

श्रीशुक उवाच
इत्येवमुत्तरामात: स वै ब्रह्मर्षिसुत: सिन्धुपतय आत्मसतत्त्वं विगणयत: परानुभाव:
परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दित चरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥ २४ ॥

श्री-शुकः उवाच इति एवम् उत्तरा-मातः सः वै ब्रह्म-ऋषि-सुतः सिन्धु-पतये आत्म-स-तत्त्वम् विगणयतः पर-अनुभावः परम-कारुणिकतया उपदिश्य रहूगणेन स-करुणम् अभिवन्दित-चरणः आपूर्ण-अर्णवः इव निभृत करण ऊर्मि आशयः धरणिम् इमाम् विचचार

सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज ।
एवं हि नृप भगवदाश्रिताश्रितानुभाव: ॥ २५ ॥

सौवीर-पतिः अपि सु-जन समवगत परमात्म-स-तत्त्वः आत्मनि अविद्या अध्यारोपिताम् च देह आत्म-मतिम् विससर्ज एवम् हि नृप भगवत्-आश्रित-आश्रित-अनुभावः

राजोवाच
यो ह वा इह बहुविदा महाभागवत त्वयाभिहित: परोक्षेण वचसा जीवलोकभवाध्वा स
ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगम: ।
अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन
निर्दिश्यतामिति ॥ २६ ॥

राजा उवाच यः ह वा इह बहु-विदा महा-भागवत त्वया अभिहितः परोक्षेण वचसा जीव-लोक-भव-अध्वा सः हि आर्य-मनीषया कल्पित-विषयः न अञ्जसा अव्युत्पन्न-लोक समधिगमः अथ तत् एव एतत् दुरवगमम् समवेत-अनुकल्पेन निर्दिश्यताम् इति

५.१४

स होवाच
स एष देहात्ममानिनां
सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य
द्वारभूतेनषडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो
विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपर: स्वदेहनिष्पादितकर्मानुभव:
श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं
हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे ॥ १ ॥

सः ह उवाच सः एषः देह-आत्म-मानिनाम् सत्त्व-आदि गुण विशेष विकल्पित कुशल अकुशल समवहार विनिर्मित विविध देह-आवलिभिः वियोग-संयोग-आदि अनादि-संसार-अनुभवस्य द्वार-भूतेन षट्-इन्द्रिय-वर्गेण तस्मिन् दुर्ग-अध्व-वत् असुगमे अध्वनि आपतितः ईश्वरस्य भगवतः विष्णोः वश-वर्तिन्या मायया जीव-लोकः अयम् यथा वणिक् स-अर्थः अर्थ-परः स्व-देह-निष्पादित कर्म अनुभवः श्मशान-वत् अशिवतमायाम् संसार-अटव्याम् गतः न अद्य अपि विफल बहु-प्रतियोग ईहः तत्-ताप-उपश-मनीम् हरि-गुरु-चरण-अरविन्द मधुकर-अनुपदवीम् अवरुन्धे

यस्यामु ह वा एते षडिन्द्रियनामान: कर्मणा दस्यव एव ते ।
तद्यथा पुरुषस्य धनं
यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु
साम्पराय उदाहरन्ति ।
तद्धर्म्यं धनं
दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा
सार्थस्य विलुम्पन्ति ॥ २ ॥

यस्याम् उ ह वा एते षट्-इन्द्रिय-नामानः कर्मणा दस्यवः एव ते तत् यथा पुरुषस्य धनम् यत् किञ्चित् धर्म-औपयिकम् बहु-कृच्छ्र-अधिगतम् साक्षात् परम-पुरुष-आराधन-लक्षणः यः असौ धर्मः तम् तु साम्पराये उदाहरन्ति तत्-धर्म्यम् धनम् दर्शन स्पर्शन श्रवण आस्वादन अवघ्राण सङ्कल्प व्यवसाय गृह ग्राम्य-उपभोगेन कुनाथस्य अजित-आत्मनः यथा सार्थस्य विलुम्पन्ति

अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य
कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥ ३ ॥

अथ च यत्र कौटुम्बिकाः दार-अपत्य-आदयः नाम्ना कर्मणा वृक-सृगालाः एव अनिच्छतः अपि कदर्यस्य कुटुम्बिनः उरणक-वत् संरक्ष्यमाणम् मिषतः अपि हरन्ति

यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भ‍िर्गह्वरमिव भवत्येवमेव
गृहाश्रम: कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथ: ॥ ४ ॥

यथा हि अनुवत्सरम् कृष्यमाणम् अपि अदग्ध-बीजम् क्षेत्रम् पुनः एव आवपन-काले गुल्म तृण वीरुद्भिः गह्वरम् इव भवति एवम् एव गृह-आश्रमः कर्म-क्षेत्रम् यस्मिन् न हि कर्माणि उत्सीदन्ति यत् अयम् काम-करण्डः एषः आवसथः

तत्रगतो दंशमशकसमापसदैर्मनुजै: शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहि:प्राण: क्‍वचित्
परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमु
पपन्नमिति मिथ्याद‍ृष्टिरनुपश्यति ॥ ५ ॥

तत्र गतः दंश मशक सम अपसदैः मनु-जैः शलभ शकुन्त तस्कर मूषक-आदिभिः उपरुध्यमान बहिः-प्राणः क्वचित् परिवर्तमानः अस्मिन् अध्वनि अविद्या-काम कर्मभिः उपरक्त-मनसा अनुपपन्न-अर्थम् नर-लोकम् गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिः अनुपश्यति

तत्र च क्‍वचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुप: ॥ ६ ॥

तत्र च क्वचित् आतप-उदक-निभान् विषयान् उपधावति पान भोजन व्यवाय आदि व्यसन लोलुपः

क्‍वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमति: सुवर्णमुपादित्सत्यग्निकामकातर
इवोल्मुकपिशाचम् ॥ ७ ॥

क्वचित् च अशेष दोष निषदनम् पुरीष विशेषम् तत्-वर्ण-गुण निर्मित-मतिः सुवर्णम् उपादित्सति अग्नि-काम कातरः इव उल्मुक-पिशाचम्

अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्तत:
परिधावति ॥ ८ ॥

अथ कदाचित् निवास पानीय द्रविण आदि अनेक आत्म-उपजीवन अभिनिवेशः एतस्याम् संसार-अटव्याम् इतः ततः परिधावति

क्‍वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो
रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९ ॥

क्वचित् च वात्या औपम्यया प्रमदया आरोहम् आरोपितः तत्-काल-रजसा रजनी-भूतः इव असाधु-मर्यादः रजः-वल-अक्षः अपि दिक्-देवताः अतिरजः-वल-मतिः न विजानाति

क्‍वचित्सकृदवगतविषयवैतथ्य: स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥ १० ॥

क्वचित् सकृत् अवगत-विषय-वैतथ्यः स्वयम् पर-अभिध्यानेन विभ्रंशित स्मृतिः तया एव मरीचि-तोय प्रायान् तान् एव अभिधावति

क्‍वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा
रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदय: ॥ ११ ॥

क्वचित् उलूक झिल्ली स्वन-वत् अति-परुष रभस आटोपम् प्रत्यक्षम् परोक्षम् वा रिपु राज-कुल निर्भर्त्सितेन अति-व्यथित कर्ण-मूल-हृदयः

स यदा दुग्धपूर्वसुकृतस्तदा
कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणान्जीवन्मृतान् स्वयं
जीवन्म्रियमाण उपधावति ॥ १२ ॥

सः यदा दुग्ध पूर्व सुकृतः तदा कारस्कर-काकतुण्ड-आदि अपुण्य-द्रुम-लता विष-उद-पान-वत् उभय-अर्थ-शून्य द्रविणान् जीवत्-मृतान् स्वयम् जीवत् म्रियमाणः उपधावति

एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोत:स्खलनवद् उभयतोऽपि दु:खदं पाखण्डमभियाति ॥ १३ ॥

एकदा असत्-प्रसङ्गात् निकृत-मतिः व्युदक-स्रोतः स्खलन-वत् उभयतः अपि दुःख-दम् पाखण्डम् अभियाति

यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मत: पितृपुत्रान् वा स खलु
भक्षयति ॥ १४ ॥

यदा तु पर-बाधया अन्धः आत्मने न उपनमति तदा हि पितृ-पुत्र बर्हिष्मतः पितृ-पुत्रान् वा सः खलु भक्षयति

क्‍वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति
॥ १५ ॥

क्वचित् आसाद्य गृहम् दाव-वत् प्रिय-अर्थ-विधुरम् असुख-उदर्कम् शोक-अग्निना दह्यमानः भृशम् निर्वेदम् उपगच्छति

क्‍वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासु: प्रमृतक इव विगतजीवलक्षण आस्ते ॥ १६ ॥

क्वचित् काल-विष-मित राज-कुल रक्षसा अपहृत प्रिय-तम धन असुः प्रमृतकः इव विगत-जीव-लक्षणः आस्ते

कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७ ॥

कदाचित् मनोरथ-उपगत पितृ पिता-मह-आदि असत् सत् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति

क्‍वचिद् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमना: कण्टकशर्कराक्षेत्रं
प्रविशन्निव सीदति ॥ १८ ॥

क्वचित् गृह-आश्रम कर्म-चोदन अति-भर-गिरिम् आरुरुक्षमाणः लोक व्यसन कर्षित-मनाः कण्टक-शर्करा-क्षेत्रम् प्रविशन् इव सीदति

क्‍वचिच्च दु:सहेन कायाभ्यन्तरवह्निना गृहीतसार: स्वकुटुम्बाय क्रुध्यति ॥ १९ ॥

क्वचित् च दुःसहेन काय-अभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति

स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्न: शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव
इवापविद्ध: ॥ २० ॥

सः एव पुनः निद्रा-अजगर गृहीतः अन्धे तमसि मग्नः शून्य-अरण्ये इव शेते न अन्यत् किञ्चन वेद शवः इव अपविद्धः

कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो
व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१ ॥

कदाचित् भग्न-मान-दंष्ट्रः दुर्जन-दन्द-शूकैः अलब्ध-निद्रा-क्षणः व्यथित-हृदयेन अनुक्षीयमाण विज्ञानः अन्ध-कूपे अन्ध-वत् पतति

कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा
निहत: पतत्यपारे निरये ॥ २२ ॥

कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार पर-द्रव्याणि अवरुन्धानः राज्ञा स्वामिभिः वा निहतः पतति अपारे निरये

अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मन: संसारावपनमुदाहरन्ति ॥ २३ ॥

अथ च तस्मात् उभयथा अपि हि कर्म अस्मिन् आत्मनः संसार आवपनम् उदाहरन्ति

मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थिति: ॥ २४ ॥

मुक्तः ततः यदि बन्धात् देव-दत्तः उपाच्छिनत्ति तस्मात् अपि विष्णु-मित्रः इति अनवस्थितिः

क्‍वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया
विषण्ण आस्ते ॥ २५ ॥

क्वचित् च शीत-वात-आदि अनेक अधिदैविक भौतिक आत्मीयानाम् दशानाम् प्रतिनिवारणे अकल्पः दुरन्त चिन्तया विषण्णः आस्ते

क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा
विद्वेषमेति वित्तशाठ्यात् ॥ २६ ॥

क्वचित् मिथः व्यवहरन् यत् किञ्चित् धनम् अन्येभ्यः वा काकिणिका-मात्रम् अपि अपहरन् यत् किञ्चित् वा विद्वेषम् एति वित्त-शाठ्यात्

अध्वन्यमुष्मिन्निम उपसर्गास्तथा
सुखदु:खरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादय:
॥ २७ ॥

अध्वनि अमुष्मिन् इमे उपसर्गाः तथा सुख दुःख राग द्वेष भय अभिमान प्रमाद उन्माद शोक मोह लोभ मात्सर्य ईर्ष्य अवमान क्षुत् पिपासा आधि व्याधि जन्म जरा मरण आदयः

क्‍वापि देवमायया स्त्रिया भुजलतोपगूढ: प्रस्कन्नविवेकविज्ञानो
यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय
आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८ ॥

क्वापि देव-मायया स्त्रिया भुज-लता उपगूढः प्रस्कन्न विवेक विज्ञानः यत्-विहार गृह-आरम्भ आकुल-हृदयः तत् आश्रय-अवसक्त सुत दुहितृ कलत्र भाषित-अवलोक विचेष्टित अपहृत-हृदयः आत्मानम् अजित आत्मा अपारे अन्धे तमसि प्रहिणोति

कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन
वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं
कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनाद‍ृत्य पाखण्डदेवता: कङ्कगृध्रबकवटप्राया
आर्यसमयपरिहृता: साङ्केत्येनाभिधत्ते ॥ २९ ॥

कदाचित् ईश्वरस्य भगवतः विष्णोः चक्रात् परमाणु-आदि द्वि-परार्ध अपवर्ग काल उपलक्षणात् परिवर्तितेन वयसा रंहसा हरतः आ-ब्रह्म तृण-स्तम्ब-आदीनाम् भूतानाम् अनिमिषतः मिषताम् वित्रस्त-हृदयः तम् एव ईश्वरम् काल-चक्र-निज-आयुधम् साक्षात् भगवन्तम् यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क गृध्र बक वट-प्रायाः आर्य-समय-परिहृताः साङ्केत्येन अभिधत्ते

यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां
शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते
निगमाचारेऽशुद्धितो यस्य मिथुनीभाव: कुटुम्बभरणं यथा वानरजाते: ॥ ३० ॥

यदा पाखण्डिभिः आत्म-वञ्चितैः तैः उरु वञ्चितः ब्रह्म-कुलम् समावसन् तेषाम् शीलम् उपनयन-आदि श्रौत स्मार्त कर्म-अनुष्ठानेन भगवतः यज्ञ-पुरुषस्य आराधनम् एव तत् अरोचयन् शूद्र-कुलम् भजते निगम-आचारे अशुद्धितः यस्य मिथुनी-भावः कुटुम्ब-भरणम् यथा वानर-जातेः

तत्रापि निरवरोध: स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधि: ॥ ३१ ॥

तत्र अपि निरवरोधः स्वैरेण विहरन् अति-कृपण-बुद्धिः अन्योन्य मुख-निरीक्षण-आदिना ग्राम्य-कर्मणा एव विस्मृत काल-अवधिः

क्‍वचिद् द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानर: सुतदारवत्सलो व्यवायक्षण: ॥ ३२ ॥

क्वचित् द्रुम-वत् ऐहिक-अर्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वत्सलः व्यवाय-क्षणः

एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ॥ ३३ ॥

एवम् अध्वनि अवरुन्धानः मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये

क्‍वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दु:खानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण
आस्ते ॥ ३४ ॥

क्वचित् शीत-वात-आदि अनेक दैविक भौतिक आत्मीयानाम् दुःखानाम् प्रतिनिवारणे अकल्पः दुरन्त विषय विषण्णः आस्ते

क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन ॥ ३५ ॥

क्वचित् मिथः व्यवहरन् यत् किञ्चित् धनम् उपयाति वित्त-शाठ्येन

क्‍वचित्क्षीणधन: शय्यासनाशनाद्युपभोगविहीनो
यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ॥ ३६ ॥

क्वचित् क्षीण-धनः शय्या-आसन-अशन-आदि उपभोग विहीनः यावत् अप्रतिलब्ध मनोरथ उपगत आदाने अवसित-मतिः ततः ततः अवमान-आदीनि जनात् अभिलभते

एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ
उद्वहत्यथापवहति ॥ ३७ ॥

एवम् वित्त-व्यतिषङ्ग विवृद्ध वैर-अनुबन्धः अपि पूर्व-वासनया मिथः उद्वहति अथ अपवहति

एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य
जातं जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रदन् संहृष्यन्गायन्नह्यमान: साधुवर्जितो
नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वन: पारमुपदिशन्ति ॥ ३८ ॥

एतस्मिन् संसार अध्वनि नाना क्लेश उपसर्ग बाधितः आपन्न विपन्नः यत्र यः तम् उ ह वाव इतरः तत्र विसृज्य जातम् जातम् उपादाय शोचन् मुह्यन् बिभ्यत् विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधु-वर्जितः न एव आवर्तते अद्य अपि यतः आरब्धः एषः नर-लोक स-अर्थः यम् अध्वनः पारम् उपदिशन्ति

यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मान:
समवगच्छन्ति ॥ ३९ ॥

यत् इदम् योग-अनुशासनम् न वा एतत् अवरुन्धते यत् न्यस्त-दण्डाः मुनयः उपशम-शीलाः उपरत-आत्मानः समवगच्छन्ति

यदपि दिगिभजयिनो यज्विनो ये वै राजर्षय: किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृता: ॥ ४० ॥

यत् अपि दिक्-इभ-जयिनः यज्विनः ये वै राज-ऋषयः किम् तु परम् मृधे शयीरन् अस्याम् एव मम इयम् इति कृत वैर-अनु-बन्धायाम् विसृज्य स्वयम् उपसंहृताः

कर्मवल्लीमवलम्ब्य तत आपद: कथञ्चिन्नरकाद्विमुक्त: पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥ ४१ ॥

कर्म-वल्लीम् अवलम्ब्य ततः आपदः कथञ्चित् नरकात् विमुक्तः पुनः अपि एवम् संसार-अध्वनि वर्तमानः नर-लोक-स-अर्थम् उपयाति एवम् उपरि गतः अपि

तस्येदमुपगायन्ति—
आर्षभस्येह राजर्षेर्मनसापि महात्मन: ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मत: ॥ ४२ ॥

तस्य इदम् उपगायन्ति आर्षभस्य इह राज-ऋषेः मनसा अपि महा-आत्मनः न अनुवर्त्म अर्हति नृपः मक्षिका इव गरुत्मतः

यो दुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृश: ।
जहौ युवैव मलवदुत्तमश्लोकलालस: ॥ ४३ ॥

यः दुस्त्यजान् दार-सुतान् सुहृत् राज्यम् हृदि-स्पृशः जहौ युवा एव मल-वत् उत्तम-श्लोक-लालसः

यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्प्रार्थ्यां श्रियं सुरवरै: सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट-सेवानुरक्तमनसामभवोऽपि फल्गु: ॥ ४४ ॥

यः दुस्त्यजान् क्षिति सुत स्व-जन-अर्थ-दारान् प्रार्थ्याम् श्रियम् सुर-वरैः स-दय-अवलोकाम् न ऐच्छत् नृपः तत्-उचितम् महताम् मधु-द्विट् सेवा-अनुरक्त मनसाम् अभवः अपि फल्गुः

यज्ञाय धर्मपतये विधिनैपुणाययोगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम
इत्युदारंहास्यन्मृगत्वमपि य: समुदाजहार ॥ ४५ ॥

यज्ञाय धर्म-पतये विधि-नैपुणाय योगाय साङ्ख्य-शिरसे प्रकृति-ईश्वराय नारायणाय हरये नमः इति उदारम् हास्यन् मृगत्वम् अपि यः समुदाजहार

य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं
स्वर्ग्यापवर्ग्यं वानुश‍ृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत
इति ॥ ४६ ॥

यः इदम् भागवत सभाजित अवदात गुण कर्मणः राज-ऋषेः भरतस्य अनुचरितम् स्वस्ति-अयनम् आयुष्यम् धन्यम् यशस्यम् स्वर्ग्य अपवर्ग्यम् वा अनुशृणोति आख्यास्यति अभिनन्दति च सर्वाः एव आशिषः आत्मनः आशास्ते न काञ्चन परतः इति

५.१५

श्रीशुक उवाच
भरतस्यात्मज: सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या
अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥

श्री-शुकः उवाच भरतस्य आत्म-जः सुमतिः नाम-अभिहितः यम् उ ह वाव केचित् पाखण्डिनः ऋषभ-पदवीम् अनुवर्तमानम् च अनार्याः अवेद-समाम्नाताम् देवताम् स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति

तस्माद्‍वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २ ॥

तस्मात् वृद्ध-सेनायाम् देवताजित्-नाम पुत्रः अभवत्

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात: ॥
३ ॥

अथ आसुर्याम् तत्-तनयः देव-द्युम्नः ततः धेनु-मत्याम् सुतः परमेष्ठी तस्य सुवर्चलायाम् प्रतीहः उपजातः

य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ॥ ४ ॥

यः आत्म-विद्याम् आख्याय स्वयम् संशुद्धः महा-पुरुषम् अनुसस्मार

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदा: सूनव: प्रतिहर्तु:
स्तुत्यामजभूमानावजनिषाताम् ॥ ५ ॥

प्रतीहात् सुवर्चलायाम् प्रतिहर्तृ-आदयः त्रयः आसन् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमानौ अजनिषाताम्

भूम्न ऋषिकुल्यायामुद्गीथस्तत: प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज
आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्‍द्रुतिपुत्रो गयो राजर्षिप्रवर
उदारश्रवा अजायत साक्षाद्भ‍गवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य
कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्त: ॥ ६ ॥

भूम्नः ऋषि-कुल्यायाम् उद्गीथः ततः प्रस्तावः देव-कुल्यायाम् प्रस्तावात् नियुत्सायाम् हृदय-जः आसीत् विभुः विभोः रत्याम् च पृथु-षेणः तस्मात् नक्तः आकूत्याम् जज्ञे नक्तात् द्रुति-पुत्रः गयः राज-ऋषि-प्रवरः उदार-श्रवाः अजायत साक्षात् भगवतः विष्णोः जगत्-रिरक्-षिषया गृहीत सत्त्वस्य कला-आत्म-वत्त्व-आदि लक्षणेन महा-पुरुषताम् प्राप्तः

स वै स्वधर्मेण प्रजापालन पोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे
परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्‍भक्तियोगेन
चाभीक्ष्णश: परिभावितातिशुद्ध मतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान एवावनिमजूगुपत् ॥ ७ ॥

सः वै स्व-धर्मेण प्रजा-पालन पोषण प्रीणन उपलालन अनुशासन लक्षणेन इज्या-आदिना च भगवति महा-पुरुषे पर-अवरे ब्रह्मणि सर्व-आत्मना अर्पित परम-अर्थ-लक्षणेन ब्रह्म-वित् चरण-अनुसेवया आपादित भगवत्-भक्ति-योगेन च अभीक्ष्णशः परिभावित अति-शुद्ध-मतिः उपरत-अनात्म्ये आत्मनि स्वयम् उपलभ्यमान ब्रह्म-आत्म-अनुभवः अपि निरभिमानः एव अवनिम् अजूगुपत्

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८ ॥

तस्य इमाम् गाथाम् पाण्डवेय पुरा-विदः उपगायन्ति

गयं नृप: क: प्रतियाति कर्मभि-र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्री: सदसस्पति:
सतांसत्सेवकोऽन्यो भगवत्कलामृते ॥ ९ ॥

गयम् नृपः कः प्रतियाति कर्मभिः यज्वा अभिमानी बहु-वित् धर्म-गोप्ता समागत-श्रीः सदसः-पतिः सताम् सत्-सेवकः अन्यः भगवत्-कलाम् ऋते

यमभ्यषिञ्चन् परया मुदा सती:सत्याशिषो दक्षकन्या: सरिद्भ‍ि: ।
यस्य प्रजानां दुदुहे
धराऽऽशिषोनिराशिषो गुणवत्सस्‍नुतोधा: ॥ १० ॥

यम् अभ्यषिञ्चन् परया मुदा सतीः सत्य आशिषः दक्ष-कन्याः सरिद्भिः यस्य प्रजानाम् दुदुहे धरा आशिषः निराशिषः गुण-वत्स-स्नुत-उधाः

छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपा: ।
प्रत्यञ्चिता युधि धर्मेण
विप्रायदाशिषां षष्ठमंशं परेत्य ॥ ११ ॥

छन्दांसि अकामस्य च यस्य कामान् दुदूहुः आजह्रुः अथो बलिम् नृपाः प्रत्यञ्चिताः युधि धर्मेण विप्राः यदा आशिषाम् षष्ठम् अंशम् परेत्य

यस्याध्वरे भगवानध्वरात्मामघोनि माद्यत्युरुसोमपीथे ।
श्रद्धाविशुद्धाचलभक्तियोग-समर्पितेज्याफलमाजहार ॥ १२ ॥

यस्य अध्वरे भगवान् अध्वर-आत्मा मघोनि माद्यति उरु सोम-पीथे श्रद्धा विशुद्ध अचल भक्ति-योग समर्पित इज्या फलम् आजहार

यत्प्रीणनाद्ब‍‌र्हिषि देवतिर्यङ्-मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्य: स ह
विश्वजीव:प्रीत: स्वयं प्रीतिमगाद्गयस्य ॥ १३ ॥

यत्-प्रीणनात् बर्हिषि देव-तिर्यक् मनुष्य वीरुत् तृणम् आ-विरिञ्चात् प्रीयेत सद्यः सः ह विश्व-जीवः प्रीतः स्वयम् प्रीतिम् अगात् गयस्य

गयाद्गयन्त्यां चित्ररथ: सुगतिरवरोधन इति त्रय: पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट
तत उत्कलायां मरीचिर्मरीचे ॥ १४ ॥
र्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधो: सुमनसि वीरव्रतस्ततो
भोजायां मन्थुप्रमन्थू जज्ञाते मन्थो: सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट
त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ॥ १५


गयात् गयन्त्याम् चित्र-रथः सुगतिः अवरोधनः इति त्रयः पुत्राः बभूवुः चित्ररथात् ऊर्णायाम् सम्राट् अजनिष्ट ततः उत्कलायाम् मरीचिः मरीचेः बिन्दु-मत्याम् बिन्दुम् आनुदपद्यत तस्मात् सरघायाम् मधुः नाम अभवत् मधोः सुमनसि वीर-व्रतः ततः भोजायाम् मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायाम् भौवनः ततः दूषणायाम् त्वष्टा अजनिष्ट त्वष्टुः विरोचनायाम् विरजः विरजस्य शतजित्-प्रवरम् पुत्र-शतम् कन्या च विषूच्याम् किल जातम्

तत्रायं श्लोक:—
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भ‍व: ।
अकरोदत्यलं कीर्त्या विष्णु: सुरगणं यथा ॥ १६ ॥

तत्र अयम् श्लोकः प्रैयव्रतम् वंशम् इमम् विरजः चरम-उद्भवः अकरोत् अति-अलम् कीर्त्या विष्णुः सुर-गणम् यथा

५.१६

राजोवाच
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह
द‍ृश्यते ॥ १ ॥

राजा उवाच उक्तः त्वया भू-मण्डल आयाम-विशेषः यावत् आदित्यः तपति यत्र च असौ ज्योतिषाम् गणैः चन्द्रमा वा सह दृश्यते

तत्रापि प्रियव्रतरथचरणपरिखातै: सप्तभि: सप्त सिन्धव उपक्‍ल‍ृप्ता यत एतस्या:
सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥ २ ॥

तत्र अपि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धवः उपकॢप्ताः यतः एतस्याः सप्त-द्वीप विशेष-विकल्पः त्वया भगवन् खलु सूचितः एतत् एव अखिलम् अहम् मानतः लक्षणतः च सर्वम् विजिज्ञासामि

भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति
वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयितुमिति ॥ ३ ॥

भगवतः गुण-मये स्थूल-रूपे आवेशितम् मनः हि अगुणे अपि सूक्ष्मतमे आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेव-आख्ये क्षमम् आवेशितुम् तत् उ ह एतत् गुरो अर्हसि अनुवर्णयितुम् इति

ऋषिरुवाच
न वै महाराज भगवतो मायागुणविभूते: काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि
पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूप मानलक्षणतो व्याख्यास्याम: ॥ ४ ॥

ऋषिः उवाच न वै महा-राज भगवतः माया-गुण-विभूतेः काष्ठाम् मनसा वचसा वा अधिगन्तुम् अलम् विबुध-आयुषा अपि पुरुषः तस्मात् प्राधान्येन एव भू-गोलक-विशेषम् नाम-रूप मान लक्षणतः व्याख्यास्यामः

यो वायं द्वीप: कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजन विशाल: समवर्तुलो यथा पुष्करपत्रम् ॥
५ ॥

यः वा अयम् द्वीपः कुवलय कमल-कोश अभ्यन्तर कोशः नियुत-योजन-विशालः समवर्तुलः यथा पुष्कर-पत्रम्

यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभि: सुविभक्तानि भवन्ति ॥ ६ ॥

यस्मिन् नव वर्षाणि नव-योजन-सहस्र आयामानि अष्टभिः मर्यादा गिरिभिः सुविभक्तानि भवन्ति

एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थित: सर्वत: सौवर्ण: कुलगिरिराजो
मेरुर्द्वीपायामसमुन्नाह: कर्णिकाभूत: कुवलयकमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले
षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्ट: ॥ ७ ॥

एषाम् मध्ये इलावृतम् नाम अभ्यन्तर-वर्षम् यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजः मेरुः द्वीप-आयाम-समुन्नाहः कर्णिका-भूतः कुवलय कमलस्य मूर्धनि द्वा-त्रिंशत् सहस्र योजन विततः मूले षोडश-सहस्रम् तावत् आन्तः-भूम्याम् प्रविष्टः

उत्तरोत्तरेणेलावृतं नील: श्‍वेत: श‍ृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरय:
प्रागायता उभयत: क्षारोदावधयो द्विसहस्रपृथव एकैकश: पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो
दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ ८ ॥

उत्तर-उत्तरेण इलावृतम् नीलः श्वेतः शृङ्गवान् इति त्रयः रम्यक हिरण्मय कुरूणाम् वर्षाणाम् मर्यादा-गिरयः प्राक्-आयताः उभयतः क्षारोद अवधयः द्वि-सहस्र-पृथवः एक-एकशः पूर्वस्मात् पूर्वस्मात् उत्तरः उत्तरः दश-अंश-अधिक-अंशेन दैर्घ्यः एव ह्रसन्ति

एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा
नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९ ॥

एवम् दक्षिणेन इलावृतम् निषधः हेम-कूटः हिमालयः इति प्राक्-आयताः यथा नील-आदयः अयुत-योजन-उत्सेधाः हरि-वर्ष किम्पुरुष भारतानाम् यथा-सङ्ख्यम्

तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतु:
केतुमालभद्राश्वयो: सीमानं विदधाते ॥ १० ॥

तथा एव इलावृतम् अपरेण पूर्वेण च माल्यवद्-गन्ध-मादनौ आ-नील-निषध-आयतौ द्वि-सहस्रम् पप्रथतुः केतुमाल-भद्राश्वयोः सीमानम् विदधाते

मन्दरो मेरुमन्दर: सुपार्श्व: कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय
उपक्‍ल‍ृप्ता: ॥ ११ ॥

मन्दरः मेरु-मन्दरः सुपार्श्वः कुमुदः इति अयुत-योजन-विस्तार-उन्नाहाः मेरोः चतुः-दिशम् अवष्टम्भ-गिरयः उपकॢप्ताः

चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वार: पादप प्रवरा: पर्वतकेतव
इवाधिसहस्रयोजनोन्नाहास्तावद् विटपविततय: शतयोजनपरिणाहा: ॥ १२ ॥

चतुर्षु एतेषु चूत-जम्बू-कदम्ब न्यग्रोधाः चत्वारः पादप-प्रवराः पर्वत-केतवः इव अधि सहस्र-योजन-उन्नाहाः तावत् विटप-विततयः शत-योजन परिणाहाः

ह्रदाश्चत्वार: पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि
भरतर्षभ धारयन्ति ॥ १३ ॥ देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं
सर्वतोभद्रमिति ॥ १४ ॥

ह्रदाः चत्वारः पयः मधु इक्षु-रस मृष्ट-जलाः यत् उपस्पर्शिनः उपदेव-गणाः योग-ऐश्वर्याणि स्वाभाविकानि भरत-ऋषभ धारयन्ति देव-उद्यानानि च भवन्ति चत्वारि नन्दनम् चैत्र-रथम् वैभ्राजकम् सर्वतः-भद्रम् इति

येष्वमर परिवृढा: सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमान: किल विहरन्ति ॥ १५


येषु अमर-परिवृढाः सह सुर-ललना ललाम यूथ-पतयः उपदेव-गणैः उपगीयमान महिमानः किल विहरन्ति

मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति ॥
१६ ॥

मन्दर-उत्सङ्गे एकादश-शत-योजन-उत्तुङ्ग देवचूत-शिरसः गिरि-शिखर-स्थूलानि फलानि अमृत-कल्पानि पतन्ति

तेषां विशीर्यमाणानामतिमधुरसुरभिसुगन्धि बहुलारुणरसोदेनारुणोदा नाम नदी
मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ॥ १७ ॥

तेषाम् विशीर्यमाणानाम् अति-मधुर सुरभि सुगन्धि बहुल अरुण-रस-उदेन अरुणोदा नाम नदी मन्दर-गिरि-शिखरात् निपतन्ती पूर्वेण इलावृतम् उपप्लावयति

यदुपजोषणाद्भ‍वान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति ॥
१८ ॥

यत् उपजोषणात् भवान्याः अनुचरीणाम् पुण्य-जन-वधूनाम् अवयव स्पर्श सुगन्ध-वातः दश-योजनम् समन्तात् अनुवासयति

एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बू नाम नदी
मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति ॥ १९ ॥

एवम् जम्बू-फलानाम् अति-उच्च-निपात विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानाम् रसेन जम्बू नाम नदी मेरु-मन्दर-शिखरात् अयुत-योजनात् अवनि-तले निपतन्ती दक्षिणेन आत्मानम् यावत् इलावृतम् उपस्यन्दयति

तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं
जाम्बूनदं नाम सुवर्णं भवति ॥ २० ॥
यदु ह वाव विबुधादय: सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥ २१ ॥

तावत् उभयोः अपि रोधसोः या मृत्तिका तत्-रसेन अनुविध्यमाना वायु-अर्क-संयोग-विपाकेन सदा अमर-लोक-आभरणम् जाम्बू-नदम् नाम सुवर्णम् भवति यत् उ ह वाव विबुध-आदयः सह युवतिभिः मुकुट कटक कटि-सूत्र आदि आभरण रूपेण खलु धारयन्ति

यस्तु महाकदम्ब: सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनि:सृता: पञ्चायामपरिणाहा: पञ्च
मधुधारा: सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति ॥ २२ ॥

यः तु महा-कदम्बः सुपार्श्व-निरूढः याः तस्य कोटरेभ्यः विनिःसृताः पञ्च आयाम परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्यः अपरेण आत्मानम् इलावृतम् अनुमोदयन्ति

या ह्युपयुञ्जानानां मुखनिर्वासितो वायु: समन्ताच्छतयोजनमनुवासयति ॥ २३ ॥

याः हि उपयुञ्जानानाम् मुख-निर्वासितः वायुः समन्तात् शत-योजनम् अनुवासयति

एवं कुमुदनिरूढो य: शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीना:
पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादय: सर्व एव कामदुघा नदा:
कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥ २४ ॥

एवम् कुमुद-निरूढः यः शत-वल्शः नाम वटः तस्य स्कन्धेभ्यः नीचीनाः पयः दधि मधु घृत गुड अन्न आदि अम्बर शय्या आसन आभरण-आदयः सर्वे एव काम-दुघाः नदाः कुमुद-अग्रात् पतन्तः तम् उत्तरेण इलावृतम् उपयोजयन्ति

यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं
सुखं निरतिशयमेव ॥ २५ ॥

यान् उपजुषाणानाम् न कदाचित् अपि प्रजानाम् वली पलित क्लम स्वेद दौर्गन्ध्य जरा आमय मृत्यु शीत उष्ण वैवर्ण्य उपसर्ग आदयः ताप विशेषाः भवन्ति यावत् जीवम् सुखम् निरतिशयम् एव

कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधिहंसऋषभनागकालञ्जरनारदादयो
विंशतिगिरयो मेरो: कर्णिकाया इव केसरभूता मूलदेशे परित उपक्‍ल‍ृप्ता: ॥ २६ ॥

कुरङ्ग कुरर कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारद आदयः विंशति-गिरयः मेरोः कर्णिकायाः इव केसर-भूताः मूल-देशे परितः उपकॢप्ताः

जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवत: ।
एवमपरेण
पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिश‍ृङ्गमकरावष्टभिरेतै:
परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरि: ॥ २७ ॥

जठर-देवकूटौ मेरुम् पूर्वेण अष्टादश-योजन-सहस्रम् उदगायतौ द्वि-सहस्रम् पृथु-तुङ्गौ भवतः एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राक्-आयतौ एवम् उत्तरतः त्रिशृङ्ग-मकरौ अष्टभिः एतैः परिसृतः अग्निः इव परितः चकास्ति काञ्चन-गिरिः

मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपक्‍ल‍ृप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं
वदन्ति ॥ २८ ॥

मेरोः मूर्धनि भगवतः आत्म-योनेः मध्यतः उपकॢप्ताम् पुरीम् अयुत-योजन साहस्रीम् सम-चतुरस्राम् शात-कौम्भीम् वदन्ति

तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्‍ल‍ृप्ता: ॥ २९ ॥

ताम् अनुपरितः लोक-पालानाम् अष्टानाम् यथा-दिशम् यथा-रूपम् तुरीय-मानेन पुरः अष्टौ उपकॢप्ताः

५.१७

श्रीशुक उवाच
तत्र भगवत: साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्त:प्रविष्टा या बाह्यजलधारा
तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला
साक्षाद्भ‍गवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो
मूर्धन्यवततार यत्तद्विष्णुपदमाहु: ॥ १ ॥

श्री-शुकः उवाच तत्र भगवतः साक्षात् यज्ञ-लिङ्गस्य विष्णोः विक्रमतः वाम-पाद अङ्गुष्ठ नख निर्भिन्न ऊर्ध्व अण्ड-कटाह विवरेण अन्तः-प्रविष्टा या बाह्य-जल-धारा तत् चरण-पङ्कज अवनेजन अरुण-किञ्जल्क उपरञ्जिता अखिल-जगत् अघ-मल अपहा उपस्पर्शन अमला साक्षात् भगवत्-पदी इति अनुपलक्षित वचः अभिधीयमाना अति-महता कालेन युग-सहस्र-उपलक्षणेन दिवः मूर्धनि अवततार यत् तत् विष्णु-पदम् आहुः

यत्र ह वाव वीरव्रत औत्तानपादि: परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति
यामनुसवनमुत्कृष्यमाणभगवद्भ‍‌क्‍तियोगेन द‍ृढं क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्‌मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि
परमादरेण शिरसा बिभर्ति ॥ २ ॥

यत्र ह वाव वीर-व्रतः औत्तानपादिः परम-भागवतः अस्मत् कुल-देवता चरण-अरविन्द उदकम् इति याम् अनुसवनम् उत्कृष्यमाण भगवत्-भक्ति-योगेन दृढम् क्लिद्यमान-अन्तः-हृदयः औत्कण्ठ्य विवश अमीलित लोचन युगल कुड्मल विगलित अमल बाष्प-कलया अभिव्यज्यमान रोम-पुलक-कुलकः अधुना अपि परम-आदरेण शिरसा बिभर्ति

तत: सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपसआत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव
सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ॥ ३ ॥

ततः सप्त ऋषयः तत् प्रभाव-अभिज्ञाः याम् ननु तपसः आत्यन्तिकी सिद्धिः एतावती भगवति सर्व-आत्मनि वासुदेवे अनुपरत भक्ति-योग लाभेन एव उपेक्षित अन्य अर्थ-आत्म-गतयः मुक्तिम् इव आगताम् मुमुक्षवः इव स-बहु-मानम् अद्य अपि जटा-जूटैः उद्वहन्ति

ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४


ततः अनेक सहस्र कोटि विमान-अनीक सङ्कुल देव-यानेन अवतरन्ती इन्दु-मण्डलम् आवार्य ब्रह्म-सदने निपतति

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा चक्षुर्भद्रेति ॥ ५ ॥

तत्र चतुर्धा भिद्यमाना चतुर्भिः नामभिः चतुः-दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एव अभिनिविशति सीता-अलकनन्दा चक्षुः भद्रा इति

सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽध: प्रस्रवन्ती गन्धमादनमूर्धसु
पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६ ॥

सीता तु ब्रह्म-सदनात् केसराचल-आदि गिरि शिखरेभ्यः अधः अधः प्रस्रवन्ती गन्धमादन मूर्धसु पतित्वा अन्तरेण भद्राश्व-वर्षम् प्राच्याम् दिशि क्षार-समुद्रम् अभिप्रविशति

एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षु: प्रतीच्यां दिशि सरित्पतिं
प्रविशति ॥ ७ ॥

एवम् माल्यवत्-शिखरात् निष्पतन्ती ततः अनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्याम् दिशि सरित्-पतिम् प्रविशति

भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्‌गिरिशिखरमतिहाय श‍ृङ्गवत:
श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८ ॥

भद्रा च उत्तरतः मेरु-शिरसः निपतिता गिरि-शिखरात् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गात् अवस्यन्दमाना उत्तरान् तु कुरून् अभितः उदीच्याम् दिशि जलधिम् अभिप्रविशति

तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्ब‍हूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा
लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्‍नानार्थं चागच्छत: पुंस:
पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ॥ ९ ॥

तथा एव अलकनन्दा दक्षिणेन ब्रह्म-सदनात् बहूनि गिरि-कूटानि अतिक्रम्य हेमकूटात् हैमकूटानि अति-रभसतर रंहसा लुठयन्ती भारतम् अभिवर्षम् दक्षिणस्याम् दिशि जलधिम् अभिप्रविशति यस्याम् स्नान-अर्थम् च आगच्छतः पुंसः पदे पदे अश्वमेध-राजसूय-आदीनाम् फलम् न दुर्लभम् इति

अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितर: शतश: ॥ १० ॥

अन्ये च नदाः नद्यः च वर्षे वर्षे सन्ति बहुशः मेरु-आदि-गिरि-दुहितरः शतशः

तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥

तत्र अपि भारतम् एव वर्षम् कर्म-क्षेत्रम् अन्यानि अष्ट वर्षाणि स्वर्गिणाम् पुण्य शेष उपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति

एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां
वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भ कलत्राणां तत्र तु
त्रेतायुगसम: कालो वर्तते ॥ १२ ॥

एषु पुरुषाणाम् अयुत पुरुष आयुः-वर्षाणाम् देव-कल्पानाम् नाग-अयुत-प्राणानाम् वज्र-संहनन बल वयः मोद प्रमुदित महा-सौरत मिथुन व्यवाय-अपवर्ग वर्ष धृत-एक-गर्भ कलत्राणाम् तत्र तु त्रेता-युग-समः कालः वर्तते

यत्र ह देवपतय: स्वै: स्वैर्गणनायकैर्विहितमहार्हणा:
सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलता
विटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु
विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु
जलक्रीडादिभिर्विचित्रविनोदै: सुललितसुरसुन्दरीणां
कामकलिलविलासहासलीलावलोकाकृष्टमनोद‍ृष्टय: स्वैरं विहरन्ति ॥ १३ ॥

यत्र ह देव-पतयः स्वैः स्वैः गण-नायकैः विहित महा-अर्हणाः सर्व-ऋतु कुसुम-स्तबक फल किसलय-श्रिया आनम्यमान विटप लता विटपिभिः उपशुम्भमान रुचिर कानन आश्रम-आयतन वर्ष-गिरि-द्रोणीषु तथा च अमल-जल-आशयेषु विकच विविध नव-वनरुह-आमोद मुदित राज-हंस जल-कुक्कुट कारण्डव सारस चक्रवाक-आदिभिः मधुकर-निकर-आकृतिभिः उपकूजितेषु जल-क्रीडा-आदिभिः विचित्र विनोदैः सु-ललित सुर-सुन्दरीणाम् काम कलिल विलास हास लीला-अवलोक आकृष्ट-मनः दृष्टयः स्वैरम् विहरन्ति

नवस्वपि वर्षेषु भगवान्नारायणो महापुरुष: पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि
सन्निधीयते ॥ १४ ॥

नवसु अपि वर्षेषु भगवान् नारायणः महा-पुरुषः पुरुषाणाम् तत्-अनुग्रहाय आत्म-तत्त्व-व्यूहेन आत्मना अद्य अपि सन्निधीयते

इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो
यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५ ॥

इलावृते तु भगवान् भवः एक एव पुमान् न हि अन्यः तत्र अपरः निर्विशति भवान्याः शाप-निमित्त-ज्ञः यत्-प्रवेक्ष्यतः स्त्री-भावः तत् पश्चात् वक्ष्यामि

भवानीनाथै: स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं
प्रकृतिमात्मन: सङ्कर्षणसंज्ञामात्मसमाधिरूपेण सन्निधाप्यैतदभिगृणन् भव उप-धावति ॥ १६ ॥

भवानी-नाथैः स्त्री-गण अर्बुद-सहस्रैः अवरुध्यमानः भगवतः चतुः-मूर्तेः महा-पुरुषस्य तुरीयाम् तामसीम् मूर्तिम् प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्य एतत् अभिगृणन् भवः उपधावति

श्रीभगवानुवाच
ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १७ ॥

श्री-भगवान् उवाच ओम् नमो भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानाय अनन्ताय अव्यक्ताय नमः इति

भजे भजन्यारणपादपङ्कजंभगस्य कृत्‍स्‍नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनंभवापहं त्वा
भवभावमीश्वरम् ॥ १८ ॥

भजे भजन्य अरण-पाद-पङ्कजम् भगस्य कृत्स्नस्य परम् परायणम् भक्तेषु अलम् भावित-भूत-भावनम् भव-अपहम् त्वा भव-भावम् ईश्वरम्

न यस्य मायागुणचित्तवृत्तिभि-र्निरीक्षतो ह्यण्वपि द‍ृष्टिरज्यते ।
ईशे यथा
नोऽजितमन्युरंहसांकस्तं न मन्येत जिगीषुरात्मन: ॥ १९ ॥

न यस्य माया गुण चित्त वृत्तिभिः निरीक्षतः हि अणु अपि दृष्टिः अज्यते ईशे यथा नः अजित मन्यु रंहसाम् कः तम् न मन्येत जिगीषुः आत्मनः

असद्‍दृशो य: प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचन: ।
न नागवध्वोऽर्हण ईशिरे
ह्रियायत्पादयो: स्पर्शनधर्षितेन्द्रिया: ॥ २० ॥

असत्-दृशः यः प्रतिभाति मायया क्षीबः इव मधु आसव ताम्र-लोचनः न नाग-वध्वः अर्हणे ईशिरे ह्रिया यत्-पादयोः स्पर्शन धर्षित इन्द्रियाः

यमाहुरस्य स्थितिजन्मसंयमंत्रिभिर्विहीनं यमनन्तमृषय: ।
न वेद सिद्धार्थमिव
क्‍वचित्स्थितंभूमण्डलं मूर्धसहस्रधामसु॒ ॥ २१ ॥

यम् आहुः अस्य स्थिति जन्म संयमम् त्रिभिः विहीनम् यम् अनन्तम् ऋषयः न वेद सिद्ध-अर्थम् इव क्वचित् स्थितम् भू-मण्डलम् मूर्ध-सहस्र-धामसु

यस्याद्य आसीद् गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानज: किल ।
यत्सम्भवोऽहं त्रिवृता
स्वतेजसावैकारिकं तामसमैन्द्रियं सृजे ॥ २२ ॥ एते वयं यस्य वशे महात्मन:स्थिता: शकुन्ता इव
सूत्रयन्त्रिता: ।
महानहं वैकृततामसेन्द्रिया:सृजाम सर्वे यदनुग्रहादिदम् ॥ २३ ॥

यस्य आद्यः आसीत् गुण-विग्रहः महान् विज्ञान धिष्ण्यः भगवान् अजः किल यत् सम्भवः अहम् त्रि-वृता स्व-तेजसा वैकारिकम् तामसम् ऐन्द्रियम् सृजे एते वयम् यस्य वशे महा-आत्मनः स्थिताः शकुन्ताः इव सूत्र-यन्त्रिताः महान् अहम् वैकृत तामस इन्द्रियाः सृजामः सर्वे यत् अनुग्रहात् इदम्

यन्निर्मितां कर्ह्यपि कर्मपर्वणींमायां जनोऽयं गुणसर्गमोहित: ।
न वेद
निस्तारणयोगमञ्जसातस्मै नमस्ते विलयोदयात्मने ॥ २४ ॥

यत् निर्मिताम् कर्हि अपि कर्म-पर्वणीम् मायाम् जनः अयम् गुण-सर्ग-मोहितः न वेद निस्तारण-योगम् अञ्जसा तस्मै नमः ते विलय-उदय-आत्मने

५.१८

श्रीशुक उवाच
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतय: पुरुषा भद्राश्ववर्षे साक्षाद्भ‍गवतो वासुदेवस्य
प्रियांतनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १


श्री-शुकः उवाच तथा च भद्र-श्रवा नाम धर्म-सुतः तत् कुल-पतयः पुरुषाः भद्राश्व-वर्षे साक्षात् भगवतः वासुदेवस्य प्रियाम् तनुम् धर्म-मयीम् हयशीर्ष-अभिधानाम् परमेण समाधिना सन्निधाप्य इदम् अभिगृणन्तः उपधावन्ति

भद्रश्रवस ऊचु:
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २ ॥

भद्रश्रवसः ऊचुः ओम् नमः भगवते धर्माय आत्म-विशोधनाय नमः इति

अहो विचित्रं भगवद्विचेष्टितंघ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म
सेवितुंनिर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३ ॥

अहो विचित्रम् भगवत्-विचेष्टितम् घ्नन्तम् जनः अयम् हि मिषन् न पश्यति ध्यायन् असत् यर्हि विकर्म सेवितुम् निर्हृत्य पुत्रम् पितरम् जिजीविषति

वदन्ति विश्वं कवय: स्म नश्वरंपश्यन्ति चाध्यात्मविदो विपश्चित: ।
तथापि मुह्यन्ति तवाज
माययासुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४ ॥

वदन्ति विश्वम् कवयः स्म नश्वरम् पश्यन्ति च अध्यात्म-विदः विपश्चितः तथा अपि मुह्यन्ति तव अज मायया सु-विस्मितम् कृत्यम् अजम् नतः अस्मि तम्

विश्वोद्भ‍वस्थाननिरोधकर्म तेह्यकर्तुरङ्गीकृतमप्यपावृत: ।
युक्तं न चित्रं त्वयि
कार्यकारणेसर्वात्मनि व्यतिरिक्ते च वस्तुत: ॥ ५ ॥

विश्व उद्भव स्थान निरोध कर्म ते हि अकर्तुः अङ्गीकृतम् अपि अपावृतः युक्तम् न चित्रम् त्वयि कार्य-कारणे सर्व-आत्मनि व्यतिरिक्ते च वस्तुतः

वेदान् युगान्ते तमसा तिरस्कृतान्रसातलाद्यो नृतुरङ्गविग्रह: ।
प्रत्याददे वै कवयेऽभियाचतेतस्मै
नमस्तेऽवितथेहिताय इति ॥ ६ ॥

वेदान् युग-अन्ते तमसा तिरस्कृतान् रसातलात् यः नृ-तुरङ्ग-विग्रहः प्रत्याददे वै कवये अभिया-चते तस्मै नमः ते अवितथ-ईहिताय इति

हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते ।
तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये ।
तद्दयितं रूपं
महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरित:
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७ ॥

हरि-वर्षे च अपि भगवान् नर-हरि-रूपेण आस्ते तत्-रूप-ग्रहण-निमित्तम् उत्तरत्र अभिधास्ये तत् दयितम् रूपम् महा-पुरुष-गुण-भाजनः महा-भागवतः दैत्य-दानव-कुल-तीर्थी-करण-शीला-चरितः प्रह्लादः अव्यवधान-अनन्य-भक्ति-योगेन सह तत्-वर्ष-पुरुषैः उपास्ते इदम् च उदाहरति

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय
तमो ग्रस ग्रस ॐ स्वाहा ।
अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ॥ ८ ॥

ओम् नमः भगवते नर-सिंहाय नमः तेजः-तेजसे आविः-आविर्भव वज्र-नख वज्र-दंष्ट्र कर्म-आशयान् रन्धय रन्धय तमः ग्रस ग्रस ओम् स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठाः ओम् क्ष्रौम्

स्वस्त्यस्तु विश्वस्य खल: प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी ॥ ९ ॥

स्वस्ति अस्तु विश्वस्य खलः प्रसीदताम् ध्यायन्तु भूतानि शिवम् मिथः धिया मनः च भद्रम् भजतात् अधोक्षजे आवेश्यताम् नः मतिः अपि अहैतुकी

मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद्भ‍गवत्प्रियेषु न: ।
य: प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्यदूरान्न तथेन्द्रियप्रिय: ॥ १० ॥

मा अगार दार आत्म-ज वित्त बन्धुषु सङ्गः यदि स्यात् भगवत्-प्रियेषु नः यः प्राण-वृत्त्या परितुष्टः आत्म-वान् सिद्ध्यति अदूरात् न तथा इन्द्रिय-प्रियः

यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहु: संस्पृशतां हि मानसम् ।
हरत्यजोऽन्त: श्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम् ॥ ११ ॥

यत् सङ्ग-लब्धम् निज-वीर्य-वैभवम् तीर्थम् मुहुः संस्पृशताम् हि मानसम् हरति अजः अन्तः श्रुतिभिः गतः अङ्ग-जम् कः वै न सेवेत मुकुन्द-विक्रमम्

यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुरा: ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहि: ॥ १२ ॥

यस्य अस्ति भक्तिः भगवति अकिञ्चना सर्वैः गुणैः तत्र समासते सुराः हरौ अभक्तस्य कुतः महत्-गुणाः मनोरथेन असति धावतः बहिः

हरिर्हि साक्षाद्भ‍गवान् शरीरिणा-
मात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३ ॥

हरिः हि साक्षात् भगवान् शरीरिणाम् आत्मा झषाणाम् इव तोयम् ईप्सितम् हित्वा महान् तम् यदि सज्जते गृहे तदा महत्त्वम् वयसा दम्-पतीनाम्

तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति ॥ १४ ॥

तस्मात् रजः राग विषाद मन्यु मान-स्पृहा भय दैन्य अधिमूलम् हित्वा गृहम् संसृति-चक्रवालम् नृसिंह-पादम् भजत अकुतः-भयम् इति

केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्या: प्रियचिकीर्षया प्रजापतेर्दुहितृणां पुत्राणां
तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां
विध्वस्ता व्यसव: संवत्सरान्ते विनिपतन्ति ॥ १५ ॥

केतुमाले अपि भगवान् कामदेव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेः दुहितॄणाम् पुत्राणाम् तत्-वर्ष-पतीनाम् पुरुष-आयुषा अहः-रात्र परिसङ्ख्यानानाम् यासाम् गर्भाः महा-पुरुष महा-अस्त्र तेजसा उद्वेजित-मनसाम् विध्वस्ताः व्यसवः संवत्सर-अन्ते विनिपतन्ति

अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया
किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते ॥ १६ ॥

अतीव सु-ललित गति विलास विलसित रुचिर हास-लेश अवलोक-लीलया किञ्चित्-उत्तम्भित सुन्दर भ्रू-मण्डल सुभग वदन-अरविन्द-श्रिया रमाम् रमयन् इन्द्रियाणि रमयते

तद्भ‍गवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु
प्रजापतेर्दुहितृभिरुपेताह:सु च तद्भ‍‌र्तृभिरुपास्ते इदं चोदाहरति ॥ १७ ॥

तत् भगवतः माया-मयम् रूपम् परम समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेः दुहितृभिः उपेत अहःसु च तत्-भर्तृभिः उपास्ते इदम् च उदाहरति

ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां
चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे
बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥ १८ ॥

ओम् ह्राम् ह्रीम् ह्रूम् ओम् नमः भगवते हृषीकेशाय सर्व-गुण विशेषैः विलक्षित आत्मने आकूतीनाम् चित्तीनाम् चेतसाम् विशेषाणाम् च अधिपतये षोडश-कलाय छन्दः-मयाय अन्न-मयाय अमृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमः ते उभयत्र भूयात्

स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्रा: ॥ १९ ॥

स्त्रियः व्रतैः त्वा हृषीकेश्वरम् स्वतः हि आराध्य लोके पतिम् आशासते अन्यम् तासाम् न ते वै परिपान्ति अपत्यम् प्रियम् धन आयूंषि यतः अस्व-तन्त्राः

स वै पति: स्यादकुतोभय: स्वयं
समन्तत: पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधि मन्यते परम् ॥ २० ॥

सः वै पतिः स्यात् अकुतः-भयः स्वयम् समन्ततः पाति भय-आतुरम् जनम् सः एकः एव इतरथा मिथः भयम् न एव आत्म-लाभात् अधि मन्यते परम्

या तस्य ते पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद्भ‍ग्नयाच्ञा भगवन् प्रतप्यते ॥ २१ ॥

या तस्य ते पाद-सरोरुह अर्हणम् निकामयेत् सा अखिल-काम-लम्पटा तत् एव रासि ईप्सितम् ईप्सितः अर्चितः यत् भग्न-याच्ञा भगवन् प्रतप्यते

मत्प्राप्तयेऽजेशसुरासुरादय-
स्तप्यन्त उग्रं तप ऐन्द्रियेधिय: ।
ऋते भवत्पादपरायणान्न मां
विन्दन्त्यहं त्वद्‌धृदया यतोऽजित ॥ २२ ॥

मत्-प्राप्तये अज ईश सुर असुर-आदयः तप्यन्ते उग्रम् तपः ऐन्द्रिये धियः ऋते भवत्-पाद-परायणात् न माम् विन्दन्ति अहम् त्वत् हृदयाः यतः अजित

स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३ ॥

सः त्वम् मम अपि अच्युत शीर्ष्णि वन्दितम् कर-अम्बुजम् यत् त्वत् अधायि सात्वताम् बिभर्षि माम् लक्ष्म वरेण्य मायया कः ईश्वरस्य ईहितम् ऊहितुम् विभुः इति

रम्यके च भगवत: प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनो: प्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४ ॥

रम्यके च भगवतः प्रिय-तमम् मात्स्यम् अवतार-रूपम् तत्-वर्ष-पुरुषस्य मनोः प्राक् प्रदर्शितम् सः इदानीम् अपि महता भक्ति-योगेन आराधयति इदम् च उदाहरति

ॐ नमो भगवते मुख्यतमाय नम: सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ २५ ॥

ओम् नमः भगवते मुख्य-तमाय नमः सत्त्वाय प्राणाय ओजसे सहसे बलाय महा-मत्स्याय नमः इति

अन्तर्बहिश्चाखिललोकपालकै-
रद‍ृष्टरूपो विचरस्युरुस्वन: ।
स ईश्वरस्त्वं य इदं वशेऽनय-
न्नाम्ना यथा दारुमयीं नर: स्त्रियम् ॥ २६ ॥

अन्तः बहिः च अखिल-लोक-पालकैः अदृष्ट-रूपः विचरसि उरु स्वनः सः ईश्वरः त्वम् यः इदम् वशे अनयत् नाम्ना यथा दारुमयीम् नरः स्त्रियम्

यं लोकपाला: किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक्समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पद:
सरीसृपं स्थाणु यदत्र द‍ृश्यते ॥ २७ ॥

यम् लोक-पालाः किल मत्सर-ज्वराः हित्वा यतन्तः अपि पृथक् समेत्य च पातुम् न शेकुः द्वि-पदः चतुः-पदः सरीसृपम् स्थाणु यत् अत्र दृश्यते

भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरु क्रमतेऽज ओजसा
तस्मै जगत्प्राणगणात्मने नम इति ॥ २८ ॥

भवान् युग-अन्त-अर्णवे ऊर्मि-मालिनि क्षोणीम् इमाम् ओषधि-वीरुधाम् निधिम् मया सह उरु क्रमते अज ओजसा तस्मै जगत् प्राण-गण-आत्मने नमः इति

हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषै:
पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥ २९ ॥

हिरण्मये अपि भगवान् निवसति कूर्म-तनुम् बिभ्राणः तस्य तत् प्रिय-तमाम् तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गण-अधिपतिः उपधावति मन्त्रम् इमम् च अनुजपति

ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो
नमोऽवस्थानाय नमस्ते ॥ ३० ॥

ओम् नमः भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणाय अनुपलक्षित-स्थानाय नमः वर्ष्मणे नमः भूम्ने नमः नमः अवस्थानाय नमः ते

यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भनात्-
तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥

यत् रूपम् एतत् निज-मायया अर्पितम् अर्थ-स्वरूपम् बहु-रूप-रूपितम् सङ्ख्या न यस्य अस्ति अयथा उपलम्भनात् तस्मै नमः ते अव्यपदेश रूपिणे

जरायुजं स्वेदजमण्डजोद्भ‍िदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौ: खं क्षिति: शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एक: ॥ ३२ ॥

जरायु-जम् स्वेद-जम् अण्ड-ज उद्भिदम् चर-अचरम् देव ऋषि पितृ भूतम् ऐन्द्रियम् द्यौः खम् क्षितिः शैल सरित् समुद्र द्वीप ग्रह-ऋक्ष इति अभिधेयः एकः

यस्मिन्नसङ्ख्येयविशेषनाम-
रूपाकृतौ कविभि: कल्पितेयम् ।
सङ्ख्या यया तत्त्वद‍ृशापनीयते
तस्मै नम: साङ्ख्यनिदर्शनाय ते इति ॥ ३३ ॥

यस्मिन् असङ्ख्येय विशेष नाम रूप आकृतौ कविभिः कल्पिता इयम् सङ्ख्या यया तत्त्व दृशा अपनीयते तस्मै नमः साङ्ख्य-निदर्शनाय ते इति

उत्तरेषु च कुरुषु भगवान् यज्ञपुरुष: कृतवराहरूप आस्ते तं तु देवी हैषा भू: सह
कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥ ३४ ॥

उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूपः आस्ते तम् तु देवी ह एषा भूः सह कुरुभिः अस्खलित भक्ति-योगेन उपधावति इमाम् च परमाम् उपनिषदम् आवर्तयति

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नम: कर्मशुक्लाय
त्रियुगाय नमस्ते ॥ ३५ ॥ ।

ओम् नमः भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ क्रतवे महा-ध्वर अवयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमः ते

यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिद‍ृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥

यस्य स्व-रूपम् कवयः विपश्चितः गुणेषु दारुषु इव जात वेदसम् मथ्नन्ति मथ्ना मनसा दिदृक्षवः गूढम् क्रिया-अर्थैः नमः ईरित-आत्मने

द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नम: ॥ ३७ ॥

द्रव्य क्रिया हेतु अयन ईश कर्तृभिः माया-गुणैः वस्तु निरीक्षित आत्मने अन्वीक्षया अङ्ग अतिशय-आत्म-बुद्धिभिः निरस्त माया आकृतये नमः नमः

करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणै: ।
माया यथायो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८ ॥

करोति विश्व स्थिति संयम उदयम् यस्य ईप्सितम् न ईप्सितम् ईक्षितुः गुणैः माया यथा अयः भ्रमते तत्-आश्रयम् ग्राव्णः नमः ते गुण-कर्म-साक्षिणे

प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकर: ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वत:
क्रीडन्निवेभ: प्रणतास्मि तं विभुमिति ॥ ३९ ॥

प्रमथ्य दैत्यम् प्रतिवारणम् मृधे यः माम् रसायाः जगत् आदि-सूकरः कृत्वा अग्र-दंष्ट्रे निरगात् उदन्वतः क्रीडन् इव इभः प्रणता अस्मि तम् विभुम् इति

५.१९

श्रीशुक उवाच
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरत:
परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ॥ १ ॥

श्री-शुकः उवाच किम्पुरुषे वर्षे भगवन्तम् आदि-पुरुषम् लक्ष्मण-अग्र-जम् सीता-अभिरामम् रामम् तत्-चरण-सन्निकर्ष-अभिरतः परम-भागवतः हनुमान् सह किम्पुरुषैः अविरत भक्तिः उपास्ते

आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपश‍ृणोति स्वयं चेदं गायति ॥
२ ॥

आर्ष्टि-षेणेन सह गन्धर्वैः अनुगीयमानाम् परम-कल्याणीम् भर्तृ-भगवत्-कथाम् समुपशृणोति स्वयम् च इदम् गायति

ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नम:
साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ॥ ३ ॥

ओम् नमः भगवते उत्तम-श्लोकाय नमः आर्य-लक्षण-शील-व्रताय नमः उपशिक्षित-आत्मने उपासित-लोकाय नमः साधु-वाद-निकषणाय नमः ब्रह्मण्य-देवाय महा-पुरुषाय महा-राजाय नमः इति

यत्तद्विशुद्धानुभवमात्रमेकं
स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक्प्रशान्तं सुधियोपलम्भनं
ह्यनामरूपं निरहं प्रपद्ये ॥ ४ ॥

यत् तत् विशुद्ध अनुभव मात्रम् एकम् स्व-तेजसा ध्वस्त गुण-व्यवस्थम् प्रत्यक् प्रशान्तम् सुधिया उपलम्भनम् हि अनाम-रूपम् निरहम् प्रपद्ये

मर्त्यावतारस्त्विह मर्त्यशिक्षणं
रक्षोवधायैव न केवलं विभो: ।
कुतोऽन्यथा स्याद्रमत: स्व आत्मन:
सीताकृतानि व्यसनानीश्वरस्य ॥ ५ ॥

मर्त्य अवतारः तु इह मर्त्य-शिक्षणम् रक्षः-वधाय एव न केवलम् विभोः कुतः अन्यथा स्यात् रमतः स्वे आत्मनः सीता कृतानि व्यसनानि ईश्वरस्य

न वै स आत्मात्मवतां सुहृत्तम:
सक्तस्त्रिलोक्यां भगवान् वासुदेव: ।
न स्त्रीकृतं कश्मलमश्नुवीत
न लक्ष्मणं चापि विहातुमर्हति ॥ ६ ॥

न वै सः आत्मा आत्मवताम् सुहृत्-तमः सक्तः त्रि-लोक्याम् भगवान् वासुदेवः न स्त्री-कृतम् कश्मलम् अश्नुवीत न लक्ष्मणम् च अपि विहातुम् अर्हति

न जन्म नूनं महतो न सौभगं
न वाङ्‌न बुद्धिर्नाकृतिस्तोषहेतु: ।
तैर्यद्विसृष्टानपि नो वनौकस-
श्चकार सख्ये बत लक्ष्मणाग्रज: ॥ ७ ॥

न जन्म नूनम् महतः न सौभगम् न वाक् न बुद्धिः न आकृतिः तोष-हेतुः तैः यत् विसृष्टान् अपि नः वन-ओकसः चकार सख्ये बत लक्ष्मण-अग्र-जः

सुरोऽसुरो वाप्यथ वानरो नर:
सर्वात्मना य: सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं
य उत्तराननयत्कोसलान्दिवमिति ॥ ८ ॥

सुरः असुरः वा अपि अथ वा अनरः नरः सर्व-आत्मना यः सु-कृतज्ञम् उत्तमम् भजेत रामम् मनुज-आकृतिम् हरिम् यः उत्तरान् अनयत् कोसलान् दिवम् इति

भारतेऽपि वर्षे भगवान्नरनारायणाख्य
आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया
तपोऽव्यक्तगतिश्चरति ॥ ९ ॥

भारते अपि वर्षे भगवान् नर-नारायण-आख्यः आ-कल्प-अन्तम् उपचित धर्म ज्ञान वैराग्य ऐश्वर्य उपशम उपरम आत्म-उपलम्भनम् अनुग्रहाय आत्म-वताम् अनुकम्पया तपः अव्यक्त-गतिः चरति

तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभि: प्रजाभिर्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां
भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाण: परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥ १० ॥

तम् भगवान् नारदः वर्ण-आश्रम-वतीभिः भारतीभिः प्रजाभिः भगवत्-प्रोक्ताभ्याम् साङ्ख्य योगाभ्याम् भगवत्-अनुभाव-उपवर्णनम् सावर्णेः उपदेक्ष्यमाणः परम-भक्ति-भावेन उपसरति इदम् च अभिगृणाति

ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय
परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ॥ ११ ॥

ओम् नमः भगवते उपशम-शीलाय उपरत-अनात्म्याय नमः अकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्माराम-अधिपतये नमः नमः इति

गायति चेदम्—
कर्तास्य सर्गादिषु यो न बध्यते
न हन्यते देहगतोऽपि दैहिकै: ।
द्रष्टुर्न द‍ृग्यस्य गुणैर्विदूष्यते
तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ १२ ॥

गायति च इदम् कर्ता अस्य सर्ग-आदिषु यः न बध्यते न हन्यते देह-गतः अपि दैहिकैः द्रष्टुः न दृक् यस्य गुणैः विदूष्यते तस्मै नमः असक्त विविक्त साक्षिणे

इदं हि योगेश्वर योगनैपुणं
हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो
भक्त्या दधीतोज्झितदुष्कलेवर: ॥ १३ ॥

इदम् हि योग-ईश्वर योग-नैपुणम् हिरण्य-गर्भः भगवान् जगाद यत् यत् अन्त-काले त्वयि निर्गुणे मनः भक्त्या दधीत उज्झित-दुष्कलेवरः

यथैहिकामुष्मिककामलम्पट:
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययाद्
यस्तस्य यत्न: श्रम एव केवलम् ॥ १४ ॥

यथा ऐहिक अमुष्मिक काम-लम्पटः सुतेषु दारेषु धनेषु चिन्तयन् शङ्केत विद्वान् कु-कलेवर अत्ययात् यः तस्य यत्नः श्रमः एव केवलम्

तन्न: प्रभो त्वं कुकलेवरार्पितां
त्वन्माययाहंममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां
विधेहि योगं त्वयि न: स्वभावमिति ॥ १५ ॥

तत् नः प्रभो त्वम् कु-कलेवर-अर्पिताम् त्वत्-मायया अहम्-ममताम् अधोक्षज भिन्द्याम येन आशु वयम् सुदुर्भिदाम् विधेहि योगम् त्वयि नः स्वभावम् इति

भारतेऽप्यस्मिन्वर्षे सरिच्छैला: सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभ: कूटक:
कोल्लक: सह्यो देवगिरिऋर्ष्यमूक: श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्य:
शुक्तिमानृक्षगिरि: पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतक: ककुभो नीलो गोकामुख
इन्द्रकील: कामगिरिरिति चान्ये च शतसहस्रश: शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च
सन्त्यसङ्ख्याता: ॥ १६ ॥

भारते अपि अस्मिन् वर्षे सरित् शैलाः सन्ति बहवः मलयः मङ्गल-प्रस्थः मैनाकः त्रि-कूटः ऋषभः कूटकः कोल्लकः सह्यः देवगिरिः ऋष्य-मूकः श्री-शैलः वेङ्कटः महेन्द्रः वारि-धारः विन्ध्यः शुक्तिमान् ऋक्ष-गिरिः पारियात्रः द्रोणः चित्र-कूटः गोवर्धनः रैवतकः ककुभः नीलः गोकामुखः इन्द्रकीलः काम-गिरिः इति च अन्ये च शत-सहस्रशः शैलाः तेषाम् नितम्ब-प्रभवाः नदाः नद्यः च सन्ति असङ्ख्याताः

एतासामपो भारत्य: प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति ॥ १७ ॥ चन्द्रवसा
ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा
वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती
सिन्धुरन्ध: शोणश्च नदौ महानदी वेदस्मृतिऋर्षिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना
सरस्वती द‍ृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्‍वृधा वितस्ता
असिक्नी विश्‍वेति महानद्य: ॥ १८ ॥

एतासाम् अपः भारत्यः प्रजाः नामभिः एव पुनन्तीनाम् आत्मना च उपस्पृशन्ति चन्द्र-वसा ताम्र-पर्णी अवटोदा कृत-माला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्ग-भद्रा कृष्णा-वेण्या भीम-रथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुः अन्धः शोणः च नदौ महा-नदी वेद-स्मृतिः ऋषि-कुल्या त्रि-सामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शत-द्रूः चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वा इति महा-नद्यः

अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभि: शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो
बह्व्य: आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति ॥
१९ ॥

अस्मिन् एव वर्षे पुरुषैः लब्ध-जन्मभिः शुक्ल लोहित कृष्ण वर्णेन स्व आरब्धेन कर्मणा दिव्य मानुष नारक गतयः बह्व्यः आत्मनः आनुपूर्व्येण सर्वाः हि एव सर्वेषाम् विधीयन्ते यथा-वर्ण-विधानम् अपवर्गः च अपि भवति

योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि
वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि
महापुरुषपुरुषप्रसङ्ग: ॥ २० ॥

यः असौ भगवति सर्व-भूत-आत्मनि अनात्म्ये अनिरुक्ते अनिलयने परम-आत्मनि वासुदेवे अनन्य निमित्त भक्ति-योग-लक्षणः नाना-गति निमित्त अविद्या-ग्रन्थि रन्धन द्वारेण यदा हि महा-पुरुष पुरुष प्रसङ्गः

एतदेव हि देवा गायन्ति—
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरि: ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि न: ॥ २१ ॥

एतत् एव हि देवाः गायन्ति अहो अमीषाम् किम् अकारि शोभनम् प्रसन्नः एषाम् स्वित् उत स्वयम् हरिः यैः जन्म लब्धम् नृषु भारत-अजिरे मुकुन्द सेवा-औपयिकम् स्पृहा हि नः

किं दुष्करैर्न: क्रतुभिस्तपोव्रतै-
र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपादपङ्कज-
स्मृति: प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २२ ॥

किम् दुष्करैः नः क्रतुभिः तपः व्रतैः दान-आदिभिः वा द्युजयेन फल्गुना न यत्र नारायण-पाद-पङ्कज स्मृतिः प्रमुष्ट अतिशय इन्द्रिय-उत्सवात्

कल्पायुषां स्थानजयात्पुनर्भवात्
क्षणायुषां भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विन:
सन्न्यस्य संयान्त्यभयं पदं हरे: ॥ २३ ॥

कल्प-आयुषाम् स्थान-जयात् पुनः-भवात् क्षण-आयुषाम् भारत-भू-जयः वरम् क्षणेन मर्त्येन कृतम् मनस्विनः सन्न्यस्य संयान्ति अभयम् पदम् हरेः

न यत्र वैकुण्ठकथासुधापगा
न साधवो भागवतास्तदाश्रया: ।
न यत्र यज्ञेशमखा महोत्सवा:
सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४ ॥

न यत्र वैकुण्ठ-कथा-सुधा-आपगाः न साधवः भागवताः तत्-आश्रयाः न यत्र यज्ञ-ईश-मखाः महा-उत्सवाः सुरेश-लोकः अपि न वै सः सेव्यताम्

प्राप्ता नृजातिं त्विह ये च जन्तवो
ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्नपुनर्भवाय ते
भूयो वनौका इव यान्ति बन्धनम् ॥ २५ ॥

प्राप्ताः नृ-जातिम् तु इह ये च जन्तवः ज्ञान क्रिया द्रव्य कलाप सम्भृताम् न वै यतेरन् अपुनः-भवाय ते भूयः वनौकाः इव यान्ति बन्धनम्

यै: श्रद्धया बर्हिषि भागशो हवि-
र्निरुप्तमिष्टं विधिमन्त्रवस्तुत: ।
एक: पृथङ्‌नामभिराहुतो मुदा
गृह्णाति पूर्ण: स्वयमाशिषां प्रभु: ॥ २६ ॥

यैः श्रद्धया बर्हिषि भागशः हविः निरुप्तम् इष्टम् विधि मन्त्र वस्तुतः एकः पृथक् नामभिः आहुतः मुदा गृह्णाति पूर्णः स्वयम् आशिषाम् प्रभुः

सत्यं दिशत्यर्थितमर्थितो नृणां
नैवार्थदो यत्पुनरर्थिता यत: ।
स्वयं विधत्ते भजतामनिच्छता-
मिच्छापिधानं निजपादपल्लवम् ॥ २७ ॥

सत्यम् दिशति अर्थितम् अर्थितः नृणाम् न एव अर्थ-दः यत् पुनः अर्थिता यतः स्वयम् विधत्ते भजताम् अनिच्छताम् इच्छा-पिधानम् निज-पाद-पल्लवम्

यद्यत्र न: स्वर्गसुखावशेषितं
स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज्जन्म न: स्याद्
वर्षे हरिर्यद्भ‍जतां शं तनोति ॥ २८ ॥

यदि अत्र नः स्वर्ग-सुख-अवशेषितम् सु-इष्टस्य सु-उक्तस्य कृतस्य शोभनम् तेन अजनाभे स्मृति-मत् जन्म नः स्यात् वर्षे हरिः यत् भजताम् शम् तनोति

श्रीशुक उवाच
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्‍वान्वेषण इमां महीं परितो
निखनद्भ‍िरुपकल्पितान् ॥ २९ ॥ तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिण:
पाञ्चजन्य: सिंहलो लङ्केति ॥ ३० ॥

श्री-शुकः उवाच जम्बूद्वीपस्य च राजन् उपद्वीपान् अष्टौ ह एके उपदिशन्ति सगर-आत्म-जैः अश्व-अन्वेषणे इमाम् महीम् परितः निखनद्भिः उपकल्पितान् तत् यथा स्वर्ण-प्रस्थः चन्द्र-शुक्लः आवर्तनः रमणकः मन्दर-हरिणः पाञ्चजन्यः सिंहलः लङ्का इति

एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ॥ ३१ ॥

एवम् तव भारत-उत्तम जम्बूद्वीप-वर्ष-विभागः यथा-उपदेशम् उपवर्णितः इति

५.२०

श्रीशुक उवाच
अत: परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥ १ ॥

श्री-शुकः उवाच अतः परम् प्लक्ष-आदीनाम् प्रमाण-लक्षण-संस्थानतः वर्ष-विभागः उपवर्ण्यते

जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन
लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन ।
प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते
सप्तजिह्वस्तस्याधिपति: प्रियव्रतात्मज इध्मजिह्व: स्वं द्वीपं सप्तवर्षाणि विभज्य
सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम ॥ २ ॥

जम्बू-द्वीपः अयम् यावत्-प्रमाण-विस्तारः तावता क्षार-उदधिना परिवेष्टितः यथा मेरुः जम्बू-आख्येन लवण-उदधिः अपि ततः द्वि-गुण-विशालेन प्लक्ष-आख्येन परिक्षिप्तः यथा परिखा बाह्य उपवनेन प्लक्षः जम्बू-प्रमाणः द्वीप-आख्या-करः हिरण्मयः उत्थितः यत्र अग्निः उपास्ते सप्त-जिह्वः तस्य अधिपतिः प्रियव्रत-आत्मजः इध्म-जिह्वः स्वम् द्वीपम् सप्त वर्षाणि विभज्य सप्त-वर्ष-नामभ्यः आत्मजेभ्यः आकलय्य स्वयम् आत्म-योगेन उपरराम

शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाता: ॥ ३
॥ मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैला: ।
अरुणा नृम्णाऽऽङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महानद्य: ।
यासां
जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णा: सहस्रायुषो
विबुधोपमसन्दर्शनप्रजनना: स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ॥
४ ॥

शिवम् यवसम् सुभद्रम् शान्तम् क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयः नद्यः च सप्त एव अभिज्ञाताः मणि-कूटः वज्र-कूटः इन्द्र-सेनः ज्योतिष्मान् सुपर्णः हिरण्य-ष्ठीवः मेघ-मालः इति सेतु-शैलाः अरुणा नृम्णा आङ्गिरसी सावित्री सुप्त-भाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः यासाम् जल-उपस्पर्शन विधूत रजः-तमसः हंस पतङ्ग ऊर्ध्वायन सत्याङ्ग संज्ञाः चत्वारः वर्णाः सहस्र-आयुषः विबुध-उपम सन्दर्शन प्रजननाः स्वर्ग-द्वारम् त्रय्या विद्यया भगवन्तम् त्रयी-मयम् सूर्यम् आत्मानम् यजन्ते

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मण: ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥

प्रत्नस्य विष्णोः रूपम् यत् सत्यस्य ऋतस्य ब्रह्मणः अमृतस्य च मृत्योः च सूर्यम् आत्मानम् ईमहि इति

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोज: सहो बलं बुद्धिर्विक्रम इति च
सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥ ६ ॥

प्लक्ष-आदिषु पञ्चसु पुरुषाणाम् आयुः इन्द्रियम् ओजः सहः बलम् बुद्धिः विक्रमः इति च सर्वेषाम् औत्पत्तिकी सिद्धिः अविशेषेण वर्तते

प्लक्ष: स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशाल: समानेन
सुरोदेनावृत: परिवृङ्क्ते ॥ ७ ॥

प्लक्षः स्व-समानेन इक्षु-रस उदेन आवृतः यथा तथा द्वीपः अपि शाल्मलः द्वि-गुण-विशालः समानेन सुरा-उदेन आवृतः परिवृङ्क्ते

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्द: स्तुत: पतत्‍त्रिराजस्य
सा द्वीपहूतये उपलक्ष्यते ॥ ८ ॥

यत्र ह वै शाल्मली प्लक्ष-आयामा यस्याम् वाव किल निलयम् आहुः भगवतः छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते

तद्‌द्वीपाधिपति: प्रियव्रतात्मजो यज्ञबाहु: स्वसुतेभ्य: सप्तभ्यस्तन्नामानि सप्तवर्षाणि
व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९ ॥

तत्-द्वीप-अधिपतिः प्रियव्रत-आत्मजः यज्ञ-बाहुः स्व-सुतेभ्यः सप्तभ्यः तत्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनम् सौमनस्यम् रमणकम् देव-वर्षम् पारिभद्रम् आप्यायनम् अविज्ञातम् इति

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाता: स्वरस: शतश‍ृङ्गो वामदेव: कुन्दो मुकुन्द: पुष्पवर्ष:
सहस्रश्रुतिरिति ।
अनुमति: सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ १० ॥

तेषु वर्ष-अद्रयः नद्यः च सप्त एव अभिज्ञाताः स्वरसः शत-शृङ्गः वाम-देवः कुन्दः मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिः इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राका इति

तद्वर्षपुरुषा: श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११ ॥

तत्-वर्ष-पुरुषाः श्रुतधर वीर्यधर वसुन्धर इषन्धर संज्ञाः भगवन्तम् वेद-मयम् सोमम् आत्मानम् वेदेन यजन्ते

स्वगोभि: पितृदेवेभ्यो विभजन् कृष्णशुक्लयो: ।
प्रजानां सर्वासां राजान्ध: सोमो न आस्त्विति ॥ १२ ॥

स्व-गोभिः पितृ-देवेभ्यः विभजन् कृष्ण-शुक्लयोः प्रजानाम् सर्वासाम् राजा अन्धः सोमः नः आस्तु इति

एवं सुरोदाद्ब‍‌हिस्तद्‌‌द्विगुण: समानेनावृतो घृतोदेन यथापूर्व: कुशद्वीपो यस्मिन् कुशस्तम्बो
देवकृतस्तद्‌द्वीपाख्याकरो ज्वलन इवापर: स्वशष्परोचिषा दिशो विराजयति ॥ १३ ॥

एवम् सुरोदात् बहिः तत्-द्वि-गुणः समानेन आवृतः घृत-उदेन यथा-पूर्वः कुश-द्वीप यस्मिन् कुश-स्तम्बः देव-कृतः तत्-द्वीप-आख्या-करः ज्वलनः इव अपरः स्व-शष्प-रोचिषा दिशः विराजयति

तद्‌द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं
विभज्य स्वयं तप आतिष्ठत वसुवसुदानद‍ृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्य: ॥ १४ ॥

तत्-द्वीप-पतिः प्रैयव्रतः राजन् हिरण्यरेता नाम स्वम् द्वीपम् सप्तभ्यः स्व-पुत्रेभ्यः यथा-भागम् विभज्य स्वयम् तपः आतिष्ठत वसु वसुदान दृढरुचि नाभि-गुप्त स्तुत्य-व्रत विविक्त वाम-देव नामभ्यः

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाता: सप्त सप्तैव चक्रश्चतु:श‍ृङ्ग: कपिलश्चित्रकूटो
देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता
मन्त्रमालेति ॥ १५ ॥

तेषाम् वर्षेषु सीमा-गिरयः नद्यः च अभिज्ञाताः सप्त सप्त एव चक्रः चतुः-शृङ्गः कपिलः चित्र-कूटः देवानीकः ऊर्ध्व-रोमा द्रविणः इति रस-कुल्या मधु-कुल्या मित्र-विन्दा श्रुत-विन्दा देव-गर्भा घृत-च्युता मन्त्र-माला इति

यासां पयोभि: कुशद्वीपौकस: कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन
यजन्ते ॥ १६ ॥

यासाम् पयोभिः कुश-द्वीप-ओकसः कुशल कोविद अभियुक्त कुलक संज्ञाः भगवन्तम् जातवेद स-रूपिणम् कर्म-कौशलेन यजन्ते

परस्य ब्रह्मण: साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७ ॥

परस्य ब्रह्मणः साक्षात् जात-वेदः असि हव्यवाट् देवानाम् पुरुष-अङ्गानाम् यज्ञेन पुरुषम् यज इति

तथा घृतोदाद्ब‍‌हि: क्रौञ्चद्वीपो द्विगुण: स्वमानेन क्षीरोदेन परित उपक्‍ल‍ृप्तो वृतो यथा
कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥ १८ ॥

तथा घृत-उदात् बहिः क्रौञ्च-द्वीपः द्वि-गुणः स्व-मानेन क्षीर-उदेन परितः उपकॢप्तः वृतः यथा कुश-द्वीपः घृत-उदेन यस्मिन् क्रौञ्चः नाम पर्वत-राजः द्वीप-नाम निर्वर्तकः आस्ते

योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो
बभूव ॥ १९ ॥

यः असौ गुह-प्रहरण उन्मथित नितम्ब-कुञ्जः अपि क्षीर-उदेन आसिच्यमानः भगवता वरुणेन अभिगुप्तः विभयः बभूव

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपति: स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु
सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवत: परमकल्याणयशस आत्मभूतस्य
हरेश्चरणारविन्दमुपजगाम ॥ २० ॥

तस्मिन् अपि प्रैयव्रतः घृत-पृष्ठः नाम अधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्था-दान् वर्ष-पान् निवेश्य स्वयम् भगवान् भगवतः परम-कल्याण-यशसः आत्म-भूतस्य हरेः चरण-अरविन्दम् उपजगाम

आमो मधुरुहो मेघपृष्ठ: सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां
वर्षगिरय: सप्त सप्तैव नद्यश्चाभिख्याता: शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दन:
सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१ ॥

आमः मधु-रुहः मेघ-पृष्ठः सुधामा भ्राजिष्ठः लोहितार्णः वनस्पतिः इति घृतपृष्ठ-सुताः तेषाम् वर्ष-गिरयः सप्त सप्त एव नद्यः च अभिख्याताः शुक्लः वर्धमानः भोजनः उपबर्हिणः नन्दः नन्दनः सर्वतः-भद्रः इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्ला इति

यासामम्भ: पवित्रममलमुपयुञ्जाना: पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां
पूर्णेनाञ्जलिना यजन्ते ॥ २२ ॥

यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष ऋषभ द्रविण देवक संज्ञाः वर्ष-पुरुषाः आपः-मयम् देवम् अपाम् पूर्णेन अञ्जलिना यजन्ते

आप: पुरुषवीर्या: स्थ पुनन्तीर्भूर्भुव:सुव: ।
ता न: पुनीतामीवघ्नी: स्पृशतामात्मना भुव इति ॥ २३ ॥

आपः पुरुष-वीर्याः स्थ पुनन्तीः भूः भुवः सुवः ताः नः पुनीत अमीव-घ्नीः स्पृशताम् आत्मना भुवः इति

एवं पुरस्तात्क्षीरोदात्परित उपवेशित: शाकद्वीपो द्वात्रिंशल्लक्षयोजनायाम: समानेन च
दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुह: स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं
द्वीपमनुवासयति ॥ २४ ॥

एवम् पुरस्तात् क्षीर-उदात् परितः उपवेशितः शाक-द्वीपः द्वा-त्रिंशत् लक्ष योजन आयामः समानेन च दधि-मण्ड-उदेन परीतः यस्मिन् शाकः नाम महीरुहः स्व-क्षेत्र-व्यपदेशकः यस्य ह महा-सुरभि गन्धः तम् द्वीपम् अनुवासयति

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि
तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन्
स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥

तस्य अपि प्रैयव्रतः एव अधिपतिः नाम्ना मेधा-तिथिः सः अपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्व-आत्मजान् पुरोजव मनोजव पवमान धूम्रानीक चित्र-रेफ बहु-रूप विश्वधार संज्ञान् निधाप्य अधिपतीन् स्वयम् भगवति अनन्ते आवेशित-मतिः तपः-वनम् प्रविवेश

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुश‍ृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो
देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति
॥ २६ ॥

एतेषाम् वर्ष-मर्यादा गिरयः नद्यः च सप्त सप्त एव ईशानः उरुशृङ्गः बल-भद्रः शत-केसरः सहस्र-स्रोतः देव-पालः महानसः इति अनघा आयुर्दा उभयस्पृष्टिः अपराजिता पञ्चपदी सहस्र-स्रुतिः निज-धृतिः इति

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं
प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥ २७ ॥

तत्-वर्ष-पुरुषाः ऋत-व्रत सत्य-व्रत दान-व्रत अनुव्रत नामानः भगवन्तम् वायु-आत्मकम् प्राणायाम विधूत रजः-तमसः परम समाधिना यजन्ते

अन्त:प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभि: ।
अन्तर्यामीश्वर: साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८ ॥

अन्तः-प्रविश्य भूतानि यः बिभर्ति आत्म-केतुभिः अन्तर्यामी ईश्वरः साक्षात् पातु नः यत्-वशे स्फुटम्

एवमेव दधिमण्डोदात्परत: पुष्करद्वीपस्ततो द्विगुणायाम: समन्तत उपकल्पित: समानेन स्वादूदकेन
समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवत: कमलासनस्याध्यासनं
परिकल्पितम् ॥ २९ ॥

एवम् एव दधि-मण्ड-उदात् परतः पुष्कर-द्वीपः ततः द्वि-गुण-आयामः समन्ततः उपकल्पितः समानेन स्वादु-उदकेन समुद्रेण बहिः आवृतः यस्मिन् बृहत् पुष्करम् ज्वलन-शिखा अमल कनक पत्र अयुत-अयुतम् भगवतः कमल आसनस्य अध्यासनम् परिकल्पितम्

तद्‌द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो
यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं
परिभ्रमत: संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३० ॥

तत्-द्वीप-मध्ये मानसोत्तर नाम एकः एव अर्वाचीन पराचीन वर्षयोः मर्यादा अचलः अयुत योजन उच्छ्राय-आयामः यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोक-पालानाम् इन्द्र-आदीनाम् यत् उपरिष्टात् सूर्य-रथस्य मेरुम् परिभ्रमतः संवत्सर-आत्मकम् चक्रम् देवानाम् अहः-रात्राभ्याम् परिभ्रमति

तद्‌द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती
नियुज्य स स्वयं पूर्वजवद्भ‍गवत्कर्मशील एवास्ते ॥ ३१ ॥

तत्-द्वीपस्य अपि अधिपतिः प्रैयव्रतः वीतिहोत्रः नाम एतस्य आत्म-जौ रमणक धातकि नामानौ वर्ष-पती नियुज्य सः स्वयम् पूर्वज-वत् भगवत्-कर्म-शीलः एव आस्ते

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाऽऽराधयन्तीदं चोदाहरन्ति ॥ ३२ ॥

तत्-वर्ष-पुरुषाः भगवन्तम् ब्रह्म-रूपिणम् स-कर्मकेण कर्मणा आराधयन्ति इदम् च उदाहरन्ति

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३ ॥

यत् तत् कर्म-मयम् लिङ्गम् ब्रह्म-लिङ्गम् जनः अर्चयेत् एकान्तम् अद्वयम् शान्तम् तस्मै भगवते नमः इति

ऋषिरुवाच
तत: परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्त: ॥ ३४ ॥

ततः परस्तात् लोकालोक-नाम अचलः लोक-अलोकयोः अन्तराले परितः उपक्षिप्तः

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमि: काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहित: पदार्थो

कथञ्चित्पुन:
प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृतासीत् ॥ ३५ ॥

यावत् मानसोत्तर-मेर्वोः अन्तरम् तावती भूमिः काञ्चनी अन्या आदर्श-तल-उपमा यस्याम् प्रहितः पदार्थः न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व परिहृता आसीत्

लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६ ॥

लोक अलोकः इति समाख्या यत् अनेन अचलेन लोक अलोकस्य अन्तर्वर्तिना अवस्थाप्यते

स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां
गभस्तयोऽर्वाचीनांस्त्रींल्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते
तावदुन्नहनायाम: ॥ ३७ ॥

सः लोक-त्रय-अन्ते परितः ईश्वरेण विहितः यस्मात् सूर्य-आदीनाम् ध्रुव-अपवर्गाणाम् ज्योतिः-गणानाम् गभस्तयः अर्वाचीनान् त्रीन् लोकान् आवितन्वानाः न कदाचित् पराचीनाः भवितुम् उत्सहन्ते तावत् उन्नहन-आयामः

एतावाँल्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तित: कविभि: स तु पञ्चाशत्कोटिगणितस्य
भूगोलस्य तुरीयभागोऽयं लोकालोकाचल: ॥ ३८ ॥

एतावान् लोक-विन्यासः मान लक्षण संस्थाभिः विचिन्तितः कविभिः सः तु पञ्चाशत्-कोटि गणितस्य भू-गोलस्य तुरीय-भागः अयम् लोकालोक-अचलः

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभ: पुष्करचूडो
वामनोऽपराजित इति सकललोकस्थितिहेतव: ॥ ३९ ॥

तत्-उपरिष्टात् चतसृषु आशासु आत्म-योनिना अखिल-जगद्-गुरुणा अधिनिवेशिताः ये द्विरद-पतयः ऋषभः पुष्कर-चूडः वामनः अपराजितः इति सकल-लोक-स्थिति-हेतवः

तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो
महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं
विष्वक्सेनादिभि: स्वपार्षदप्रवरै: परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डै:
सन्धारय-माणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ॥ ४० ॥

तेषाम् स्व-विभूतीनाम् लोक-पालानाम् च विविध वीर्य-उपबृंहणाय भगवान् परम-महा-पुरुषः महा-विभूति-पतिः अन्तर्यामी आत्मनः विशुद्ध-सत्त्वम् धर्म-ज्ञान-वैराग्य ऐश्वर्य-आदि अष्ट महा-सिद्धि उपलक्षणम् विष्वक्सेन-आदिभिः स्व-पार्षद-प्रवरैः परिवारितः निज वर-आयुध उपशोभितैः निज भुज-दण्डैः सन्धारयमाणः तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तये आस्ते

आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रागोपीयायेत्यर्थ: ॥ ४१ ॥

आ-कल्पम् एवम् वेषम् गतः एषः भगवान् आत्म-योग-मायया विरचित विविध-लोक-यात्रा गोपीयाय इति अर्थः

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्ब‍‌हिर्लोकालोकाचलात् ।
तत:
परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥ ४२ ॥

यः अन्तः-विस्तारः एतेन हि अलोक-परिमाणम् च व्याख्यातम् यत् बहिः लोकालोक-अचलात् ततः परस्तात् योगेश्वर-गतिम् विशुद्धाम् उदाहरन्ति

अण्डमध्यगत: सूर्यो द्यावाभूम्योर्यदन्तरम् ।
सूर्याण्डगोलयोर्मध्ये कोट्य: स्यु: पञ्चविंशति: ॥ ४३ ॥

अण्ड-मध्य-गतः सूर्यः द्याव्-आभूम्योः यत् अन्तरम् सूर्य अण्ड-गोलयोः मध्ये कोट्यः स्युः पञ्च-विंशतिः

मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेश: ।
हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भ‍व: ॥ ४४ ॥

मृते अण्डे एषः एतस्मिन् यत् अभूत् ततः मार्तण्ड इति व्यपदेशः हिरण्य-गर्भः इति यत् हिरण्य-अण्ड-समुद्भवः

सूर्येण हि विभज्यन्ते दिश: खं द्यौर्मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि
च सर्वश: ॥ ४५ ॥

सूर्येण हि विभज्यन्ते दिशः खम् द्यौः मही भिदा स्वर्ग अपवर्गौ नरकाः रसौकांसि च सर्वशः

देवतिर्यङ्‍मनुष्याणां सरीसृपसवीरुधाम् ।
सर्वजीवनिकायानां सूर्य आत्मा
द‍ृगीश्वर: ॥ ४६ ॥

देव तिर्यक् मनुष्याणाम् सरीसृप स-वीरुधाम् सर्व-जीव-निकायानाम् सूर्यः आत्मा दृक् ईश्वरः

५.२१

श्रीशुक उवाच
एतावानेव भूवलयस्य सन्निवेश: प्रमाणलक्षणतो व्याख्यात: ॥ १ ॥

श्री-शुकः उवाच एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतः व्याख्यातः

एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते
अन्तरेणान्तरिक्षं तदुभयसन्धितम् ॥ २ ॥

एतेन हि दिवः मण्डल-मानम् तत्-विदः उपदिशन्ति यथा द्वि-दलयोः निष्पाव-आदीनाम् ते अन्तरेण अन्तरिक्षम् तत् उभय सन्धितम्

यन्मध्यगतो भगवांस्तपतपतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष
उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्य्रसमानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु
यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥ ३ ॥

यत् मध्य-गतः भगवान् तपताम् पतिः तपनः आतपेन त्रि-लोकीम् प्रतपति अवभासयति आत्म-भासा सः एषः उदगयन दक्षिण-अयन वैषुवत संज्ञाभिः मान्द्य शैघ्र्य समानाभिः गतिभिः आरोहण अवरोहण समान स्थानेषु यथा-सवनम् अभिपद्यमानः मकर-आदिषु राशिषु अहः-रात्राणि दीर्घ ह्रस्व समानानि विधत्ते

यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति
तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु ॥ ४ ॥

यदा मेष-तुलयोः वर्तते तदा अहः-रात्राणि समानानि भवन्ति यदा वृषभ-आदिषु पञ्चसु च राशिषु चरति तदा अहानि एव वर्धन्ते ह्रसति च मासि मासि एक-एका घटिका रात्रिषु

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति ॥ ५ ॥

यदा वृश्चिक-आदिषु पञ्चसु वर्तते तदा अहः-रात्राणि विपर्ययाणि भवन्ति

यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रय: ॥ ६ ॥

यावत् दक्षिण-अयनम् अहानि वर्धन्ते यावत् उदगयनम् रात्रयः

एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं
निम्‍लोचनीं नाम उत्तरत: सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् ॥ ७ ॥

एवम् नव कोटयः एक-पञ्चाशत् लक्षाणि योजनानाम् मानसोत्तर-गिरि परिवर्तनस्य उपदिशन्ति तस्मिन् ऐन्द्रीम् पुरीम् पूर्वस्मात् मेरोः देवधानीम् नाम दक्षिणतः याम्याम् संयमनीम् नाम पश्चात् वारुणीम् निम्लोचनीम् नाम उत्तरतः सौम्याम् विभावरीम् नाम तासु उदय मध्याह्न अस्तमय निशीथानि इति भूतानाम् प्रवृत्ति निवृत्ति निमित्तानि समय-विशेषेण मेरोः चतुः-दिशम्

तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्यस्तपति सव्येनाचलं दक्षिणेन करोति ॥ ८ ॥ यत्रोदेति
तस्य ह समानसूत्रनिपाते निम्‍लोचति यत्र क्‍वचन स्यन्देनाभितपति तस्य हैष समानसूत्रनिपाते
प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥ ९ ॥

तत्रत्यानाम् दिवस-मध्यङ्गतः एव सदा आदित्यः तपति सव्येन अचलम् दक्षिणेन करोति यत्र उदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देन अभितपति तस्य ह एषः समान-सूत्र-निपाते प्रस्वापयति तत्र गतम् न पश्यन्ति ये तम् समनुपश्येरन्

यदा चैन्द्य्रा: पुर्या: प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां
सार्धद्वादशलक्षाणि साधिकानि चोपयाति ॥ १० ॥

यदा च ऐन्द्र्याः पुर्याः प्रचलते पञ्चदश घटिकाभिः याम्याम् सपाद-कोटि-द्वयम् योजनानाम् सार्ध द्वादश-लक्षाणि साधिकानि च उपयाति

एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहा: सोमादयो नक्षत्रै: सह ज्योतिश्चक्रे
समभ्युद्यन्ति सह वा निम्‍लोचन्ति ॥ ११ ॥

एवम् ततः वारुणीम् सौम्याम् ऐन्द्रीं च पुनः तथा अन्ये च ग्रहाः सोम-आदयः नक्षत्रैः सह ज्योतिः-चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते
पुरीषु ॥ १२ ॥

एवम् मुहूर्तेन चतुः-त्रिंशत् लक्ष योजनानि अष्ट-शताधिकानि सौरः रथः त्रयी-मयः असौ चतसृषु परिवर्तते पुरीषु

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो
मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तरगिरौ
परिभ्रमति ॥ १३ ॥

यस्य एकम् चक्रम् द्वादश अरम् षट् नेमि त्रि-णाभि संवत्सर-आत्मकम् समामनन्ति तस्य अक्षः मेरोः मूर्धनि कृतः मानसोत्तरे कृत इतर-भागः यत्र प्रोतम् रवि-रथ-चक्रम् तैल-यन्त्र-चक्र-वत् भ्रमत् मानसोत्तर-गिरौ परिभ्रमति

तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभाग: ॥ १४


तस्मिन् अक्षे कृत-मूलः द्वितीयः अक्षः तुर्यमानेन सम्मितः तैल-यन्त्र-अक्ष-वत् ध्रुवे कृत उपरि-भागः

रथनीडस्तु षट्‌त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान् रविरथयुगो यत्र
हयाश्छन्दोनामान: सप्तारुणयोजिता वहन्ति देवमादित्यम् ॥ १५ ॥

रथ-नीडः तु षट्-त्रिंशत्-लक्ष-योजन-आयतः तत्-तुरीय-भाग विशालः तावान् रवि-रथ-युगः यत्र हयाः छन्दः-नामानः सप्त अरुण-योजिताः वहन्ति देवम् आदित्यम्

पुरस्तात्सवितुररुण: पश्चाच्च नियुक्त: सौत्ये कर्मणि किलास्ते ॥ १६ ॥

पुरस्तात् सवितुः अरुणः पश्चात् च नियुक्तः सौत्ये कर्मणि किल आस्ते

तथा वालिखिल्या ऋषयोऽङ्गुष्ठपर्वमात्रा: षष्टिसहस्राणि पुरत: सूर्यं सूक्तवाकाय नियुक्ता:
संस्तुवन्ति ॥ १७ ॥

तथा वालिखिल्याः ऋषयः अङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतः सूर्यम् सु-उक्त-वाकाय नियुक्ताः संस्तुवन्ति

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणा: सप्त चतुर्दश
मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्‌नानानामान: पृथक्‌कर्मभिर्द्वन्द्वश उपासते
॥ १८ ॥

तथा अन्ये च ऋषयः गन्धर्व-अप्सरसः नागाः ग्रामण्यः यातुधानाः देवाः इति एक-एकशः गणाः सप्त चतुर्दश मासि मासि भगवन्तम् सूर्यम् आत्मानम् नाना नामानम् पृथक् नाना-नामानः पृथक् कर्मभिः द्वन्द्वशः उपासते

लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं भूवलयस्य क्षणेन सगव्यूत्युत्तरं द्विसहस्रयोजनानि स
भुङ्क्ते ॥ १९ ॥

लक्ष-उत्तरम् सार्ध नव-कोटि-योजन परिमण्डलम् भू-वलयस्य क्षणेन सगव्यूति-उत्तरम् द्वि-सहस्र-योजनानि सः भुङ्क्ते

५.२२

राजोवाच
यदेतद्भ‍गवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं
चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १ ॥

राजा उवाच यत् एतत् भगवतः आदित्यस्य मेरुम् ध्रुवम् च प्रदक्षिणेन परिक्रामतः राशीनाम् अभिमुखम् प्रचलितम् च अप्रदक्षिणम् भगवता उपवर्णितम् अमुष्य वयम् कथम् अनुमिमीमहि इति

स होवाच
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव
प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन
परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे
राश्यन्तरे चोपलभ्यमानत्वात् ॥ २ ॥

सः ह उवाच यथा कुलाल-चक्रेण भ्रमता सह भ्रमताम् तत्-आश्रयाणाम् पिपीलिक-आदीनाम् गतिः अन्या एव प्रदेश-अन्तरेषु अपि उपलभ्यमानत्वात् एवम् नक्षत्र-राशिभिः उपलक्षितेन काल-चक्रेण ध्रुवम् मेरुम् च प्रदक्षिणेन परिधावता सह परिधावमानानाम् तत्-आश्रयाणाम् सूर्य-आदीनाम् ग्रहाणाम् गतिः अन्या एव नक्षत्र-अन्तरे राशि-अन्तरे च उपलभ्यमानत्वात्

स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं
कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्‌सु
वसन्तादिष्वृतुषु यथोपजोषमृतुगुणान् विदधाति ॥ ३ ॥

सः एषः भगवान् आदि-पुरुषः एव साक्षात् नारायणः लोकानाम् स्वस्तये आत्मानम् त्रयी-मयम् कर्म-विशुद्धि निमित्तम् कविभिः अपि च वेदेन विजिज्ञास्यमानः द्वादश-धा विभज्य षट्सु वसन्त-आदिषु ऋतुषु यथा-उपजोषम् ऋतु-गुणान् विदधाति

तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचै: कर्मभिराम्नातैर्योगवितानैश्च
श्रद्धया यजन्तोऽञ्जसा श्रेय: समधिगच्छन्ति ॥ ४ ॥

तम् एतम् इह पुरुषाः त्रय्या विद्यया वर्ण-आश्रम-आचार अनुपथाः उच्च-अवचैः कर्मभिः आम्नातैः योग-वितानैः च श्रद्धया यजन्तः अञ्जसा श्रेयः समधिगच्छन्ति

अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते
राशिसंज्ञान् संवत्सरावयवान्मास: पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता
षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयव: ॥ ५ ॥

अथ सः एषः आत्मा लोकानाम् द्याव्-आ-पृथिव्योः अन्तरेण नभः-वलयस्य काल-चक्र-गतः द्वादश मासान् भुङ्क्ते राशि-संज्ञान् संवत्सर-अवयवान् मासः पक्ष-द्वयम् दिवा नक्तम् च इति सपाद-ऋक्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशम् भुञ्जीत सः वै ऋतुः इति उपदिश्यते संवत्सर-अवयवः

अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते ॥ ६ ॥

अथ च यावता अर्धेन नभः-वीथ्याम् प्रचरति तम् कालम् अयनम् आचक्षते

अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्‍न्येन स ह भुञ्जीत तं कालं संवत्सरं
परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभि: समामनन्ति ॥ ७ ॥

अथ च यावत् नभः-मण्डलम् सह द्यौ आपृथिव्योः मण्डलाभ्याम् कार्त्स्न्येन सः ह भुञ्जीत तम् कालम् संवत्सरम् परिवत्सरम् इडावत्सरम् अनुवत्सरम् वत्सरम् इति भानोः मान्द्य शैघ्र्य सम गतिभिः समामनन्ति

एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां
मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८ ॥

एवम् चन्द्रमा अर्क-गभस्तिभ्यः उपरिष्टात् लक्ष-योजनतः उपलभ्यमानः अर्कस्य संवत्सर-भुक्तिम् पक्षाभ्याम् मास-भुक्तिम् सपाद-ऋक्षाभ्याम् दिनेन एव पक्ष-भुक्तिम् अग्रचारी द्रुत-तर-गमनः भुङ्क्ते

अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभि: पितृणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वान: सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥ ९ ॥

अथ च आपूर्यमाणाभिः च कलाभिः अमराणाम् क्षीयमाणाभिः च कलाभिः पितॄणाम् अहः-रात्राणि पूर्व-पक्ष-अपर-पक्षाभ्याम् वितन्वानः सर्व-जीव-निवह प्राणः जीवः च एकम् एकम् नक्षत्रम् त्रिंशता मुहूर्तैः भुङ्क्ते

य एष षोडशकल: पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां
प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति ॥ १० ॥

यः एषः षोडश-कलः पुरुषः भगवान् मनः-मयः अन्न-मयः अमृत-मयः देव पितृ मनुष्य भूत पशु पक्षि सरीसृप वीरुधाम् प्राण अपि आयन-शीलत्वात् सर्व-मयः इति वर्णयन्ति

तत उपरिष्टात्‌द्वि्लक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशति: ॥ ११ ॥

ततः उपरिष्टात् द्वि-लक्ष-योजनतः नक्षत्राणि मेरुम् दक्षिणेन एव काल-अयने ईश्वर-योजितानि सह अभिजिता अष्टा-विंशतिः

तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरत: पश्चात्सहैव वार्कस्य
शैघ्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण
वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमन: ॥ १२ ॥

ततः उपरिष्टात् उशना द्वि-लक्ष-योजनतः उपलभ्यते पुरतः पश्चात् सह एव वा अर्कस्य शैघ्र्य मान्द्य साम्याभिः गतिभिः अर्कवत् चरति लोकानाम् नित्यदा अनुकूलः एव प्रायेण वर्षयन् चारेण अनुमीयते सः वृष्टि-विष्टम्भ ग्रह-उपशमनः

उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्विलक्षयोजनतो बुध: सोमसुत उपलभ्यमान: प्रायेण
शुभकृद्यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥ १३ ॥

उशनसा बुधः व्याख्यातः ततः उपरिष्टात् द्वि-लक्ष-योजनतः बुधः सोम-सुतः उपलभ्यमानः प्रायेण शुभ-कृत् यदा अर्कात् व्यतिरिच्येत तदा अतिवात अभ्र प्राय अनावृष्टि-आदि भयम् आशंसते

अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभि: पक्षैरेकैकशो
राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंस: ॥ १४ ॥

अतः ऊर्ध्वम् अङ्गारकः अपि योजन-लक्ष-द्वितये उपलभ्यमानः त्रिभिः त्रिभिः पक्षैः एक-एकशः राशीन् द्वादश अनुभुङ्क्ते यदि न वक्रेण अभिवर्तते प्रायेण अशुभ-ग्रहः अघ-शंसः

तत उपरिष्टाद्विलक्षयोजनान्तरगता भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं
चरति यदि न वक्र: स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५ ॥

ततः उपरिष्टात् द्वि-लक्ष-योजन-अन्तर-गताः भगवान् बृहस्पतिः एक-एकस्मिन् राशौ परिवत्सरम् परिवत्सरम् चरति यदि न वक्रः स्यात् प्रायेण अनुकूलः ब्राह्मण-कुलस्य

तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान:
सर्वानेवानुपर्येति तावद्भ‍िरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥ १६ ॥

ततः उपरिष्टात् योजन-लक्ष-द्वयात् प्रतीयमानः शनैश्चरः एक-एकस्मिन् राशौ त्रिंशत् मासान् विलम्-बमानः सर्वान् एव अनुपर्येति तावद्भिः अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः

तत उत्तरस्माद‍ृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो
विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥

ततः उत्तरस्मात् ऋषयः एकादश-लक्ष-योजन-अन्तरे उपलभ्यन्ते ये एव लोकानाम् शम् अनुभावयन्तः भगवतः विष्णोः यत् परमम् पदम् प्रदक्षिणम् प्रक्रमन्ति

५.२३

श्रीशुक उवाच
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णो: परमं पदमभिवदन्ति यत्र ह
महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भि:
सबहुमानं दक्षिणत: क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णित:
॥ १ ॥

श्री-शुकः उवाच अथ तस्मात् परतः त्रयोदश-लक्ष-योजन-अन्तरतः यत् तत् विष्णोः परमम् पदम् अभिवदन्ति यत्र ह महा-भागवतः ध्रुवः औत्तानपादिः अग्निना इन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकाल-युग्भिः स-बहु-मानम् दक्षिणतः क्रियमाणः इदानीम् अपि कल्प-जीविनाम् आजीव्यः उपास्ते तस्य इह अनुभावः उपवर्णितः

स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहित: शश्वदवभासते ॥ २ ॥

सः हि सर्वेषाम् ज्योतिः-गणानाम् ग्रह-नक्षत्र-आदीनाम् अनिमिषेण अव्यक्त रंहसा भगवता कालेन भ्राम्यमाणानाम् स्थाणुः इव अवष्टम्भः ईश्वरेण विहितः शश्वत् अवभासते

यथा मेढीस्तम्भ आक्रमणपशव: संयोजितास्त्रिभिस्त्रिभि: सवनैर्यथास्थानं मण्डलानि चरन्त्येवं
भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा
आकल्पान्तं परिचङ्‍क्रमन्ति नभसि यथा मेघा: श्येनादयो वायुवशा: कर्मसारथय: परिवर्तन्ते एवं
ज्योतिर्गणा: प्रकृतिपुरुषसंयोगानुगृहीता: कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥

यथा मेढीस्तम्भे आक्रमण-पशवः संयोजिताः त्रिभिः त्रिभिः सवनैः यथा-स्थानम् मण्डलानि चरन्ति एवम् भ-गणाः ग्रह-आदयः एतस्मिन् अन्तः-बहिः-योगेन काल-चक्रे आयोजिताः ध्रुवम् एव अवलम्ब्य वायुना उदीर्यमाणाः आ-कल्प-अन्तम् परिचङ् क्रमन्ति नभसि यथा मेघाः श्येन-आदयः वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवम् ज्योतिः-गणाः प्रकृति पुरुष संयोग-अनुगृहीताः कर्म-निर्मित गतयः भुवि न पतन्ति

केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥

केचन एतत् ज्योतिः-अनीकम् शिशुमार-संस्थानेन भगवतः वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति

यस्य पुच्छाग्रेऽवाक्‌शिरस: कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षय: ।
तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये ।
यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवा: समसंख्या भवन्ति ।
पृष्ठे त्वजवीथी
आकाशगङ्गा चोदरत: ॥ ५ ॥

यस्य पुच्छ-अग्रे अवाक्शिरसः कुण्डली-भूत-देहस्य ध्रुवः उपकल्पितः तस्य लाङ्गूले प्रजापतिः अग्निः इन्द्रः धर्मः इति पुच्छ-मूले धाता विधाता च कट्याम् सप्त-ऋषयः तस्य दक्षिण-आवर्त-कुण्डली-भूत-शरीरस्य यानि उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राणि उपकल्पयन्ति दक्षिण-आयनानि तु सव्ये यथा शिशुमारस्य कुण्डला-भोग-सन्निवेशस्य पार्श्वयोः उभयोः अपि अवयवाः समसङ्ख्याः भवन्ति पृष्ठे तु अजवीथी आकाश-गङ्गा च उदरतः

पुनर्वसुपुष्यौ दक्षिणवामयो: श्रोण्योरार्द्राश्लेषे च दक्षिणवामयो: पश्चिमयो:
पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं श्रवणपूर्वाषाढे
दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयो: कर्णयोर्मघादीन्यष्ट नक्षत्राणि
दक्षिणायनानि वामपार्श्ववङ्‌क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्‌क्रिषु
प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥

पुनर्वसु पुष्यौ दक्षिण-वामयोः श्रोण्योः आर्द्रा अश्लेषे च दक्षिण-वामयोः पश्चिमयोः पादयोः अभिजित्-उत्तराषाढे दक्षिण-वामयोः नासिकयोः यथा-सङ्ख्यम् श्रवण-पूर्वाषाढे दक्षिण-वामयोः लोचनयोः धनिष्ठा मूलम् च दक्षिण-वामयोः कर्णयोः मघा-आदीनि अष्ट नक्षत्राणि दक्षिण-आयनानि वाम-पार्श्व वङ्क्रिषु युञ्जीत तथा एव मृग-शीर्षा-आदीनि उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषा ज्येष्ठे स्कन्धयोः दक्षिण-वामयोः न्यसेत्

उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारक: शनैश्चर उपस्थे बृहस्पति: ककुदि
वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुध: प्राणापानयो
राहुर्गले केतव: सर्वाङ्गेषु रोमसु सर्वे तारागणा: ॥ ७ ॥

उत्तरा-हनौ अगस्तिः अधरा-हनौ यमः मुखेषु च अङ्गारकः शनैश्चरः उपस्थे बृहस्पतिः ककुदि वक्षसि आदित्यः हृदये नारायणः मनसि चन्द्रः नाभ्याम् उशना स्तनयोः अश्विनौ बुधः प्राणापानयोः राहुः गले केतवः सर्व-अङ्गेषु रोमसु सर्वे तारा-गणाः

एतदु हैव भगवतो विष्णो: सर्वदेवतामयं रूपमहरह: सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण
उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥

एतत् उ ह एव भगवतः विष्णोः सर्व-देवता-मयम् रूपम् अहः-अहः सन्ध्यायाम् प्रयतः वाग्यतः निरीक्षमाणः उपतिष्ठेत नमः ज्योतिः-लोकाय कालायनाय अनिमिषाम् पतये महा-पुरुषाय अभिधीमहि इति

ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यत: स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम् ॥ ९ ॥

ग्रह-ऋक्ष-तारा-मयम् आधिदैविकम् पाप-अपहम् मन्त्र-कृताम् त्रि-कालम् नमस्यतः स्मरतः वा त्रि-कालम् नश्येत तत्-काल-जम् आशु पापम्

५.२४

श्रीशुक उवाच
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत
भगवदनुकम्पया स्वयमसुरापसद: सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्याम:
॥ १ ॥

श्री-शुकः उवाच अधस्तात् सवितुः योजन अयुते स्वर्भानुः नक्षत्र-वत् चरति इति एके यः असौ अमरत्वम् ग्रहत्वम् च अलभत भगवत्-अनुकम्पया स्वयम् असुर-अपसदः सैंहिकेयः हि अ-तत्-अर्हः तस्य तात जन्म कर्माणि च उपरिष्टात् वक्ष्यामः

यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं
राहोर्य: पर्वणि तद्‌व्य‍वधानकृद्वैरानुबन्ध: सूर्याचन्द्रमसावभिधावति ॥ २ ॥

यत् अदः तरणेः मण्डलम् प्रतपतः तत् विस्तरतः योजन अयुतम् आचक्षते द्वादश-सहस्रम् सोमस्य त्रयोदश सहस्रम् राहोः यः पर्वणि तत्-व्यवधान-कृत् वैर-अनुबन्धः सूर्या चन्द्रमसौ अभिधावति

तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा
दुर्विषहं मुहु: परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते
तदुपरागमिति वदन्ति लोका: ॥ ३ ॥

तत् निशम्य उभयत्र अपि भगवता रक्षणाय प्रयुक्तम् सुदर्शनम् नाम भागवतम् दयितम् अस्त्रम् तत् तेजसा दुर्विषहम् मुहुः परिवर्तमानम् अभ्यवस्थितः मुहूर्तम् उद्विजमानः चकित हृदयः आरात् एव निवर्तते तत् उपरागम् इति वदन्ति लोकाः

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ॥ ४ ॥

ततः अधस्तात् सिद्ध-चारण विद्याधराणाम् सदनानि तावत् मात्र एव

ततोऽधस्ताद्यक्षरक्ष: पिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायु: प्रवाति
यावन्मेघा उपलभ्यन्ते ॥ ५ ॥

ततः अधस्तात् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानाम् विहार-अजिरम् अन्तरिक्षम् यावत् वायुः प्रवाति यावत् मेघाः उपलभ्यन्ते

ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादय: पतत्‍त्रिप्रवरा उत्पतन्तीति
॥ ६ ॥

ततः अधस्तात् शत-योजन अन्तरे इयम् पृथिवी यावत् हंस भास श्येन सुपर्ण-आदयः पतत्त्रि-प्रवराः उत्पतन्ति इति

उपवर्णितं भूमेर्यथासन्निवेशावस्थानमवनेरप्यधस्तात् सप्त भूविवरा एकैकशो
योजनायुतान्तरेणायामविस्तारेणोपक्‍ल‍ृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति
॥ ७ ॥

उपवर्णितम् भूमेः यथा-सन्निवेश-अवस्थानम् अवनेः अपि अधस्तात् सप्त भू-विवराः एक-एकशः योजन-अयुत-अन्तरेण आयाम-विस्तारेण उपकॢप्ताः अतलम् वितलम् सुतलम् तलातलम् महातलम् रसातलम् पातालम् इति

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभि:
सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया
नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा
निवसन्ति ॥ ८ ॥

एतेषु हि बिल-स्वर्गेषु स्वर्गात् अपि अधिक काम-भोग ऐश्वर्य-आनन्द भूति विभूतिभिः सु-समृद्ध भवन उद्यान आक्रीड-विहारेषु दैत्य दानव काद्रवेयाः नित्य प्रमुदित अनुरक्त कलत्र अपत्य बन्धु सुहृत् अनुचराः गृह-पतयः ईश्वरात् अपि अप्रतिहत-कामाः माया विनोदाः निवसन्ति

येषु महाराज मयेन मायाविना विनिर्मिता: पुरो
नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमै:
समलङ्कृताश्चकासति ॥ ९ ॥

येषु महा-राज मयेन माया-विना विनिर्मिताः पुरः नाना-मणि-प्रवर प्रवेक विरचित विचित्र भवन प्राकार गोपुर सभा चैत्य चत्वर आयतन-आदिभिः नाग असुर मिथुन पारावत शुक सारिका आकीर्ण कृत्रिम भूमिभिः विवर-ईश्वर गृह-उत्तमैः समलङ्कृताः चकासति

उद्यानानि चातितरां मनइन्द्रियानन्दिभि: कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां
लताङ्गालिङ्गितानां श्रीभि: समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां
झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पल
लोहितशतपत्रादिवनेषुकृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रि-योत्सवैरमरलोकश्रियमतिशयितानि
॥ १० ॥

उद्यानानि च अतितराम् मनः इन्द्रिय आनन्दिभिः कुसुम फल स्तबक सुभग किसलय अवनत रुचिर विटप विटपिनाम् लता-अङ्ग-आलिङ्गितानाम् श्रीभिः स-मिथुन विविध विहङ्गम जल-आशयानाम् अमल-जल-पूर्णानाम् झष-कुल-उल्लङ्घन क्षुभित नीर नीरज कुमुद कुवलय नील-उत्पल लोहित शत-पत्र-आदि वनेषु कृत-निकेतनानाम् एक-विहार-आकुल मधुर विविध स्वन-आदिभिः इन्द्रिय-उत्सवैः अमर-लोक-श्रियम् अतिशयितानि

यत्र ह वाव न भयमहोरात्रादिभि: कालविभागैरुपलक्ष्यते ॥ ११ ॥

यत्र ह वाव न भयम् अहः-रात्र-आदिभिः काल-विभागैः उपलक्ष्यते

यत्र हि महाहिप्रवरशिरोमणय: सर्वं तम: प्रबाधन्ते ॥ १२ ॥

यत्र हि महा-अहि प्रवर शिरः-मणयः सर्वम् तमः प्रबाधन्ते

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्‍नानादिभिराधयो व्याधयो वलीपलितजरादयश्च
देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥ १३ ॥

न वा एतेषु वसताम् दिव्य औषधि रस रसायन अन्न पान स्नान-आदिभिः आधयः व्याधयः वली पलित जरा आदयः च देह-वैवर्ण्य दौर्गन्ध्य स्वेद क्लम ग्लानिः इति वयः अवस्थाः च भवन्ति

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात् ॥ १४ ॥

न हि तेषाम् कल्याणानाम् प्रभवति कुतश्चन मृत्युः विना भगवत्-तेजसः चक्र-अपदेशात्

यस्मिन् प्रविष्टेऽसुरवधूनां प्राय: पुंसवनानि भयादेव स्रवन्ति पतन्ति च ॥ १५ ॥

यस्मिन् प्रविष्टे असुर-वधूनाम् प्रायः पुंसवनानि भयात् एव स्रवन्ति पतन्ति च

अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टा: षण्णवतिर्माया: काश्चनाद्यापि
मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रय: स्त्रीगणा उदपद्यन्त स्वैरिण्य: कामिन्य:
पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा
स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभि: स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष
ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमान: कत्थते मदान्ध इव ॥ १६ ॥

अथ अतले मय-पुत्रः असुरः बलः निवसति येन ह वा इह सृष्टाः षट्-णवतिः मायाः काश्चन अद्य अपि माया-विनः धारयन्ति यस्य च जृम्भमाणस्य मुखतः त्रयः स्त्री-गणाः उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्यः इति याः वै बिल-अयनम् प्रविष्टम् पुरुषम् रसेन हाटक-आख्येन साधयित्वा स्व-विलास अवलोकन अनुराग स्मित संलाप उपगूहन-आदिभिः स्वैरम् किल रमयन्ति यस्मिन् उपयुक्ते पुरुषः ईश्वरः अहम् सिद्धः अहम् इति अयुत महा-गज बलम् आत्मानम् अभिमन्यमानः कत्थते मद-अन्धः इव

ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वर: स्वपार्षदभूतगणावृत: प्रजापतिसर्गोपबृंहणाय भवो
भवान्या सह मिथुनीभूत आस्ते यत: प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र
चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं
भूषणेनासुरेन्द्रावरोधेषु पुरुषा: सह पुरुषीभिर्धारयन्ति ॥ १७ ॥

ततः अधस्तात् वितले हरः भगवान् हाटकेश्वरः स्व-पार्षद भूत-गण आवृतः प्रजापति-सर्ग उपबृंहणाय भवः भवान्या सह मिथुनी-भूतः आस्ते यतः प्रवृत्ता सरित्-प्रवरा हाटकी नाम भवयोः वीर्येण यत्र चित्र-भानुः मातरिश्वना समिध्यमानः ओजसा पिबति तत् निष्ठ्यूतम् हाटक-आख्यम् सुवर्णम् भूषणेन असुर-इन्द्र अवरोधेषु पुरुषाः सह पुरुषीभिः धारयन्ति

ततोऽधस्तात्सुतले उदारश्रवा: पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं
चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुन:
प्रवेशित
इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्ट: स्वधर्मेणाराधयंस्तमेव
भगवन्तमाराधनीयमपगतसाध्वस
आस्तेऽधुनापि ॥ १८ ॥

ततः अधस्तात् सुतले उदार-श्रवाः पुण्य-श्लोकः विरोचन-आत्मजः बलिः भगवता महा-इन्द्रस्य प्रियम् चिकीर्षमाणेन आदितेः लब्ध-कायः भूत्वा वटु वामन-रूपेण पराक्षिप्त लोक-त्रयः भगवत्-अनुकम्पया एव पुनः प्रवेशितः इन्द्र-आदिषु अविद्यमानया सुसमृद्धया श्रिया अभिजुष्टः स्व-धर्मेण आराधयन् तम् एव भगवन्तम् आराधनीयम् अपगत-साध्वसः आस्ते अधुना अपि

नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भ‍गवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि
वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य
साक्षादपवर्गद्वारस्य यद्ब‍िलनिलयैश्वर्यम् ॥ १९ ॥

नो एव एतत् साक्षात्कारः भूमि-दानस्य यत् तत् भगवति अशेष-जीव-निकायानाम् जीव-भूत-आत्म-भूते परम-आत्मनि वासुदेवे तीर्थ-तमे पात्रे उपपन्ने परया श्रद्धया परम-आदर समाहित-मनसा सम्प्रतिपादितस्य साक्षात् अपवर्ग-द्वारस्य यत् बिल-निलय ऐश्वर्यम्

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवश: सकृन्नामाभिगृणन् पुरुष: कर्मबन्धनमञ्जसा विधुनोति
यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते ॥ २० ॥

यस्य ह वाव क्षुत पतन प्रस्खलन-आदिषु विवशः सकृत् नाम अभिगृणन् पुरुषः कर्म-बन्धनम् अञ्जसा विधुनोति यस्य ह एव प्रतिबाधनम् मुमुक्षवः अन्यथा एव उपलभन्ते

तद्भ‍क्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव ॥ २१ ॥

तत् भक्तानाम् आत्म-वताम् सर्वेषाम् आत्मनि आत्म-दे आत्मतया एव

न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥ २२ ॥

न वै भगवान् नूनम् अमुष्य अनुजग्राह यत् उत पुनः आत्म-अनुस्मृति मोषणम् माया-मय भोग-ऐश्वर्यम् एव आतनुत इति

यत्तद्भ‍गवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च
सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥ २३ ॥

यत् तत् भगवता अनधिगत-अन्य-उपायेन याच्ञा-छलेन अपहृत स्व-शरीर-अवशेषित लोक-त्रयः वरुण-पाशैः च सम्प्रतिमुक्तः गिरि-दर्याम् च अपविद्धः इति ह उवाच

नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो
बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयस:
कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥ २४ ॥

नूनम् बत अयम् भगवान् अर्थेषु न निष्णातः यः असौ इन्द्रः यस्य सचिवः मन्त्राय वृतः एकान्ततः बृहस्पतिः तम् अतिहाय स्वयम् उपेन्द्रेण आत्मानम् अयाचत आत्मनः च आशिषः नो एव तत्-दास्यम् अति गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तम् कियत् लोक-त्रयम् इदम्

यस्यानुदास्यमेवास्मत्पितामह: किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवत:
परमिति भगवतोपरते खलु स्वपितरि ॥ २५ ॥

यस्य अनुदास्यम् एव अस्मत् पिता-महः किल वव्रे न तु स्व पित्र्यम् यत् उत अकुतः-भयम् पदम् दीयमानम् भगवतः परम् इति भगवता उपरते खलु स्व-पितरि

तस्य महानुभावस्यानुपथममृजितकषाय: को वास्मद्विध: परिहीणभगवदनुग्रह उपजिगमिषतीति ॥
२६ ॥

तस्य महा-अनुभावस्य अनुपथम् अमृजित-कषायः कः वा अस्मत्-विधः परिहीण-भगवत्-अनुग्रहः उपजिगमिषति इति

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि
गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय
उच्चाटित: ॥ २७ ॥

तस्य अनुचरितम् उपरिष्टात् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल-जगद्-गुरुः नारायणः द्वारि गदा-पाणिः अवतिष्ठते निज-जन-अनुकम्पित-हृदयः येन अङ्गुष्ठेन पदा दश-कन्धरः योजन-अयुत-अयुतम् दिक्-विजये उच्चाटितः

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं
चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो
विगतसुदर्शनभयो महीयते ॥ २८ ॥

ततः अधस्तात् तलातले मयः नाम दानव-इन्द्रः त्रि-पुर-अधिपतिः भगवता पुरारिणा त्रि-लोकी शम् चिकीर्षुणा निर्दग्ध स्व-पुर-त्रयः तत्-प्रसादात् लब्ध पदः माया-विनाम् आचार्यः महा-देवेन परिरक्षितः विगत-सुदर्शन-भयः महीयते

ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गण:
कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्त: पतत्‍त्रिराजाधिपते:
पुरुषवाहादनवरतमुद्विजमाना: स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्‍वचित्प्रमत्ता विहरन्ति ॥ २९ ॥

ततः अधस्तात् महातले काद्रवेयाणाम् सर्पाणाम् न एक-शिरसाम् क्रोध-वशः नाम गणः कुहक तक्षक कालिय सुषेण आदि प्रधानाः महा-भोगवन्तः पतत्त्रि-राज-अधिपतेः पुरुष-वाहात् अनवरतम् उद्विजमानाः स्व कलत्र-अपत्य सुहृत् कुटुम्ब सङ्गेन क्वचित् प्रमत्ताः विहरन्ति

ततोऽधस्ताद्रसातले दैतेया दानवा: पणयो नाम निवातकवचा: कालेया हिरण्यपुरवासिन इति
विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवत: सकललोकानुभावस्य हरेरेव तेजसा
प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या
वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्ब‍िभ्यति ॥ ३० ॥

ततः अधस्तात् रसातले दैतेयाः दानवाः पणयः नाम निवात-कवचाः कालेयाः हिरण्य-पुरवासिनः इति विबुध-प्रत्यनीकाः उत्पत्त्याः महा-ओजसः महा-साहसिनः भगवतः सकल-लोक-अनुभावस्य हरेः एव तेजसा प्रतिहत बल अवलेपाः बिल-ईशयाः इव वसन्ति ये वै सरमया इन्द्र-दूत्या वाग्भिः मन्त्र-वर्णाभिः इन्द्रात् बिभ्यति

ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखा:
शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा
निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णव:
पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ३१ ॥

ततः अधस्तात् पाताले नाग-लोक-पतयः वासुकि प्रमुखाः शङ्ख कुलिक महा-शङ्ख श्वेत धनञ्जय धृतराष्ट्र शङ्ख-चूड कम्बल अश्वतर देव-दत्त आदयः महा-भोगिनः महा-अमर्षाः निवसन्ति येषाम् उ ह वै पञ्च सप्त दश शत सहस्र शीर्षाणाम् फणासु विरचिताः महा-मणयः रोचिष्णवः पाताल-विवर तिमिर-निकरम् स्व-रोचिषा विधमन्ति

५.२५

श्रीशुक उवाच
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति
सात्वतीया द्रष्टृद‍ृश्ययो: सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥

श्री-शुकः उवाच तस्य मूल-देशे त्रिंशत् योजन सहस्र-अन्तरे आस्ते या वै कला भगवतः तामसी समाख्याता अनन्तः इति सात्वतीयाः द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इति अभिमान लक्षणम् यम् सङ्कर्षणम् इति आचक्षते

यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्ते: सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव
लक्ष्यते ॥ २ ॥

यस्य इदम् क्षिति-मण्डलम् भगवतः अनन्त-मूर्तेः सहस्र-शिरसः एकस्मिन् एव शीर्षणि ध्रियमाणम् सिद्धार्थः इव लक्ष्यते

यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र
एकादशव्यूहस्‍त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥

यस्य ह वा इदम् कालेन उपसञ्जिहीर्षतः अमर्ष विरचित रुचिर भ्रमत् भ्रुवोः अन्तरेण साङ्कर्षणः नाम रुद्रः एकादश-व्यूहः त्रि-अक्षः त्रि-शिखम् शूलम् उत्तम्भयन् उदतिष्ठत्

यस्याङ्‌घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतय: सह
सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्त: स्ववदनानि
परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनस: खलु विलोकयन्ति ॥ ४ ॥

यस्य अङ्घ्रि-कमल युगल अरुण-विशद नख मणि-षण्ड मण्डलेषु अहि-पतयः सह सात्वत-ऋषभैः एकान्त-भक्ति-योगेन अवनमन्तः स्व-वदनानि परिस्फुरत् कुण्डल प्रभा मण्डित गण्ड-स्थलानि अति-मनोहराणि प्रमुदित-मनसः खलु विलोकयन्ति

यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशद
विपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमद्
विघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ५ ॥

यस्य एव हि नाग-राज-कुमार्यः आशिषः आशासानाः चारु अङ्ग-वलय विलसित विशद विपुल धवल सुभग रुचिर भुज रजत-स्तम्भेषु अगुरु चन्दन कुङ्कुम पङ्क अनुलेपेन अवलिम्पमानाः तत्-अभिमर्शन उन्मथित हृदय मकर-ध्वज आवेश रुचिर ललित स्मिताः तत् अनुराग मद मुदित मद विघूर्णित अरुण करुण-अवलोक नयन वदन अरविन्दम् स-व्रीडम् किल विलोकयन्ति

स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥

सः एव भगवान् अनन्तः अनन्त-गुण-अर्णवः आदि-देवः उपसंहृत अमर्ष रोष वेगः लोकानाम् स्वस्तये आस्ते

ध्यायमान: सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदितविकृतविह्वललोचन:
सुललितमुखरिकामृतेनाप्यायमान: स्वपार्षदविबुधयूथपतीनपरिम्‍लानरागनवतुलसिकामोदमध्वासवेन
माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि
कृतसुभगसुन्दरभुजो भगवान्महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥

ध्यायमानः सुर असुर उरग सिद्ध गन्धर्व विद्याधर मुनि गणैः अनवरत मद-मुदित विकृत विह्वल लोचनः सु-ललित मुखरिक अमृतेन आप्यायमानः स्व-पार्षद विबुध-यूथ-पतीन् अपरिम्लान राग नव तुलसिका आमोद मधु-आसवेन माद्यन् मधुकर-व्रात मधुर-गीत श्रीयम् वैजयन्तीम् स्वाम् वनमालाम् नील-वासाः एक-कुण्डलः हल-ककुदि कृत सुभग सुन्दर भुजः भगवान् महा-इन्द्रः वारण-इन्द्रः इव काञ्चनीम् कक्षाम् उदार-लीलः बिभर्ति

य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारद: सह
तुम्बुरुणा सभायां ब्रह्मण: संश्लोकयामास ॥ ८ ॥

यः एषः एवम् अनुश्रुतः ध्यायमानः मुमुक्षूणाम् अनादि काल कर्म-वासना ग्रथितम् अविद्या-मयम् हृदय-ग्रन्थिम् सत्त्व-रजः-तमः-मयम् अन्तः-हृदयम् गतः आशु निर्भिनत्ति तस्य अनुभावान् भगवान् स्वायम्भुवः नारदः सह तुम्बुरुणा सभायाम् ब्रह्मणः संश्लोकयाम् आस

उत्पत्तिस्थितिलयहेतवोऽस्य कल्पा:
सत्त्वाद्या: प्रकृतिगुणा यदीक्षयाऽऽसन्॒ ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्
नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥

उत्पत्ति स्थिति लय हेतवः अस्य कल्पाः सत्त्व-आद्याः प्रकृति-गुणाः यत् ईक्षया आसन् यत्-रूपम् ध्रुवम् अकृतम् यत् एकम् आत्मन् नाना अधात् कथम् उ ह वेद तस्य वर्त्म

मूर्तिं न: पुरुकृपया बभार सत्त्वं
संशुद्धं सदसदिदं विभाति तत्र ।
यल्लीलां मृगपतिराददेऽनवद्या-
मादातुं स्वजनमनांस्युदारवीर्य: ॥ १० ॥

मूर्तिम् नः पुरु-कृपया बभार सत्त्वम् संशुद्धम् सत्-असत् इदम् विभाति तत्र यत्-लीलाम् मृग-पतिः आददे अनवद्याम् आदातुम् स्व-जन-मनांसि उदार-वीर्यः

यन्नाम श्रुतमनुकीर्तयेदकस्मा-
दार्तो वा यदि पतित: प्रलम्भनाद्वा ।
हन्त्यंह: सपदि नृणामशेषमन्यं
कं शेषाद्भ‍गवत आश्रयेन्मुमुक्षु: ॥ ११ ॥

यत् नाम श्रुतम् अनुकीर्तयेत् अकस्मात् आर्तः वा यदि पतितः प्रलम्भनात् वा हन्ति अंहः सपदि नृणाम् अशेषम् अन्यम् कम् शेषात् भगवतः आश्रयेत् मुमुक्षुः

मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो
भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनिमितविक्रमस्य भूम्न:
को वीर्याण्यधिगणयेत्सहस्रजिह्व: ॥ १२ ॥

मूर्धनि अर्पितम् अणु-वत् सहस्र-मूर्ध्नः भू-गोलम् स-गिरि-सरित्-समुद्र-सत्त्वम् आनन्त्यात् अनिमित-विक्रमस्य भूम्नः कः वीर्याणि अधि गणयेत् सहस्र-जिह्वः

एवम्प्रभावो भगवाननन्तो
दुरन्तवीर्योरुगुणानुभाव: ।
मूले रसाया: स्थित आत्मतन्त्रो
यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥

एवम्-प्रभावः भगवान् अनन्तः दुरन्त-वीर्य उरु गुण-अनुभावः मूले रसायाः स्थितः आत्म-तन्त्रः यः लीलया क्ष्माम् स्थितये बिभर्ति

एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिता: कामान् कामयमानै:
॥ १४ ॥

एताः हि एव इह नृभिः उपगन्तव्याः गतयः यथा-कर्म विनिर्मिताः यथा-उपदेशम् अनुवर्णिताः कामान् कामयमानैः

एतावतीर्हि राजन् पुंस: प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं
व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥

एतावतीः हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य विपाक-गतयः उच्च-अवचाः विसदृशाः यथा-प्रश्नम् व्याचख्ये किम् अन्यत् कथयाम इति

५.२६

राजोवाच
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥

राजा उवाच महर्षे एतत् वैचित्र्यम् लोकस्य कथम् इति

ऋषिरुवाच
त्रिगुणत्वात्कर्तु: श्रद्धया कर्मगतय: पृथग्विधा: सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥

ऋषिः उवाच त्रि-गुणत्वात् कर्तुः श्रद्धया कर्म-गतयः पृथक् विधाः सर्वाः एव सर्वस्य तारतम्येन भवन्ति

अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तु: श्रद्धाया वैसाद‍ृश्यात्कर्मफलं विसद‍ृशं भवति या
ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणा: सृतय: सहस्रश: प्रवृत्तास्तासां
प्राचुर्येणानुवर्णयिष्याम: ॥ ३ ॥

अथ इदानीम् प्रतिषिद्ध लक्षणस्य अधर्मस्य तथा एव कर्तुः श्रद्धायाः वैसादृश्यात् कर्म-फलम् विसदृशम् भवति या हि अनादि अविद्यया कृत कामानाम् तत्-परिणाम-लक्षणाः सृतयः सहस्रशः प्रवृत्ताः तासाम् प्राचुर्येण अनुवर्णयिष्यामः

राजोवाच
नरका नाम भगवन्किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४ ॥

राजा उवाच नरकाः नाम भगवन् किम् देश-विशेषाः अथवा बहिः त्रि-लोक्याः आहोस्वित् अन्तराले इति

ऋषिरुवाच
अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भ‍ूमेरुपरिष्टाच्च
जलाद्यस्यामग्निष्वात्तादय: पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष
आशासाना निवसन्ति ॥ ५ ॥

ऋषिः उवाच अन्तराले एव त्रि-जगत्याः तु दिशि दक्षिणस्याम् अधस्तात् भूमेः उपरिष्टात् च जलात् यस्याम् अग्निष्वात्ता-आदयः पितृ-गणाः दिशि स्वानाम् गोत्राणाम् परमेण समाधिना सत्याः एव आशिषः आशासानाः निवसन्ति

यत्र ह वाव भगवान् पितृराजो वैवस्वत: स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु
यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासन: सगणो दमं धारयति ॥ ६ ॥

यत्र ह वाव भगवान् पितृ-राजः वैवस्वतः स्व-विषयम् प्रापितेषु स्व-पुरुषैः जन्तुषु सम्परेतेषु यथा-कर्म-अवद्यम् दोषम् एव अनुल्लङ्घित-भगवत्-शासनः सगणः दमम् धारयति

तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते
राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरव: कुम्भीपाक:
कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूप: कृमिभोजन: सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी
पूयोद: प्राणरोधो विशसनं लालाभक्ष: सारमेयादनमवीचिरय:पानमिति ।
किञ्च क्षारकर्दमो
रक्षोगणभोजन: शूलप्रोतो दन्दशूकोऽवटनिरोधन: पर्यावर्तन: सूचीमुखमित्यष्टाविंशतिर्नरका
विविधयातनाभूमय: ॥ ७ ॥

तत्र ह एके नरकान् एक-विंशतिम् गणयन्ति अथ तान् ते राजन् नाम-रूप-लक्षणतः अनुक्रमिष्यामः तामिस्रः अन्ध-तामिस्रः रौरवः महा-रौरवः कुम्भी-पाकः काल-सूत्रम् असि-पत्रवनम् सूकर-मुखम् अन्ध-कूपः कृमि-भोजनः सन्दंशः तप्त-सूर्मिः वज्र-कण्टक-शाल्मली वैतरणी पूयोदः प्राण-रोधः विशसनम् लाला-भक्षः सारमेयादनम् अवीचिः अयः-पानम् इति किञ्च क्षार-कर्दमः रक्षः-गण-भोजनः शूल-प्रोतः दन्द-शूकः अवट-निरोधनः पर्यावर्तनः सूची-मुखम् इति अष्टा-विंशतिः नरकाः विविध यातना-भूमयः

तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके
बलान्निपात्यते अनशनानुदपानदण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र
कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रप्राये ॥ ८ ॥

तत्र यः तु पर-वित्त-अपत्य-कलत्राणि अपहरति सः हि काल-पाश-बद्धः यम-पुरुषैः अति-भयानकैः तामिस्रे नरके बलात् निपात्यते अनशन अनुदपान दण्ड-ताडन सन्तर्जन-आदिभिः यातनाभिः यात्यमानः जन्तुः यत्र कश्मलम् आसादितः एकदा एव मूर्च्छाम् उपयाति तामिस्र-प्राये

एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो
यातनास्थो वेदनया नष्टमतिर्नष्टद‍ृष्टिश्च भवति यथा वनस्पतिर्वृश्‍च्यमानमूलस्तस्मादन्धतामिस्रं
तमुपदिशन्ति ॥ ९ ॥

एवम् एव अन्धतामिस्रे यः तु वञ्चयित्वा पुरुषम् दार-आदीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानः यातना-स्थः वेदनया नष्ट मतिः नष्ट दृष्टिः च भवति यथा वनस्पतिः वृश्च्यमान मूलः तस्मात् अन्धतामिस्रम् तम् उपदिशन्ति

यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह
विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥

यः तु इह वा एतत् अहम् इति मम इदम् इति भूत-द्रोहेण केवलम् स्व-कुटुम्बम् एव अनुदिनम् प्रपुष्णाति सः तत् इह विहाय स्वयम् एव तत् अशुभेन रौरवे निपतति

ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव
विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥ ११ ॥

ये तु इह यथा एव अमुना विहिंसिताः जन्तवः परत्र यम-यातनाम् उपगतम् ते एव रुरवः भूत्वा तथा तम् एव विहिंसन्ति तस्मात् रौरवम् इति आहुः रुरुः इति सर्पात् अति-क्रूर सत्त्वस्य अपदेशः

एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति य: केवलं
देहम्भर: ॥ १२ ॥

एवम् एव महा-रौरवः यत्र निपतितम् पुरुषम् क्रव्यादाः नाम रुरवः तम् क्रव्येण घातयन्ति यः केवलम् देहम्भरः

यस्त्विह वा उग्र: पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र
यमानुचरा: कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ १३ ॥

यः तु इह वा उग्रः पशून् पक्षिणः वा प्राणतः उपरन्धयति तम् अपकरुणम् पुरुष-आदैः अपि विगर्हितम् अमुत्र यम-अनुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति

यस्त्विह ब्रह्मध्रुक स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले
उपर्यधस्तादग्‍न्‍यर्काभ्यामतितप्यमानेऽभिनिवेशित: क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहि:शरीर
आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥

यः तु इह ब्रह्म-ध्रुक् सः कालसूत्र-संज्ञके नरके अयुत-योजन-परिमण्डले ताम्र-मये तप्त खले उपरि-अधस्तात् अग्नि अर्काभ्याम् अति-तप्यमाने अभिनिवेशितः क्षुत्-पिपासाभ्याम् च दह्यमान अन्तः बहिः शरीरः आस्ते शेते चेष्टते अवतिष्ठति परिधावति च यावन्ति पशु-रोमाणि तावत् वर्ष-सहस्राणि

यस्त्विह वै निजवेदपथादनापद्यपगत: पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र
हासावितस्ततो धावमान उभयतोधारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति
परमया वेदनया मूर्च्छित: पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥

यः तु इह वै निज-वेद-पथात् अनापदि अपगतः पाखण्डम् च उपगतः तम् असि-पत्रवनम् प्रवेश्य कशया प्रहरन्ति तत्र ह असौ इतः ततः धावमानः उभयतः धारैः ताल-वन-असि-पत्रैः छिद्यमान सर्व-अङ्गः हा हतः अस्मि इति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्व-धर्म-हा पाखण्ड-अनुगतम् फलम् भुङ्क्ते

यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स
पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण
स्वनयन् क्‍वचिन्मूर्च्छित: कश्मलमुपगतो यथैवेहाद‍ृष्टदोषा उपरुद्धा: ॥ १६ ॥

यः तु इह वै राजा राज-पुरुषः वा अदण्ड्ये दण्डम् प्रणयति ब्राह्मणे वा शरीर-दण्डम् सः पापीयान् नरके अमुत्र सूकरमुखे निपतति तत्र अति-बलैः विनिष्पिष्यमाण अवयवः यथा एव इह इक्षु-खण्डः आर्त-स्वरेण स्वनयन् क्वचित् मूर्च्छितः कश्मलम् उपगतः यथा एव इह अदृष्ट-दोषाः उपरुद्धाः

यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं
पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र
हासौ तैर्जन्तुभि: पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तै:
सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थान: परिक्रामति यथा कुशरीरे जीव:
॥ १७ ॥

यः तु इह वै भूतानाम् ईश्वर उपकल्पित वृत्तीनाम् अविविक्त पर-व्यथानाम् स्वयम् पुरुष-उपकल्पित वृत्तिः विविक्त पर-व्यथः व्यथाम् आचरति सः परत्र अन्धकूपे तत् अभिद्रोहेण निपतति तत्र ह असौ तैः जन्तुभिः पशु मृग पक्षि सरीसृपैः मशक यूका मत्कुण मक्षिक-आदिभिः ये के च अभिद्रुग्धाः तैः सर्वतः अभिद्रुह्यमाणः तमसि विहत निद्रा-निर्वृतिः अलब्ध अवस्थानः परिक्रामति यथा कु-शरीरे जीवः

यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुत: स परत्र
कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत: स्वयं कृमिभिरेव भक्ष्यमाण:
कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते ॥ १८ ॥

यः तु इह वा असं-विभज्य अश्नाति यत् किञ्चन उपनतम् अनिर्मित पञ्च-यज्ञः वायस संस्तुतः सः परत्र कृमिभोजने नरक-अधमे निपतति तत्र शत-सहस्र-योजने कृमि-कुण्डे कृमि-भूतः स्वयम् कृमिभिः एव भक्ष्यमाणः कृमि-भोजनः यावत् तत् अप्रत्त-अप्रहूत अदः अनिर्वेशम् आत्मानम् यातयते

यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि
पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डै: सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९ ॥

यः तु इह वै स्तेयेन बलात् वा हिरण्य रत्न आदीनि ब्राह्मणस्य वा अपहरति अन्यस्य वा अनापदि पुरुषः तम् अमुत्र राजन् यम-पुरुषाः अयः-मयैः अग्नि-पिण्डैः सन्दंशैः त्वचि निष्कुषन्ति

यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया
सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥ २० ॥

यः तु इह वा अगम्याम् स्त्रियम् अगम्यम् वा पुरुषम् योषित् अभिगच्छति तौ अमुत्र कशया ताडयन्तः तिग्मया सूर्म्या लोह-मय्या पुरुषम् आलिङ्गयन्ति स्त्रियम् च पुरुष-रूपया सूर्म्या

यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥

यः तु इह वै सर्व-अभिगमः तम् अमुत्र निरये वर्तमानम् वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति

ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां
निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना
न वियुज्यमानाश्चासुभिरुह्यमाना: स्वाघेन कर्मपाकमनुस्मरन्तो
विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥

ये तु इह वै राजन्याः राज-पुरुषाः वा अपाखण्डाः धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्याम् निपतन्ति भिन्न-मर्यादाः तस्याम् निरय-परिखा-भूतायाम् नद्याम् यादः-गणैः इतः ततः भक्ष्यमाणाः आत्मना न वियुज्यमानाः च असुभिः उह्यमानाः स्व-अघेन कर्म-पाकम् अनुस्मरन्तः विट् मूत्र पूय शोणित केश नख अस्थि मेदः मांस वसा वाहिन्याम् उपतप्यन्ते

ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जा: पशुचर्यां चरन्ति ते चापि प्रेत्य
पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति ॥ २३ ॥

ये तु इह वै वृषली-पतयः नष्ट शौच-आचार-नियमाः त्यक्त-लज्जाः पशु-चर्याम् चरन्ति ते च अपि प्रेत्य पूय विट् मूत्र श्लेष्म मला पूर्ण अर्णवे निपतन्ति तत् एव अतिबीभत्सितम् अश्नन्ति

ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि
सम्परेताँल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥

ये तु इह वै श्व गर्दभ पतयः ब्राह्मण-आदयः मृगया विहाराः अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्य-भूतान् यम-पुरुषाः इषुभिः विध्यन्ति

ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिँल्लोके वैशसे नरके पतितान्निरयपतयो
यातयित्वा विशसन्ति ॥ २५ ॥

ये तु इह वै दाम्भिकाः दम्भ-यज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरय-पतयः यातयित्वा विशसन्ति

यस्त्विह वै सवर्णां भार्यां द्विजो रेत: पाययति काममोहितस्तं पापकृतममुत्र रेत:कुल्यायां
पातयित्वा रेत: सम्पाययन्ति ॥ २६ ॥

यः तु इह वै सवर्णाम् भार्याम् द्विजः रेतः पाययति काम-मोहितः तम् पाप-कृतम् अमुत्र रेतः-कुल्यायाम् पातयित्वा रेतः सम्पाययन्ति

ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा
तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्रा: श्वान: सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥ २७


ये तु इह वै दस्यवः अग्नि-दाः गरदाः ग्रामान् सार्थान् वा विलुम्पन्ति राजानः राज-भटाः वा तान् च अपि हि परेत्य यमदूताः वज्र-दंष्ट्राः श्वानः सप्त-शतानि विंशतिः च सरभसम् खादन्ति

यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य
नरकेऽवीचिमत्यध:शिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्न: सम्पात्यते यत्र जलमिव
स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाण: पुनरारोपितो
निपतति ॥ २८ ॥

यः तु इह वा अनृतम् वदति साक्ष्ये द्रव्य-विनिमये दाने वा कथञ्चित् सः वै प्रेत्य नरके अवीचिमति अधः-शिराः निरवकाशे योजन-शत उच्छ्रायात् गिरि मूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते तत् अवीचिमत् तिलशः विशीर्यमाण शरीरः न म्रियमाणः पुनः आरोपितः निपतति

यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति
प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति
॥ २९ ॥

यः तु इह वै विप्रः राजन्यः वैश्यः वा सोम-पीथः तत् कलत्रम् वा सुराम् व्रत-स्थः अपि वा पिबति प्रमादतः तेषाम् निरयम् नीतानाम् उरसि पदा आक्रम्य अस्ये वह्निना द्रवमाणम् कार्ष्णायसम् निषिञ्चन्ति

अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु
मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्‌शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३०


अथ च यः तु इह वा आत्म-सम्भावनेन स्वयम् अधमः जन्म तपः विद्या आचार वर्ण-आश्रम-वतः वरीयसः न बहु मन्येत सः मृतकः एव मृत्वा क्षारकर्दमे निरये अवाक्-शिरा निपातितः दुरन्ताः यातनाः हि अश्नुते

ये त्विह वै पुरुषा: पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून्खादन्ति तांश्च ते पशव इव निहता
यमसदने यातयन्तो रक्षोगणा: सौनिका इव स्वधितिनावदायासृक्‌पिबन्ति नृत्यन्ति च गायन्ति च
हृष्यमाणा यथेह पुरुषादा: ॥ ३१ ॥

ये तु इह वै पुरुषाः पुरुष-मेधेन यजन्ते याः च स्त्रियः नृ-पशून् खादन्ति तान् च ते पशवः इव निहताः यम-सदने यातयन्तः रक्षः-गणाः सौनिकाः इव स्वधितिना अवदाय असृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणाः यथा इह पुरुष-अदाः

ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून्
शूलसूत्रादिषूपप्रोतान्क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मान:
क्षुत्तृड्भ्यां चाभिहता: कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥

ये तु इह वा अनागसः अरण्ये ग्रामे वा वैश्रम्भकैः उपसृतान् उपविश्रम्भय्य जिजीविषून् शूल-सूत्र-आदिषु उपप्रोतान् क्रीडनकतया यातयन्ति ते अपि च प्रेत्य यम-यातनासु शूल-आदिषु प्रोत-आत्मानः क्षुत्-तृड्भ्याम् च अभिहताः कङ्क-वट-आदिभिः च इतः ततः तिग्म-तुण्डैः आहन्यमानाः आत्म-शमलम् स्मरन्ति

ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये
निपतन्ति यत्र नृप दन्दशूका: पञ्चमुखा: सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥

ये तु इह वै भूतानि उद्वेजयन्ति नराः उल्बण-स्वभावाः यथा दन्दशूकाः ते अपि प्रेत्य नरके दन्दशूक-आख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः सप्त-मुखाः उपसृत्य ग्रसन्ति यथा बिलेशयान्

ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना
धूमेन निरुन्धन्ति ॥ ३४ ॥

ये तु इह वा अन्ध-अवट कुसूल गुह-आदिषु भूतानि निरुन्धन्ति तथा अमुत्र तेषु एव उपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति

यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते
तस्य चापि निरये पापद‍ृष्टेरक्षिणी वज्रतुण्डा गृध्रा: कङ्ककाकवटादय: प्रसह्योरु-
बलादुत्पाटयन्ति ॥ ३५ ॥

यः तु इह वा अतिथीन् अभ्यागतान् वा गृह-पतिः असकृत् उपगत मन्युः दिधक्षुः इव पापेन चक्षुषा निरीक्षते तस्य च अपि निरये पाप-दृष्टेः अक्षिणी वज्र-तुण्डाः गृध्राः कङ्क काक वट-आदयः प्रसह्य उरु-बलात् उत्पाटयन्ति

यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षण: सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य
तदुत्पादनोत्कर्षणसंरक्षणशमलग्रह: सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं
धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रै: परिवयन्ति ॥ ३६ ॥

यः तु इह वा आढ्य-अभिमतिः अहङ्कृतिः तिर्यक्-प्रेक्षणः सर्वतः अभिविशङ्की अर्थ-व्यय-नाश-चिन्तया परिशुष्यमाण हृदय-वदनः निर्वृतिम् अनवगतः ग्रहः इव अर्थम् अभिरक्षति सः च अपि प्रेत्य तत् उत्पादन उत्कर्षण संरक्षण शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह वित्त-ग्रहम् पाप-पुरुषम् धर्मराज-पुरुषाः वायकाः इव सर्वतः अङ्गेषु सूत्रैः परिवयन्ति

एवंविधा नरका यमालये सन्ति शतश: सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये
केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे
त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥

एवम्-विधाः नरकाः यम-आलये सन्ति शतशः सहस्रशः तेषु सर्वेषु च सर्वे एव अधर्म-वर्तिनः ये केचित् इह उदिताः अनुदिताः च अवनि-पते पर्यायेण विशन्ति तथा एव धर्म-अनुवर्तिनः इतरत्र इह तु पुनः-भवे ते उभय-शेषाभ्याम् निविशन्ति

निवृत्तिलक्षणमार्ग आदावेव व्याख्यात: ।
एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित
उपगीयते यत्तद्भ‍गवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं
रूपमात्ममायागुणमयमनुवर्णितमाद‍ृत: पठति श‍ृणोति श्रावयति स उपगेयं भगवत:
परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥

निवृत्ति-लक्षण-मार्गः आदौ एव व्याख्यातः एतावान् एव अण्ड-कोशः यः चतुर्दश-धा पुराणेषु विकल्पितः उपगीयते यत् तत् भगवतः नारायणस्य साक्षात् महा-पुरुषस्य स्थविष्ठम् रूपम् आत्म-माया गुण मयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति सः उपगेयम् भगवतः परमात्मनः अग्राह्यम् अपि श्रद्धा भक्ति विशुद्ध बुद्धिः वेद

श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यति: ।
स्थूले निर्जितमात्मानं शनै: सूक्ष्मं धिया नयेदिति ॥ ३९ ॥

श्रुत्वा स्थूलम् तथा सूक्ष्मम् रूपम् भगवतः यतिः स्थूले निर्जितम् आत्मानम् शनैः सूक्ष्मम् धिया नयेत् इति

भूद्वीपवर्षसरिदद्रिनभ:समुद्र-
पातालदिङ्‌नरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भ‍ुतमीश्वरस्य
स्थूलं वपु: सकलजीवनिकायधाम ॥ ४० ॥
तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।
महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥ ३१ ॥

भू द्वीप वर्ष सरित् अद्रि नभः समुद्र पाताल दिक् नरक भागण-लोक संस्था गीता मया तव नृप अद्भुतम् ईश्वरस्य स्थूलम् वपुः सकल-जीव-निकाय धाम