श्रीमद्भागवतम् पदच्छेद - स्कंध ६
६.१
श्रीपरीक्षिदुवाच
निवृत्तिमार्ग: कथित आदौ भगवता यथा ।
क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृति: ॥ १ ॥
श्री-परीक्षित् उवाच निवृत्ति-मार्गः कथितः आदौ भगवता यथा क्रम योग-उपलब्धेन ब्रह्मणा यत् असंसृतिः
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।
योऽसावलीनप्रकृतेर्गुणसर्ग: पुन: पुन: ॥ २ ॥
प्रवृत्ति लक्षणः च एव त्रै-गुण्य विषयः मुने यः असौ अलीन-प्रकृतेः गुण-सर्गः पुनः पुनः
अधर्मलक्षणा नाना नरकाश्चानुवर्णिता: ।
मन्वन्तरश्च व्याख्यात आद्य: स्वायम्भुवो यत: ॥ ३ ॥
अधर्म-लक्षणाः नाना नरकाः च अनुवर्णिताः मनु-अन्तरः च व्याख्यातः आद्यः स्वायम्भुवः यतः
प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च ।
द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् ॥ ४ ॥
धरामण्डलसंस्थानं भागलक्षणमानत: ।
ज्योतिषां विवराणां च यथेदमसृजद्विभु: ॥ ५ ॥
प्रियव्रत उत्तानपदोः वंशः तत्-चरितानि च द्वीप वर्ष समुद्र अद्रि नदी उद्यान वनस्पतीन् धरा-मण्डल संस्थानम् भाग लक्षण मानतः ज्योतिषाम् विवराणाम् च यथा इदम् असृजत् विभुः
अधुनेह महाभाग यथैव नरकान्नर: ।
नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
अधुना इह महा-भाग यथा एव नरकान् नरः नाना उग्र यातनान् न ईयात् तत् मे व्याख्यातुम् अर्हसि
श्रीशुक उवाच
न चेदिहैवापचितिं यथांहस:
कृतस्य कुर्यान्मनउक्तपाणिभि: ।
ध्रुवं स वै प्रेत्य नरकानुपैति
ये कीर्तिता मे भवतस्तिग्मयातना: ॥ ७ ॥
श्री-शुकः उवाच न चेत् इह एव अपचितिम् यथा अंहसः कृतस्य कुर्यात् मनः उक्त पाणिभिः ध्रुवम् सः वै प्रेत्य नरकान् उपैति ये कीर्तिताः मे भवतः तिग्म-यातनाः
तस्मात्पुरैवाश्विह पापनिष्कृतौ
यतेत मृत्योरविपद्यतात्मना ।
दोषस्य दृष्ट्वा गुरुलाघवं यथा
भिषक् चिकित्सेत रुजां निदानवित् ॥ ८ ॥
तस्मात् पुरा एव आशु इह पाप-निष्कृतौ यतेत मृत्योः अविपद्यत आत्मना दोषस्य दृष्ट्वा गुरु-लाघवम् यथा भिषक् चिकित्सेत रुजाम् निदान-वित्
श्रीराजोवाच
दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम् ।
करोति भूयो विवश: प्रायश्चित्तमथो कथम् ॥ ९ ॥
श्री-राजा उवाच दृष्ट श्रुताभ्याम् यत् पापम् जानन् अपि आत्मनः अहितम् करोति भूयः विवशः प्रायश्चित्तम् अथो कथम्
क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुन: ।
प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १० ॥
क्वचित् निवर्तते अभद्रात् क्वचित् चरति तत् पुनः प्रायश्चित्तम् अथो अपार्थम् मन्ये कुञ्जर-शौचवत्
श्रीबादरायणिरुवाच
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम् ॥ ११ ॥
श्री-बादरायणिः उवाच कर्मणा कर्म-निर्हारः न हि आत्यन्तिकः इष्यते अविद्वत्-अधिकारित्वात् प्रायश्चित्तम् विमर्शनम्
नाश्नत: पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।
एवं नियमकृद्राजन् शनै: क्षेमाय कल्पते ॥ १२ ॥
न अश्नतः पथ्यम् एव अन्नम् व्याधयः अभिभवन्ति हि एवम् नियम-कृत् राजन् शनैः क्षेमाय कल्पते
तपसा ब्रह्मचर्येण शमेन च दमेन च ।
त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ १३ ॥
देहवाग्बुद्धिजं धीरा धर्मज्ञा: श्रद्धयान्विता: ।
क्षिपन्त्यघं महदपि वेणुगुल्ममिवानल: ॥ १४ ॥
तपसा ब्रह्मचर्येण शमेन च दमेन च त्यागेन सत्य शौचाभ्याम् यमेन नियमेन वा देह-वाक्-बुद्धि-जम् धीराः धर्म-ज्ञाः श्रद्धया अन्विताः क्षिपन्ति अघम् महत् अपि वेणु-गुल्मम् इव अनलः
केचित्केवलया भक्त्या वासुदेवपरायणा: ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्कर: ॥ १५ ॥
केचित् केवलया भक्त्या वासुदेव परायणाः अघम् धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः
न तथा ह्यघवान् राजन्पूयेत तपआदिभि: ।
यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥ १६ ॥
न तथा हि अघ-वान् राजन् पूयेत तपः-आदिभिः यथा कृष्ण-अर्पित-प्राणः तत्-पुरुष-निषेवया
सध्रीचीनो ह्ययं लोके पन्था: क्षेमोऽकुतोभय: ।
सुशीला: साधवो यत्र नारायणपरायणा: ॥ १७ ॥
सध्रीचीनः हि अयम् लोके पन्थाः क्षेमः अकुतः-भयः सु-शीलाः साधवः यत्र नारायण-परायणाः
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।
न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगा: ॥ १८ ॥
प्रायश्चित्तानि चीर्णानि नारायण-पराङ्मुखम् न निष्पुनन्ति राजेन्द्र सुरा-कुम्भम् इव आप-गाः
सकृन्मन: कृष्णपदारविन्दयो-
र्निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृता: ॥ १९ ॥
सकृत् मनः कृष्ण-पद-अरविन्दयोः निवेशितम् तत् गुण-रागि यैः इह न ते यमम् पाश-भृतः च तत् भटान् स्वप्ने अपि पश्यन्ति हि चीर्ण-निष्कृताः
अत्र चोदाहरन्तीममितिहासं पुरातनम् ।
दूतानां विष्णुयमयो: संवादस्तं निबोध मे ॥ २० ॥
अत्र च उदाहरन्ति इमम् इतिहासम् पुरातनम् दूतानाम् विष्णु यमयोः संवादः तम् निबोध मे
कान्यकुब्जे द्विज: कश्चिद्दासीपतिरजामिल: ।
नाम्ना नष्टसदाचारो दास्या: संसर्गदूषित: ॥ २१ ॥
कान्य-कुब्जे द्विजः कश्चित् दासी-पतिः अजामिलः नाम्ना नष्ट-सत्-आचारः दास्याः संसर्ग-दूषितः
बन्द्यक्षै: कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थित: ।
बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिन: ॥ २२ ॥
बन्दी-अक्षैः कैतवैः चौर्यैः गर्हिताम् वृत्तिम् आस्थितः बिभ्रत् कुटुम्बम् अशुचिः यातयाम् आस देहिनः
एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।
कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुष: समा: ॥ २३ ॥
एवम् निवसतः तस्य लालयानस्य तत् सुतान् कालः अत्यगात् महान् राजन् अष्टाशीत्या आयुषः समाः
तस्य प्रवयस: पुत्रा दश तेषां तु योऽवम: ।
बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४ ॥
तस्य प्रवयसः पुत्राः दश तेषाम् तु यः अवमः बालः नारायणः नाम्ना पित्रोः च दयितः भृशम्
स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।
निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥
सः बद्ध-हृदयः तस्मिन् अर्भके कल-भाषिणि निरीक्षमाणः तत् लीलाम् मुमुदे जरठः भृशम्
भुञ्जान: प्रपिबन् खादन् बालकं स्नेहयन्त्रित: ।
भोजयन् पाययन् मूढो न वेदागतमन्तकम् ॥ २६ ॥
भुञ्जानः प्रपिबन् खादन् बालकम् स्नेह-यन्त्रितः भोजयन् पाययन् मूढः न वेद आगतम् अन्तकम्
स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।
मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥
सः एवम् वर्तमानः अज्ञः मृत्यु-काले उपस्थिते मतिम् चकार तनये बाले नारायण-आह्वये
स पाशहस्तांस्त्रीन्दृष्ट्वा पुरुषानतिदारुणान् ।
वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रिय: ॥ २९ ॥
सः पाश-हस्तान् त्रीन् दृष्ट्वा पुरुषान् अति-दारुणान् वक्र-तुण्डान् ऊर्ध्व-रोम्णः आत्मानम् नेतुम् आगतान् दूरे क्रीडनक-आसक्तम् पुत्रम् नारायण-आह्वयम् प्लावितेन स्वरेण उच्चैः आजुहाव आकुल-इन्द्रियः
निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् ।
भर्तुर्नाम महाराज पार्षदा: सहसापतन् ॥ ३० ॥
निशम्य म्रियमाणस्य मुखतः हरि-कीर्तनम् भर्तुः नाम महा-राज पार्षदाः सहसा आपतन्
विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् ।
यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१ ॥
विकर्षतः अन्तः हृदयात् दासी-पतिम् अजामिलम् यम-प्रेष्यान् विष्णु-दूताः वारयाम् आसुः ओजसा
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुर:सरा: ।
के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२ ॥
ऊचुः निषेधिताः तान् ते वैवस्वत पुरः-सराः के यूयम् प्रतिषेद्-धारः धर्म-राजस्य शासनम्
कस्य वा कुत आयाता: कस्मादस्य निषेधथ ।
किं देवा उपदेवा या यूयं किं सिद्धसत्तमा: ॥ ३३ ॥
कस्य वा कुतः आयाताः कस्मात् अस्य निषेधथ किम् देवाः उपदेवाः याः यूयम् किम् सिद्ध-सत्-तमाः
सर्वे पद्मपलाशाक्षा: पीतकौशेयवासस: ।
किरीटिन: कुण्डलिनो लसत्पुष्करमालिन: ॥ ३४ ॥
सर्वे च नूत्नवयस: सर्वे चारुचतुर्भुजा: ।
धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रिय: ॥ ३५ ॥
दिशो वितिमिरालोका: कुर्वन्त: स्वेन तेजसा ।
किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ॥ ३६ ॥
सर्वे पद्म-पलाश-अक्षाः पीत कौशेय वाससः किरीटिनः कुण्डलिनः लसत् पुष्कर-मालिनः सर्वे च नूत्न-वयसः सर्वे चारु चतुः-भुजाः धनुः निषङ्ग असि गदा शङ्ख चक्र अम्बुज श्रियः दिशः वितिमिर आलोकाः कुर्वन्तः स्वेन तेजसा किम् अर्थम् धर्म-पालस्य किङ्करान् नः निषेधथ
श्रीशुक उवाच
इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिण: ।
तान् प्रत्यूचु: प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥
श्री-शुकः उवाच इति उक्ते यमदूतैः ते वासुदेव-उक्त-कारिणः तान् प्रत्यूचुः प्रहस्य इदम् मेघ-निर्ह्रादया गिरा
श्रीविष्णुदूता ऊचु:
यूयं वै धर्मराजस्य यदि निर्देशकारिण: ।
ब्रूत धर्मस्य नस्तत्त्वं यच्चाधर्मस्य लक्षणम् ॥ ३८ ॥
श्री-विष्णुदूताः ऊचुः यूयम् वै धर्म-राजस्य यदि निर्देश-कारिणः ब्रूत धर्मस्य नः तत्त्वम् यत् च अधर्मस्य लक्षणम्
कथं स्विद् ध्रियते दण्ड: किं वास्य स्थानमीप्सितम् ।
दण्ड्या: किं कारिण: सर्वे आहो स्वित्कतिचिन्नृणाम् ॥ ३९ ॥
कथम् स्वित् ध्रियते दण्डः किम् वा अस्य स्थानम् ईप्सितम् दण्ड्याः किम् कारिणः सर्वे आहो स्वित् कतिचित् नृणाम्
यमदूता ऊचु:
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्यय: ।
वेदो नारायण: साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४० ॥
यमदूताः ऊचुः वेद प्रणिहितः धर्मः हि अधर्मः तत्-विपर्ययः वेदः नारायणः साक्षात् स्वयम्-भूः इति शुश्रुम
येन स्वधाम्न्यमी भावा रज:सत्त्वतमोमया: ।
गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ ४१ ॥
येन स्व-धाम्नि अमी भावाः रजः-सत्त्व-तमः-मयाः गुण नाम क्रिया रूपैः विभाव्यन्ते यथा-तथम्
सूर्योऽग्नि: खं मरुद्देव: सोम: सन्ध्याहनी दिश: ।
कं कु: स्वयं धर्म इति ह्येते दैह्यस्य साक्षिण: ॥ ४२ ॥
सूर्यः अग्निः खम् मरुत् देवः सोमः सन्ध्या अहनी दिशः कम् कुः स्वयम् धर्मः इति हि एते दैह्यस्य साक्षिणः
एतैरधर्मो विज्ञात: स्थानं दण्डस्य युज्यते ।
सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिण: ॥ ४३ ॥
एतैः अधर्मः विज्ञातः स्थानम् दण्डस्य युज्यते सर्वे कर्म-अनुरोधेन दण्डम् अर्हन्ति कारिणः
सम्भवन्ति हि भद्राणि विपरीतानि चानघा: ।
कारिणां गुणसङ्गोऽस्ति देहवान्न ह्यकर्मकृत् ॥ ४४ ॥
सम्भवन्ति हि भद्राणि विपरीतानि च अनघाः कारिणाम् गुण-सङ्गः अस्ति देह-वान् न हि अकर्म-कृत्
येन यावान्यथाधर्मो धर्मो वेह समीहित: ।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ ४५ ॥
येन यावान् यथा अधर्मः धर्मः वा इह समीहितः सः एव तत्-फलम् भुङ्क्ते तथा तावत् अमुत्र वै
यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।
भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते ॥ ४६ ॥
यथा इह देव-प्रवराः त्रै-विध्यम् उपलभ्यते भूतेषु गुण-वैचित्र्यात् तथा अन्यत्र अनुमीयते
वर्तमानोऽन्ययो: कालो गुणाभिज्ञापको यथा ।
एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ ४७ ॥
वर्तमानः अन्ययोः कालः गुण-अभिज्ञापकः यथा एवम् जन्म अन्ययोः एतत् धर्म अधर्म निदर्शनम्
मनसैव पुरे देव: पूर्वरूपं विपश्यति ।
अनुमीमांसतेऽपूर्वं मनसा भगवानज: ॥ ४८ ॥
मनसा एव पुरे देवः पूर्व-रूपम् विपश्यति अनुमीमांसते अपूर्वम् मनसा भगवान् अजः
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।
न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥
यथा अज्ञः तमसा युक्तः उपास्ते व्यक्तम् एव हि न वेद पूर्वम् अपरम् नष्ट जन्म-स्मृतिः तथा
पञ्चभि: कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभि: ।
एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५० ॥
पञ्चभिः कुरुते स्व-अर्थान् पञ्च वेद अथ पञ्चभिः एकः तु षोडशेन त्रीन् स्वयम् सप्तदशः अश्नुते
तदेतत्षोडशकलं लिङ्गं शक्तित्रयं महत् ।
धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१ ॥
तत् एतत् षोडश-कलम् लिङ्गम् शक्ति-त्रयम् महत् धत्ते अनुसंसृतिम् पुंसि हर्ष शोक भय आर्ति दाम्
देह्यज्ञोऽजितषड्वर्गो नेच्छन्कर्माणि कार्यते ।
कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति ॥ ५२ ॥
देही अज्ञः अजित-षट्-वर्गः न इच्छन् कर्माणि कार्यते कोशकारः इव आत्मानम् कर्मणा आच्छाद्य मुह्यति
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवश: कर्म गुणै: स्वाभाविकैर्बलात् ॥ ५३ ॥
न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्म-कृत् कार्यते हि अवशः कर्म गुणैः स्वाभाविकैः बलात्
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।
यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४ ॥
लब्ध्वा निमित्तम् अव्यक्तम् व्यक्त-अव्यक्तम् भवति उत यथा-योनि यथा-बीजम् स्व-भावेन बलीयसा
एष प्रकृतिसङ्गेन पुरुषस्य विपर्यय: ।
आसीत्स एव नचिरादीशसङ्गाद्विलीयते ॥ ५५ ॥
एषः प्रकृति-सङ्गेन पुरुषस्य विपर्ययः आसीत् सः एव न चिरात् ईश-सङ्गात् विलीयते
अयं हि श्रुतसम्पन्न: शीलवृत्तगुणालय: ।
धृतव्रतो मृदुर्दान्त: सत्यवाङ्मन्त्रविच्छुचि: ॥ ५६ ॥
गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृत: ।
सर्वभूतसुहृत्साधुर्मितवागनसूयक: ॥ ५७ ॥
अयम् हि श्रुत-सम्पन्नः शील वृत्त गुण आलयः धृत-व्रतः मृदुः दान्तः सत्य-वाक् मन्त्र-वित् शुचिः गुरु अग्नि अतिथि वृद्धानाम् शुश्रूषुः अनहङ्कृतः सर्व-भूत-सुहृत् साधुः मित-वाक् अनसूयकः
एकदासौ वनं यात: पितृसन्देशकृद् द्विज: ।
आदाय तत आवृत्त: फलपुष्पसमित्कुशान् ॥ ५८ ॥
ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया ।
पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९ ॥
मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् ।
क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ॥ ६० ॥
एकदा असौ वनम् यातः पितृ सन्देश कृत् द्विजः आदाय ततः आवृत्तः फल-पुष्प समित्-कुशान् ददर्श कामिनम् कञ्चित् शूद्रम् सह भुजिष्यया पीत्वा च मधु मैरेयम् मद आघूर्णित नेत्रया मत्तया विश्लथत्-नीव्या व्यपेतम् निरपत्रपम् क्रीडन्तम् अनुगायन्तम् हसन्तम् अनया अन्तिके
दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।
जगाम हृच्छयवशं सहसैव विमोहित: ॥ ६१ ॥
दृष्ट्वा ताम् काम-लिप्तेन बाहुना परिरम्भिताम् जगाम हृत्-शय वशम् सहसा एव विमोहितः
स्तम्भयन्नात्मनात्मानं यावत्सत्त्वं यथाश्रुतम् ।
न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२ ॥
स्तम्भयन् आत्मना आत्मानम् यावत् सत्त्वम् यथा-श्रुतम् न शशाक समाधातुम् मनः मदन-वेपितम्
तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतन: ।
तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ ६३ ॥
तत्-निमित्त स्मर-व्याज ग्रह-ग्रस्तः विचेतनः ताम् एव मनसा ध्यायन् स्व-धर्मात् विरराम ह
तामेव तोषयामास पित्र्येणार्थेन यावता ।
ग्राम्यैर्मनोरमै: कामै: प्रसीदेत यथा तथा ॥ ६४ ॥
ताम् एव तोषयाम् आस पित्र्येण अर्थेन यावता ग्राम्यैः मनः-रमैः कामैः प्रसीदेत यथा तथा
विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।
विससर्जाचिरात्पाप: स्वैरिण्यापाङ्गविद्धधी: ॥ ६५ ॥
विप्राम् स्व-भार्याम् अप्रौढाम् कुले महति लम्भिताम् विससर्ज अचिरात् पापः स्वैरिण्या अपाङ्ग-विद्ध-धीः
यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् ।
बभारास्या: कुटुम्बिन्या: कुटुम्बं मन्दधीरयम् ॥ ६६ ॥
यतः ततः च उपनिन्ये न्यायतः अन्यायतः धनम् बभार अस्याः कुटुम्-बिन्याः कुटुम्बम् मन्द-धीः अयम्
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यतिगर्हित: ।
अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ ६७ ॥
यत् असौ शास्त्रम् उल्लङ्घ्य स्वैर-चारी अति-गर्हितः अवर्तत चिरम् कालम् अघ-आयुः अशुचिः मलात्
तत एनं दण्डपाणे: सकाशं कृतकिल्बिषम् ।
नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥
ततः एनम् दण्ड-पाणेः सकाशम् कृत-किल्बिषम् नेष्यामः अकृत-निर्वेशम् यत्र दण्डेन शुद्ध्यति
६.२
श्रीबादरायणिरुवाच
एवं ते भगवद्दूता यमदूताभिभाषितम् ।
उपधार्याथ तान् राजन् प्र्रत्याहुर्नयकोविदा: ॥ १ ॥
श्री-बादरायणिः उवाच एवम् ते भगवत्-दूताः यमदूत अभिभाषितम् उपधार्य अथ तान् राजन् प्रत्याहुः नय-कोविदाः
श्रीविष्णुदूता ऊचु:
अहो कष्टं धर्मदृशामधर्म: स्पृशते सभाम् ।
यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २ ॥
श्री-विष्णुदूताः ऊचुः अहो कष्टम् धर्म-दृशाम् अधर्मः स्पृशते सभाम् यत्र अदण्ड्येषु अपापेषु दण्डः यैः ध्रियते वृथा
प्रजानां पितरो ये च शास्तार: साधव: समा: ।
यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजा: ॥ ३ ॥
प्रजानाम् पितरः ये च शास्तारः साधवः समाः यदि स्यात् तेषु वैषम्यम् कम् यान्ति शरणम् प्रजाः
यद्यदाचरति श्रेयानितरस्तत्तदीहते ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४ ॥
यत् यत् आचरति श्रेयान् इतरः तत् तत् ईहते सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते
यस्याङ्के शिर आधाय लोक: स्वपिति निर्वृत: ।
स्वयं धर्ममधर्मं वा न हि वेद यथा पशु: ॥ ५ ॥
स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् ।
विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति ॥ ६ ॥
यस्य अङ्के शिरः आधाय लोकः स्वपिति निर्वृतः स्वयम् धर्मम् अधर्मम् वा न हि वेद यथा पशुः सः कथम् न्यर्पित-आत्मानम् कृत-मैत्रम् अचेतनम् विस्रम्भणीयः भूतानाम् स-घृणः दोग्धुम् अर्हति
अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।
यद्व्याजहार विवशो नाम स्वस्त्ययनं हरे: ॥ ७ ॥
अयम् हि कृत-निर्वेशः जन्म कोटि अंहसाम् अपि यत् व्याजहार विवशः नाम स्वस्ति-अयनम् हरेः
एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् ।
यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८ ॥
एतेन एव हि अघोनः अस्य कृतम् स्यात् अघ निष्कृतम् यदा नारायण आय इति जगाद चतुः-अक्षरम्
स्तेन: सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पग: ।
स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मति: ॥ १० ॥
स्तेनः सुरा-पः मित्र-ध्रुक् ब्रह्म-हा गुरु-तल्प-गः स्त्री राज पितृ गो हन्ता ये च पातकिनः अपरे सर्वेषाम् अपि अघ-वताम् इदम् एव सु-निष्कृतम् नाम-व्याहरणम् विष्णोः यतः तत्-विषया मतिः
न निष्कृतैरुदितैर्ब्रह्मवादिभि-
स्तथा विशुद्ध्यत्यघवान् व्रतादिभि: ।
यथा हरेर्नामपदैरुदाहृतै-
स्तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११ ॥
न निष्कृतैः उदितैः ब्रह्म-वादिभिः तथा विशुद्ध्यति अघ-वान् व्रत-आदिभिः यथा हरेः नाम-पदैः उदाहृतैः तत् उत्तमश्लोक गुण उपलम्भकम्
नैकान्तिकं तद्धि कृतेऽपि निष्कृते
मन: पुनर्धावति चेदसत्पथे ।
तत्कर्मनिर्हारमभीप्सतां हरे-
र्गुणानुवाद: खलु सत्त्वभावन: ॥ १२ ॥
न ऐकान्तिकम् तत् हि कृते अपि निष्कृते मनः पुनः धावति चेत् असत्-पथे तत् कर्म-निर्हारम् अभीप्सताम् हरेः गुण-अनुवादः खलु सत्त्व-भावनः
अथैनं मापनयत कृताशेषाघनिष्कृतम् ।
यदसौ भगवन्नाम म्रियमाण: समग्रहीत् ॥ १३ ॥
अथ एनम् मा अपनयत कृत अशेष अघ-निष्कृतम् यत् असौ भगवत्-नाम म्रियमाणः समग्रहीत्
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदु: ॥ १४ ॥
साङ्केत्यम् पारिहास्यम् वा स्तोभम् हेलनम् एव वा वैकुण्ठ नाम-ग्रहणम् अशेष अघ-हरम् विदुः
पतित: स्खलितो भग्न: सन्दष्टस्तप्त आहत: ।
हरिरित्यवशेनाह पुमान्नार्हति यातना: ॥ १५ ॥
पतितः स्खलितः भग्नः सन्दष्टः तप्तः आहतः हरिः इति अवशेन आह पुमान् न अर्हति यातनाः
गुरूणां च लघूनां च गुरूणि च लघूनि च ।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभि: ॥ १६ ॥
गुरूणाम् च लघूनाम् च गुरूणि च लघूनि च प्रायश्चित्तानि पापानाम् ज्ञात्वा उक्तानि महा-ऋषिभिः
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभि: ।
नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ १७ ॥
तैः तानि अघानि पूयन्ते तपः दान व्रत-आदिभिः न अधर्म-जम् तत् हृदयम् तत् अपि ईश-अङ्घ्रि सेवया
अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् ।
सङ्कीर्तितमघं पुंसो दहेदेधो यथानल: ॥ १८ ॥
अज्ञानात् अथवा ज्ञानात् उत्तमश्लोक नाम यत् सङ्कीर्तितम् अघम् पुंसः दहेत् एधः यथा अनलः
यथागदं वीर्यतममुपयुक्तं यदृच्छया ।
अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृत: ॥ १९ ॥
यथा अगदम् वीर्य-तमम् उपयुक्तम् यदृच्छया अजानतः अपि आत्म-गुणम् कुर्यात् मन्त्रः अपि उदाहृतः
श्रीशुक उवाच
त एवं सुविनिर्णीय धर्मं भागवतं नृप ।
तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २० ॥
श्री-शुकः उवाच ते एवम् सु-विनिर्णीय धर्मम् भागवतम् नृप तम् याम्य-पाशात् निर्मुच्य विप्रम् मृत्योः अमूमुचन्
इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् ।
यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ २१ ॥
इति प्रत्युदिताः याम्याः दूताः यात्वा यम-अन्तिकम् यम-राज्ञे यथा सर्वम् आचचक्षुः अरिन्दम
द्विज: पाशाद्विनिर्मुक्तो गतभी: प्रकृतिं गत: ।
ववन्दे शिरसा विष्णो: किङ्करान् दर्शनोत्सव: ॥ २२ ॥
द्विजः पाशात् विनिर्मुक्तः गत-भीः प्रकृतिम् गतः ववन्दे शिरसा विष्णोः किङ्करान् दर्शन-उत्सवः
तं विवक्षुमभिप्रेत्य महापुरुषकिङ्करा: ।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥
तम् विवक्षुम् अभिप्रेत्य महापुरुष-किङ्कराः सहसा पश्यतः तस्य तत्र अन्तर्दधिरे अनघ
अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयो: ।
धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ २४ ॥
भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरे: ।
अनुतापो महानासीत्स्मरतोऽशुभमात्मन: ॥ २५ ॥
अजामिलः अपि अथ आकर्ण्य दूतानाम् यम-कृष्णयोः धर्मम् भागवतम् शुद्धम् त्रै-वेद्यम् च गुण-अश्रयम् भक्ति-मान् भगवति आशु माहात्म्य श्रवणात् हरेः अनुतापः महान् आसीत् स्मरतः अशुभम् आत्मनः
अहो मे परमं कष्टमभूदविजितात्मन: ।
येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ २६ ॥
अहो मे परमम् कष्टम् अभूत् अविजित-आत्मनः येन विप्लावितम् ब्रह्म वृषल्याम् जायता आत्मना
धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् ।
हित्वा बालां सतीं योऽहं सुरापीमसतीमगाम् ॥ २७ ॥
धिक् माम् विगर्हितम् सद्भिः दुष्कृतम् कुल-कज्जलम् हित्वा बालाम् सतीम् यः अहम् सुरा-पीम् असतीम् अगाम्
वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।
अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ २८ ॥
वृद्धौ अनाथौ पितरौ न अन्य-बन्धू तपस्विनौ अहो मया अधुना त्यक्तौ अकृत-ज्ञेन नीच-वत्
सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।
धर्मघ्ना: कामिनो यत्र विन्दन्ति यमयातना: ॥ २९ ॥
सः अहम् व्यक्तम् पतिष्यामि नरके भृश-दारुणे धर्म-घ्नाः कामिनः यत्र विन्दन्ति यम-यातनाः
किमिदं स्वप्न आहो स्वित् साक्षाद् दृष्टमिहाद्भुतम् ।
क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणय: ॥ ३० ॥
किम् इदम् स्वप्ने आहो स्वित् साक्षात् दृष्टम् इह अद्भुतम् क्व याताः अद्य ते ये माम् व्यकर्षन् पाश-पाणयः
अथ ते क्व गता: सिद्धाश्चत्वारश्चारुदर्शना: ।
व्यामोचयन्नीयमानं बद्ध्वा पाशैरधो भुव: ॥ ३१ ॥
अथ ते क्व गताः सिद्धाः चत्वारः चारु-दर्शनाः व्यामोचयन् नीयमानम् बद्ध्वा पाशैः अधः भुवः
अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ ३२ ॥
अथ अपि मे दुर्भगस्य विबुध-उत्तम दर्शने भवितव्यम् मङ्गलेन येन आत्मा मे प्रसीदति
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपते: ।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३ ॥
अन्यथा म्रियमाणस्य न अशुचेः वृषली-पतेः वैकुण्ठ नाम-ग्रहणम् जिह्वा वक्तुम् इह अर्हति
क्व चाहं कितव: पापो ब्रह्मघ्नो निरपत्रप: ।
क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ ३४ ॥
क्व च अहम् कितवः पापः ब्रह्म-घ्नः निरपत्रपः क्व च नारायण इति एतत् भगवत्-नाम मङ्गलम्
सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिल: ।
यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ ३५ ॥
सः अहम् तथा यतिष्यामि यत-चित्त-इन्द्रिय अनिलः यथा न भूयः आत्मानम् अन्धे तमसि मज्जये
विमुच्य तमिमं बन्धमविद्याकामकर्मजम् ।
सर्वभूतसुहृच्छान्तो मैत्र: करुण आत्मवान् ॥ ३६ ॥
मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया ।
विक्रीडितो ययैवाहं क्रीडामृग इवाधम: ॥ ३७ ॥
विमुच्य तम् इमम् बन्धम् अविद्या काम कर्म-जम् सर्व-भूत सुहृत् शान्तः मैत्रः करुणः आत्म-वान् मोचये ग्रस्तम् आत्मानम् योषित्-मय्या आत्म-मायया विक्रीडितः यया एव अहम् क्रीडा-मृगः इव अधमः
ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् ।
धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभि: ॥ ३८ ॥
मम अहम् इति देह-आदौ हित्वा अमिथ्या अर्थ धीः मतिम् धास्ये मनः भगवति शुद्धम् तत् कीर्तन-आदिभिः
इति जातसुनिर्वेद: क्षणसङ्गेन साधुषु ।
गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धन: ॥ ३९ ॥
इति जात-सुनिर्वेदः क्षण-सङ्गेन साधुषु गङ्गा-द्वारम् उपेयाय मुक्त सर्व-अनुबन्धनः
स तस्मिन् देवसदन आसीनो योगमास्थित: ।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४० ॥
सः तस्मिन् देव-सदने आसीनः योगम् आस्थितः प्रत्याहृत इन्द्रिय-ग्रामः युयोज मनः आत्मनि
ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।
युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१ ॥
ततः गुणेभ्यः आत्मानम् वियुज्य आत्म-समाधिना युयुजे भगवत्-धाम्नि ब्रह्मणि अनुभव-आत्मनि
यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुर: ।
उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विज: ॥ ४२ ॥
यर्हि उपारत-धीः तस्मिन् अद्राक्षीत् पुरुषान् पुरः उपलभ्य उपलब्धान् प्राक् ववन्दे शिरसा द्विजः
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु ।
सद्य: स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ ४३ ॥
हित्वा कलेवरम् तीर्थे गङ्गायाम् दर्शनात् अनु सद्यः स्व-रूपम् जगृहे भगवत्-पार्श्व-वर्तिनाम्
साकं विहायसा विप्रो महापुरुषकिङ्करै: ।
हैमं विमानमारुह्य ययौ यत्र श्रिय: पति: ॥ ४४ ॥
साकम् विहायसा विप्रः महापुरुष-किङ्करैः हैमम् विमानम् आरुह्य ययौ यत्र श्रियः पतिः
एवं स विप्लावितसर्वधर्मा
दास्या: पति: पतितो गर्ह्यकर्मणा ।
निपात्यमानो निरये हतव्रत:
सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५ ॥
एवम् सः विप्लावित-सर्व-धर्माः दास्याः पतिः पतितः गर्ह्य-कर्मणा निपात्यमानः निरये हत-व्रतः सद्यः विमुक्तः भगवत्-नाम गृह्णन्
नात: परं कर्मनिबन्धकृन्तनं
मुमुक्षतां तीर्थपदानुकीर्तनात् ।
न यत्पुन: कर्मसु सज्जते मनो
रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६ ॥
न अतः परम् कर्म-निबन्ध कृन्तनम् मुमुक्षताम् तीर्थ-पाद अनुकीर्तनात् न यत् पुनः कर्मसु सज्जते मनः रजः-तमोभ्याम् कलिलम् ततः अन्यथा
य एतं परमं गुह्यमितिहासमघापहम् ।
शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७ ॥
न वै स नरकं याति नेक्षितो यमकिङ्करै: ।
यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ ४८ ॥
यः एतम् परमम् गुह्यम् इतिहासम् अघ-अपहम् शृणुयात् श्रद्धया युक्तः यः च भक्त्या अनुकीर्तयेत् न वै सः नरकम् याति न ईक्षितः यम-किङ्करैः यदि अपि अमङ्गलः मर्त्यः विष्णु-लोके महीयते
म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।
अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन् ॥ ४९ ॥
म्रियमाणः हरेः नाम गृणन् पुत्र-उपचारितम् अजामिलः अपि अगात् धाम किम् उत श्रद्धया गृणन्
६.३
श्रीराजोवाच
निशम्य देव: स्वभटोपवर्णितं
प्रत्याह किं तानपि धर्मराज: ।
एवं हताज्ञो विहतान्मुरारे-
र्नैदेशिकैर्यस्य वशे जनोऽयम् ॥ १ ॥
श्री-राजा उवाच निशम्य देवः स्व-भट उपवर्णितम् प्रत्याह किम् तान् अपि धर्म-राजः एवम् हत-आज्ञः विहतान् मुरारेः नैदेशिकैः यस्य वशे जनः अयम्
यमस्य देवस्य न दण्डभङ्ग:
कुतश्चनर्षे श्रुतपूर्व आसीत् ।
एतन्मुने वृश्चति लोकसंशयं
न हि त्वदन्य इति मे विनिश्चितम् ॥ २ ॥
यमस्य देवस्य न दण्ड-भङ्गः कुतश्चन ऋषे श्रुत-पूर्वः आसीत् एतत् मुने वृश्चति लोक-संशयम् न हि त्वत्-अन्यः इति मे विनिश्चितम्
श्रीशुक उवाच
भगवत्पुरुषै राजन् याम्या: प्रतिहतोद्यमा: ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३ ॥
श्री-शुकः उवाच भगवत्-पुरुषैः राजन् याम्याः प्रतिहत-उद्यमाः पतिम् विज्ञापयाम् आसुः यमम् संयमनी-पतिम्
यमदूता ऊचु:
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।
त्रैविध्यं कुर्वत: कर्म फलाभिव्यक्तिहेतव: ॥ ४ ॥
यमदूताः ऊचुः कति सन्ति इह शास्तारः जीव-लोकस्य वै प्रभो त्रै-विध्यम् कुर्वतः कर्म फल अभिव्यक्ति हेतवः
यदि स्युर्बहवो लोके शास्तारो दण्डधारिण: ।
कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ ५ ॥
यदि स्युः बहवः लोके शास्तारः दण्ड-धारिणः कस्य स्याताम् न वा कस्य मृत्युः च अमृतम् एव वा
किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् ।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ ६ ॥
किन्तु शास्तृ बहुत्वे स्यात् बहूनाम् इह कर्मिणाम् शास्तृत्वम् उपचारः हि यथा मण्डल-वर्तिनाम्
अतस्त्वमेको भूतानां सेश्वराणामधीश्वर: ।
शास्ता दण्डधरो नृणां शुभाशुभविवेचन: ॥ ७ ॥
अतः त्वम् एकः भूतानाम् स-ईश्वराणाम् अधीश्वरः शास्ता दण्ड-धरः नॄणाम् शुभ-अशुभ-विवेचनः
तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना ।
चतुर्भिरद्भुतै: सिद्धैराज्ञा ते विप्रलम्भिता ॥ ८ ॥
तस्य ते विहितः दण्डः न लोके वर्तते अधुना चतुर्भिः अद्भुतैः सिद्धैः आज्ञा ते विप्रलम्भिता
नीयमानं तवादेशादस्माभिर्यातनागृहान् ।
व्यामोचयन्पातकिनं छित्त्वा पाशान प्रसह्य ते ॥ ९ ॥
नीयमानम् तव आदेशात् अस्माभिः यातना-गृहान् व्यामोचयन् पातकिनम् छित्त्वा पाशान् प्रसह्य ते
तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।
नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥ १० ॥
तान् ते वेदितुम् इच्छामः यदि नः मन्यसे क्षमम् नारायण इति अभिहिते मा भैः इति आययुः द्रुतम्
श्रीबादरायणिरुवाच
इति देव: स आपृष्ट: प्रजासंयमनो यम: ।
प्रीत: स्वदूतान्प्रत्याह स्मरन् पादाम्बुजं हरे: ॥ ११ ॥
श्री-बादरायणिः उवाच इति देवः सः आपृष्टः प्रजा-संयमनः यमः प्रीतः स्व-दूतान् प्रत्याह स्मरन् पाद-अम्बुजम् हरेः
यम उवाच
परो मदन्यो जगतस्तस्थुषश्च
ओतं प्रोतं पटवद्यत्र विश्वम् ।
यदंशतोऽस्य स्थितिजन्मनाशा
नस्योतवद्यस्य वशे च लोक: ॥ १२ ॥
यमः उवाच परः मत् अन्यः जगतः तस्थुषः च ओतम् प्रोतम् पटवत् यत्र विश्वम् यत् अंशतः अस्य स्थिति जन्म नाशाः नसि ओत-वत् यस्य वशे च लोकः
यो नामभिर्वाचि जनं निजायां
बध्नाति तन्त्र्यामिव दामभिर्गा: ।
यस्मै बलिं त इमे नामकर्म-
निबन्धबद्धाश्चकिता वहन्ति ॥ १३ ॥
यः नामभिः वाचि जनम् निजायाम् बध्नाति तन्त्र्याम् इव दामभिः गाः यस्मै बलिम् ते इमे नाम-कर्म निबन्ध बद्धाः चकिताः वहन्ति
अहं महेन्द्रो निऋर्ति: प्रचेता:
सोमोऽग्निरीश: पवनो विरिञ्चि: ।
आदित्यविश्वे वसवोऽथ साध्या
मरुद्गणा रुद्रगणा: ससिद्धा: ॥ १४ ॥
अन्ये च ये विश्वसृजोऽमरेशा
भृग्वादयोऽस्पृष्टरजस्तमस्का: ।
यस्येहितं न विदु: स्पृष्टमाया:
सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ १५ ॥
अहम् महेन्द्रः निरृतिः प्रचेताः सोमः अग्निः ईशः पवनः विरिञ्चिः आदित्य विश्वे वसवः अथ साध्याः मरुत्-गणाः रुद्र-गणाः स-सिद्धाः अन्ये च ये विश्व-सृजः अमर-ईशाः भृगु-आदयः अस्पृष्ट रजः-तमस्काः यस्य ईहितम् न विदुः स्पृष्ट-मायाः सत्त्व-प्रधानाः अपि किम् ततः अन्ये
यं वै न गोभिर्मनसासुभिर्वा
हृदा गिरा वासुभृतो विचक्षते ।
आत्मानमन्तर्हृदि सन्तमात्मनां
चक्षुर्यथैवाकृतयस्तत: परम् ॥ १६ ॥
यम् वै न गोभिः मनसा असुभिः वा हृदा गिरा वा असु-भृतः विचक्षते आत्मानम् अन्तः-हृदि सन्तम् आत्मनाम् चक्षुः यथा एव आकृतयः ततः परम्
तस्यात्मतन्त्रस्य हरेरधीशितु:
परस्य मायाधिपतेर्महात्मन: ।
प्रायेण दूता इह वै मनोहरा-
श्चरन्ति तद्रूपगुणस्वभावा: ॥ १७ ॥
तस्य आत्म-तन्त्रस्य हरेः अधीशितुः परस्य माया-अधिपतेः महा-आत्मनः प्रायेण दूताः इह वै मनोहराः चरन्ति तत् रूप गुण स्वभावाः
भूतानि विष्णो: सुरपूजितानि
दुर्दर्शलिङ्गानि महाद्भुतानि ।
रक्षन्ति तद्भक्तिमत: परेभ्यो
मत्तश्च मर्त्यानथ सर्वतश्च ॥ १८ ॥
भूतानि विष्णोः सुर-पूजितानि दुर्दर्श-लिङ्गानि महा-अद्भुतानि रक्षन्ति तत्-भक्ति-मतः परेभ्यः मत्तः च मर्त्यान् अथ सर्वतः च
धर्मं तु साक्षाद्भगवत्प्रणीतं
न वै विदुऋर्षयो नापि देवा: ।
न सिद्धमुख्या असुरा मनुष्या:
कुतो नु विद्याधरचारणादय: ॥ १९ ॥
धर्मम् तु साक्षात् भगवत् प्रणीतम् न वै विदुः ऋषयः न अपि देवाः न सिद्ध-मुख्याः असुराः मनुष्याः कुतः नु विद्याधर चारण आदयः
स्वयम्भूर्नारद: शम्भु: कुमार: कपिलो मनु: ।
प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ २० ॥
द्वादशैते विजानीमो धर्मं भागवतं भटा: ।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ २१ ॥
स्वयम्भूः नारदः शम्भुः कुमारः कपिलः मनुः प्रह्लादः जनकः भीष्मः बलिः वैयासकिः वयम् द्वादश एते विजानीमः धर्मम् भागवतम् भटाः गुह्यम् विशुद्धम् दुर्बोधम् यम् ज्ञात्वा अमृतम् अश्नुते
एतावानेव लोकेऽस्मिन् पुंसां धर्म: पर: स्मृत: ।
भक्तियोगो भगवति तन्नामग्रहणादिभि: ॥ २२ ॥
एतावान् एव लोके अस्मिन् पुंसाम् धर्मः परः स्मृतः भक्ति-योगः भगवति तत् नाम ग्रहण-आदिभिः
नामोच्चारणमाहात्म्यं हरे: पश्यत पुत्रका: ।
अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ २३ ॥
नाम उच्चारण माहात्म्यम् हरेः पश्यत पुत्रकाः अजामिलः अपि येन एव मृत्यु-पाशात् अमुच्यत
एतावतालमघनिर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्रमघवान् यदजामिलोऽपि
नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४ ॥
एतावता अलम् अघ-निर्हरणाय पुंसाम् सङ्कीर्तनम् भगवतः गुण कर्म-नाम्नाम् विक्रुश्य पुत्रम् अघवान् यत् अजामिलः अपि नारायण इति म्रियमाणः इयाय मुक्तिम्
प्रायेण वेद तदिदं न महाजनोऽयं
देव्या विमोहितमतिर्बत माययालम् ।
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां
वैतानिके महति कर्मणि युज्यमान: ॥ २५ ॥
प्रायेण वेद तत् इदम् न महाजनः अयम् देव्या विमोहित-मतिः बत मायया अलम् त्रय्याम् जडी-कृत-मतिः मधु-पुष्पितायाम् वैतानिके महति कर्मणि युज्यमानः
एवं विमृश्य सुधियो भगवत्यनन्ते
सर्वात्मना विदधते खलु भावयोगम् ।
ते मे न दण्डमर्हन्त्यथ यद्यमीषां
स्यात् पातकं तदपि हन्त्युरुगायवाद: ॥ २६ ॥
एवम् विमृश्य सु-धियः भगवति अनन्ते सर्व-आत्मना विदधते खलु भाव-योगम् ते मे न दण्डम् अर्हन्ति अथ यदि अमीषाम् स्यात् पातकम् तत् अपि हन्ति उरुगाय-वादः
ते देवसिद्धपरिगीतपवित्रगाथा
ये साधव: समदृशो भगवत्प्रपन्ना: ।
तान्नोपसीदत हरेर्गदयाभिगुप्तान्
नैषां वयं न च वय: प्रभवाम दण्डे ॥ २७ ॥
ते देव सिद्ध परिगीत पवित्र-गाथाः ये साधवः समदृशः भगवत्-प्रपन्नाः तान् न उपसीदत हरेः गदया अभिगुप्तान् न एषाम् वयम् न च वयः प्रभवाम दण्डे
तानानयध्वमसतो विमुखान् मुकुन्द-
पादारविन्दमकरन्दरसादजस्रम् ।
निष्किञ्चनै: परमहंसकुलैरसङ्गै-
र्जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ २८ ॥
तान् आनयध्वम् असतः विमुखान् मुकुन्द पाद-अरविन्द मकरन्द रसात् अजस्रम् निष्किञ्चनैः परमहंस-कुलैः असङ्गैः जुष्टात् गृहे निरय-वर्त्मनि बद्ध-तृष्णान्
जिह्वा न वक्ति भगवद्गुणनामधेयं
चेतश्च न स्मरति तच्चरणारविन्दम् ।
कृष्णाय नो नमति यच्छिर एकदापि
तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ २९ ॥
जिह्वा न वक्ति भगवत् गुण नाम धेयम् चेतः च न स्मरति तत् चरण-अरविन्दम् कृष्णाय नो नमति यत् शिरः एकदा अपि तान् आनयध्वम् असतः अकृत विष्णु-कृत्यान्
तत् क्षम्यतां स भगवान् पुरुष: पुराणो
नारायण: स्वपुरुषैर्यदसत्कृतं न: ।
स्वानामहो न विदुषां रचिताञ्जलीनां
क्षान्तिर्गरीयसि नम: पुरुषाय भूम्ने ॥ ३० ॥
तत् क्षम्यताम् सः भगवान् पुरुषः पुराणः नारायणः स्व-पुरुषैः यत् असत् कृतम् नः स्वानाम् अहो न विदुषाम् रचित-अञ्जलीनाम् क्षान्तिः गरीयसि नमः पुरुषाय भूम्ने
तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।
महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥ ३१ ॥
तस्मात् सङ्कीर्तनम् विष्णोः जगत्-मङ्गलम् अंहसाम् महताम् अपि कौरव्य विद्धि ऐकान्तिक निष्कृतम्
शृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहु: ।
यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभि: ॥ ३२ ॥
शृण्वताम् गृणताम् वीर्याणि उद्दामानि हरेः मुहुः यथा सु-जातया भक्त्या शुद्ध्येत् न आत्मा व्रत-आदिभिः
कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट-
मायागुणेषु रमते वृजिनावहेषु ।
अन्यस्तु कामहत आत्मरज: प्रमार्ष्टु-
मीहेत कर्म यत एव रज: पुन: स्यात् ॥ ३३ ॥
कृष्ण-अङ्घ्रि-पद्म मधु लिट् न पुनः विसृष्ट माया-गुणेषु रमते वृजिन-अवहेषु अन्यः तु काम-हतः आत्म-रजः प्रमार्ष्टुम् ईहेत कर्म यतः एव रजः पुनः स्यात्
इत्थं स्वभर्तृगदितं भगवन्महित्वं
संस्मृत्य विस्मितधियो यमकिङ्करास्ते ।
नैवाच्युताश्रयजनं प्रतिशङ्कमाना
द्रष्टुं च बिभ्यति तत: प्रभृति स्म राजन् ॥ ३४ ॥
इत्थम् स्व-भर्तृ-गदितम् भगवत्-महित्वम् संस्मृत्य विस्मित-धियः यम-किङ्कराः ते न एव अच्युत-आश्रय-जनम् प्रतिशङ्कमानाः द्रष्टुम् च बिभ्यति ततः प्रभृति स्म राजन्
इतिहासमिमं गुह्यं भगवान् कुम्भसम्भव: ।
कथयामास मलय आसीनो हरिमर्चयन् ॥ ३५ ॥
इतिहासम् इमम् गुह्यम् भगवान् कुम्भ-सम्भवः कथयाम् आस मलये आसीनः हरिम् अर्चयन्
६.४
श्रीराजोवाच
देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् ।
सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १ ॥
तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा ।
अनुसर्गं यया शक्त्या ससर्ज भगवान् पर: ॥ २ ॥
श्री-राजा उवाच देव-असुर-नृणाम् सर्गः नागानाम् मृग-पक्षिणाम् सामासिकः त्वया प्रोक्तः यः तु स्वायम्भुवे अन्तरे तस्य एव व्यासम् इच्छामि ज्ञातुम् ते भगवन् यथा अनुसर्गम् यया शक्त्या ससर्ज भगवान् परः
श्रीसूत उवाच
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणि: ।
प्रतिनन्द्य महायोगी जगाद मुनिसत्तमा: ॥ ३ ॥
श्री-सूतः उवाच इति सम्प्रश्नम् आकर्ण्य राजर्षेः बादरायणिः प्रतिनन्द्य महा-योगी जगाद मुनि-सत्तमाः
श्रीशुक उवाच
यदा प्रचेतस: पुत्रा दश प्राचीनबर्हिष: ।
अन्त:समुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ ४ ॥
श्री-शुकः उवाच यदा प्रचेतसः पुत्राः दश प्राचीनबर्हिषः अन्तः-समुद्रात् उन्मग्नाः ददृशुः गाम् द्रुमैः वृताम्
द्रुमेभ्य: क्रुध्यमानास्ते तपोदीपितमन्यव: ।
मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५ ॥
द्रुमेभ्यः क्रुध्यमानाः ते तपः-दीपित-मन्यवः मुखतः वायुम् अग्निम् च ससृजुः तत् दिधक्षया
ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह ।
राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ ६ ॥
ताभ्याम् निर्दह्यमानान् तान् उपलभ्य कुरूद्वह राजा उवाच महान् सोमः मन्युम् प्रशमयन् इव
न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ ।
विवर्धयिषवो यूयं प्रजानां पतय: स्मृता: ॥ ७ ॥
न द्रुमेभ्यः महा-भागाः दीनेभ्यः द्रोग्धुम् अर्हथ विवर्धयिषवः यूयम् प्रजानाम् पतयः स्मृताः
अहो प्रजापतिपतिर्भगवान् हरिरव्यय: ।
वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभु: ॥ ८ ॥
अहो प्रजापति-पतिः भगवान् हरिः अव्ययः वनस्पतीन् ओषधीः च ससर्ज ऊर्जम् इषम् विभुः
अन्नं चराणामचरा ह्यपद: पादचारिणाम् ।
अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पद: ॥ ९ ॥
अन्नम् चराणाम् अचराः हि अपदः पाद-चारिणाम् अहस्ताः हस्त-युक्तानाम् द्वि-पदाम् च चतुः-पदः
यूयं च पित्रान्वादिष्टा देवदेवेन चानघा: ।
प्रजासर्गाय हि कथं वृक्षान्निर्दग्धुमर्हथ ॥ १० ॥
यूयम् च पित्रा अन्वादिष्टाः देव-देवेन च अनघाः प्रजा-सर्गाय हि कथम् वृक्षान् निर्दग्धुम् अर्हथ
आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।
पित्रा पितामहेनापि जुष्टं व: प्रपितामहै: ॥ ११ ॥
आतिष्ठत सताम् मार्गम् कोपम् यच्छत दीपितम् पित्रा पितामहेन अपि जुष्टम् वः प्रपितामहैः
तोकानां पितरौ बन्धू दृश: पक्ष्म स्त्रिया: पति: ।
पति: प्रजानां भिक्षूणां गृह्यज्ञानां बुध: सुहृत् ॥ १२ ॥
तोकानाम् पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः पतिः प्रजानाम् भिक्षूणाम् गृही अज्ञानाम् बुधः सु-हृत्
अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वर: ।
सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥ १३ ॥
अन्तः देहेषु भूतानाम् आत्मा आस्ते हरिः ईश्वरः सर्वम् तत्-धिष्ण्यम् ईक्षध्वम् एवम् वः तोषितः हि असौ
य: समुत्पतितं देह आकाशान्मन्युमुल्बणम् ।
आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥ १४ ॥
यः समुत्पतितम् देहे आकाशात् मन्युम् उल्बणम् आत्म-जिज्ञासया यच्छेत् सः गुणान् अतिवर्तते
अलं दग्धैर्द्रुमैर्दीनै: खिलानां शिवमस्तु व: ।
वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५ ॥
अलम् दग्धैः द्रुमैः दीनैः खिलानाम् शिवम् अस्तु वः वार्क्षी हि एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम्
इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।
सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ १६ ॥
इति आमन्त्र्य वर-आरोहाम् कन्याम् आप्सरसीम् नृप सोमः राजा ययौ दत्त्वा ते धर्मेण उपयेमिरे
तेभ्यस्तस्यां समभवद् दक्ष: प्राचेतस: किल ।
यस्य प्रजाविसर्गेण लोका आपूरितास्त्रय: ॥ १७ ॥
तेभ्यः तस्याम् समभवत् दक्षः प्राचेतसः किल यस्य प्रजा-विसर्गेण लोकाः आपूरिताः त्रयः
यथा ससर्ज भूतानि दक्षो दुहितृवत्सल: ।
रेतसा मनसा चैव तन्ममावहित: शृणु ॥ १८ ॥
यथा ससर्ज भूतानि दक्षः दुहितृ-वत्सलः रेतसा मनसा च एव तत् मम अवहितः शृणु
मनसैवासृजत्पूर्वं प्रजापतिरिमा: प्रजा: ।
देवासुरमनुष्यादीन्नभ:स्थलजलौकस: ॥ १९ ॥
मनसा एव असृजत् पूर्वम् प्रजापतिः इमाः प्रजाः देव असुर मनुष्य-आदीन् नभः स्थल जल ओकसः
तमबृंहितमालोक्य प्रजासर्गं प्रजापति: ।
विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तप: ॥ २० ॥
तम् अबृंहितम् आलोक्य प्रजा-सर्गम् प्रजापतिः विन्ध्य-पादान् उपव्रज्य सः अचरत् दुष्करम् तपः
तत्राघमर्षणं नाम तीर्थं पापहरं परम् ।
उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ २१ ॥
तत्र अघमर्षणम् नाम तीर्थम् पाप-हरम् परम् उपस्पृश्य अनुसवनम् तपसा अतोषयत् हरिम्
अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् ।
तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरि: ॥ २२ ॥
अस्तौषीत् हंस-गुह्येन भगवन्तम् अधोक्षजम् तुभ्यम् तत् अभिधास्यामि कस्य अतुष्यत् यथा हरिः
श्रीप्रजापतिरुवाच
नम: परायावितथानुभूतये
गुणत्रयाभासनिमित्तबन्धवे ।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभि-
र्निवृत्तमानाय दधे स्वयम्भुवे ॥ २३ ॥
श्री-प्रजापतिः उवाच नमः पराय अवितथ अनुभूतये गुण-त्रय आभास निमित्त बन्धवे अदृष्ट-धाम्ने गुण-तत्त्व-बुद्धिभिः निवृत्त-मानाय दधे स्वयम्भुवे
न यस्य सख्यं पुरुषोऽवैति सख्यु:
सखा वसन् संवसत: पुरेऽस्मिन् ।
गुणो यथा गुणिनो व्यक्तदृष्टे-
स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥
न यस्य सख्यम् पुरुषः अवैति सख्युः सखा वसन् संवसतः पुरे अस्मिन् गुणः यथा गुणिनः व्यक्त-दृष्टेः तस्मै महा-ईशाय नमस्करोमि
देहोऽसवोऽक्षा मनवो भूतमात्रा-
मात्मानमन्यं च विदु: परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥
देहः असवः अक्षाः मनवः भूत-मात्राम् आत्मानम् अन्यम् च विदुः परम् यत् सर्वम् पुमान् वेद गुणान् च तत्-ज्ञः न वेद सर्व-ज्ञम् अनन्तम् ईडे
यदोपरामो मनसो नामरूप-
रूपस्य दृष्टस्मृतिसम्प्रमोषात् ।
य ईयते केवलया स्वसंस्थया
हंसाय तस्मै शुचिसद्मने नम: ॥ २६ ॥
यदा उपरामः मनसः नाम-रूप रूपस्य दृष्ट स्मृति सम्प्रमोषात् यः ईयते केवलया स्व-संस्थया हंसाय तस्मै शुचि-सद्मने नमः
मनीषिणोऽन्तर्हृदि सन्निवेशितं
स्वशक्तिभिर्नवभिश्च त्रिवृद्भि: ।
वह्निं यथा दारुणि पाञ्चदश्यं
मनीषया निष्कर्षन्ति गूढम् ॥ २७ ॥
स वै ममाशेषविशेषमाया
निषेधनिर्वाणसुखानुभूति: ।
स सर्वनामा स च विश्वरूप:
प्रसीदतामनिरुक्तात्मशक्ति: ॥ २८ ॥
मनीषिणः अन्तः-हृदि सन्निवेशितम् स्व-शक्तिभिः नवभिः च त्रिवृद्भिः वह्निम् यथा दारुणि पाञ्चदश्यम् मनीषया निष्कर्षन्ति गूढम् सः वै मम अशेष विशेष माया निषेध निर्वाण सुख-अनुभूतिः सः सर्व-नामा सः च विश्व-रूपः प्रसीदताम् अनिरुक्त आत्म-शक्तिः
यद्यन्निरुक्तं वचसा निरूपितं
धियाक्षभिर्वा मनसोत यस्य ।
मा भूत्स्वरूपं गुणरूपं हि तत्तत्
स वै गुणापायविसर्गलक्षण: ॥ २९ ॥
यत् यत् निरुक्तम् वचसा निरूपितम् धिया अक्षभिः वा मनसा उत यस्य मा भूत् स्व-रूपम् गुण-रूपम् हि तत् तत् सः वै गुण-अपाय विसर्ग लक्षणः
यस्मिन्यतो येन च यस्य यस्मै
यद्यो यथा कुरुते कार्यते च ।
परावरेषां परमं प्राक् प्रसिद्धं
तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥
यस्मिन् यतः येन च यस्य यस्मै यत् यः यथा कुरुते कार्यते च पर-अवरेषाम् परमम् प्राक् प्रसिद्धम् तत् ब्रह्म तत् हेतुः अनन्यत् एकम्
यच्छक्तयो वदतां वादिनां वै
विवादसंवादभुवो भवन्ति ।
कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१ ॥
यत्-शक्तयः वदताम् वादिनाम् वै विवाद संवाद भुवः भवन्ति कुर्वन्ति च एषाम् मुहुः आत्म-मोहम् तस्मै नमः अनन्त गुणाय भूम्ने
अस्तीति नास्तीति च वस्तुनिष्ठयो-
रेकस्थयोर्भिन्नविरुद्धधर्मणो: ।
अवेक्षितं किञ्चन योगसाङ्ख्ययो:
समं परं ह्यनुकूलं बृहत्तत् ॥ ३२ ॥
अस्ति इति न अस्ति इति च वस्तु-निष्ठयोः एक-स्थयोः भिन्न विरुद्ध-धर्मणोः अवेक्षितम् किञ्चन योग-साङ्ख्ययोः समम् परम् हि अनुकूलम् बृहत् तत्
योऽनुग्रहार्थं भजतां पादमूल-
मनामरूपो भगवाननन्त: ।
नामानि रूपाणि च जन्मकर्मभि-
र्भेजे स मह्यं परम: प्रसीदतु ॥ ३३ ॥
यः अनुग्रह-अर्थम् भजताम् पाद-मूलम् अनाम रूपः भगवान् अनन्तः नामानि रूपाणि च जन्म-कर्मभिः भेजे सः मह्यम् परमः प्रसीदतु
य: प्राकृतैर्ज्ञानपथैर्जनानां
यथाशयं देहगतो विभाति ।
यथानिल: पार्थिवमाश्रितो गुणं
स ईश्वरो मे कुरुतां मनोरथम् ॥ ३४ ॥
यः प्राकृतैः ज्ञान-पथैः जनानाम् यथा-आशयम् देह-गतः विभाति यथा अनिलः पार्थिवम् आश्रितः गुणम् सः ईश्वरः मे कुरुताम् मनोरथम्
श्रीशुक उवाच
इति स्तुत: संस्तुवत: स तस्मिन्नघमर्षणे ।
प्रादुरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सल: ॥ ३५ ॥
कृतपाद: सुपर्णांसे प्रलम्बाष्टमहाभुज: ।
चक्रशङ्खासिचर्मेषुधनु:पाशगदाधर: ॥ ३६ ॥
पीतवासा घनश्याम: प्रसन्नवदनेक्षण: ।
वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभ: ॥ ३७ ॥
महाकिरीटकटक: स्फुरन्मकरकुण्डल: ।
काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषित: ॥ ३८ ॥
त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वर: ।
वृतो नारदनन्दाद्यै: पार्षदै: सुरयूथपै: ।
स्तूयमानोऽनुगायद्भि: सिद्धगन्धर्वचारणै: ॥ ३९ ॥
श्री-शुकः उवाच इति स्तुतः संस्तुवतः सः तस्मिन् अघमर्षणे प्रादुरासीत् कुरु-श्रेष्ठ भगवान् भक्त-वत्सलः कृत-पादः सुपर्ण-अंसे प्रलम्ब अष्ट-महा-भुजः चक्र शङ्ख असि चर्म इषु धनुः पाश गदा धरः पीत-वासाः घन-श्यामः प्रसन्न वदन ईक्षणः वन-माला निवीत-अङ्गः लसत् श्रीवत्स-कौस्तुभः महा-किरीट कटकः स्फुरत् मकर-कुण्डलः काञ्ची अङ्गुलीय वलय नूपुर अङ्गद भूषितः त्रै-लोक्य-मोहनम् रूपम् बिभ्रत् त्रि-भुवन ईश्वरः वृतः नारद नन्द-आद्यैः पार्षदैः सुर-यूथपैः स्तूयमानः अनुगायद्भिः सिद्ध-गन्धर्व-चारणैः
रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वस: ।
ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापति: ॥ ४० ॥
रूपम् तत् महत्-आश्चर्यम् विचक्ष्य आगत-साध्वसः ननाम दण्ड-वत् भूमौ प्रहृष्ट-आत्मा प्रजापतिः
न किञ्चनोदीरयितुमशकत् तीव्रया मुदा ।
आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरै: ॥ ४१ ॥
न किञ्चन उदीरयितुम् अशकत् तीव्रया मुदा आपूरित मनः-द्वारैः ह्रदिन्यः इव निर्झरैः
तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।
चित्तज्ञ: सर्वभूतानामिदमाह जनार्दन: ॥ ४२ ॥
तम् तथा अवनतम् भक्तम् प्रजा-कामम् प्रजापतिम् चित्त-ज्ञः सर्व-भूतानाम् इदम् आह जनार्दनः
श्रीभगवानुवाच
प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।
यच्छ्रद्धया मत्परया मयि भावं परं गत: ॥ ४३ ॥
श्री-भगवान् उवाच प्राचेतस महा-भाग संसिद्धः तपसा भवान् यत् श्रद्धया मत्-परया मयि भावम् परम् गतः
प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तप: ।
ममैष कामो भूतानां यद्भूयासुर्विभूतय: ॥ ४४ ॥
प्रीतः अहम् ते प्रजा-नाथ यत् ते अस्य उद्बृंहणम् तपः मम एषः कामः भूतानाम् यत् भूयासुः विभूतयः
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वरा: ।
विभूतयो मम ह्येता भूतानां भूतिहेतव: ॥ ४५ ॥
ब्रह्मा भवः भवन्तः च मनवः विबुध-ईश्वराः विभूतयः मम हि एताः भूतानाम् भूति हेतवः
तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृति: ।
अङ्गानि क्रतवो जाता धर्म आत्मासव: सुरा: ॥ ४६ ॥
तपः मे हृदयम् ब्रह्मन् तनुः विद्या क्रिया आकृतिः अङ्गानि क्रतवः जाताः धर्मः आत्मा असवः सुराः
अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहि: ।
संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वत: ॥ ४७ ॥
अहम् एव आसम् एव अग्रे न अन्यत् किञ्च अन्तरम् बहिः संज्ञान-मात्रम् अव्यक्तम् प्रसुप्तम् इव विश्वतः
मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रह: ।
यदासीत्तत एवाद्य: स्वयम्भू: समभूदज: ॥ ४८ ॥
मयि अनन्त-गुणे अनन्ते गुणतः गुण-विग्रहः यदा आसीत् ततः एव आद्यः स्वयम्भूः समभूत् अजः
स वै यदा महादेवो मम वीर्योपबृंहित: ।
मेने खिलमिवात्मानमुद्यत: स्वर्गकर्मणि ॥ ४९ ॥
अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् ।
नव विश्वसृजो युष्मान् येनादावसृजद्विभु: ॥ ५० ॥
सः वै यदा महा-देवः मम वीर्य-उपबृंहितः मेने खिलम् इव आत्मानम् उद्यतः स्वर्ग-कर्मणि अथ मे अभिहितः देवः तपः अतप्यत दारुणम् नव विश्व-सृजः युष्मान् येन आदौ असृजत् विभुः
एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापते: ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥
एषा पञ्चजनस्य अङ्ग दुहिता वै प्रजापतेः असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम्
मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुन: ।
मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२ ॥
मिथुन व्यवाय धर्मः त्वम् प्रजा-सर्गम् इमम् पुनः मिथुन व्यवाय-धर्मिण्याम् भूरिशः भावयिष्यसि
त्वत्तोऽधस्तात्प्रजा: सर्वा मिथुनीभूय मायया ।
मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥
त्वत्तः अधस्तात् प्रजाः सर्वाः मिथुनी-भूय मायया मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम्
श्रीशुक उवाच
इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावन: ।
स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरि: ॥ ५४ ॥
श्री-शुकः उवाच इति उक्त्वा मिषतः तस्य भगवान् विश्व-भावनः स्वप्न-उपलब्ध-अर्थः इव तत्र एव अन्तर्दधे हरिः
६.५
श्रीशुक उवाच
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहित: ।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभु: ॥ १ ॥
श्री-शुकः उवाच तस्याम् सः पाञ्चजन्याम् वै विष्णु-माया-उपबृंहितः हर्यश्व-संज्ञान् अयुतम् पुत्रान् अजनयत् विभुः
अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।
पित्रा प्रोक्ता: प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २ ॥
अपृथक् धर्म-शीलाः ते सर्वे दाक्षायणाः नृप पित्रा प्रोक्ताः प्रजा-सर्गे प्रतीचीम् प्रययुः दिशम्
तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयो: ।
सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ॥ ३ ॥
तत्र नारायण-सरः तीर्थम् सिन्धु-समुद्रयोः सङ्गमः यत्र सु-महत् मुनि सिद्ध निषेवितम्
तदुपस्पर्शनादेव विनिर्धूतमलाशया: ।
धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४ ॥
तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिता: ।
प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५ ॥
तत् उपस्पर्शनात् एव विनिर्धूत मल-आशयाः धर्मे पारमहंस्ये च प्रोत्पन्न मतयः अपि उत तेपिरे तपः एव उग्रम् पितृ-आदेशेन यन्त्रिताः प्रजा-विवृद्धये यत्तान् देवर्षिः तान् ददर्श ह
उवाच चाथ हर्यश्वा: कथं स्रक्ष्यथ वै प्रजा: ।
अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालका: ॥ ६ ॥
तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् ।
बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७ ॥
नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् ।
क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि ॥ ८ ॥
उवाच च अथ हर्यश्वाः कथम् स्रक्ष्यथ वै प्रजाः अदृष्ट्वा अन्तम् भुवः यूयम् बालिशाः बत पालकाः तथा एक पुरुषम् राष्ट्रम् बिलम् च अदृष्ट-निर्गमम् बहु-रूपाम् स्त्रियम् च अपि पुमांसम् पुंश्चली-पतिम् नदीम् उभयतः वाहाम् पञ्च-पञ्च अद्भुतम् गृहम् क्वचित् हंसम् चित्र-कथम् क्षौर-पव्यम् स्वयम् भ्रमि
कथं स्वपितुरादेशमविद्वांसो विपश्चित: ।
अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ ९ ॥
कथम् स्व-पितुः आदेशम् अविद्वांसः विपश्चितः अनुरूपम् अविज्ञाय अहो सर्गम् करिष्यथ
श्रीशुक उवाच
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाच: कूटं तु देवर्षे: स्वयं विममृशुर्धिया ॥ १० ॥
श्री-शुकः उवाच तत् निशम्य अथ हर्यश्वाः औत्पत्तिक मनीषया वाचः कूटम् तु देवर्षेः स्वयम् विममृशुः धिया
भू: क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् ।
अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ ११ ॥
भूः क्षेत्रम् जीव-संज्ञम् यत् अनादि निज-बन्धनम् अदृष्ट्वा तस्य निर्वाणम् किम् असत्-कर्मभिः भवेत्
एक एवेश्वरस्तुर्यो भगवान् स्वाश्रय: पर: ।
तमदृष्ट्वाभवं पुंस: किमसत्कर्मभिर्भवेत् ॥ १२ ॥
एकः एव ईश्वरः तुर्यः भगवान् स्व-आश्रयः परः तम् अदृष्ट्वा अभवम् पुंसः किम् असत्-कर्मभिः भवेत्
पुमान्नैवैति यद्गत्वा बिलस्वर्गं गतो यथा ।
प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ १३ ॥
पुमान् न एव एति यत् गत्वा बिल-स्वर्गम् गतः यथा प्रत्यक्-धाम अविदः इह किम् असत्-कर्मभिः भवेत्
नानारूपात्मनो बुद्धि: स्वैरिणीव गुणान्विता ।
तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ १४ ॥
नाना रूपा आत्मनः बुद्धिः स्वैरिणी इव गुण-अन्विता तत्-निष्ठाम् अगतस्य इह किम् असत्-कर्मभिः भवेत्
तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।
तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १५ ॥
तत्-सङ्ग भ्रंशित ऐश्वर्यम् संसरन्तम् कु-भार्य-वत् तत्-गतीः अबुधस्य इह किम् असत्-कर्मभिः भवेत्
सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् ।
मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ १६ ॥
सृष्टि अप्यय करीम् मायाम् वेला-कूल-अन्त वेगिताम् मत्तस्य ताम् अविज्ञस्य किम् असत्-कर्मभिः भवेत्
पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पण: ।
अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १७ ॥
पञ्च-विंशति तत्त्वानाम् पुरुषः अद्भुत-दर्पणः अध्यात्मम् अबुधस्य इह किम् असत्-कर्मभिः भवेत्
ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् ।
विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ १८ ॥
ऐश्वरम् शास्त्रम् उत्सृज्य बन्ध मोक्ष अनुदर्शनम् विविक्त-पदम् अज्ञाय किम् असत्-कर्मभिः भवेत्
कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज्जगत् ।
स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १९ ॥
काल-चक्रम् भ्रमि तीक्ष्णम् सर्वम् निष्कर्षयत् जगत् स्व-तन्त्रम् अबुधस्य इह किम् असत्-कर्मभिः भवेत्
शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् ।
कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् ॥ २० ॥
शास्त्रस्य पितुः आदेशम् यः न वेद निवर्तकम् कथम् तत्-अनुरूपाय गुण-विस्रम्भी उपक्रमेत्
इति व्यवसिता राजन् हर्यश्वा एकचेतस: ।
प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ २१ ॥
इति व्यवसिताः राजन् हर्यश्वाः एक-चेतसः प्रययुः तम् परिक्रम्य पन्थानम् अनिवर्तनम्
स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे ।
अखण्डं चित्तमावेश्य लोकाननुचरन्मुनि: ॥ २२ ॥
स्वर-ब्रह्मणि निर्भात हृषीकेश पदाम्बुजे अखण्डम् चित्तम् आवेश्य लोकान् अनुचरत् मुनिः
नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् ।
अन्वतप्यत क: शोचन् सुप्रजस्त्वं शुचां पदम् ॥ २३ ॥
नाशम् निशम्य पुत्राणाम् नारदात् शील-शालिनाम् अन्वतप्यत कः शोचन् सु-प्रजस्त्वम् शुचाम् पदम्
स भूय: पाञ्चजन्यायामजेन परिसान्त्वित: ।
पुत्रानजनयद्दक्ष: सवलाश्वान्सहस्रिण: ॥ २४ ॥
सः भूयः पाञ्चजन्यायाम् अजेन परिसान्त्वितः पुत्रान् अजनयत् दक्षः सवलाश्वान् सहस्रिणः
ते च पित्रा समादिष्टा: प्रजासर्गे धृतव्रता: ।
नारायणसरो जग्मुर्यत्र सिद्धा: स्वपूर्वजा: ॥ २५ ॥
ते च पित्रा समादिष्टाः प्रजा-सर्गे धृत-व्रताः नारायण-सरः जग्मुः यत्र सिद्धाः स्व-पूर्व-जाः
तदुपस्पर्शनादेव विनिर्धूतमलाशया: ।
जपन्तो ब्रह्म परमं तेपुस्तत्र महत्तप: ॥ २६ ॥
तत् उपस्पर्शनात् एव विनिर्धूत मल-आशयाः जपन्तः ब्रह्म परमम् तेपुः तत्र महत् तपः
अब्भक्षा: कतिचिन्मासान् कतिचिद्वायुभोजना: ।
आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ २७ ॥
ॐ नमो नारायणाय पुरुषाय महात्मने ।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ २८ ॥
अप्-भक्षाः कतिचित् मासान् कतिचित् वायु-भोजनाः आराधयन् मन्त्रम् इमम् अभ्यस्यन्तः इडः-पतिम् ओम् नमः नारायणाय पुरुषाय महा-आत्मने विशुद्ध-सत्त्व-धिष्ण्याय महा-हंसाय धीमहि
इति तानपि राजेन्द्र प्रजासर्गधियो मुनि: ।
उपेत्य नारद: प्राह वाच: कूटानि पूर्ववत् ॥ २९ ॥
इति तान् अपि राजेन्द्र प्रजा-सर्ग-धियः मुनिः उपेत्य नारदः प्राह वाचः कूटानि पूर्व-वत्
दाक्षायणा: संशृणुत गदतो निगमं मम ।
अन्विच्छतानुपदवीं भ्रातृणां भ्रातृवत्सला: ॥ ३० ॥
दाक्षायणाः संशृणुत गदतः निगमम् मम अन्विच्छत अनुपदवीम् भ्रातॄणाम् भ्रातृ-वत्सलाः
भ्रातृणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् ।
स पुण्यबन्धु: पुरुषो मरुद्भि: सह मोदते ॥ ३१ ॥
भ्रातॄणाम् प्रायणम् भ्राता यः अनुतिष्ठति धर्म-वित् सः पुण्य-बन्धुः पुरुषः मरुद्भिः सह मोदते
एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शन: ।
तेऽपि चान्वगमन् मार्गं भ्रातृणामेव मारिष ॥ ३२ ॥
एतावत् उक्त्वा प्रययौ नारदः अमोघ-दर्शनः ते अपि च अन्वगमन् मार्गम् भ्रातॄणाम् एव मारिष
सध्रीचीनं प्रतीचीनं परस्यानुपथं गता: ।
नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ ३३ ॥
सध्रीचीनम् प्रतीचीनम् परस्य अनुपथम् गताः न अद्य अपि ते निवर्तन्ते पश्चिमाः यामिनीः इव
एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापति: ।
पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत् ॥ ३४ ॥
एतस्मिन् काले उत्पातान् बहून् पश्यन् प्रजापतिः पूर्व-वत् नारद कृतम् पुत्र-नाशम् उपाशृणोत्
चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छित: ।
देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधर: ॥ ३५ ॥
चुक्रोध नारदाय असौ पुत्र-शोक विमूर्च्छितः देवर्षिम् उपलभ्य आह रोषात् विस्फुरित अधरः
श्रीदक्ष उवाच
अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया ।
असाध्वकार्यर्भकाणां भिक्षोर्मार्ग: प्रदर्शित: ॥ ३६ ॥
श्री-दक्षः उवाच अहो असाधो साधूनाम् साधु-लिङ्गेन नः त्वया असाधु अकारि अर्भकाणाम् भिक्षोः मार्गः प्रदर्शितः
ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् ।
विघात: श्रेयस: पाप लोकयोरुभयो: कृत: ॥ ३७ ॥
ऋणैः त्रिभिः अमुक्तानाम् अमीमांसित कर्मणाम् विघातः श्रेयसः पाप लोकयोः उभयोः कृतः
एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरे: ।
पार्षदमध्ये चरसि यशोहा निरपत्रप: ॥ ३८ ॥
एवम् त्वम् निरनुक्रोशः बालानाम् मति-भित् हरेः पार्षद-मध्ये चरसि यशः-हा निरपत्रपः
ननु भागवता नित्यं भूतानुग्रहकातरा: ।
ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ ३९ ॥
ननु भागवताः नित्यम् भूत-अनुग्रह-कातराः ऋते त्वाम् सौहृद-घ्नम् वै वैरम्-करम् अवैरिणाम्
नेत्थं पुंसां विराग: स्यात् त्वया केवलिना मृषा ।
मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ॥ ४० ॥
न इत्थम् पुंसाम् विरागः स्यात् त्वया केवलिना मृषा मन्यसे यदि उपशमम् स्नेह-पाश निकृन्तनम्
नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् ।
निर्विद्यते स्वयं तस्मान्न तथा भिन्नधी: परै: ॥ ४१ ॥
न अनुभूय न जानाति पुमान् विषय-तीक्ष्णताम् निर्विद्यते स्वयम् तस्मात् न तथा भिन्न-धीः परैः
यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् ।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२ ॥
यत् नः त्वम् कर्म-सन्धानाम् साधूनाम् गृह-मेधिनाम् कृतवान् असि दुर्मर्षम् विप्रियम् तव मर्षितम्
तन्तुकृन्तन यन्नस्त्वमभद्रमचर: पुन: ।
तस्माल्लोकेषु ते मूढ न भवेद्भ्रमत: पदम् ॥ ४३ ॥
तन्तु-कृन्तन यत् नः त्वम् अभद्रम् अचरः पुनः तस्मात् लोकेषु ते मूढ न भवेत् भ्रमतः पदम्
श्रीशुक उवाच
प्रतिजग्राह तद्बाढं नारद: साधुसम्मत: ।
एतावान्साधुवादो हि तितिक्षेतेश्वर: स्वयम् ॥ ४४ ॥
श्री-शुकः उवाच प्रतिजग्राह तत् बाढम् नारदः साधु-सम्मतः एतावान् साधु-वादः हि तितिक्षेत ईश्वरः स्वयम्
६.६
श्रीशुक उवाच
तत: प्राचेतसोऽसिक्न्यामनुनीत: स्वयम्भुवा ।
षष्टिं सञ्जनयामास दुहितृ: पितृवत्सला: ॥ १ ॥
श्री-शुकः उवाच ततः प्राचेतसः असिक्न्याम् अनुनीतः स्वयम्भुवा षष्टिम् सञ्जनयाम् आस दुहितॄः पितृ-वत्सलाः
दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे ।
भूताङ्गिर:कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापरा: ॥ २ ॥
दश धर्माय काय अदात् द्वि-षट् त्रि-नव च इन्दवे भूत-अङ्गिरः-कृशाश्वेभ्यः द्वे द्वे तार्क्ष्याय च अपराः
नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु ।
यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रय: ॥ ३ ॥
नामधेयानि अमूषाम् त्वम् स-अपत्यानाम् च मे शृणु यासाम् प्रसूति-प्रसवैः लोकाः आपूरिताः त्रयः
भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्य: सुताञ्शृणु ॥ ४ ॥
भानुः लम्बा ककुत् यामिः विश्वा साध्या मरुत्वती वसुः मुहूर्ता सङ्कल्पा धर्म-पत्न्यः सुतान् शृणु
भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥
भानोः तु देव-ऋषभः इन्द्रसेनः ततः नृप विद्योतः आसीत् लम्बायाः ततः च स्तनयित्नवः
ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: ।
भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥
ककुदः सङ्कटः तस्य कीकटः तनयः यतः भुवः दुर्गाणि यामेयः स्वर्गः नन्दिः ततः अभवत्
विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।
साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥
विश्वे-देवाः तु विश्वायाः अप्रजान् तान् प्रचक्षते साध्यः-गणः च साध्यायाः अर्थसिद्धिः तु तत्-सुतः
मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥
मरुत्वान् च जयन्तः च मरुत्वत्याः बभूवतुः जयन्तः वासुदेव-अंशः उपेन्द्रः इति यम् विदुः
मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।
ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥
मौहूर्तिकाः देव-गणाः मुहूर्तायाः च जज्ञिरे ये वै फलम् प्रयच्छन्ति भूतानाम् स्व-स्व काल-जम्
सङ्कल्पायास्तु सङ्कल्प: काम: सङ्कल्पज: स्मृत: ।
वसवोऽष्टौ वसो: पुत्रास्तेषां नामानि मे शृणु ॥ १० ॥
द्रोण: प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसु: ।
द्रोणस्याभिमते: पत्न्या हर्षशोकभयादय: ॥ ११ ॥
सङ्कल्पायाः तु सङ्कल्पः कामः सङ्कल्प-जः स्मृतः वसवः अष्टौ वसोः पुत्राः तेषाम् नामानि मे शृणु द्रोणः प्राणः ध्रुवः अर्कः अग्निः दोषः वास्तुः विभावसुः द्रोणस्य अभिमतेः पत्न्याः हर्ष-शोक-भय-आदयः
प्राणस्योर्जस्वती भार्या सह आयु: पुरोजव: ।
ध्रुवस्य भार्या धरणिरसूत विविधा: पुर: ॥ १२ ॥
प्राणस्य ऊर्जस्वती भार्या सहः आयुः पुरोजवः ध्रुवस्य भार्या धरणिः असूत विविधाः पुरः
अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: ।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥
अर्कस्य वासना भार्या पुत्राः तर्ष-आदयः स्मृताः अग्नेः भार्या वसोः धारा पुत्राः द्रविणक-आदयः
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्तत: ।
दोषस्य शर्वरीपुत्र: शिशुमारो हरे: कला ॥ १४ ॥
स्कन्दः च कृत्तिका-पुत्रः ये विशाख-आदयः ततः दोषस्य शर्वरी-पुत्रः शिशुमारः हरेः कला
वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: ।
ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥
वास्तोः आङ्गिरसी पुत्रः विश्वकर्मा आकृती-पतिः ततः मनुः चाक्षुषः अभूत् विश्वे साध्याः मनोः सुताः
विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥
विभावसोः असूत ऊषा व्युष्टम् रोचिषम् आतपम् पञ्चयामः अथ भूतानि येन जाग्रति कर्मसु
सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥
अजैकपादहिर्ब्रध्नो बहुरूपो महानिति ।
रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥
सरूपा असूत भूतस्य भार्या रुद्रान् च कोटिशः रैवतः अजः भवः भीमः वामः उग्रः वृषाकपिः अजैकपात् अहिर्ब्रध्नः बहुरूपः महान् इति रुद्रस्य पार्षदाः च अन्ये घोराः प्रेत विनायकाः
प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥
प्रजापतेः अङ्गिरसः स्वधा पत्नी पितॄन् अथ अथर्व-आङ्गिरसम् वेदम् पुत्रत्वे च अकरोत् सती
कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् ।
धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २० ॥
कृशाश्वः अर्चिषि भार्यायाम् धूमकेतुम् अजीजनत् धिषणायाम् वेदशिरः देवलम् वयुनम् मनुम्
तार्क्ष्यस्य विनता कद्रू: पतङ्गी यामिनीति च ।
पतङ्गयसूत पतगान्यामिनी शलभानथ ॥ २१ ॥
सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् ।
सूर्यसूतमनूरुं च कद्रूर्नागाननेकश: ॥ २२ ॥
तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनी इति च पतङ्गी असूत पतगान् यामिनी शलभान् अथ सुपर्णा असूत गरुडम् साक्षात् यज्ञेश-वाहनम् सूर्य-सूतम् अनूरुम् च कद्रूः नागान् अनेकशः
कृत्तिकादीनि नक्षत्राणीन्दो: पत्न्यस्तु भारत ।
दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दित: ॥ २३ ॥
कृत्तिका-आदीनि नक्षत्राणि इन्दोः पत्न्यः तु भारत दक्ष-शापात् सः अनपत्यः तासु यक्ष्म-ग्रह-अर्दितः
पुन: प्रसाद्य तं सोम: कला लेभे क्षये दिता: ।
शृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।
अदितिर्दितिर्दनु: काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥
मुनि: क्रोधवशा ताम्रा सुरभि: सरमा तिमि: ।
तिमेर्यादोगणा आसन् श्वापदा: सरमासुता: ॥ २६ ॥
पुनः प्रसाद्य तम् सोमः कलाः लेभे क्षये दिताः शृणु नामानि लोकानाम् मातॄणाम् शङ्कराणि च अथ कश्यप-पत्नीनाम् यत्-प्रसूतम् इदम् जगत् अदितिः दितिः दनुः काष्ठा अरिष्टा सुरसा इला मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः तिमेः यादः-गणाः आसन् श्वापदाः सरमा-सुताः
सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।
ताम्राया: श्येनगृध्राद्या मुनेरप्सरसां गणा: ॥ २७ ॥
सुरभेः महिषाः गावः ये च अन्ये द्वि-शफाः नृप ताम्रायाः श्येन गृध्र-आद्याः मुनेः अप्सरसाम् गणाः
दन्दशूकादय: सर्पा राजन् क्रोधवशात्मजा: ।
इलाया भूरुहा: सर्वे यातुधानाश्च सौरसा: ॥ २८ ॥
दन्दशूक-आदयः सर्पाः राजन् क्रोधवशा-आत्म-जाः इलायाः भूरुहाः सर्वे यातुधानाः च सौरसाः
अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् शृणु ॥ २९ ॥
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: ।
अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥
पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: ।
धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥
अरिष्टायाः तु गन्धर्वाः काष्ठायाः द्वि-शफ-इतराः सुताः दनोः एक-षष्टिः तेषाम् प्राधानिकान् शृणु द्विमूर्धा शम्बरः अरिष्टः हयग्रीवः विभावसुः अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलः अरुणः पुलोमा वृषपर्वा च एकचक्रः अनुतापनः धूम्रकेशः विरूपाक्षः विप्रचित्तिः च दुर्जयः
स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल ।
वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥
स्वर्भानोः सुप्रभाम् कन्याम् उवाह नमुचिः किल वृषपर्वणः तु शर्मिष्ठाम् ययातिः नाहुषः बली
वैश्वानरसुता याश्च चतस्रश्चारुदर्शना: ।
उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥
उपदानवीं हिरण्याक्ष: क्रतुर्हयशिरां नृप ।
पुलोमां कालकां च द्वे वैश्वानरसुते तु क: ॥ ३४ ॥
उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदित: ।
पौलोमा: कालकेयाश्च दानवा युद्धशालिन: ॥ ३५ ॥
तयो: षष्टिसहस्राणि यज्ञघ्नांस्ते पितु: पिता ।
जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्कर: ॥ ३६ ॥
वैश्वानर-सुताः याः च चतस्रः चारु-दर्शनाः उपदानवी हयशिरा पुलोमा कालका तथा उपदानवीम् हिरण्याक्षः क्रतुः हयशिराम् नृप पुलोमाम् कालकाम् च द्वे वैश्वानर-सुते तु कः उपयेमे अथ भगवान् कश्यपः ब्रह्म-चोदितः पौलोमाः कालकेयाः च दानवाः युद्ध-शालिनः तयोः षष्टि-सहस्राणि यज्ञ-घ्नान् ते पितुः पिता जघान स्वः-गतः राजन् एकः इन्द्र-प्रियम्-करः
विप्रचित्ति: सिंहिकायां शतं चैकमजीजनत् ।
राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागता: ॥ ३७ ॥
विप्रचित्तिः सिंहिकायाम् शतम् च एकम् अजीजनत् राहु-ज्येष्ठम् केतु-शतम् ग्रहत्वम् ये उपागताः
अथात: श्रूयतां वंशो योऽदितेरनुपूर्वश: ।
यत्र नारायणो देव: स्वांशेनावातरद्विभु: ॥ ३८ ॥
विवस्वानर्यमा पूषा त्वष्टाथ सविता भग: ।
धाता विधाता वरुणो मित्र: शत्रु उरुक्रम: ॥ ३९ ॥
अथ अतः श्रूयताम् वंशः यः अदितेः अनुपूर्वशः यत्र नारायणः देवः स्व-अंशेन अवातरत् विभुः विवस्वान् अर्यमा पूषा त्वष्टा अथ सविता भगः धाता विधाता वरुणः मित्रः शत्रुः उरुक्रमः
विवस्वत: श्राद्धदेवं संज्ञासूयत वै मनुम् ।
मिथुनं च महाभागा यमं देवं यमीं तथा ।
सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥
विवस्वतः श्राद्धदेवम् संज्ञा असूयत वै मनुम् मिथुनम् च महा-भागा यमम् देवम् यमीम् तथा सा एव भूत्वा अथ वडवा नासत्यौ सुषुवे भुवि
छाया शनैश्चरं लेभे सावर्णिं च मनुं तत: ।
कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥
छाया शनैश्चरम् लेभे सावर्णिम् च मनुम् ततः कन्याम् च तपतीम् या वै वव्रे संवरणम् पतिम्
अर्यम्णो मातृका पत्नी तयोश्चर्षणय: सुता: ।
यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२ ॥
अर्यम्णः मातृका पत्नी तयोः चर्षणयः सुताः यत्र वै मानुषी जातिः ब्रह्मणा च उपकल्पिता
पूषानपत्य: पिष्टादो भग्नदन्तोऽभवत्पुरा ।
योऽसौ दक्षाय कुपितं जहास विवृतद्विज: ॥ ४३ ॥
पूषा अनपत्यः पिष्ट-अदः भग्न-दन्तः अभवत् पुरा यः असौ दक्षाय कुपितम् जहास विवृत-द्विजः
त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका ।
सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥
त्वष्टुः दैत्य-आत्म-जा भार्या रचना नाम कन्यका सन्निवेशः तयोः जज्ञे विश्वरूपः च वीर्यवान्
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि ।
विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५ ॥
तम् वव्रिरे सुर-गणाः स्वस्रीयम् द्विषताम् अपि विमतेन परित्यक्ताः गुरुणा आङ्गिरसेन यत्
६.७
श्रीराजोवाच
कस्य हेतो: परित्यक्ता आचार्येणात्मन: सुरा: ।
एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ ॥ १ ॥
श्री-राजा उवाच कस्य हेतोः परित्यक्ताः आचार्येण आत्मनः सुराः एतत् आचक्ष्व भगवन् शिष्याणाम् अक्रमम् गुरौ
श्रीबादरायणिरुवाच
इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथ: ।
मरुद्भिर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप ॥ २ ॥
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रित: ।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभि: ॥ ३ ॥
विद्याधराप्सरोभिश्च किन्नरै: पतगोरगै: ।
निषेव्यमाणो मघवान्स्तूयमानश्च भारत ॥ ४ ॥
उपगीयमानो ललितमास्थानाध्यासनाश्रित: ।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५ ॥
युक्तश्चान्यै: पारमेष्ठ्यैश्चामरव्यजनादिभि: ।
विराजमान: पौलम्या सहार्धासनया भृशम् ॥ ६ ॥
स यदा परमाचार्यं देवानामात्मनश्च ह ।
नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभि: ॥ ७ ॥
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।
नोच्चचालासनादिन्द्र: पश्यन्नपि सभागतम् ॥ ८ ॥
श्री-बादरायणिः उवाच इन्द्रः त्रि-भुवन-ऐश्वर्य मद उल्लङ्घित सत्-पथः मरुद्भिः वसुभिः रुद्रैः आदित्यैः ऋभुभिः नृप विश्वेदेवैः च साध्यैः च नासत्याभ्याम् परिश्रितः सिद्ध चारण गन्धर्वैः मुनिभिः ब्रह्मवादिभिः विद्याधर-अप्सरोभिः च किन्नरैः पतग-उरगैः निषेव्यमाणः मघवान् स्तूयमानः च भारत उपगीयमानः ललितम् आस्थान अध्यासन-आश्रितः पाण्डुरेण आतपत्रेण चन्द्र-मण्डल-चारुणा युक्तः च अन्यैः पारमेष्ठ्यैः चामर व्यजन-आदिभिः विराजमानः पौलम्या सह अर्ध-आसनया भृशम् सः यदा परम-आचार्यम् देवानाम् आत्मनः च ह न अभ्यनन्दत सम्प्राप्तम् प्रत्युत्थान आसन-आदिभिः वाचस्पतिम् मुनि-वरम् सुर-असुर-नमस्कृतम् न उच्चचाल आसनात् इन्द्रः पश्यन् अपि सभा-आगतम्
ततो निर्गत्य सहसा कविराङ्गिरस: प्रभु: ।
आययौ स्वगृहं तूष्णीं विद्वान्श्रीमदविक्रियाम् ॥ ९ ॥
ततः निर्गत्य सहसा कविः आङ्गिरसः प्रभुः आययौ स्व-गृहम् तूष्णीम् विद्वान् श्री-मद-विक्रियाम्
तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मन: ।
गर्हयामास सदसि स्वयमात्मानमात्मना ॥ १० ॥
तर्हि एव प्रतिबुध्य इन्द्रः गुरु-हेलनम् आत्मनः गर्हयाम् आस सदसि स्वयम् आत्मानम् आत्मना
अहो बत मयासाधु कृतं वै दभ्रबुद्धिना ।
यन्मयैश्वर्यमत्तेन गुरु: सदसि कात्कृत: ॥ ११ ॥
अहो बत मया असाधु कृतम् वै दभ्र-बुद्धिना यत् मया ऐश्वर्य-मत्तेन गुरुः सदसि कात्-कृतः
को गृध्येत्पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि ।
ययाहमासुरं भावं नीतोऽद्य विबुधेश्वर: ॥ १२ ॥
कः गृध्येत् पण्डितः लक्ष्मीम् त्रि-पिष्ट-प-पतेः अपि यया अहम् आसुरम् भावम् नीतः अद्य विबुध ईश्वरः
य: पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन ।
प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदु: ॥ १३ ॥
यः पारमेष्ठ्यम् धिषणम् अधितिष्ठन् न कञ्चन प्रत्युत्तिष्ठेत् इति ब्रूयुः धर्मम् ते न परम् विदुः
तेषां कुपथदेष्टृणां पततां तमसि ह्यध: ।
ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥ १४ ॥
तेषाम् कु-पथ-देष्टॄणाम् पतताम् तमसि हि अधः ये श्रद्दध्युः वचः ते वै मज्जन्ति अश्म-प्लवाः इव
अथाहममराचार्यमगाधधिषणं द्विजम् ।
प्रसादयिष्ये निशठ: शीर्ष्णा तच्चरणं स्पृशन् ॥ १५ ॥
अथ अहम् अमर-आचार्यम् अगाध-धिषणम् द्विजम् प्रसादयिष्ये निशठः शीर्ष्णा तत्-चरणम् स्पृशन्
एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् ।
बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ॥ १६ ॥
एवम् चिन्तयतः तस्य मघोनः भगवान् गृहात् बृहस्पतिः गतः अदृष्टाम् गतिम् अध्यात्म मायया
गुरोर्नाधिगत: संज्ञां परीक्षन् भगवान् स्वराट् ।
ध्यायन् धिया सुरैर्युक्त: शर्म नालभतात्मन: ॥ १७ ॥
गुरोः न अधिगतः संज्ञाम् परीक्षन् भगवान् स्वराट् ध्यायन् धिया सुरैः युक्तः शर्म न अलभत आत्मनः
तच्छ्रुत्वैवासुरा: सर्व आश्रित्यौशनसं मतम् ।
देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिन: ॥ १८ ॥
तत् श्रुत्वा एव असुराः सर्वे आश्रित्य औशनसम् मतम् देवान् प्रत्युद्यमम् चक्रुः दुर्मदाः आततायिनः
तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहव: ।
ब्रह्माणं शरणं जग्मु: सहेन्द्रा नतकन्धरा: ॥ १९ ॥
तैः विसृष्ट इषुभिः तीक्ष्णैः निर्भिन्न अङ्ग उरु बाहवः ब्रह्माणम् शरणम् जग्मुः सह-इन्द्राः नत-कन्धराः
तांस्तथाभ्यर्दितान्वीक्ष्य भगवानात्मभूरज: ।
कृपया परया देव उवाच परिसान्त्वयन् ॥ २० ॥
तान् तथा अभ्यर्दितान् वीक्ष्य भगवान् आत्म-भूः अजः कृपया परया देवः उवाच परिसान्त्वयन्
श्रीब्रह्मोवाच
अहो बत सुरश्रेष्ठा ह्यभद्रं व: कृतं महत् ।
ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥ २१ ॥
श्री-ब्रह्मा उवाच अहो बत सुर-श्रेष्ठाः हि अभद्रम् वः कृतम् महत् ब्रह्मिष्ठम् ब्राह्मणम् दान्तम् ऐश्वर्यात् न अभ्यनन्दत
तस्यायमनयस्यासीत् परेभ्यो व: पराभव: ।
प्रक्षीणेभ्य: स्ववैरिभ्य: समृद्धानां च यत्सुरा: ॥ २२ ॥
तस्य अयम् अनयस्य आसीत् परेभ्यः वः पराभवः प्रक्षीणेभ्यः स्व-वैरिभ्यः समृद्धानाम् च यत् सुराः
मघवन् द्विषत: पश्य प्रक्षीणान् गुर्वतिक्रमात् ।
सम्प्रत्युपचितान् भूय: काव्यमाराध्य भक्तित: ।
आददीरन्निलयनं ममापि भृगुदेवता: ॥ २३ ॥
मघवन् द्विषतः पश्य प्रक्षीणान् गुरु-अतिक्रमात् सम्प्रति उपचितान् भूयः काव्यम् आराध्य भक्तितः आददीरन् निलयनम् मम अपि भृगु-देवताः
त्रिपिष्टपं किं गणयन्त्यभेद्य-
मन्त्रा भृगूणामनुशिक्षितार्था: ।
न विप्रगोविन्दगवीश्वराणां
भवन्त्यभद्राणि नरेश्वराणाम् ॥ २४ ॥
त्रि-पिष्ट-पम् किम् गणयन्ति अभेद्य-मन्त्राः भृगूणाम् अनुशिक्षित-अर्थाः न विप्र गोविन्द गो ईश्वराणाम् भवन्ति अभद्राणि नर-ईश्वराणाम्
तद्विश्वरूपं भजताशु विप्रं
तपस्विनं त्वाष्ट्रमथात्मवन्तम् ।
सभाजितोऽर्थान् स विधास्यते वो
यदि क्षमिष्यध्वमुतास्य कर्म ॥ २५ ॥
तत् विश्वरूपम् भजत आशु विप्रम् तपस्विनम् त्वाष्ट्रम् अथ आत्म-वन्तम् सभाजितः अर्थान् सः विधास्यते वः यदि क्षमिष्यध्वम् उत अस्य कर्म
श्रीशुक उवाच
त एवमुदिता राजन् ब्रह्मणा विगतज्वरा: ।
ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६ ॥
श्री-शुकः उवाच ते एवम् उदिताः राजन् ब्रह्मणा विगत-ज्वराः ऋषिम् त्वाष्ट्रम् उपव्रज्य परिष्वज्य इदम् अब्रुवन्
श्रीदेवा ऊचु:
वयं तेऽतिथय: प्राप्ता आश्रमं भद्रमस्तु ते ।
काम: सम्पाद्यतां तात पितृणां समयोचित: ॥ २७ ॥
श्री-देवाः ऊचुः वयम् ते अतिथयः प्राप्ताः आश्रमम् भद्रम् अस्तु ते कामः सम्पाद्यताम् तात पितॄणाम् समयोचितः
पुत्राणां हि परो धर्म: पितृशुश्रूषणं सताम् ।
अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ २८ ॥
पुत्राणाम् हि परः धर्मः पितृ-शुश्रूषणम् सताम् अपि पुत्र-वताम् ब्रह्मन् किम् उत ब्रह्मचारिणाम्
आचार्यो ब्रह्मणो मूर्ति: पिता मूर्ति: प्रजापते: ।
भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनु: ॥ २९ ॥
दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथि: स्वयम् ।
अग्नेरभ्यागतो मूर्ति: सर्वभूतानि चात्मन: ॥ ३० ॥
आचार्यः ब्रह्मणः मूर्तिः पिता मूर्तिः प्रजापतेः भ्राता मरुत्-पतेः मूर्तिः माता साक्षात् क्षितेः तनुः दयायाः भगिनी मूर्तिः धर्मस्य आत्म अतिथिः स्वयम् अग्नेः अभ्यागतः मूर्तिः सर्व-भूतानि च आत्मनः
तस्मात् पितृणामार्तानामार्तिं परपराभवम् ।
तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ ३१ ॥
तस्मात् पितॄणाम् आर्तानाम् आर्तिम् पर-पराभवम् तपसा अपनयन् तात सन्देशम् कर्तुम् अर्हसि
वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् ।
यथाञ्जसा विजेष्याम: सपत्नांस्तव तेजसा ॥ ३२ ॥
वृणीमहे त्वा उपाध्यायम् ब्रह्मिष्ठम् ब्राह्मणम् गुरुम् यथा अञ्जसा विजेष्यामः सपत्नान् तव तेजसा
न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्य्रभिवादनम् ।
छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३ ॥
न गर्हयन्ति हि अर्थेषु यविष्ठ-अङ्घ्रि अभिवादनम् छन्दोभ्यः अन्यत्र न ब्रह्मन् वयः ज्यैष्ठ्यस्य कारणम्
श्रीऋषिरुवाच
अभ्यर्थित: सुरगणै: पौरहित्ये महातपा: ।
स विश्वरूपस्तानाह प्रसन्न: श्लक्ष्णया गिरा ॥ ३४ ॥
श्री-ऋषिः उवाच अभ्यर्थितः सुर-गणैः पौरहित्ये महा-तपाः सः विश्वरूपः तान् आह प्रसन्नः श्लक्ष्णया गिरा
श्रीविश्वरूप उवाच
विगर्हितं धर्मशीलैर्ब्रह्मवर्चउपव्ययम् ।
कथं नु मद्विधो नाथा लोकेशैरभियाचितम् ।
प्रत्याख्यास्यति तच्छिष्य: स एव स्वार्थ उच्यते ॥ ३५ ॥
श्री-विश्वरूपः उवाच विगर्हितम् धर्म-शीलैः ब्रह्म-वर्चः उपव्ययम् कथम् नु मत्-विधः नाथाः लोक-ईशैः अभियाचितम् प्रत्याख्यास्यति तत्-शिष्यः सः एव स्व-अर्थः उच्यते
अकिञ्चनानां हि धनं शिलोञ्छनं
तेनेह निर्वर्तितसाधुसत्क्रिय: ।
कथं विगर्ह्यं नु करोम्यधीश्वरा:
पौरोधसं हृष्यति येन दुर्मति: ॥ ३६ ॥
अकिञ्चनानाम् हि धनम् शिल उञ्छनम् तेन इह निर्वर्तित साधु सत्-क्रियः कथम् विगर्ह्यम् नु करोमि अधीश्वराः पौरोधसम् हृष्यति येन दुर्मतिः
तथापि न प्रतिब्रूयां गुरुभि: प्रार्थितं कियत् ।
भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७ ॥
तथा अपि न प्रतिब्रूयाम् गुरुभिः प्रार्थितम् कियत् भवताम् प्रार्थितम् सर्वम् प्राणैः अर्थैः च साधये
श्रीबादरायणिरुवाच
तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपा: ।
पौरहित्यं वृतश्चक्रे परमेण समाधिना ॥ ३८ ॥
श्री-बादरायणिः उवाच तेभ्यः एवम् प्रतिश्रुत्य विश्वरूपः महा-तपाः पौरहित्यम् वृतः चक्रे परमेण समाधिना
सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया ।
आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभु: ॥ ३९ ॥
सुर-द्विषाम् श्रियम् गुप्ताम् औशनस्य अपि विद्यया आच्छिद्य अदात् महा-इन्द्राय वैष्णव्या विद्यया विभुः
यया गुप्त: सहस्राक्षो जिग्येऽसुरचमूर्विभु: ।
तां प्राह स महेन्द्राय विश्वरूप उदारधी: ॥ ४० ॥
यया गुप्तः सहस्र-अक्षः जिग्ये असुर चमूः विभुः ताम् प्राह सः महेन्द्राय विश्वरूपः उदार-धीः
६.८
श्रीराजोवाच
यया गुप्त: सहस्राक्ष: सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाततायिन: शत्रून्येन गुप्तोऽजयन्मृधे ॥ २ ॥
श्री-राजा उवाच यया गुप्तः सहस्र-अक्षः स-वाहान् रिपु-सैनिकान् क्रीडन् इव विनिर्जित्य त्रि-लोक्याः बुभुजे श्रियम् भगवन् तत् मम आख्याहि वर्म नारायण-आत्मकम् यथा आततायिनः शत्रून् येन गुप्तः अजयत् मृधे
श्रीबादरायणिरुवाच
वृत: पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमना: शृणु ॥ ३ ॥
श्री-बादरायणिः उवाच वृतः पुरोहितः त्वाष्ट्रः महेन्द्राय अनुपृच्छते नारायण-आख्यम् वर्म आह तत् इह एक-मनाः शृणु
श्रीविश्वरूप उवाच
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुख: ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यत: शुचि: ॥ ४ ॥
नारायणपरं वर्म सन्नह्येद् भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५ ॥
मुखे शिरस्यानुपूर्व्यादोंङ्कारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६ ॥
श्री-विश्वरूपः उवाच धौत अङ्घ्रि पाणिः आचम्य स-पवित्रः उदक्-मुखः कृत स्व-अङ्ग-कर-न्यासः मन्त्राभ्याम् वाक्-यतः शुचिः नारायण-परम् वर्म सन्नह्येत् भये आगते पादयोः जानुनोः ऊर्वोः उदरे हृदि अथ उरसि मुखे शिरसि आनुपूर्व्यात् ओंकार-आदीनि विन्यसेत् ओम् नमः नारायणाय इति विपर्ययम् अथ अपि वा
करन्यासं तत: कुर्याद् द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७ ॥
कर-न्यासम् ततः कुर्यात् द्वादश-अक्षर विद्यया प्रणव-आदि य-कार-अन्तम् अङ्गुलि अङ्गुष्ठ-पर्वसु
न्यसेद्धृदय ओंङ्कारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ॥ ८ ॥
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुध: ॥ ९ ॥
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १० ॥
न्यसेत् हृदये ओंकारम् वि-कारम् अनु मूर्धनि ष-कारम् तु भ्रुवोः मध्ये ण-कारम् शिखया न्यसेत् वेकारम् नेत्रयोः युञ्ज्यात् न-कारम् सर्व-सन्धिषु म-कारम् अस्त्रम् उद्दिश्य मन्त्र-मूर्तिः भवेत् बुधः स-विसर्गम् फट्-अन्तम् तत् सर्व-दिक्षु विनिर्दिशेत् ओम् विष्णवे नमः इति
आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११ ॥
आत्मानम् परमम् ध्यायेत् ध्येयम् षट्-शक्तिभिः युतम् विद्या तेजः तपः मूर्तिम् इमम् मन्त्रम् उदाहरेत्
ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्घ्रिपद्म: पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-
पाशान् दधानोऽष्टगुणोऽष्टबाहु: ॥ १२ ॥
ओम् हरिः विदध्यात् मम सर्व-रक्षाम् न्यस्त अङ्घ्रि-पद्मः पतगेन्द्र-पृष्ठे दर अरि चर्म असि गदा इषु चाप पाशान् दधानः अष्ट गुणः अष्ट बाहुः
जलेषु मां रक्षतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रम: खेऽवतु विश्वरूप: ॥ १३ ॥
जलेषु माम् रक्षतु मत्स्य-मूर्तिः यादः-गणेभ्यः वरुणस्य पाशात् स्थलेषु माया-वटु वामनः अव्यात् त्रिविक्रमः खे अवतु विश्वरूपः
दुर्गेष्वटव्याजिमुखादिषु प्रभु:
पायान्नृसिंहोऽसुरयूथपारि: ।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भा: ॥ १४ ॥
दुर्गेषु अटवि आजि-मुख-आदिषु प्रभुः पायात् नृसिंहः असुर-यूथप अरिः विमुञ्चतः यस्य महा-अट्ट-हासम् दिशः विनेदुः न्यपतन् च गर्भाः
रक्षत्वसौ माध्वनि यज्ञकल्प:
स्वदंष्ट्रयोन्नीतधरो वराह: ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥ १५ ॥
रक्षतु असौ मा अध्वनि यज्ञ-कल्पः स्व-दंष्ट्रया उन्नीत धरः वराहः रामः अद्रि-कूटेषु अथ विप्रवासे स-लक्ष्मणः अव्यात् भरत-अग्रजः अस्मान्
मामुग्रधर्मादखिलात्प्रमादा-
न्नारायण: पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथ:
पायाद्गुणेश: कपिल: कर्मबन्धात् ॥ १६ ॥
माम् उग्र-धर्मात् अखिलात् प्रमादात् नारायणः पातु नरः च हासात् दत्तः तु अयोगात् अथ योग-नाथः पायात् गुण-ईशः कपिलः कर्म-बन्धात्
सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्य: पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥
सनत्-कुमारः अवतु काम-देवात् हय-शीर्षा माम् पथि देव-हेलनात् देवर्षि-वर्यः पुरुष-अर्चन-अन्तरात् कूर्मः हरिः माम् निरयात् अशेषात्
धन्वन्तरिर्भगवान् पात्वपथ्याद्
द्वन्द्वाद् भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्जनान्ताद्
बलो गणात् क्रोधवशादहीन्द्र: ॥ १८ ॥
धन्वन्तरिः भगवान् पातु अपथ्यात् द्वन्द्वात् भयात् ऋषभः निर्जित-आत्मा यज्ञः च लोकात् अवतात् जन-अन्तात् बलः गणात् क्रोध-वशात् अहीन्द्रः
द्वैपायनो भगवानप्रबोधाद्
बुद्धस्तु पाषण्डगणप्रमादात् ।
कल्कि: कले: कालमलात् प्रपातु
धर्मावनायोरुकृतावतार: ॥ १९ ॥
द्वैपायनः भगवान् अप्रबोधात् बुद्धः तु पाषण्ड-गण प्रमादात् कल्किः कलेः काल-मलात् प्रपातु धर्म-अवनाय उरु कृत-अवतारः
मां केशवो गदया प्रातरव्याद्
गोविन्द आसङ्गवमात्तवेणु: ।
नारायण: प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणि: ॥ २० ॥
माम् केशवः गदया प्रातः अव्यात् गोविन्दः आसङ्गवम् आत्त-वेणुः नारायणः प्राह्णः उदात्त-शक्तिः मध्यम्-दिने विष्णुः अरीन्द्र-पाणिः
देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभ: ॥ २१ ॥
देवः अपराह्णे मधु-हा उग्र-धन्वा सायम् त्रि-धामा अवतु माधवः माम् दोषे हृषीकेशः उत अर्ध-रात्रे निशीथे एकः अवतु पद्मनाभः
श्रीवत्सधामापररात्र ईश:
प्रत्यूष ईशोऽसिधरो जनार्दन: ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्ति: ॥ २२ ॥
श्रीवत्स-धामा अपर-रात्रे ईशः प्रत्यूषे ईशः असि-धरः जनार्दनः दामोदरः अव्यात् अनुसन्ध्यम् प्रभाते विश्व-ईश्वरः भगवान् काल-मूर्तिः
चक्रं युगान्तानलतिग्मनेमि
भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताश: ॥ २३ ॥
चक्रम् युग-अन्त अनल तिग्म-नेमि भ्रमत् समन्तात् भगवत्-प्रयुक्तम् दन्दग्धि दन्दग्धि अरि-सैन्यम् आशु कक्षम् यथा वात-सखः हुताशः
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कुष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥
गदे अशनि स्पर्शन विस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढि अजित-प्रिया असि कुष्माण्ड वैनायक यक्ष रक्षः भूत ग्रहान् चूर्णय चूर्णय अरीन्
त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५ ॥
त्वम् यातुधान प्रमथ प्रेत मातृ पिशाच विप्र-ग्रह घोर-दृष्टीन् दरेन्द्र विद्रावय कृष्ण-पूरितः भीम-स्वनः अरेः हृदयानि कम्पयन्
त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥
त्वम् तिग्म-धार-असि-वर अरि-सैन्यम् ईश-प्रयुक्तः मम छिन्धि छिन्धि चक्षूंषि चर्मन् शत-चन्द्र छादय द्विषाम् अघोनाम् हर पाप-चक्षुषाम्
यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंहोभ्य एव च ॥ २७ ॥
सर्वाण्येतानि भगवन्नामरूपानुकीर्तनात् ।
प्रयान्तु सङ्क्षयं सद्यो ये न: श्रेय:प्रतीपका: ॥ २८ ॥
यत् नः भयम् ग्रहेभ्यः अभूत् केतुभ्यः नृभ्यः एव च सरीसृपेभ्यः दंष्ट्रिभ्यः भूतेभ्यः अंहोभ्यः एव च सर्वाणि एतानि भगवत्-नाम-रूप-अनुकीर्तनात् प्रयान्तु सङ्क्षयम् सद्यः ये नः श्रेयः-प्रतीपकाः
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय: प्रभु: ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेन: स्वनामभि: ॥ २९ ॥
गरुडः भगवान् स्तोत्र-स्तोभः छन्दः-मयः प्रभुः रक्षतु अशेष-कृच्छ्रेभ्यः विष्वक्सेनः स्व-नामभिः
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि न: ।
बुद्धीन्द्रियमन:प्राणान् पान्तु पार्षदभूषणा: ॥ ३० ॥
सर्व-आपद्भ्यः हरेः नाम रूप यान आयुधानि नः बुद्धि इन्द्रिय मनः प्राणान् पान्तु पार्षद-भूषणाः
यथा हि भगवानेव वस्तुत: सदसच्च यत् ।
सत्येनानेन न: सर्वे यान्तु नाशमुपद्रवा: ॥ ३१ ॥
यथा हि भगवान् एव वस्तुतः सत् असत् च यत् सत्येन अनेन नः सर्वे यान्तु नाशम् उपद्रवाः
यथैकात्म्यानुभावानां विकल्परहित: स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्ती: स्वमायया ॥ ३२ ॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि: ।
पातु सर्वै: स्वरूपैर्न: सदा सर्वत्र सर्वग: ॥ ३३ ॥
यथा ऐकात्म्य अनुभावानाम् विकल्प-रहितः स्वयम् भूषण आयुध लिङ्ग-आख्याः धत्ते शक्तीः स्व-मायया तेन एव सत्य-मानेन सर्व-ज्ञः भगवान् हरिः पातु सर्वैः स्व-रूपैः नः सदा सर्वत्र सर्व-गः
विदिक्षु दिक्षूर्ध्वमध: समन्ता-
दन्तर्बहिर्भगवान्नारसिंह: ।
प्रहापयँल्लोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजा: ॥ ३४ ॥
विदिक्षु दिक्षु ऊर्ध्वम् अधः समन्तात् अन्तः बहिः भगवान् नारसिंहः प्रहापयन् लोक-भयम् स्वनेन स्व-तेजसा ग्रस्त समस्त तेजाः
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यसेऽञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५ ॥
मघवन् इदम् आख्यातम् वर्म नारायण-आत्मकम् विजेष्यसे अञ्जसा येन दंशितः असुर-यूथपान्
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्य: साध्वसात् स विमुच्यते ॥ ३६ ॥
एतत् धारयमाणः तु यम् यम् पश्यति चक्षुषा पदा वा संस्पृशेत् सद्यः साध्वसात् सः विमुच्यते
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥
न कुतश्चित् भयम् तस्य विद्याम् धारयतः भवेत् राज दस्यु ग्रह-आदिभ्यः व्याधि-आदिभ्यः च कर्हिचित्
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विज: ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥
इमाम् विद्याम् पुरा कश्चित् कौशिकः धारयन् द्विजः योग-धारणया स्व-अङ्गम् जहौ सः मरु-धन्वनि
तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथ: स्त्रीभिर्वृतो यत्र द्विजक्षय: ॥ ३९ ॥
तस्य उपरि विमानेन गन्धर्व-पतिः एकदा ययौ चित्ररथः स्त्रीभिः वृतः यत्र द्विज-क्षयः
गगनान्न्यपतत् सद्य: सविमानो ह्यवाक् शिरा: ।
स वालिखिल्यवचनादस्थीन्यादाय विस्मित: ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४० ॥
गगनात् न्यपतत् सद्यः स-विमानः हि अवाक्-शिराः सः वालिखिल्य वचनात् अस्थीनि आदाय विस्मितः प्रास्य प्राची-सरस्वत्याम् स्नात्वा धाम स्वम् अन्वगात्
श्रीशुक उवाच
य इदं शृणुयात्काले यो धारयति चादृत: ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥
श्री-शुकः उवाच यः इदम् शृणुयात् काले यः धारयति च आदृतः तम् नमस्यन्ति भूतानि मुच्यते सर्वतः भयात्
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतु: ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥
एताम् विद्याम् अधिगतः विश्वरूपात् शत-क्रतुः त्रैलोक्य-लक्ष्मीम् बुभुजे विनिर्जित्य मृधे असुरान्
६.९
श्रीशुक उवाच
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।
सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ १ ॥
श्री-शुकः उवाच तस्य आसन् विश्वरूपस्य शिरांसि त्रीणि भारत सोम-पीथम् सुरा-पीथम् अन्न-अदम् इति शुश्रुम
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकै: ।
अददद्यस्य पितरो देवा: सप्रश्रयं नृप ॥ २ ॥
सः वै बर्हिषि देवेभ्यः भागम् प्रत्यक्षम् उच्चकैः अददत् यस्य पितरः देवाः स-प्रश्रयम् नृप
स एव हि ददौ भागं परोक्षमसुरान् प्रति ।
यजमानोऽवहद् भागं मातृस्नेहवशानुग: ॥ ३ ॥
सः एव हि ददौ भागम् परोक्षम् असुरान् प्रति यजमानः अवहत् भागम् मातृ-स्नेह वश-अनुगः
तद्देवहेलनं तस्य धर्मालीकं सुरेश्वर: ।
आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद् रुषा ॥ ४ ॥
तत् देव-हेलनम् तस्य धर्म-अलीकम् सुर-ईश्वरः आलक्ष्य तरसा भीतः तत् शीर्षाणि अच्छिनत् रुषा
सोमपीथं तु यत्तस्य शिर आसीत् कपिञ्जल: ।
कलविङ्क: सुरापीथमन्नादं यत् स तित्तिरि: ॥ ५ ॥
सोम-पीथम् तु यत् तस्य शिरः आसीत् कपिञ्जलः कलविङ्कः सुरा-पीथम् अन्न-अदम् यत् सः तित्तिरिः
ब्रह्महत्यामञ्जलिना जग्राह
यदपीश्वर: ।
संवत्सरान्ते तदघं भूतानां स
विशुद्धये ।
भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरि: ॥ ६ ॥
ब्रह्म-हत्याम् अञ्जलिना जग्राह यत् अपि ईश्वरः संवत्सर-अन्ते तत् अघम् भूतानाम् सः विशुद्धये भूमि अम्बु द्रुम योषिद्भ्यः चतुर्धा व्यभजत् हरिः
भूमिस्तुरीयं जग्राह खातपूरवरेण
वै ।
ईरिणं
ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ॥ ७ ॥
भूमिः तुरीयम् जग्राह खात-पूर वरेण वै ईरिणम् ब्रह्म-हत्यायाः रूपम् भूमौ प्रदृश्यते
तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमा: ।
तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ॥ ८ ॥
तुर्यम् छेद विरोहेण वरेण जगृहुः द्रुमाः तेषाम् निर्यास-रूपेण ब्रह्म-हत्या प्रदृश्यते
शश्वत्कामवरेणांहस्तुरीयं जगृहु: स्त्रिय: ।
रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ॥ ९ ॥
शश्वत् काम वरेण अंहः तुरीयम् जगृहुः स्त्रियः रजः-रूपेण तासु अंहः मासि मासि प्रदृश्यते
द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ।
तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ॥ १० ॥
द्रव्य भूयः वरेण आपः तुरीयम् जगृहुः मलम् तासु बुद्बुद-फेनाभ्याम् दृष्टम् तत् हरति क्षिपन्
हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ।
इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ॥ ११ ॥
हत-पुत्रः ततः त्वष्टा जुहाव इन्द्राय शत्रवे इन्द्र-शत्रो विवर्धस्व मा चिरम् जहि विद्विषम्
अथान्वाहार्यपचनादुत्थितो घोरदर्शन: ।
कृतान्त इव लोकानां युगान्तसमये यथा ॥ १२ ॥
अथ अन्वाहार्य-पचनात् उत्थितः घोर-दर्शनः कृतान्तः इव लोकानाम् युग-अन्त समये यथा
विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ।
दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ॥ १३ ॥
तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४ ॥
देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी ।
नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् ।
लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥
महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहु: ।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥
विष्वक् विवर्धमानम् तम् इषु-मात्रम् दिने दिने दग्ध शैल प्रतीकाशम् सन्ध्या अभ्र-अनीक वर्चसम् तप्त ताम्र शिखा श्मश्रुम् मध्याह्न अर्क उग्र-लोचनम् देदीप्यमाने त्रि-शिखे शूले आरोप्य रोदसी नृत्यन्तम् उन्नदन्तम् च चालयन्तम् पदा महीम् दरी-गम्भीर वक्त्रेण पिबता च नभस्तलम् लिहता जिह्वया ऋक्षाणि ग्रसता भुवन-त्रयम् महता रौद्र-दंष्ट्रेण जृम्भमाणम् मुहुः मुहुः वित्रस्ताः दुद्रुवुः लोकाः वीक्ष्य सर्वे दिशः दश
येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना ।
स वै वृत्र इति प्रोक्त: पाप: परमदारुण: ॥ १८ ॥
येन आवृताः इमे लोकाः तपसा त्वाष्ट्र-मूर्तिना सः वै वृत्रः इति प्रोक्तः पापः परम-दारुणः
तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभा: ।
स्वै: स्वैर्दिव्यास्त्रशस्त्रौघै: सोऽग्रसत्तानि कृत्स्नश: ॥ १९ ॥
तम् निजघ्नुः अभिद्रुत्य स-गणाः विबुध-ऋषभाः स्वैः स्वैः दिव्य अस्त्र शस्त्र-ओघैः सः अग्रसत् तानि कृत्स्नशः
ततस्ते विस्मिता: सर्वे विषण्णा ग्रस्ततेजस: ।
प्रत्यञ्चमादिपुरुषमुपतस्थु: समाहिता: ॥ २० ॥
ततः ते विस्मिताः सर्वे विषण्णाः ग्रस्त-तेजसः प्रत्यञ्चम् आदि-पुरुषम् उपतस्थुः समाहिताः
श्रीदेवा ऊचु:
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका
ब्रह्मादयो ये वयमुद्विजन्त: ।
हराम यस्मै बलिमन्तकोऽसौ
बिभेति यस्मादरणं ततो न: ॥ २१ ॥
श्री-देवाः ऊचुः वायु अम्बर अग्नि अप् क्षितयः त्रि-लोकाः ब्रह्म-आदयः ये वयम् उद्विजन्तः हराम यस्मै बलिम् अन्तकः असौ बिभेति यस्मात् अरणम् ततः नः
अविस्मितं तं परिपूर्णकामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्यपरं हि बालिश:
श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥
अविस्मितम् तम् परिपूर्ण-कामम् स्वेन एव लाभेन समम् प्रशान्तम् विना उपसर्पति अपरम् हि बालिशः श्व लाङ्गुलेन अतितितर्ति सिन्धुम्
यस्योरुशृङ्गे जगतीं स्वनावं
मनुर्यथाबध्य ततार दुर्गम् ।
स एव नस्त्वाष्ट्रभयाद्दुरन्तात्
त्राताश्रितान्वारिचरोऽपि नूनम् ॥ २३ ॥
यस्य उरु शृङ्गे जगतीम् स्व-नावम् मनुः यथा आबध्य ततार दुर्गम् सः एव नः त्वाष्ट्र-भयात् दुरन्तात् त्राता आश्रितान् वारि-चरः अपि नूनम्
पुरा स्वयम्भूरपि संयमाम्भ-
स्युदीर्णवातोर्मिरवै: कराले ।
एकोऽरविन्दात् पतितस्ततार
तस्माद् भयाद्येन स नोऽस्तु पार: ॥ २४ ॥
पुरा स्वयम्भूः अपि संयम-अम्भसि उदीर्ण वात ऊर्मि रवैः कराले एकः अरविन्दात् पतितः ततार तस्मात् भयात् येन सः नः अस्तु पारः
य एक ईशो निजमायया न:
ससर्ज येनानुसृजाम
विश्वम् ।
यः एकः ईशः निज-मायया नः ससर्ज येन अनुसृजाम विश्वम् वयम् न यस्य अपि पुरः समीहतः पश्याम लिङ्गम् पृथक् ईश मानिनः
यो न: सपत्नैर्भृशमर्द्यमानान्
देवर्षितिर्यङ्नृषु नित्य एव ।
कृतावतारस्तनुभि: स्वमायया
कृत्वात्मसात् पाति युगे युगे च ॥ २६ ॥
तमेव देवं वयमात्मदैवतं
परं प्रधानं पुरुषं विश्वमन्यम् ।
व्रजाम सर्वे शरणं शरण्यं
स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥
यः नः सपत्नैः भृशम् अर्द्यमानान् देव ऋषि तिर्यक् नृषु नित्यः एव कृत-अवतारः तनुभिः स्व-मायया कृत्वा आत्मसात् पाति युगे युगे च तम् एव देवम् वयम् आत्म-दैवतम् परम् प्रधानम् पुरुषम् विश्वम् अन्यम् व्रजाम सर्वे शरणम् शरण्यम् स्वानाम् सः नः धास्यति शम् महात्मा
श्रीशुक उवाच
इति तेषां महाराज सुराणामुपतिष्ठताम् ।
प्रतीच्यां दिश्यभूदावि: शङ्खचक्रगदाधर: ॥ २८ ॥
श्री-शुकः उवाच इति तेषाम् महाराज सुराणाम् उपतिष्ठताम् प्रतीच्याम् दिशि अभूत् आविः शङ्ख-चक्र-गदा-धरः
आत्मतुल्यै: षोडशभिर्विना श्रीवत्सकौस्तुभौ ।
पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २९ ॥
दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवा: ।
दण्डवत् पतिता राजञ्छनैरुत्थाय तुष्टुवु: ॥ ३० ॥
आत्म-तुल्यैः षोडशभिः विना श्रीवत्स-कौस्तुभौ पर्युपासितम् उन्निद्र शरत् अम्बुरुह ईक्षणम् दृष्ट्वा तम् अवनौ सर्वे ईक्षण आह्लाद विक्लवाः दण्ड-वत् पतिताः राजन् शनैः उत्थाय तुष्टुवुः
श्रीदेवा ऊचु:
नमस्ते यज्ञवीर्याय वयसे उत ते नम: ।
नमस्ते ह्यस्तचक्राय नम: सुपुरुहूतये ॥ ३१ ॥
श्री-देवाः ऊचुः नमः ते यज्ञ-वीर्याय वयसे उत ते नमः नमः ते हि अस्त-चक्राय नमः सुपुरु-हूतये
यत्ते गतीनां तिसृणामीशितु: परमं पदम् ।
नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥
यत् ते गतीनाम् तिसृणाम् ईशितुः परमम् पदम् न अर्वाचीनः विसर्गस्य धातः वेदितुम् अर्हति
ॐ नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण
परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकै:
परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततम:कपाट द्वारे चित्तेऽपावृत
आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥
ओम् नमः ते अस्तु भगवन् नारायण वासुदेव आदि-पुरुष महा-पुरुष महा-अनुभाव परम-मङ्गल परम-कल्याण परम-कारुणिक केवल जगत्-आधार लोक-एक-नाथ सर्व-ईश्वर लक्ष्मी-नाथ परमहंस-परिव्राजकैः परमेण आत्म-योग-समाधिना परिभावित परिस्फुट पारमहंस्य-धर्मेण उद्घाटित तमः कपाट द्वारे चित्ते अपावृते आत्म-लोके स्वयम् उपलब्ध निज सुख-अनुभवः भवान्
दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन
सगुणमगुण: सृजसि पासि हरसि ॥ ३४ ॥
दुरवबोधः इव तव अयम् विहार-योगः यत् अशरणः अशरीरः इदम् अनवेक्षित अस्मत् समवायः आत्मना एव अविक्रियमाणेन स-गुणम् अगुणः सृजसि पासि हरसि
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतित: पारतन्त्र्येण स्वकृतकुशलाकुशलं
फलमुपाददात्याहोस्विदात्माराम उपशमशील: समञ्जसदर्शन उदास्त इति ह वाव न विदाम: ॥
३५ ॥
अथ तत्र भवान् किम् देव-दत्त-वत् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्व-कृत कुशल अकुशलम् फलम् उपाददाति आहोस्वित् आत्मारामः उपशम-शीलः समञ्जस-दर्शनः उदास्ते इति ह वाव न विदामः
न हि विरोध उभयं भगवत्यपरिमितगुणगण
ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्त:करणाश्रयदुरवग्रहवादिनां
विवादानवसर उपरत समस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति
स्वरूपद्वयाभावात् ॥ ३६ ॥
न हि विरोधः उभयम् भगवति अपरिमित गुण-गणे ईश्वरे अनवगाह्य माहात्म्ये अर्वाचीन विकल्प वितर्क विचार प्रमाण-आभास कुतर्क शास्त्र कलिल अन्तःकरण आश्रय दुरवग्रह वादिनाम् विवाद अनवसरे उपरत समस्त माया-मये केवले एव आत्म-मायाम् अन्तर्धाय कः नु अर्थः दुर्घटः इव भवति स्व-रूप द्वय अभावात्
सम विषम मतीनाम् मतम् अनुसरसि यथा रज्जु-खण्डः सर्प-आदि धियाम्
स एव हि पुन: सर्ववस्तुनि वस्तुस्वरूप: सर्वेश्वर: सकलजगत्कारणकारणभूत: सर्व प्रत्यगात्मत्वात्
सर्वगुणाभासोपलक्षित एक एव पर्यवशेषित: ॥ ३८ ॥
सः एव हि पुनः सर्व-वस्तुनि वस्तु-स्वरूपः सर्व-ईश्वरः सकल-जगत् कारण कारण-भूतः सर्व-प्रत्यक्-आत्मत्वात् सर्व-गुण आभास उपलक्षितः एकः एव पर्यवशेषितः
अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन
विस्मारितदृष्टश्रुतविषयसुखलेशाभासा: परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि
सर्वात्मनि नितरां निरन्तरं निर्वृतमनस: कथमु ह वा एते मधुमथन पुन: स्वार्थकुशला
ह्यात्मप्रियसुहृद: साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्त: ॥ ३९
॥
अथ ह वाव तव महिम अमृत रस समुद्र विप्रुषा सकृत् अवलीढया स्व-मनसि निष्यन्दमान अनवरत सुखेन विस्मारित दृष्ट श्रुत विषय-सुख लेश-आभासाः परम-भागवताः एकान्तिनः भगवति सर्व-भूत प्रिय सुहृदि सर्व-आत्मनि नितराम् निरन्तरम् निर्वृत मनसः कथम् उ ह वा एते मधु-मथन पुनः स्व-अर्थ-कुशलाः हि आत्म-प्रिय-सुहृदः साधवः त्वत्-चरण-अम्बुज-अनुसेवाम् विसृजन्ति न यत्र पुनः अयम् संसार-पर्यावर्तः
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो
दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रित
जलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४०
॥
त्रि-भुवन-आत्म-भवन त्रि-विक्रम त्रि-नयन त्रि-लोक-मनोहर-अनुभाव तव एव विभूतयः दिति-ज-दनु-ज-आदयः च अपि तेषाम् उपक्रम-समयः अयम् इति स्व-आत्म-मायया सुर-नर-मृग-मिश्रित-जलचर-आकृतिभिः यथा-अपराधम् दण्डम् दण्ड-धर दधर्थ एवम् एनम् अपि भगवन् जहि त्वाष्ट्रम् उत यदि मन्यसे
अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगल ध्यानानुबद्धहृदयनिगडानां
स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलित मधुरमुख
रसामृत कलया चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥
अस्माकम् तावकानाम् तत-तत नतानाम् हरे तव चरण नलिन-युगल ध्यान अनुबद्ध हृदय निगडानाम् स्व-लिङ्ग-विवरणेन आत्मसात्-कृतानाम् अनुकम्पा अनुरञ्जित विशद रुचिर शिशिर स्मित अवलोकेन विगलित मधुर-मुख-रस अमृत-कलया च अन्तः तापम् अनघ अर्हसि शमयितुम्
अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य
सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च
यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवत: सर्वप्रत्ययसाक्षिण आकाशशरीरस्य
साक्षात्परब्रह्मण: परमात्मन: कियानिह वार्थविशेषो विज्ञापनीय:
स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतस: ॥ ४२ ॥
अथ भगवन् तव अस्माभिः अखिल जगत् उत्पत्ति स्थिति लय निमित्तायमान दिव्य-माया विनोदस्य सकल जीव-निकायानाम् अन्तः-हृदयेषु बहिः अपि च ब्रह्म प्रत्यक्-आत्म स्व-रूपेण प्रधान-रूपेण च यथा देश-काल-देह-अवस्थान विशेषम् तत् उपादान उपलम्भकतया अनुभवतः सर्व-प्रत्यय-साक्षिणः आकाश-शरीरस्य साक्षात् पर-ब्रह्मणः परमात्मनः कियान् इह वा अर्थ-विशेषः विज्ञापनीयः स्यात् विस्फुलिङ्ग-आदिभिः इव हिरण्य-रेतसः
अत एव स्वयं तदुपकल्पयास्माकं भगवत: परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिन
संसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिता: ॥ ४३ ॥
अत एव स्वयम् तत् उपकल्पय अस्माकम् भगवतः परम-गुरोः तव चरण शत-पलाशत् छायाम् विविध वृजिन संसार परिश्रम उपशमनीम् उपसृतानाम् वयम् यत् कामेन उपसादिताः
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।
ग्रस्तानि येन न: कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥
अथो ईश जहि त्वाष्ट्रम् ग्रसन्तम् भुवन-त्रयम् ग्रस्तानि येन नः कृष्ण तेजांसि अस्त्र आयुधानि च
हंसाय दह्रनिलयाय निरीक्षकाय
कृष्णाय मृष्टयशसे निरुपक्रमाय ।
सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ता-
वन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥
हंसाय दह्र निलयाय निरीक्षकाय कृष्णाय मृष्ट-यशसे निरुपक्रमाय सत्-सङ्ग्रहाय भव-पान्थ-निज-आश्रम-आप्तौ अन्ते परीष्ट-गतये हरये नमः ते
श्रीशुक उवाच
अथैवमीडितो राजन् सादरं त्रिदशैर्हरि: ।
स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दित: ॥ ४६ ॥
श्री-शुकः उवाच अथ एवम् ईडितः राजन् स-आदरम् त्रि-दशैः हरिः स्वम् उपस्थानम् आकर्ण्य प्राह तान् अभिनन्दितः
श्रीभगवानुवाच
प्रीतोऽहं व: सुरश्रेष्ठा मदुपस्थानविद्यया ।
आत्मैश्वर्यस्मृति: पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥
श्री-भगवान् उवाच प्रीतः अहम् वः सुर-श्रेष्ठाः मत्-उपस्थान-विद्यया आत्म-ऐश्वर्य-स्मृतिः पुंसाम् भक्तिः च एव यया मयि
किं दुरापं मयि प्रीते तथापि विबुधर्षभा: ।
मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥
किम् दुरापम् मयि प्रीते तथापि विबुध-ऋषभाः मयि एकान्त मतिः न अन्यत् मत्तः वाञ्छति तत्त्व-वित्
न वेद कृपण: श्रेय आत्मनो गुणवस्तुदृक् ।
तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविध: ॥ ४९ ॥
न वेद कृपणः श्रेयः आत्मनः गुण-वस्तु-दृक् तस्य तान् इच्छतः यच्छेत् यदि सः अपि तथा-विधः
स्वयं नि:श्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तम: ॥ ५० ॥
स्वयम् निःश्रेयसम् वित्-वान् न वक्ति अज्ञाय कर्म हि न राति रोगिणः अपथ्यम् वाञ्छतः अपि भिषक्-तमः
मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।
विद्याव्रततप:सारं गात्रं याचत मा चिरम् ॥ ५१ ॥ H
मघवन् यात भद्रम् वः दध्यञ्चम् ऋषि-सत्-तमम् विद्या व्रत तपः सारम् गात्रम् याचत मा चिरम्
स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् ।
यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥
सः वा अधिगतः दध्यङ् अश्विभ्याम् ब्रह्म निष्कलम् यत् वा अश्वशिरः नाम तयोः अमरताम् व्यधात्
दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।
विश्वरूपाय यत्प्रादात् त्वष्टा यत्त्वमधास्तत: ॥ ५३ ॥
दध्यङ् आथर्वणः त्वष्ट्रे वर्म अभेद्यम् मत्-आत्मकम् विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वम् अधाः ततः
युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति ।
ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मित: ।
येन वृत्रशिरो हर्ता मत्तेजउपबृंहित: ॥ ५४ ॥
युष्मभ्यम् याचितः अश्विभ्याम् धर्म-ज्ञः अङ्गानि दास्यति ततः तैः आयुध श्रेष्ठः विश्वकर्म-विनिर्मितः येन वृत्र-शिरः हर्ता मत्-तेजः उपबृंहितः
तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पद: ।
भूय: प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥
तस्मिन् विनिहते यूयम् तेजः अस्त्र आयुध सम्पदः भूयः प्राप्स्यथ भद्रम् वः न हिंसन्ति च मत्-परान्
६.१०
श्रीबादरायणिरुवाच
इन्द्रमेवं समादिश्य भगवान् विश्वभावन: ।
पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरि: ॥ १ ॥
श्री-बादरायणिः उवाच इन्द्रम् एवम् समादिश्य भगवान् विश्व-भावनः पश्यताम् अनिमेषाणाम् तत्र एव अन्तर्दधे हरिः
तथाभियाचितो देवैर्ऋषिराथर्वणो महान् ।
मोदमान उवाचेदं प्रहसन्निव भारत ॥ २ ॥
तथा अभियाचितः देवैः ऋषिः आथर्वणः महान् मोदमानः उवाच इदम् प्रहसन् इव भारत
अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।
संस्थायां यस्त्वभिद्रोहो दु:सहश्चेतनापह: ॥ ३ ॥
अपि वृन्दारकाः यूयम् न जानीथ शरीरिणाम् संस्थायाम् यः तु अभिद्रोहः दुःसहः चेतन अपहः
जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सित: ।
क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥
जिजीविषूणाम् जीवानाम् आत्मा प्रेष्ठः इह ईप्सितः कः उत्सहेत तम् दातुम् भिक्षमाणाय विष्णवे
श्रीदेवा ऊचु:
किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।
भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥
श्री-देवाः ऊचुः किम् नु तत् दुस्त्यजम् ब्रह्मन् पुंसाम् भूत-अनुकम्पिनाम् भवत्-विधानाम् महताम् पुण्य-श्लोक-ईड्य-कर्मणाम्
नूनं स्वार्थपरो लोको न वेद परसङ्कटम् ।
यदि वेद न याचेत नेति नाह यदीश्वर: ॥ ६ ॥
नूनम् स्व-अर्थ-परः लोकः न वेद पर-सङ्कटम् यदि वेद न याचेत न इति न आह यत् ईश्वरः
श्रीऋषिरुवाच
धर्मं व: श्रोतुकामेन यूयं मे प्रत्युदाहृता: ।
एष व: प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥
श्री-ऋषिः उवाच धर्मम् वः श्रोतु-कामेन यूयम् मे प्रत्युदाहृताः एषः वः प्रियम् आत्मानम् त्यजन्तम् सन्त्यजामि अहम्
योऽध्रुवेणात्मना नाथा न धर्मं न यश: पुमान् ।
ईहेत भूतदयया स शोच्य: स्थावरैरपि ॥ ८ ॥
यः अध्रुवेण आत्मना नाथाः न धर्मम् न यशः पुमान् ईहेत भूत-दयया सः शोच्यः स्थावरैः अपि
एतावानव्ययो धर्म: पुण्यश्लोकैरुपासित: ।
यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ ९ ॥
एतावान् अव्ययः धर्मः पुण्य-श्लोकैः उपासितः यः भूत शोक हर्षाभ्याम् आत्मा शोचति हृष्यति
अहो दैन्यमहो कष्टं पारक्यै: क्षणभङ्गुरै: ।
यन्नोपकुर्यादस्वार्थैर्मर्त्य: स्वज्ञातिविग्रहै: ॥ १० ॥
अहो दैन्यम् अहो कष्टम् पारक्यैः क्षण-भङ्गुरैः यत् न उपकुर्यात् अ-स्व-अर्थैः मर्त्यः स्व ज्ञाति विग्रहैः
श्रीबादरायणिरुवाच
एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम् ।
परे भगवति ब्रह्मण्यात्मानं सन्नयञ्जहौ ॥ ११ ॥
श्री-बादरायणिः उवाच एवम् कृत-व्यवसितः दध्यङ् आथर्वणः तनुम् परे भगवति ब्रह्मणि आत्मानम् सन्नयन् जहौ
यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धन: ।
आस्थित: परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥
यत अक्ष असु मनः बुद्धिः तत्त्व-दृक् ध्वस्त-बन्धनः आस्थितः परमम् योगम् न देहम् बुबुधे गतम्
अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।
मुने: शक्तिभिरुत्सिक्तो भगवत्तेजसान्वित: ॥ १३ ॥
वृतो देवगणै: सर्वैर्गजेन्द्रोपर्यशोभत ।
स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ १४ ॥
अथ इन्द्रः वज्रम् उद्यम्य निर्मितम् विश्वकर्मणा मुनेः शक्तिभिः उत्सिक्तः भगवत् तेजसा अन्वितः वृतः देव-गणैः सर्वैः गजेन्द्र उपरि अशोभत स्तूयमानः मुनि-गणैः त्रै-लोक्यम् हर्षयन् इव
वृत्रमभ्यद्रवच्छत्रुमसुरानीकयूथपै: ।
पर्यस्तमोजसा
राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥
वृत्रम् अभ्यद्रवत् शत्रुम् असुर-अनीक-यूथपैः पर्यस्तम् ओजसा राजन् क्रुद्धः रुद्रः इव अन्तकम्
तत: सुराणामसुरै रण: परमदारुण: ।
त्रेतामुखे
नर्मदायामभवत्प्रथमे युगे ॥ १६ ॥
ततः सुराणाम् असुरैः रणः परम-दारुणः त्रेता-मुखे नर्मदायाम् अभवत् प्रथमे युगे
रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभि: ।
मरुद्भिर्ऋभुभि: साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ १७ ॥
दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।
नामृष्यन्नसुरा राजन्मृधे वृत्रपुर:सरा: ॥ १८ ॥
रुद्रैः वसुभिः आदित्यैः अश्विभ्याम् पितृ वह्निभिः मरुद्भिः ऋभुभिः साध्यैः विश्वे-देवैः मरुत्-पतिम् दृष्ट्वा वज्र-धरम् शक्रम् रोचमानम् स्वया श्रिया न अमृष्यन् असुराः राजन् मृधे वृत्र-पुरःसराः
नमुचि: शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुर: ।
हयग्रीव: शङ्कुशिरा विप्रचित्तिरयोमुख: ॥ १९ ॥
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कल: ।
दैतेया दानवा यक्षा रक्षांसि च सहस्रश: ॥ २० ॥
सुमालिमालिप्रमुखा: कार्तस्वरपरिच्छदा: ।
प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥
अभ्यर्दयन्नसम्भ्रान्ता: सिंहनादेन दुर्मदा: ।
गदाभि: परिघैर्बाणै: प्रासमुद्गरतोमरै: ॥ २२ ॥
नमुचिः शम्बरः अनर्वा द्विमूर्धा ऋषभः असुरः हयग्रीवः शङ्कुशिराः विप्रचित्तिः अयोमुखः पुलोमा वृषपर्वा च प्रहेतिः हेतिः उत्कलः दैतेयाः दानवाः यक्षाः रक्षांसि च सहस्रशः सुमालि-मालि-प्रमुखाः कार्तस्वर परिच्छदाः प्रतिषिध्य इन्द्र-सेना-अग्रम् मृत्योः अपि दुरासदम् अभ्यर्दयन् असम्भ्रान्ताः सिंह-नादेन दुर्मदाः गदाभिः परिघैः बाणैः प्रास-मुद्गर-तोमरैः
शूलै: परश्वधै: खड्गै: शतघ्नीभिर्भुशुण्डिभि: ।
सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ २३ ॥
शूलैः परश्वधैः खड्गैः शतघ्नीभिः भुशुण्डिभिः सर्वतः अवाकिरन् शस्त्रैः अस्त्रैः च विबुध-ऋषभान्
न तेऽदृश्यन्त सञ्छन्ना: शरजालै: समन्तत: ।
पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनै: ॥ २४ ॥
न ते अदृश्यन्त सञ्छन्नाः शर-जालैः समन्ततः पुङ्ख-अनुपुङ्ख पतितैः ज्योतींषि इव नभः-घनैः
न ते शस्त्रास्त्रवर्षौघा ह्यासेदु: सुरसैनिकान् ।
छिन्ना: सिद्धपथे देवैर्लघुहस्तै: सहस्रधा ॥ २५ ॥
न ते शस्त्र-अस्त्र-वर्ष-ओघाः हि आसेदुः सुर-सैनिकान् छिन्नाः सिद्ध-पथे देवैः लघु-हस्तैः सहस्रधा
अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलै: ।
अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६ ॥
अथ क्षीण अस्त्र शस्त्र ओघाः गिरि शृङ्ग द्रुम उपलैः अभ्यवर्षन् सुर-बलम् चिच्छिदुः तान् च पूर्व-वत्
तानक्षतान् स्वस्तिमतो निशाम्य
शस्त्रास्त्रपूगैरथ वृत्रनाथा: ।
द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गै
रविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥ २७ ॥
तान् अक्षतान् स्वस्ति-मतः निशाम्य शस्त्र-अस्त्र-पूगैः अथ वृत्र-नाथाः द्रुमैः दृषद्भिः विविध अद्रि शृङ्गैः अविक्षतान् तत्रसुः इन्द्र-सैनिकान्
सर्वे प्रयासा अभवन् विमोघा:
कृता: कृता देवगणेषु दैत्यै: ।
कृष्णानुकूलेषु यथा महत्सु
क्षुद्रै: प्रयुक्ता ऊषती रूक्षवाच: ॥ २८ ॥
सर्वे प्रयासाः अभवन् विमोघाः कृताः कृताः देव-गणेषु दैत्यैः कृष्ण-अनुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ताः ऊषतीः रूक्ष वाचः
ते स्वप्रयासं वितथं निरीक्ष्य
हरावभक्ता हतयुद्धदर्पा: ।
पलायनायाजिमुखे विसृज्य
पतिं मनस्ते दधुरात्तसारा: ॥ २९ ॥
ते स्व-प्रयासम् वितथम् निरीक्ष्य हरौ अभक्ताः हत युद्ध-दर्पाः पलायनाय आजि-मुखे विसृज्य पतिम् मनः ते दधुः आत्त-साराः
वृत्रोऽसुरांस्ताननुगान् मनस्वी
प्रधावत: प्रेक्ष्य बभाष एतत् ।
पलायितं प्रेक्ष्य बलं च भग्नं
भयेन तीव्रेण विहस्य वीर: ॥ ३० ॥
वृत्रः असुरान् तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् पलायितम् प्रेक्ष्य बलम् च भग्नम् भयेन तीव्रेण विहस्य वीरः
कालोपपन्नां रुचिरां मनस्विनां
जगाद वाचं पुरुषप्रवीर: ।
हे विप्रचित्ते नमुचे पुलोमन्
मयानर्वञ्छम्बर मे शृणुध्वम् ॥ ३१ ॥
काल-उपपन्नाम् रुचिराम् मनस्विनाम् जगाद वाचम् पुरुष-प्रवीरः हे विप्रचित्ते नमुचे पुलोमन् मय अनर्वन् शम्बर मे शृणुध्वम्
जातस्य मृत्युर्ध्रुव एव सर्वत:
प्रतिक्रिया यस्य न चेह क्लृप्ता ।
लोको यशश्चाथ ततो यदि ह्यमुं
को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥
जातस्य मृत्युः ध्रुवः एव सर्वतः प्रतिक्रिया यस्य न च इह कॢप्ता लोकः यशः च अथ ततः यदि हि अमुम् कः नाम मृत्युम् न वृणीत युक्तम्
द्वौ सम्मताविह मृत्यू दुरापौ
यद् ब्रह्मसन्धारणया जितासु: ।
कलेवरं योगरतो विजह्याद्
यदग्रणीर्वीरशयेऽनिवृत्त: ॥ ३३ ॥
द्वौ सम्मतौ इह मृत्यू दुरापौ यत् ब्रह्म-सन्धारणया जित-असुः कलेवरम् योग-रतः विजह्यात् यत् अग्रणीः वीर-शये अनिवृत्तः
६.११
श्रीशुक उवाच
त एवं शंसतो धर्मं वच: पत्युरचेतस: ।
नैवागृह्णन्त सम्भ्रान्ता: पलायनपरा नृप ॥ १ ॥
श्री-शुकः उवाच ते एवम् शंसतः धर्मम् वचः पत्युः अचेतसः न एव अगृह्णन्त सम्भ्रान्ताः पलायन-पराः नृप
विशीर्यमाणां पृतनामासुरीमसुरर्षभ: ।
कालानुकूलैस्त्रिदशै: काल्यमानामनाथवत् ॥ २ ॥
दृष्ट्वातप्यत सङ्कुद्ध इन्द्रशत्रुरमर्षित: ।
तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥
विशीर्यमाणाम् पृतनाम् आसुरीम् असुर-ऋषभः काल-अनुकूलैः त्रिदशैः काल्यमानाम् अनाथ-वत् दृष्ट्वा अतप्यत सङ्क्रुद्धः इन्द्र-शत्रुः अमर्षितः तान् निवार्य ओजसा राजन् निर्भर्त्स्य इदम् उवाच ह
किं व उच्चरितैर्मातुर्धावद्भि: पृष्ठतो हतै: ।
न हि भीतवध: श्लाघ्यो न स्वर्ग्य: शूरमानिनाम् ॥ ४ ॥
किम् वः उच्चरितैः मातुः धावद्भिः पृष्ठतः हतैः न हि भीत-वधः श्लाघ्यः न स्वर्ग्यः शूर-मानिनाम्
यदि व: प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।
अग्रे तिष्ठत मात्रं मे न चेद ग्राम्यसुखे स्पृहा ॥ ५ ॥
यदि वः प्रधने श्रद्धा सारम् वा क्षुल्लकाः हृदि अग्रे तिष्ठत मात्रम् मे न चेत् ग्राम्य-सुखे स्पृहा
एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।
व्यनदत् सुमहाप्राणो येन लोका विचेतस: ॥ ६ ॥
एवम् सुर-गणान् क्रुद्धः भीषयन् वपुषा रिपून् व्यनदत् सु-महा-प्राणः येन लोकाः विचेतसः
तेन देवगणा: सर्वे वृत्रविस्फोटनेन वै ।
निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हता: ॥ ७ ॥
तेन देव-गणाः सर्वे वृत्र-विस्फोटनेन वै निपेतुः मूर्च्छिताः भूमौ यथा एव अशनिना हताः
ममर्द पद्भ्यां सुरसैन्यमातुरं
निमीलिताक्षं रणरङ्गदुर्मद: ।
गां कम्पयन्नुद्यतशूल ओजसा
नालं वनं यूथपतिर्यथोन्मद: ॥ ८ ॥
ममर्द पद्भ्याम् सुर-सैन्यम् आतुरम् निमीलित-अक्षम् रण-रङ्ग-दुर्मदः गाम् कम्पयन् उद्यत-शूलः ओजसा नालम् वनम् यूथ-पतिः यथा उन्मदः
विलोक्य तं वज्रधरोऽत्यमर्षित:
स्वशत्रवेऽभिद्रवते महागदाम् ।
चिक्षेप तामापततीं सुदु:सहां
जग्राह वामेन करेण लीलया ॥ ९ ॥
विलोक्य तम् वज्र-धरः अति अमर्षितः स्व शत्रवे अभिद्रवते महा-गदाम् चिक्षेप ताम् आपततीम् सु-दुःसहाम् जग्राह वामेन करेण लीलया
स इन्द्रशत्रु: कुपितो भृशं तया
महेन्द्रवाहं गदयोरुविक्रम: ।
जघान कुम्भस्थल उन्नदन्मृधे
तत्कर्म सर्वे समपूजयन्नृप ॥ १० ॥
सः इन्द्र-शत्रुः कुपितः भृशम् तया महेन्द्र-वाहम् गदया उरु-विक्रमः जघान कुम्भ-स्थले उन्नदन् मृधे तत् कर्म सर्वे समपूजयन् नृप
ऐरावतो वृत्रगदाभिमृष्टो
विघूर्णितोऽद्रि: कुलिशाहतो यथा ।
अपासरद् भिन्नमुख: सहेन्द्रो
मुञ्चन्नसृक् सप्तधनुर्भृशार्त: ॥ ११ ॥
ऐरावतः वृत्र-गदा-अभिमृष्टः विघूर्णितः अद्रिः कुलिश आहतः यथा अपासरत् भिन्न-मुखः सह-इन्द्रः मुञ्चन् असृक् सप्त-धनुः भृश आर्तः
न सन्नवाहाय विषण्णचेतसे
प्रायुङ्क्त भूय: स गदां महात्मा ।
इन्द्रोऽमृतस्यन्दिकराभिमर्श
वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥
न सन्न वाहाय विषण्ण-चेतसे प्रायुङ्क्त भूयः सः गदाम् महा-आत्मा इन्द्रः अमृत-स्यन्दि-कर अभिमर्श वीत व्यथ क्षत वाहः अवतस्थे
स तं नृपेन्द्राहवकाम्यया रिपुं
वज्रायुधं भ्रातृहणं विलोक्य ।
स्मरंश्च तत्कर्म नृशंसमंह:
शोकेन मोहेन हसञ्जगाद ॥ १३ ॥
सः तम् नृप-इन्द्र आहव-काम्यया रिपुम् वज्र-आयुधम् भ्रातृ-हणम् विलोक्य स्मरन् च तत्-कर्म नृ-शंसम् अंहः शोकेन मोहेन हसन् जगाद
श्रीवृत्र उवाच
दिष्ट्या भवान् मे समवस्थितो रिपु-
र्यो ब्रह्महा गुरुहा भ्रातृहा च ।
दिष्ट्यानृणोऽद्याहमसत्तम त्वया
मच्छूलनिर्भिन्नदृषद्धृदाचिरात् ॥ १४ ॥
श्री-वृत्रः उवाच दिष्ट्या भवान् मे समवस्थितः रिपुः यः ब्रह्म-हा गुरु-हा भ्रातृ-हा च दिष्ट्या अनृणः अद्य अहम् असत्-तम त्वया मत्-शूल निर्भिन्न दृषत् हृदा अचिरात्
यो नोऽग्रजस्यात्मविदो द्विजाते-
र्गुरोरपापस्य च दीक्षितस्य ।
विश्रभ्य खड्गेन शिरांस्यवृश्चत्
पशोरिवाकरुण: स्वर्गकाम: ॥ १५ ॥
यः नः अग्र-जस्य आत्म-विदः द्वि-जातेः गुरोः अपापस्य च दीक्षितस्य विश्रभ्य खड्गेन शिरांसि अवृश्चत् पशोः इव अकरुणः स्वर्ग-कामः
श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां
स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।
कृच्छ्रेण मच्छूलविभिन्नदेह-
मस्पृष्टवह्निं समदन्ति गृध्रा: ॥ १६ ॥
श्री ह्री दया कीर्तिभिः उज्झितम् त्वाम् स्व-कर्मणा पुरुष-अदैः च गर्ह्यम् कृच्छ्रेण मत्-शूल विभिन्न देहम् अस्पृष्ट-वह्निम् समदन्ति गृध्राः
अन्येऽनु ये त्वेह नृशंसमज्ञा
यदुद्यतास्त्रा: प्रहरन्ति मह्यम् ।
तैर्भूतनाथान् सगणान् निशात
त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥
अन्ये अनु ये त्वा इह नृ-शंसम् अज्ञाः यत् उद्यत-अस्त्राः प्रहरन्ति मह्यम् तैः भूत-नाथान् स-गणान् निशात त्रि-शूल निर्भिन्न गलैः यजामि
अथो हरे मे कुलिशेन वीर
हर्ता प्रमथ्यैव शिरो यदीह ।
तत्रानृणो भूतबलिं विधाय
मनस्विनां पादरज: प्रपत्स्ये ॥ १८ ॥
अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्य एव शिरः यदि इह तत्र अनृणः भूत-बलिम् विधाय मनस्विनाम् पाद-रजः प्रपत्स्ये
सुरेश कस्मान्न हिनोषि वज्रं
पुर: स्थिते वैरिणि मय्यमोघम् ।
मा संशयिष्ठा न गदेव वज्र:
स्यान्निष्फल: कृपणार्थेव याच्ञा ॥ १९ ॥
सुर-ईश कस्मात् न हिनोषि वज्रम् पुरः स्थिते वैरिणि मयि अमोघम् मा संशयिष्ठाः न गदा इव वज्रः स्यात् निष्फलः कृपण अर्था इव याच्ञा
नन्वेष वज्रस्तव शक्र तेजसा
हरेर्दधीचेस्तपसा च तेजित: ।
तेनैव शत्रुं जहि विष्णुयन्त्रितो
यतो हरिर्विजय: श्रीर्गुणास्तत: ॥ २० ॥
ननु एषः वज्रः तव शक्र तेजसा हरेः दधीचेः तपसा च तेजितः तेन एव शत्रुम् जहि विष्णु-यन्त्रितः यतः हरिः विजयः श्रीः गुणाः ततः
अहं समाधाय मनो यथाह न:
सङ्कर्षणस्तच्चरणारविन्दे ।
त्वद्वज्ररंहोलुलितग्राम्यपाशो
गतिं मुनेर्याम्यपविद्धलोक: ॥ २१ ॥
अहम् समाधाय मनः यथा आह नः सङ्कर्षणः तत्-चरण-अरविन्दे त्वत्-वज्र रंहः लुलित ग्राम्य पाशः गतिम् मुनेः यामि अपविद्ध लोकः
पुंसां किलैकान्तधियां स्वकानां
या: सम्पदो दिवि भूमौ रसायाम् ।
न राति यद्द्वेष उद्वेग आधि-
र्मद: कलिर्व्यसनं सम्प्रयास: ॥ २२ ॥
पुंसाम् किल एकान्त-धियाम् स्वकानाम् याः सम्पदः दिवि भूमौ रसायाम् न राति यत् द्वेषः उद्वेगः आधिः मदः कलिः व्यसनम् सम्प्रयासः
त्रैवर्गिकायासविघातमस्मत्-
पतिर्विधत्ते पुरुषस्य शक्र ।
ततोऽनुमेयो भगवत्प्रसादो
यो दुर्लभोऽकिञ्चनगोचरोऽन्यै: ॥ २३ ॥
त्रै-वर्गिक आयास विघातम् अस्मत् पतिः विधत्ते पुरुषस्य शक्र ततः अनुमेयः भगवत्-प्रसादः यः दुर्लभः अकिञ्चन-गोचरः अन्यैः
अहं हरे तव पादैकमूल-
दासानुदासो भवितास्मि भूय: ।
मन: स्मरेतासुपतेर्गुणांस्ते
गृणीत वाक् कर्म करोतु काय: ॥ २४ ॥
अहम् हरे तव पाद-एक-मूल दास-अनुदासः भवितास्मि भूयः मनः स्मरेत असु-पतेः गुणान् ते गृणीत वाक् कर्म करोतु कायः
न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ २५ ॥
न नाक-पृष्ठम् न च पारमेष्ठ्यम् न सार्व-भौमम् न रसा-आधिपत्यम् न योग-सिद्धीः अपुनः-भवम् वा समञ्जस त्वा विरहय्य काङ्क्षे
अजातपक्षा इव मातरं खगा:
स्तन्यं यथा वत्सतरा: क्षुधार्ता: ।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥
अजात-पक्षाः इव मातरम् खगाः स्तन्यम् यथा वत्सतराः क्षुध्-आर्ताः प्रियम् प्रिया इव व्युषितम् विषण्णा मनः अरविन्द-अक्ष दिदृक्षते त्वाम्
ममोत्तमश्लोकजनेषु सख्यं
संसारचक्रे भ्रमत: स्वकर्मभि: ।
त्वन्माययात्मात्मजदारगेहे-
ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥
मम उत्तम-श्लोक-जनेषु सख्यम् संसार-चक्रे भ्रमतः स्व-कर्मभिः त्वत्-मायया आत्म आत्म-ज दार गेहेषु आसक्त चित्तस्य न नाथ भूयात्
६.१२
श्रीऋषिरुवाच
एवं जिहासुर्नृप देहमाजौ
मृत्युं वरं विजयान्मन्यमान: ।
शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं
यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥
श्री-ऋषिः उवाच एवम् जिहासुः नृप देहम् आजौ मृत्युम् वरम् विजयात् मन्यमानः शूलम् प्रगृह्य अभ्यपतत् सुर-इन्द्रम् यथा महा-पुरुषम् कैटभः अप्सु
ततो युगान्ताग्निकठोरजिह्व-
माविध्य शूलं तरसासुरेन्द्र: ।
क्षिप्त्वा महेन्द्राय विनद्य वीरो
हतोऽसि पापेति रुषा जगाद ॥ २ ॥
ततः युग-अन्त-अग्नि कठोर जिह्वम् आविध्य शूलम् तरसा असुर-इन्द्रः क्षिप्त्वा महा-इन्द्राय विनद्य वीरः हतः असि पाप इति रुषा जगाद
ख आपतत्तद्विचलद्ग्रहोल्कव-
न्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लव: ।
वज्रेण वज्री शतपर्वणाच्छिनद्
भुजं च तस्योरगराजभोगम् ॥ ३ ॥
खे आपतत् तत् विचलत् ग्रह-उल्क-वत् निरीक्ष्य दुष्प्रेक्ष्यम् अजात-विक्लवः वज्रेण वज्री शत-पर्वणा आच्छिनत् भुजम् च तस्य उरग-राज भोगम्
छिन्नैकबाहु: परिघेण वृत्र:
संरब्ध आसाद्य गृहीतवज्रम् ।
हनौ तताडेन्द्रमथामरेभं
वज्रं च हस्तान्न्यपतन्मघोन: ॥ ४ ॥
छिन्न एक बाहुः परिघेण वृत्रः संरब्धः आसाद्य गृहीत वज्रम् हनौ तताड इन्द्रम् अथ अमर-इभम् वज्रम् च हस्तात् न्यपतत् मघोनः
वृत्रस्य कर्मातिमहाद्भुतं तत्
सुरासुराश्चारणसिद्धसङ्घा: ।
अपूजयंस्तत् पुरुहूतसङ्कटं
निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥
वृत्रस्य कर्म अति महा अद्भुतम् तत् सुर असुराः चारण सिद्ध-सङ्घाः अपूजयन् तत् पुरुहूत-सङ्कटम् निरीक्ष्य हा हा इति विचुक्रुशुः भृशम्
इन्द्रो न वज्रं जगृहे विलज्जित-
श्च्युतं स्वहस्तादरिसन्निधौ पुन: ।
तमाह वृत्रो हर आत्तवज्रो
जहि स्वशत्रुं न विषादकाल: ॥ ६ ॥
इन्द्रः न वज्रम् जगृहे विलज्जितः च्युतम् स्व-हस्तात् अरि-सन्निधौ पुनः तम् आह वृत्रः हरे आत्त-वज्रः जहि स्व-शत्रुम् न विषाद-कालः
युयुत्सतां कुत्रचिदाततायिनां
जय: सदैकत्र न वै परात्मनाम् ।
विनैकमुत्पत्तिलयस्थितीश्वरं
सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥
युयुत्सताम् कुत्रचित् आततायिनाम् जयः सदा एकत्र न वै पर-आत्मनाम् विना एकम् उत्पत्ति लय स्थिति ईश्वरम् सर्व-ज्ञम् आद्यम् पुरुषम् सनातनम्
लोका: सपाला यस्येमे श्वसन्ति विवशा वशे ।
द्विजा इव शिचा बद्धा: स काल इह कारणम् ॥ ८ ॥
लोकाः स-पालाः यस्य इमे श्वसन्ति विवशाः वशे द्विजाः इव शिचा बद्धाः सः कालः इह कारणम्
ओज: सहो बलं प्राणममृतं मृत्युमेव च ।
तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ ९ ॥
ओजः सहः बलम् प्राणम् अमृतम् मृत्युम् एव च तम् अज्ञाय जनः हेतुम् आत्मानम् मन्यते जडम्
यथा दारुमयी नारी यथा पत्रमयो मृग: ।
एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भो: ॥ १० ॥
यथा दारु-मयी नारी यथा पत्र-मयः मृगः एवम् भूतानि मघवन् ईश तन्त्राणि विद्धि भोः
पुरुष: प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशया: ।
शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥
पुरुषः प्रकृतिः व्यक्तम् आत्मा भूत इन्द्रिय आशयाः शक्नुवन्ति अस्य सर्ग-आदौ न विना यत् अनुग्रहात्
अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ।
भूतै: सृजति भूतानि ग्रसते तानि तै: स्वयम् ॥ १२ ॥
अविद्वान् एवम् आत्मानम् मन्यते अनीशम् ईश्वरम् भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम्
आयु: श्री: कीर्तिरैश्वर्यमाशिष: पुरुषस्य या: ।
भवन्त्येव हि तत्काले यथानिच्छोर्विपर्यया: ॥ १३ ॥
आयुः श्रीः कीर्तिः ऐश्वर्यम् आशिषः पुरुषस्य याः भवन्ति एव हि तत्-काले यथा अनिच्छोः विपर्ययाः
तस्मादकीर्तियशसोर्जयापजययोरपि ।
सम: स्यात्सुखदु:खाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥
तस्मात् अकीर्ति यशसोः जय अपजययोः अपि समः स्यात् सुख-दुःखाभ्याम् मृत्यु जीवितयोः तथा
सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणा: ।
तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥
सत्त्वम् रजः तमः इति प्रकृतेः न आत्मनः गुणाः तत्र साक्षिणम् आत्मानम् यः वेद सः न बध्यते
पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे ।
घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥
पश्य माम् निर्जितम् शत्रु वृक्ण आयुध भुजम् मृधे घटमानम् यथा-शक्ति तव प्राण जिहीर्षया
प्राणग्लहोऽयं समर इष्वक्षो वाहनासन: ।
अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजय: ॥ १७ ॥
प्राण-ग्लहः अयम् समरः इषु-अक्षः वाहन-आसनः अत्र न ज्ञायते अमुष्य जयः अमुष्य पराजयः
श्रीशुक उवाच
इन्द्रो वृत्रवच: श्रुत्वा गतालीकमपूजयत् ।
गृहीतवज्र: प्रहसंस्तमाह गतविस्मय: ॥ १८ ॥
श्री-शुकः उवाच इन्द्रः वृत्र-वचः श्रुत्वा गत-अलीकम् अपूजयत् गृहीत-वज्रः प्रहसन् तम् आह गत-विस्मयः
इन्द्र उवाच
अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ।
भक्त: सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥
इन्द्रः उवाच अहो दानव सिद्धः असि यस्य ते मतिः ईदृशी भक्तः सर्व-आत्मना आत्मानम् सुहृदम् जगत्-ईश्वरम्
भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।
यद् विहायासुरं भावं महापुरुषतां गत: ॥ २० ॥
भवान् अतार्षीत् मायाम् वै वैष्णवीम् जन-मोहिनीम् यत् विहाय आसुरम् भावम् महा-पुरुषताम् गतः
खल्विदं महदाश्चर्यं यद् रज:प्रकृतेस्तव ।
वासुदेवे भगवति सत्त्वात्मनि दृढा मति: ॥ २१ ॥
खलु इदम् महत् आश्चर्यम् यत् रजः प्रकृतेः तव वासुदेवे भगवति सत्त्व-आत्मनि दृढा मतिः
यस्य भक्तिर्भगवति हरौ नि:श्रेयसेश्वरे ।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रै: खातकोदकै: ॥ २२ ॥
यस्य भक्तिः भगवति हरौ निःश्रेयस-ईश्वरे विक्रीडतः अमृत-अम्भोधौ किम् क्षुद्रैः खातक-उदकैः
श्रीशुक उवाच
इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।
युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ २३ ॥
श्री-शुकः उवाच इति ब्रुवाणौ अन्योन्यम् धर्म-जिज्ञासया नृप युयुधाते महा-वीर्यौ इन्द्र वृत्रौ युधाम् पती
आविध्य परिघं वृत्र: कार्ष्णायसमरिन्दम: ।
इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥
आविध्य परिघम् वृत्रः कार्ष्ण-अयसम् अरिम्-दमः इन्द्राय प्राहिणोत् घोरम् वाम-हस्तेन मारिष
स तु वृत्रस्य परिघं करं च करभोपमम् ।
चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ २५ ॥
सः तु वृत्रस्य परिघम् करम् च करभ-उपमम् चिच्छेद युगपत् देवः वज्रेण शत-पर्वणा
दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुर: ।
छिन्नपक्षो यथा गोत्र: खाद्भ्रष्टो वज्रिणा हत: ॥ २६ ॥
दोर्भ्याम् उत्कृत्त-मूलाभ्याम् बभौ रक्त-स्रवः असुरः छिन्न-पक्षः यथा गोत्रः खात् भ्रष्टः वज्रिणा हतः
महाप्राणो महावीर्यो महासर्प इव द्विपम् ।
कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् ।
नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥
दंष्ट्राभि: कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् ।
अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् ॥ २८ ॥
गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् ।
जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥
महा-प्राणः महा-वीर्यः महा-सर्पः इव द्विपम् कृत्वा अधराम् हनुम् भूमौ दैत्यः दिवि उत्तराम् हनुम् नभः गम्भीर वक्त्रेण लेलिह उल्बण जिह्वया दंष्ट्राभिः काल-कल्पाभिः ग्रसन् इव जगत्-त्रयम् अति-मात्र महा-कायः आक्षिपन् तरसा गिरीन् गिरि-राट् पाद-चारी इव पद्भ्याम् निर्जरयन् महीम् जग्रास सः समासाद्य वज्रिणम् सह-वाहनम्
वृत्रग्रस्तं तमालोक्य सप्रजापतय: सुरा: ।
हा कष्टमिति निर्विण्णाश्चुक्रुशु: समहर्षय: ॥ ३० ॥
वृत्र-ग्रस्तम् तम् आलोक्य स-प्रजापतयः सुराः हा कष्टम् इति निर्विण्णाः चुक्रुशुः स-महा-ऋषयः
निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गत: ।
महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥
निगीर्णः अपि असुर-इन्द्रेण न ममार उदरम् गतः महा-पुरुष सन्नद्धः योग-माया-बलेन च
भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभु: ।
उच्चकर्त शिर: शत्रोर्गिरिशृङ्गमिवौजसा ॥ ३२ ॥
भित्त्वा वज्रेण तत्-कुक्षिम् निष्क्रम्य बल-भित् विभुः उच्चकर्त शिरः शत्रोः गिरि-शृङ्गम् इव ओजसा
वज्रस्तु तत्कन्धरमाशुवेग:
कृन्तन् समन्तात् परिवर्तमान: ।
न्यपातयत् तावदहर्गणेन
यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥
वज्रः तु तत्-कन्धरम् आशु-वेगः कृन्तन् समन्तात् परिवर्तमानः न्यपातयत् तावत् अहः-गणेन यः ज्योतिषाम् अयने वार्त्र-हत्ये
तदा च खे दुन्दुभयो विनेदु-
र्गन्धर्वसिद्धा: समहर्षिसङ्घा: ।
वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना
मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥
तदा च खे दुन्दुभयः विनेदुः गन्धर्व सिद्धाः स-महर्षि-सङ्घाः वार्त्र-घ्न-लिङ्गैः तम् अभिष्टुवानाः मन्त्रैः मुदा कुसुमैः अभ्यवर्षन्
वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम ।
पश्यतां सर्वदेवानामलोकं समपद्यत ॥ ३५ ॥
वृत्रस्य देहात् निष्क्रान्तम् आत्म-ज्योतिः अरिम्-दम पश्यताम् सर्व-देवानाम् अलोकम् समपद्यत
६.१३
श्रीशुक उवाच
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।
सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रिया: ॥ १ ॥
श्री-शुकः उवाच वृत्रे हते त्रयः लोकाः विना शक्रेण भूरि-द स-पालाः हि अभवन् सद्यः विज्वराः निर्वृत इन्द्रियाः
देवर्षिपितृभूतानि दैत्या देवानुगा: स्वयम् ।
प्रतिजग्मु: स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्तत: ॥ २ ॥
देव ऋषि पितृ भूतानि दैत्याः देव-अनुगाः स्वयम् प्रतिजग्मुः स्व-धिष्ण्यानि ब्रह्म ईश इन्द्र-आदयः ततः
श्रीराजोवाच
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।
येनासन् सुखिनो देवा हरेर्दु:खं कुतोऽभवत् ॥ ३ ॥
श्री-राजा उवाच इन्द्रस्य अनिर्वृतेः हेतुम् श्रोतुम् इच्छामि भोः मुने येन आसन् सुखिनः देवाः हरेः दुःखम् कुतः अभवत्
श्रीशुक उवाच
वृत्रविक्रमसंविग्ना: सर्वे देवा: सहर्षिभि: ।
तद्वधायार्थयन्निन्द्रं नैच्छद् भीतो बृहद्वधात् ॥ ४ ॥
श्री-शुकः उवाच वृत्र विक्रम संविग्नाः सर्वे देवाः सह ऋषिभिः तत्-वधाय आर्थयन् इन्द्रम् न ऐच्छत् भीतः बृहत्-वधात्
इन्द्र उवाच
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् ।
विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ॥ ५ ॥
इन्द्रः उवाच स्त्री भू द्रुम जलैः एनः विश्वरूप वध उद्भवम् विभक्तम् अनुगृह्णद्भिः वृत्र-हत्याम् क्व मार्ज्मि अहम्
श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् ।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भै: ॥ ६ ॥
श्री-शुकः उवाच ऋषयः तत् उपाकर्ण्य महा-इन्द्रम् इदम् अब्रुवन् याजयिष्यामः भद्रम् ते हयमेधेन मा स्म भैः
हयमेधेन पुरुषं परमात्मानमीश्वरम् ।
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ ७ ॥
हयमेधेन पुरुषम् परमात्मानम् ईश्वरम् इष्ट्वा नारायणम् देवम् मोक्ष्यसे अपि जगत्-वधात्
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् ।
श्वाद: पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ ८ ॥
तमश्वमेधेन महामखेन
श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।
हत्वापि सब्रह्मचराचरं त्वं
न लिप्यसे किं खलनिग्रहेण ॥ ९ ॥
ब्रह्म-हा पितृ-हा गो-घ्नः मातृ-हा आचार्य-हा अघ-वान् श्व-अदः पुल्कसकः वा अपि शुद्ध्येरन् यस्य कीर्तनात् तम् अश्वमेधेन महा-मखेन श्रद्धा-अन्वितः अस्माभिः अनुष्ठितेन हत्वा अपि स-ब्रह्म-चर-अचरम् त्वम् न लिप्यसे किम् खल-निग्रहेण
श्रीशुक उवाच
एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् ।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ १० ॥
श्री-शुकः उवाच एवम् सञ्चोदितः विप्रैः मरुत्वान् अहनत् रिपुम् ब्रह्म-हत्या हते तस्मिन् आससाद वृषाकपिम्
तयेन्द्र: स्मासहत्तापं निर्वृतिर्नामुमाविशत् ।
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणा: ॥ ११ ॥
तया इन्द्रः स्म असहत् तापम् निर्वृतिः न अमुम् आविशत् ह्रीमन्तम् वाच्यताम् प्राप्तम् सुखयन्ति अपि नो गुणाः
तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् ।
जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ १२ ॥
विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् ।
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ १३ ॥
ताम् ददर्श अनुधावन्तीम् चाण्डालीम् इव रूपिणीम् जरया वेपमान-अङ्गीम् यक्ष्म-ग्रस्ताम् असृक्-पटाम् विकीर्य पलितान् केशान् तिष्ठ तिष्ठ इति भाषिणीम् मीन-गन्धि असु गन्धेन कुर्वतीम् मार्ग-दूषणम्
नभो गतो दिश: सर्वा: सहस्राक्षो विशाम्पते ।
प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ १४ ॥
नभः गतः दिशः सर्वाः सहस्र-अक्षः विशाम्पते प्राक्-उदीचीम् दिशम् तूर्णम् प्रविष्टः नृप मानसम्
स आवसत्पुष्करनालतन्तू-
नलब्धभोगो यदिहाग्निदूत: ।
वर्षाणि साहस्रमलक्षितोऽन्त:
सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ १५ ॥
सः आवसत् पुष्कर-नाल-तन्तून् अलब्ध-भोगः यत् इह अग्नि-दूतः वर्षाणि साहस्रम् अलक्षितः अन्तः सञ्चिन्तयन् ब्रह्म-वधात् विमोक्षम्
तावत्त्रिणाकं नहुष: शशास
विद्यातपोयोगबलानुभाव: ।
स सम्पदैश्वर्यमदान्धबुद्धि-
र्नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ १६ ॥
तावत् त्रिणाकम् नहुषः शशास विद्या तपः योग बल अनुभावः सः सम्पत् ऐश्वर्य मद अन्ध बुद्धिः नीतः तिरश्चाम् गतिम् इन्द्र-पत्न्या
ततो गतो ब्रह्मगिरोपहूत
ऋतम्भरध्याननिवारिताघ: ।
पापस्तु दिग्देवतया हतौजा-
स्तं नाभ्यभूदवितं विष्णुपत्न्या ॥ १७ ॥
ततः गतः ब्रह्म गिरा उपहूतः ऋतम्भर ध्यान निवारित अघः पापः तु दिक्-देवतया हत-ओजाः तम् न अभ्यभूत् अवितम् विष्णु-पत्न्या
तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।
यथावद्दीक्षञ्चक्रु: पुरुषाराधनेन ह ॥ १८ ॥
तम् च ब्रह्म-ऋषयः अभ्येत्य हयमेधेन भारत यथावत् दीक्षयाम् चक्रुः पुरुष-आराधनेन ह
अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।
अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभि: ॥ १९ ॥
स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप ।
नीतस्तेनैव शून्याय नीहार इव भानुना ॥ २० ॥
अथ इज्यमाने पुरुषे सर्व देव-मय-आत्मनि अश्वमेधे महा-इन्द्रेण वितते ब्रह्म-वादिभिः सः वै त्वाष्ट्र-वधः भूयात् अपि पाप-चयः नृप नीतः तेन एव शून्याय नीहारः इव भानुना
स वाजिमेधेन यथोदितेन
वितायमानेन मरीचिमिश्रै: ।
इष्ट्वाधियज्ञं पुरुषं पुराण-
मिन्द्रो महानास विधूतपाप: ॥ २१ ॥
सः वाजिमेधेन यथा उदितेन वितायमानेन मरीचि-मिश्रैः इष्ट्वा अधियज्ञम् पुरुषम् पुराणम् इन्द्रः महान् आस विधूत-पापः
इदं महाख्यानमशेषपाप्मनांप्रक्षालनं तीर्थपदानुकीर्तनम् ।
भक्त्युच्छ्रयं
भक्तजनानुवर्णनंमहेन्द्रमोक्षं विजयं मरुत्वत: ॥ २२ ॥ पठेयुराख्यानमिदं सदा बुधा:शृण्वन्त्यथो
पर्वणि पर्वणीन्द्रियम् ।
धन्यं यशस्यं निखिलाघमोचनंरिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ २३ ॥
इदम् महा-आख्यानम् अशेष-पाप्मनाम् प्रक्षालनम् तीर्थपद-अनुकीर्तनम् भक्ति उच्छ्रयम् भक्त-जन अनुवर्णनम् महा-इन्द्र-मोक्षम् विजयम् मरुत्वतः पठेयुः आख्यानम् इदम् सदा बुधाः शृण्वन्ति अथो पर्वणि पर्वणि इन्द्रियम् धन्यम् यशस्यम् निखिल अघ-मोचनम् रिपुम्-जयम् स्वस्ति-अयनम् तथा आयुषम्
६.१४
श्रीपरीक्षिदुवाच
रजस्तम:स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मन: ।
नारायणे भगवति कथमासीद् दृढा मति: ॥ १ ॥
श्री-परीक्षित् उवाच रजः तमः स्व-भावस्य ब्रह्मन् वृत्रस्य पाप्मनः नारायणे भगवति कथम् आसीत् दृढा मतिः
देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् ।
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥
देवानाम् शुद्ध-सत्त्वानाम् ऋषीणाम् च अमल-आत्मनाम् भक्तिः मुकुन्द-चरणे न प्रायेण उपजायते
रजोभि: समसङ्ख्याता: पार्थिवैरिह जन्तव: ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादय: ॥ ३ ॥
रजोभिः सम-सङ्ख्याताः पार्थिवैः इह जन्तवः तेषाम् ये केचन ईहन्ते श्रेयः वै मनुज-आदयः
प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ ४ ॥
प्रायः मुमुक्षवः तेषाम् केचन एव द्विज-उत्तम मुमुक्षूणाम् सहस्रेषु कश्चित् मुच्येत सिध्यति
मुक्तानामपि सिद्धानां नारायणपरायण: ।
सुदुर्लभ: प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥
मुक्तानाम् अपि सिद्धानाम् नारायण-परायणः सु-दुर्लभः प्रशान्त आत्मा कोटिषु महा-मुने
वृत्रस्तु स कथं पाप: सर्वलोकोपतापन: ।
इत्थं दृढमति: कृष्ण आसीत्सङ्ग्राम उल्बणे ॥ ६ ॥
वृत्रः तु सः कथम् पापः सर्व-लोक उपतापनः इत्थम् दृढ-मतिः कृष्णे आसीत् सङ्ग्रामे उल्बणे
अत्र न: संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो ।
य: पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥
अत्र नः संशयः भूयान् श्रोतुम् कौतूहलम् प्रभो यः पौरुषेण समरे सहस्र-अक्षम् अतोषयत्
श्रीसूत उवाच
परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणि: ।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥
श्री-सूतः उवाच परीक्षितः अथ सम्प्रश्नम् भगवान् बादरायणिः निशम्य श्रद्दधानस्य प्रतिनन्द्य वचः अब्रवीत्
श्रीशुक उवाच
शृणुष्वावहितो राजन्नितिहासमिमं यथा ।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९ ॥
श्री-शुकः उवाच शृणुष्व अवहितः राजन् इतिहासम् इमम् यथा श्रुतम् द्वैपायन मुखात् नारदात् देवलात् अपि
आसीद्राजा सार्वभौम: शूरसेनेषु वै नृप ।
चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्मही ॥ १० ॥
आसीत् राजा सार्व-भौमः शूरसेनेषु वै नृप चित्रकेतुः इति ख्यातः यस्य आसीत् काम-धुक् मही
तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।
सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥
तस्य भार्या सहस्राणाम् सहस्राणि दश अभवन् सान्तानिकः च अपि नृपः न लेभे तासु सन्ततिम्
रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभि: ।
सम्पन्नस्य गुणै: सर्वैश्चिन्ता बन्ध्यापतेरभूत् ॥ १२ ॥
रूप औदार्य वयः जन्म विद्या ऐश्वर्य श्रिय-आदिभिः सम्पन्नस्य गुणैः सर्वैः चिन्ता बन्ध्या-पतेः अभूत्
न तस्य सम्पद: सर्वा महिष्यो वामलोचना: ।
सार्वभौमस्य भूश्चेयमभवन्प्रीतिहेतव: ॥ १३ ॥
न तस्य सम्पदः सर्वाः महिष्यः वाम-लोचनाः सार्व-भौमस्य भूः च इयम् अभवन् प्रीति-हेतवः
तस्यैकदा तु भवनमङ्गिरा भगवानृषि: ।
लोकाननुचरन्नेतानुपागच्छद्यदृच्छया ॥ १४ ॥
तस्य एकदा तु भवनम् अङ्गिराः भगवान् ऋषिः लोकान् अनुचरन् एतान् उपागच्छत् यदृच्छया
तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभि: ।
कृतातिथ्यमुपासीदत्सुखासीनं समाहित: ॥ १५ ॥
तम् पूजयित्वा विधि-वत् प्रत्युत्थान अर्हण-आदिभिः कृत-अतिथ्यम् उपासीदत् सुख-आसीनम् समाहितः
महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।
प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥
महा-ऋषिः तम् उपासीनम् प्रश्रय-अवनतम् क्षितौ प्रतिपूज्य महाराज समाभाष्य इदम् अब्रवीत्
अङ्गिरा उवाच
अपि तेऽनामयं स्वस्ति प्रकृतीनां तथात्मन: ।
यथा प्रकृतिभिर्गुप्त: पुमान् राजा च सप्तभि: ॥ १७ ॥
अङ्गिराः उवाच अपि ते अनामयम् स्वस्ति प्रकृतीनाम् तथा आत्मनः यथा प्रकृतिभिः गुप्तः पुमान् राजा च सप्तभिः
आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।
राज्ञा तथा प्रकृतयो नरदेवाहिताधय: ॥ १८ ॥
आत्मानम् प्रकृतिषु अद्धा निधाय श्रेयः आप्नुयात् राज्ञा तथा प्रकृतयः नर-देव आहित-अधयः
अपि दारा: प्रजामात्या भृत्या: श्रेण्योऽथ मन्त्रिण: ।
पौरा जानपदा भूपा आत्मजा वशवर्तिन: ॥ १९ ॥
अपि दाराः प्रजा अमात्याः भृत्याः श्रेण्यः अथ मन्त्रिणः पौराः जानपदाः भूपाः आत्म-जाः वश-वर्तिनः
यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे ।
लोका: सपाला यच्छन्ति सर्वे बलिमतन्द्रिता: ॥ २० ॥
यस्य आत्मा अनुवशः चेत् स्यात् सर्वे तत्-वश-गाः इमे लोकाः स-पालाः यच्छन्ति सर्वे बलिम् अतन्द्रिताः
आत्मन: प्रीयते नात्मा परत: स्वत एव वा ।
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥
आत्मनः प्रीयते न आत्मा परतः स्वतः एव वा लक्षये अलब्ध-कामम् त्वाम् चिन्तया शबलम् मुखम्
एवं विकल्पितो राजन् विदुषा मुनिनापि स: ।
प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥
एवम् विकल्पितः राजन् विदुषा मुनिना अपि सः प्रश्रय-अवनतः अभ्याह प्रजा-कामः ततः मुनिम्
चित्रकेतुरुवाच
भगवन् किं न विदितं तपोज्ञानसमाधिभि: ।
योगिनां ध्वस्तपापानां बहिरन्त: शरीरिषु ॥ २३ ॥
चित्रकेतुः उवाच भगवन् किम् न विदितम् तपः ज्ञान समाधिभिः योगिनाम् ध्वस्त-पापानाम् बहिः अन्तः शरीरिषु
तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् ।
भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥
तथापि पृच्छतः ब्रूयाम् ब्रह्मन् आत्मनि चिन्तितम् भवतः विदुषः च अपि चोदितः त्वत् अनुज्ञया
लोकपालैरपि प्रार्थ्या: साम्राज्यैश्वर्यसम्पद: ।
न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे ॥ २५ ॥
लोक-पालैः अपि प्रार्थ्याः साम्राज्य ऐश्वर्य सम्पदः न नन्दयन्ति अप्रजम् माम् क्षुत् तृट् कामम् इव अपरे
तत: पाहि महाभाग पूर्वै: सह गतं तम: ।
यथा तरेम दुष्पारं प्रजया तद्विधेहि न: ॥ २६ ॥
ततः पाहि महा-भाग पूर्वैः सह गतम् तमः यथा तरेम दुष्पारम् प्रजया तत् विधेहि नः
श्रीशुक उवाच
इत्यर्थित: स भगवान् कृपालुर्ब्रह्मण: सुत: ।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभु: ॥ २७ ॥
श्री-शुकः उवाच इति अर्थितः सः भगवान् कृपालुः ब्रह्मणः सुतः श्रपयित्वा चरुम् त्वाष्ट्रम् त्वष्टारम् अयजत् विभुः
ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च
भारत ।
नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विज: ॥ २८ ॥
ज्येष्ठा श्रेष्ठा च या राज्ञः महिषीणाम् च भारत नाम्ना कृतद्युतिः तस्यै यज्ञ उच्छिष्टम् अदात् द्विजः
अथाह नृपतिं राजन् भवितैकस्तवात्मज: ।
हर्षशोकप्रदस्तुभ्यमिति
ब्रह्मसुतो ययौ ॥ २९ ॥
अथ आह नृपतिम् राजन् भविता एकः तव आत्मजः हर्ष-शोक प्रदः तुभ्यम् इति ब्रह्म-सुतः ययौ
सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।
गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३० ॥
सा अपि तत्-प्राशनात् एव चित्रकेतोः अधारयत् गर्भम् कृतद्युतिः देवी कृत्तिका अग्नेः इव आत्म-जम्
तस्या अनुदिनं गर्भ: शुक्लपक्ष इवोडुप: ।
ववृधे शूरसेनेशतेजसा शनकैर्नृप ॥ ३१ ॥
तस्याः अनुदिनम् गर्भः शुक्ल-पक्षे इव उडुपः ववृधे शूरसेन-ईश तेजसा शनकैः नृप
अथ काल उपावृत्ते कुमार: समजायत ।
जनयन् शूरसेनानां शृण्वतां परमां मुदम् ॥ ३२ ॥
अथ काले उपावृत्ते कुमारः समजायत जनयन् शूरसेनानाम् शृण्वताम् परमाम् मुदम्
हृष्टो राजा कुमारस्य स्नात: शुचिरलङ्कृत: ।
वाचयित्वाशिषो विप्रै: कारयामास जातकम् ॥ ३३ ॥
हृष्टः राजा कुमारस्य स्नातः शुचिः अलङ्कृतः वाचयित्वा आशिषः विप्रैः कारयाम् आस जातकम्
तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।
ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट् ॥ ३४ ॥
तेभ्यः हिरण्यम् रजतम् वासांसि आभरणानि च ग्रामान् हयान् गजान् प्रादात् धेनूनाम् अर्बुदानि षट्
ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् ।
धन्यं यशस्यमायुष्यं कुमारस्य महामना: ॥ ३५ ॥
ववर्ष कामान् अन्येषाम् पर्जन्यः इव देहिनाम् धन्यम् यशस्यम् आयुष्यम् कुमारस्य महा-मनाः
कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितु: ।
यथा नि:स्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६ ॥
कृच्छ्र लब्धे अथ राज-ऋषेः तनये अनुदिनम् पितुः यथा निःस्वस्य कृच्छ्र-आप्ते धने स्नेहः अन्ववर्धत
मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भव: ।
कृतद्युते: सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥
मातुः तु अतितराम् पुत्रे स्नेहः मोह समुद्भवः कृतद्युतेः सपत्नीनाम् प्रजा-काम ज्वरः अभवत्
चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति ।
न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥
चित्रकेतोः अतिप्रीतिः यथा दारे प्रजा-वति न तथा अन्येषु सञ्जज्ञे बालम् लालयतः अन्वहम्
ता: पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया ।
आनपत्येन दु:खेन राज्ञश्चानादरेण च ॥ ३९ ॥
ताः पर्यतप्यन् आत्मानम् गर्हयन्त्यः अभ्यसूयया आनपत्येन दुःखेन राज्ञः च अनादरेण च
धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।
सुप्रजाभि: सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ ४० ॥
धिक् अप्रजाम् स्त्रियम् पापाम् पत्युः च अ-गृह-सम्मताम् सु-प्रजाभिः सपत्नीभिः दासीम् इव तिरस्कृताम्
दासीनां को नु सन्ताप: स्वामिन: परिचर्यया ।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगा: ॥ ४१ ॥
दासीनाम् कः नु सन्तापः स्वामिनः परिचर्यया अभीक्ष्णम् लब्ध-मानानाम् दास्याः दासी इव दुर्भगाः
एवं सन्दह्यमानानां सपत्न्या: पुत्रसम्पदा ।
राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥
एवम् सन्दह्यमानानाम् सपत्न्याः पुत्र-सम्पदा राज्ञः असम्मत-वृत्तीनाम् विद्वेषः बलवान् अभूत्
विद्वेषनष्टमतय: स्त्रियो दारुणचेतस: ।
गरं ददु: कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३ ॥
विद्वेष-नष्ट-मतयः स्त्रियः दारुण-चेतसः गरम् ददुः कुमाराय दुर्मर्षाः नृपतिम् प्रति
कृतद्युतिरजानन्ती सपत्नीनामघं महत् ।
सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ ४४ ॥
कृतद्युतिः अजानन्ती सपत्नीनाम् अघम् महत् सुप्तः एव इति सञ्चिन्त्य निरीक्ष्य व्यचरत् गृहे
शयानं सुचिरं बालमुपधार्य मनीषिणी ।
पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥
शयानम् सु-चिरम् बालम् उपधार्य मनीषिणी पुत्रम् आनय मे भद्रे इति धात्रीम् अचोदयत्
सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् ।
प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि ॥ ४६ ॥
सा शयानम् उपव्रज्य दृष्ट्वा च उत्तार-लोचनम् प्राण-इन्द्रिय-आत्मभिः त्यक्तम् हता अस्मि इति अपतत् भुवि
तस्यास्तदाकर्ण्य भृशातुरं स्वरं
घ्नन्त्या: कराभ्यामुर उच्चकैरपि ।
प्रविश्य राज्ञी त्वरयात्मजान्तिकं
ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥
तस्याः तदा आकर्ण्य भृश-आतुरम् स्वरम् घ्नन्त्याः कराभ्याम् उरः उच्चकैः अपि प्रविश्य राज्ञी त्वरया आत्मज-अन्तिकम् ददर्श बालम् सहसा मृतम् सुतम्
पपात भूमौ परिवृद्धया शुचा
मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥
पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्ट शिरोरुह अम्बरा
ततो नृपान्त: पुरवर्तिनो जना
नराश्च नार्यश्च निशम्य रोदनम् ।
आगत्य तुल्यव्यसना: सुदु:खिता-
स्ताश्च व्यलीकं रुरुदु: कृतागस: ॥ ४९ ॥
ततः नृप अन्तःपुर-वर्तिनः जनाः नराः च नार्यः च निशम्य रोदनम् आगत्य तुल्य-व्यसनाः सु-दुःखिताः ताः च व्यलीकम् रुरुदुः कृत-आगसः
श्रुत्वा मृतं पुत्रमलक्षितान्तकं
विनष्टदृष्टि: प्रपतन् स्खलन् पथि ।
स्नेहानुबन्धैधितया शुचा भृशं
विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृत: ॥ ५० ॥
पपात बालस्य स पादमूले
मृतस्य विस्रस्तशिरोरुहाम्बर: ।
दीर्घं श्वसन् बाष्पकलोपरोधतो
निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१ ॥
श्रुत्वा मृतम् पुत्रम् अलक्षित-अन्तकम् विनष्ट-दृष्टिः प्रपतन् स्खलन् पथि स्नेह-अनुबन्ध एधितया शुचा भृशम् विमूर्च्छितः अनुप्रकृतिः द्विजैः वृतः पपात बालस्य सः पाद-मूले मृतस्य विस्रस्त शिरोरुह अम्बरः दीर्घम् श्वसन् बाष्प-कला-उपरोधतः निरुद्ध-कण्ठः न शशाक भाषितुम्
पतिं निरीक्ष्योरुशुचार्पितं तदा
मृतं च बालं सुतमेकसन्ततिम् ।
जनस्य राज्ञी प्रकृतेश्च हृद्रुजं
सती दधाना विललाप चित्रधा ॥ ५२ ॥
पतिम् निरीक्ष्य उरु शुच अर्पितम् तदा मृतम् च बालम् सुतम् एक-सन्ततिम् जनस्य राज्ञी प्रकृतेः च हृत्-रुजम् सती दधाना विललाप चित्रधा
स्तनद्वयं कुङ्कुमपङ्कमण्डितं
निषिञ्चती साञ्जनबाष्पबिन्दुभि: ।
विकीर्य केशान् विगलत्स्रज: सुतं
शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३ ॥
स्तन-द्वयम् कुङ्कुम पङ्क मण्डितम् निषिञ्चती स-अञ्जन बाष्प बिन्दुभिः विकीर्य केशान् विगलत् स्रजः सुतम् शुशोच चित्रम् कुररी इव सु-स्वरम्
अहो विधातस्त्वमतीव बालिशो
यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
परे नु जीवत्यपरस्य या मृति-
र्विपर्ययश्चेत्त्वमसि ध्रुव: पर: ॥ ५४ ॥
अहो विधातः त्वम् अतीव बालिशः यः तु आत्म-सृष्टि अप्रतिरूपम् ईहसे परे नु जीवति अपरस्य या मृतिः विपर्ययः चेत् त्वम् असि ध्रुवः परः
न हि क्रमश्चेदिह मृत्युजन्मनो:
शरीरिणामस्तु तदात्मकर्मभि: ।
य: स्नेहपाशो निजसर्गवृद्धये
स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५ ॥
न हि क्रमः चेत् इह मृत्यु जन्मनोः शरीरिणाम् अस्तु तत् आत्म-कर्मभिः यः स्नेह-पाशः निज-सर्ग वृद्धये स्वयम् कृतः ते तम् इमम् विवृश्चसि
त्वं तात नार्हसि च मां कृपणामनाथां
त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।
अञ्जस्तरेम भवताप्रजदुस्तरं यद्
ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६ ॥
त्वम् तात न अर्हसि च माम् कृपणाम् अनाथाम् त्यक्तुम् विचक्ष्व पितरम् तव शोक-तप्तम् अञ्जः तरेम भवता अप्रज-दुस्तरम् यत् ध्वान्तम् न याहि अकरुणेन यमेन दूरम्
उत्तिष्ठ तात त इमे शिशवो वयस्या-
स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् ।
सुप्तश्चिरं ह्यशनया च भवान् परीतो
भुङ्क्ष्व स्तनं पिब शुचो हर न: स्वकानाम् ॥ ५७ ॥
उत्तिष्ठ तात ते इमे शिशवः वयस्याः त्वाम् आह्वयन्ति नृप-नन्दन संविहर्तुम् सुप्तः चिरम् हि अशनया च भवान् परीतः भुङ्क्ष्व स्तनम् पिब शुचः हर नः स्वकानाम्
नाहं तनूज ददृशे हतमङ्गला ते
मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।
किं वा गतोऽस्यपुनरन्वयमन्यलोकं
नीतोऽघृणेन न शृणोमि कला गिरस्ते ॥ ५८ ॥
न अहम् तनू-ज ददृशे हत-मङ्गला ते मुग्ध-स्मितम् मुदित-वीक्षणम् आनन-अब्जम् किं वा गतः असि अ-पुनः-अन्वयम् अन्य-लोकम् नीतः अघृणेन न शृणोमि कलाः गिरः ते
श्रीशुक उवाच
विलपन्त्या मृतं पुत्रमिति चित्रविलापनै: ।
चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९ ॥
श्री-शुकः उवाच विलपन्त्या मृतम् पुत्रम् इति चित्र-विलापनैः चित्रकेतुः भृशम् तप्तः मुक्त-कण्ठः रुरोद ह
तयोर्विलपतो: सर्वे दम्पत्योस्तदनुव्रता: ।
रुरुदु: स्म नरा नार्य: सर्वमासीदचेतनम् ॥ ६० ॥
तयोः विलपतोः सर्वे दम्-पत्योः तत्-अनुव्रताः रुरुदुः स्म नराः नार्यः सर्वम् आसीत् अचेतनम्
एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।
ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारद: ॥ ६१ ॥
एवम् कश्मलम् आपन्नम् नष्ट संज्ञम् अनायकम् ज्ञात्वा अङ्गिराः नाम ऋषिः आजगाम स-नारदः
६.१५
श्रीशुक उवाच
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।
शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभि: ॥ १ ॥
श्री-शुकः उवाच ऊचतुः मृतक उपान्ते पतितम् मृतक-उपमम् शोक-अभिभूतम् राजानम् बोधयन्तौ सत्-उक्तिभिः
कोऽयं स्यात्तव राजेन्द्र भवान् यमनुशोचति ।
त्वं चास्य कतम: सृष्टौ पुरेदानीमत: परम् ॥ २ ॥
कः अयम् स्यात् तव राज-इन्द्र भवान् यम् अनुशोचति त्वम् च अस्य कतमः सृष्टौ पुरा इदानीम् अतः परम्
यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुका: ।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिन: ॥ ३ ॥
यथा प्रयान्ति संयान्ति स्रोतः-वेगेन बालुकाः संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः
यथा धानासु वै धाना भवन्ति न भवन्ति च ।
एवं भूतानि भूतेषु चोदितानीशमायया ॥ ४ ॥
यथा धानासु वै धानाः भवन्ति न भवन्ति च एवम् भूतानि भूतेषु चोदितानि ईश-मायया
वयं च त्वं च ये चेमे तुल्यकालाश्चराचरा: ।
जन्ममृत्योर्यथा पश्चात् प्राङ्नैवमधुनापि भो: ॥ ५ ॥
वयम् च त्वम् च ये च इमे तुल्य-कालाः चर-अचराः जन्म मृत्योः यथा पश्चात् प्राक् न एवम् अधुना अपि भोः
भूतैर्भूतानि भूतेश: सृजत्यवति हन्ति च ।
आत्मसृष्टैरस्वतन्त्रैरनपेक्षोऽपि बालवत् ॥ ६ ॥
भूतैः भूतानि भूत-ईशः सृजति अवति हन्ति च आत्म-सृष्टैः अस्वतन्त्रैः अनपेक्षः अपि बाल-वत्
देहेन देहिनो राजन् देहाद्देहोऽभिजायते ।
बीजादेव यथा बीजं देह्यर्थ इव शाश्वत: ॥ ७ ॥
देहेन देहिनः राजन् देहात् देहः अभिजायते बीजात् एव यथा बीजम् देही अर्थः इव शाश्वतः
देहदेहिविभागोऽयमविवेककृत: पुरा ।
जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पित: ॥ ८ ॥
देह देहि विभागः अयम् अविवेक कृतः पुरा जाति व्यक्ति विभागः अयम् यथा वस्तुनि कल्पितः
श्रीशुक उवाच
एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभि: ।
विमृज्य पाणिना वक्त्रमाधिम्लानमभाषत ॥ ९ ॥
श्री-शुकः उवाच एवम् आश्वासितः राजा चित्रकेतुः द्विज-उक्तिभिः विमृज्य पाणिना वक्त्रम् आधि-म्लानम् अभाषत
श्रीराजोवाच
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् ।
अवधूतेन वेषेण गूढाविह समागतौ ॥ १० ॥
श्री-राजा उवाच कौ युवाम् ज्ञान-सम्पन्नौ महिष्ठौ च महीयसाम् अवधूतेन वेषेण गूढौ इह समागतौ
चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रिया: ।
मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिन: ॥ ११ ॥
चरन्ति हि अवनौ कामम् ब्राह्मणाः भगवत्-प्रियाः मा-दृशाम् ग्राम्य-बुद्धीनाम् बोधाय उन्मत्त-लिङ्गिनः
कुमारो नारद ऋभुरङ्गिरा देवलोऽसित: ।
अपान्तरतमा व्यासो मार्कण्डेयोऽथ गौतम: ॥ १२ ॥
वसिष्ठो भगवान् राम: कपिलो बादरायणि: ।
दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणि: ॥ १३ ॥
रोमशश्च्यवनो दत्त आसुरि: सपतञ्जलि: ।
ऋषिर्वेदशिरा धौम्यो मुनि: पञ्चशिखस्तथा ॥ १४ ॥
हिरण्यनाभ: कौशल्य: श्रुतदेव ऋतध्वज: ।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतव: ॥ १५ ॥
कुमारः नारदः ऋभुः अङ्गिराः देवलः असितः अपान्तरतमाः व्यासः मार्कण्डेयः अथ गौतमः वसिष्ठः भगवान् रामः कपिलः बादरायणिः दुर्वासाः याज्ञवल्क्यः च जातुकर्णः तथा अरुणिः रोमशः च्यवनः दत्तः आसुरिः स-पतञ्जलिः ऋषिः वेद-शिराः धौम्यः मुनिः पञ्चशिखः तथा हिरण्यनाभः कौशल्यः श्रुतदेवः ऋतध्वजः एते परे च सिद्ध-ईशाः चरन्ति ज्ञान-हेतवः
तस्माद्युवां ग्राम्यपशोर्मम मूढधिय: प्रभू ।
अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥
तस्मात् युवाम् ग्राम्य-पशोः मम मूढ-धियः प्रभू अन्धे तमसि मग्नस्य ज्ञान-दीपः उदीर्यताम्
श्रीअङ्गिरा उवाच
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।
एष ब्रह्मसुत: साक्षान्नारदो भगवानृषि: ॥ १७ ॥
श्री-अङ्गिराः उवाच अहम् ते पुत्र-कामस्य पुत्र-दः अस्मि अङ्गिराः नृप एषः ब्रह्म-सुतः साक्षात् नारदः भगवान् ऋषिः
इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।
अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥
अनुग्रहाय भवत: प्राप्तावावामिह प्रभो ।
ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि ॥ १९ ॥
इत्थम् त्वाम् पुत्र-शोकेन मग्नम् तमसि दुस्तरे अ-तत्-अर्हम् अनुस्मृत्य महा-पुरुष गोचरम् अनुग्रहाय भवतः प्राप्तौ आवाम् इह प्रभो ब्रह्मण्यः भगवत्-भक्तः न अवासादितुम् अर्हसि
तदैव ते परं ज्ञानं ददामि गृहमागत: ।
ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्यहम् ॥ २० ॥
तदा एव ते परम् ज्ञानम् ददामि गृहम् आगतः ज्ञात्वा अन्य-अभिनिवेशम् ते पुत्रम् एव ददामि अहम्
अधुना पुत्रिणां तापो भवतैवानुभूयते ।
एवं दारा गृहा रायो विविधैश्वर्यसम्पद: ॥ २१ ॥
शब्दादयश्च विषयाश्चला राज्यविभूतय: ।
मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जना: ॥ २२ ॥
सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदा: ।
गन्धर्वनगरप्रख्या: स्वप्नमायामनोरथा: ॥ २३ ॥
अधुना पुत्रिणाम् तापः भवता एव अनुभूयते एवम् दाराः गृहाः रायः विविध ऐश्वर्य सम्पदः शब्द-आदयः च विषयाः चलाः राज्य विभूतयः मही राज्यम् बलम् कोषः भृत्य अमात्य सुहृत्-जनाः सर्वे अपि शूरसेन इमे शोक मोह भय अर्ति दाः गन्धर्व-नगर-प्रख्याः स्वप्न माया मनोरथाः
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवा: ।
कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन् ॥ २४ ॥
दृश्यमानाः विना अर्थेन न दृश्यन्ते मनोभवाः कर्मभिः ध्यायतः नाना कर्माणि मनसः अभवन्
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मक: ।
देहिनो विविधक्लेशसन्तापकृदुदाहृत: ॥ २५ ॥
अयम् हि देहिनः देहः द्रव्य-ज्ञान-क्रिया-आत्मकः देहिनः विविध क्लेश सन्ताप कृत् उदाहृतः
तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मन: ।
द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥
तस्मात् स्वस्थेन मनसा विमृश्य गतिम् आत्मनः द्वैते ध्रुव अर्थ विश्रम्भम् त्यज उपशमम् आविश
श्रीनारद उवाच
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।
यां धारयन् सप्तरात्राद् द्रष्टा सङ्कर्षणं विभुम् ॥ २७ ॥
श्री-नारदः उवाच एताम् मन्त्र-उपनिषदम् प्रतीच्छ प्रयतः मम याम् धारयन् सप्त-रात्रात् द्रष्टा सङ्कर्षणम् विभुम्
यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे
शर्वादयो भ्रममिमं द्वितयं विसृज्य ।
सद्यस्तदीयमतुलानधिकं महित्वं
प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥
यत्-पाद-मूलम् उपसृत्य नर-इन्द्र पूर्वे शर्व-आदयः भ्रमम् इमम् द्वितयम् विसृज्य सद्यः तदीयम् अतुल अनधिकम् महित्वम् प्रापुः भवान् अपि परम् न चिरात् उपैति
६.१६
श्रीबादरायणिरुवाच
अथ देवऋषी राजन् सम्परेतं नृपात्मजम् ।
दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ १ ॥
श्री-बादरायणिः उवाच अथ देव-ऋषिः राजन् सम्परेतम् नृप-आत्मजम् दर्शयित्वा इति ह उवाच ज्ञातीनाम् अनुशोचताम्
श्रीनारद उवाच
जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।
सुहृदो बान्धवास्तप्ता: शुचा त्वत्कृतया भृशम् ॥ २ ॥
श्री-नारदः उवाच जीव-आत्मन् पश्य भद्रम् ते मातरम् पितरम् च ते सुहृदः बान्धवाः तप्ताः शुचा त्वत्-कृतया भृशम्
कलेवरं स्वमाविश्य शेषमायु: सुहृद्वृत: ।
भुङ्क्ष्व भोगान् पितृप्रत्तानधितिष्ठ नृपासनम् ॥ ३ ॥
कलेवरम् स्वम् आविश्य शेषम् आयुः सुहृत्-वृतः भुङ्क्ष्व भोगान् पितृ प्रत्तान् अधितिष्ठ नृप-आसनम्
जीव उवाच
कस्मिञ्जन्मन्यमी मह्यं पितरो मातरोऽभवन् ।
कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥ ४ ॥
जीवः उवाच कस्मिन् जन्मनि अमी मह्यम् पितरः मातरः अभवन् कर्मभिः भ्राम्यमाणस्य देव-तिर्यक् नृ योनिषु
बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विष: ।
सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथ: ॥ ५ ॥
बन्धु ज्ञाति अरि मध्यस्थ मित्र उदासीन विद्विषः सर्वे एव हि सर्वेषाम् भवन्ति क्रमशः मिथः
यथा वस्तूनि पण्यानि हेमादीनि ततस्तत: ।
पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥
यथा वस्तूनि पण्यानि हेम-आदीनि ततः ततः पर्यटन्ति नरेषु एवम् जीवः योनिषु कर्तृषु
नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु ।
यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥
नित्यस्य अर्थस्य सम्बन्धः हि अनित्यः दृश्यते नृषु यावत् यस्य हि सम्बन्धः ममत्वम् तावत् एव हि
एवं योनिगतो जीव: स नित्यो निरहङ्कृत: ।
यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत् ॥ ८ ॥
एवम् योनि-गतः जीवः सः नित्यः निरहङ्कृतः यावत् यत्र उपलभ्येत तावत् स्वत्वम् हि तस्य तत्
एष नित्योऽव्यय: सूक्ष्म एष सर्वाश्रय: स्वदृक् ।
आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभु: ॥ ९ ॥
एषः नित्यः अव्ययः सूक्ष्मः एषः सर्व-आश्रयः स्व-दृक् आत्म-माया-गुणैः विश्वम् आत्मानम् सृजते प्रभुः
न ह्यस्यास्ति प्रिय: कश्चिन्नाप्रिय: स्व: परोऽपि वा ।
एक: सर्वधियां द्रष्टा कर्तृणां गुणदोषयो: ॥ १० ॥
न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः स्वः परः अपि वा एकः सर्व-धियाम् द्रष्टा कर्तॄणाम् गुण-दोषयोः
नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।
उदासीनवदासीन: परावरदृगीश्वर: ॥ ११ ॥
न आदत्ते आत्मा हि गुणम् न दोषम् न क्रिया-फलम् उदासीन-वत् आसीनः पर-अवर-दृक् ईश्वरः
श्रीबादरायणिरुवाच
इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।
विस्मिता मुमुचु: शोकं छित्त्वात्मस्नेहशृङ्खलाम् ॥ १२ ॥
श्री-बादरायणिः उवाच इति उदीर्य गतः जीवः ज्ञातयः तस्य ते तदा विस्मिताः मुमुचुः शोकम् छित्त्वा आत्म-स्नेह शृङ्खलाम्
निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिता: क्रिया: ।
तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥
निर्हृत्य ज्ञातयः ज्ञातेः देहम् कृत्वा उचिताः क्रियाः तत्यजुः दुस्त्यजम् स्नेहम् शोक मोह भय अर्ति दम्
बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभा: ।
बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम् ।
यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥
बाल-घ्न्यः व्रीडिताः तत्र बाल-हत्या हत प्रभाः बाल-हत्या-व्रतम् चेरुः ब्राह्मणैः यत् निरूपितम् यमुनायाम् महा-राज स्मरन्त्यः द्विज-भाषितम्
स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभि: ।
गृहान्धकूपान्निष्क्रान्त: सर:पङ्कादिव द्विप: ॥ १५ ॥
सः इत्थम् प्रतिबुद्ध-आत्मा चित्रकेतुः द्विज-उक्तिभिः गृह-अन्ध-कूपात् निष्क्रान्तः सरः पङ्कात् इव द्विपः
कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रिय: ।
मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥
कालिन्द्याम् विधि-वत् स्नात्वा कृत पुण्य जल-क्रियः मौनेन संयत-प्राणः ब्रह्म-पुत्रौ अवन्दत
अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।
भगवान्नारद: प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥
अथ तस्मै प्रपन्नाय भक्ताय प्रयत-आत्मने भगवान् नारदः प्रीतः विद्याम् एताम् उवाच ह
ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नम: सङ्कर्षणाय च ॥ १८ ॥
नमो विज्ञानमात्राय परमानन्दमूर्तये ।
आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९ ॥
ओम् नमः तुभ्यम् भगवते वासुदेवाय धीमहि प्रद्युम्नाय अनिरुद्धाय नमः सङ्कर्षणाय च नमः विज्ञान-मात्राय परम-आनन्द-मूर्तये आत्म-आरामाय शान्ताय निवृत्त-द्वैत-दृष्टये
आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नम: ।
हृषीकेशाय महते नमस्तेऽनन्तमूर्तये ॥ २० ॥
आत्म-आनन्द अनुभूत्या एव न्यस्त शक्ति-ऊर्मये नमः हृषीकेशाय महते नमः ते अनन्त मूर्तये
वचस्युपरतेऽप्राप्य य एको मनसा सह ।
अनामरूपश्चिन्मात्र: सोऽव्यान्न: सदसत्पर: ॥ २१ ॥
वचसि उपरते अप्राप्य यः एकः मनसा सह अनाम रूपः चित्-मात्रः सः अव्यात् नः सत्-असत्-परः
यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।
मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नम: ॥ २२ ॥
यस्मिन् इदम् यतः च इदम् तिष्ठति अप्येति जायते मृत्-मयेषु इव मृत्-जातिः तस्मै ते ब्रह्मणे नमः
यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासव: ।
अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् ॥ २३ ॥
यत् न स्पृशन्ति न विदुः मनः बुद्धि इन्द्रिय असवः अन्तः बहिः च विततम् व्योम-वत् तत् नतः अस्मि अहम्
देहेन्द्रियप्राणमनोधियोऽमी
यदंशविद्धा: प्रचरन्ति कर्मसु ।
नैवान्यदा लौहमिवाप्रतप्तं
स्थानेषु तद् द्रष्ट्रपदेशमेति ॥ २४ ॥
देह इन्द्रिय प्राण मनः धियः अमी यत्-अंश-विद्धाः प्रचरन्ति कर्मसु न एव अन्यदा लौहम् इव अप्रतप्तम् स्थानेषु तत् द्रष्टृ-अपदेशम् एति
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकर
करकमलकुड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन्नमस्ते ॥ २५ ॥
ओम् नमः भगवते महा-पुरुषाय महा-अनुभावाय महा-विभूति-पतये सकल-सात्वत-परिवृढ निकर कर-कमल कुड्मल उपलालित चरण-अरविन्द-युगल परम परमे-ष्ठिन् नमः ते
श्रीशुक उवाच
भक्तायैतां प्रपन्नाय विद्यामादिश्य नारद: ।
ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥
श्री-शुकः उवाच भक्ताय एताम् प्रपन्नाय विद्याम् आदिश्य नारदः ययौ अङ्गिरसा साकम् धाम स्वायम्भुवम् प्रभो
चित्रकेतुस्तु तां विद्यां यथा नारदभाषिताम् ।
धारयामास सप्ताहमब्भक्ष: सुसमाहित: ॥ २७ ॥
चित्रकेतुः तु ताम् विद्याम् यथा नारद-भाषिताम् धारयाम् आस सप्त-अहम् अप्-भक्षः सु-समाहितः
तत: स सप्तरात्रान्ते विद्यया धार्यमाणया ।
विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥
ततः सः सप्त-रात्र-अन्ते विद्यया धार्यमाणया विद्याधर-अधिपत्यम् च लेभे अप्रतिहतम् नृप
तत: कतिपयाहोभिर्विद्ययेद्धमनोगति: ।
जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥
ततः कतिपय-अहोभिः विद्यया इद्ध-मनः-गतिः जगाम देव-देवस्य शेषस्य चरण-अन्तिकम्
मृणालगौरं शितिवाससं स्फुरत्-
किरीटकेयूरकटित्रकङ्कणम् ।
प्रसन्नवक्त्रारुणलोचनं वृतं
ददर्श सिद्धेश्वरमण्डलै: प्रभुम् ॥ ३० ॥
मृणाल-गौरम् शिति-वाससम् स्फुरत् किरीट केयूर कटित्र कङ्कणम् प्रसन्न-वक्त्र अरुण-लोचनम् वृतम् ददर्श सिद्ध-ईश्वर-मण्डलैः प्रभुम्
तद्दर्शनध्वस्तसमस्तकिल्बिष:
स्वस्थामलान्त:करणोऽभ्ययान्मुनि: ।
प्रवृद्धभक्त्या प्रणयाश्रुलोचन:
प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥
तत्-दर्शन ध्वस्त समस्त-किल्बिषः स्वस्थ अमल अन्तःकरणः अभ्ययात् मुनिः प्रवृद्ध-भक्त्या प्रणय-अश्रु-लोचनः प्रहृष्ट-रोम अनमत् आदि-पुरुषम्
स उत्तमश्लोकपदाब्जविष्टरं
प्रेमाश्रुलेशैरुपमेहयन्मुहु: ।
प्रेमोपरुद्धाखिलवर्णनिर्गमो
नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥
सः उत्तमश्लोक पद-अब्ज विष्टरम् प्रेम-अश्रु लेशैः उपमेहयन् मुहुः प्रेम-उपरुद्ध अखिल वर्ण निर्गमः न एव अशकत् तम् प्रसमीडितुम् चिरम्
तत: समाधाय मनो मनीषया
बभाष एतत्प्रतिलब्धवागसौ ।
नियम्य सर्वेन्द्रियबाह्यवर्तनं
जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥
ततः समाधाय मनः मनीषया बभाष एतत् प्रतिलब्ध वाक् असौ नियम्य सर्व-इन्द्रिय बाह्य वर्तनम् जगत्-गुरुम् सात्वत शास्त्र विग्रहम्
चित्रकेतुरुवाच
अजित जित: सममतिभि:
साधुभिर्भवान् जितात्मभिर्भवता ।
विजितास्तेऽपि च भजता-
मकामात्मनां य आत्मदोऽतिकरुण: ॥ ३४ ॥
चित्रकेतुः उवाच अजित जितः सम-मतिभिः साधुभिः भवान् जित-आत्मभिः भवता विजिताः ते अपि च भजताम् अकाम-आत्मनाम् यः आत्म-दः अति-करुणः
तव विभव: खलु भगवन्
जगदुदयस्थितिलयादीनि ।
विश्वसृजस्तेꣷशांशा
स्तत्र मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥
तव विभवः खलु भगवन् जगत् उदय स्थिति लय-आदीनि विश्व-सृजः ते अंश-अंशाः तत्र मृषा स्पर्धन्ति पृथक् अभिमत्या
परमाणुपरममहतो-
स्त्वमाद्यन्तान्तरवर्ती त्रयविधुर: ।
आदावन्तेऽपि च सत्त्वानां
यद् ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥
परम-अणु परम-महतोः त्वम् आदि-अन्त अन्तर वर्ती त्रय-विधुरः आदौ अन्ते अपि च सत्त्वानाम् यत् ध्रुवम् तत् एव अन्तराले अपि
क्षित्यादिभिरेष किलावृत:
सप्तभिर्दशगुणोत्तरैरण्डकोश: ।
यत्र पतत्यणुकल्प:
सहाण्डकोटिकोटिभिस्तदनन्त: ॥ ३७ ॥
क्षिति-आदिभिः एषः किल आवृतः सप्तभिः दश-गुण-उत्तरैः अण्ड-कोशः यत्र पतति अणु-कल्पः सह अण्ड-कोटि-कोटिभिः तत् अनन्तः
विषयतृषो नरपशवो
य उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश
तदनु विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥
विषय-तृषः नर-पशवः ये उपासते विभूतीः न परम् त्वाम् तेषाम् आशिषः ईश तत् अनु विनश्यन्ति यथा राज-कुलम्
कामधियस्त्वयि रचिता
न परम रोहन्ति यथा करम्भबीजानि ।
ज्ञानात्मन्यगुणमये
गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥
काम-धियः त्वयि रचिताः न परम रोहन्ति यथा करम्भ-बीजानि ज्ञान-आत्मनि अगुण-मये गुण-गणतः अस्य द्वन्द्व-जालानि
जितमजित तदा भवता
यदाह भागवतं धर्ममनवद्यम् ।
निष्किञ्चना ये मुनय
आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥
जितम् अजित तदा भवता यदा आह भागवतम् धर्मम् अनवद्यम् निष्किञ्चनाः ये मुनयः आत्म-आरामाः यम् उपासते अपवर्गाय
विषममतिर्न यत्र नृणां
त्वमहमिति मम तवेति च यदन्यत्र ।
विषमधिया रचितो य:
स ह्यविशुद्ध: क्षयिष्णुरधर्मबहुल: ॥ ४१ ॥
विषम योउर् बेलिएf, म्य् बेलिएf); मतिः न यत्र नृणाम् त्वम् अहम् इति मम तव इति च यत् अन्यत्र विषम-धिया रचितः यः सः हि अविशुद्धः क्षयिष्णुः अधर्म-बहुलः
क: क्षेमो निजपरयो:
कियान्वार्थ: स्वपरद्रुहा धर्मेण ।
स्वद्रोहात्तव कोप:
परसम्पीडया च तथाधर्म: ॥ ४२ ॥
कः क्षेमः निज परयोः कियान् वा अर्थः स्व-पर-द्रुहा धर्मेण स्व-द्रोहात् तव कोपः पर-सम्पीडया च तथा अधर्मः
न व्यभिचरति तवेक्षा
यया ह्यभिहितो भागवतो धर्म: ।
स्थिरचरसत्त्वकदम्बे-
ष्वपृथग्धियो यमुपासते त्वार्या: ॥ ४३ ॥
न व्यभिचरति तव ईक्षा यया हि अभिहितः भागवतः धर्मः स्थिर चर सत्त्व-कदम्बेषु अपृथक्-धियः यम् उपासते तु आर्याः
न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षय: ।
यन्नाम सकृच्छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् ॥ ४४ ॥
न हि भगवन् अघटितम् इदम् त्वत् दर्शनात् नृणाम् अखिल पाप क्षयः यत्-नाम सकृत् श्रवणात् पुक्कशः अपि विमुच्यते संसारात्
अथ भगवन् वयमधुना
त्वदवलोकपरिमृष्टाशयमला: ।
सुरऋषिणा यत्कथितं
तावकेन कथमन्यथा भवति ॥ ४५ ॥
अथ भगवन् वयम् अधुना त्वत्-अवलोक परिमृष्ट आशय-मलाः सुर-ऋषिणा यत् कथितम् तावकेन कथम् अन्यथा भवति
विदितमनन्त समस्तं
तव जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरो:
कियदिव सवितुरिव खद्योतै: ॥ ४६ ॥
विदितम् अनन्त समस्तम् तव जगत्-आत्मनः जनैः इह आचरितम् विज्ञाप्यम् परम-गुरोः कियत् इव सवितुः इव खद्योतैः
नमस्तुभ्यं भगवते
सकलजगत्स्थितिलयोदयेशाय ।
दुरवसितात्मगतये
कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥
नमः तुभ्यम् भगवते सकल जगत् स्थिति लय उदय ईशाय दुरवसित आत्म-गतये कु-योगिनाम् भिदा परम-हंसाय
यं वै श्वसन्तमनु विश्वसृज: श्वसन्ति
यं चेकितानमनु चित्तय उच्चकन्ति ।
भूमण्डलं सर्षपायति यस्य मूर्ध्नि
तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥
यम् वै श्वसन्तम् अनु विश्व-सृजः श्वसन्ति यम् चेकितानम् अनु चित्तयः उच्चकन्ति भू-मण्डलम् सर्षपायति यस्य मूर्ध्नि तस्मै नमः भगवते अस्तु सहस्र-मूर्ध्ने
श्रीशुक उवाच
संस्तुतो भगवानेवमनन्तस्तमभाषत ।
विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥ ४९ ॥
श्री-शुकः उवाच संस्तुतः भगवान् एवम् अनन्तः तम् अभाषत विद्याधर-पतिम् प्रीतः चित्रकेतुम् कुरु-उद्वह
श्रीभगवानुवाच
यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।
संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥
श्री-भगवान् उवाच यत् नारद-अङ्गिरोभ्याम् ते व्याहृतम् मे अनुशासनम् संसिद्धः असि तया राजन् विद्यया दर्शनात् च मे
अहं वै सर्वभूतानि भूतात्मा भूतभावन: ।
शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥
अहम् वै सर्व-भूतानि भूत-आत्मा भूत-भावनः शब्द-ब्रह्म परम् ब्रह्म मम उभे शाश्वती तनू
लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।
उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥
लोके विततम् आत्मानम् लोकम् च आत्मनि सन्ततम् उभयम् च मया व्याप्तम् मयि च एव उभयम् कृतम्
यथा सुषुप्त: पुरुषो विश्वं पश्यति चात्मनि ।
आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थित: ॥ ५३ ॥
एवं जागरणादीनि जीवस्थानानि चात्मन: ।
मायामात्राणि विज्ञाय तद् द्रष्टारं परं स्मरेत् ॥ ५४ ॥
यथा सुषुप्तः पुरुषः विश्वम् पश्यति च आत्मनि आत्मानम् एक-देश-स्थम् मन्यते स्वप्ने उत्थितः एवम् जागरण-आदीनि जीव-स्थानानि च आत्मनः माया-मात्राणि विज्ञाय तत् द्रष्टारम् परम् स्मरेत्
येन प्रसुप्त: पुरुष: स्वापं वेदात्मनस्तदा ।
सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥
येन प्रसुप्तः पुरुषः स्वापम् वेद आत्मनः तदा सुखम् च निर्गुणम् ब्रह्म तम् आत्मानम् अवेहि माम्
उभयं स्मरत: पुंस: प्रस्वापप्रतिबोधयो: ।
अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥
उभयम् स्मरतः पुंसः प्रस्वाप प्रतिबोधयोः अन्वेति व्यतिरिच्येत तत् ज्ञानम् ब्रह्म तत् परम्
यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मन: ।
तत: संसार एतस्य देहाद्देहो मृतेर्मृति: ॥ ५७ ॥
यत् एतत् विस्मृतम् पुंसः मत्-भावम् भिन्नम् आत्मनः ततः संसारः एतस्य देहात् देहः मृतेः मृतिः
लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।
आत्मानं यो न बुद्ध्येत न क्वचित्क्षेममाप्नुयात् ॥ ५८ ॥
लब्ध्वा इह मानुषीम् योनिम् ज्ञान विज्ञान सम्भवाम् आत्मानम् यः न बुद्ध्येत न क्वचित् क्षेमम् आप्नुयात्
स्मृत्वेहायां परिक्लेशं तत: फलविपर्ययम् ।
अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कवि: ॥ ५९ ॥
स्मृत्वा ईहायाम् परिक्लेशम् ततः फल-विपर्ययम् अभयम् च अपि अनीहायाम् सङ्कल्पात् विरमेत् कविः
सुखाय दु:खमोक्षाय कुर्वाते दम्पती क्रिया: ।
ततोऽनिवृत्तिरप्राप्तिर्दु:खस्य च सुखस्य च ॥ ६० ॥
सुखाय दुःख-मोक्षाय कुर्वाते दम्-पती क्रियाः ततः अनिवृत्तिः अप्राप्तिः दुःखस्य च सुखस्य च
एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।
आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥
दृष्टश्रुताभिर्मात्राभिर्निर्मुक्त: स्वेन तेजसा ।
ज्ञानविज्ञानसन्तृप्तो मद्भक्त: पुरुषो भवेत् ॥ ६२ ॥
एवम् विपर्ययम् बुद्ध्वा नृणाम् विज्ञ-अभिमानिनाम् आत्मनः च गतिम् सूक्ष्माम् स्थान-त्रय विलक्षणाम् दृष्ट श्रुताभिः मात्राभिः निर्मुक्तः स्वेन तेजसा ज्ञान-विज्ञान सन्तृप्तः मत्-भक्तः पुरुषः भवेत्
एतावानेव मनुजैर्योगनैपुण्यबुद्धिभि: ।
स्वार्थ: सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥
एतावान् एव मनुजैः योग नैपुण्य बुद्धिभिः स्व-अर्थः सर्व-आत्मना ज्ञेयः यत् पर आत्म एक दर्शनम्
त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम ।
ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥
त्वम् एतत् श्रद्धया राजन् अप्रमत्तः वचः मम ज्ञान-विज्ञान-सम्पन्नः धारयन् आशु सिध्यसि
श्रीशुक उवाच
आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरु: ।
पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरि: ॥ ६५ ॥
श्री-शुकः उवाच आश्वास्य भगवान् इत्थम् चित्रकेतुम् जगत्-गुरुः पश्यतः तस्य विश्व-आत्मा ततः च अन्तर्दधे हरिः
६.१७
श्रीशुक उवाच
यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नम: ।
विद्याधरश्चित्रकेतुश्चचार गगने चर: ॥ १ ॥
श्री-शुकः उवाच यतः च अन्तर्हितः अनन्तः तस्यै कृत्वा दिशे नमः विद्याधरः चित्रकेतुः चचार गगने चरः
स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रिय: ।
स्तूयमानो महायोगी मुनिभि: सिद्धचारणै: ॥ २ ॥
कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु ।
रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ ३ ॥
सः लक्षम् वर्ष लक्षाणाम् अव्याहत बल-इन्द्रियः स्तूयमानः महा-योगी मुनिभिः सिद्ध-चारणैः कुलाचलेन्द्र-द्रोणीषु नाना-सङ्कल्प-सिद्धिषु रेमे विद्याधर-स्त्रीभिः गापयन् हरिम् ईश्वरम्
एकदा स विमानेन विष्णुदत्तेन भास्वता ।
गिरिशं ददृशे गच्छन् परीतं सिद्धचारणै: ॥ ४ ॥
आलिङ्गयाङ्कीकृतां देवीं बाहुना मुनिसंसदि ।
उवाच देव्या: शृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥
एकदा सः विमानेन विष्णु-दत्तेन भास्वता गिरिशम् ददृशे गच्छन् परीतम् सिद्ध चारणैः आलिङ्ग्य अङ्कीकृताम् देवीम् बाहुना मुनि-संसदि उवाच देव्याः शृण्वन्त्याः जहास उच्चैः तद्-अन्तिके
चित्रकेतुरुवाच
एष लोकगुरु: साक्षाद्धर्मं वक्ता शरीरिणाम् ।
आस्ते मुख्य: सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥
चित्रकेतुः उवाच एषः लोक-गुरुः साक्षात् धर्मम् वक्ता शरीरिणाम् आस्ते मुख्यः सभायाम् वै मिथुनी-भूय भार्यया
जटाधरस्तीव्रतपा ब्रह्मवादिसभापति: ।
अङ्कीकृत्य स्त्रियं चास्ते गतह्री: प्राकृतो यथा ॥ ७ ॥
जटा-धरः तीव्र-तपाः ब्रह्म-वादि सभा-पतिः अङ्कीकृत्य स्त्रियम् च आस्ते गत-ह्रीः प्राकृतः यथा
प्रायश: प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।
अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥
प्रायशः प्राकृताः च अपि स्त्रियम् रहसि बिभ्रति अयम् महा-व्रत-धरः बिभर्ति सदसि स्त्रियम्
श्रीशुक उवाच
भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।
तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रता: ॥ ९ ॥
श्री-शुकः उवाच भगवान् अपि तत् श्रुत्वा प्रहस्य अगाध-धीः नृप तूष्णीम् बभूव सदसि सभ्याः च तत्-अनुव्रताः
इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।
रुषाह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥
इति अ-तत्-वीर्य-विदुषि ब्रुवाणे बहु-अशोभनम् रुषा आह देवी धृष्टाय निर्जित-आत्म अभिमानिने
श्रीपार्वत्युवाच
अयं किमधुना लोके शास्ता दण्डधर: प्रभु: ।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥
श्री-पार्वती उवाच अयम् किम् अधुना लोके शास्ता दण्ड-धरः प्रभुः अस्मत्-विधानाम् दुष्टानाम् निर्लज्जानाम् च विप्रकृत्
न वेद धर्मं किल पद्मयोनि-
र्न ब्रह्मपुत्रा भृगुनारदाद्या: ।
न वै कुमार: कपिलो मनुश्च
ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥
न वेद धर्मम् किल पद्म-योनिः न ब्रह्म-पुत्राः भृगु नारद आद्याः न वै कुमारः कपिलः मनुः च ये नो निषेधन्ति अति-वर्तिनम् हरम्
एषामनुध्येयपदाब्जयुग्मं
जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।
य: क्षत्रबन्धु: परिभूय सूरीन्
प्रशास्ति धृष्टस्तदयं हि दण्ड्य: ॥ १३ ॥
एषाम् अनुध्येय पद-अब्ज-युग्मम् जगत्-गुरुम् मङ्गल-मङ्गलम् स्वयम् यः क्षत्र-बन्धुः परिभूय सूरीन् प्रशास्ति धृष्टः तत् अयम् हि दण्ड्यः
नायमर्हति वैकुण्ठपादमूलोपसर्पणम् ।
सम्भावितमति: स्तब्ध: साधुभि: पर्युपासितम् ॥ १४ ॥
न अयम् अर्हति वैकुण्ठ-पाद-मूल-उपसर्पणम् सम्भावित-मतिः स्तब्धः साधुभिः पर्युपासितम्
अत: पापीयसीं योनिमासुरीं याहि दुर्मते ।
यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥
अतः पापीयसीम् योनिम् आसुरीम् याहि दुर्मते यथा इह भूयः महताम् न कर्ता पुत्र किल्बिषम्
श्रीशुक उवाच
एवं शप्तश्चित्रकेतुर्विमानादवरुह्य स: ।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥
श्री-शुकः उवाच एवम् शप्तः चित्रकेतुः विमानात् अवरुह्य सः प्रसादयाम् आस सतीम् मूर्ध्ना नम्रेण भारत
चित्रकेतुरुवाच
प्रतिगृह्णामि ते शापमात्मनोऽञ्जलिनाम्बिके ।
देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥
चित्रकेतुः उवाच प्रतिगृह्णामि ते शापम् आत्मनः अञ्जलिना अम्बिके देवैः मर्त्याय यत् प्रोक्तम् पूर्व-दिष्टम् हि तस्य तत्
संसारचक्र एतस्मिञ्जन्तुरज्ञानमोहित: ।
भ्राम्यन् सुखं च दु:खं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥
संसार-चक्रे एतस्मिन् जन्तुः अज्ञान-मोहितः भ्राम्यन् सुखम् च दुःखम् च भुङ्क्ते सर्वत्र सर्वदा
नैवात्मा न परश्चापि कर्ता स्यात् सुखदु:खयो: ।
कर्तारं मन्यतेऽत्राज्ञ आत्मानं परमेव च ॥ १९ ॥
न एव आत्मा न परः च अपि कर्ता स्यात् सुख-दुःखयोः कर्तारम् मन्यते अत्र अज्ञः आत्मानम् परम् एव च
गुणप्रवाह एतस्मिन् क: शाप: को न्वनुग्रह: ।
क: स्वर्गो नरक: को वा किं सुखं दु:खमेव वा ॥ २० ॥
गुण-प्रवाहे एतस्मिन् कः शापः कः नु अनुग्रहः कः स्वर्गः नरकः कः वा किम् सुखम् दुःखम् एव वा
एक: सृजति भूतानि भगवानात्ममायया ।
एषां बन्धं च मोक्षं च सुखं दु:खं च निष्कल: ॥ २१ ॥
एकः सृजति भूतानि भगवान् आत्म-मायया एषाम् बन्धम् च मोक्षम् च सुखम् दुःखम् च निष्कलः
न तस्य कश्चिद्दयित: प्रतीपो
न ज्ञातिबन्धुर्न परो न च स्व: ।
समस्य सर्वत्र निरञ्जनस्य
सुखे न राग: कुत एव रोष: ॥ २२ ॥
न तस्य कश्चित् दयितः प्रतीपः न ज्ञाति बन्धुः न परः न च स्वः समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुतः एव रोषः
तथापि तच्छक्तिविसर्ग एषां
सुखाय दु:खाय हिताहिताय ।
बन्धाय मोक्षाय च मृत्युजन्मनो:
शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥
तथापि तत्-शक्ति विसर्गः एषाम् सुखाय दुःखाय हित-अहिताय बन्धाय मोक्षाय च मृत्यु जन्मनोः शरीरिणाम् संसृतये अवकल्पते
अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।
यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥
अथ प्रसादये न त्वाम् शाप-मोक्षाय भामिनि यत् मन्यसे हि असाधु-उक्तम् मम तत् क्षम्यताम् सति
श्रीशुक उवाच
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।
जगाम स्वविमानेन पश्यतो: स्मयतोस्तयो: ॥ २५ ॥
श्री-शुकः उवाच इति प्रसाद्य गिरिशौ चित्रकेतुः अरिम्-दम जगाम स्व-विमानेन पश्यतोः स्मयतोः तयोः
ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् ।
देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् ॥ २६ ॥
ततः तु भगवान् रुद्रः रुद्राणीम् इदम् अब्रवीत् देवर्षि दैत्य सिद्धानाम् पार्षदानाम् च शृण्वताम्
श्रीरुद्र उवाच
दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मण: ।
माहात्म्यं भृत्यभृत्यानां नि:स्पृहाणां महात्मनाम् ॥ २७ ॥
श्री-रुद्रः उवाच दृष्टवती असि सु-श्रोणि हरेः अद्भुत-कर्मणः माहात्म्यम् भृत्य-भृत्यानाम् निःस्पृहाणाम् महात्मनाम्
नारायणपरा: सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन: ॥ २८ ॥
नारायण-पराः सर्वे न कुतश्चन बिभ्यति स्वर्ग अपवर्ग नरकेषु अपि तुल्य अर्थ दर्शिनः
देहिनां देहसंयोगाद् द्वन्द्वानीश्वरलीलया ।
सुखं दु:खं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥
देहिनाम् देह-संयोगात् द्वन्द्वानि ईश्वर-लीलया सुखम् दुःखम् मृतिः जन्म शापः अनुग्रहः एव च
अविवेककृत: पुंसो ह्यर्थभेद इवात्मनि ।
गुणदोषविकल्पश्च भिदेव स्रजिवत्कृत: ॥ ३० ॥
अविवेक-कृतः पुंसः हि अर्थ-भेदः इव आत्मनि गुण-दोष विकल्पः च भित् एव स्रजि वत् कृतः
वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् ।
ज्ञानवैराग्यवीर्याणां न हि कश्चिद् व्यपाश्रय: ॥ ३१ ॥
वासुदेवे भगवति भक्तिम् उद्वहताम् नृणाम् ज्ञान-वैराग्य वीर्याणाम् न हि कश्चित् व्यपाश्रयः
नाहं विरिञ्चो न कुमारनारदौ
न ब्रह्मपुत्रा मुनय: सुरेशा: ।
विदाम यस्येहितमंशकांशका
न तत्स्वरूपं पृथगीशमानिन: ॥ ३२ ॥
न अहम् विरिञ्चः न कुमार नारदौ न ब्रह्म-पुत्राः मुनयः सुर-ईशाः विदाम यस्य ईहितम् अंशक-अंशकाः न तत् स्व-रूपम् पृथक् ईश मानिनः
न ह्यस्यास्ति प्रिय: कश्चिन्नाप्रिय: स्व: परोऽपि वा ।
आत्मत्वात्सर्वभूतानां सर्वभूतप्रियो हरि: ॥ ३३ ॥
न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः स्वः परः अपि वा आत्मत्वात् सर्व-भूतानाम् सर्व-भूत प्रियः हरिः
तस्य चायं महाभागश्चित्रकेतु: प्रियोऽनुग: ।
सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रिय: ॥ ३४ ॥
तस्मान्न विस्मय: कार्य: पुरुषेषु महात्मसु ।
महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥
तस्य च अयम् महा-भागः चित्रकेतुः प्रियः अनुगः सर्वत्र सम-दृक् शान्तः हि अहम् च एव अच्युत-प्रियः तस्मात् न विस्मयः कार्यः पुरुषेषु महा-आत्मसु महा-पुरुष-भक्तेषु शान्तेषु सम-दर्शिषु
श्रीशुक उवाच
इति श्रुत्वा भगवत: शिवस्योमाभिभाषितम् ।
बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥
श्री-शुकः उवाच इति श्रुत्वा भगवतः शिवस्य उमा अभिभाषितम् बभूव शान्त-धीः राजन् देवी विगत-विस्मया
इति भागवतो देव्या: प्रतिशप्तुमलन्तम: ।
मूर्ध्ना स जगृहे शापमेतावत्साधुलक्षणम् ॥ ३७ ॥
इति भागवतः देव्याः प्रतिशप्तुम् अलन्तमः मूर्ध्ना सः जगृहे शापम् एतावत् साधु-लक्षणम्
जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रित: ।
वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुत: ॥ ३८ ॥
जज्ञे त्वष्टुः दक्षिण-अग्नौ दानवीम् योनिम् आश्रितः वृत्रः इति अभिविख्यातः ज्ञान-विज्ञान-संयुतः
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
वृत्रस्यासुरजातेश्च कारणं भगवन्मते: ॥ ३९ ॥
एतत् ते सर्वम् आख्यातम् यत् माम् त्वम् परिपृच्छसि वृत्रस्य असुर-जातेः च कारणम् भगवत्-मतेः
इतिहासमिमं पुण्यं चित्रकेतोर्महात्मन: ।
माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ ४० ॥
इतिहासम् इमम् पुण्यम् चित्रकेतोः महा-आत्मनः माहात्म्यम् विष्णु-भक्तानाम् श्रुत्वा बन्धात् विमुच्यते
य एतत्प्रातरुत्थाय श्रद्धया वाग्यत: पठेत् ।
इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥
यः एतत् प्रातः उत्थाय श्रद्धया वाक्-यतः पठेत् इतिहासम् हरिम् स्मृत्वा सः याति परमाम् गतिम्
६.१८
श्रीशुक उवाच
पृश्निस्तु पत्नी सवितु: सावित्रीं व्याहृतिं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥
श्री-शुकः उवाच पृश्निः तु पत्नी सवितुः सावित्रीम् व्याहृतिम् त्रयीम् अग्निहोत्रम् पशुम् सोमम् चातुर्मास्यम् महा-मखान्
सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥
सिद्धिः भगस्य भार्या अङ्ग महिमानम् विभुम् प्रभुम् आशिषम् च वरारोहाम् कन्याम् प्रासूत सु-व्रताम्
धातु: कुहू: सिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रात: पूर्णमासमनुक्रमात् ॥ ३ ॥
अग्नीन् पुरीष्यानाधत्त क्रियायां समनन्तर: ।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगु: पुन: ॥ ४ ॥
धातुः कुहूः सिनीवाली राका च अनुमतिः तथा सायम् दर्शम् अथ प्रातः पूर्णमासम् अनुक्रमात् अग्नीन् पुरीष्यान् आधत्त क्रियायाम् समनन्तरः चर्षणी वरुणस्य आसीत् यस्याम् जातः भृगुः पुनः
वाल्मीकिश्च महायोगी वल्मीकादभवत्किल ।
अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोऋर्षी ॥ ५ ॥
वाल्मीकिः च महा-योगी वल्मीकात् अभवत् किल अगस्त्यः च वसिष्ठः च मित्रा-वरुणयोः ऋषी
रेत: सिषिचतु: कुम्भे उर्वश्या: सन्निधौ द्रुतम् ।
रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ ६ ॥
रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् रेवत्याम् मित्रः उत्सर्गम् अरिष्टम् पिप्पलम् व्यधात्
पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रानिति न: श्रुतम् ।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभु: ॥ ७ ॥
पौलोम्याम् इन्द्रः आधत्त त्रीन् पुत्रान् इति नः श्रुतम् जयन्तम् ऋषभम् तात तृतीयम् मीढुषम् प्रभुः
उरुक्रमस्य देवस्य मायावामनरूपिण: ।
कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादय: ॥ ८ ॥
उरुक्रमस्य देवस्य माया वामन-रूपिणः कीर्तौ पत्न्याम् बृहच्छ्लोकः तस्य आसन् सौभग-आदयः
तत्कर्मगुणवीर्याणि काश्यपस्य महात्मन: ।
पश्चाद्वक्ष्यामहेऽदित्यां यथैवावततार ह ॥ ९ ॥
तत् कर्म गुण वीर्याणि काश्यपस्य महा-आत्मनः पश्चात् वक्ष्यामहे अदित्याम् यथा एव अवततार ह
अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते ।
यत्र भागवत: श्रीमान् प्रह्रादो बलिरेव च ॥ १० ॥
अथ कश्यप-दायादान् दैतेयान् कीर्तयामि ते यत्र भागवतः श्री-मान् प्रह्रादः बलिः एव च
दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११ ॥
दितेः द्वौ एव दायादौ दैत्य-दानव वन्दितौ हिरण्यकशिपुः नाम हिरण्याक्षः च कीर्तितौ
हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।
जम्भस्य तनया सा तु सुषुवे चतुर: सुतान् ॥ १२ ॥
संह्रादं प्रागनुह्रादं ह्रादं प्रह्रादमेव च ।
तत्स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३ ॥
हिरण्यकशिपोः भार्या कयाधुः नाम दानवी जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् संह्रादम् प्राक् अनुह्रादम् ह्रादम् प्रह्रादम् एव च तत्-स्वसा सिंहिका नाम राहुम् विप्रचितः अग्रहीत्
शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् ।
संह्रादस्य कृतिर्भार्यासूत पञ्चजनं तत: ॥ १४ ॥
शिरः अहरत् यस्य हरिः चक्रेण पिबतः अमृतम् संह्रादस्य कृतिः भार्या असूत पञ्चजनम् ततः
ह्रादस्य धमनिर्भार्यासूत वातापिमिल्वलम् ।
योऽगस्त्याय त्वतिथये पेचे वातापिमिल्वल: ॥ १५ ॥
ह्रादस्य धमनिः भार्या असूत वातापिम् इल्वलम् यः अगस्त्याय तु अतिथये पेचे वातापिम् इल्वलः
अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा ।
विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलि: ॥ १६ ॥
अनुह्रादस्य सूर्यायाम् बाष्कलः महिषः तथा विरोचनः तु प्राह्रादिः देव्याम् तस्य अभवत् बलिः
बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् ।
तस्यानुभावं
सुश्लोक्यं पश्चादेवाभिधास्यते ॥ १७ ॥
बाण-ज्येष्ठम् पुत्र-शतम् अशनायाम् ततः अभवत् तस्य अनुभावम् सु-श्लोक्यम् पश्चात् एव अभिधास्यते
बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् ।
यत्पार्श्वे
भगवानास्ते ह्यद्यापि पुरपालक: ॥ १८ ॥
बाणः आराध्य गिरिशम् लेभे तत् गण-मुख्यताम् यत्-पार्श्वे भगवान् आस्ते हि अद्य अपि पुर-पालकः
मरुतश्च दिते:
पुत्राश्चत्वारिंशन्नवाधिका: ।
त आसन्नप्रजा: सर्वे नीता इन्द्रेण
सात्मताम् ॥ १९ ॥
मरुतः च दितेः पुत्राः चत्वारिंशत् नव-अधिकाः ते आसन् अप्रजाः सर्वे नीताः इन्द्रेण स-आत्मताम्
श्रीराजोवाच
कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो ।
इन्द्रेण प्रापिता: सात्म्यं किं तत्साधु कृतं हि तै: ॥ २० ॥
श्री-राजा उवाच कथम् ते आसुरम् भावम् अपोह्य औत्पत्तिकम् गुरो इन्द्रेण प्रापिताः स-आत्म्यम् किम् तत् साधु कृतम् हि तैः
इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह ।
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ॥ २१ ॥
इमे श्रद्दधते ब्रह्मन् ऋषयः हि मया सह परिज्ञानाय भगवन् तत् नः व्याख्यातुम् अर्हसि
श्रीसूत उवाच
तद्विष्णुरातस्य स बादरायणि-
र्वचो निशम्यादृतमल्पमर्थवत् ।
सभाजयन् सन्निभृतेन चेतसा
जगाद सत्रायण सर्वदर्शन: ॥ २२ ॥
श्री-सूतः उवाच तत् विष्णुरातस्य सः बादरायणिः वचः निशम्य आदृतम् अल्पम् अर्थ-वत् सभाजयन् सन् निभृतेन चेतसा जगाद सत्रायण सर्व-दर्शनः
श्रीशुक उवाच
हतपुत्रा दिति: शक्रपार्ष्णिग्राहेण विष्णुना ।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥
श्री-शुकः उवाच हत-पुत्रा दितिः शक्र-पार्ष्णि-ग्राहेण विष्णुना मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत्
कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् ।
अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ २४ ॥
कदा नु भ्रातृ-हन्तारम् इन्द्रिय-आरामम् उल्बणम् अक्लिन्न-हृदयम् पापम् घातयित्वा शये सुखम्
कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च ।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यत: ॥ २५ ॥
कृमि विट् भस्म संज्ञा आसीत् यस्य ईश-अभिहितस्य च भूत-ध्रुक् तत्-कृते स्व-अर्थम् किम् वेद निरयः यतः
आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतस: ।
मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ २६ ॥
आशासानस्य तस्य इदम् ध्रुवम् उन्नद्ध-चेतसः मद-शोषकः इन्द्रस्य भूयात् येन सुतः हि मे
इति भावेन सा भर्तुराचचारासकृत्प्रियम् ।
शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ २७ ॥
भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितै: ।
मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणै: ॥ २८ ॥
इति भावेन सा भर्तुः आचचार असकृत् प्रियम् शुश्रूषया अनुरागेण प्रश्रयेण दमेन च भक्त्या परमया राजन् मनोज्ञैः वल्गु-भाषितैः मनः जग्राह भाव-ज्ञा स-स्मित अपाङ्ग-वीक्षणैः
एवं स्त्रिया जडीभूतो विद्वानपि मनोज्ञया ।
बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥ २९ ॥
एवम् स्त्रिया जडीभूतः विद्वान् अपि मनोज्ञया बाढम् इति आह विवशः न तत् चित्रम् हि योषिति
विलोक्यैकान्तभूतानि भूतान्यादौ प्रजापति: ।
स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ ३० ॥
विलोक्य एकान्त-भूतानि भूतानि आदौ प्रजापतिः स्त्रियम् चक्रे स्व-देह अर्धम् यया पुंसाम् मतिः हृता
एवं शुश्रूषितस्तात भगवान् कश्यप: स्त्रिया ।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ ३१ ॥
एवम् शुश्रूषितः तात भगवान् कश्यपः स्त्रिया प्रहस्य परम-प्रीतः दितिम् आह अभिनन्द्य च
श्रीकश्यप उवाच
वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।
स्त्रिया भर्तरि सुप्रीते क: काम इह चागम: ॥ ३२ ॥
श्री-कश्यपः उवाच वरम् वरय वामोरु प्रीतः ते अहम् अनिन्दिते स्त्रियाः भर्तरि सु-प्रीते कः कामः इह च अगमः
पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।
मानस: सर्वभूतानां वासुदेव: श्रिय: पति: ॥ ३३ ॥
स एव देवतालिङ्गैर्नामरूपविकल्पितै: ।
इज्यते भगवान् पुम्भि: स्त्रीभिश्च पतिरूपधृक् ॥ ३४ ॥
पतिः एव हि नारीणाम् दैवतम् परमम् स्मृतम् मानसः सर्व-भूतानाम् वासुदेवः श्रियः पतिः सः एव देवता-लिङ्गैः नाम रूप विकल्पितैः इज्यते भगवान् पुम्भिः स्त्रीभिः च पति-रूप-धृक्
तस्मात्पतिव्रता नार्य: श्रेयस्कामा: सुमध्यमे ।
यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ ३५ ॥
तस्मात् पति-व्रताः नार्यः श्रेयः-कामाः सु-मध्यमे यजन्ते अनन्य-भावेन पतिम् आत्मानम् ईश्वरम्
सोऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तित: ।
तं ते सम्पादये काममसतीनां सुदुर्लभम् ॥ ३६ ॥
सः अहम् त्वया अर्चितः भद्रे ईदृक्-भावेन भक्तितः तम् ते सम्पादये कामम् असतीनाम् सु-दुर्लभम्
दितिरुवाच
वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे ।
अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ ३७ ॥
दितिः उवाच वर-दः यदि मे ब्रह्मन् पुत्रम् इन्द्र-हणम् वृणे अमृत्युम् मृत-पुत्रा अहम् येन मे घातितौ सुतौ
निशम्य तद्वचो विप्रो विमना: पर्यतप्यत ।
अहो अधर्म: सुमहानद्य मे समुपस्थित: ॥ ३८ ॥
निशम्य तत्-वचः विप्रः विमनाः पर्यतप्यत अहो अधर्मः सु-महान् अद्य मे समुपस्थितः
अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया ।
गृहीतचेता: कृपण: पतिष्ये नरके ध्रुवम् ॥ ३९ ॥
अहो अर्थ-इन्द्रिय-आरामः योषित्-मय्या इह मायया गृहीत-चेताः कृपणः पतिष्ये नरके ध्रुवम्
कोऽतिक्रमोऽनुवर्तन्त्या: स्वभावमिह योषित: ।
धिङ्मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रिय: ॥ ४० ॥
कः अतिक्रमः अनुवर्तन्त्याः स्व-भावम् इह योषितः धिक् माम् बत अबुधम् स्व-अर्थे यत् अहम् तु अजित-इन्द्रियः
शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ ४१ ॥
शरत् पद्म उत्सवम् वक्त्रम् वचः च श्रवण अमृतम् हृदयम् क्षुर-धारा आभम् स्त्रीणाम् कः वेद चेष्टितम्
न हि कश्चित्प्रिय: स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।
पतिं पुत्रं भ्रातरं वा घ्नन्त्यर्थे घातयन्ति च ॥ ४२ ॥
न हि कश्चित् प्रियः स्त्रीणाम् अञ्जसा स्व-आशिषा आत्मनाम् पतिम् पुत्रम् भ्रातरम् वा घ्नन्ति अर्थे घातयन्ति च
प्रतिश्रुतं ददामीति वचस्तन्न मृषा भवेत् ।
वधं नार्हति चेन्द्रोऽपि तत्रेदमुपकल्पते ॥ ४३ ॥
प्रतिश्रुतम् ददामि इति वचः तत् न मृषा भवेत् वधम् न अर्हति च इन्द्रः अपि तत्र इदम् उपकल्पते
इति सञ्चिन्त्य भगवान्मारीच: कुरुनन्दन ।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥
इति सञ्चिन्त्य भगवान् मारीचः कुरु-नन्दन उवाच किञ्चित् कुपितः आत्मानम् च विगर्हयन्
श्रीकश्यप उवाच
पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धव: ।
संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥ ४५ ॥
श्री-कश्यपः उवाच पुत्रः ते भविता भद्रे इन्द्र-हा अदेव-बान्धवः संवत्सरम् व्रतम् इदम् यदि अञ्जः धारयिष्यसि
दितिरुवाच
धारयिष्ये व्रतं ब्रह्मन्ब्रूहि कार्याणि यानि मे ।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्युत ॥ ४६ ॥
दितिः उवाच धारयिष्ये व्रतम् ब्रह्मन् ब्रूहि कार्याणि यानि मे यानि च इह निषिद्धानि न व्रतम् घ्नन्ति यानि उत
श्रीकश्यप उवाच
न हिंस्याद्भूतजातानि न शपेन्नानृतं वदेत् ।
न छिन्द्यान्नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ ४७ ॥
श्री-कश्यपः उवाच न हिंस्यात् भूत-जातानि न शपेत् न अनृतम् वदेत् न छिन्द्यात् नख-रोमाणि न स्पृशेत् यत् अमङ्गलम्
नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनै: ।
न वसीताधौतवास: स्रजं च विधृतां क्वचित् ॥ ४८ ॥
न अप्सु स्नायात् न कुप्येत न सम्भाषेत दुर्जनैः न वसीत अधौत-वासः स्रजम् च विधृताम् क्वचित्
नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।
भुञ्जीतोदक्यया दृष्टं पिबेन्नाञ्जलिना त्वप: ॥ ४९ ॥
न उच्छिष्टम् चण्डिका-अन्नम् च स-आमिषम् वृषल-आहृतम् भुञ्जीत उदक्यया दृष्टम् पिबेत् न अञ्जलिना तु अपः
नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा ।
अनर्चितासंयतवाक्नासंवीता बहिश्चरेत् ॥ ५० ॥
न उच्छिष्टा अस्पृष्ट-सलिला सन्ध्यायाम् मुक्त-मूर्धजा अनर्चिता असंयत-वाक् न असंवीता बहिः चरेत्
नाधौतपादाप्रयता नार्द्रपादा उदक्शिरा: ।
शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययो: ॥ ५१ ॥
न अधौत-पादा अप्रयता न अर्द्र-पादा उदक्-शिराः शयीत न अपराक् न अन्यैः न नग्ना न च सन्ध्ययोः
धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता ।
पूजयेत्प्रातराशात्प्राग्गोविप्राञ् श्रियमच्युतम् ॥ ५२ ॥
धौत-वासा शुचिः नित्यम् सर्व-मङ्गल संयुता पूजयेत् प्रातः-आशात् प्राक् गो-विप्रान् श्रियम् अच्युतम्
स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनै: ।
पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम् ॥ ५३ ॥
स्त्रियः वीर-वतीः च अर्चेत् स्रक् गन्ध बलि मण्डनैः पतिम् च आर्च्य उपतिष्ठेत ध्यायेत् कोष्ठ-गतम् च तम्
सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।
धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुत: ॥ ५४ ॥
सांवत्सरम् पुंसवनम् व्रतम् एतत् अविप्लुतम् धारयिष्यसि चेत् तुभ्यम् शक्र-हा भविता सुतः
बाढमित्यभ्युपेत्याथ दिती राजन्महामना: ।
कश्यपाद् गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥
बाढम् इति अभ्युपेत्य अथ दितिः राजन् महा-मनाः कश्यपात् गर्भम् आधत्त व्रतम् च अञ्जः दधार सा
मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।
शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कवि: ॥ ५६ ॥
मातृ-स्वसुः अभिप्रायम् इन्द्रः आज्ञाय मान-द शुश्रूषणेन आश्रम-स्थाम् दितिम् पर्यचरत् कविः
नित्यं वनात्सुमनस: फलमूलसमित्कुशान् ।
पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत् ॥ ५७ ॥
नित्यम् वनात् सुमनसः फल मूल समित् कुशान् पत्र अङ्कुर मृदः अपः च काले काले उपाहरत्
एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ।
प्रेप्सु: पर्यचरज्जिह्मो मृगहेव मृगाकृति: ॥ ५८ ॥
एवम् तस्याः व्रत-स्थायाः व्रत-छिद्रम् हरिः नृप प्रेप्सुः पर्यचरत् जिह्मः मृग-हा इव मृग-आकृतिः
नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते ।
चिन्तां तीव्रां गत: शक्र: केन मे स्याच्छिवं त्विह ॥ ५९ ॥
न अध्यगच्छत् व्रत-छिद्रम् तत्-परः अथ मही-पते चिन्ताम् तीव्राम् गतः शक्रः केन मे स्यात् शिवम् तु इह
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।
अस्पृष्टवार्यधौताङ्घ्रि: सुष्वाप विधिमोहिता ॥ ६० ॥
एकदा सा तु सन्ध्यायाम् उच्छिष्टा व्रत कर्शिता अस्पृष्ट वारि अधौत अङ्घ्रिः सुष्वाप विधि मोहिता
लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतस: ।
दिते: प्रविष्ट उदरं योगेशो योगमायया ॥ ६१ ॥
लब्ध्वा तत्-अन्तरम् शक्रः निद्रा अपहृत-चेतसः दितेः प्रविष्टः उदरम् योग-ईशः योग मायया
चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् ।
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुन: ॥ ६२ ॥
चकर्त सप्त-धा गर्भम् वज्रेण कनक प्रभम् रुदन्तम् सप्त-धा एक-एकम् मा रोदीः इति तान् पुनः
तमूचु: पाट्यमानास्ते सर्वे प्राञ्जलयो नृप ।
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ॥ ६३ ॥
तम् ऊचुः पाट्यमानाः ते सर्वे प्राञ्जलयः नृप किम् नः इन्द्र जिघांससि भ्रातरः मरुतः तव
मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिक: ।
अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ॥ ६४ ॥
मा भैष्ट भ्रातरः मह्यम् यूयम् इति आह कौशिकः अनन्य-भावान् पार्षदान् आत्मनः मरुताम् गणान्
न ममार दितेर्गर्भ: श्रीनिवासानुकम्पया ।
बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५ ॥
न ममार दितेः गर्भः श्रीनिवास अनुकम्पया बहु-धा कुलिश क्षुण्णः द्रौणि अस्त्रेण यथा भवान्
सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् ।
संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चित: ॥ ६६ ॥
सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन् ।
व्यपोह्य मातृदोषं ते हरिणा सोमपा: कृता: ॥ ६७ ॥
सकृत् इष्ट्वा आदि-पुरुषम् पुरुषः याति साम्यताम् संवत्सरम् किञ्चित् ऊनम् दित्या यत् हरिः अर्चितः सजूः इन्द्रेण पञ्चाशत् देवाः ते मरुतः अभवन् व्यपोह्य मातृ-दोषम् ते हरिणा सोम-पाः कृताः
दितिरुत्थाय ददृशे कुमाराननलप्रभान् ।
इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ ६८ ॥
दितिः उत्थाय ददृशे कुमारान् अनल-प्रभान् इन्द्रेण सहितान् देवी पर्यतुष्यत् अनिन्दिता
अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।
अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥ ६९ ॥
अथ इन्द्रम् आह तात अहम् आदित्यानाम् भय-आवहम् अपत्यम् इच्छन्ती अचरम् व्रतम् एतत् सु-दुष्करम्
एक: सङ्कल्पित: पुत्र: सप्त सप्ताभवन् कथम् ।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ ७० ॥
एकः सङ्कल्पितः पुत्रः सप्त सप्त अभवन् कथम् यदि ते विदितम् पुत्र सत्यम् कथय मा मृषा
इन्द्र उवाच
अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम् ।
लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥ ७१ ॥
इन्द्रः उवाच अम्ब ते अहम् व्यवसितम् उपधार्य आगतः अन्तिकम् लब्ध अन्तरः अच्छिदम् गर्भम् अर्थ-बुद्धिः न धर्म-दृक्
कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारका: ।
तेऽपि चैकैकशो वृक्णा: सप्तधा नापि मम्रिरे ॥ ७२ ॥
कृत्तः मे सप्त-धा गर्भः आसन् सप्त कुमारकाः ते अपि च एक-एकशः वृक्णाः सप्त-धा न अपि मम्रिरे
ततस्तत्परमाश्चर्यं वीक्ष्य व्यवसितं मया ।
महापुरुषपूजाया: सिद्धि: काप्यानुषङ्गिणी ॥ ७३ ॥
ततः तत् परम-आश्चर्यम् वीक्ष्य व्यवसितम् मया महा-पुरुष पूजायाः सिद्धिः कापि आनुषङ्गिणी
आराधनं भगवत ईहमाना निराशिष: ।
ये तु नेच्छन्त्यपि परं ते स्वार्थकुशला: स्मृता: ॥ ७४ ॥
आराधनम् भगवतः ईहमानाः निराशिषः ये तु न इच्छन्ति अपि परम् ते स्व-अर्थ कुशलाः स्मृताः
आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् ।
को वृणीत गुणस्पर्शं बुध: स्यान्नरकेऽपि यत् ॥ ७५ ॥
आराध्य आत्म-प्रदम् देवम् स्व-आत्मानम् जगत्-ईश्वरम् कः वृणीत गुण-स्पर्शम् बुधः स्यात् नरके अपि यत्
तदिदं मम दौर्जन्यं बालिशस्य महीयसि ।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थित: ॥ ७६ ॥
तत् इदम् मम दौर्जन्यम् बालिशस्य महीयसि क्षन्तुम् अर्हसि मातः त्वम् दिष्ट्या गर्भः मृत उत्थितः
श्रीशुक उवाच
इन्द्रस्तयाभ्यनुज्ञात: शुद्धभावेन तुष्टया ।
मरुद्भि: सह तां नत्वा जगाम त्रिदिवं प्रभु: ॥ ७७ ॥
श्री-शुकः उवाच इन्द्रः तया अभ्यनुज्ञातः शुद्ध-भावेन तुष्टया मरुद्भिः सह ताम् नत्वा जगाम त्रि-दिवम् प्रभुः
एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
मङ्गलं मरुतां जन्म किं भूय: कथयामि ते ॥ ७८ ॥
एवम् ते सर्वम् आख्यातम् यत् माम् त्वम् परिपृच्छसि मङ्गलम् मरुताम् जन्म किम् भूयः कथयामि ते
६.१९
श्रीराजोवाच
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामि येन विष्णु: प्रसीदति ॥ १ ॥
श्री-राजा उवाच व्रतम् पुंसवनम् ब्रह्मन् भवता यत् उदीरितम् तस्य वेदितुम् इच्छामि येन विष्णुः प्रसीदति
श्रीशुक उवाच
शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया ।
आरभेत व्रतमिदं सार्वकामिकमादित: ॥ २ ॥
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च ।
स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ।
पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह ॥ ३ ॥
श्री-शुकः उवाच शुक्ले मार्गशिरे पक्षे योषित् भर्तुः अनुज्ञया आरभेत व्रतम् इदम् सार्व-कामिकम् आदितः निशम्य मरुताम् जन्म ब्राह्मणान् अनुमन्त्र्य च स्नात्वा शुक्ल-दती शुक्ले वसीत अलङ्कृता अम्बरे पूजयेत् प्रातः-आशात् प्राक् भगवन्तम् श्रिया सह
अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।
महाविभूतिपतये नम: सकलसिद्धये ॥ ४ ॥
अलम् ते निरपेक्षाय पूर्ण-काम नमः अस्तु ते महा-विभूति पतये नमः सकल-सिद्धये
यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।
जुष्ट ईश गुणै: सर्वैस्ततोऽसि भगवान् प्रभु: ॥ ५ ॥
यथा त्वम् कृपया भूत्या तेजसा महिम-ओजसा जुष्टः ईश गुणैः सर्वैः ततः असि भगवान् प्रभुः
विष्णुपत्नि महामाये महापुरुषलक्षणे ।
प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते ॥ ६ ॥
विष्णु-पत्नि महा-माये महा-पुरुष-लक्षणे प्रीयेथाः मे महा-भागे लोक-मातः नमः अस्तु ते
ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति ।
अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासउपवीतविभूषणगन्धपुष्पधूप
दीपोपहाराद्युपचारान् सुसमाहितोपाहरेत् ॥ ७ ॥
ओम् नमः भगवते महा-पुरुषाय महा-अनुभावाय महा-विभूति पतये सह महा-विभूतिभिः बलिम् उपहरामि इति अनेन अहः-अहः मन्त्रेण विष्णोः आवाहन अर्घ्य-पाद्य-उपस्पर्शन स्नान वास उपवीत विभूषण गन्ध पुष्प धूप दीप उपहार आदि उपचारान् सु-समाहिता उपाहरेत्
हवि:शेषं च जुहुयादनले द्वादशाहुती: ।
ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ ८ ॥
हविः-शेषम् च जुहुयात् अनले द्वादश आहुतीः ओम् नमः भगवते महा-पुरुषाय महा-विभूति पतये स्वाहा इति
श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।
भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पद: ॥ ९ ॥
श्रियम् विष्णुम् च वर-दौ आशिषाम् प्रभवौ उभौ भक्त्या सम्पूजयेत् नित्यम् यदि इच्छेत् सर्व सम्पदः
प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा ।
दशवारं जपेन्मन्त्रं तत: स्तोत्रमुदीरयेत् ॥ १० ॥
प्रणमेत् दण्ड-वत् भूमौ भक्ति प्रह्वेण चेतसा दश-वारम् जपेत् मन्त्रम् ततः स्तोत्रम् उदीरयेत्
युवां तु विश्वस्य विभू जगत: कारणं परम् ।
इयं हि प्रकृति: सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ ११ ॥
युवाम् तु विश्वस्य विभू जगतः कारणम् परम् इयम् हि प्रकृतिः सूक्ष्मा माया-शक्तिः दुरत्यया
तस्या अधीश्वर: साक्षात्त्वमेव पुरुष: पर: ।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥
तस्याः अधीश्वरः साक्षात् त्वम् एव पुरुषः परः त्वम् सर्व-यज्ञः इज्या इयम् क्रिया इयम् फल-भुक् भवान्
गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ।
त्वं हि सर्वशरीर्यात्मा श्री: शरीरेन्द्रियाशया: ।
नामरूपे भगवती प्रत्ययस्त्वमपाश्रय: ॥ १३ ॥
गुण-व्यक्तिः इयम् देवी व्यञ्जकः गुण-भुक् भवान् त्वम् हि सर्व-शरीरी आत्मा श्रीः शरीर इन्द्रिय आशयाः नाम रूपे भगवती प्रत्ययः त्वम् अपाश्रयः
यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
तथा म
उत्तमश्लोक सन्तु सत्या महाशिष: ॥ १४ ॥
यथा युवाम् त्रि-लोकस्य वर-दौ परमे-ष्ठिनौ तथा मे उत्तम-श्लोक सन्तु सत्याः महा-आशिषः
इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।
तन्नि:सार्योपहरणं
दत्त्वाचमनमर्चयेत् ॥ १५ ॥
इति अभिष्टूय वर-दम् श्री-निवासम् श्रिया सह तत् निःसार्य उपहरणम् दत्त्वा आचमनम् अर्चयेत्
तत: स्तुवीत स्तोत्रेण भक्तिप्रह्वेण
चेतसा ।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ १६ ॥
ततः स्तुवीत स्तोत्रेण भक्ति प्रह्वेण चेतसा यज्ञ-उच्छिष्टम् अवघ्राय पुनः अभ्यर्चयेत् हरिम्
पतिं च परया भक्त्या महापुरुषचेतसा ।
प्रियैस्तैस्तैरुपनमेत् प्रेमशील: स्वयं पति: ।
बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च ॥ १७ ॥
पतिम् च परया भक्त्या महा-पुरुष-चेतसा प्रियैः तैः तैः उपनमेत् प्रेम-शीलः स्वयम् पतिः बिभृयात् सर्व-कर्माणि पत्न्याः उच्च-अवचानि च
कृतमेकतरेणापि दम्पत्योरुभयोरपि ।
पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहित: ॥ १८ ॥
कृतम् एकतरेण अपि दम्-पत्योः उभयोः अपि पत्न्याम् कुर्यात् अनर्हायाम् पतिः एतत् समाहितः
विष्णोर्व्रतमिदं बिभ्रन्न विहन्यात्कथञ्चन ।
विप्रान् स्त्रियो वीरवती: स्रग्गन्धबलिमण्डनै: ।
अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ १९ ॥
उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रत: ।
अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये ॥ २० ॥
विष्णोः व्रतम् इदम् बिभ्रत् न विहन्यात् कथञ्चन विप्रान् स्त्रियः वीर-वतीः स्रक् गन्ध बलि मण्डनैः अर्चेत् अहः-अहः भक्त्या देवम् नियमम् आस्थिता उद्वास्य देवम् स्वे धाम्नि तत् निवेदितम् अग्रतः अद्यात् आत्म-विशुद्धि-अर्थम् सर्व-काम समृद्धये
एतेन पूजाविधिना मासान् द्वादश हायनम् ।
नीत्वाथोपरमेत्साध्वी कार्तिके चरमेऽहनि ॥ २१ ॥
एतेन पूजा-विधिना मासान् द्वादश हायनम् नीत्वा अथ उपरमेत् साध्वी कार्तिके चरमे अहनि
श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।
पय:शृतेन जुहुयाच्चरुणा सह सर्पिषा ।
पाकयज्ञविधानेन द्वादशैवाहुती: पति: ॥ २२ ॥
श्वः-भूते अपः उपस्पृश्य कृष्णम् अभ्यर्च्य पूर्व-वत् पयः-शृतेन जुहुयात् चरुणा सह सर्पिषा पाक-यज्ञ-विधानेन द्वादश एव आहुतीः पतिः
आशिष: शिरसादाय द्विजै: प्रीतै: समीरिता: ।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥
आशिषः शिरसा आदाय द्विजैः प्रीतैः समीरिताः प्रणम्य शिरसा भक्त्या भुञ्जीत तत्-अनुज्ञया
आचार्यमग्रत: कृत्वा वाग्यत: सह बन्धुभि: ।
दद्यात्पत्न्यै चरो: शेषं सुप्रजास्त्वं सुसौभगम् ॥ २४ ॥
आचार्यम् अग्रतः कृत्वा वाक्-यतः सह बन्धुभिः दद्यात् पत्न्यै चरोः शेषम् सु-प्रजास्त्वम् सु-सौभगम्
एतच्चरित्वा विधिवद्व्रतं विभो
रभीप्सितार्थं लभते पुमानिह ।
स्त्री चैतदास्थाय लभेत सौभगं
श्रियं प्रजां जीवपतिं यशो गृहम् ॥ २५ ॥
एतत् चरित्वा विधि-वत् व्रतम् विभोः अभीप्सित अर्थम् लभते पुमान् इह स्त्री च एतत् आस्थाय लभेत सौभगम् श्रियम् प्रजाम् जीव-पतिम् यशः गृहम्
कन्या च विन्देत समग्रलक्षणं
पतिं त्ववीरा हतकिल्बिषां गतिम् ।
मृतप्रजा जीवसुता धनेश्वरी
सुदुर्भगा सुभगा रूपमग्र्यम् ॥ २६ ॥
विन्देद्विरूपा विरुजा विमुच्यते
य आमयावीन्द्रियकल्यदेहम् ।
एतत्पठन्नभ्युदये च कर्म-
ण्यनन्ततृप्ति: पितृदेवतानाम् ॥ २७ ॥
तुष्टा: प्रयच्छन्ति समस्तकामान्
होमावसाने हुतभुक् श्रीहरिश्च ।
राजन् महन्मरुतां जन्म पुण्यं
दितेर्व्रतं चाभिहितं महत्ते ॥ २८ ॥
नैवोद्विजे पर दुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्त: ।
शोचे ततो विमुखचेतस इन्द्रियार्थ-
मायासुखाय भरमुद्वहतो विमूढान् ॥ ४३ ॥
कन्या च विन्देत समग्रलक्षणम् पतिम् तु अवीरा हत-किल्बिषाम् गतिम् मृत-प्रजा जीव-सुता धन-ईश्वरी सु-दुर्भगा सु-भगा रूपम् अग्र्यम् विन्देत् विरूपा विरुजा विमुच्यते यः आमया-वी इन्द्रिय-कल्य-देहम् एतत् पठन् अभ्युदये च कर्मणि अनन्त तृप्तिः पितृ-देवतानाम् तुष्टाः प्रयच्छन्ति समस्त कामान् होम-अवसाने हुत-भुक् श्री-हरिः च राजन् महत् मरुताम् जन्म पुण्यम् दितेः व्रतम् च अभिहितम् महत् ते