श्रीमद्भागवतम् पदच्छेद - स्कंध ७

७.१

श्रीराजोवाच
सम: प्रिय: सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् ।
इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १ ॥

श्री-राजा उवाच समः प्रियः सुहृत् ब्रह्मन् भूतानाम् भगवान् स्वयम् इन्द्रस्य अर्थे कथम् दैत्यान् अवधीत् विषमः यथा

न ह्यस्यार्थ: सुरगणै: साक्षान्नि:श्रेयसात्मन: ।
नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ २ ॥

न हि अस्य अर्थः सुर-गणैः साक्षात् निःश्रेयस आत्मनः न एव असुरेभ्यः विद्वेषः न उद्वेगः च अगुणस्य हि

इति न: सुमहाभाग नारायणगुणान् प्रति ।
संशय: सुमहाञ्जातस्तद्भ‍वांश्छेत्तुमर्हति ॥ ३ ॥

इति नः सु-महा-भाग नारायण-गुणान् प्रति संशयः सु-महान् जातः तत् भवान् छेत्तुम् अर्हति

श्रीऋषिरुवाच
साधु पृष्टं महाराज हरेश्चरितमद्भ‍ुतम् ।
यद् भागवतमाहात्म्यं भगवद्भ‍क्तिवर्धनम् ॥ ४ ॥
गीयते परमं पुण्यमृषिभिर्नारदादिभि: ।
नत्वा कृष्णाय मुनये कथयिष्ये हरे: कथाम् ॥ ५ ॥

श्री-ऋषिः उवाच साधु पृष्टम् महा-राज हरेः चरितम् अद्भुतम् यत् भागवत माहात्म्यम् भगवत्-भक्ति वर्धनम् गीयते परमम् पुण्यम् ऋषिभिः नारद-आदिभिः नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम्

निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान्प्रकृते: पर: ।
स्वमायागुणमाविश्य बाध्यबाधकतां गत: ॥ ६ ॥

निर्गुणः अपि हि अजः अव्यक्तः भगवान् प्रकृतेः परः स्व-माया गुणम् आविश्य बाध्य बाधकताम् गतः

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणा: ।
न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ ७ ॥

सत्त्वम् रजः तमः इति प्रकृतेः न आत्मनः गुणाः न तेषाम् युगपत् राजन् ह्रासः उल्लासः एव वा

जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।
तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ ८ ॥

जय-काले तु सत्त्वस्य देव ऋषीन् रजसः असुरान् तमसः यक्ष-रक्षांसि तत्-काल-अनुगुणः अभजत्

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते ।
विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्तत: ॥ ९ ॥

ज्योतिः आदिः इव आभाति सङ्घातात् न विविच्यते विदन्ति आत्मानम् आत्म-स्थम् मथित्वा कवयः अन्ततः

यदा सिसृक्षु: पुर आत्मन: परो
रज: सृजत्येष पृथक् स्वमायया ।
सत्त्वं विचित्रासु रिरंसुरीश्वर:
शयिष्यमाणस्तम ईरयत्यसौ ॥ १० ॥

यदा सिसृक्षुः पुरः आत्मनः परः रजः सृजति एषः पृथक् स्व-मायया सत्त्वम् विचित्रासु रिरंसुः ईश्वरः शयिष्यमाणः तमः ईरयति असौ

कालं चरन्तं सृजतीश आश्रयं ।
प्रधानपुम्भ्यां नरदेव सत्यकृत् ॥ ११ ॥

कालम् चरन्तम् सृजति ईशः आश्रयम् प्रधान पुम्भ्याम् नर-देव सत्य कृत्

य एष राजन्नपि काल ईशिता
सत्त्वं सुरानीकमिवैधयत्यत: ।
तत्प्रत्यनीकानसुरान् सुरप्रियो
रजस्तमस्कान् प्रमिणोत्युरुश्रवा: ॥ १२ ॥

यः एषः राजन् अपि कालः ईशिता सत्त्वम् सुर-अनीकम् इव एधयति अतः तत्-प्रत्यनीकान् असुरान् सुर-प्रियः रजः-तमस्कान् प्रमिणोति उरु-श्रवाः

अत्रैवोदाहृत: पूर्वमितिहास: सुरर्षिणा ।
प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥ १३ ॥

अत्र एव उदाहृतः पूर्वम् इतिहासः सुर-ऋषिणा प्रीत्या महा-क्रतौ राजन् पृच्छते अजात-शत्रवे

द‍ृष्ट्वा महाद्भ‍ुतं राजा राजसूये महाक्रतौ ।
वासुदेवे भगवति सायुज्यं चेदिभूभुज: ॥ १४ ॥
तत्रासीनं सुरऋषिं राजा पाण्डुसुत: क्रतौ ।
पप्रच्छ विस्मितमना मुनीनां श‍ृण्वतामिदम् ॥ १५ ॥

दृष्ट्वा महा-अद्भुतम् राजा राजसूये महा-क्रतौ वासुदेवे भगवति सायुज्यम् चेदिभू-भुजः तत्र आसीनम् सुर-ऋषिम् राजा पाण्डु-सुतः क्रतौ पप्रच्छ विस्मित-मनाः मुनीनाम् शृण्वताम् इदम्

श्रीयुधिष्ठिर उवाच
अहो अत्यद्भ‍ुतं ह्येतद्दुर्लभैकान्तिनामपि ।
वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विष: ॥ १६ ॥

श्री-युधिष्ठिरः उवाच अहो अति-अद्भुतम् हि एतत् दुर्लभ एकान्तिनाम् अपि वासुदेवे परे तत्त्वे प्राप्तिः चैद्यस्य विद्विषः

एतद्वेदितुमिच्छाम: सर्व एव वयं मुने ।
भगवन्निन्दया वेनो द्विजैस्तमसि पातित: ॥ १७ ॥

एतत् वेदितुम् इच्छामः सर्वे एव वयम् मुने भगवत्-निन्दया वेनः द्विजैः तमसि पातितः

दमघोषसुत: पाप आरभ्य कलभाषणात् ।
सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मति: ॥ १८ ॥

दमघोष-सुतः पापः आरभ्य कल-भाषणात् सम्प्रति अमर्षी गोविन्दे दन्तवक्रः च दुर्मतिः

शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् ।
श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तम: ॥ १९ ॥

शपतोः असकृत् विष्णुम् यत् ब्रह्म परम् अव्ययम् श्वित्रः न जातः जिह्वायाम् न अन्धम् विविशतुः तमः

कथं तस्मिन् भगवति दुरवग्राह्यधामनि ।
पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ २० ॥

कथम् तस्मिन् भगवति दुरवग्राह्य धामनि पश्यताम् सर्व-लोकानाम् लयम् ईयतुः अञ्जसा

एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना ।
ब्रूह्येतदद्भ‍ुततमं भगवान्ह्यत्र कारणम् ॥ २१ ॥

एतत् भ्राम्यति मे बुद्धिः दीप-अर्चिः इव वायुना ब्रूहि एतत् अद्भुततमम् भगवान् हि अत्र कारणम्

श्रीबादरायणिरुवाच
राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषि: ।
तुष्ट: प्राह तमाभाष्य श‍ृण्वत्यास्तत्सद: कथा: ॥ २२ ॥

श्री-बादरायणिः उवाच राज्ञः तत् वचः आकर्ण्य नारदः भगवान् ऋषिः तुष्टः प्राह तम् आभाष्य शृण्वत्याः तत्-सदः कथाः

श्रीनारद उवाच
निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम् ।
प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ २३ ॥

श्री-नारदः उवाच निन्दन स्तव सत्कार न्यक्कार अर्थम् कलेवरम् प्रधान-परयोः राजन् अविवेकेन कल्पितम्

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा ।
वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ २४ ॥

हिंसा तत् अभिमानेन दण्ड-पारुष्ययोः यथा वैषम्यम् इह भूतानाम् मम-अहम् इति पार्थिव

यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वध: ।
तथा न यस्य कैवल्यादभिमानोऽखिलात्मन: ।
परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २५ ॥

यत् निबद्धः अभिमानः अयम् तत् वधात् प्राणिनाम् वधः तथा न यस्य कैवल्यात् अभिमानः अखिल-आत्मनः परस्य दम-कर्तुः हि हिंसा केन अस्य कल्प्यते

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्‍नेहात्कामेन वा युञ्‍ज्यात् कथञ्चिन्नेक्षते पृथक् ॥ २६ ॥

तस्मात् वैर-अनुबन्धेन निर्वैरेण भयेन वा स्नेहात् कामेन वा युञ्ज्यात् कथञ्चित् न ईक्षते पृथक्

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ।
न तथा भक्तियोगेन इति मे निश्चिता मति: ॥ २७ ॥

यथा वैर-अनुबन्धेन मर्त्यः तत्-मयताम् इयात् न तथा भक्ति-योगेन इति मे निश्चिता मतिः

कीट: पेशस्कृता रुद्ध: कुड्यायां तमनुस्मरन् ।
संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥ २८ ॥
एवं कृष्णे भगवति मायामनुज ईश्वरे ।
वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ २९ ॥

कीटः पेशस्कृता रुद्धः कुड्यायाम् तम् अनुस्मरन् संरम्भ-भय-योगेन विन्दते तत् स्व-रूपताम् एवम् कृष्णे भगवति माया-मनुजे ईश्वरे वैरेण पूत-पाप्मानः तम् आपुः अनुचिन्तया

कामाद् द्वेषाद्भ‍यात्स्‍नेहाद्यथा भक्त्येश्वरे मन: ।
आवेश्य तदघं हित्वा बहवस्तद्गतिं गता: ॥ ३० ॥

कामात् द्वेषात् भयात् स्नेहात् यथा भक्त्या ईश्वरे मनः आवेश्य तत् अघम् हित्वा बहवः तत् गतिम् गताः

गोप्य: कामाद्भ‍यात्कंसो द्वेषाच्चैद्यादयो नृपा: ।
सम्बन्धाद् वृष्णय: स्‍नेहाद्यूयं भक्त्या वयं विभो ॥ ३१ ॥

गोप्यः कामात् भयात् कंसः द्वेषात् चैद्य-आदयः नृपाः सम्बन्धात् वृष्णयः स्नेहात् यूयम् भक्त्या वयम् विभो

कतमोऽपि न वेन: स्यात्पञ्चानां पुरुषं प्रति ।
तस्मात् केनाप्युपायेन मन: कृष्णे निवेशयेत् ॥ ३२ ॥

कतमः अपि न वेनः स्यात् पञ्चानाम् पुरुषम् प्रति तस्मात् केनापि उपायेन मनः कृष्णे निवेशयेत्

मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव ।
पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ ॥ ३३ ॥

मातृ-स्वस्रेयः वः चैद्यः दन्तवक्रः च पाण्डव पार्षद-प्रवरौ विष्णोः विप्र शापात् पद च्युतौ

श्रीयुधिष्ठिर उवाच
कीद‍ृश: कस्य वा शापो हरिदासाभिमर्शन: ।
अश्रद्धेय इवाभाति हरेरेकान्तिनां भव: ॥ ३४ ॥

श्री-युधिष्ठिरः उवाच कीदृशः कस्य वा शापः हरि-दास अभिमर्शनः अश्रद्धेयः इव आभाति हरेः एकान्तिनाम् भवः

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् ।
देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ ३५ ॥

देह इन्द्रिय असु हीनानाम् वैकुण्ठ-पुर वासिनाम् देह-सम्बन्ध सम्बद्धम् एतत् आख्यातुम् अर्हसि

श्रीनारद उवाच
एकदा ब्रह्मण: पुत्रा विष्णुलोकं यद‍ृच्छया ।
सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ ३६ ॥

श्री-नारदः उवाच एकदा ब्रह्मणः पुत्राः विष्णु लोकम् यदृच्छया सनन्दन-आदयः जग्मुः चरन्तः भुवन-त्रयम्

पञ्चषड्ढायनार्भाभा: पूर्वेषामपि पूर्वजा: ।
दिग्वासस: शिशून् मत्वा द्वा:स्थौ तान् प्रत्यषेधताम् ॥ ३७ ॥

पञ्च-षट्-धा आयन अर्भ-आभाः पूर्वेषाम् अपि पूर्व-जाः दिक्-वाससः शिशून् मत्वा द्वाः-स्थौ तान् प्रत्यषेधताम्

अशपन् कुपिता एवं युवां वासं न चार्हथ: ।
रजस्तमोभ्यां रहिते पादमूले मधुद्विष: ।
पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वत: ॥ ३८ ॥

अशपन् कुपिताः एवम् युवाम् वासम् न च अर्हथः रजः-तमोभ्याम् रहिते पाद-मूले मधु-द्विषः पापिष्ठाम् आसुरीम् योनिम् बालिशौ यातम् आशु अतः

एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभि: ।
प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥ ३९ ॥

एवम् शप्तौ स्व-भवनात् पतन्तौ तौ कृपालुभिः प्रोक्तौ पुनः जन्मभिः वाम् त्रिभिः लोकाय कल्पताम्

जज्ञाते तौ दिते: पुत्रौ दैत्यदानववन्दितौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तत: ॥ ४० ॥

जज्ञाते तौ दितेः पुत्रौ दैत्य-दानव वन्दितौ हिरण्यकशिपुः ज्येष्ठः हिरण्याक्षः अनुजः ततः

हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा ।
हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपु: ॥ ४१ ॥

हतः हिरण्यकशिपुः हरिणा सिंह-रूपिणा हिरण्याक्षः धरा-उद्धारे बिभ्रता शौकरम् वपुः

हिरण्यकशिपु: पुत्रं प्रह्लादं केशवप्रियम् ।
जिघांसुरकरोन्नाना यातना मृत्युहेतवे ॥ ४२ ॥

हिरण्यकशिपुः पुत्रम् प्रह्लादम् केशव-प्रियम् जिघांसुः अकरोत् नाना यातनाः मृत्यु हेतवे

तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् ।
भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमै: ॥ ४३ ॥

तम् सर्व-भूत-आत्म-भूतम् प्रशान्तम् सम-दर्शनम् भगवत्-तेजसा स्पृष्टम् न अशक्नोत् हन्तुम् उद्यमैः

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रव:सुतौ ।
रावण: कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ ४४ ॥

ततः तौ राक्षसौ जातौ केशिन्याम् विश्रवः-सुतौ रावणः कुम्भकर्णः च सर्व-लोक उपतापनौ

तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये ।
रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ॥ ४५ ॥

तत्र अपि राघवः भूत्वा न्यहनत् शाप-मुक्तये राम-वीर्यम् श्रोष्यसि त्वम् मार्कण्डेय-मुखात् प्रभो

तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।
अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४६ ॥

तौ अत्र क्षत्रियौ जातौ मातृ-स्वसृ-आत्म-जौ तव अधुना शाप-निर्मुक्तौ कृष्ण-चक्र हत अंहसौ

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् ।
नीतौ पुनर्हरे: पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४७ ॥

वैर-अनुबन्ध तीव्रेण ध्यानेन अच्युत-सात्मताम् नीतौ पुनः हरेः पार्श्वम् जग्मतुः विष्णु-पार्षदौ

श्रीयुधिष्ठिर उवाच
विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि ।
ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ॥ ४८ ॥

श्री-युधिष्ठिरः उवाच विद्वेषः दयिते पुत्रे कथम् आसीत् महा-आत्मनि ब्रूहि मे भगवन् येन प्रह्लादस्य अच्युत आत्मता

७.२

श्रीनारद उवाच
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ।
हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥ १ ॥

श्री-नारदः उवाच भ्रातरि एवम् विनिहते हरिणा क्रोड-मूर्तिना हिरण्यकशिपुः राजन् पर्यतप्यत् रुषा शुचा

आह चेदं रुषा पूर्ण: सन्दष्टदशनच्छद: ।
कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ २ ॥

आह च इदम् रुषा पूर्णः सन्दष्ट दशन-छदः कोप-उज्ज्वलद्भ्याम् चक्षुर्भ्याम् निरीक्षन् धूम्रम् अम्बरम्

करालदंष्ट्रोग्रद‍ृष्टय‍ा दुष्प्रेक्ष्यभ्रुकुटीमुख: ।
शूलमुद्यम्य सदसि दानवानिदमब्रवीत् ॥ ३ ॥

कराल-दंष्ट्र उग्र-दृष्ट्या दुष्प्रेक्ष्य भ्रु-कुटी मुखः शूलम् उद्यम्य सदसि दानवान् इदम् अब्रवीत्

भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर ।
शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४ ॥
विप्रचित्ते मम वच: पुलोमन् शकुनादय: ।
श‍ृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥ ५ ॥

भोः भोः दानव-दैतेयाः द्वि-मूर्धन् त्रि-अक्ष शम्बर शत-बाहो हयग्रीव नमुचे पाक इल्वल विप्रचित्ते मम वचः पुलोमन् शकुन आदयः शृणुत अनन्तरम् सर्वे क्रियताम् आशु मा चिरम्

सपत्नैर्घातित: क्षुद्रैर्भ्राता मे दयित: सुहृत् ।
पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनै: ॥ ६ ॥

सपत्नैः घातितः क्षुद्रैः भ्राता मे दयितः सुहृत् पार्ष्णि-ग्राहेण हरिणा समेन अपि उपधावनैः

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकस: ।
भजन्तं भजमानस्य बालस्येवास्थिरात्मन: ॥ ७ ॥
मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै ।
असृक्प्रियं तर्पयिष्ये भ्रातरं मे गतव्यथ: ॥ ८ ॥

तस्य त्यक्त-स्वभावस्य घृणेः माया वन-ओकसः भजन्तम् भजमानस्य बालस्य इव अस्थिर-आत्मनः मत् शूल भिन्न ग्रीवस्य भूरिणा रुधिरेण वै असृक्-प्रियम् तर्पयिष्ये भ्रातरम् मे गत-व्यथः

तस्मिन् कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ ।
विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकस: ॥ ९ ॥

तस्मिन् कूटे अहिते नष्टे कृत्त-मूले वनस्-पतौ विटपाः इव शुष्यन्ति विष्णु-प्राणाः दिव-ओकसः

तावद्यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् ।
सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानिन: ॥ १० ॥

तावत् यात भुवम् यूयम् ब्रह्म-क्षत्र समेधिताम् सूदयध्वम् तपः यज्ञ स्वाध्याय व्रत दानिनः

विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममय: पुमान् ।
देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥

विष्णुः द्विज क्रिया-मूलः यज्ञः धर्म-मयः पुमान् देव-ऋषि पितृ भूतानाम् धर्मस्य च परायणम्

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रिया: ।
तं तं जनपदं यात सन्दीपयत वृश्चत ॥ १२ ॥

यत्र यत्र द्विजाः गावः वेदाः वर्ण-आश्रम क्रियाः तम् तम् जन-पदम् यात सन्दीपयत वृश्चत

इति ते भर्तृनिर्देशमादाय शिरसाद‍ृता: ।
तथा प्रजानां कदनं विदधु: कदनप्रिया: ॥ १३ ॥

इति ते भर्तृ निर्देशम् आदाय शिरसा आदृताः तथा प्रजानाम् कदनम् विदधुः कदन-प्रियाः

पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् ।
खेटखर्वटघोषांश्च ददहु: पत्तनानि च ॥ १४ ॥

पुर ग्राम व्रज उद्यान क्षेत्र आराम आश्रम आकरान् खेट खर्वट घोषान् च ददहुः पत्तनानि च

केचित्खनित्रैर्बिभिदु: सेतुप्राकारगोपुरान् ।
आजीव्यांश्चिच्छिदुर्वृक्षान् केचित्परशुपाणय: ।
प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकै: ॥ १५ ॥

केचित् खनित्रैः बिभिदुः सेतु प्राकार गोपुरान् आजीव्यान् चिच्छिदुः वृक्षान् केचित् परशु-पाणयः प्रादहन् शरणानि एके प्रजानाम् ज्वलित उल्मुकैः

एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहु: ।
दिवं देवा: परित्यज्य भुवि चेरुरलक्षिता: ॥ १६ ॥

एवम् विप्रकृते लोके दैत्य-इन्द्र-अनुचरैः मुहुः दिवम् देवाः परित्यज्य भुवि चेरुः अलक्षिताः

हिरण्यकशिपुर्भ्रातु: सम्परेतस्य दु:खित: ।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥

हिरण्यकशिपुः भ्रातुः सम्परेतस्य दुःखितः कृत्वा कटोदक-आदीनि भ्रातृ-पुत्रान् असान्त्वयत्

शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् ।
कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥ १८ ॥
तन्मातरं रुषाभानुं दितिं च जननीं गिरा ।
श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९ ॥

शकुनिम् शम्बरम् धृष्टिम् भूतसन्तापनम् वृकम् कालनाभम् महानाभम् हरिश्मश्रुम् अथ उत्कचम् तत्-मातरम् रुषाभानुम् दितिम् च जननीम् गिरा श्लक्ष्णया देश-काल-ज्ञः इदम् आह जन-ईश्वर

श्रीहिरण्यकशिपुरुवाच
अम्बाम्ब हे वधू: पुत्रा वीरं मार्हथ शोचितुम् ।
रिपोरभिमुखे श्लाघ्य: शूराणां वध ईप्सित: ॥ २० ॥

श्री-हिरण्यकशिपुः उवाच अम्ब अम्ब हे वधूः पुत्राः वीरम् मा अर्हथ शोचितुम् रिपोः अभिमुखे श्लाघ्यः शूराणाम् वधः ईप्सितः

भूतानामिह संवास: प्रपायामिव सुव्रते ।
दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभि: ॥ २१ ॥

भूतानाम् इह संवासः प्रपायाम् इव सु-व्रते दैवेन एकत्र नीतानाम् उन्नीतानाम् स्व-कर्मभिः

नित्य आत्माव्यय: शुद्ध: सर्वग: सर्ववित्पर: ।
धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् ॥ २२ ॥

नित्यः आत्मा अव्ययः शुद्धः सर्व-गः सर्व-वित् परः धत्ते असौ आत्मनः लिङ्गम् मायया विसृजन् गुणान्

यथाम्भसा प्रचलता तरवोऽपि चला इव ।
चक्षुषा भ्राम्यमाणेन द‍ृश्यते चलतीव भू: ॥ २३ ॥

यथा अम्भसा प्रचलता तरवः अपि चलाः इव चक्षुषा भ्राम्यमाणेन दृश्यते चलती इव भूः

एवं गुणैर्भ्राम्यमाणे मनस्यविकल: पुमान् ।
याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥

एवम् गुणैः भ्राम्यमाणे मनसि अविकलः पुमान् याति तत्-साम्यताम् भद्रे हि अलिङ्गः लिङ्ग-वान् इव

एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना ।
एष प्रियाप्रियैर्योगो वियोग: कर्मसंसृति: ॥ २५ ॥
सम्भवश्च विनाशश्च शोकश्च विविध: स्मृत: ।
अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ २६ ॥

एषः आत्म-विपर्यासः हि अलिङ्गे लिङ्ग-भावना एषः प्रिय अप्रियैः योगः वियोगः कर्म संसृतिः सम्भवः च विनाशः च शोकः च विविधः स्मृतः अविवेकः च चिन्ता च विवेक अस्मृतिः एव च

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ २७ ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् यमस्य प्रेत-बन्धूनाम् संवादम् तम् निबोधत

उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुत: ।
सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ २८ ॥

उशीनरेषु अभूत् राजा सुयज्ञः इति विश्रुतः सपत्नैः निहतः युद्धे ज्ञातयः तम् उपासत

विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् ।
शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥ २९ ॥
प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ।
रज:कुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ ३० ॥
उशीनरेन्द्रं विधिना तथा कृतं
पतिं महिष्य: प्रसमीक्ष्य दु:खिता: ।
हता: स्म नाथेति करैरुरो भृशं
घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥ ३१ ॥

विशीर्ण रत्न कवचम् विभ्रष्ट आभरण स्रजम् शर-निर्भिन्न हृदयम् शयानम् असृक्-आविलम् प्रकीर्ण-केशम् ध्वस्त-अक्षम् रभसा दष्ट दच्छदम् रजः-कुण्ठ मुख-अम्भोजम् छिन्न आयुध-भुजम् मृधे उशीनर-इन्द्रम् विधिना तथा कृतम् पतिम् महिष्यः प्रसमीक्ष्य दुःखिताः हताः स्म नाथ इति करैः उरः भृशम् घ्नन्त्यः मुहुः तत्-पदयोः उपापतन्

रुदत्य उच्चैर्दयिताङ्‌घ्रिपङ्कजं
सिञ्चन्त्य अस्रै: कुचकुङ्कुमारुणै: ।
विस्रस्तकेशाभरणा: शुचं नृणां
सृजन्त्य आक्रन्दनया विलेपिरे ॥ ३२ ॥

रुदत्यः उच्चैः दयित अङ्घ्रि-पङ्कजम् सिञ्चन्त्यः अस्रैः कुच-कुङ्कुम-अरुणैः विस्रस्त केश आभरणाः शुचम् नृणाम् सृजन्त्यः आक्रन्दनया विलेपिरे

अहो विधात्राकरुणेन न: प्रभो
भवान् प्रणीतो द‍ृगगोचरां दशाम् ।
उशीनराणामसि वृत्तिद: पुरा
कृतोऽधुना येन शुचां विवर्धन: ॥ ३३ ॥

अहो विधात्रा अकरुणेन नः प्रभो भवान् प्रणीतः दृक् अगोचराम् दशाम् उशीनराणाम् असि वृत्ति-दः पुरा कृतः अधुना येन शुचाम् विवर्धनः

त्वया कृतज्ञेन वयं महीपते
कथं विना स्याम सुहृत्तमेन ते ।
तत्रानुयानं तव वीर पादयो:
शुश्रूषतीनां दिश यत्र यास्यसि ॥ ३४ ॥

त्वया कृतज्ञेन वयम् मही-पते कथम् विना स्याम सुहृत्-तमेन ते तत्र अनुयानम् तव वीर पादयोः शुश्रूषतीनाम् दिश यत्र यास्यसि

एवं विलपतीनां वै परिगृह्य मृतं पतिम् ।
अनिच्छतीनां निर्हारमर्कोऽस्तं सन्न्यवर्तत ॥ ३५ ॥

एवम् विलपतीनाम् वै परिगृह्य मृतम् पतिम् अनिच्छतीनाम् निर्हारम् अर्कः अस्तम् सन्न्यवर्तत

तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् ।
आह तान् बालको भूत्वा यम: स्वयमुपागत: ॥ ३६ ॥

तत्र ह प्रेत-बन्धूनाम् आश्रुत्य परिदेवितम् आह तान् बालकः भूत्वा यमः स्वयम् उपागतः

श्रीयम उवाच
अहो अमीषां वयसाधिकानां
विपश्यतां लोकविधिं विमोह: ।
यत्रागतस्तत्र गतं मनुष्यं
स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ ३७ ॥

श्री-यमः उवाच अहो अमीषाम् वयसा अधिकानाम् विपश्यताम् लोक-विधिम् विमोहः यत्र आगतः तत्र गतम् मनुष्यम् स्वयम् स-धर्माः अपि शोचन्ति अपार्थम्

अहो वयं धन्यतमा यदत्र
त्यक्ता: पितृभ्यां न विचिन्तयाम: ।
अभक्ष्यमाणा अबला वृकादिभि:
स रक्षिता रक्षति यो हि गर्भे ॥ ३८ ॥

अहो वयम् धन्य-तमाः यत् अत्र त्यक्ताः पितृभ्याम् न विचिन्तयामः अभक्ष्यमाणाः अबलाः वृक-आदिभिः सः रक्षिता रक्षति यः हि गर्भे

य इच्छयेश: सृजतीदमव्ययो
य एव रक्षत्यवलुम्पते च य: ।
तस्याबला: क्रीडनमाहुरीशितु-
श्चराचरं निग्रहसङ्ग्रहे प्रभु: ॥ ३९ ॥

यः इच्छया ईशः सृजति इदम् अव्ययः यः एव रक्षति अवलुम्पते च यः तस्य अबलाः क्रीडनम् आहुः ईशितुः चर-अचरम् निग्रह सङ्ग्रहे प्रभुः

पथि च्युतं तिष्ठति दिष्टरक्षितं
गृहे स्थितं तद्विहतं विनश्यति ।
जीवत्यनाथोऽपि तदीक्षितो वने
गृहेऽभिगुप्तोऽस्य हतो न जीवति ॥ ४० ॥

पथि च्युतम् तिष्ठति दिष्ट-रक्षितम् गृहे स्थितम् तत्-विहतम् विनश्यति जीवति अनाथः अपि तत्-ईक्षितः वने गृहे अभिगुप्तः अस्य हतः न जीवति

भूतानि तैस्तैर्निजयोनिकर्मभि-
र्भवन्ति काले न भवन्ति सर्वश: ।
न तत्र हात्मा प्रकृतावपि स्थित-
स्तस्या गुणैरन्यतमो हि बध्यते ॥ ४१ ॥

भूतानि तैः तैः निज-योनि कर्मभिः भवन्ति काले न भवन्ति सर्वशः न तत्र ह आत्मा प्रकृतौ अपि स्थितः तस्याः गुणैः अन्य-तमः हि बध्यते

इदं शरीरं पुरुषस्य मोहजं
यथा पृथग्भौतिकमीयते गृहम् ।
यथौदकै: पार्थिवतैजसैर्जन:
कालेन जातो विकृतो विनश्यति ॥ ४२ ॥

इदम् शरीरम् पुरुषस्य मोह-जम् यथा पृथक् भौतिकम् ईयते गृहम् यथा उदकैः पार्थिव तैजसैः जनः कालेन जातः विकृतः विनश्यति

यथानलो दारुषु भिन्न ईयते
यथानिलो देहगत: पृथक् स्थित: ।
यथा नभ: सर्वगतं न सज्जते
तथा पुमान् सर्वगुणाश्रय: पर: ॥ ४३ ॥

यथा अनलः दारुषु भिन्नः ईयते यथा अनिलः देह-गतः पृथक् स्थितः यथा नभः सर्व-गतम् न सज्जते तथा पुमान् सर्व-गुण-आश्रयः परः

सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ।
य: श्रोता योऽनुवक्तेह स न द‍ृश्येत कर्हिचित् ॥ ४४ ॥

सुयज्ञः ननु अयम् शेते मूढाः यम् अनुशोचथ यः श्रोता यः अनुवक्ता इह सः न दृश्येत कर्हिचित्

न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसु: ।
यस्त्विहेन्द्रियवानात्मा स चान्य: प्राणदेहयो: ॥ ४५ ॥

न श्रोता न अनुवक्ता अयम् मुख्यः अपि अत्र महान् असुः यः तु इह इन्द्रिय-वान् आत्मा सः च अन्यः प्राण-देहयोः

भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभु: ।
भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥

भूत इन्द्रिय मनः लिङ्गान् देहान् उच्च-अवचान् विभुः भजति उत्सृजति हि अन्यः तत् च अपि स्वेन तेजसा

यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्मनिबन्धनम् ।
ततो विपर्यय: क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥

यावत् लिङ्ग-अन्वितः हि आत्मा तावत् कर्म निबन्धनम् ततः विपर्ययः क्लेशः माया-योगः अनुवर्तते

वितथाभिनिवेशोऽयं यद्गुणेष्वर्थद‍ृग्वच: ।
यथा मनोरथ: स्वप्न: सर्वमैन्द्रियकं मृषा ॥ ४८ ॥

वितथ अभिनिवेशः अयम् यत् गुणेषु अर्थ दृक्-वचः यथा मनोरथः स्वप्नः सर्वम् ऐन्द्रियकम् मृषा

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विद: ।
नान्यथा शक्यते कर्तुं स्वभाव: शोचतामिति ॥ ४९ ॥

अथ नित्यम् अनित्यम् वा न इह शोचन्ति तत्-विदः न अन्यथा शक्यते कर्तुम् स्व-भावः शोचताम् इति

लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तक: ।
वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ ५० ॥

लुब्धकः विपिने कश्चित् पक्षिणाम् निर्मितः अन्तकः वितत्य जालम् विदधे तत्र तत्र प्रलोभयन्

कुलिङ्गमिथुनं तत्र विचरत्समद‍ृश्यत ।
तयो: कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ ५१ ॥

कुलिङ्ग-मिथुनम् तत्र विचरत् समदृश्यत तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता

सासज्जत सिचस्तन्‍त्र्यां महिष्य: कालयन्त्रिता ।
कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदु:खित: ।
स्‍नेहादकल्प: कृपण: कृपणां पर्यदेवयत् ॥ ५२ ॥

सा असज्जत सिचः तन्त्र्याम् महिष्यः काल-यन्त्रिता कुलिङ्गः ताम् तथा आपन्नाम् निरीक्ष्य भृश-दुःखितः स्नेहात् अकल्पः कृपणः कृपणाम् पर्यदेवयत्

अहो अकरुणो देव: स्त्रियाकरुणया विभु: ।
कृपणं मामनुशोचन्त्या दीनया किं करिष्यति ॥ ५३ ॥

अहो अकरुणः देवः स्त्रिया आकरुणया विभुः कृपणम् माम् अनुशोचन्त्या दीनया किम् करिष्यति

कामं नयतु मां देव: किमर्धेनात्मनो हि मे ।
दीनेन जीवता दु:खमनेन विधुरायुषा ॥ ५४ ॥

कामम् नयतु माम् देवः किम् अर्धेन आत्मनः हि मे दीनेन जीवता दुःखम् अनेन विधुर-आयुषा

कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् ।
मन्दभाग्या: प्रतीक्षन्ते नीडे मे मातरं प्रजा: ॥ ५५ ॥

कथम् तु अजात-पक्षान् तान् मातृ-हीनान् बिभर्मि अहम् मन्द-भाग्याः प्रतीक्षन्ते नीडे मे मातरम् प्रजाः

एवं कुलिङ्गं विलपन्तमारात्
प्रियावियोगातुरमश्रुकण्ठम् ।
स एव तं शाकुनिक: शरेण
विव्याध कालप्रहितो विलीन: ॥ ५६ ॥

एवम् कुलिङ्गम् विलपन्तम् आरात् प्रिया-वियोग आतुरम् अश्रु-कण्ठम् सः एव तम् शाकुनिकः शरेण विव्याध काल-प्रहितः विलीनः

एवं यूयमपश्यन्त्य आत्मापायमबुद्धय: ।
नैनं प्राप्स्यथ शोचन्त्य: पतिं वर्षशतैरपि ॥ ५७ ॥

एवम् यूयम् अपश्यन्त्यः आत्म-अपायम् अबुद्धयः न एनम् प्राप्स्यथ शोचन्त्यः पतिम् वर्ष-शतैः अपि

श्रीहिरण्यकशिपुरुवाच
बाल एवं प्रवदति सर्वे विस्मितचेतस: ।
ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ ५८ ॥

श्री-हिरण्यकशिपुः उवाच बाले एवम् प्रवदति सर्वे विस्मित चेतसः ज्ञातयः मेनिरे सर्वम् अनित्यम् अयथा-उत्थितम्

यम एतदुपाख्याय तत्रैवान्तरधीयत ।
ज्ञातयोऽहि सुयज्ञस्य चक्रुर्यत्साम्परायिकम् ॥ ५९ ॥

यमः एतत् उपाख्याय तत्र एव अन्तरधीयत ज्ञातयः हि सुयज्ञस्य चक्रुः यत् साम्परायिकम्

अत: शोचत मा यूयं परं चात्मानमेव वा ।
क आत्मा क: परो वात्र स्वीय: पारक्य एव वा ।
स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ ६० ॥

अतः शोचत मा यूयम् परम् च आत्मानम् एव वा कः आत्मा कः परः वा अत्र स्वीयः पारक्यः एव वा स्व-पर-अभिनिवेशेन विना अज्ञानेन देहिनाम्

श्रीनारद उवाच
इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्‍नुषा ।
पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत् ॥ ६१ ॥

श्री-नारदः उवाच इति दैत्य-पतेः वाक्यम् दितिः आकर्ण्य स-स्नुषा पुत्र-शोकम् क्षणात् त्यक्त्वा तत्त्वे चित्तम् अधारयत्

७.३

श्रीनारद उवाच
हिरण्यकशिपू राजन्नजेयमजरामरम् ।
आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ १ ॥

श्री-नारदः उवाच हिरण्यकशिपुः राजन् अजेयम् अजर अमरम् आत्मानम् अप्रतिद्वन्द्वम् एक-राजम् व्यधित्सत

स तेपे मन्दरद्रोण्यां तप: परमदारुणम् ।
ऊर्ध्वबाहुर्नभोद‍ृष्टि: पादाङ्गुष्ठाश्रितावनि: ॥ २ ॥

सः तेपे मन्दर-द्रोण्याम् तपः परम दारुणम् ऊर्ध्व बाहुः नभः दृष्टिः पाद-अङ्गुष्ठ आश्रित अवनिः

जटादीधितिभी रेजे संवर्तार्क इवांशुभि: ।
तस्मिंस्तपस्तप्यमाने देवा: स्थानानि भेजिरे ॥ ३ ॥

जटा-दीधितिभिः रेजे संवर्त-अर्कः इव अंशुभिः तस्मिन् तपः तप्यमाने देवाः स्थानानि भेजिरे

तस्य मूर्ध्न: समुद्भ‍ूत: सधूमोऽग्निस्तपोमय: ।
तीर्यगूर्ध्वमधोलोकान् प्रातपद्विष्वगीरित: ॥ ४ ॥

तस्य मूर्ध्नः समुद्भूतः स-धूमः अग्निः तपः-मयः तीर्यक् ऊर्ध्वम् अधः लोकान् प्रातपत् विष्वक् ईरितः

चुक्षुभुर्नद्युदन्वन्त: सद्वीपाद्रिश्चचाल भू: ।
निपेतु: सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ५ ॥

चुक्षुभुः नदी-उदन्वन्तः स-द्वीप अद्रिः चचाल भूः निपेतुः स-ग्रहाः ताराः जज्वलुः च दिशः दश

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययु: सुरा: ।
धात्रे विज्ञापयामासुर्देवदेव जगत्पते ।
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुम: ॥ ६ ॥

तेन तप्ताः दिवम् त्यक्त्वा ब्रह्म-लोकम् ययुः सुराः धात्रे विज्ञापयाम् आसुः देव-देव जगत्-पते दैत्य-इन्द्र-तपसा तप्ताः दिवि स्थातुम् न शक्नुमः

तस्य चोपशमं भूमन् विधेहि यदि मन्यसे ।
लोका न यावन्नङ्‌‌क्ष्यन्ति बलिहारास्तवाभिभू: ॥ ७ ॥

तस्य च उपशमम् भूमन् विधेहि यदि मन्यसे लोकाः न यावत् नङ्क्ष्यन्ति बलि-हाराः तव अभिभूः

तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तप: ।
श्रूयतां किं न विदितस्तवाथापि निवेदितम् ॥ ८ ॥

तस्य अयम् किल सङ्कल्पः चरतः दुश्चरम् तपः श्रूयताम् किम् न विदितः तव अथापि निवेदितम्

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ।
अध्यास्ते सर्वधिष्ण्येभ्य: परमेष्ठी निजासनम् ॥ ९ ॥
तदहं वर्धमानेन तपोयोगसमाधिना ।
कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मन: ॥ १० ॥

सृष्ट्वा चर अचरम् इदम् तपः योग समाधिना अध्यास्ते सर्व-धिष्ण्येभ्यः परमेष्ठी निज-आसनम् तत् अहम् वर्धमानेन तपः योग समाधिना काल आत्मनोः च नित्यत्वात् साधयिष्ये तथा आत्मनः

अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा ।
किमन्यै: कालनिर्धूतै: कल्पान्ते वैष्णवादिभि: ॥ ११ ॥

अन्यथा इदम् विधास्ये अहम् अयथा पूर्वम् ओजसा किम् अन्यैः काल-निर्धूतैः कल्प-अन्ते वैष्णव-आदिभिः

इति शुश्रुम निर्बन्धं तप: परममास्थित: ।
विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ १२ ॥

इति शुश्रुम निर्बन्धम् तपः परमम् आस्थितः विधत्स्व अनन्तरम् युक्तम् स्वयम् त्रि-भुवन-ईश्वर

तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते ।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥

तव आसनम् द्विज गवाम् पारमेष्ठ्यम् जगत्-पते भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप ।
परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४ ॥

इति विज्ञापितः देवैः भगवान् आत्म-भूः नृप परितः भृगु दक्ष आद्यैः ययौ दैत्य-ईश्वर आश्रमम्

न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकै: ।
पिपीलिकाभिराचीर्णं मेदस्त्वङ्‌मांसशोणितम् ॥ १५ ॥
तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् ।
विलक्ष्य विस्मित: प्राह हसंस्तं हंसवाहन: ॥ १६ ॥

न ददर्श प्रतिच्छन्नम् वल्मीक तृण कीचकैः पिपीलिकाभिः आचीर्णम् मेदः त्वक् मांस शोणितम् तपन्तम् तपसा लोकान् यथा अभ्र अपिहितम् रविम् विलक्ष्य विस्मितः प्राह हसन् तम् हंस-वाहनः

श्रीब्रह्मोवाच
उत्तिष्ठोत्तिष्ठ भद्रं ते तप:सिद्धोऽसि काश्यप ।
वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वर: ॥ १७ ॥

श्री-ब्रह्मा उवाच उत्तिष्ठ उत्तिष्ठ भद्रम् ते तपः-सिद्धः असि काश्यप वर-दः अहम् अनुप्राप्तः व्रियताम् ईप्सितः वरः

अद्राक्षमहमेतं ते हृत्सारं महदद्भ‍ुतम् ।
दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ १८ ॥

अद्राक्षम् अहम् एतम् ते हृत्-सारम् महत् अद्भुतम् दंश-भक्षित देहस्य प्राणाः हि अस्थिषु शेरते

नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे ।
निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमा: शतम् ॥ १९ ॥

न एतत् पूर्व-ऋषयः चक्रुः न करिष्यन्ति च अपरे निरम्बुः धारयेत् प्राणान् कः वै दिव्य-समाः शतम्

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् ।
तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥

व्यवसायेन ते अनेन दुष्करेण मनस्विनाम् तपः-निष्ठेन भवता जितः अहम् दिति-नन्दन

ततस्त आशिष: सर्वा ददाम्यसुरपुङ्गव ।
मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम ॥ २१ ॥

ततः ते आशिषः सर्वाः ददामि असुर-पुङ्गव मर्तस्य ते हि अमर्तस्य दर्शनम् न अफलम् मम

श्रीनारद उवाच
इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकै: ।
कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ २२ ॥

श्री-नारदः उवाच इति उक्त्वा आदि-भवः देवः भक्षित-अङ्गम् पिपीलिकैः कमण्डलु जलेन औक्षत् दिव्येन अमोघ राधसा

स तत्कीचकवल्मीकात् सहओजोबलान्वित: ।
सर्वावयवसम्पन्नो वज्रसंहननो युवा ।
उत्थितस्तप्तहेमाभो विभावसुरिवैधस: ॥ २३ ॥

सः तत् कीचक-वल्मीकात् सहः ओजः बल अन्वितः सर्व अवयव सम्पन्नः वज्र-संहननः युवा उत्थितः तप्त-हेम-आभः विभावसुः इव एधसः

स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् ।
ननाम शिरसा भूमौ तद्दर्शनमहोत्सव: ॥ २४ ॥

सः निरीक्ष्य अम्बरे देवम् हंस-वाहम् उपस्थितम् ननाम शिरसा भूमौ तत्-दर्शन महा-उत्सवः

उत्थाय प्राञ्जलि: प्रह्व ईक्षमाणो द‍ृशा विभुम् ।
हर्षाश्रुपुलकोद्भ‍ेदो गिरा गद्गदयागृणात् ॥ २५ ॥

उत्थाय प्राञ्जलिः प्रह्वः ईक्षमाणः दृशा विभुम् हर्ष अश्रु पुलक उद्भेदः गिरा गद्गदया अगृणात्

श्रीहिरण्यकशिपुरुवाच
कल्पान्ते कालसृष्टेन योऽन्धेन तमसावृतम् ।
अभिव्यनग्जगदिदं स्वयञ्‍ज्योति: स्वरोचिषा ॥ २६ ॥
आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।
रज:सत्त्वतमोधाम्ने पराय महते नम: ॥ २७ ॥

श्री-हिरण्यकशिपुः उवाच कल्प-अन्ते काल-सृष्टेन यः अन्धेन तमसा आवृतम् अभिव्यनक् जगत् इदम् स्वयम्-ज्योतिः स्व-रोचिषा आत्मना त्रि-वृता च इदम् सृजति अवति लुम्पति रजः सत्त्व तमः धाम्ने पराय महते नमः

नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये ।
प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥ २८ ॥

नमः आद्याय बीजाय ज्ञान विज्ञान मूर्तये प्राण इन्द्रिय मनः बुद्धि विकारैः व्यक्तिम् ईयुषे

त्वमीशिषे जगतस्तस्थुषश्च
प्राणेन मुख्येन पति: प्रजानाम् ।
चित्तस्य चित्तैर्मनइन्द्रियाणां
पतिर्महान् भूतगुणाशयेश: ॥ २९ ॥

त्वम् ईशिषे जगतः तस्थुषः च प्राणेन मुख्येन पतिः प्रजानाम् चित्तस्य चित्तैः मनः इन्द्रियाणाम् पतिः महान् भूत गुण आशय ईशः

त्वं सप्ततन्तून् वितनोषि तन्वा
त्रय्या चतुर्होत्रकविद्यया च ।
त्वमेक आत्मात्मवतामनादि-
रनन्तपार: कविरन्तरात्मा ॥ ३० ॥

त्वम् सप्त-तन्तून् वितनोषि तन्वा त्रय्या चतुः-होत्रक विद्यया च त्वम् एकः आत्मा आत्म-वताम् अनादिः अनन्त-पारः कविः अन्तः-आत्मा

त्वमेव कालोऽनिमिषो जनाना-
मायुर्लवाद्यवयवै: क्षिणोषि ।
कूटस्थ आत्मा परमेष्ठ्यजो महां-
स्त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥

त्वम् एव कालः अनिमिषः जनानाम् आयुः लव-आदि अवयवैः क्षिणोषि कूट-स्थः आत्मा परमेष्ठी अजः महान् त्वम् जीव-लोकस्य च जीवः आत्मा

त्वत्त: परं नापरमप्यनेज-
देजच्च किञ्चिद्‌‌व्यतिरिक्तमस्ति ।
विद्या: कलास्ते तनवश्च सर्वा
हिरण्यगर्भोऽसि बृहत्‍त्रिपृष्ठ: ॥ ३२ ॥

त्वत्तः परम् न अपरम् अपि अनेजत् एजत् च किञ्चित् व्यतिरिक्तम् अस्ति विद्याः कलाः ते तनवः च सर्वाः हिरण्य-गर्भः असि बृहत् त्रि-पृष्ठः

व्यक्तं विभो स्थूलमिदं शरीरं
येनेन्द्रियप्राणमनोगुणांस्त्वम् ।
भुङ्‌क्षे स्थितो धामनि पारमेष्ठ्ये
अव्यक्त आत्मा पुरुष: पुराण: ॥ ३३ ॥

व्यक्तम् विभो स्थूलम् इदम् शरीरम् येन इन्द्रिय प्राण मनः गुणान् त्वम् भुङ्क्षे स्थितः धामनि पारमेष्ठ्ये अव्यक्तः आत्मा पुरुषः पुराणः

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् ।
चिदचिच्छक्तियुक्ताय तस्मै भगवते नम: ॥ ३४ ॥

अनन्त-अव्यक्त-रूपेण येन इदम् अखिलम् ततम् चित् अचित् शक्ति युक्ताय तस्मै भगवते नमः

यदि दास्यस्यभिमतान् वरान्मे वरदोत्तम ।
भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥ ३५ ॥

यदि दास्यसि अभिमतान् वरान् मे वरद-उत्तम भूतेभ्यः त्वत् विसृष्टेभ्यः मृत्युः मा भूत् मम प्रभो

नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधै: ।
न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥

न अन्तः बहिः दिवा नक्तम् अन्यस्मात् अपि च अयुधैः न भूमौ न अम्बरे मृत्युः न नरैः न मृगैः अपि

व्यसुभिर्वासुमद्भ‍िर्वा सुरासुरमहोरगै: ।
अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ ३७ ॥
सर्वेषां लोकपालानां महिमानं यथात्मन: ।
तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥ ३८ ॥

व्यसुभिः वा असुमद्भिः वा सुर असुर महा-उरगैः अप्रतिद्वन्द्वताम् युद्धे ऐक-पत्यम् च देहिनाम् सर्वेषाम् लोक-पालानाम् महिमानम् यथा आत्मनः तपः-योग-प्रभावाणाम् यत् न रिष्यति कर्हिचित्

७.४

श्रीनारद उवाच
एवं वृत: शतधृतिर्हिरण्यकशिपोरथ ।
प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ १ ॥

श्री-नारदः उवाच एवम् वृतः शत-धृतिः हिरण्यकशिपोः अथ प्रादात् तत् तपसा प्रीतः वरान् तस्य सु-दुर्लभान्

श्रीब्रह्मोवाच
तातेमे दुर्लभा: पुंसां यान् वृणीषे वरान् मम ।
तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ २ ॥

श्री-ब्रह्मा उवाच तात इमे दुर्लभाः पुंसाम् यान् वृणीषे वरान् मम तथापि वितरामि अङ्ग वरान् यद्यपि दुर्लभान्

ततो जगाम भगवानमोघानुग्रहो विभु: ।
पूजितोऽसुरवर्येण स्तूयमान: प्रजेश्वरै: ॥ ३ ॥

ततः जगाम भगवान् अमोघ अनुग्रहः विभुः पूजितः असुर-वर्येण स्तूयमानः प्रजा-ईश्वरैः

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपु: ।
भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥

एवम् लब्ध-वरः दैत्यः बिभ्रत् हेम-मयम् वपुः भगवति अकरोत् द्वेषम् भ्रातुः वधम् अनुस्मरन्

स विजित्य दिश: सर्वा लोकांश्च त्रीन् महासुर: ।
देवासुरमनुष्येन्द्रगन्धर्वगरुडोरगान् ॥ ५ ॥
सिद्धचारणविद्याध्रानृषीन् पितृपतीन्मनून् ।
यक्षरक्ष:पिशाचेशान् प्रेतभूतपतीनपि ॥ ६ ॥
सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित् ।
जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥

सः विजित्य दिशः सर्वाः लोकान् च त्रीन् महा-असुरः देव असुर मनुष्य इन्द्र गन्धर्व गरुड उरगान् सिद्ध चारण विद्याध्रान् ऋषीन् पितृ-पतीन् मनून् यक्ष रक्षः पिशाच-ईशान् प्रेत भूत पतीन् अपि सर्व-सत्त्व-पतीन् जित्वा वशम् आनीय विश्व-जित् जहार लोक-पालानाम् स्थानानि सह तेजसा

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् ।
महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ।
त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ ८ ॥

देव-उद्यान श्रिया जुष्टम् अध्यास्ते स्म त्रि-पिष्टपम् महेन्द्र-भवनम् साक्षात् निर्मितम् विश्वकर्मणा त्रैलोक्य लक्ष्मी-आयतनम् अध्युवास अखिल-ऋद्धि-मत्

यत्र विद्रुमसोपाना महामारकता भुव: ।
यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तय: ॥ ९ ॥
यत्र चित्रवितानानि पद्मरागासनानि च ।
पय:फेननिभा: शय्या मुक्तादामपरिच्छदा: ॥ १० ॥
कूजद्भ‍िर्नूपुरैर्देव्य: शब्दयन्त्य इतस्तत: ।
रत्नस्थलीषु पश्यन्ति सुदती: सुन्दरं मुखम् ॥ ११ ॥
तस्मिन्महेन्द्रभवने महाबलो
महामना निर्जितलोक एकराट् ।
रेमेऽभिवन्द्याङ्‌घ्रियुग: सुरादिभि:
प्रतापितैरूर्जितचण्डशासन: ॥ १२ ॥

यत्र विद्रुम-सोपानाः महा-मारकताः भुवः यत्र स्फाटिक कुड्यानि वैदूर्य स्तम्भ पङ्क्तयः यत्र चित्र वितानानि पद्मराग आसनानि च पयः फेन निभाः शय्याः मुक्तादाम परिच्छदाः कूजद्भिः नूपुरैः देव्यः शब्द-यन्त्यः इतः ततः रत्न-स्थलीषु पश्यन्ति सु-दतीः सुन्दरम् मुखम् तस्मिन् महेन्द्र-भवने महा-बलः महा-मनाः निर्जित-लोकः एक-राट् रेमे अभिवन्द्य अङ्घ्रि-युगः सुर-आदिभिः प्रतापितैः ऊर्जित चण्ड शासनः

तमङ्ग मत्तं मधुनोरुगन्धिना
विवृत्तताम्राक्षमशेषधिष्ण्यपा: ।
उपासतोपायनपाणिभिर्विना
त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥

तम् अङ्ग मत्तम् मधुना उरु-गन्धिना विवृत्त ताम्र-अक्षम् अशेष-धिष्ण्य-पाः उपासत उपायन पाणिभिः विना त्रिभिः तपः योग बल ओजसाम् पदम्

जगुर्महेन्द्रासनमोजसा स्थितं
विश्वावसुस्तुम्बुरुरस्मदादय: ।
गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहु-
र्विद्याधराश्चाप्सरसश्च पाण्डव ॥ १४ ॥

जगुः महेन्द्र-आसनम् ओजसा स्थितम् विश्वावसुः तुम्बुरुः अस्मत्-आदयः गन्धर्व सिद्धाः ऋषयः अस्तुवन् मुहुः विद्याधराः च अप्सरसः च पाण्डव

स एव वर्णाश्रमिभि: क्रतुभिर्भूरिदक्षिणै: ।
इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा ॥ १५ ॥

सः एव वर्ण-आश्रमिभिः क्रतुभिः भूरि दक्षिणैः इज्यमानः हविः-भागान् अग्रहीत् स्वेन तेजसा

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही ।
तथा कामदुघा गावो नानाश्चर्यपदं नभ: ॥ १६ ॥

अकृष्ट-पच्या तस्य आसीत् सप्त-द्वीप-वती मही तथा काम-दुघाः गावः नाना आश्चर्य-पदम् नभः

रत्नाकराश्च रत्नौघांस्तत्पत्‍न्यश्चोहुरूर्मिभि: ।
क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदका: ॥ १७ ॥

रत्नाकराः च रत्न-ओघान् तत्-पत्न्यः च ऊहुः ऊर्मिभिः क्षार सीधु घृत क्षौद्र दधि क्षीर अमृत उदकाः

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमा: ।
दधार लोकपालानामेक एव पृथग्गुणान् ॥ १८ ॥

शैलाः द्रोणीभिः आक्रीडम् सर्व ऋतुषु गुणान् द्रुमाः दधार लोक-पालानाम् एकः एव पृथक् गुणान्

स इत्थं निर्जितककुबेकराड् विषयान् प्रियान् ।
यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रिय: ॥ १९ ॥

सः इत्थम् निर्जित ककुब् एक-राट् विषयान् प्रियान् यथा-उपजोषम् भुञ्जानः न अतृप्यत् अजित-इन्द्रियः

एवमैश्वर्यमत्तस्य द‍ृप्तस्योच्छास्त्रवर्तिन: ।
कालो महान् व्यतीयाय ब्रह्मशापमुपेयुष: ॥ २० ॥

एवम् ऐश्वर्य-मत्तस्य दृप्तस्य उत्-शास्त्र-वर्तिनः कालः महान् व्यतीयाय ब्रह्म-शापम् उपेयुषः

तस्योग्रदण्डसंविग्ना: सर्वे लोका: सपालका: ।
अन्यत्रालब्धशरणा: शरणं ययुरच्युतम् ॥ २१ ॥

तस्य उग्र-दण्ड संविग्नाः सर्वे लोकाः स-पालकाः अन्यत्र अलब्ध शरणाः शरणम् ययुः अच्युतम्

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वर: ।
यद्गत्वा न निवर्तन्ते शान्ता: संन्यासिनोऽमला: ॥ २२ ॥
इति ते संयतात्मान: समाहितधियोऽमला: ।
उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजना: ॥ २३ ॥

तस्यै नमः अस्तु काष्ठायै यत्र आत्मा हरिः ईश्वरः यत् गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनः अमलाः इति ते संयत-आत्मानः समाहित धियः अमलाः उपतस्थुः हृषीकेशम् विनिद्राः वायु-भोजनाः

तेषामाविरभूद्वाणी अरूपा मेघनि:स्वना ।
सन्नादयन्ती ककुभ: साधूनामभयङ्करी ॥ २४ ॥

तेषाम् आविरभूत् वाणी अरूपा मेघ-निःस्वना सन्नादयन्ती ककुभः साधूनाम् अभयङ्करी

मा भैष्ट विबुधश्रेष्ठा: सर्वेषां भद्रमस्तु व: ।
मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥
ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् ।
तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥

मा भैष्ट विबुध-श्रेष्ठाः सर्वेषाम् भद्रम् अस्तु वः मत्-दर्शनम् हि भूतानाम् सर्व-श्रेय उपपत्तये ज्ञातम् एतस्य दौरात्म्यम् दैतेय-अपसदस्य यत् तस्य शान्तिम् करिष्यामि कालम् तावत् प्रतीक्षत

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।
धर्मे मयि च विद्वेष: स वा आशु विनश्यति ॥ २७ ॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु धर्मे मयि च विद्वेषः सः वै आशु विनश्यति

निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।
प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २८ ॥

निर्वैराय प्रशान्ताय स्व-सुताय महा-आत्मने प्रह्रादाय यदा द्रुह्येत् हनिष्ये अपि वर-ऊर्जितम्

श्रीनारद उवाच
इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकस: ।
न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥

श्री-नारदः उवाच इति उक्ताः लोक-गुरुणा तम् प्रणम्य दिव-ओकसः न्यवर्तन्त गत-उद्वेगाः मेनिरे च असुरम् हतम्

तस्य दैत्यपते: पुत्राश्चत्वार: परमाद्भ‍ुता: ।
प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासक: ॥ ३० ॥

तस्य दैत्य-पतेः पुत्राः चत्वारः परम-अद्भुताः प्रह्रादः अभूत् महान् तेषाम् गुणैः महत्-उपासकः

ब्रह्मण्य: शीलसम्पन्न: सत्यसन्धो जितेन्द्रिय: ।
आत्मवत्सर्वभूतानामेकप्रियसुहृत्तम: ।
दासवत्सन्नतार्याङ्‌घ्रि: पितृवद्दीनवत्सल: ॥ ३१ ॥
भ्रातृवत्सद‍ृशे स्निग्धो गुरुष्वीश्वरभावन: ।
विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जित: ॥ ३२ ॥

ब्रह्मण्यः शील-सम्पन्नः सत्य-सन्धः जित-इन्द्रियः आत्म-वत् सर्व-भूतानाम् एक-प्रिय सुहृत्-तमः दास-वत् सन्नत आर्य-अङ्घ्रिः पितृ-वत् दीन-वत्सलः भ्रातृ-वत् सदृशे स्निग्धः गुरुषु ईश्वर-भावनः विद्या अर्थ रूप जन्म आढ्यः मान स्तम्भ विवर्जितः

नोद्विग्नचित्तो व्यसनेषु नि:स्पृह:
श्रुतेषु द‍ृष्टेषु गुणेष्ववस्तुद‍ृक् ।
दान्तेन्द्रियप्राणशरीरधी: सदा
प्रशान्तकामो रहितासुरोऽसुर: ॥ ३३ ॥

न उद्विग्न चित्तः व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेषु अवस्तु-दृक् दान्त इन्द्रिय प्राण शरीर धीः सदा प्रशान्त कामः रहित असुरः असुरः

यस्मिन्महद्गुणा राजन्गृह्यन्ते कविभिर्मुहु: ।
न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥

यस्मिन् महत्-गुणाः राजन् गृह्यन्ते कविभिः मुहुः न ते अधुना पिधीयन्ते यथा भगवति ईश्वरे

यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।
प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवाद‍ृशा: ॥ ३५ ॥

यम् साधु-गाथा-सदसि रिपवः अपि सुराः नृप प्रतिमानम् प्रकुर्वन्ति किम् उत अन्ये भवादृशाः

गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रति: ॥ ३६ ॥

गुणैः अलम् असङ्ख्येयैः माहात्म्यम् तस्य सूच्यते वासुदेवे भगवति यस्य नैसर्गिकी रतिः

न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ।
कृष्णग्रहगृहीतात्मा न वेद जगदीद‍ृशम् ॥ ३७ ॥

न्यस्त क्रीडनकः बालः जड-वत् तत्-मनस्तया कृष्ण-ग्रह गृहीत-आत्मा न वेद जगत् ईदृशम्

आसीन: पर्यटन्नश्नन् शयान: प्रपिबन् ब्रुवन् ।
नानुसन्धत्त एतानि गोविन्दपरिरम्भित: ॥ ३८ ॥

आसीनः पर्यटन् अश्नन् शयानः प्रपिबन् ब्रुवन् न अनुसन्धत्ते एतानि गोविन्द परिरम्भितः

क्‍वचिद्रुदति वैकुण्ठचिन्ताशबलचेतन: ।
क्‍वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्‍वचित् ॥ ३९ ॥

क्वचित् रुदति वैकुण्ठ-चिन्ता शबल-चेतनः क्वचित् हसति तत्-चिन्ता आह्लादः उद्गायति क्वचित्

नदति क्‍वचिदुत्कण्ठो विलज्जो नृत्यति क्‍वचित् ।
क्‍वचित्तद्भ‍ावनायुक्तस्तन्मयोऽनुचकार ह ॥ ४० ॥

नदति क्वचित् उत्कण्ठः विलज्जः नृत्यति क्वचित् क्वचित् तत्-भावना युक्तः तत्-मयः अनुचकार ह

क्‍वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृत: ।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षण: ॥ ४१ ॥

क्वचित् उत्पुलकः तूष्णीम् आस्ते संस्पर्श-निर्वृतः अस्पन्द प्रणय-आनन्द सलिल आमीलित ईक्षणः

स उत्तमश्लोकपदारविन्दयो-
र्निषेवयाकिञ्चनसङ्गलब्धया ।
तन्वन् परां निर्वृतिमात्मनो मुहु-
र्दु:सङ्गदीनस्य मन: शमं व्यधात् ॥ ४२ ॥

सः उत्तम-श्लोक-पद-अरविन्दयोः निषेवया अकिञ्चन सङ्ग लब्धया तन्वन् पराम् निर्वृतिम् आत्मनः मुहुः दुःसङ्ग-दीनस्य मनः शमम् व्यधात्

तस्मिन्महाभागवते महाभागे महात्मनि ।
हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ ४३ ॥

तस्मिन् महा-भागवते महा-भागे महा-आत्मनि हिरण्यकशिपुः राजन् अकरोत् अघम् आत्म-जे

श्रीयुधिष्ठिर उवाच
देवर्ष एतदिच्छामो वेदितुं तव सुव्रत ।
यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ ४४ ॥

श्री-युधिष्ठिरः उवाच देव-ऋषे एतत् इच्छामः वेदितुम् तव सु-व्रत यत् आत्म-जाय शुद्धाय पिता अदात् साधवे हि अघम्

पुत्रान् विप्रतिकूलान् स्वान् पितर: पुत्रवत्सला: ।
उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्र-वत्सलाः उपालभन्ते शिक्ष-अर्थम् न एव अघम् अपरः यथा

किमुतानुवशान् साधूंस्ताद‍ृशान् गुरुदेवतान् ।
एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो ।
पितु: पुत्राय यद्‌द्वेषो मरणाय प्रयोजित: ॥ ४६ ॥

किम् उत अनुवशान् साधून् तादृशान् गुरु-देवतान् एतत् कौतूहलम् ब्रह्मन् अस्माकम् विधम प्रभो पितुः पुत्राय यत् द्वेषः मरणाय प्रयोजितः

७.५

श्रीनारद उवाच
पौरोहित्याय भगवान्वृत: काव्य: किलासुरै: ।
षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ १ ॥

श्री-नारदः उवाच पौरोहित्याय भगवान् वृतः काव्यः किल असुरैः षण्ड-अमर्कौ सुतौ तस्य दैत्य-राज गृह-अन्तिके

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।
पाठयामासतु: पाठ्यानन्यांश्चासुरबालकान् ॥ २ ॥

तौ राज्ञा प्रापितम् बालम् प्रह्लादम् नय-कोविदम् पाठयाम् आसतुः पाठ्यान् अन्यान् च असुर-बालकान्

यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च ।
न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ ३ ॥

यत् तत्र गुरुणा प्रोक्तम् शुश्रुवे अनुपपाठ च न साधु मनसा मेने स्व पर असत्-ग्रह आश्रयम्

एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव ।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भ‍वान् ॥ ४ ॥

एकदा असुर-राट् पुत्रम् अङ्कम् आरोप्य पाण्डव पप्रच्छ कथ्यताम् वत्स मन्यते साधु यत् भवान्

श्रीप्रह्लाद उवाच
तत्साधु मन्येऽसुरवर्य देहिनां
सदा समुद्विग्नधियामसद्ग्रहात् ।
हित्वात्मपातं गृहमन्धकूपं
वनं गतो यद्धरिमाश्रयेत ॥ ५ ॥

श्री-प्रह्लादः उवाच तत् साधु मन्ये असुर-वर्य देहिनाम् सदा समुद्विग्न धियाम् असत्-ग्रहात् हित्वा आत्म-पातम् गृहम् अन्ध-कूपम् वनम् गतः यत् हरिम् आश्रयेत

श्रीनारद उवाच
श्रुत्वा पुत्रगिरो दैत्य: परपक्षसमाहिता: ।
जहास बुद्धिर्बालानां भिद्यते परबुद्धिभि: ॥ ६ ॥

श्री-नारदः उवाच श्रुत्वा पुत्र-गिरः दैत्यः पर-पक्ष समाहिताः जहास बुद्धिः बालानाम् भिद्यते पर-बुद्धिभिः

सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभि: ।
विष्णुपक्षै: प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७ ॥

सम्यक् विधार्यताम् बालः गुरु-गेहे द्वि-जातिभिः विष्णु-पक्षैः प्रतिच्छन्नैः न भिद्येत अस्य धीः यथा

गृहमानीतमाहूय प्रह्रादं दैत्ययाजका: ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभि: ॥ ८ ॥

गृहम् आनीतम् आहूय प्रह्रादम् दैत्य-याजकाः प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा ।
बालानति कुतस्तुभ्यमेष बुद्धिविपर्यय: ॥ ९ ॥

वत्स प्रह्राद भद्रम् ते सत्यम् कथय मा मृषा बालान् अति कुतः तुभ्यम् एषः बुद्धि विपर्ययः

बुद्धिभेद: परकृत उताहो ते स्वतोऽभवत् ।
भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ १० ॥

बुद्धि-भेदः पर-कृतः उताहो ते स्वतः अभवत् भण्यताम् श्रोतु-कामानाम् गुरूणाम् कुल-नन्दन

श्रीप्रह्राद उवाच
पर: स्वश्चेत्यसद्ग्राह: पुंसां यन्मायया कृत: ।
विमोहितधियां द‍ृष्टस्तस्मै भगवते नम: ॥ ११ ॥

श्री-प्रह्रादः उवाच परः स्वः च इति असत्-ग्राहः पुंसाम् यत् मायया कृतः विमोहित धियाम् दृष्टः तस्मै भगवते नमः

स यदानुव्रत: पुंसां पशुबुद्धिर्विभिद्यते ।
अन्य एष तथान्योऽहमिति भेदगतासती ॥ १२ ॥

सः यदा अनुव्रतः पुंसाम् पशु-बुद्धिः विभिद्यते अन्यः एषः तथा अन्यः अहम् इति भेद गत असती

स एष आत्मा स्वपरेत्यबुद्धिभि-
र्दुरत्ययानुक्रमणो निरूप्यते ।
मुह्यन्ति यद्वर्त्मनि वेदवादिनो
ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ १३ ॥

सः एषः आत्मा स्व-पर इति अबुद्धिभिः दुरत्यय अनुक्रमणः निरूप्यते मुह्यन्ति यत् वर्त्मनि वेद-वादिनः ब्रह्म-आदयः हि एषः भिनत्ति मे मतिम्

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।
तथा मे भिद्यते चेतश्चक्रपाणेर्यद‍ृच्छया ॥ १४ ॥

यथा भ्राम्यति अयः ब्रह्मन् स्वयम् आकर्ष सन्निधौ तथा मे भिद्यते चेतः चक्र-पाणेः यदृच्छया

श्रीनारद उवाच
एतावद्ब्राह्मणायोक्त्वा विरराम महामति: ।
तं सन्निभर्त्स्य कुपित: सुदीनो राजसेवक: ॥ १५ ॥

श्री-नारदः उवाच एतावत् ब्राह्मणाय उक्त्वा विरराम महा-मतिः तम् सन्निभर्त्स्य कुपितः सु-दीनः राज-सेवकः

आनीयतामरे वेत्रमस्माकमयशस्कर: ।
कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दम: ॥ १६ ॥

आनीयताम् अरे वेत्रम् अस्माकम् अयशस्करः कुल-अङ्गारस्य दुर्बुद्धेः चतुर्थः अस्य उदितः दमः

दैतेयचन्दनवने जातोऽयं कण्टकद्रुम: ।
यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भक: ॥ १७ ॥

दैतेय चन्दन-वने जातः अयम् कण्टक-द्रुमः यत् मूल उन्मूल परशोः विष्णोः नालायितः अर्भकः

इति तं विविधोपायैर्भीषयंस्तर्जनादिभि: ।
प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ १८ ॥

इति तम् विविध-उपायैः भीषयन् तर्जन-आदिभिः प्रह्रादम् ग्राहयाम् आस त्रि-वर्गस्य उपपादनम्

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।
दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्‌कृतम् ॥ १९ ॥

ततः एनम् गुरुः ज्ञात्वा ज्ञात ज्ञेय चतुष्टयम् दान

पादयो: पतितं बालं प्रतिनन्द्याशिषासुर: ।
परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ २० ॥

पादयोः पतितम् बालम् प्रतिनन्द्य आशिषा असुरः परिष्वज्य चिरम् दोर्भ्याम् परमाम् आप निर्वृतिम्

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभि: ।
आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ २१ ॥

आरोप्य अङ्कम् अवघ्राय मूर्धनि अश्रु कला-अम्बुभिः आसिञ्चन् विकसत्-वक्त्रम् इदम् आह युधिष्ठिर

हिरण्यकशिपुरुवाच
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् ।
कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् ॥ २२ ॥

हिरण्यकशिपुः उवाच प्रह्राद अनूच्यताम् तात स्वधीतम् किञ्चित् उत्तमम् कालेन एतावता आयुष्मन् यत् अशिक्षत् गुरोः भवान्

श्रीप्रह्राद उवाच
श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ २४ ॥

श्री-प्रह्रादः उवाच श्रवणम् कीर्तनम् विष्णोः स्मरणम् पाद-सेवनम् अर्चनम् वन्दनम् दास्यम् सख्यम् आत्म-निवेदनम् इति पुंसा अर्पिता विष्णौ भक्तिः चेत् नव-लक्षणा क्रियेत भगवति अद्धा तत् मन्ये अधीतम् उत्तमम्

निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा ।
गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधर: ॥ २५ ॥

निशम्य एतत् सुत-वचः हिरण्यकशिपुः तदा गुरु-पुत्रम् उवाच इदम् रुषा प्रस्फुरित अधरः

ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता ।
असारं ग्राहितो बालो मामनाद‍ृत्य दुर्मते ॥ २६ ॥

ब्रह्म-बन्धो किम् एतत् ते विपक्षम् श्रयता असता असारम् ग्राहितः बालः माम् अनादृत्य दुर्मते

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिण: ।
तेषामुदेत्यघं काले रोग: पातकिनामिव ॥ २७ ॥

सन्ति हि असाधवः लोके दुर्मैत्राः छद्म-वेषिणः तेषाम् उदेति अघम् काले रोगः पातकिनाम् इव

श्रीगुरुपुत्र उवाच
न मत्प्रणीतं न परप्रणीतं
सुतो वदत्येष तवेन्द्रशत्रो ।
नैसर्गिकीयं मतिरस्य राजन्
नियच्छ मन्युं कददा: स्म मा न: ॥ २८ ॥

श्री-गुरु-पुत्रः उवाच न मत्-प्रणीतम् न पर-प्रणीतम् सुतः वदति एषः तव इन्द्र-शत्रो नैसर्गिकी इयम् मतिः अस्य राजन् नियच्छ मन्युम् कद् अदाः स्म मा नः

श्रीनारद उवाच
गुरुणैवं प्रतिप्रोक्तो भूय आहासुर: सुतम् ।
न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मति: ॥ २९ ॥

श्री-नारदः उवाच गुरुणा एवम् प्रतिप्रोक्तः भूयः आह असुरः सुतम् न चेत् गुरु-मुखी इयम् ते कुतः अभद्र असती मतिः

श्रीप्रह्राद उवाच
मतिर्न कृष्णे परत: स्वतो वा
मिथोऽभिपद्येत गृहव्रतानाम् ।
अदान्तगोभिर्विशतां तमिस्रं
पुन: पुनश्चर्वितचर्वणानाम् ॥ ३० ॥

श्री-प्रह्रादः उवाच मतिः न कृष्णे परतः स्वतः वा मिथः अभिपद्येत गृह-व्रतानाम् अदान्त गोभिः विशताम् तमिस्रम् पुनः पुनः चर्वित चर्वणानाम्

न ते विदु: स्वार्थगतिं हि विष्णुं
दुराशया ये बहिरर्थमानिन: ।
अन्धा यथान्धैरुपनीयमाना-
स्तेऽपीशतन्‍त्र्यामुरुदाम्नि बद्धा: ॥ ३१ ॥

न ते विदुः स्व-अर्थ-गतिम् हि विष्णुम् दुराशयाः ये बहिः अर्थ-मानिनः अन्धाः यथा अन्धैः उपनीयमानाः ते अपि ईश-तन्त्र्याम् उरु दाम्नि बद्धाः

नैषां मतिस्तावदुरुक्रमाङ्‌घ्रिं
स्पृशत्यनर्थापगमो यदर्थ: ।
महीयसां पादरजोऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ ३२ ॥

न एषाम् मतिः तावत् उरुक्रम-अङ्घ्रिम् स्पृशति अनर्थ अपगमः यत् अर्थः महीयसाम् पाद-रजः अभिषेकम् निष्किञ्चनानाम् न वृणीत यावत्

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।
अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥ ३३ ॥

इति उक्त्वा उपरतम् पुत्रम् हिरण्यकशिपुः रुषा अन्धीकृत-आत्मा स्व-उत्सङ्गात् निरस्यत मही-तले

आहामर्षरुषाविष्ट: कषायीभूतलोचन: ।
वध्यतामाश्वयं वध्यो नि:सारयत नैर्ऋताः ॥ ३४ ॥

आह अमर्ष रुषा आविष्टः कषायी-भूत लोचनः वध्यताम् आशु अयम् वध्यः निःसारयत नैरृताः

अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधम: ।
पितृव्यहन्तु: पादौ यो विष्णोर्दासवदर्चति ॥ ३५ ॥

अयम् मे भ्रातृ-हा सः अयम् हित्वा स्वान् सुहृदः अधमः पितृव्य-हन्तुः पादौ यः विष्णोः दास-वत् अर्चति

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जस: ।
सौहृदं दुस्त्यजं पित्रोरहाद्य: पञ्चहायन: ॥ ३६ ॥

विष्णोः वा साधु असौ किम् नु करिष्यति असमञ्जसः सौहृदम् दुस्त्यजम् पित्रोः अहात् यः पञ्च-हायनः

परोऽप्यपत्यं हितकृद्यथौषधं
स्वदेहजोऽप्यामयवत्सुतोऽहित: ।
छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं
शेषं सुखं जीवति यद्विवर्जनात् ॥ ३७ ॥

परः अपि अपत्यम् हित-कृत् यथा औषधम् स्व-देह-जः अपि आमय-वत् सुतः अहितः छिन्द्यात् तत् अङ्गम् यत् उत आत्मनः अहितम् शेषम् सुखम् जीवति यत् विवर्जनात्

सर्वैरुपायैर्हन्तव्य: सम्भोजशयनासनै: ।
सुहृल्लिङ्गधर: शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ ३८ ॥

सर्वैः उपायैः हन्तव्यः सम्भोज शयन आसनैः सुहृत्-लिङ्ग-धरः शत्रुः मुनेः दुष्टम् इव इन्द्रियम्

नैऋर्तास्ते समादिष्टा भर्त्रा वै शूलपाणय: ।
तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहा: ॥ ३९ ॥
नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिन: ।
आसीनं चाहनञ्शूलै: प्रह्रादं सर्वमर्मसु ॥ ४० ॥

नैरृताः ते समादिष्टाः भर्त्रा वै शूल-पाणयः तिग्म दंष्ट्र कराल आस्याः ताम्र-श्मश्रु शिरोरुहाः नदन्तः भैरवम् नादम् छिन्धि भिन्धि इति वादिनः आसीनम् च अहनन् शूलैः प्रह्रादम् सर्व-मर्मसु

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि ।
युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रिया: ॥ ४१ ॥

परे ब्रह्मणि अनिर्देश्ये भगवति अखिल-आत्मनि युक्त-आत्मनि अफलाः आसन् अपुण्यस्य इव सत्-क्रियाः

प्रयासेऽपहते तस्मिन्दैत्येन्द्र: परिशङ्कित: ।
चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥ ४२ ॥

प्रयासे अपहते तस्मिन् दैत्य-इन्द्रः परिशङ्कितः चकार तत्-वध-उपायान् निर्बन्धेन युधिष्ठिर

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनै: ।
मायाभि: सन्निरोधैश्च गरदानैरभोजनै: ।
हिमवाय्वग्निसलिलै: पर्वताक्रमणैरपि ॥ ४३ ॥
न शशाक यदा हन्तुमपापमसुर: सुतम् ।
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ ४४ ॥

दिक्-गजैः दन्द-शूक-इन्द्रैः अभिचार अवपातनैः मायाभिः सन्निरोधैः च गर-दानैः अभोजनैः हिम वायु अग्नि सलिलैः पर्वत-आक्रमणैः अपि न शशाक यदा हन्तुम् अपापम् असुरः सुतम् चिन्ताम् दीर्घ-तमाम् प्राप्तः तत्-कर्तुम् न अभ्यपद्यत

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिता: ।
तैस्तैर्द्रोहैरसद्धर्मैर्मुक्त: स्वेनैव तेजसा ॥ ४५ ॥

एषः मे बहु असाधु-उक्तः वध-उपायाः च निर्मिताः तैः तैः द्रोहैः असत्-धर्मैः मुक्तः स्वेन एव तेजसा

वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् ।
न विस्मरति मेऽनार्यं शुन: शेप इव प्रभु: ॥ ४६ ॥

वर्तमानः अविदूरे वै बालः अपि अजड-धीः अयम् न विस्मरति मे अनार्यम् शुनः शेपः इव प्रभुः

अप्रमेयानुभावोऽयमकुतश्चिद्भ‍योऽमर: ।
नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ ४७ ॥

अप्रमेय अनुभावः अयम् अकुतश्चित्-भयः अमरः नूनम् एतत्-विरोधेन मृत्युः मे भविता न वा

इति तच्चिन्तया किञ्चिन्‍म्‍लानश्रियमधोमुखम् ।
षण्डामर्कावौशनसौ विविक्त इति होचतु: ॥ ४८ ॥

इति तत्-चिन्तया किञ्चित् म्लान श्रियम् अधः-मुखम् शण्ड-अमर्कौ औशनसौ विविक्ते इति ह ऊचतुः

जितं त्वयैकेन जगत्‍त्रयं भ्रुवोर्
विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ।
न तस्य चिन्त्यं तव नाथ चक्ष्वहे
न वै शिशूनां गुणदोषयो: पदम् ॥ ४९ ॥

जितम् त्वया एकेन जगत्-त्रयम् भ्रुवोः विजृम्भण त्रस्त समस्त धिष्ण्यपम् न तस्य चिन्त्यम् तव नाथ चक्ष्वहे न वै शिशूनाम् गुण-दोषयोः पदम्

इमं तु पाशैर्वरुणस्य बद्ध्वा
निधेहि भीतो न पलायते यथा ।
बुद्धिश्च पुंसो वयसार्यसेवया
यावद्गुरुर्भार्गव आगमिष्यति ॥ ५० ॥

इमम् तु पाशैः वरुणस्य बद्ध्वा निधेहि भीतः न पलायते यथा बुद्धिः च पुंसः वयसा आर्य सेवया यावत् गुरुः भार्गवः आगमिष्यति

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ।
धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ॥ ५१ ॥

तथा इति गुरु-पुत्र-उक्तम् अनुज्ञाय इदम् अब्रवीत् धर्मः हि अस्य उपदेष्टव्यः राज्ञाम् यः गृह-मेधिनाम्

धर्ममर्थं च कामं च नितरां चानुपूर्वश: ।
प्रह्रादायोचतू राजन्प्रश्रितावनताय च ॥ ५२ ॥

धर्मम् अर्थम् च कामम् च नितराम् च अनुपूर्वशः प्रह्रादाय ऊचतुः राजन् प्रश्रित अवनताय च

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् ।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ ५३ ॥

यथा त्रि-वर्गम् गुरुभिः आत्मने उपशिक्षितम् न साधु मेने तत्-शिक्षाम् द्वन्द्व-आराम उपवर्णिताम्

यदाचार्य: परावृत्तो गृहमेधीयकर्मसु ।
वयस्यैर्बालकैस्तत्र सोपहूत: कृतक्षणै: ॥ ५४ ॥

यदा आचार्यः परावृत्तः गृह-मेधीय कर्मसु वयस्यैः बालकैः तत्र सः अपहूतः कृत-क्षणैः

अथ ताञ्श्लक्ष्णया वाचा प्रत्याहूय महाबुध: ।
उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ ५५ ॥

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महा-बुधः उवाच विद्वान् तत्-निष्ठाम् कृपया प्रहसन् इव

ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदा: ।
बाला अदूषितधियो द्वन्द्वारामेरितेहितै: ॥ ५६ ॥
पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणा: ।
तानाह करुणो मैत्रो महाभागवतोऽसुर: ॥ ५७ ॥

ते तु तत्-गौरवात् सर्वे त्यक्त क्रीडा-परिच्छदाः बालाः अदूषित-धियः द्वन्द्व आराम ईरित ईहितैः पर्युपासत राज-इन्द्र तत् न्यस्त हृदय-ईक्षणाः तान् आह करुणः मैत्रः महा-भागवतः असुरः

७.६

श्रीप्रह्राद उवाच
कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह ।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥

श्री-प्रह्रादः उवाच कौमारः आचरेत् प्राज्ञः धर्मान् भागवतान् इह दुर्लभम् मानुषम् जन्म तत् अपि अध्रुवम् अर्थ-दम्

यथा हि पुरुषस्येह विष्णो: पादोपसर्पणम् ।
यदेष सर्वभूतानां प्रिय आत्मेश्वर: सुहृत् ॥ २ ॥

यथा हि पुरुषस्य इह विष्णोः पाद-उपसर्पणम् यत् एषः सर्व-भूतानाम् प्रियः आत्म-ईश्वरः सुहृत्

सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् ।
सर्वत्र लभ्यते दैवाद्यथा दु:खमयत्नत: ॥ ३ ॥

सुखम् ऐन्द्रियकम् दैत्याः देह-योगेन देहिनाम् सर्वत्र लभ्यते दैवात् यथा दुःखम् अयत्नतः

तत्प्रयासो न कर्तव्यो यत आयुर्व्यय: परम् ।
न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥

तत् प्रयासः न कर्तव्यः यतः आयुः-व्ययः परम् न तथा विन्दते क्षेमम् मुकुन्द चरण-अम्बुजम्

ततो यतेत कुशल: क्षेमाय भवमाश्रित: ।
शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥ ५ ॥

ततः यतेत कुशलः क्षेमाय भवम् आश्रितः शरीरम् पौरुषम् यावत् न विपद्येत पुष्कलम्

पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मन: ।
निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तम: ॥ ६ ॥

पुंसः वर्ष-शतम् हि आयुः तत् अर्धम् च अजित-आत्मनः निष्फलम् यत् असौ रात्र्याम् शेते अन्धम् प्रापितः तमः

मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशति: ।
जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशति: ॥ ७ ॥

मुग्धस्य बाल्ये कैशोरे क्रीडतः याति विंशतिः जरया ग्रस्त-देहस्य याति अकल्पस्य विंशतिः

दुरापूरेण कामेन मोहेन च बलीयसा ।
शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥

दुरापूरेण कामेन मोहेन च बलीयसा शेषम् गृहेषु सक्तस्य प्रमत्तस्य अपयाति हि

को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रिय: ।
स्‍नेहपाशैर्द‍ृढैर्बद्धमुत्सहेत विमोचितुम् ॥ ९ ॥

कः गृहेषु पुमान् सक्तम् आत्मानम् अजित-इन्द्रियः स्नेह-पाशैः दृढैः बद्धम् उत्सहेत विमोचितुम्

को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सित: ।
यं क्रीणात्यसुभि: प्रेष्ठैस्तस्कर: सेवको वणिक् ॥ १० ॥

कः नु अर्थ-तृष्णाम् विसृजेत् प्राणेभ्यः अपि यः ईप्सितः यम् क्रीणाति असुभिः प्रेष्ठैः तस्करः सेवकः वणिक्

कथं प्रियाया अनुकम्पिताया:
सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।
सुहृत्सु तत्स्‍नेहसित: शिशूनां
कलाक्षराणामनुरक्तचित्त: ॥ ११ ॥
पुत्रान्स्मरंस्ता दुहितृर्हृदय्या
भ्रातृन् स्वसृर्वा पितरौ च दीनौ ।
गृहान् मनोज्ञोरुपरिच्छदांश्च
वृत्तीश्च कुल्या: पशुभृत्यवर्गान् ॥ १२ ॥
त्यजेत कोशस्कृदिवेहमान:
कर्माणि लोभादवितृप्तकाम: ।
औपस्थ्यजैह्वं बहुमन्यमान:
कथं विरज्येत दुरन्तमोह: ॥ १३ ॥

कथम् प्रियायाः अनुकम्पितायाः सङ्गम् रहस्यम् रुचिरान् च मन्त्रान् सुहृत्सु तत्-स्नेह-सितः शिशूनाम् कल-अक्षराणाम् अनुरक्त-चित्तः पुत्रान् स्मरन् ताः दुहितॄः हृदय्याः भ्रातॄन् स्वसॄः वा पितरौ च दीनौ गृहान् मनोज्ञ उरु परिच्छदान् च वृत्तीः च कुल्याः पशु भृत्य वर्गान् त्यजेत कोशः-कृत् इव ईहमानः कर्माणि लोभात् अवितृप्त-कामः औपस्थ्य जैह्वम् बहु-मन्यमानः कथम् विरज्येत दुरन्त-मोहः

कुटुम्बपोषाय वियन्निजायु
र्न बुध्यतेऽर्थं विहतं प्रमत्त: ।
सर्वत्र तापत्रयदु:खितात्मा
निर्विद्यते न स्वकुटुम्बराम: ॥ १४ ॥

कुटुम्ब पोषाय वियत् निज-आयुः न बुध्यते अर्थम् विहतम् प्रमत्तः सर्वत्र ताप-त्रय दुःखित आत्मा निर्विद्यते न स्व-कुटुम्ब-रामः

वित्तेषु नित्याभिनिविष्टचेता
विद्वांश्च दोषं परवित्तहर्तु: ।
प्रेत्येह वाथाप्यजितेन्द्रियस्त-
दशान्तकामो हरते कुटुम्बी ॥ १५ ॥

वित्तेषु नित्य-अभिनिविष्ट-चेताः विद्वान् च दोषम् पर-वित्त-हर्तुः प्रेत्य इह वा अथापि अजित-इन्द्रियः तत् अशान्त-कामः हरते कुटुम्बी

विद्वानपीत्थं दनुजा: कुटुम्बं
पुष्णन्स्वलोकाय न कल्पते वै ।
य: स्वीयपारक्यविभिन्नभाव-
स्तम: प्रपद्येत यथा विमूढ: ॥ १६ ॥

विद्वान् अपि इत्थम् दनु-जाः कुटुम्बम् पुष्णन् स्व-लोकाय न कल्पते वै यः स्वीय पारक्य विभिन्न भावः तमः प्रपद्येत यथा विमूढः

यतो न कश्चित् क्व‍ च कुत्रचिद् वा
दीन: स्वमात्मानमलं समर्थ: ।
विमोचितुं कामद‍ृशां विहार-
क्रीडामृगो यन्निगडो विसर्ग: ॥ १७ ॥
ततो विदूरात् परिहृत्य दैत्या
दैत्येषु सङ्गं विषयात्मकेषु ।
उपेत नारायणमादिदेवं
स मुक्तसङ्गैरिषितोऽपवर्ग: ॥ १८ ॥

यतः न कश्चित् क्व च कुत्रचित् वा दीनः स्वम् आत्मानम् अलम् समर्थः विमोचितुम् काम-दृशाम् विहार क्रीडा-मृगः यत् निगडः विसर्गः ततः विदूरात् परिहृत्य दैत्याः दैत्येषु सङ्गम् विषय-आत्म-केषु उपेत नारायणम् आदि-देवम् सः मुक्त-सङ्गैः इषितः अपवर्गः

न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजा: ।
आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वत: ॥ १९ ॥

न हि अच्युतम् प्रीणयतः बहु आयासः असुर-आत्म-जाः आत्मत्वात् सर्व-भूतानाम् सिद्धत्वात् इह सर्वतः

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।
भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥
गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।
एक एव परो ह्यात्मा भगवानीश्वरोऽव्यय: ॥ २१ ॥
प्रत्यगात्मस्वरूपेण द‍ृश्यरूपेण च स्वयम् ।
व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पित: ॥ २२ ॥
केवलानुभवानन्दस्वरूप: परमेश्वर: ।
माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥

पर-अवरेषु भूतेषु ब्रह्म-अन्त स्थावर-आदिषु भौतिकेषु विकारेषु भूतेषु अथ महत्सु च गुणेषु गुण-साम्ये च गुण-व्यतिकरे तथा एकः एव परः हि आत्मा भगवान् ईश्वरः अव्ययः प्रत्यक् आत्म-स्वरूपेण दृश्य-रूपेण च स्वयम् व्याप्य व्यापक निर्देश्यः हि अनिर्देश्यः अविकल्पितः केवल अनुभव-आनन्द-स्वरूपः परम-ईश्वरः मायया अन्तर्हित ऐश्वर्यः ईयते गुण-सर्गया

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षज: ॥ २४ ॥

तस्मात् सर्वेषु भूतेषु दयाम् कुरुत सौहृदम् भावम् आसुरम् उन्मुच्य यया तुष्यति अधोक्षजः

तुष्टे च तत्र किमलभ्यमनन्त आद्ये
किं तैर्गुणव्यतिकरादिह ये स्वसिद्धा: ।
धर्मादय: किमगुणेन च काङ्‌क्षितेन
सारं जुषां चरणयोरुपगायतां न: ॥ २५ ॥

तुष्टे च तत्र किम् अलभ्यम् अनन्ते आद्ये किम् तैः गुण-व्यतिकरात् इह ये स्व-सिद्धाः धर्म-आदयः किम् अगुणेन च काङ्क्षितेन सारम् जुषाम् चरणयोः उपगायताम् नः

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृद: परमस्य पुंस: ॥ २६ ॥

धर्म अर्थ कामः इति यः अभिहितः त्रि-वर्गः ईक्षा त्रयी नय दमौ विविधा च वार्ता मन्ये तत् एतत् अखिलम् निगमस्य सत्यम् स्व-आत्म-अर्पणम् स्व-सुहृदः परमस्य पुंसः

ज्ञानं तदेतदमलं दुरवापमाह
नारायणो नरसख: किल नारदाय ।
एकान्तिनां भगवतस्तदकिञ्चनानां
पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ २७ ॥

ज्ञानम् तत् एतत् अमलम् दुरवापम् आह नारायणः नर-सखः किल नारदाय एकान्तिनाम् भगवतः तत् अकिञ्चनानाम् पाद-अरविन्द रजसा आप्लुत देहिनाम् स्यात्

श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।
धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ २८ ॥

श्रुतम् एतत् मया पूर्वम् ज्ञानम् विज्ञान-संयुतम् धर्मम् भागवतम् शुद्धम् नारदात् देव दर्शनात्

श्रीदैत्यपुत्रा ऊचु:
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।
एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥
बालस्यान्त:पुरस्थस्य महत्सङ्गो दुरन्वय: ।
छिन्धि न: संशयं सौम्य स्याच्चेद्विस्रम्भकारणम् ॥ ३० ॥

श्री-दैत्य-पुत्राः ऊचुः प्रह्राद त्वम् वयम् च अपि न ऋते अन्यम् विद्महे गुरुम् एताभ्याम् गुरु-पुत्राभ्याम् बालानाम् अपि हि ईश्वरौ बालस्य अन्तःपुर-स्थस्य महत्-सङ्गः दुरन्वयः छिन्धि नः संशयम् सौम्य स्यात् चेत् विस्रम्भ-कारणम्

७.७

श्रीनारद उवाच
एवं दैत्यसुतै: पृष्टो महाभागवतोऽसुर: ।
उवाच तान्स्मयमान: स्मरन् मदनुभाषितम् ॥ १ ॥

श्री-नारदः उवाच एवम् दैत्य-सुतैः पृष्टः महा-भागवतः असुरः उवाच तान् स्मयमानः स्मरन् मत्-अनुभाषितम्

श्रीप्रह्राद उवाच
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ।
युद्धोद्यमं परं चक्रुर्विबुधा दानवान्प्रति ॥ २ ॥ H

श्री-प्रह्रादः उवाच पितरि प्रस्थिते अस्माकम् तपसे मन्दर-अचलम् युद्ध-उद्यमम् परम् चक्रुः विबुधाः दानवान् प्रति

पिपीलिकैरहिरिव दिष्टय‍ा लोकोपतापन: ।
पापेन पापोऽभक्षीति वदन्तो वासवादय: ॥ ३ ॥

पिपीलिकैः अहिः इव दिष्ट्या लोक-उपतापनः पापेन पापः अभक्षि इति वदन्तः वासव-आदयः

तेषामतिबलोद्योगं निशम्यासुरयूथपा: ।
वध्यमाना: सुरैर्भीता दुद्रुवु: सर्वतो दिशम् ॥ ४ ॥
कलत्रपुत्रवित्ताप्तान्गृहान्पशुपरिच्छदान् ।
नावेक्ष्यमाणास्त्वरिता: सर्वे प्राणपरीप्सव: ॥ ५ ॥

तेषाम् अतिबल-उद्योगम् निशम्य असुर-यूथपाः वध्यमानाः सुरैः भीताः दुद्रुवुः सर्वतः दिशम् कलत्र पुत्र-वित्त आप्तान् गृहान् पशु-परिच्छदान् न अवेक्ष्यमाणाः त्वरिताः सर्वे प्राण-परीप्सवः

व्यलुम्पन् राजशिबिरममरा जयकाङ्‌क्षिण: ।
इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ ६ ॥

व्यलुम्पन् राज-शिबिरम् अमराः जय-काङ्क्षिणः इन्द्रः तु राज-महिषीम् मातरम् मम च अग्रहीत्

नीयमानां भयोद्विग्नां रुदतीं कुररीमिव ।
यद‍ृच्छयागतस्तत्र देवर्षिर्दद‍ृशे पथि ॥ ७ ॥

नीयमानाम् भय-उद्विग्नाम् रुदतीम् कुररीम् इव यदृच्छया आगतः तत्र देव-ऋषिः ददृशे पथि

प्राह नैनां सुरपते नेतुमर्हस्यनागसम् ।
मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥ ८ ॥

प्राह न एनाम् सुर-पते नेतुम् अर्हसि अनागसम् मुञ्च मुञ्च महा-भाग सतीम् पर-परिग्रहम्

श्रीइन्द्र उवाच
आस्तेऽस्या जठरे वीर्यमविषह्यं सुरद्विष: ।
आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गत: ॥ ९ ॥

श्री-इन्द्रः उवाच आस्ते अस्याः जठरे वीर्यम् अविषह्यम् सुर-द्विषः आस्यताम् यावत् प्रसवम् मोक्ष्ये अर्थ-पदवीम् गतः

श्रीनारद उवाच
अयं निष्किल्बिष: साक्षान्महाभागवतो महान् ।
त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥ १० ॥

श्री-नारदः उवाच अयम् निष्किल्बिषः साक्षात् महा-भागवतः महान् त्वया न प्राप्स्यते संस्थाम् अनन्त अनुचरः बली

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वच: ।
अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥ ११ ॥

इति उक्तः ताम् विहाय इन्द्रः देव-ऋषेः मानयन् वचः अनन्त-प्रिय भक्त्या एनाम् परिक्रम्य दिवम् ययौ

ततो मे मातरमृषि: समानीय निजाश्रमे ।
आश्वास्येहोष्यतां वत्से यावत्ते भर्तुरागम: ॥ १२ ॥

ततः मे मातरम् ऋषिः समानीय निज-आश्रमे आश्वास्य इह उष्यताम् वत्से यावत् ते भर्तुः आगमः

तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया ।
यावद्दैत्यपतिर्घोरात्तपसो न न्यवर्तत ॥ १३ ॥

तथा इति अवात्सीत् देव-ऋषेः अन्तिके सा अकुतो-भया यावत् दैत्य-पतिः घोरात् तपसः न न्यवर्तत

ऋषिं पर्यचरत्तत्र भक्त्या परमया सती ।
अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥ १४ ॥

ऋषिम् पर्यचरत् तत्र भक्त्या परमया सती अन्तर्वत्नी स्व-गर्भस्य क्षेमाय इच्छा प्रसूतये

ऋषि: कारुणिकस्तस्या: प्रादादुभयमीश्वर: ।
धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥ १५ ॥

ऋषिः कारुणिकः तस्याः प्रादात् उभयम् ईश्वरः धर्मस्य तत्त्वम् ज्ञानम् च माम् अपि उद्दिश्य निर्मलम्

तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान्मातुस्तिरोदधे ।
ऋषिणानुगृहीतं मां नाधुनाप्यजहात्स्मृति: ॥ १६ ॥

तत् तु कालस्य दीर्घत्वात् स्त्रीत्वात् मातुः तिरोदधे ऋषिणा अनुगृहीतम् माम् न अधुना अपि अजहात् स्मृतिः

भवतामपि भूयान्मे यदि श्रद्दधते वच: ।
वैशारदी धी: श्रद्धात: स्त्रीबालानां च मे यथा ॥ १७ ॥

भवताम् अपि भूयात् मे यदि श्रद्दधते वचः वैशारदी धीः श्रद्धातः स्त्री बालानाम् च मे यथा

जन्माद्या: षडिमे भावा द‍ृष्टा देहस्य नात्मन: ।
फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥

जन्म-आद्याः षट् इमे भावाः दृष्टाः देहस्य न आत्मनः फलानाम् इव वृक्षस्य कालेन ईश्वर-मूर्तिना

आत्मा नित्योऽव्यय: शुद्ध एक: क्षेत्रज्ञ आश्रय: ।
अविक्रिय: स्वद‍ृग् हेतुर्व्यापकोऽसङ्‌‌ग्यनावृत: ॥ १९ ॥
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणै: परै: ।
अहं ममेत्यसद्भ‍ावं देहादौ मोहजं त्यजेत् ॥ २० ॥

आत्मा नित्यः अव्ययः शुद्धः एकः क्षेत्र-ज्ञः आश्रयः अविक्रियः स्व-दृक् हेतुः व्यापकः असङ्गी अनावृतः एतैः द्वादशभिः विद्वान् आत्मनः लक्षणैः परैः अहम् मम इति असत्-भावम् देह-आदौ मोह-जम् त्यजेत्

स्वर्णं यथा ग्रावसु हेमकार:
क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् ।
क्षेत्रेषु देहेषु तथात्मयोगै-
रध्यात्मविद् ब्रह्मगतिं लभेत ॥ २१ ॥

स्वर्णम् यथा ग्रावसु हेम-कारः क्षेत्रेषु योगैः तत्-अभिज्ञः आप्नुयात् क्षेत्रेषु देहेषु तथा आत्म-योगैः अध्यात्म-वित् ब्रह्म-गतिम् लभेत

अष्टौ प्रकृतय: प्रोक्तास्त्रय एव हि तद्गुणा: ।
विकारा: षोडशाचार्यै: पुमानेक: समन्वयात् ॥ २२ ॥

अष्टौ प्रकृतयः प्रोक्ताः त्रयः एव हि तत्-गुणाः विकाराः षोडश आचार्यैः पुमान् एकः समन्वयात्

देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा ।
अत्रैव मृग्य: पुरुषो नेति नेतीत्यतत्त्यजन् ॥ २३ ॥

देहः तु सर्व-सङ्घातः जगत् तस्थुः इति द्विधा अत्र एव मृग्यः पुरुषः न इति न इति इति अतत् त्यजन्

अन्वयव्यतिरेकेण विवेकेनोशतात्मना ।
स्वर्गस्थानसमाम्नायैर्विमृशद्भ‍िरसत्वरै: ॥ २४ ॥

अन्वय व्यतिरेकेण विवेकेन उशता आत्मना स्वर्ग स्थान समाम्नायैः विमृशद्भिः असत्-वरैः

बुद्धेर्जागरणं स्वप्न: सुषुप्तिरिति वृत्तय: ।
ता येनैवानुभूयन्ते सोऽध्यक्ष: पुरुष: पर: ॥ २५ ॥

बुद्धेः जागरणम् स्वप्नः सुषुप्तिः इति वृत्तयः ताः येन एव अनुभूयन्ते सः अध्यक्षः पुरुषः परः

एभिस्त्रिवर्णै: पर्यस्तैर्बुद्धिभेदै: क्रियोद्भ‍वै: ।
स्वरूपमात्मनो बुध्येद् गन्धैर्वायुमिवान्वयात् ॥ २६ ॥

एभिः त्रि-वर्णैः पर्यस्तैः बुद्धि भेदैः क्रिया-उद्भवैः स्वरूपम् आत्मनः बुध्येत् गन्धैः वायुम् इव अन्वयात्

एतद्‌द्वारो हि संसारो गुणकर्मनिबन्धन: ।
अज्ञानमूलोऽपार्थोऽपि पुंस: स्वप्न इवार्प्यते ॥ २७ ॥

एतत् द्वारः हि संसारः गुण-कर्म-निबन्धनः अज्ञान-मूलः अपार्थः अपि पुंसः स्वप्नः इव अर्प्यते

तस्माद्भ‍वद्भ‍ि: कर्तव्यं कर्मणां त्रिगुणात्मनाम् ।
बीजनिर्हरणं योग: प्रवाहोपरमो धिय: ॥ २८ ॥

तस्मात् भवद्भिः कर्तव्यम् कर्मणाम् त्रि-गुण-आत्मनाम् बीज-निर्हरणम् योगः प्रवाह उपरमः धियः

तत्रोपायसहस्राणामयं भगवतोदित: ।
यदीश्वरे भगवति यथा यैरञ्जसा रति: ॥ २९ ॥

तत्र उपाय सहस्राणाम् अयम् भगवता उदितः यत् ईश्वरे भगवति यथा यैः अञ्जसा रतिः

गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च ।
सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥ ३० ॥
श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ।
तत्पादाम्बुरुहध्यानात तल्लिङ्गेक्षार्हणादिभि: ॥ ३१ ॥

गुरु-शुश्रूषया भक्त्या सर्व लब्ध अर्पणेन च सङ्गेन साधु-भक्तानाम् ईश्वर आराधनेन च श्रद्धया तत्-कथायाम् च कीर्तनैः गुण-कर्मणाम् तत् पाद-अम्बुरुह ध्यानात् तत् लिङ्ग ईक्ष अर्हण-आदिभिः

हरि: सर्वेषु भूतेषु भगवानास्त ईश्वर: ।
इति भूतानि मनसा कामैस्तै: साधु मानयेत् ॥ ३२ ॥

हरिः सर्वेषु भूतेषु भगवान् आस्ते ईश्वरः इति भूतानि मनसा कामैः तैः साधु मानयेत्

एवं निर्जितषड्‌‌वर्गै: क्रियते भक्तिरीश्वरे ।
वासुदेवे भगवति यया संलभ्यते रति: ॥ ३३ ॥

एवम् निर्जित षट्-वर्गैः क्रियते भक्तिः ईश्वरे वासुदेवे भगवति यया संलभ्यते रतिः

निशम्य कर्माणि गुणानतुल्यान्
वीर्याणि लीलातनुभि: कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ३४ ॥

निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीला-तनुभिः कृतानि यदा अतिहर्ष उत्पुलक अश्रु गद्गदम् प्रोत्कण्ठः उद्गायति रौति नृत्यति

यदा ग्रहग्रस्त इव क्‍वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम् ।
मुहु: श्वसन्वक्ति हरे जगत्पते
नारायणेत्यात्ममतिर्गतत्रप: ॥ ३५ ॥

यदा ग्रह-ग्रस्तः इव क्वचित् हसति आक्रन्दते ध्यायति वन्दते जनम् मुहुः श्वसन् वक्ति हरे जगत्-पते नारायण इति आत्म-मतिः गत-त्रपः

तदा पुमान्मुक्तसमस्तबन्धन-
स्तद्भ‍ावभावानुकृताशयाकृति: ।
निर्दग्धबीजानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३६ ॥

तदा पुमान् मुक्त समस्त-बन्धनः तत्-भाव भाव अनुकृत आशय-आकृतिः निर्दग्ध बीज अनुशयः महीयसा भक्ति प्रयोगेण समेति अधोक्षजम्

अधोक्षजालम्भमिहाशुभात्मन:
शरीरिण: संसृतिचक्रशातनम् ।
तद् ब्रह्मनिर्वाणसुखं विदुर्बुधा-
स्ततो भजध्वं हृदये हृदीश्वरम् ॥ ३७ ॥

अधोक्षज आलम्भम् इह अशुभ-आत्मनः शरीरिणः संसृति चक्र शातनम् तत् ब्रह्म-निर्वाण सुखम् विदुः बुधाः ततः भजध्वम् हृदये हृत्-ईश्वरम्

कोऽतिप्रयासोऽसुरबालका हरे-
रुपासने स्वे हृदि छिद्रवत् सत: ।
स्वस्यात्मन: सख्युरशेषदेहिनां
सामान्यत: किं विषयोपपादनै: ॥ ३८ ॥

कः अति-प्रयासः असुर-बालकाः हरेः उपासने स्वे हृदि छिद्र-वत् सतः स्वस्य आत्मनः सख्युः अशेष देहिनाम् सामान्यतः किम् विषय-उपपादनैः

राय: कलत्रं पशव: सुतादयो
गृहा मही कुञ्जरकोशभूतय: ।
सर्वेऽर्थकामा: क्षणभङ्गुरायुष:
कुर्वन्ति मर्त्यस्य कियत् प्रियं चला: ॥ ३९ ॥

रायः कलत्रम् पशवः सुत-आदयः गृहाः मही कुञ्जर कोश भूतयः सर्वे अर्थ कामाः क्षण-भङ्गुर आयुषः कुर्वन्ति मर्त्यस्य कियत् प्रियम् चलाः

एवं हि लोका: क्रतुभि: कृता अमी
क्षयिष्णव: सातिशया न निर्मला: ।
तस्मादद‍ृष्टश्रुतदूषणं परं
भक्त्योक्तयेशं भजतात्मलब्धये ॥ ४० ॥

एवम् हि लोकाः क्रतुभिः कृताः अमी क्षयिष्णवः सातिशयाः न निर्मलाः तस्मात् अदृष्ट-श्रुत दूषणम् परम् भक्त्या उक्तया ईशम् भजत आत्म-लब्धये

यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नर: ।
करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ ४१ ॥

यत् अर्थे इह कर्माणि विद्वत् मानी असकृत् नरः करोति अतः विपर्यासम् अमोघम् विन्दते फलम्

सुखाय दु:खमोक्षाय सङ्कल्प इह कर्मिण: ।
सदाप्नोतीहया दु:खमनीहाया: सुखावृत: ॥ ४२ ॥

सुखाय दुःख-मोक्षाय सङ्कल्पः इह कर्मिणः सदा आप्नोति ईहया दुःखम् अनीहायाः सुख आवृतः

कामान्कामयते काम्यैर्यदर्थमिह पूरुष: ।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ ४३ ॥

कामान् कामयते काम्यैः यत् अर्थम् इह पूरुषः सः वै देहः तु पारक्यः भङ्गुरः याति उपैति च

किमु व्यवहितापत्यदारागारधनादय: ।
राज्यकोशगजामात्यभृत्याप्ता ममतास्पदा: ॥ ४४ ॥

किम् उ व्यवहित अपत्य दार अगार धन आदयः राज्य कोश गज अमात्य भृत्य आप्ताः ममता-आस्पदाः

किमेतैरात्मनस्तुच्छै: सह देहेन नश्वरै: ।
अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधे: ॥ ४५ ॥

किम् एतैः आत्मनः तुच्छैः सह देहेन नश्वरैः अनर्थैः अर्थ-सङ्काशैः नित्य-आनन्द रस उदधेः

निरूप्यतामिह स्वार्थ: कियान्देहभृतोऽसुरा: ।
निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभि: ॥ ४६ ॥

निरूप्यताम् इह स्व-अर्थः कियान् देह-भृतः असुराः निषेक-आदिषु अवस्थासु क्लिश्यमानस्य कर्मभिः

कर्माण्यारभते देही देहेनात्मानुवर्तिना ।
कर्मभिस्तनुते देहमुभयं त्वविवेकत: ॥ ४७ ॥

कर्माणि आरभते देही देहेन आत्म-अनुवर्तिना कर्मभिः तनुते देहम् उभयम् तु अविवेकतः

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रया: ।
भजतानीहयात्मानमनीहं हरिमीश्वरम् ॥ ४८ ॥

तस्मात् अर्थाः च कामाः च धर्माः च यत् अपाश्रयाः भजत अनीहया आत्मानम् अनीहम् हरिम् ईश्वरम्

सर्वेषामपि भूतानां हरिरात्मेश्वर: प्रिय: ।
भूतैर्महद्भ‍ि: स्वकृतै: कृतानां जीवसंज्ञित: ॥ ४९ ॥

सर्वेषाम् अपि भूतानाम् हरिः आत्मा ईश्वरः प्रियः भूतैः महद्भिः स्व-कृतैः कृतानाम् जीव-संज्ञितः

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा ।
भजन्मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥ ५० ॥

देवः असुरः मनुष्यः वा यक्षः गन्धर्वः एव वा भजन् मुकुन्द-चरणम् स्वस्ति-मान् स्यात् यथा वयम्

नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजा: ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५१ ॥
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम् ॥ ५२ ॥

न अलम् द्विजत्वम् देवत्वम् ऋषित्वम् वा असुर-आत्म-जाः प्रीणनाय मुकुन्दस्य न वृत्तम् न बहु-ज्ञता न दानम् न तपः न इज्या न शौचम् न व्रतानि च प्रीयते अमलया भक्त्या हरिः अन्यत् विडम्बनम्

ततो हरौ भगवति भक्तिं कुरुत दानवा: ।
आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥ ५३ ॥

ततः हरौ भगवति भक्तिम् कुरुत दानवाः आत्म-औपम्येन सर्वत्र सर्व-भूत-आत्मनि ईश्वरे

दैतेया यक्षरक्षांसि स्त्रिय: शूद्रा व्रजौकस: ।
खगा मृगा: पापजीवा: सन्ति ह्यच्युततां गता: ॥ ५४ ॥

दैतेयाः यक्ष-रक्षांसि स्त्रियः शूद्राः व्रज-ओकसः खगाः मृगाः पाप-जीवाः सन्ति हि अच्युतताम् गताः

एतावानेव लोकेऽस्मिन्पुंस: स्वार्थ: पर: स्मृत: ।
एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ॥ ५५ ॥

एतावान् एव लोके अस्मिन् पुंसः स्व-अर्थः परः स्मृतः एकान्त-भक्तिः गोविन्दे यत् सर्वत्र तत्-ईक्षणम्

७.८

श्रीनारद उवाच
अथ दैत्यसुता: सर्वे श्रुत्वा तदनुवर्णितम् ।
जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ॥ १ ॥

श्री-नारदः उवाच अथ दैत्य-सुताः सर्वे श्रुत्वा तत् अनुवर्णितम् जगृहुः निरवद्यत्वात् न एव गुरु-अनुशिक्षितम्

अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ।
आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥ २ ॥

अथ आचार्य-सुतः तेषाम् बुद्धिम् एकान्त-संस्थिताम् आलक्ष्य भीतः त्वरितः राज्ञे आवेदयत् यथा

कोपावेशचलद्गात्र: पुत्रं हन्तुं मनो दधे ।
क्षिप्‍त्वा परुषया वाचा प्रह्रादमतदर्हणम् ।
आहेक्षमाण: पापेन तिरश्चीनेन चक्षुषा ॥ ३ ॥
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् ।
सर्प: पदाहत इव श्वसन्प्रकृतिदारुण: ॥ ४ ॥

कोप-आवेश चलत् गात्रः पुत्रम् हन्तुम् मनः दधे क्षिप्त्वा परुषया वाचा प्रह्रादम् अ-तत्-अर्हणम् आह ईक्षमाणः पापेन तिरश्चीनेन चक्षुषा प्रश्रय-अवनतम् दान्तम् बद्ध-अञ्जलिम् अवस्थितम् सर्पः पद-आहतः इव श्वसन् प्रकृति दारुणः

श्रीहिरण्यकशिपुरुवाच
हे दुर्विनीत मन्दात्मन्कुलभेदकराधम ।
स्तब्धं मच्छासनोद्‌वृत्तं नेष्ये त्वाद्य यमक्षयम् ॥ ५ ॥

श्री-हिरण्यकशिपुः उवाच हे दुर्विनीत मन्द-आत्मन् कुल-भेद-कर अधम स्तब्धम् मत्-शासन उद्वृत्तम् नेष्ये त्वा अद्य यम-क्षयम्

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोका: सहेश्वरा: ।
तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगा: ॥ ६ ॥

क्रुद्धस्य यस्य कम्पन्ते त्रयः लोकाः सह-ईश्वराः तस्य मे अभीत-वत् मूढ शासनम् किम् बलः अत्यगाः

श्रीप्रह्राद उवाच
न केवलं मे भवतश्च राजन्
स वै बलं बलिनां चापरेषाम् ।
परेऽवरेऽमी स्थिरजङ्गमा ये
ब्रह्मादयो येन वशं प्रणीता: ॥ ७ ॥

श्री-प्रह्रादः उवाच न केवलम् मे भवतः च राजन् सः वै बलम् बलिनाम् च अपरेषाम् परे अवरे अमी स्थिर-जङ्गमाः ये ब्रह्म-आदयः येन वशम् प्रणीताः

स ईश्वर: काल उरुक्रमोऽसा-
वोज: सह: सत्त्वबलेन्द्रियात्मा ।
स एव विश्वं परम: स्वशक्तिभि:
सृजत्यवत्यत्ति गुणत्रयेश: ॥ ८ ॥

सः ईश्वरः कालः उरुक्रमः असौ ओजः सहः सत्त्व बल इन्द्रिय आत्मा सः एव विश्वम् परमः स्व-शक्तिभिः सृजति अवति अत्ति गुण-त्रय-ईशः

जह्यासुरं भावमिमं त्वमात्मन:
समं मनो धत्स्व न सन्ति विद्विष: ।
ऋतेऽजितादात्मन उत्पथे स्थितात्
तद्धि ह्यनन्तस्य महत्समर्हणम् ॥ ९ ॥

जहि आसुरम् भावम् इमम् त्वम् आत्मनः समम् मनः धत्स्व न सन्ति विद्विषः ऋते अजितात् आत्मनः उत्पथे स्थितात् तत् हि हि अनन्तस्य महत् समर्हणम्

दस्यून्पुरा षण् न विजित्य लुम्पतो
मन्यन्त एके स्वजिता दिशो दश ।
जितात्मनो ज्ञस्य समस्य देहिनां
साधो: स्वमोहप्रभवा: कुत: परे ॥ १० ॥

दस्यून् पुरा षट् न विजित्य लुम्पतः मन्यन्ते एके स्व-जिताः दिशः दश जित-आत्मनः ज्ञस्य समस्य देहिनाम् साधोः स्व-मोह-प्रभवाः कुतः परे

श्रीहिरण्यकशिपुरुवाच
व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे ।
मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिर: ॥ ११ ॥

श्री-हिरण्यकशिपुः उवाच व्यक्तम् त्वम् मर्तु-कामः असि यः अतिमात्रम् विकत्थसे मुमूर्षूणाम् हि मन्द-आत्मन् ननु स्युः विक्लवाः गिरः

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वर: ।
क्व‍ासौ यदि स सर्वत्र कस्मात् स्तम्भे न द‍ृश्यते ॥ १२ ॥

यः त्वया मन्द-भाग्य उक्तः मत्-अन्यः जगत्-ईश्वरः क्व असौ यदि सः सर्वत्र कस्मात् स्तम्भे न दृश्यते

सोऽहं विकत्थमानस्य शिर: कायाद्धरामि ते ।
गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥ १३ ॥

सः अहम् विकत्थमानस्य शिरः कायात् हरामि ते गोपायेत हरिः त्वा अद्य यः ते शरणम् ईप्सितम्

एवं दुरुक्तैर्मुहुरर्दयन् रुषा
सुतं महाभागवतं महासुर: ।
खड्‌गं प्रगृह्योत्पतितो वरासनात्
स्तम्भं तताडातिबल: स्वमुष्टिना ॥ १४ ॥

एवम् दुरुक्तैः मुहुः अर्दयन् रुषा सुतम् महा-भागवतम् महा-असुरः खड्गम् प्रगृह्य उत्पतितः वर-आसनात् स्तम्भम् तताड अति-बलः स्व-मुष्टिना

तदैव तस्मिन्निनदोऽतिभीषणो
बभूव येनाण्डकटाहमस्फुटत् ।
यं वै स्वधिष्ण्योपगतं त्वजादय:
श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ १५ ॥

तदा एव तस्मिन् निनदः अति-भीषणः बभूव येन अण्ड-कटाहम् अस्फुटत् यम् वै स्व-धिष्ण्य-उपगतम् तु अज-आदयः श्रुत्वा स्व-धाम-अत्ययम् अङ्ग मेनिरे

स विक्रमन् पुत्रवधेप्सुरोजसा
निशम्य निर्ह्रादमपूर्वमद्भ‍ुतम् ।
अन्त:सभायां न ददर्श तत्पदं
वितत्रसुर्येन सुरारियूथपा: ॥ १६ ॥

सः विक्रमन् पुत्र-वध-ईप्सुः ओजसा निशम्य निर्ह्रादम् अपूर्वम् अद्भुतम् अन्तः-सभायाम् न ददर्श तत्-पदम् वितत्रसुः येन सुर-अरि-यूथ-पाः

सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मन: ।
अद‍ृश्यतात्यद्भ‍ुतरूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् ॥ १७ ॥

सत्यम् विधातुम् निज-भृत्य-भाषितम् व्याप्तिम् च भूतेषु अखिलेषु च आत्मनः अदृश्यत अति अद्भुत रूपम् उद्वहन् स्तम्भे सभायाम् न मृगम् न मानुषम्

स सत्त्वमेनं परितो विपश्यन्
स्तम्भस्य मध्यादनुनिर्जिहानम् ।
नायं मृगो नापि नरो विचित्र-
महो किमेतन्नृमृगेन्द्ररूपम् ॥ १८ ॥

सः सत्त्वम् एनम् परितः विपश्यन् स्तम्भस्य मध्यात् अनुनिर्जिहानम् न अयम् मृगः न अपि नरः विचित्रम् अहो किम् एतत् नृ-मृग-इन्द्र-रूपम्

मीमांसमानस्य समुत्थितोऽग्रतो ।
नृसिंहरूपस्तदलं भयानकम् ॥ १९ ॥
प्रतप्तचामीकरचण्डलोचनं
स्फुरत्सटाकेशरजृम्भिताननम् ।
करालदंष्ट्रं करवालचञ्चल
क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् ॥ २० ॥
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भ‍ुत-
व्यात्तास्यनासं हनुभेदभीषणम् ।
दिविस्पृशत्कायमदीर्घपीवर-
ग्रीवोरुवक्ष:स्थलमल्पमध्यमम् ॥ २१ ॥
चन्द्रांशुगौरैश्छुरितं तनूरुहै-
र्विष्वग्भुजानीकशतं नखायुधम् ।
दुरासदं सर्वनिजेतरायुध-
प्रवेकविद्रावितदैत्यदानवम् ॥ २२ ॥

मीमांसमानस्य समुत्थितः अग्रतः नृसिंह-रूपः तत् अलम् भयानकम् प्रतप्त चामीकर चण्ड-लोचनम् स्फुरत् सटा-केशर जृम्भित-आननम् कराल दंष्ट्रम् करवाल-चञ्चल क्षुर-अन्त जिह्वम् भ्रुकुटी-मुख उल्बणम् स्तब्ध ऊर्ध्व कर्णम् गिरि-कन्दर अद्भुत व्यात्तास्य नासम् हनु-भेद-भीषणम् दिवि-स्पृशत् कायम् अदीर्घ पीवर ग्रीव उरु वक्षः-स्थलम् अल्प मध्यमम् चन्द्र-अंशु गौरैः छुरितम् तनूरुहैः विष्वक् भुज अनीक-शतम् नख आयुधम् दुरासदम् सर्व निज इतर आयुध प्रवेक विद्रावित दैत्य दानवम्

प्रायेण मेऽयं हरिणोरुमायिना
वध: स्मृतोऽनेन समुद्यतेन किम् ।
एवं ब्रुवंस्त्वभ्यपतद् गदायुधो
नदन् नृसिंहं प्रति दैत्यकुञ्जर: ॥ २३ ॥

प्रायेण मे अयम् हरिणा उरु-मायिना वधः स्मृतः अनेन समुद्यतेन किम् एवम् ब्रुवन् तु अभ्यपतत् गदा-आयुधः नदन् नृ-सिंहम् प्रति दैत्य-कुञ्जरः

अलक्षितोऽग्नौ पतित: पतङ्गमो
यथा नृसिंहौजसि सोऽसुरस्तदा ।
न तद्विचित्रं खलु सत्त्वधामनि
स्वतेजसा यो नु पुरापिबत् तम: ॥ २४ ॥

अलक्षितः अग्नौ पतितः पतङ्गमः यथा नृसिंह ओजसि सः असुरः तदा न तत् विचित्रम् खलु सत्त्व-धामनि स्व-तेजसा यः नु पुरा अपिबत् तमः

ततोऽभिपद्याभ्यहनन्महासुरो
रुषा नृसिंहं गदयोरुवेगया ।
तं विक्रमन्तं सगदं गदाधरो
महोरगं तार्क्ष्यसुतो यथाग्रहीत् ॥ २५ ॥

ततः अभिपद्य अभ्यहनत् महा-असुरः रुषा नृसिंहम् गदया उरु-वेगया तम् विक्रमन्तम् स-गदम् गदा-धरः महा-उरगम् तार्क्ष्य-सुतः यथा अग्रहीत्

स तस्य हस्तोत्कलितस्तदासुरो
विक्रीडतो यद्वदहिर्गरुत्मत: ।
असाध्वमन्यन्त हृतौकसोऽमरा
घनच्छदा भारत सर्वधिष्ण्यपा: ॥ २६ ॥

सः तस्य हस्त उत्कलितः तदा असुरः विक्रीडतः यद्वत् अहिः गरुत्मतः असाधु अमन्यन्त हृत-ओकसः अमराः घन-च्छदाः भारत सर्व-धिष्ण्य-पाः

तं मन्यमानो निजवीर्यशङ्कितं
यद्धस्तमुक्तो नृहरिं महासुर: ।
पुनस्तमासज्जत खड्‌गचर्मणी
प्रगृह्य वेगेन गतश्रमो मृधे ॥ २७ ॥

तम् मन्यमानः निज-वीर्य-शङ्कितम् यत् हस्त-मुक्तः नृ-हरिम् महा-असुरः पुनः तम् आसज्जत खड्ग-चर्मणी प्रगृह्य वेगेन गत-श्रमः मृधे

तं श्येनवेगं शतचन्द्रवर्त्मभि
श्चरन्तमच्छिद्रमुपर्यधो हरि: ।
कृत्वाट्टहासं खरमुत्स्वनोल्बणं
निमीलिताक्षं जगृहे महाजव: ॥ २८ ॥

तम् श्येन-वेगम् शत-चन्द्र-वर्त्मभिः चरन्तम् अच्छिद्रम् उपरि-अधः हरिः कृत्वा अट्ट-हासम् खरम् उत्स्वन-उल्बणम् निमीलित अक्षम् जगृहे महा-जवः

विष्वक्स्फुरन्तं ग्रहणातुरं हरि-
र्व्यालो यथाखुं कुलिशाक्षतत्वचम् ।
द्वार्यूरुमापत्य ददार लीलया
नखैर्यथाहिं गरुडो महाविषम् ॥ २९ ॥

विष्वक् स्फुरन्तम् ग्रहण-आतुरम् हरिः व्यालः यथा आखुम् कुलिश-अक्षत त्वचम् द्वारि ऊरुम् आपत्य ददार लीलया नखैः यथा अहिम् गरुडः महा-विषम्

संरम्भदुष्प्रेक्ष्यकराललोचनो
व्यात्ताननान्तं विलिहन्स्वजिह्वया ।
असृग्लवाक्तारुणकेशराननो
यथान्त्रमाली द्विपहत्यया हरि: ॥ ३० ॥

संरम्भ दुष्प्रेक्ष्य कराल लोचनः व्यात्त आनन-अन्तम् विलिहन् स्व-जिह्वया असृक्-लव आक्त अरुण केशर आननः यथा अन्त्र-माली द्विप-हत्यया हरिः

नखाङ्कुरोत्पाटितहृत्सरोरुहं
विसृज्य तस्यानुचरानुदायुधान् ।
अहन् समस्तान्नखशस्‍त्रपाणिभि-
र्दोर्दण्डयूथोऽनुपथान् सहस्रश: ॥ ३१ ॥

नख-अङ्कुर उत्पाटित हृत्-सरोरुहम् विसृज्य तस्य अनुचरान् उदायुधान् अहन् समस्तान् नख-शस्त्र-पाणिभिः दोर्दण्ड-यूथः अनुपथान् सहस्रशः

सटावधूता जलदा: परापतन्
ग्रहाश्च तद् द‍ृष्टिविमुष्टरोचिष: ।
अम्भोधय: श्वासहता विचुक्षुभु-
र्निर्ह्रादभीता दिगिभा विचुक्रुशु: ॥ ३२ ॥

सटा अवधूताः जलदाः परापतन् ग्रहाः च तत्-दृष्टि विमुष्ट रोचिषः अम्भोधयः श्वास-हताः विचुक्षुभुः निर्ह्राद-भीताः दिगिभाः विचुक्रुशुः

द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला
प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैला: समुत्पेतुरमुष्य रंहसा
तत्तेजसा खं ककुभो न रेजिरे ॥ ३३ ॥

द्यौः तत्-सटा उत्क्षिप्त विमान-सङ्कुला प्रोत्सर्पत क्ष्मा च पद-अभिपीडिता शैलाः समुत्पेतुः अमुष्य रंहसा तत्-तेजसा खम् ककुभः न रेजिरे

तत: सभायामुपविष्टमुत्तमे
नृपासने सम्भृततेजसं विभुम् ।
अलक्षितद्वैरथमत्यमर्षणं
प्रचण्डवक्त्रं न बभाज कश्चन ॥ ३४ ॥

ततः सभायाम् उपविष्टम् उत्तमे नृप-आसने सम्भृत-तेजसम् विभुम् अलक्षित-द्वैरथम् अति अमर्षणम् प्रचण्ड वक्त्रम् न बभाज कश्चन

निशाम्य लोकत्रयमस्तकज्वरं
तमादिदैत्यं हरिणा हतं मृधे ।
प्रहर्षवेगोत्कलितानना मुहु:
प्रसूनवर्षैर्ववृषु: सुरस्त्रिय: ॥ ३५ ॥

निशाम्य लोक-त्रय मस्तक-ज्वरम् तम् आदि दैत्यम् हरिणा हतम् मृधे प्रहर्ष-वेग उत्कलित-आननाः मुहुः प्रसून-वर्षैः ववृषुः सुर-स्त्रियः

तदा विमानावलिभिर्नभस्तलं
दिद‍ृक्षतां सङ्कुलमास नाकिनाम् ।
सुरानका दुन्दुभयोऽथ जघ्निरे
गन्धर्वमुख्या ननृतुर्जगु: स्त्रिय: ॥ ३६ ॥

तदा विमान-आवलिभिः नभस्तलम् दिदृक्षताम् सङ्कुलम् आस नाकिनाम् सुर-आनकाः दुन्दुभयः अथ जघ्निरे गन्धर्व-मुख्याः ननृतुः जगुः स्त्रियः

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादय: ।
ऋषय: पितर: सिद्धा विद्याधरमहोरगा: ॥ ३७ ॥
मनव: प्रजानां पतयो गन्धर्वाप्सरचारणा: ।
यक्षा: किम्पुरुषास्तात वेताला: सहकिन्नरा: ॥ ३८ ॥
ते विष्णुपार्षदा: सर्वे सुनन्दकुमुदादय: ।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।
ईडिरे नरशार्दुलं नातिदूरचरा: पृथक् ॥ ३९ ॥

तत्र उपव्रज्य विबुधाः ब्रह्म-इन्द्र-गिरिश-आदयः ऋषयः पितरः सिद्धाः विद्याधर महा-उरगाः मनवः प्रजानाम् पतयः गन्धर्व अप्सर चारणाः यक्षाः किम्पुरुषाः तात वेतालाः सह-किन्नराः ते विष्णु-पार्षदाः सर्वे सुनन्द-कुमुद-आदयः मूर्ध्नि बद्ध-अञ्जलि-पुटाः आसीनम् तीव्र-तेजसम् ईडिरे नर-शार्दुलम् न अति-दूरचराः पृथक्

श्रीब्रह्मोवाच
नतोऽस्म्यनन्ताय दुरन्तशक्तये
विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान् गुणै:
स्वलीलया सन्दधतेऽव्ययात्मने ॥ ४० ॥

श्री-ब्रह्मा उवाच नतः अस्मि अनन्ताय दुरन्त शक्तये विचित्र-वीर्याय पवित्र-कर्मणे विश्वस्य सर्ग स्थिति संयमान् गुणैः स्व-लीलया सन्दधते अव्यय-आत्मने

श्रीरुद्र उवाच
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पक: ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ ४१ ॥

श्री-रुद्रः उवाच कोप-कालः युग-अन्तः ते हतः अयम् असुरः अल्पकः तत्-सुतम् पाहि उपसृतम् भक्तम् ते भक्त-वत्सल

श्रीइन्द्र उवाच
प्रत्यानीता: परम भवता त्रायता न: स्वभागा
दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरै: किम् ॥ ४२ ॥

श्री-इन्द्रः उवाच प्रत्यानीताः परम भवता त्रायता नः स्व-भागाः दैत्य-आक्रान्तम् हृदय-कमलम् तत्-गृहम् प्रत्यबोधि काल-ग्रस्तम् कियत् इदम् अहो नाथ शुश्रूषताम् ते मुक्तिः तेषाम् न हि बहुमता नार-सिंह अपरैः किम्

श्रीऋषय ऊचु:
त्वं नस्तप: परममात्थ यदात्मतेजो
येनेदमादिपुरुषात्मगतं ससर्क्थ ।
तद्विप्रलुप्तममुनाद्य शरण्यपाल
रक्षागृहीतवपुषा पुनरन्वमंस्था: ॥ ४३ ॥

श्री-ऋषयः ऊचुः त्वम् नः तपः परमम् आत्थ यत् आत्म-तेजः येन इदम् आदि-पुरुष आत्म-गतम् ससर्क्थ तत् विप्रलुप्तम् अमुना अद्य शरण्य-पाल रक्षा-गृहीत-वपुषा पुनः अन्वमंस्थाः

श्रीपितर ऊचु:
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै-
र्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्
तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ४४ ॥

श्री-पितरः ऊचुः श्राद्धानि नः अधिबुभुजे प्रसभम् तनूजैः दत्तानि तीर्थ-समये अपि अपिबत् तिल-अम्बु तस्य उदरात् नख-विदीर्ण वपात् यः आर्च्छत् तस्मै नमः नृ-हरये अखिल धर्म गोप्त्रे

श्रीसिद्धा ऊचु:
यो नो गतिं योगसिद्धामसाधु-
रहार्षीद् योगतपोबलेन ।
नाना दर्पं तं नखैर्विददार
तस्मै तुभ्यं प्रणता: स्मो नृसिंह ॥ ४५ ॥

श्री-सिद्धाः ऊचुः यः नः गतिम् योग-सिद्धाम् असाधुः अहार्षीत् योग तपः बलेन नाना दर्पम् तम् नखैः विददार तस्मै तुभ्यम् प्रणताः स्मः नृसिंह

श्रीविद्याधरा ऊचु:
विद्यां पृथग्धारणयानुराद्धां
न्यषेधदज्ञो बलवीर्यद‍ृप्त: ।
स येन सङ्ख्ये पशुवद्धतस्तं
मायानृसिंहं प्रणता: स्म नित्यम् ॥ ४६ ॥

श्री-विद्याधराः ऊचुः विद्याम् पृथक् धारणया अनुराद्धाम् न्यषेधत् अज्ञः बल-वीर्य-दृप्तः सः येन सङ्ख्ये पशु-वत् हतः तम् माया-नृसिंहम् प्रणताः स्म नित्यम्

श्रीनागा ऊचु:
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि न: ।
तद्वक्ष:पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ४७ ॥

श्री-नागाः ऊचुः येन पापेन रत्नानि स्त्री-रत्नानि हृतानि नः तत् वक्षः-पाटनेन आसाम् दत्त-आनन्द नमः अस्तु ते

श्रीमनव ऊचु:
मनवो वयं तव निदेशकारिणो
दितिजेन देव परिभूतसेतव: ।
भवता खल: स उपसंहृत: प्रभो
करवाम ते किमनुशाधि किङ्करान् ॥ ४८ ॥

श्री-मनवः ऊचुः मनवः वयम् तव निदेश-कारिणः दिति-जेन देव परिभूत सेतवः भवता खलः सः उपसंहृतः प्रभो करवाम ते किम् अनुशाधि किङ्करान्

श्रीप्रजापतय ऊचु:
प्रजेशा वयं ते परेशाभिसृष्टा
न येन प्रजा वै सृजामो निषिद्धा: ।
स एष त्वया भिन्नवक्षा नु शेते
जगन्मङ्गलं सत्त्वमूर्तेऽवतार: ॥ ४९ ॥

श्री-प्रजापतयः ऊचुः प्रजा-ईशाः वयम् ते पर-ईश अभिसृष्टाः न येन प्रजाः वै सृजामः निषिद्धाः सः एषः त्वया भिन्न-वक्षाः नु शेते जगत्-मङ्गलम् सत्त्व-मूर्ते अवतारः

श्रीगन्धर्वा ऊचु:
वयं विभो ते नटनाट्यगायका
येनात्मसाद्वीर्यबलौजसा कृता: ।
स एष नीतो भवता दशामिमां
किमुत्पथस्थ: कुशलाय कल्पते ॥ ५० ॥

श्री-गन्धर्वाः ऊचुः वयम् विभो ते नट-नाट्य-गायकाः येन आत्मसात् वीर्य बल ओजसा कृताः सः एषः नीतः भवता दशाम् इमाम् किम् उत्पथस्थः कुशलाय कल्पते

श्रीचारणा ऊचु:
हरे तवाङ्‌घ्रिपङ्कजं भवापवर्गमाश्रिता: ।
यदेष साधुहृच्छयस्त्वयासुर: समापित: ॥ ५१ ॥

श्री-चारणाः ऊचुः हरे तव अङ्घ्रि-पङ्कजम् भव-अपवर्गम् आश्रिताः यत् एषः साधु-हृत्-शयः त्वया असुरः समापितः

श्रीयक्षा ऊचु:
वयमनुचरमुख्या: कर्मभिस्ते मनोज्ञै-
स्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते
नरहर उपनीत: पञ्चतां पञ्चविंश ॥ ५२ ॥

श्री-यक्षाः ऊचुः वयम् अनुचर-मुख्याः कर्मभिः ते मनो-ज्ञैः ते इह दिति-सुतेन प्रापिताः वाहकत्वम् सः तु जन-परितापम् तत्-कृतम् जानता ते नर-हर उपनीतः पञ्चताम् पञ्च-विंश

श्रीकिम्पुरुषा ऊचु:
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वर: ।
अयं कुपुरुषो नष्टो धिक्कृत: साधुभिर्यदा ॥ ५३ ॥

श्री-किम्पुरुषाः ऊचुः वयम् किम्पुरुषाः त्वम् तु महा-पुरुषः ईश्वरः अयम् कु-पुरुषः नष्टः धिक्-कृतः साधुभिः यदा

श्रीवैतालिका ऊचु:
सभासु सत्रेषु तवामलं यशो
गीत्वा सपर्यां महतीं लभामहे ।
यस्तामनैषीद् वशमेष दुर्जनो
द्विष्टय‍ा हतस्ते भगवन्यथामय: ॥ ५४ ॥

श्री-वैतालिकाः ऊचुः सभासु सत्रेषु तव अमलम् यशः गीत्वा सपर्याम् महतीम् लभामहे यः ताम् अनैषीत् वशम् एषः दुर्जनः द्विष्ट्या हतः ते भगवन् यथा आमयः

श्रीकिन्नरा ऊचु:
वयमीश किन्नरगणास्तवानुगा
दितिजेन विष्टिममुनानुकारिता: ।
भवता हरे स वृजिनोऽवसादितो
नरसिंह नाथ विभवाय नो भव ॥ ५५ ॥

श्री-किन्नराः ऊचुः वयम् ईश किन्नर-गणाः तव अनुगाः दिति-जेन विष्टिम् अमुना अनुकारिताः भवता हरे सः वृजिनः अवसादितः नरसिंह नाथ विभवाय नः भव

श्रीविष्णुपार्षदा ऊचु:
अद्यैतद्धरिनररूपमद्भ‍ुतं ते
द‍ृष्टं न: शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्त-
स्तस्येदं निधनमनुग्रहाय विद्म: ॥ ५६ ॥

श्री-विष्णु-पार्षदाः ऊचुः अद्य एतत् हरि-नर रूपम् अद्भुतम् ते दृष्टम् नः शरण-द सर्व-लोक-शर्म सः अयम् ते विधिकरः ईश विप्र-शप्तः तस्य इदम् निधनम् अनुग्रहाय विद्मः

७.९

श्रीनारद उवाच
एवं सुरादय: सर्वे ब्रह्मरुद्रपुर: सरा: ।
नोपैतुमशकन्मन्युसंरम्भं सुदुरासदम् ॥ १ ॥

श्री-नारदः उवाच एवम् सुर-आदयः सर्वे ब्रह्म-रुद्र-पुरः सराः न उपैतुम् अशकन् मन्यु-संरम्भम् सु-दुरासदम्

साक्षात् श्री: प्रेषिता देवैर्द‍ृष्ट्वा तं महदद्भ‍ुतम् ।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ २ ॥

साक्षात् श्रीः प्रेषिता देवैः दृष्ट्वा तम् महत् अद्भुतम् अदृष्ट अश्रुत पूर्वत्वात् सा न उपेयाय शङ्किता

प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥

प्रह्रादम् प्रेषयाम् आस ब्रह्मा अवस्थितम् अन्तिके तात प्रशमय उपेहि स्व-पित्रे कुपितम् प्रभुम्

तथेति शनकै राजन्महाभागवतोऽर्भक: ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलि: ॥ ४ ॥

तथा इति शनकैः राजन् महा-भागवतः अर्भकः उपेत्य भुवि कायेन ननाम विधृत-अञ्जलिः

स्वपादमूले पतितं तमर्भकं
विलोक्य देव: कृपया परिप्लुत: ।
उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं
कालाहिवित्रस्तधियां कृताभयम् ॥ ५ ॥

स्व-पाद-मूले पतितम् तम् अर्भकम् विलोक्य देवः कृपया परिप्लुतः उत्थाप्य तत्-शीर्ष्णि अदधात् कर-अम्बुजम् काल-अहि वित्रस्त धियाम् कृत-अभयम्

स तत्करस्पर्शधुताखिलाशुभ:
सपद्यभिव्यक्तपरात्मदर्शन: ।
तत्पादपद्मं हृदि निर्वृतो दधौ
हृष्यत्तनु: क्लिन्नहृदश्रुलोचन: ॥ ६ ॥

सः तत्-कर-स्पर्श धुत अखिल अशुभः सपदि अभिव्यक्त पर-आत्म-दर्शनः तत्-पाद-पद्मम् हृदि निर्वृतः दधौ हृष्यत्-तनुः क्लिन्न-हृत् अश्रु-लोचनः

अस्तौषीद्धरिमेकाग्रमनसा सुसमाहित: ।
प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षण: ॥ ७ ॥

अस्तौषीत् हरिम् एकाग्र-मनसा सु-समाहितः प्रेम-गद्गदया वाचा तत्-न्यस्त हृदय-ईक्षणः

श्रीप्रह्राद उवाच
ब्रह्मादय: सुरगणा मुनयोऽथ सिद्धा:
सत्त्वैकतानगतयो वचसां प्रवाहै: ।
नाराधितुं पुरुगुणैरधुनापि पिप्रु:
किं तोष्टुमर्हति स मे हरिरुग्रजाते: ॥ ८ ॥

श्री-प्रह्रादः उवाच ब्रह्म-आदयः सुर-गणाः मुनयः अथ सिद्धाः सत्त्व एकतान-गतयः वचसाम् प्रवाहैः न आराधितुम् पुरु-गुणैः अधुना अपि पिप्रुः किम् तोष्टुम् अर्हति सः मे हरिः उग्र-जातेः

मन्ये धनाभिजनरूपतप:श्रुतौज-
स्तेज:प्रभावबलपौरुषबुद्धियोगा: ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान्गजयूथपाय ॥ ९ ॥

मन्ये धन अभिजन रूप तपः श्रुत ओजः तेजः प्रभाव बल पौरुष बुद्धि योगाः न आराधनाय हि भवन्ति परस्य पुंसः भक्त्या तुतोष भगवान् गज-यूथ-पाय

विप्राद् द्विषड्‌गुणयुतादरविन्दनाभ-
पादारविन्दविमुखात् श्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमान: ॥ १० ॥

विप्रात् द्वि-षट्-गुण-युतात् अरविन्द-नाभ पाद-अरविन्द विमुखात् श्व-पचम् वरिष्ठम् मन्ये तत्-अर्पित मनः वचन ईहित अर्थ प्राणम् पुनाति सः कुलम् न तु भूरिमानः

नैवात्मन: प्रभुरयं निजलाभपूर्णो
मानं जनादविदुष: करुणो वृणीते ।
यद् यज्जनो भगवते विदधीत मानं
तच्चात्मने प्रतिमुखस्य यथा मुखश्री: ॥ ११ ॥

न एव आत्मनः प्रभुः अयम् निज-लाभ-पूर्णः मानम् जनात् अविदुषः करुणः वृणीते यत् यत् जनः भगवते विदधीत मानम् तत् च आत्मने प्रति-मुखस्य यथा मुख-श्रीः

तस्मादहं विगतविक्लव ईश्वरस्य
सर्वात्मना महि गृणामि यथा मनीषम् ।
नीचोऽजया गुणविसर्गमनुप्रविष्ट:
पूयेत येन हि पुमाननुवर्णितेन ॥ १२ ॥

तस्मात् अहम् विगत-विक्लवः ईश्वरस्य सर्व-आत्मना महि गृणामि यथा मनीषम् नीचः अजया गुण-विसर्गम् अनुप्रविष्टः पूयेत येन हि पुमान् अनुवर्णितेन

सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो
ब्रह्मादयो वयमिवेश न चोद्विजन्त: ।
क्षेमाय भूतय उतात्मसुखाय चास्य
विक्रीडितं भगवतो रुचिरावतारै: ॥ १३ ॥

सर्वे हि अमी विधि-कराः तव सत्त्व-धाम्नः ब्रह्म-आदयः वयम् इव ईश न च उद्विजन्तः क्षेमाय भूतये उत आत्म-सुखाय च अस्य विक्रीडितम् भगवतः रुचिर अवतारैः

तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य
मोदेत साधुरपि वृश्चिकसर्पहत्या ।
लोकाश्च निर्वृतिमिता: प्रतियन्ति सर्वे
रूपं नृसिंह विभयाय जना: स्मरन्ति ॥ १४ ॥

तत् यच्छ मन्युम् असुरः च हतः त्वया अद्य मोदेत साधुः अपि वृश्चिक-सर्प-हत्या लोकाः च निर्वृतिम् इताः प्रतियन्ति सर्वे रूपम् नृसिंह विभयाय जनाः स्मरन्ति

नाहं बिभेम्यजित तेऽतिभयानकास्य-
जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रज: क्षतजकेशरशङ्कुकर्णा-
न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ १५ ॥

न अहम् बिभेमि अजित ते अति भयानक आस्य जिह्वा अर्क-नेत्र भ्रुकुटी रभस उग्र-दंष्ट्रात् आन्त्र-स्रजः क्षतज केशर शङ्कु-कर्णात् निर्ह्राद भीत दिगिभात् अरि-भित् नख-अग्रात्

त्रस्तोऽस्म्यहं कृपणवत्सल दु:सहोग्र-
संसारचक्रकदनाद् ग्रसतां प्रणीत: ।
बद्ध: स्वकर्मभिरुशत्तम तेऽङ्‌घ्रिमूलं
प्रीतोऽपवर्गशरणं ह्वयसे कदा नु ॥ १६ ॥

त्रस्तः अस्मि अहम् कृपण-वत्सल दुःसह उग्र संसार-चक्र कदनात् ग्रसताम् प्रणीतः बद्धः स्व-कर्मभिः उशत्तम ते अङ्घ्रि-मूलम् प्रीतः अपवर्ग-शरणम् ह्वयसे कदा नु

यस्मात् प्रियाप्रियवियोगसंयोगजन्म-
शोकाग्निना सकलयोनिषु दह्यमान: ।
दु:खौषधं तदपि दु:खमतद्धियाहं
भूमन्भ्रमामि वद मे तव दास्ययोगम् ॥ १७ ॥

यस्मात् प्रिय अप्रिय वियोग संयोग जन्म शोक-अग्निना सकल-योनिषु दह्यमानः दुःख-औषधम् तत् अपि दुःखम् अ-तत्-धिया अहम् भूमन् भ्रमामि वद मे तव दास्य-योगम्

सोऽहं प्रियस्य सुहृद: परदेवताया
लीलाकथास्तव नृसिंह विरिञ्चगीता: ।
अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो
दुर्गाणि ते पदयुगालयहंससङ्ग: ॥ १८ ॥

सः अहम् प्रियस्य सुहृदः परदेवतायाः लीला-कथाः तव नृसिंह विरिञ्च-गीताः अञ्जः तितर्मि अनुगृणन् गुण विप्रमुक्तः दुर्गाणि ते पद-युग-आलय हंस-सङ्गः

बालस्य नेह शरणं पितरौ नृसिंह
नार्तस्य चागदमुदन्वति मज्जतो नौ: ।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-
स्तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥ १९ ॥

बालस्य न इह शरणम् पितरौ नृसिंह न आर्तस्य च अगदम् उदन्वति मज्जतः नौः तप्तस्य तत्-प्रतिविधिः यः इह अञ्जसा इष्टः तावत् विभो तनु-भृताम् त्वत्-उपेक्षितानाम्

यस्मिन्यतो यर्हि येन च यस्य यस्माद्
यस्मै यथा यदुत यस्त्वपर: परो वा ।
भाव: करोति विकरोति पृथक्स्वभाव:
सञ्चोदितस्तदखिलं भवत: स्वरूपम् ॥ २० ॥

यस्मिन् यतः यर्हि येन च यस्य यस्मात् यस्मै यथा यत् उत यः तु अपरः परः वा भावः करोति विकरोति पृथक् स्वभावः सञ्चोदितः तत् अखिलम् भवतः स्वरूपम्

माया मन: सृजति कर्ममयं बलीय:
कालेन चोदितगुणानुमतेन पुंस: ।
छन्दोमयं यदजयार्पितषोडशारं
संसारचक्रमज कोऽतितरेत् त्वदन्य: ॥ २१ ॥

माया मनः सृजति कर्म-मयम् बलीयः कालेन चोदित-गुण अनुमतेन पुंसः छन्दः-मयम् यत् अजया अर्पित षोडश अरम् संसार-चक्रम् अज कः अतितरेत् त्वत्-अन्यः

स त्वं हि नित्यविजितात्मगुण: स्वधाम्ना
कालो वशीकृतविसृज्यविसर्गशक्ति: ।
चक्रे विसृष्टमजयेश्वर षोडशारे
निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ २२ ॥

सः त्वम् हि नित्य विजित-आत्म गुणः स्व-धाम्ना कालः वशी-कृत विसृज्य विसर्ग शक्तिः चक्रे विसृष्टम् अजया ईश्वर षोडश-अरे निष्पीड्यमानम् उपकर्ष विभो प्रपन्नम्

द‍ृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना-
मायु: श्रियो विभव इच्छति याञ्जनोऽयम् ।
येऽस्मत्पितु: कुपितहासविजृम्भितभ्रू-
विस्फूर्जितेन लुलिता: स तु ते निरस्त: ॥ २३ ॥

दृष्टाः मया दिवि विभो अखिल धिष्ण्य-पानाम् आयुः श्रियः विभवः इच्छति यान् जनः अयम् ये अस्मत् पितुः कुपित-हास विजृम्भित भ्रू विस्फूर्जितेन लुलिताः सः तु ते निरस्तः

तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ
आयु: श्रियं विभवमैन्द्रियमाविरिञ्‍च्यात् ।
नेच्छामि ते विलुलितानुरुविक्रमेण
कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ २४ ॥

तस्मात् अमूः तनु-भृताम् अहम् आशिषः अज्ञः आयुः श्रियम् विभवम् ऐन्द्रियम् आविरिञ्च्यात् न इच्छामि ते विलुलितान् उरु-विक्रमेण काल-आत्मना उपनय माम् निज-भृत्य-पार्श्वम्

कुत्राशिष: श्रुतिसुखा मृगतृष्णिरूपा:
क्‍वेदं कलेवरमशेषरुजां विरोह: ।
निर्विद्यते न तु जनो यदपीति विद्वान्
कामानलं मधुलवै: शमयन्दुरापै: ॥ २५ ॥

कुत्र आशिषः श्रुति-सुखाः मृगतृष्णि-रूपाः क्व इदम् कलेवरम् अशेष रुजाम् विरोहः निर्विद्यते न तु जनः यत् अपि इति विद्वान् काम-अनलम् मधु-लवैः शमयन् दुरापैः

क्व‍ाहं रज:प्रभव ईश तमोऽधिकेऽस्मिन्
जात: सुरेतरकुले क्व‍ तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पित: शिरसि पद्मकर: प्रसाद: ॥ २६ ॥

क्व अहम् रजः-प्रभवः ईश तमः अधिके अस्मिन् जातः सुर-इतर-कुले क्व तव अनुकम्पा न ब्रह्मणः न तु भवस्य न वै रमायाः यत् मे अर्पितः शिरसि पद्म-करः प्रसादः

नैषा परावरमतिर्भवतो ननु स्या-
ज्जन्तोर्यथात्मसुहृदो जगतस्तथापि ।
संसेवया सुरतरोरिव ते प्रसाद:
सेवानुरूपमुदयो न परावरत्वम् ॥ २७ ॥

न एषा पर-अवर मतिः भवतः ननु स्यात् जन्तोः यथा आत्म-सुहृदः जगतः तथापि संसेवया सुरतरोः इव ते प्रसादः सेवा-अनुरूपम् उदयः न पर-अवरत्वम्

एवं जनं निपतितं प्रभवाहिकूपे
कामाभिकाममनु य: प्रपतन्प्रसङ्गात् ।
कृत्वात्मसात् सुरर्षिणा भगवन्गृहीत:
सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ २८ ॥

एवम् जनम् निपतितम् प्रभव अहि-कूपे काम-अभिकामम् अनु यः प्रपतन् प्रसङ्गात् कृत्वा आत्मसात् सुर-ऋषिणा भगवन् गृहीतः सः अहम् कथम् नु विसृजे तव भृत्य-सेवाम्

मत्प्राणरक्षणमनन्त पितुर्वधश्च
मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ।
खड्‌गं प्रगृह्य यदवोचदसद्विधित्सु-
स्त्वामीश्वरो मदपरोऽवतु कं हरामि ॥ २९ ॥

मत्-प्राण-रक्षणम् अनन्त पितुः वधः च मन्ये स्व-भृत्य ऋषि-वाक्यम् ऋतम् विधातुम् खड्गम् प्रगृह्य यत् अवोचत् असत्-विधित्सुः त्वाम् ईश्वरः मत्-अपरः अवतु कम् हरामि

एकस्त्वमेव जगदेतममुष्य यत्त्व-
माद्यन्तयो: पृथगवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं
नानेव तैरवसितस्तदनुप्रविष्ट: ॥ ३० ॥

एकः त्वम् एव जगत् एतम् अमुष्य यत् त्वम् आदि अन्तयोः पृथक् अवस्यसि मध्यतः च सृष्ट्वा गुण-व्यतिकरम् निज-मायया इदम् नाना इव तैः अवसितः तत् अनुप्रविष्टः

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो
माया यदात्मपरबुद्धिरियं ह्यपार्था ।
यद्यस्य जन्म निधनं स्थितिरीक्षणं च
तद्वैतदेव वसुकालवदष्टितर्वो: ॥ ३१ ॥

त्वम् वा इदम् सत्-असत् ईश भवान् ततः अन्यः माया यत् आत्म-पर-बुद्धिः इयम् हि अपार्था यत् यस्य जन्म निधनम् स्थितिः ईक्षणम् च तत् वा एतत् एव वसुकाल-वत् अष्टि-तर्वोः

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये
शेषेत्मना निजसुखानुभवो निरीह: ।
योगेन मीलितद‍ृगात्मनिपीतनिद्र-
स्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्‌क्षे ॥ ३२ ॥

न्यस्य इदम् आत्मनि जगत् विलय-अम्बु-मध्ये शेषे आत्मना निज सुख-अनुभवः निरीहः योगेन मीलित-दृक् आत्म निपीत निद्रः तुर्ये स्थितः न तु तमः न गुणान् च युङ्क्षे

तस्यैव ते वपुरिदं निजकालशक्त्या
सञ्चोदितप्रकृतिधर्मण आत्मगूढम् ।
अम्भस्यनन्तशयनाद्विरमत्समाधे-
र्नाभेरभूत् स्वकणिकावटवन्महाब्जम् ॥ ३३ ॥

तस्य एव ते वपुः इदम् निज-काल-शक्त्या सञ्चोदित प्रकृति-धर्मणः आत्म-गूढम् अम्भसि अनन्त-शयनात् विरमत्-समाधेः नाभेः अभूत् स्व-कणिका वट-वत् महा-अब्जम्

तत्सम्भव: कविरतोऽन्यदपश्यमान-
स्त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य ।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेऽङ्कुरे कथमुहोपलभेत बीजम् ॥ ३४ ॥

तत्-सम्भवः कविः अतः अन्यत् अपश्यमानः त्वाम् बीजम् आत्मनि ततम् सः बहिः विचिन्त्य न अविन्दत् अब्द-शतम् अप्सु निमज्जमानः जाते अङ्कुरे कथम् उह उपलभेत बीजम्

स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभाव: ।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५ ॥

सः तु आत्म-योनिः अति-विस्मितः आश्रितः अब्जम् कालेन तीव्र-तपसा परिशुद्ध-भावः त्वाम् आत्मनि ईश भुवि गन्धम् इव अति-सूक्ष्मम् भूत-इन्द्रिय आशय-मये विततम् ददर्श

एवं सहस्रवदनाङ्‌घ्रिशिर:करोरु-
नासाद्यकर्णनयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षितसन्निवेशं
द‍ृष्ट्वा महापुरुषमाप मुदं विरिञ्च: ॥ ३६ ॥

एवम् सहस्र वदन अङ्घ्रि शिरः कर उरु नास-आद्य कर्ण नयन आभरण आयुध आढ्यम् माया-मयम् सत्-उपलक्षित सन्निवेशम् दृष्ट्वा महा-पुरुषम् आप मुदम् विरिञ्चः

तस्मै भवान्हयशिरस्तनुवं हि बिभ्रद्
वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वानयच्छ्रुतिगणांश्च रजस्तमश्च
सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ ३७ ॥

तस्मै भवान् हय-शिरः तनुवम् हि बिभ्रत् वेद-द्रुहौ अति-बलौ मधु-कैटभ-आख्यौ हत्वा अनयत् श्रुति-गणान् च रजः तमः च सत्त्वम् तव प्रिय-तमाम् तनुम् आमनन्ति

इत्थं नृतिर्यगृषिदेवझषावतारै-
र्लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष पासि युगानुवृत्तं
छन्न: कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥ ३८ ॥

इत्थम् नृ तिर्यक् ऋषि देव झष अवतारैः लोकान् विभावयसि हंसि जगत् प्रतीपान् धर्मम् महा-पुरुष पासि युग-अनुवृत्तम् छन्नः कलौ यत् अभवः त्रि-युगः अथ सः त्वम्

नैतन्मनस्तव कथासु विकुण्ठनाथ
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयैषणार्तं
तस्मिन्कथं तव गतिं विमृशामि दीन: ॥ ३९ ॥

न एतत् मनः तव कथासु विकुण्ठ-नाथ सम्प्रीयते दुरित दुष्टम् असाधु तीव्रम् काम-आतुरम् हर्ष-शोक भय एषणा आर्तम् तस्मिन् कथम् तव गतिम् विमृशामि दीनः

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलद‍ृक् क्व‍ च कर्मशक्ति-
र्बह्व्य: सपत्‍न्य इव गेहपतिं लुनन्ति ॥ ४० ॥

जिह्वा एकतः अच्युत विकर्षति मा अवितृप्ता शिश्नः अन्यतः त्वक् उदरम् श्रवणम् कुतश्चित् घ्राणः अन्यतः चपल-दृक् क्व च कर्म-शक्तिः बह्व्यः स-पत्न्यः इव गेह-पतिम् लुनन्ति

एवं स्वकर्मपतितं भववैतरण्या-
मन्योन्यजन्ममरणाशनभीतभीतम् ।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं
हन्तेति पारचर पीपृहि मूढमद्य ॥ ४१ ॥

एवम् स्व-कर्म-पतितम् भव वैतरण्याम् अन्यः अन्य जन्म मरण आशन भीत-भीतम् पश्यन् जनम् स्व पर विग्रह वैर-मैत्रम् हन्त इति पारचर पीपृहि मूढम् अद्य

को न्वत्र तेऽखिलगुरो भगवन्प्रयास
उत्तारणेऽस्य भवसम्भवलोपहेतो: ।
मूढेषु वै महदनुग्रह आर्तबन्धो
किं तेन ते प्रियजनाननुसेवतां न: ॥ ४२ ॥

कः नु अत्र ते अखिल-गुरो भगवन् प्रयासः उत्तारणे अस्य भव-सम्भव लोप हेतोः मूढेषु वै महत्-अनुग्रहः आर्त-बन्धो किम् तेन ते प्रिय-जनान् अनुसेवताम् नः

नैवोद्विजे पर दुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्त: ।
शोचे ततो विमुखचेतस इन्द्रियार्थ
मायासुखाय भरमुद्वहतो विमूढान् ॥ ४३ ॥

न एव उद्विजे पर दुरत्यय वैतरण्याः त्वत्-वीर्य गायन महा-अमृत मग्न-चित्तः शोचे ततः विमुख-चेतसः इन्द्रिय-अर्थ माया-सुखाय भरम् उद्वहतः विमूढान्

प्रायेण देव मुनय: स्वविमुक्तिकामा
मौनं चरन्ति विजने न परार्थनिष्ठा: ।
नैतान्विहाय कृपणान्विमुमुक्ष एको
नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥

प्रायेण देव मुनयः स्व विमुक्ति-कामाः मौनम् चरन्ति विजने न पर-अर्थ-निष्ठाः न एतान् विहाय कृपणान् विमुमुक्षे एकः न अन्यम् त्वत् अस्य शरणम् भ्रमतः अनुपश्ये

यन्मैथुनादिगृहमेधिसुखं हि तुच्छं
कण्डूयनेन करयोरिव दु:खदु:खम् ।
तृप्यन्ति नेह कृपणा बहुदु:खभाज:
कण्डूतिवन्मनसिजं विषहेत धीर: ॥ ४५ ॥

यत् मैथुन-आदि गृहमेधि-सुखम् हि तुच्छम् कण्डूयनेन करयोः इव दुःख-दुःखम् तृप्यन्ति न इह कृपणाः बहु-दुःख-भाजः कण्डूति-वत् मनसि-जम् विषहेत धीरः

मौनव्रतश्रुततपोऽध्ययनस्वधर्म-
व्याख्यारहोजपसमाधय आपवर्ग्या: ।
प्राय: परं पुरुष ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ ४६ ॥

मौन व्रत श्रुत तपः अध्ययन स्व-धर्म व्याख्या रहः जप समाधयः आपवर्ग्याः प्रायः परम् पुरुष ते तु अजित-इन्द्रियाणाम् वार्ताः भवन्ति उत न वा अत्र तु दाम्भिकानाम्

रूपे इमे सदसती तव वेदसृष्टे
बीजाङ्कुराविव न चान्यदरूपकस्य ।
युक्ता: समक्षमुभयत्र विचक्षन्ते त्वां
योगेन वह्निमिव दारुषु नान्यत: स्यात् ॥ ४७ ॥

रूपे इमे सत्-असती तव वेद-सृष्टे बीज-अङ्कुरौ इव न च अन्यत् अरूपकस्य युक्ताः समक्षम् उभयत्र विचक्षन्ते त्वाम् योगेन वह्निम् इव दारुषु न अन्यतः स्यात्

त्वं वायुरग्निरवनिर्वियदम्बु मात्रा:
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ ४८ ॥

त्वम् वायुः अग्निः अवनिः वियत् अम्बु मात्राः प्राण इन्द्रियाणि हृदयम् चित् अनुग्रहः च सर्वम् त्वम् एव स-गुणः विगुणः च भूमन् न अन्यत् त्वत् अस्ति अपि मनः-वचसा निरुक्तम्

नैते गुणा न गुणिनो महदादयो ये
सर्वे मन: प्रभृतय: सहदेवमर्त्या: ।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वा-
मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ ४९ ॥

न एते गुणाः न गुणिनः महत्-आदयः ये सर्वे मनः प्रभृतयः सह-देव-मर्त्याः आदि-अन्त-वन्तः उरुगाय विदन्ति हि त्वाम् एवम् विमृश्य सुधियः विरमन्ति शब्दात्

तत्तेऽर्हत्तम नम: स्तुतिकर्मपूजा:
कर्म स्मृतिश्चरणयो: श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडङ्गया किं
भक्तिं जन: परमहंसगतौ लभेत ॥ ५० ॥

तत् ते अर्हत्-तम नमः स्तुति-कर्म-पूजाः कर्म स्मृतिः चरणयोः श्रवणम् कथायाम् संसेवया त्वयि विना इति षट्-अङ्गया किम् भक्तिम् जनः परमहंस-गतौ लभेत

श्रीनारद उवाच
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुण: ।
प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत ॥ ५१ ॥

श्री-नारदः उवाच एतावत् वर्णित गुणः भक्त्या भक्तेन निर्गुणः प्रह्रादम् प्रणतम् प्रीतः यत-मन्युः अभाषत

श्रीभगवानुवाच
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥ ५२ ॥

श्री-भगवान् उवाच प्रह्राद भद्र भद्रम् ते प्रीतः अहम् ते असुर-उत्तम वरम् वृणीष्व अभिमतम् काम-पूरः अस्मि अहम् नृणाम्

मामप्रीणत आयुष्मन्दर्शनं दुर्लभं हि मे ।
द‍ृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥ ५३ ॥

माम् अप्रीणतः आयुष्मन् दर्शनम् दुर्लभम् हि मे दृष्ट्वा माम् न पुनः जन्तुः आत्मानम् तप्तुम् अर्हति

प्रीणन्ति ह्यथ मां धीरा: सर्वभावेन साधव: ।
श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥ ५४ ॥

प्रीणन्ति हि अथ माम् धीराः सर्व-भावेन साधवः श्रेयस्-कामाः महा-भाग सर्वासाम् आशिषाम् पतिम्

श्रीनारद उवाच
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनै: ।
एकान्तित्वाद् भगवति नैच्छत्तानसुरोत्तम: ॥ ५५ ॥

श्री-नारदः उवाच एवम् प्रलोभ्यमानः अपि वरैः लोक प्रलोभनैः एकान्तित्वात् भगवति न ऐच्छत् तान् असुर-उत्तमः

७.१०

श्रीनारद उवाच
भक्तियोगस्य तत्सर्वमन्तरायतयार्भक: ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ १ ॥

श्री-नारदः उवाच भक्ति-योगस्य तत् सर्वम् अन्तरायतया अर्भकः मन्यमानः हृषीकेशम् स्मयमानः उवाच ह

श्रीप्रह्राद उवाच
मा मां प्रलोभयोत्पत्त्या सक्तं कामेषु तैर्वरै: ।
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रित: ॥ २ ॥

श्री-प्रह्रादः उवाच मा माम् प्रलोभय उत्पत्त्या सक्तम् कामेषु तैः वरैः तत्-सङ्ग-भीतः निर्विण्णः मुमुक्षुः त्वाम् उपाश्रितः

भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ।
भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ ३ ॥

भृत्य-लक्षण-जिज्ञासुः भक्तम् कामेषु अचोदयत् भवान् संसार-बीजेषु हृदय-ग्रन्थिषु प्रभो

नान्यथा तेऽखिलगुरो घटेत करुणात्मन: ।
यस्त आशिष आशास्ते न स भृत्य: स वै वणिक् ॥ ४ ॥

न अन्यथा ते अखिल-गुरो घटेत करुणा-आत्मनः यः ते आशिषः आशास्ते न सः भृत्यः सः वै वणिक्

आशासानो न वै भृत्य: स्वामिन्याशिष आत्मन: ।
न स्वामी भृत्यत: स्वाम्यमिच्छन्यो राति चाशिष: ॥ ५ ॥

आशासानः न वै भृत्यः स्वामिनि आशिषः आत्मनः न स्वामी भृत्यतः स्वाम्यम् इच्छन् यः राति च आशिषः

अहं त्वकामस्त्वद्भ‍क्तस्त्वं च स्वाम्यनपाश्रय: ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ ६ ॥

अहम् तु अकामः त्वत्-भक्तः त्वम् च स्वामी अनपाश्रयः न अन्यथा इह आवयोः अर्थः राज सेवकयोः इव

यदि दास्यसि मे कामान्वरांस्त्वं वरदर्षभ ।
कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ ७ ॥

यदि दास्यसि मे कामान् वरान् त्वम् वरद-ऋषभ कामानाम् हृदि असंरोहम् भवतः तु वृणे वरम्

इन्द्रियाणि मन: प्राण आत्मा धर्मो धृतिर्मति: ।
ह्री: श्रीस्तेज: स्मृति: सत्यं यस्य नश्यन्ति जन्मना ॥ ८ ॥

इन्द्रियाणि मनः प्राणः आत्मा धर्मः धृतिः मतिः ह्रीः श्रीः तेजः स्मृतिः सत्यम् यस्य नश्यन्ति जन्मना

विमुञ्चति यदा कामान्मानवो मनसि स्थितान् ।
तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ ९ ॥

विमुञ्चति यदा कामान् मानवः मनसि स्थितान् तर्हि एव पुण्डरीक-अक्ष भगवत्त्वाय कल्पते

ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरयेऽद्भ‍ुतसिंहाय ब्रह्मणे परमात्मने ॥ १० ॥

ओम् नमः भगवते तुभ्यम् पुरुषाय महा-आत्मने हरये अद्भुत-सिंहाय ब्रह्मणे परम-आत्मने

श्रीभगवानुवाच
नैकान्तिनो मे मयि जात्विहाशिष
आशासतेऽमुत्र च ये भवद्विधा: ।
तथापि मन्वन्तरमेतदत्र
दैत्येश्वराणामनुभुङ्‌क्ष्व भोगान् ॥ ११ ॥

श्री-भगवान् उवाच न एकान्तिनः मे मयि जातु इह आशिषः आशासते अमुत्र च ये भवत्-विधाः तथापि मन्वन्तरम् एतत् अत्र दैत्य-ईश्वराणाम् अनुभुङ्क्ष्व भोगान्

कथा मदीया जुषमाण: प्रियास्त्व-
मावेश्य मामात्मनि सन्तमेकम् ।
सर्वेषु भूतेष्वधियज्ञमीशं
यजस्व योगेन च कर्म हिन्वन् ॥ १२ ॥

कथाः मदीयाः जुषमाणः प्रियाः त्वम् आवेश्य माम् आत्मनि सन्तम् एकम् सर्वेषु भूतेषु अधियज्ञम् ईशम् यजस्व योगेन च कर्म हिन्वन्

भोगेन पुण्यं कुशलेन पापं
कलेवरं कालजवेन हित्वा ।
कीर्तिं विशुद्धां सुरलोकगीतां
विताय मामेष्यसि मुक्तबन्ध: ॥ १३ ॥

भोगेन पुण्यम् कुशलेन पापम् कलेवरम् काल-जवेन हित्वा कीर्तिम् विशुद्धाम् सुर-लोक-गीताम् विताय माम् एष्यसि मुक्त-बन्धः

य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नर: ।
त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते ॥ १४ ॥

यः एतत् कीर्तयेत् मह्यम् त्वया गीतम् इदम् नरः त्वाम् च माम् च स्मरन् काले कर्म-बन्धात् प्रमुच्यते

श्रीप्रह्राद उवाच
वरं वरय एतत्ते वरदेशान्महेश्वर ।
यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥ १५ ॥
विद्धामर्षाशय: साक्षात्सर्वलोकगुरुं प्रभुम् ।
भ्रातृहेति मृषाद‍ृष्टिस्त्वद्भ‍क्ते मयि चाघवान् ॥ १६ ॥
तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।
पूतस्तेऽपाङ्गसंद‍ृष्टस्तदा कृपणवत्सल ॥ १७ ॥

श्री-प्रह्रादः उवाच वरम् वरये एतत् ते वरद-ईशात् महा-ईश्वर यत् अनिन्दत् पिता मे त्वाम् अविद्वान् तेजः ऐश्वरम् विद्ध अमर्ष आशयः साक्षात् सर्व-लोक-गुरुम् प्रभुम् भ्रातृ-हा इति मृषा-दृष्टिः त्वत्-भक्ते मयि च अघ-वान् तस्मात् पिता मे पूयेत दुरन्तात् दुस्तरात् अघात् पूतः ते अपाङ्ग संदृष्टः तदा कृपण-वत्सल

श्रीभगवानुवाच
त्रि:सप्तभि: पिता पूत: पितृभि: सह तेऽनघ ।
यत्साधोऽस्य कुले जातो भवान्वै कुलपावन: ॥ १८ ॥

श्री-भगवान् उवाच त्रिः-सप्तभिः पिता पूतः पितृभिः सह ते अनघ यत् साधो अस्य कुले जातः भवान् वै कुल-पावनः

यत्र यत्र च मद्भ‍क्ता: प्रशान्ता: समदर्शिन: ।
साधव: समुदाचारास्ते पूयन्तेऽपि कीकटा: ॥ १९ ॥

यत्र यत्र च मत्-भक्ताः प्रशान्ताः सम-दर्शिनः साधवः समुदाचाराः ते पूयन्ते अपि कीकटाः

सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन ।
उच्चावचेषु दैत्येन्द्र मद्भ‍ावविगतस्पृहा: ॥ २० ॥

सर्व-आत्मना न हिंसन्ति भूत-ग्रामेषु किञ्चन उच्च-अवचेषु दैत्य-इन्द्र मत्-भाव विगत स्पृहाः

भवन्ति पुरुषा लोके मद्भ‍क्तास्त्वामनुव्रता: ।
भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २१ ॥

भवन्ति पुरुषाः लोके मत्-भक्ताः त्वाम् अनुव्रताः भवान् मे खलु भक्तानाम् सर्वेषाम् प्रतिरूप-धृक्

कुरु त्वं प्रेतकृत्यानि पितु: पूतस्य सर्वश: ।
मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजा: ॥ २२ ॥

कुरु त्वम् प्रेत-कृत्यानि पितुः पूतस्य सर्वशः मत्-अङ्ग स्पर्शनेन अङ्ग लोकान् यास्यति सु-प्रजाः

पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभि: ।
मय्यावेश्य मनस्तात कुरु कर्माणि मत्पर: ॥ २३ ॥

पित्र्यम् च स्थानम् आतिष्ठ यथा-उक्तम् ब्रह्मवादिभिः मयि आवेश्य मनः तात कुरु कर्माणि मत्-परः

श्रीनारद उवाच
प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् ।
यथाह भगवान् राजन्नभिषिक्तो द्विजातिभि: ॥ २४ ॥

श्री-नारदः उवाच प्रह्रादः अपि तथा चक्रे पितुः यत् साम्परायिकम् यथा आह भगवान् राजन् अभिषिक्तः द्वि-जातिभिः

प्रसादसुमुखं द‍ृष्ट्वा ब्रह्मा नरहरिं हरिम् ।
स्तुत्वा वाग्भि: पवित्राभि: प्राह देवादिभिर्वृत: ॥ २५ ॥

प्रसाद-सुमुखम् दृष्ट्वा ब्रह्मा नर-हरिम् हरिम् स्तुत्वा वाग्भिः पवित्राभिः प्राह देव-आदिभिः वृतः

श्रीब्रह्मोवाच
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज ।
दिष्टय‍ा ते निहत: पापो लोकसन्तापनोऽसुर: ॥ २६ ॥

श्री-ब्रह्मा उवाच देव-देव अखिल-अध्यक्ष भूत-भावन पूर्व-ज दिष्ट्या ते निहतः पापः लोक-सन्तापनः असुरः

योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभि: ।
तपोयोगबलोन्नद्ध: समस्तनिगमानहन् ॥ २७ ॥

यः असौ लब्ध-वरः मत्तः न वध्यः मम सृष्टिभिः तपः-योग-बल उन्नद्धः समस्त निगमान् अहन्

दिष्टय‍ा तत्तनय: साधुर्महाभागवतोऽर्भक: ।
त्वया विमोचितो मृत्योर्दिष्टय‍ा त्वां समितोऽधुना ॥ २८ ॥

दिष्ट्या तत्-तनयः साधुः महा-भागवतः अर्भकः त्वया विमोचितः मृत्योः दिष्ट्या त्वाम् समितः अधुना

एतद् वपुस्ते भगवन्ध्यायत: परमात्मन: ।
सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसत: ॥ २९ ॥

एतत् वपुः ते भगवन् ध्यायतः परम-आत्मनः सर्वतः गोप्तृ सन्त्रासात् मृत्योः अपि जिघांसतः

श्रीभगवानुवाच
मैवं विभोऽसुराणां ते प्रदेय: पद्मसम्भव ।
वर: क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३० ॥

श्री-भगवान् उवाच मा एवम् विभो असुराणाम् ते प्रदेयः पद्म-सम्भव वरः क्रूर-निसर्गाणाम् अहीनाम् अमृतम् यथा

श्रीनारद उवाच
इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरि: ।
अद‍ृश्य: सर्वभूतानां पूजित: परमेष्ठिना ॥ ३१ ॥

श्री-नारदः उवाच इति उक्त्वा भगवान् राजन् ततः च अन्तर्दधे हरिः अदृश्यः सर्व-भूतानाम् पूजितः परमेष्ठिना

तत: सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कला: ॥ ३२ ॥

ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् भवम् प्रजापतीन् देवान् प्रह्रादः भगवत्-कलाः

तत: काव्यादिभि: सार्धं मुनिभि: कमलासन: ।
दैत्यानां दानवानां च प्रह्रादमकरोत्पतिम् ॥ ३३ ॥

ततः काव्य-आदिभिः सार्धम् मुनिभिः कमल-आसनः दैत्यानाम् दानवानाम् च प्रह्रादम् अकरोत् पतिम्

प्रतिनन्द्य ततो देवा: प्रयुज्य परमाशिष: ।
स्वधामानि ययू राजन्ब्रह्माद्या: प्रतिपूजिता: ॥ ३४ ॥

प्रतिनन्द्य ततः देवाः प्रयुज्य परम-आशिषः स्व-धामानि ययुः राजन् ब्रह्म-आद्याः प्रतिपूजिताः

एवं च पार्षदौ विष्णो: पुत्रत्वं प्रापितौ दिते: ।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ ३५ ॥

एवम् च पार्षदौ विष्णोः पुत्रत्वम् प्रापितौ दितेः हृदि स्थितेन हरिणा वैर-भावेन तौ हतौ

पुनश्च विप्रशापेन राक्षसौ तौ बभूवतु: ।
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमै: ॥ ३६ ॥

पुनः च विप्र-शापेन राक्षसौ तौ बभूवतुः कुम्भकर्ण-दश-ग्रीवौ हतौ तौ राम-विक्रमैः

शयानौ युधि निर्भिन्नहृदयौ रामशायकै: ।
तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ ३७ ॥

शयानौ युधि निर्भिन्न हृदयौ राम-शायकैः तत्-चित्तौ जहतुः देहम् यथा प्राक्तन-जन्मनि

ताविहाथ पुनर्जातौ शिशुपालकरूषजौ ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतु: ॥ ३८ ॥

तौ इह अथ पुनः जातौ शिशुपाल करूष-जौ हरौ वैर-अनुबन्धेन पश्यतः ते समीयतुः

एन: पूर्वकृतं यत् तद् राजान: कृष्णवैरिण: ।
जहुस्तेऽन्ते तदात्मान: कीट: पेशस्कृतो यथा ॥ ३९ ॥

एनः पूर्व-कृतम् यत् तत् राजानः कृष्ण-वैरिणः जहुः ते अन्ते तत्-आत्मानः कीटः पेशस्कृतः यथा

यथा यथा भगवतो भक्त्या परमयाभिदा ।
नृपाश्चैद्यादय: सात्म्यं हरेस्तच्चिन्तया ययु: ॥ ४० ॥

यथा यथा भगवतः भक्त्या परमया अभिदा नृपाः चैद्य-आदयः सात्म्यम् हरेः तत्-चिन्तया ययुः

आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरे: सात्म्यमपि द्विषाम् ॥ ४१ ॥

आख्यातम् सर्वम् एतत् ते यत् माम् त्वम् परिपृष्टवान् दमघोष-सुत-आदीनाम् हरेः सात्म्यम् अपि द्विषाम्

एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मन: ।
अवतारकथा पुण्या वधो यत्रादिदैत्ययो: ॥ ४२ ॥

एषा ब्रह्मण्य-देवस्य कृष्णस्य च महा-आत्मनः अवतार-कथा पुण्या वधः यत्र आदि दैत्ययोः

प्रह्रादस्यानुचरितं महाभागवतस्य च ।
भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरे: ॥ ४३ ॥
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।
परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४४ ॥

प्रह्रादस्य अनुचरितम् महा-भागवतस्य च भक्तिः ज्ञानम् विरक्तिः च याथार्थ्यम् च अस्य वै हरेः सर्ग स्थिति अप्यय ईशस्य गुण कर्म अनुवर्णनम् पर-अवरेषाम् स्थानानाम् कालेन व्यत्ययः महान्

धर्मो भागवतानां च भगवान्येन गम्यते ।
आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषत: ॥ ४५ ॥

धर्मः भागवतानाम् च भगवान् येन गम्यते आख्याने अस्मिन् समाम्नातम् आध्यात्मिकम् अशेषतः

य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् ।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ ४६ ॥

यः एतत् पुण्यम् आख्यानम् विष्णोः वीर्य उपबृंहितम् कीर्तयेत् श्रद्धया श्रुत्वा कर्म-पाशैः विमुच्यते

एतद्य आदिपुरुषस्य मृगेन्द्रलीलां
दैत्येन्द्रयूथपवधं प्रयत: पठेत ।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ ४७ ॥

एतत् यः आदि-पुरुषस्य मृग-इन्द्र-लीलाम् दैत्य-इन्द्र यूथ-प वधम् प्रयतः पठेत दैत्य-आत्म-जस्य च सताम् प्रवरस्य पुण्यम् श्रुत्वा अनुभावम् अकुतः-भयम् एति लोकम्

यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ४८ ॥

यूयम् नृ-लोके बत भूरि-भागाः लोकम् पुनानाः मुनयः अभियन्ति येषाम् गृहान् आवसति इति साक्षात् गूढम् परम् ब्रह्म मनुष्य-लिङ्गम्

स वा अयं ब्रह्म महद्विमृग्य-
कैवल्यनिर्वाणसुखानुभूति: ।
प्रिय: सुहृद् व: खलु मातुलेय
आत्मार्हणीयो विधिकृद्गुरुश्च ॥ ४९ ॥

सः वा अयम् ब्रह्म महत् विमृग्य कैवल्य निर्वाण-सुख अनुभूतिः प्रियः सुहृत् वः खलु मातुलेयः आत्मा अर्हणीयः विधि-कृत् गुरुः च

न यस्य साक्षाद्भ‍वपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजित:
प्रसीदतामेष स सात्वतां पति: ॥ ५० ॥

न यस्य साक्षात् भव पद्म-ज आदिभिः रूपम् धिया वस्तुतया उपवर्णितम् मौनेन भक्त्या उपशमेन पूजितः प्रसीदताम् एषः सः सात्वताम् पतिः

स एष भगवान् राजन्व्यतनोद्विहतं यश: ।
पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ ५१ ॥

सः एषः भगवान् राजन् व्यतनोत् विहतम् यशः पुरा रुद्रस्य देवस्य मयेन अनन्त मायिना

राजोवाच
कस्मिन्कर्मणि देवस्य मयोऽहञ्जगदीशितु: ।
यथा चोपचिता कीर्ति: कृष्णेनानेन कथ्यताम् ॥ ५२ ॥

राजा उवाच कस्मिन् कर्मणि देवस्य मयः अहन् जगत्-ईशितुः यथा च उपचिता कीर्तिः कृष्णेन अनेन कथ्यताम्

श्रीनारद उवाच
निर्जिता असुरा देवैर्युध्यनेनोपबृंहितै: ।
मायिनां परमाचार्यं मयं शरणमाययु: ॥ ५३ ॥

श्री-नारदः उवाच निर्जिताः असुराः देवैः युधि अनेन उपबृंहितैः मायिनाम् परम-आचार्यम् मयम् शरणम् आययुः

स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभु: ।
दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदा: ॥ ५४ ॥
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान्नृप ।
स्मरन्तो नाशयां चक्रु: पूर्ववैरमलक्षिता: ॥ ५५ ॥

सः निर्माय पुरः तिस्रः हैमी रौप्या आयसीः विभुः दुर्लक्ष्य अपाय-संयोगाः दुर्वितर्क्य परिच्छदाः ताभिः ते असुर-सेना-अन्यः लोकान् त्रीन् स-ईश्वरान् नृप स्मरन्तः नाशयाम् चक्रुः पूर्व वैरम् अलक्षिताः

ततस्ते सेश्वरा लोका उपासाद्येश्वरं नता: ।
त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयै: ॥ ५६ ॥

ततः ते स-ईश्वराः लोकाः उपासाद्य ईश्वरम् नताः त्राहि नः तावकान् देव विनष्टान् त्रिपुर-आलयैः

अथानुगृह्य भगवान्मा भैष्टेति सुरान्विभु: ।
शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ ५७ ॥

अथ अनुगृह्य भगवान् मा भैष्ट इति सुरान् विभुः शरम् धनुषि सन्धाय पुरेषु अस्त्रम् व्यमुञ्चत

ततोऽग्निवर्णा इषव उत्पेतु: सूर्यमण्डलात् ।
यथा मयूखसन्दोहा नाद‍ृश्यन्त पुरो यत: ॥ ५८ ॥

ततः अग्नि-वर्णाः इषवः उत्पेतुः सूर्य-मण्डलात् यथा मयूख-सन्दोहाः न अदृश्यन्त पुरः यतः

तै: स्पृष्टा व्यसव: सर्वे निपेतु: स्म पुरौकस: ।
तानानीय महायोगी मय: कूपरसेऽक्षिपत् ॥ ५९ ॥

तैः स्पृष्टाः व्यसवः सर्वे निपेतुः स्म पुर-ओकसः तान् आनीय महा-योगी मयः कूप-रसे अक्षिपत्

सिद्धामृतरसस्पृष्टा वज्रसारा महौजस: ।
उत्तस्थुर्मेघदलना वैद्युता इव वह्नय: ॥ ६० ॥

सिद्ध-अमृत-रस-स्पृष्टाः वज्र-साराः महा-ओजसः उत्तस्थुः मेघ-दलनाः वैद्युताः इव वह्नयः

विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ।
तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत् ॥ ६१ ॥

विलोक्य भग्न-सङ्कल्पम् विमनस्कम् वृष-ध्वजम् तदा अयम् भगवान् विष्णुः तत्र उपायम् अकल्पयत्

वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौ: ।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६२ ॥

वत्सः च आसीत् तदा ब्रह्मा स्वयम् विष्णुः अयम् हि गौः प्रविश्य त्रि-पुरम् काले रस-कूप-अमृतम् पपौ

तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिता: ।
तद्विज्ञाय महायोगी रसपालानिदं जगौ ।
स्मयन्विशोक: शोकार्तान्स्मरन्दैवगतिं च ताम् ॥ ६३ ॥

ते असुराः हि अपि पश्यन्तः न न्यषेधन् विमोहिताः तत् विज्ञाय महा-योगी रस-पालान् इदम् जगौ स्मयन् विशोकः शोक-आर्तान् स्मरन् दैव-गतिम् च ताम्

देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयो: ॥ ६४ ॥

देवः असुरः नरः अन्यः वा न ईश्वरः अस्ति इह कश्चन आत्मनः अन्यस्य वा दिष्टम् दैवेन अपोहितुम् द्वयोः

अथासौ शक्तिभि: स्वाभि: शम्भो: प्राधानिकं व्यधात् ।
धर्मज्ञानविरक्त्यृद्धितपोविद्याक्रियादिभि: ॥ ६५ ॥
रथं सूतं ध्वजं वाहान्धनुर्वर्मशरादि यत् ।
सन्नद्धो रथमास्थाय शरं धनुरुपाददे ॥ ६६ ॥

अथ असौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकम् व्यधात् धर्म ज्ञान विरक्ति ऋद्धि तपः विद्या क्रिया आदिभिः रथम् सूतम् ध्वजम् वाहान् धनुः वर्म शर-आदि यत् सन्नद्धः रथम् आस्थाय शरम् धनुः उपाददे

शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वर: ।
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप ॥ ६७ ॥

शरम् धनुषि सन्धाय मुहूर्ते अभिजिति ईश्वरः ददाह तेन दुर्भेद्याः हरः अथ त्रि-पुरः नृप

दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुला: ।
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करै: ।
अवाकिरञ्जगुर्हृष्टा ननृतुश्चाप्सरोगणा: ॥ ६८ ॥

दिवि दुन्दुभयः नेदुः विमान शत सङ्कुलाः देव-ऋषि पितृ सिद्ध ईशाः जय इति कुसुम-उत्करैः अवाकिरन् जगुः हृष्टाः ननृतुः च अप्सरः-गणाः

एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप ।
ब्रह्मादिभि: स्तूयमान: स्वं धाम प्रत्यपद्यत ॥ ६९ ॥

एवम् दग्ध्वा पुरः तिस्रः भगवान् पुर-हा नृप ब्रह्म-आदिभिः स्तूयमानः स्वम् धाम प्रत्यपद्यत

एवं विधान्यस्य हरे: स्वमायया
विडम्बमानस्य नृलोकमात्मन: ।
वीर्याणि गीतान्यृषिभिर्जगद्गुरो-
र्लोकं पुनानान्यपरं वदामि किम् ॥ ७० ॥

एवम् विधानि अस्य हरेः स्व-मायया विडम्बमानस्य नृ-लोकम् आत्मनः वीर्याणि गीतानि ऋषिभिः जगत्-गुरोः लोकम् पुनानानि अपरम् वदामि किम्

७.११

श्रीशुक उवाच
श्रुत्वेहितं साधु सभासभाजितं
महत्तमाग्रण्य उरुक्रमात्मन: ।
युधिष्ठिरो दैत्यपतेर्मुदान्वित:
पप्रच्छ भूयस्तनयं स्वयम्भुव: ॥ १ ॥

श्री-शुकः उवाच श्रुत्वा ईहितम् साधु सभा-सभाजितम् महत्-तम-अग्रण्यः उरुक्रम-आत्मनः युधिष्ठिरः दैत्य-पतेः मुदा-अन्वितः पप्रच्छ भूयः तनयम् स्वयम्भुवः

श्रीयुधिष्ठिर उवाच
भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् ।
वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम् ॥ २ ॥

श्री-युधिष्ठिरः उवाच भगवन् श्रोतुम् इच्छामि नृणाम् धर्मम् सनातनम् वर्ण-आश्रम-आचार-युतम् यत् पुमान् विन्दते परम्

भवान्प्रजापते: साक्षादात्मज: परमेष्ठिन: ।
सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभि: ॥ ३ ॥

भवान् प्रजापतेः साक्षात् आत्म-जः परमेष्ठिनः सुतानाम् सम्मतः ब्रह्मन् तपः योग समाधिभिः

नारायणपरा विप्रा धर्मं गुह्यं परं विदु: ।
करुणा: साधव: शान्तास्त्वद्विधा न तथापरे ॥ ४ ॥

नारायण-पराः विप्राः धर्मम् गुह्यम् परम् विदुः करुणाः साधवः शान्ताः त्वत्-विधाः न तथा अपरे

श्रीनारद उवाच
नत्वा भगवतेऽजाय लोकानां धर्मसेतवे ।
वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥ ५ ॥

श्री-नारदः उवाच नत्वा भगवते अजाय लोकानाम् धर्म-सेतवे वक्ष्ये सनातनम् धर्मम् नारायण-मुखात् श्रुतम्

योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मत: ।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥

यः अवतीर्य आत्मनः अंशेन दाक्षायण्याम् तु धर्मतः लोकानाम् स्वस्तये अध्यास्ते तपः बदरिकाश्रमे

धर्ममूलं हि भगवान्सर्ववेदमयो हरि: ।
स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ॥ ७ ॥

धर्म-मूलम् हि भगवान् सर्व-वेद-मयः हरिः स्मृतम् च तत्-विदाम् राजन् येन च आत्मा प्रसीदति

सत्यं दया तप: शौचं तितिक्षेक्षा शमो दम: ।
अहिंसा ब्रह्मचर्यं च त्याग: स्वाध्याय आर्जवम् ॥ ८ ॥
सन्तोष: समद‍ृक्सेवा ग्राम्येहोपरम: शनै: ।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९ ॥
अन्नाद्यादे: संविभागो भूतेभ्यश्च यथार्हत: ।
तेष्वात्मदेवताबुद्धि: सुतरां नृषु पाण्डव ॥ १० ॥
श्रवणं कीर्तनं चास्य स्मरणं महतां गते: ।
सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११ ॥
नृणामयं परो धर्म: सर्वेषां समुदाहृत: ।
त्रिंशल्लक्षणवान् राजन्सर्वात्मा येन तुष्यति ॥ १२ ॥

सत्यम् दया तपः शौचम् तितिक्षा ईक्षा शमः दमः अहिंसा ब्रह्मचर्यम् च त्यागः स्वाध्यायः आर्जवम् सन्तोषः समदृक्-सेवा ग्राम्य-ईहा-उपरमः शनैः नृणाम् विपर्यय-ईहा ईक्षा मौनम् आत्म विमर्शनम् अन्न-आद्य-आदेः संविभागः भूतेभ्यः च यथा-अर्हतः तेषु आत्म-देवता-बुद्धिः सुतराम् नृषु पाण्डव श्रवणम् कीर्तनम् च अस्य स्मरणम् महताम् गतेः सेवा इज्या अवनतिः दास्यम् सख्यम् आत्म-समर्पणम् नृणाम् अयम् परः धर्मः सर्वेषाम् समुदाहृतः त्रिंशत्-लक्षण-वान् राजन् सर्व-आत्मा येन तुष्यति

संस्कारा यत्राविच्छिन्ना: स द्विजोऽजो जगाद यम् ।
इज्याध्ययनदानानि विहितानि द्विजन्मनाम् ।
जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिता: ॥ १३ ॥

संस्काराः यत्र अविच्छिन्नाः सः द्वि-जः अजः जगाद यम् इज्या अध्ययन दानानि विहितानि द्वि-जन्मनाम् जन्म कर्म अवदातानाम् क्रियाः च आश्रम-चोदिताः

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रह: ।
राज्ञो वृत्ति: प्रजागोप्तुरविप्राद्वा करादिभि: ॥ १४ ॥

विप्रस्य अध्ययन-आदीनि षट् अन्यस्य अप्रतिग्रहः राज्ञः वृत्तिः प्रजा-गोप्तुः अविप्रात् वा कर-आदिभिः

वैश्यस्तु वार्तावृत्ति: स्यान्नित्यं ब्रह्मकुलानुग: ।
शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥

वैश्यः तु वार्ता-वृत्तिः स्यात् नित्यम् ब्रह्म-कुल-अनुगः शूद्रस्य द्विज-शुश्रूषा वृत्तिः च स्वामिनः भवेत्

वार्ता विचित्रा शालीनयायावरशिलोञ्छनम् ।
विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥

वार्ता विचित्रा शालीन यायावर शिल उञ्छनम् विप्र-वृत्तिः चतुर्धा इयम् श्रेयसी च उत्तर-उत्तरा

जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नर: ।
ऋते राजन्यमापत्सु सर्वेषामपि सर्वश: ॥ १७ ॥

जघन्यः न उत्तमाम् वृत्तिम् अनापदि भजेत् नरः ऋते राजन्यम् आपत्सु सर्वेषाम् अपि सर्वशः

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ १८ ॥
ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् ।
मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥
सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् ।
वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् ।
सर्ववेदमयो विप्र: सर्वदेवमयो नृप: ॥ २० ॥

ऋत-अमृताभ्याम् जीवेत मृतेन प्रमृतेन वा सत्यानृताभ्याम् अपि वा न श्व-वृत्त्या कदाचन ऋतम् उञ्छशिलम् प्रोक्तम् अमृतम् यत् अयाचितम् मृतम् तु नित्य-याच्ञा स्यात् प्रमृतम् कर्षणम् स्मृतम् सत्यानृतम् च वाणिज्यम् श्व-वृत्तिः नीच-सेवनम् वर्जयेत् ताम् सदा विप्रः राजन्यः च जुगुप्सिताम् सर्व-वेद-मयः विप्रः सर्व-देव-मयः नृपः

शमो दमस्तप: शौचं सन्तोष: क्षान्तिरार्जवम् ।
ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥

शमः दमः तपः शौचम् सन्तोषः क्षान्तिः आर्जवम् ज्ञानम् दया अच्युत-आत्मत्वम् सत्यम् च ब्रह्म-लक्षणम्

शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजय: क्षमा ।
ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥

शौर्यम् वीर्यम् धृतिः तेजः त्यागः च आत्म-जयः क्षमा ब्रह्मण्यता प्रसादः च सत्यम् च क्षत्र-लक्षणम्

देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् ।
आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥

देव-गुरु-अच्युते भक्तिः त्रि-वर्ग परिपोषणम् आस्तिक्यम् उद्यमः नित्यम् नैपुण्यम् वैश्य-लक्षणम्

शूद्रस्य सन्नति: शौचं सेवा स्वामिन्यमायया ।
अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ २४ ॥

शूद्रस्य सन्नतिः शौचम् सेवा स्वामिनि अमायया अमन्त्र-यज्ञः हि अस्तेयम् सत्यम् गो विप्र रक्षणम्

? स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता ।
तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्‌व्रतधारणम् ॥ २५ ॥

स्त्रीणाम् च पति-देवानाम् तत्-शुश्रूषा अनुकूलता तत्-बन्धुषु अनुवृत्तिः च नित्यम् तत्-व्रत-धारणम्

सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनै: ।
स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥
कामैरुच्चावचै: साध्वी प्रश्रयेण दमेन च ।
वाक्यै: सत्यै: प्रियै: प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥

सम्मार्जन उपलेपाभ्याम् गृह मण्डन वर्तनैः स्वयम् च मण्डिता नित्यम् परिमृष्ट परिच्छदा कामैः उच्च-अवचैः साध्वी प्रश्रयेण दमेन च वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम्

सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् ।
अप्रमत्ता शुचि: स्‍निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥

सन्तुष्टा अलोलुपा दक्षा धर्म-ज्ञा प्रिय सत्य वाक् अप्रमत्ता शुचिः स्निग्धा पतिम् तु अपतितम् भजेत्

या पतिं हरिभावेन भजेत् श्रीरिव तत्परा ।
हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥

या पतिम् हरि-भावेन भजेत् श्रीः इव तत्-परा हरि-आत्मना हरेः लोके पत्या श्रीः इव मोदते

वृत्ति: सङ्करजातीनां तत्तत्कुलकृता भवेत् ।
अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ ३० ॥

वृत्तिः सङ्कर-जातीनाम् तत्-तत् कुल-कृता भवेत् अचौराणाम् अपापानाम् अन्त्यज अन्तेवसायिनाम्

प्राय: स्वभावविहितो नृणां धर्मो युगे युगे ।
वेदद‍ृग्भि: स्मृतो राजन्प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥

प्रायः स्व-भाव-विहितः नृणाम् धर्मः युगे युगे वेद-दृग्भिः स्मृतः राजन् प्रेत्य च इह च शर्म-कृत्

वृत्त्या स्वभावकृतया वर्तमान: स्वकर्मकृत् ।
हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥

वृत्त्या स्व-भाव-कृतया वर्तमानः स्व-कर्म-कृत् हित्वा स्व-भाव-जम् कर्म शनैः निर्गुणताम् इयात्

उप्यमानं मुहु: क्षेत्रं स्वयं निर्वीर्यतामियात् ।
न कल्पते पुन: सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥
एवं कामाशयं चित्तं कामानामतिसेवया ।
विरज्येत यथा राजन्नग्निवत् कामबिन्दुभि: ॥ ३४ ॥

उप्यमानम् मुहुः क्षेत्रम् स्वयम् निर्वीर्यताम् इयात् न कल्पते पुनः सूत्यै उप्तम् बीजम् च नश्यति एवम् काम-आशयम् चित्तम् कामानाम् अति-सेवया विरज्येत यथा राजन् अग्नि-वत् काम-बिन्दुभिः

यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
यदन्यत्रापि द‍ृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥

यस्य यत् लक्षणम् प्रोक्तम् पुंसः वर्ण-अभिव्यञ्जकम् यत् अन्यत्र अपि दृश्येत तत् तेन एव विनिर्दिशेत्

७.१२

श्रीनारद उवाच
ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् ।
आचरन्दासवन्नीचो गुरौ सुद‍ृढसौहृद: ॥ १ ॥

श्री-नारदः उवाच ब्रह्मचारी गुरुकुले वसन् दान्तः गुरोः हितम् आचरन् दास-वत् नीचः गुरौ सु-दृढ सौहृदः

सायं प्रातरुपासीत गुर्वग्‍न्यर्कसुरोत्तमान् ।
सन्ध्ये उभे च यतवाग्जपन्ब्रह्म समाहित: ॥ २ ॥

सायम् प्रातः उपासीत गुरु अग्नि अर्क सुर-उत्तमान् सन्ध्ये उभे च यत-वाक् जपन् ब्रह्म समाहितः

छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रित: ।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥

छन्दांसि अधीयीत गुरोः आहूतः चेत् सु-यन्त्रितः उपक्रमे अवसाने च चरणौ शिरसा नमेत्

मेखलाजिनवासांसि जटादण्डकमण्डलून् ।
बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥

मेखला अजिन-वासांसि जटा दण्ड कमण्डलून् बिभृयात् उपवीतम् च दर्भ-पाणिः यथा उदितम्

सायं प्रातश्चरेद्भ‍ैक्ष्यं गुरवे तन्निवेदयेत् ।
भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्‍वचित् ॥ ५ ॥

सायम् प्रातः चरेत् भैक्ष्यम् गुरवे तत् निवेदयेत् भुञ्जीत यदि अनुज्ञातः नो चेत् उपवसेत् क्वचित्

सुशीलो मितभुग्दक्ष: श्रद्दधानो जितेन्द्रिय: ।
यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥

सु-शीलः मित-भुक् दक्षः श्रद्दधानः जित-इन्द्रियः यावत्-अर्थम् व्यवहरेत् स्त्रीषु स्त्री-निर्जितेषु च

वर्जयेत्प्रमदागाथामगृहस्थो बृहद्‌व्रत: ।
इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मन: ॥ ७ ॥

वर्जयेत् प्रमदा-गाथाम् अगृहस्थः बृहत्-व्रतः इन्द्रियाणि प्रमाथीनि हरन्ति अपि यतेः मनः

केशप्रसाधनोन्मर्दस्‍नपनाभ्यञ्जनादिकम् ।
गुरुस्त्रीभिर्युवतिभि: कारयेन्नात्मनो युवा ॥ ८ ॥

केश-प्रसाधन उन्मर्द स्नपन अभ्यञ्जन-आदिकम् गुरु-स्त्रीभिः युवतिभिः कारयेत् न आत्मनः युवा

नन्वग्नि: प्रमदा नाम घृतकुम्भसम: पुमान् ।
सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ ९ ॥

ननु अग्निः प्रमदा नाम घृत-कुम्भ समः पुमान् सुताम् अपि रहः जह्यात् अन्यदा यावत् अर्थ-कृत्

कल्पयित्वात्मना यावदाभासमिदमीश्वर: ।
द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्यय: ॥ १० ॥

कल्पयित्वा आत्मना यावत् आभासम् इदम् ईश्वरः द्वैतम् तावत् न विरमेत् ततः हि अस्य विपर्ययः

एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि ।
गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिन: ॥ ११ ॥

एतत् सर्वम् गृहस्थस्य समाम्नातम् यतेः अपि गुरु-वृत्तिः विकल्पेन गृहस्थस्य ऋतु-गामिनः

अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु ।
स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्‌व्रता: ॥ १२ ॥

अञ्जन अभ्यञ्जन उन्मर्द स्त्री-अवलेख आमिषम् मधु स्रक् गन्ध-लेप अलङ्कारान् त्यजेयुः ये बृहत्-व्रताः

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।
त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥
दत्त्वा वरमनुज्ञातो गुरो: कामं यदीश्वर: ।
गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् ॥ १४ ॥

उषित्वा एवम् गुरुकुले द्वि-जः अधीत्य अवबुध्य च त्रयीम् स-अङ्ग उपनिषदम् यावत्-अर्थम् यथा-बलम् दत्त्वा वरम् अनुज्ञातः गुरोः कामम् यदि ईश्वरः गृहम् वनम् वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत्

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।
भूतै: स्वधामभि: पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥

अग्नौ गुरौ आत्मनि च सर्व-भूतेषु अधोक्षजम् भूतैः स्व-धामभिः पश्येत् अप्रविष्टम् प्रविष्ट-वत्

एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही ।
चरन्विदितविज्ञान: परं ब्रह्माधिगच्छति ॥ १६ ॥

एवम् विधः ब्रह्मचारी वानप्रस्थः यतिः गृही चरन् विदित-विज्ञानः परम् ब्रह्म अधिगच्छति

वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान् ।
यानास्थाय मुनिर्गच्छेद‍ृषिलोकमुहाञ्जसा ॥ १७ ॥

वानप्रस्थस्य वक्ष्यामि नियमान् मुनि-सम्मतान् यान् आस्थाय मुनिः गच्छेत् ऋषि-लोकम् उह अञ्जसा

न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालत: ।
अग्निपक्व‍मथामं वा अर्कपक्व‍मुताहरेत् ॥ १८ ॥

न कृष्ट-पच्यम् अश्नीयात् अकृष्टम् च अपि अकालतः अग्नि-पक्वम् अथ आमम् वा अर्क-पक्वम् उत आहरेत्

वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् ।
लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥

वन्यैः चरु पुरोडाशान् निर्वपेत् काल-चोदितान् लब्धे नवे नवे अन्न-आद्ये पुराणम् च परित्यजेत्

अग्‍न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् ।
श्रयेत हिमवाय्वग्निवर्षार्कातपषाट्‌स्वयम् ॥ २० ॥

अग्नि अर्थम् एव शरणम् उट-जम् वा अद्रि-कन्दरम् श्रयेत हिम वायु अग्नि वर्ष अर्क आतप षाट् स्वयम्

केशरोमनखश्मश्रुमलानि जटिलो दधत् ।
कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥ २१ ॥

केश रोम नख श्मश्रु मलानि जटिलः दधत् कमण्डलु अजिने दण्ड वल्कल अग्नि परिच्छदान्

चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनि: ।
द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रत: ॥ २२ ॥

चरेत् वने द्वादश-अब्दान् अष्टौ वा चतुरः मुनिः द्वौ एकम् वा यथा बुद्धिः न विपद्येत कृच्छ्रतः

यदाकल्प: स्वक्रियायां व्याधिभिर्जरयाथवा ।
आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥

यदा अकल्पः स्व-क्रियायाम् व्याधिभिः जरया अथवा आन्वीक्षिक्याम् वा विद्यायाम् कुर्यात् अनशन-आदिकम्

आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् ।
कारणेषु न्यसेत् सम्यक्सङ्घातं तु यथार्हत: ॥ २४ ॥

आत्मनि अग्नीन् समारोप्य सन्न्यस्य अहम् मम आत्मताम् कारणेषु न्यसेत् सम्यक् सङ्घातम् तु यथा-अर्हतः

खे खानि वायौ निश्वासांस्तेज:सूष्माणमात्मवान् ।
अप्स्वसृक्‍श्लेष्मपूयानि क्षितौ शेषं यथोद्भ‍वम् ॥ २५ ॥

खे खानि वायौ निश्वासान् तेजःसु उष्माणम् आत्म-वान् अप्सु असृक् श्लेष्म पूयानि क्षितौ शेषम् यथा-उद्भवम्

वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि ।
पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥
मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् ।
दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥
रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् ।
अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥

वाचम् अग्नौ स-वक्तव्याम् इन्द्रे शिल्पम् करौ अपि पदानि गत्या वयसि रत्या उपस्थम् प्रजापतौ मृत्यौ पायुम् विसर्गम् च यथा-स्थानम् विनिर्दिशेत् दिक्षु श्रोत्रम् स-नादेन स्पर्शेन अध्यात्मनि त्वचम् रूपाणि चक्षुषा राजन् ज्योतिषि अभिनिवेशयेत् अप्सु प्रचेतसा जिह्वाम् घ्रेयैः घ्राणम् क्षितौ न्यसेत्

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यै: कवौ परे ।
कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया ।
सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् ।
कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥

मनः मनोरथैः चन्द्रे बुद्धिम् बोध्यैः कवौ परे कर्माणि अध्यात्मना रुद्रे यत् अहम् ममता क्रिया सत्त्वेन चित्तम् क्षेत्र-ज्ञे गुणैः वैकारिकम् परे अप्सु क्षितिम् अपः ज्योतिषि अदः वायौ नभसि अमुम् कूटस्थे तत् च महति तत् अव्यक्ते अक्षरे च तत्

इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् ।
ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानल: ॥ ३१ ॥

इति अक्षरतया आत्मानम् चित्-मात्रम् अवशेषितम् ज्ञात्वा अद्वयः अथ विरमेत् दग्ध-योनिः इव अनलः

७.१३

श्रीनारद उवाच
कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषित: ।
ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम् ॥ १ ॥

श्री-नारदः उवाच कल्पः तु एवम् परिव्रज्य देह-मात्र अवशेषितः ग्राम एक रात्र विधिना निरपेक्षः चरेत् महीम्

बिभृयाद् यद्यसौ वास: कौपीनाच्छादनं परम् ।
त्यक्तं न लिङ्गाद् दण्डादेरन्यत् किञ्चिदनापदि ॥ २ ॥

बिभृयात् यदि असौ वासः कौपीन आच्छादनम् परम् त्यक्तम् न लिङ्गात् दण्ड-आदेः अन्यत् किञ्चित् अनापदि

एक एव चरेद्भ‍िक्षुरात्मारामोऽनपाश्रय: ।
सर्वभूतसुहृच्छान्तो नारायणपरायण: ॥ ३ ॥

एकः एव चरेत् भिक्षुः आत्म-आरामः अनपाश्रयः सर्व-भूत-सुहृत् शान्तः नारायण-परायणः

पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये ।
आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ ४ ॥

पश्येत् आत्मनि अदः विश्वम् परे सत्-असतः अव्यये आत्मानम् च परम् ब्रह्म सर्वत्र सत्-असत् मये

सुप्तिप्रबोधयो: सन्धावात्मनो गतिमात्मद‍ृक् ।
पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुत: ॥ ५ ॥

सुप्ति प्रबोधयोः सन्धौ आत्मनः गतिम् आत्म-दृक् पश्यन् बन्धम् च मोक्षम् च माया-मात्रम् न वस्तुतः

नाभिनन्देद् ध्रुवं मृत्युमध्रुवं वास्य जीवितम् ।
कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ ६ ॥

न अभिनन्देत् ध्रुवम् मृत्युम् अध्रुवम् वा अस्य जीवितम् कालम् परम् प्रतीक्षेत भूतानाम् प्रभव अप्ययम्

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।
वादवादांस्त्यजेत्तर्कान्पक्षं कंच न संश्रयेत् ॥ ७ ॥

न असत्-शास्त्रेषु सज्जेत न उपजीवेत जीविकाम् वाद-वादान् त्यजेत् तर्कान् पक्षम् कंच न संश्रयेत्

न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद् बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत्‍क्‍वचित् ॥ ८ ॥

न शिष्यान् अनुबध्नीत ग्रन्थान् न एव अभ्यसेत् बहून् न व्याख्याम् उपयुञ्जीत न आरम्भान् आरभेत् क्वचित्

न यतेराश्रम: प्रायो धर्महेतुर्महात्मन: ।
शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ ९ ॥

न यतेः आश्रमः प्रायः धर्म-हेतुः महा-आत्मनः शान्तस्य सम-चित्तस्य बिभृयात् उत वा त्यजेत्

अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् ।
कविर्मूकवदात्मानं स द‍ृष्टय‍ा दर्शयेन्नृणाम् ॥ १० ॥

अव्यक्त-लिङ्गः व्यक्त-अर्थः मनीषी उन्मत्त बाल-वत् कविः मूक-वत् आत्मानम् सः दृष्ट्या दर्शयेत् नृणाम्

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥ ११ ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् प्रह्रादस्य च संवादम् मुनेः आजगरस्य च

तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि ।
रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥ १२ ॥
ददर्श लोकान्विचरन् लोकतत्त्वविवित्सया ।
वृतोऽमात्यै: कतिपयै: प्रह्रादो भगवत्प्रिय: ॥ १३ ॥

तम् शयानम् धरा-उपस्थे कावेर्याम् सह्य-सानुनि रजः-वलैः तनू-देशैः निगूढ अमल तेजसम् ददर्श लोकान् विचरन् लोक-तत्त्व विवित्सया वृतः अमात्यैः कतिपयैः प्रह्रादः भगवत्-प्रियः

कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभि: ।
न विदन्ति जना यं वै सोऽसाविति न वेति च ॥ १४ ॥

कर्मणा आकृतिभिः वाचा लिङ्गैः वर्ण-आश्रम आदिभिः न विदन्ति जनाः यम् वै सः असौ इति न वा इति च

तं नत्वाभ्यर्च्य विधिवत्पादयो: शिरसा स्पृशन् ।
विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुर: ॥ १५ ॥

तम् नत्वा अभ्यर्च्य विधि-वत् पादयोः शिरसा स्पृशन् विवित्सुः इदम् अप्राक्षीत् महा-भागवतः असुरः

बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा ॥ १६ ॥
वित्तं चैवोद्यमवतां भोगो वित्तवतामिह ।
भोगिनां खलु देहोऽयं पीवा भवति नान्यथा ॥ १७ ॥

बिभर्षि कायम् पीवानम् स-उद्यमः भोगवान् यथा वित्तम् च एव उद्यम-वताम् भोगः वित्त-वताम् इह भोगिनाम् खलु देहः अयम् पीवा भवति न अन्यथा

न ते शयानस्य निरुद्यमस्य
ब्रह्मन्नु हार्थो यत एव भोग: ।
अभोगिनोऽयं तव विप्र देह:
पीवा यतस्तद्वद न: क्षमं चेत् ॥ १८ ॥

न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु ह अर्थः यतः एव भोगः अभोगिनः अयम् तव विप्र देहः पीवा यतः तत् वद नः क्षमम् चेत्

कवि: कल्पो निपुणद‍ृक् चित्रप्रियकथ: सम: ।
लोकस्य कुर्वत: कर्म शेषे तद्वीक्षितापि वा ॥
१९ ॥

कविः कल्पः निपुण-दृक् चित्र-प्रिय-कथः समः लोकस्य कुर्वतः कर्म शेषे तत्-वीक्षिता अपि वा

श्रीनारद उवाच
\स इत्थं दैत्यपतिना परिपृष्टो महामुनि: ।
स्मयमानस्तमभ्याह तद्वागमृतयन्त्रित: ॥ २० ॥

श्री-नारदः उवाच सः इत्थम् दैत्य-पतिना परिपृष्टः महा-मुनिः स्मयमानः तम् अभ्याह तत्-वाक् अमृत-यन्त्रितः

श्रीब्राह्मण उवाच
वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मत: ।
ईहोपरमयोर्नृणां पदान्यध्यात्मचक्षुषा ॥ २१ ॥

श्री-ब्राह्मणः उवाच वेद इदम् असुर-श्रेष्ठ भवान् ननु आर्य-सम्मतः ईहा उपरमयोः नॄणाम् पदानि अध्यात्म-चक्षुषा

यस्य नारायणो देवो भगवान्‍हृद्गत: सदा ।
भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् ॥ २२ ॥

यस्य नारायणः देवः भगवान् हृत्-गतः सदा भक्त्या केवलया अज्ञानम् धुनोति ध्वान्तम् अर्क-वत्

तथापि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम् ।
सम्भाषणीयो हि भवानात्मन: शुद्धिमिच्छता ॥ २३ ॥

तथापि ब्रूमहे प्रश्नान् तव राजन् यथा-श्रुतम् सम्भाषणीयः हि भवान् आत्मनः शुद्धिम् इच्छता

तृष्णया भववाहिन्या योग्यै: कामैरपूर्यया ।
कर्माणि कार्यमाणोऽहं नानायोनिषु योजित: ॥ २४ ॥

तृष्णया भव-वाहिन्या योग्यैः कामैः अपूर्यया कर्माणि कार्यमाणः अहम् नाना-योनिषु योजितः

यद‍ृच्छया लोकमिमं प्रापित: कर्मभिर्भ्रमन् ।
स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २५ ॥

यदृच्छया लोकम् इमम् प्रापितः कर्मभिः भ्रमन् स्वर्ग अपवर्गयोः द्वारम् तिरश्चाम् पुनः अस्य च

तत्रापि दम्पतीनां च सुखायान्यापनुत्तये ।
कर्माणि कुर्वतां द‍ृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २६ ॥

तत्र अपि दम्-पतीनाम् च सुखाय अन्य-अपनुत्तये कर्माणि कुर्वताम् दृष्ट्वा निवृत्तः अस्मि विपर्ययम्

सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनु: ।
मन:संस्पर्शजान् द‍ृष्ट्वा भोगान्स्वप्स्यामि संविशन् ॥ २७ ॥

सुखम् अस्य आत्मनः रूपम् सर्व ईह उपरतिः तनुः मनः-संस्पर्श-जान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन्

इत्येतदात्मन: स्वार्थं सन्तं विस्मृत्य वै पुमान् ।
विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २८ ॥

इति एतत् आत्मनः स्व-अर्थम् सन्तम् विस्मृत्य वै पुमान् विचित्राम् असति द्वैते घोराम् आप्नोति संसृतिम्

जलं तदुद्भ‍वैश्छन्नं हित्वाज्ञो जलकाम्यया ।
मृगतृष्णामुपाधावेत्तथान्यत्रार्थद‍ृक् स्वत: ॥ २९ ॥

जलम् तत्-उद्भवैः छन्नम् हित्वा अज्ञः जल-काम्यया मृगतृष्णाम् उपाधावेत् तथा अन्यत्र अर्थ-दृक् स्वतः

देहादिभिर्दैवतन्त्रैरात्मन: सुखमीहत: ।
दु:खात्ययं चानीशस्य क्रिया मोघा: कृता: कृता: ॥ ३० ॥

देह-आदिभिः दैव-तन्त्रैः आत्मनः सुखम् ईहतः दुःख-अत्ययम् च अनीशस्य क्रियाः मोघाः कृताः कृताः

आध्यात्मिकादिभिर्दु:खैरविमुक्तस्य कर्हिचित् ।
मर्त्यस्य कृच्छ्रोपनतैरर्थै: कामै: क्रियेत किम् ॥ ३१ ॥

आध्यात्मिक-आदिभिः दुःखैः अविमुक्तस्य कर्हिचित् मर्त्यस्य कृच्छ्र-उपनतैः अर्थैः कामैः क्रियेत किम्

पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् ।
भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३२ ॥

पश्यामि धनिनाम् क्लेशम् लुब्धानाम् अजित-आत्मनाम् भयात् अलब्ध-निद्राणाम् सर्वतः अभिविशङ्किनाम्

राजतश्चौरत: शत्रो: स्वजनात्पशुपक्षित: ।
अर्थिभ्य: कालत: स्वस्मान्नित्यं प्राणार्थवद्भ‍यम् ॥ ३३ ॥

राजतः चौरतः शत्रोः स्व-जनात् पशु-पक्षितः अर्थिभ्यः कालतः स्वस्मात् नित्यम् प्राण-अर्थ-वत् भयम्

शोकमोहभयक्रोधरागक्लैब्यश्रमादय: ।
यन्मूला: स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुध: ॥ ३४ ॥

शोक मोह भय क्रोध राग क्लैब्य श्रम आदयः यत्-मूलाः स्युः नृणाम् जह्यात् स्पृहाम् प्राण अर्थयोः बुधः

मधुकारमहासर्पौ लोकेऽस्मिन्नो गुरूत्तमौ ।
वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३५ ॥

मधुकार महा-सर्पौ लोके अस्मिन् नः गुरु उत्तमौ वैराग्यम् परितोषम् च प्राप्ताः यत्-शिक्षया वयम्

विराग: सर्वकामेभ्य: शिक्षितो मे मधुव्रतात् ।
कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३६ ॥

विरागः सर्व-कामेभ्यः शिक्षितः मे मधु-व्रतात् कृच्छ्र आप्तम् मधु-वत् वित्तम् हत्वा अपि अन्यः हरेत् पतिम्

अनीह: परितुष्टात्मा यद‍ृच्छोपनतादहम् ।
नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३७ ॥

अनीहः परितुष्ट आत्मा यदृच्छा उपनतात् अहम् नो चेत् शये बहु अहानि महा-अहिः इव सत्त्व-वान्

क्‍वचिदल्पं क्‍वचिद्भ‍ूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा ।
क्‍वचिद्भ‍ूरि गुणोपेतं गुणहीनमुत क्व‍चित् ।
श्रद्धयोपहृतं क्व‍ापि कदाचिन्मानवर्जितम् ।
भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यद‍ृच्छया ॥ ३८ ॥

क्वचित् अल्पम् क्वचित् भूरि भुञ्जे अन्नम् स्वादु अस्वादु वा क्वचित् भूरि गुण-उपेतम् गुण-हीनम् उत क्वचित् श्रद्धया उपहृतम् क्वापि कदाचित् मान-वर्जितम् भुञ्जे भुक्त्वा अथ कस्मिन् चित् दिवा नक्तम् यदृच्छया

क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा ।
वसेऽन्यदपि सम्प्राप्तं दिष्टभुक्तुष्टधीरहम् ॥ ३९ ॥

क्षौमम् दुकूलम् अजिनम् चीरम् वल्कलम् एव वा वसे अन्यत् अपि सम्प्राप्तम् दिष्ट-भुक् तुष्ट धीः अहम्

क्व‍चिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु ।
क्व‍चित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ ४० ॥

क्वचित् शये धर-उपस्थे तृण पर्ण अश्म भस्मसु क्वचित् प्रासाद पर्यङ्के कशिपौ वा पर इच्छया

क्व‍चित्स्‍नातोऽनुलिप्ताङ्ग: सुवासा: स्रग्व्यलङ्‌कृत: ।
रथेभाश्वैश्चरे
क्व‍ापि दिग्वासा ग्रहवद्विभो ॥ ४१ ॥

क्वचित् स्नातः अनुलिप्त-अङ्गः सु-वासाः स्रग्वी अलङ्कृतः रथ इभ अश्वैः चरे क्वापि दिक्-वासाः ग्रह-वत् विभो

नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् ।
एतेषां श्रेय आशासे
उतैकात्म्यं महात्मनि ॥ ४२ ॥

न अहम् निन्दे न च स्तौमि स्व-भाव विषमम् जनम् एतेषाम् श्रेयः आशासे उत ऐकात्म्यम् महा-आत्मनि

विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे ।
मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु ॥ ४३ ॥

विकल्पम् जुहुयात् चित्तौ ताम् मनसि अर्थ-विभ्रमे मनः वैकारिके हुत्वा तम् मायायाम् जुहोति अनु

आत्मानुभूतौ तां मायां जुहुयात्सत्यद‍ृङ्‍मुनि: ।
ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थित: ॥ ४४ ॥

आत्म-अनुभूतौ ताम् मायाम् जुहुयात् सत्य-दृक् मुनिः ततः निरीहः विरमेत् स्व-अनुभूति-आत्मनि स्थितः

स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् ।
व्यपेतं लोकशास्त्राभ्यां भवान्हि भगवत्पर: ॥ ४५ ॥

स्व-आत्म-वृत्तम् मया इत्थम् ते सु-गुप्तम् अपि वर्णितम् व्यपेतम् लोक-शास्त्राभ्याम् भवान् हि भगवत्-परः

श्रीनारद उवाच
धर्मं पारमहंस्यं वै मुने: श्रुत्वासुरेश्वर: ।
पूजयित्वा तत: प्रीत आमन्‍त्र्यप्रययौ गृहम् ॥ ४६ ॥

श्री-नारदः उवाच धर्मम् पारमहंस्यम् वै मुनेः श्रुत्वा असुर-ईश्वरः पूजयित्वा ततः प्रीतः आमन्त्र्य प्रययौ गृहम्

७.१४

श्रीयुधिष्ठिर उवाच
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।
यायाद्देवऋषे ब्रूहि माद‍ृशो गृहमूढधी: ॥ १ ॥

श्री-युधिष्ठिरः उवाच गृहस्थः एताम् पदवीम् विधिना येन च अञ्जसा यायात् देव-ऋषे ब्रूहि मादृशः गृह-मूढ-धीः

श्रीनारद उवाच
गृहेष्ववस्थितो राजन्क्रिया: कुर्वन्यथोचिता: ।
वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ २ ॥

श्री-नारदः उवाच गृहेषु अवस्थितः राजन् क्रियाः कुर्वन् यथोचिताः वासुदेव अर्पणम् साक्षात् उपासीत महा-मुनीन्

श‍ृण्वन्भगवतोऽभीक्ष्णमवतारकथामृतम् ।
श्रद्दधानो यथाकालमुपशान्तजनावृत: ॥ ३ ॥
सत्सङ्गाच्छनकै: सङ्गमात्मजायात्मजादिषु ।
विमुञ्चेन्मुच्यमानेषु स्वयं स्वप्नवदुत्थित: ॥ ४ ॥

शृण्वन् भगवतः अभीक्ष्णम् अवतार कथा अमृतम् श्रद्दधानः यथा-कालम् उपशान्त जन आवृतः सत्-सङ्गात् शनकैः सङ्गम् आत्म जाया आत्म-ज-आदिषु विमुञ्चेत् मुच्यमानेषु स्वयम् स्वप्न-वत् उत्थितः

यावदर्थमुपासीनो देहे गेहे च पण्डित: ।
विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥

यावत्-अर्थम् उपासीनः देहे गेहे च पण्डितः विरक्तः रक्त-वत् तत्र नृ-लोके नरताम् न्यसेत्

ज्ञातय: पितरौ पुत्रा भ्रातर: सुहृदोऽपरे ।
यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्मम: ॥ ६ ॥

ज्ञातयः पितरौ पुत्राः भ्रातरः सुहृदः अपरे यत् वदन्ति यत् इच्छन्ति च अनुमोदेत निर्ममः

दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् ।
तत्सर्वमुपयुञ्जान एतत्कुर्यात्स्वतो बुध: ॥ ७ ॥

दिव्यम् भौमम् च आन्तरीक्षम् वित्तम् अच्युत-निर्मितम् तत् सर्वम् उपयुञ्जान एतत् कुर्यात् स्वतः बुधः

यावद् भ्र्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥

यावत् भ्रियेत जठरम् तावत् स्वत्वम् हि देहिनाम् अधिकम् यः अभिमन्येत सः स्तेनः दण्डम् अर्हति

मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिका: ।
आत्मन: पुत्रवत् पश्येत्तैरेषामन्तरं कियत् ॥ ९ ॥

मृग उष्ट्र खर मर्क आखु सरीसृप् खग मक्षिकाः आत्मनः पुत्र-वत् पश्येत् तैः एषाम् अन्तरम् कियत्

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।
यथादेशं यथाकालं यावद्दैवोपपादितम् ॥ १० ॥

त्रि-वर्गम् न अति-कृच्छ्रेण भजेत गृह-मेधी अपि यथा-देशम् यथा-कालम् यावत् दैव उपपादितम्

आश्वाघान्तेऽवसायिभ्य: कामान्संविभजेद्यथा ।
अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यत: ॥ ११ ॥

आ श्व अघ अन्ते अवसायिभ्यः कामान् संविभजेत् यथा अपि एकाम् आत्मनः दाराम् नृणाम् स्वत्व-ग्रहः यतः

जह्याद् यदर्थे स्वान्प्राणान्हन्याद्वा पितरं गुरुम् ।
तस्यां स्वत्वं स्‍त्रियां जह्याद्यस्तेन ह्यजितो जित: ॥ १२ ॥

जह्यात् यत्-अर्थे स्वान् प्राणान् हन्यात् वा पितरम् गुरुम् तस्याम् स्वत्वम् स्त्रियाम् जह्यात् यः तेन हि अजितः जितः

कृमिविड्भस्मनिष्ठान्तं क्‍वेदं तुच्छं कलेवरम् ।
क्व‍ तदीयरतिर्भार्या क्व‍ायमात्मा नभश्छदि: ॥ १३ ॥

कृमि विट् भस्म निष्ठ अन्तम् क्व इदम् तुच्छम् कलेवरम् क्व तदीय-रतिः भार्या क्व अयम् आत्मा नभः-छदिः

सिद्धैर्यज्ञावशिष्टार्थै: कल्पयेद् वृत्तिमात्मन: ।
शेषे स्वत्वं त्यजन्प्राज्ञ: पदवीं महतामियात् ॥ १४ ॥

सिद्धैः यज्ञा-अवशिष्ट-अर्थैः कल्पयेत् वृत्तिम् आत्मनः शेषे स्वत्वम् त्यजन् प्राज्ञः पदवीम् महताम् इयात्

देवानृषीन् नृभूतानि पितृनात्मानमन्वहम् ।
स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥

देवान् ऋषीन् नृ भूतानि पितॄन् आत्मानम् अन्वहम् स्व-वृत्त्या आगत-वित्तेन यजेत पुरुषम् पृथक्

यर्ह्यात्मनोऽधिकाराद्या: सर्वा: स्युर्यज्ञसम्पद: ।
वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥

यर्हि आत्मनः अधिकार-आद्याः सर्वाः स्युः यज्ञ-सम्पदः वैतानिकेन विधिना अग्नि-होत्र-आदिना यजेत्

न ह्यग्निमुखतोऽयं वै भगवान्सर्वयज्ञभुक् ।
इज्येत हविषा राजन्यथा विप्रमुखे हुतै: ॥ १७ ॥

न हि अग्नि मुखतः अयम् वै भगवान् सर्व-यज्ञ-भुक् इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः

तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हत: ।
तैस्तै: कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥

तस्मात् ब्राह्मण-देवेषु मर्त्य-आदिषु यथा-अर्हतः तैः तैः कामैः यजस्व एनम् क्षेत्र-ज्ञम् ब्राह्मणान् अनु

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विज: ।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ १९ ॥

कुर्यात् अपर-पक्षीयम् मासि प्रौष्ठ-पदे द्विजः श्राद्धम् पित्रोः यथा-वित्तम् तत्-बन्धूनाम् च वित्त-वान्

अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये ।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
माघे च सितसप्तम्यां मघाराकासमागमे ।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तरा: ।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक् ॥ २३ ॥

अयने विषुवे कुर्यात् व्यतीपाते दिन-क्षये चन्द्र-आदित्य-उपरागे च द्वादश्याम् श्रवणेषु च तृतीयायाम् शुक्ल-पक्षे नवम्याम् अथ कार्तिके चतसृषु अपि अष्टकासु हेमन्ते शिशिरे तथा माघे च सित-सप्तम्याम् मघा-राका-समागमे राकया च अनुमत्या च मास-ऋक्षाणि युतानि अपि द्वादश्याम् अनुराधा स्यात् श्रवणः तिस्रः उत्तराः तिसृषु एकादशी वा आसु जन्म-ऋक्ष श्रोण योग युक्

त एते श्रेयस: काला नृणां श्रेयोविवर्धना: ।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुष: ॥ २४ ॥

ते एते श्रेयसः कालाः नॄणाम् श्रेयः विवर्धनाः कुर्यात् सर्व-आत्मना एतेषु श्रेयः अमोघम् तत् आयुषः

एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम् ।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ २५ ॥

एषु स्नानम् जपः होमः व्रतम् देव द्विज-अर्चनम् पितृ देव नृ भूतेभ्यः यत् दत्तम् तत् हि अनश्वरम्

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।
प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥

संस्कार-कालः जायायाः अपत्यस्य आत्मनः तथा प्रेत-संस्था मृत-अहः च कर्मणि अभ्युदये नृप

अथ देशान्प्रवक्ष्यामि धर्मादिश्रेयआवहान् ।
स वै पुण्यतमो देश: सत्पात्रं यत्र लभ्यते ॥ २७ ॥
बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् ।
यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥

अथ देशान् प्रवक्ष्यामि धर्म-आदि श्रेय आवहान् सः वै पुण्य-तमः देशः सत्-पात्रम् यत्र लभ्यते बिम्बम् भगवतः यत्र सर्वम् एतत् चर-अचरम् यत्र ह ब्राह्मण-कुलम् तपः विद्या दया अन्वितम्

यत्र यत्र हरेरर्चा स देश: श्रेयसां पदम् ।
यत्र गङ्गादयो नद्य: पुराणेषु च विश्रुता: ॥ २९ ॥

यत्र यत्र हरेः अर्चा सः देशः श्रेयसाम् पदम् यत्र गङ्गा-आदयः नद्यः पुराणेषु च विश्रुताः

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।
कुरुक्षेत्रं गयशिर: प्रयाग: पुलहाश्रम: ॥ ३० ॥
नैमिषं फाल्गुनं सेतु: प्रभासोऽथ कुशस्थली ।
वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥
नारायणाश्रमो नन्दा सीतारामाश्रमादय: ।
सर्वे कुलाचला राजन्महेन्द्रमलयादय: ॥ ३२ ॥
एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।
एतान्देशान्निषेवेत श्रेयस्कामो ह्यभीक्ष्णश: ।
धर्मो ह्यत्रेहित: पुंसां सहस्राधिफलोदय: ॥ ३३ ॥

सरांसि पुष्कर-आदीनि क्षेत्राणि अर्ह आश्रितानि उत कुरुक्षेत्रम् गय-शिरः प्रयागः पुलह-आश्रमः नैमिषम् फाल्गुनम् सेतुः प्रभासः अथ कुश-स्थली वाराणसी मधु-पुरी पम्पा बिन्दु-सरः तथा नारायण-आश्रमः नन्दा सीता-राम आश्रम-आदयः सर्वे कुलाचलाः राजन् महेन्द्र मलय-आदयः एते पुण्य-तमाः देशाः हरेः अर्च-आश्रिताः च ये एतान् देशान् निषेवेत श्रेयः-कामः हि अभीक्ष्णशः धर्मः हि अत्र ईहितः पुंसाम् सहस्र-अधि फल-उदयः

पात्रं त्वत्र निरुक्तं वै कविभि: पात्रवित्तमै: ।
हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥

पात्रम् तु अत्र निरुक्तम् वै कविभिः पात्र-वित्तमैः हरिः एव एकः उर्वी-ईश यत्-मयम् वै चर-अचरम्

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन्यदग्रपूजायां मत: पात्रतयाच्युत: ॥ ३५ ॥

देव-ऋषि अर्हत्सु वै सत्सु तत्र ब्रह्म-आत्म-जादिषु राजन् यत् अग्र-पूजायाम् मतः पात्रतया अच्युतः

जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान् ।
तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥

जीव-राशिभिः आकीर्णः अण्ड-कोश अङ्घ्रिपः महान् तत्-मूलत्वात् अच्युत-इज्या सर्व जीव-आत्म तर्पणम्

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवता: ।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥

पुराणि अनेन सृष्टानि नृ तिर्यक् ऋषि देवताः शेते जीवेन रूपेण पुरेषु पुरुषः हि असौ

तेष्वेव भगवान् राजंस्तारतम्येन वर्तते ।
तस्मात्पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥

तेषु एव भगवान् राजन् तारतम्येन वर्तते तस्मात् पात्रम् हि पुरुषः यावान् आत्मा यथा ईयते

द‍ृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप ।
त्रेतादिषु हरेरर्चा क्रियायै कविभि: कृता ॥ ३९ ॥

दृष्ट्वा तेषाम् मिथः नृणाम् अवज्ञान-आत्मताम् नृप त्रेता-आदिषु हरेः अर्चा क्रियायै कविभिः कृता

ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया ।
उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥

ततः अर्चायाम् हरिम् केचित् संश्रद्धाय सपर्यया उपासते उपास्ता अपि न अर्थ-दा पुरुष-द्विषाम्

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदु: ।
तपसा विद्यया तुष्टय‍ा धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥

पुरुषेषु अपि राज-इन्द्र सु-पात्रम् ब्राह्मणम् विदुः तपसा विद्यया तुष्ट्या धत्ते वेदम् हरेः तनुम्

नन्वस्य ब्राह्मणा राजन्कृष्णस्य जगदात्मन: ।
पुनन्त: पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥

ननु अस्य ब्राह्मणाः राजन् कृष्णस्य जगत्-आत्मनः पुनन्तः पाद-रजसा त्रि-लोकीम् दैवतम् महत्

७.१५

श्रीनारद उवाच
कर्मनिष्ठा द्विजा: केचित्तपोनिष्ठा नृपापरे ।
स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयो: ॥ १ ॥

श्री-नारदः उवाच कर्म-निष्ठाः द्वि-जाः केचित् तपः-निष्ठाः नृप अपरे स्वाध्याये अन्ये प्रवचने केचन ज्ञान-योगयोः

ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता ।
दैवे च तदभावे स्यादितरेभ्यो यथार्हत: ॥ २ ॥

ज्ञान-निष्ठाय देयानि कव्यानि आनन्त्यम् इच्छता दैवे च तत्-अभावे स्यात् इतरेभ्यः यथा-अर्हतः

द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ३ ॥

द्वौ दैवे पितृ-कार्ये त्रीन् एक एकम् उभयत्र वा भोजयेत् सु-समृद्धः अपि श्राद्धे कुर्यात् न विस्तरम्

देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च ।
सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ॥ ४ ॥

देश काल उचित श्रद्धा द्रव्य पात्र अर्हणानि च सम्यक् भवन्ति न एतानि विस्तरात् स्व-जन-अर्पणात्

देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् ।
श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ॥ ५ ॥

देशे काले च सम्प्राप्ते मुनि-अन्नम् हरि-दैवतम् श्रद्धया विधि-वत् पात्रे न्यस्तम् कामधुक् अक्षयम्

देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च ।
अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ॥ ६ ॥

देव ऋषि पितृ भूतेभ्यः आत्मने स्व-जनाय च अन्नम् संविभजन् पश्येत् सर्वम् तत् पुरुष-आत्मकम्

न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् ।
मुन्यन्नै: स्यात्परा प्रीतिर्यथा न पशुहिंसया ॥ ७ ॥

न दद्यात् आमिषम् श्राद्धे न च अद्यात् धर्म-तत्त्व-वित् मुनि-अन्नैः स्यात् परा प्रीतिः यथा न पशु-हिंसया

नैताद‍ृश: परो धर्मो नृणां सद्धर्ममिच्छताम् ।
न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य य: ॥ ८ ॥

न एतादृशः परः धर्मः नृणाम् सत्-धर्मम् इच्छताम् न्यासः दण्डस्य भूतेषु मनः वाक् काय-जस्य यः

एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमा: ।
आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥ ९ ॥

एके कर्म-मयान् यज्ञान् ज्ञानिनः यज्ञ-वित्-तमाः आत्म-संयमने अनीहाः जुह्वति ज्ञान-दीपिते

द्रव्ययज्ञैर्यक्ष्यमाणं द‍ृष्ट्वा भूतानि बिभ्यति ।
एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् ॥ १० ॥

द्रव्य-यज्ञैः यक्ष्यमाणम् दृष्ट्वा भूतानि बिभ्यति एषः मा अकरुणः हन्यात् अ-तत्-ज्ञः हि असु-तृप् ध्रुवम्

तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् ।
सन्तुष्टोऽहरह: कुर्यान्नित्यनैमित्तिकी: क्रिया: ॥ ११ ॥

तस्मात् दैव-उपपन्नेन मुनि-अन्नेन अपि धर्म-वित् सन्तुष्टः अहः अहः कुर्यात् नित्य-नैमित्तिकीः क्रियाः

विधर्म: परधर्मश्च आभास उपमा छल: ।
अधर्मशाखा: पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥ १२ ॥

विधर्मः पर-धर्मः च आभासः उपमा छलः अधर्म-शाखाः पञ्च इमाः धर्म-ज्ञः अधर्म-वत् त्यजेत्

धर्मबाधो विधर्म: स्यात्परधर्मोऽन्यचोदित: ।
उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छल: ॥ १३ ॥

धर्म-बाधः विधर्मः स्यात् पर-धर्मः अन्य-चोदितः उपधर्मः तु पाखण्डः दम्भः वा शब्द-भित् छलः

यस्त्विच्छया कृत: पुम्भिराभासो ह्याश्रमात्पृथक् ।
स्वभावविहितो धर्म: कस्य नेष्ट: प्रशान्तये ॥ १४ ॥

यः तु इच्छया कृतः पुम्भिः आभासः हि आश्रमात् पृथक् स्व-भाव विहितः धर्मः कस्य न इष्टः प्रशान्तये

धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् ।
अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ १५ ॥

धर्म-अर्थम् अपि न ईहेत यात्रा-अर्थम् वा अधनः धनम् अनीहा अनीहमानस्य महा-अहेः इव वृत्ति-दा

सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् ।
कुतस्तत्कामलोभेन धावतोऽर्थेहया दिश: ॥ १६ ॥

सन्तुष्टस्य निरीहस्य स्व आत्म-आरामस्य यत् सुखम् कुतः तत् काम-लोभेन धावतः अर्थ-ईहया दिशः

सदा सन्तुष्टमनस: सर्वा: शिवमया दिश: ।
शर्कराकण्टकादिभ्यो यथोपानत्पद: शिवम् ॥ १७ ॥

सदा सन्तुष्ट-मनसः सर्वाः शिव-मयाः दिशः शर्करा कण्टक-आदिभ्यः यथा उपानत्-पदः शिवम्

सन्तुष्ट: केन वा राजन्न वर्तेतापि वारिणा ।
औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जन: ॥ १८ ॥

सन्तुष्टः केन वा राजन् न वर्तेत अपि वारिणा औपस्थ्य जैह्व्य कार्पण्यात् गृह-पालायते जनः

असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यश: ।
स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ १९ ॥

असन्तुष्टस्य विप्रस्य तेजः विद्या तपः यशः स्रवन्ति इन्द्रिय लौल्येन ज्ञानम् च एव अवकीर्यते

कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् ।
जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुव: ॥ २० ॥

कामस्य अन्तम् हि क्षुत्-तृड्भ्याम् क्रोधस्य एतत् फल-उदयात् जनः याति न लोभस्य जित्वा भुक्त्वा दिशः भुवः

पण्डिता बहवो राजन्बहुज्ञा: संशयच्छिद: ।
सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यध: ॥ २१ ॥

पण्डिताः बहवः राजन् बहु-ज्ञाः संशय-च्छिदः सदसः पतयः अपि एके असन्तोषात् पतन्ति अधः

असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् ।
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ २२ ॥

असङ्कल्पात् जयेत् कामम् क्रोधम् काम-विवर्जनात् अर्थ अनर्थ ईक्षया लोभम् भयम् तत्त्व अवमर्शनात्

आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया ।
योगान्तरायान्मौनेन हिंसां कामाद्यनीहया ॥ २३ ॥

आन्वीक्षिक्या शोक मोहौ दम्भम् महत् उपासया योग-अन्तरायान् मौनेन हिंसाम् काम-आदि अनीहया

कृपया भूतजं दु:खं दैवं जह्यात्समाधिना ।
आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ २४ ॥

कृपया भूत-जम् दुःखम् दैवम् जह्यात् समाधिना आत्म-जम् योग-वीर्येण निद्राम् सत्त्व-निषेवया

रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च ।
एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ २५ ॥

रजः तमः च सत्त्वेन सत्त्वम् च उपशमेन च एतत् सर्वम् गुरौ भक्त्या पुरुषः हि अञ्जसा जयेत्

यस्य साक्षाद्भ‍गवति ज्ञानदीपप्रदे गुरौ ।
मर्त्यासद्धी: श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ २६ ॥

यस्य साक्षात् भगवति ज्ञान-दीप-प्रदे गुरौ मर्त्य-असत्-धीः श्रुतम् तस्य सर्वम् कुञ्जर-शौच-वत्

एष वै भगवान्साक्षात् प्रधानपुरुषेश्वर: ।
योगेश्वरैर्विमृग्याङ्‌घ्रिर्लोको यं मन्यते नरम् ॥ २७ ॥

एषः वै भगवान् साक्षात् प्रधान पुरुष ईश्वरः योग-ईश्वरैः विमृग्य-अङ्घ्रिः लोकः यम् मन्यते नरम्

षड्‌‌वर्गसंयमैकान्ता: सर्वा नियमचोदना: ।
तदन्ता यदि नो योगानावहेयु: श्रमावहा: ॥ २८ ॥

षट्-वर्ग संयम-एकान्ताः सर्वाः नियम-चोदनाः तत्-अन्ताः यदि नो योगान् आवहेयुः श्रम-आवहाः

यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति ।
अनर्थाय भवेयु: स्म पूर्तमिष्टं तथासत: ॥ २९ ॥

यथा वार्ता-आदयः हि अर्थाः योगस्य अर्थम् न बिभ्रति अनर्थाय भवेयुः स्म पूर्तम् इष्टम् तथा असतः

यश्चित्तविजये यत्त: स्यान्नि:सङ्गोऽपरिग्रह: ।
एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशन: ॥ ३० ॥

यः चित्त-विजये यत्तः स्यात् निःसङ्गः अपरिग्रहः एकः विविक्त-शरणः भिक्षुः भैक्ष्य मित-अशनः

देशे शुचौ समे राजन्संस्थाप्यासनमात्मन: ।
स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ ३१ ॥

देशे शुचौ समे राजन् संस्थाप्य आसनम् आत्मनः स्थिरम् सुखम् समम् तस्मिन् आसीत ऋजु-अङ्गः ओम् इति

प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकै: ।
यावन्मनस्त्यजेत कामान्स्वनासाग्रनिरीक्षण: ॥ ३२ ॥
यतो यतो नि:सरति मन: कामहतं भ्रमत् ।
ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुध: ॥ ३३ ॥

प्राण अपानौ सन्निरुन्ध्यात् पूर-कुम्भक-रेचकैः यावत् मनः त्यजेत् कामान् स्व नास-अग्र निरीक्षणः यतः यतः निःसरति मनः काम-हतम् भ्रमत् ततः ततः उपाहृत्य हृदि रुन्ध्यात् शनैः बुधः

एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यते: ।
अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ ३४ ॥

एवम् अभ्यस्यतः चित्तम् कालेन अल्पीयसा यतेः अनिशम् तस्य निर्वाणम् याति अनिन्धन वह्निवत्

कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् ।
चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ ३५ ॥

काम-आदिभिः अनाविद्धम् प्रशान्त अखिल-वृत्ति यत् चित्तम् ब्रह्म-सुख-स्पृष्टम् न एव उत्तिष्ठेत कर्हिचित्

य: प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुन: ।
यदि सेवेत तान्भिक्षु: स वै वान्ताश्यपत्रप: ॥ ३६ ॥

यः प्रव्रज्य गृहात् पूर्वम् त्रि-वर्ग आवपनात् पुनः यदि सेवेत तान् भिक्षुः सः वै वान्त-आशी अपत्रपः

यै: स्वदेह: स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत् ।
त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमा: ॥ ३७ ॥

यैः स्व-देहः स्मृतः अनात्मा मर्त्यः विट् कृमि भस्म-वत् ते एनम् आत्मसात् कृत्वा श्लाघयन्ति हि असत्-तमाः

गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि ।
तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ ३८ ॥
आश्रमापसदा ह्येते खल्वाश्रमविडम्बना: ।
देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ॥ ३९ ॥

गृहस्थस्य क्रिया-त्यागः व्रत-त्यागः वटोः अपि तपस्विनः ग्राम-सेवा भिक्षोः इन्द्रिय-लोलता आश्रम अपसदाः हि एते खलु आश्रम-विडम्बनाः देव-माया-विमूढान् तान् उपेक्षेत अनुकम्पया

आत्मानं चेद्विजानीयात्परं ज्ञानधुताशय: ।
किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पट: ॥ ४० ॥

आत्मानम् चेत् विजानीयात् परम् ज्ञान धुत-आशयः किम् इच्छन् कस्य वा हेतोः देहम् पुष्णाति लम्पटः

आहु: शरीरं रथमिन्द्रियाणि
हयानभीषून्मन इन्द्रियेशम् ।
वर्त्मानि मात्रा धिषणां च सूतं
सत्त्वं बृहद् बन्धुरमीशसृष्टम् ॥ ४१ ॥

आहुः शरीरम् रथम् इन्द्रियाणि हयान् अभीषून् मनः इन्द्रिय ईशम् वर्त्मानि मात्राः धिषणाम् च सूतम् सत्त्वम् बृहत् बन्धुरम् ईश सृष्टम्

अक्षं दशप्राणमधर्मधर्मौ
चक्रेऽभिमानं रथिनं च जीवम् ।
धनुर्हि तस्य प्रणवं पठन्ति
शरं तु जीवं परमेव लक्ष्यम् ॥ ४२ ॥

अक्षम् दश प्राणम् अधर्म धर्मौ चक्रे अभिमानम् रथिनम् च जीवम् धनुः हि तस्य प्रणवम् पठन्ति शरम् तु जीवम् परम् एव लक्ष्यम्

रागो द्वेषश्च लोभश्च शोकमोहौ भयं मद: ।
मानोऽवमानोऽसूया च माया हिंसा च मत्सर: ॥ ४३ ॥
रज: प्रमाद: क्षुन्निद्रा शत्रवस्त्वेवमादय: ।
रजस्तम:प्रकृतय: सत्त्वप्रकृतय: क्‍वचित् ॥ ४४ ॥ H

रागः द्वेषः च लोभः च शोक मोहौ भयम् मदः मानः अवमानः असूया च माया हिंसा च मत्सरः रजः प्रमादः क्षुत् निद्रा शत्रवः तु एवम् आदयः रजः-तमः प्रकृतयः सत्त्व प्रकृतयः क्वचित्

यावन्नृकायरथमात्मवशोपकल्पं
धत्ते गरिष्ठचरणार्चनया निशातम् ।
ज्ञानासिमच्युतबलो दधदस्तशत्रु:
स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ॥ ४५ ॥

यावत् नृ-काय रथम् आत्म-वश उपकल्पम् धत्ते गरिष्ठ-चरण अर्चनया निशातम् ज्ञान-असिम् अच्युत-बलः दधत् अस्त-शत्रुः स्व-आनन्द-तुष्टः उपशान्तः इदम् विजह्यात्

नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता
नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति ।
ते दस्यव: सहयसूतममुं तमोऽन्धे
संसारकूप उरुमृत्युभये क्षिपन्ति ॥ ४६ ॥

नोचेत् प्रमत्तम् असत् इन्द्रिय वाजि सूताः नीत्वा उत्पथम् विषय दस्युषु निक्षिपन्ति ते दस्यवः स हय-सूतम् अमुम् तमः अन्धे संसार-कूपे उरु मृत्यु-भये क्षिपन्ति

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥ ४७ ॥

प्रवृत्तम् च निवृत्तम् च द्वि-विधम् कर्म वैदिकम् आवर्तते प्रवृत्तेन निवृत्तेन अश्नुते अमृतम्

¨ हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् ।
दर्शश्च पूर्णमासश्च चातुर्मास्यं पशु: सुत: ॥ ४८ ॥
एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च ।
पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥ ४९ ॥

हिंस्रम् द्रव्य-मयम् काम्यम् अग्नि-होत्र-आदि अशान्ति-दम् दर्शः च पूर्णमासः च चातुर्मास्यम् पशुः सुतः एतत् इष्टम् प्रवृत्त-आख्यम् हुतम् प्रहुतम् एव च पूर्तम् सुर-आलय आराम कूप आजीव्य-आदि लक्षणम्

द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षय: ।
अयनं दक्षिणं सोमो दर्श ओषधिवीरुध: ॥ ५० ॥
अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भव: ।
एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥ ५१ ॥

द्रव्य-सूक्ष्म-विपाकः च धूमः रात्रिः अपक्षयः अयनम् दक्षिणम् सोमः दर्शः ओषधि वीरुधः अन्नम् रेतः इति क्ष्म-ईश पितृ-यानम् पुनः-भवः एक-एकश्येन अनुपूर्वम् भूत्वा भूत्वा इह जायते

निषेकादिश्मशानान्तै: संस्कारै: संस्कृतो द्विज: ।
इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥

निषेक-आदि श्मशान-अन्तैः संस्कारैः संस्कृतः द्विजः इन्द्रियेषु क्रिया-यज्ञान् ज्ञान-दीपेषु जुह्वति

इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मन: ।
वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् ।
ओङ्कारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ ५३ ॥

इन्द्रियाणि मनसि ऊर्मौ वाचि वैकारिकम् मनः वाचम् वर्ण-समाम्नाये तम् ओंकारे स्वरे न्यसेत् ओंकारम् बिन्दौ नादे तम् तम् तु प्राणे महति अमुम्

अग्नि: सूर्यो दिवा प्राह्ण: शुक्लो राकोत्तरं स्वराट् ।
विश्वोऽथ तैजस: प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ ५४ ॥

अग्निः सूर्यः दिवा प्राह्णः शुक्लः राक उत्तरम् स्व-राट् विश्वः अथ तैजसः प्राज्ञः तुर्यः आत्मा समन्वयात्

देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वश: ।
आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥

देव-यानम् इदम् प्राहुः भूत्वा भूत्वा अनुपूर्वशः आत्म-याजी उपशान्त-आत्मा हि आत्म-स्थः न निवर्तते

य एते पितृदेवानामयने वेदनिर्मिते ।
शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥

यः एते पितृ-देवानाम् अयने वेद-निर्मिते शास्त्रेण चक्षुषा वेद जन-स्थः अपि न मुह्यति

आदावन्ते जनानां सद् बहिरन्त: परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ ५७ ॥

आदौ अन्ते जनानाम् सत् बहिः अन्तः पर अवरम् ज्ञानम् ज्ञेयम् वचः वाच्यम् तमः ज्योतिः तु अयम् स्वयम्

आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृत: ।
दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥

आबाधितः अपि हि आभासः यथा वस्तुतया स्मृतः दुर्घटत्वात् ऐन्द्रियकम् तद्वत् अर्थ विकल्पितम्

क्षित्यादीनामिहार्थानां छाया न कतमापि हि ।
न सङ्घातो विकारोऽपि न पृथङ्‌‌नान्वितो मृषा ॥ ५९ ॥

क्षिति-आदीनाम् इह अर्थानाम् छाया न कतमा अपि हि न सङ्घातः विकारः अपि न पृथक् न अन्वितः मृषा

धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना ।
न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्तत: ॥ ६० ॥

धातवः अवयवित्वात् च तत्-मात्र अवयवैः विना न स्युः हि असति अवयविनि असन् अवयवः अन्ततः

स्यात्साद‍ृश्यभ्रमस्तावद्विकल्पे सति वस्तुन: ।
जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥

स्यात् सादृश्य भ्रमः तावत् विकल्पे सति वस्तुनः जाग्रत् स्वापौ यथा स्वप्ने तथा विधि-निषेधता

भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मन: ।
वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनि: ॥ ६२ ॥

भाव-अद्वैतम् क्रिया-अद्वैतम् द्रव्य-अद्वैतम् तथा आत्मनः वर्तयन् स्व अनुभूत्या इह त्रीन् स्वप्नान् धुनुते मुनिः

कार्यकारणवस्त्वैक्यदर्शनं पटतन्तुवत् ।
अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥ ६३ ॥

कार्य कारण वस्तु ऐक्य दर्शनम् पट तन्तु वत् अवस्तुत्वात् विकल्पस्य भाव-अद्वैतम् तत् उच्यते

यद् ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् ।
मनोवाक्तनुभि: पार्थ क्रियाद्वैतं तदुच्यते ॥ ६४ ॥

यत् ब्रह्मणि परे साक्षात् सर्व कर्म समर्पणम् मनः वाक् तनुभिः पार्थ क्रिया-अद्वैतम् तत् उच्यते

आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् ।
यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ ६५ ॥

आत्म जाया सुत-आदीनाम् अन्येषाम् सर्व-देहिनाम् यत् स्व-अर्थ-कामयोः ऐक्यम् द्रव्य-अद्वैतम् तत् उच्यते

यद् यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप ।
स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥ ६६ ॥

यत् यस्य वा अनिषिद्धम् स्यात् येन यत्र यतः नृप सः तेन ईहेत कार्याणि नरः न अन्यैः अनापदि

एतैरन्यैश्च वेदोक्तैर्वर्तमान: स्वकर्मभि: ।
गृहेऽप्यस्य गतिं यायाद् राजंस्तद्भ‍क्तिभाङ्‌‌नर: ॥ ६७ ॥

एतैः अन्यैः च वेद-उक्तैः वर्तमानः स्व-कर्मभिः गृहे अपि अस्य गतिम् यायात् राजन् तत्-भक्ति-भाक् नरः

यथा हि यूयं नृपदेव दुस्त्यजा-
दापद्गणादुत्तरतात्मन: प्रभो: ।
यत्पादपङ्केरुहसेवया भवा-
नहारषीन्निर्जितदिग्गज: क्रतून् ॥ ६८ ॥

यथा हि यूयम् नृप-देव दुस्त्यजात् आपत् गणात् उत्तरत आत्मनः प्रभोः यत्-पाद-पङ्केरुह सेवया भवान् अहारषीत् निर्जित दिक्-गजः क्रतून्

अहं पुराभवं कश्चिद्गन्धर्व उपबर्हण: ।
नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मत: ॥ ६९ ॥

अहम् पुरा अभवम् कश्चित् गन्धर्वः उपबर्हणः नाम्ना अतीते महा-कल्पे गन्धर्वाणाम् सु-सम्मतः

रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शन: ।
स्त्रीणां प्रियतमो नित्यं मत्त: स्वपुरलम्पट: ॥ ७० ॥

रूप पेशल माधुर्य सौगन्ध्य प्रिय-दर्शनः स्त्रीणाम् प्रिय-तमः नित्यम् मत्तः स्व-पुर लम्पटः

एकदा देवसत्रे तु गन्धर्वाप्सरसां गणा: ।
उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ ७१ ॥

एकदा देव-सत्रे तु गन्धर्व अप्सरसाम् गणाः उपहूताः विश्व-सृग्भिः हरि-गाथ-उपगायने

अहं च गायंस्तद्विद्वान् स्त्रीभि: परिवृतो गत: ।
ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा ।
याहि त्वं शूद्रतामाशु नष्टश्री: कृतहेलन: ॥ ७२ ॥

अहम् च गायन् तत्-विद्वान् स्त्रीभिः परिवृतः गतः ज्ञात्वा विश्व-सृजः तत् मे हेलनम् शेपुः ओजसा याहि त्वम् शूद्रताम् आशु नष्ट श्रीः कृत-हेलनः

तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् ।
शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ॥ ७३ ॥

तावत् दास्याम् अहम् जज्ञे तत्रापि ब्रह्म-वादिनाम् शुश्रूषया अनुषङ्गेण प्राप्तः अहम् ब्रह्म-पुत्रताम्

धर्मस्ते गृहमेधीयो वर्णित: पापनाशन: ।
गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ ७४ ॥

धर्मः ते गृह-मेधीयः वर्णितः पाप-नाशनः गृहस्थः येन पदवीम् अञ्जसा न्यासिनाम् इयात्

यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ७५ ॥

यूयम् नृ-लोके बत भूरि-भागाः लोकम् पुनानाः मुनयः अभियन्ति येषाम् गृहान् आवसति इति साक्षात् गूढम् परम् ब्रह्म मनुष्य-लिङ्गम्

स वा अयं ब्रह्म महद्विमृग्य
कैवल्यनिर्वाणसुखानुभूति: ।
प्रिय: सुहृद् व: खलु मातुलेय
आत्मार्हणीयो विधिकृद्गुरुश्च ॥ ७६ ॥

सः वा अयम् ब्रह्म महत्-विमृग्य कैवल्य-निर्वाण-सुख अनुभूतिः प्रियः सुहृत् वः खलु मातुलेयः आत्मा अर्हणीयः विधि-कृत् गुरुः च

न यस्य साक्षाद्भ‍वपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजित:
प्रसीदतामेष स सात्वतां पति: ॥ ७७ ॥

न यस्य साक्षात् भव पद्म-ज-आदिभिः रूपम् धिया वस्तुतया उपवर्णितम् मौनेन भक्त्या उपशमेन पूजितः प्रसीदताम् एषः सः सात्वताम् पतिः

श्रीशुक उवाच
इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभ: ।
पूजयामास सुप्रीत: कृष्णं च प्रेमविह्वल: ॥ ७८ ॥

श्री-शुकः उवाच इति देव-ऋषिणा प्रोक्तम् निशम्य भरत-ऋषभः पूजयाम् आस सु-प्रीतः कृष्णम् च प्रेम-विह्वलः

कृष्णपार्थावुपामन्‍त्र्य पूजित: प्रययौ मुनि: ।
श्रुत्वा कृष्णं परं ब्रह्म पार्थ: परमविस्मित: ॥ ७९ ॥

कृष्ण पार्थौ उपामन्त्र्य पूजितः प्रययौ मुनिः श्रुत्वा कृष्णम् परम् ब्रह्म पार्थः परम-विस्मितः

इति दाक्षायणीनां ते पृथग्वंशा: प्रकीर्तिता: ।
देवासुरमनुष्याद्या लोका यत्र चराचरा: ॥ ८० ॥
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नम: कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥

इति दाक्षायणीनाम् ते पृथक् वंशाः प्रकीर्तिताः देव असुर मनुष्य आद्याः लोकाः यत्र चर-अचराः