श्रीमद्भागवतम् पदच्छेद - स्कंध ८
८.१
श्रीराजोवाच
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुत: ।
यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व न: ॥ १ ॥
श्री-राजा उवाच स्वायम्भुवस्य इह गुरो वंशः अयम् विस्तरात् श्रुतः यत्र विश्व-सृजाम् सर्गः मनून् अन्यान् वदस्व नः
मन्वन्तरे हरेर्जन्म कर्माणि च महीयस: ।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥ २ ॥
मन्वन्तरे हरेः जन्म कर्माणि च महीयसः गृणन्ति कवयः ब्रह्मन् तानि नः वद शृण्वताम्
यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावन: ।
कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा ॥ ३ ॥
यत् यस्मिन् अन्तरे ब्रह्मन् भगवान् विश्व-भावनः कृतवान् कुरुते कर्ता हि अतीते अनागते अद्य वा
श्रीऋषिरुवाच
मनवोऽस्मिन्व्यतीता: षट् कल्पे स्वायम्भुवादय: ।
आद्यस्ते कथितो यत्र देवादीनां च सम्भव: ॥ ४ ॥
श्री-ऋषिः उवाच मनवः अस्मिन् व्यतीताः षट् कल्पे स्वायम्भुव आदयः आद्यः ते कथितः यत्र देव-आदीनाम् च सम्भवः
आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनो: ।
धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गत: ॥ ५ ॥
आकूत्याम् देवहूत्याम् च दुहित्रोः तस्य वै मनोः धर्म ज्ञान उपदेश-अर्थम् भगवान् पुत्रताम् गतः
कृतं पुरा भगवत: कपिलस्यानुवर्णितम् ।
आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह ॥ ६ ॥
कृतम् पुरा भगवतः कपिलस्य अनुवर्णितम् आख्यास्ये भगवान् यज्ञः यत् चकार कुरु-उद्वह
विरक्त: कामभोगेषु शतरूपापति: प्रभु: ।
विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ ७ ॥
विरक्तः काम-भोगेषु शतरूपा-पतिः प्रभुः विसृज्य राज्यम् तपसे स-भार्यः वनम् आविशत्
सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।
तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ ८ ॥
सुनन्दायाम् वर्ष-शतम् पद-एकेन भुवम् स्पृशन् तप्यमानः तपः घोरम् इदम् अन्वाह भारत
मनुरुवाच
येन चेतयते विश्वं विश्वं चेतयते न यम् ।
यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद स: ॥ ९ ॥
श्री-मनुः उवाच येन चेतयते विश्वम् विश्वम् चेतयते न यम् यः जागर्ति शयाने अस्मिन् न अयम् तम् वेद वेद सः
आत्मावास्यमिदं विश्वं यत् किञ्चिज्जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृध: कस्यस्विद्धनम् ॥ १० ॥
आत्म आवास्यम् इदम् विश्वम् यत् किञ्चित् जगत्याम् जगत् तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्वित् धनम्
यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति ।
तं भूतनिलयं देवं सुपर्णमुपधावत ॥ ११ ॥
यम् पश्यति न पश्यन्तम् चक्षुः यस्य न रिष्यति तम् भूत-निलयम् देवम् सुपर्णम् उपधावत
न यस्याद्यन्तौ मध्यं च स्व: परो नान्तरं बहि: ।
विश्वस्यामूनि यद् यस्माद् विश्वं च तदृतं महत् ॥ १२ ॥
न यस्य आदि अन्तौ मध्यम् च स्वः परः न अन्तरम् बहिः विश्वस्य अमूनि यत् यस्मात् विश्वम् च तत् ऋतम् महत्
स विश्वकाय: पुरुहूत ईश:
सत्य: स्वयंज्योतिरज: पुराण: ।
धत्तेऽस्य जन्माद्यजयात्मशक्त्या
तां विद्ययोदस्य निरीह आस्ते ॥ १३ ॥
सः विश्व-कायः पुरु-हूतः ईशः सत्यः स्वयम् ज्योतिः अजः पुराणः धत्ते अस्य जन्म-आदि अजया आत्म-शक्त्या ताम् विद्यया उदस्य निरीहः आस्ते
अथाग्रे ऋषय: कर्माणीहन्तेऽकर्महेतवे ।
ईहमानो हि पुरुष: प्रायोऽनीहां प्रपद्यते ॥ १४ ॥
अथ अग्रे ऋषयः कर्माणि ईहन्ते अकर्म हेतवे ईहमानः हि पुरुषः प्रायः अनीहाम् प्रपद्यते
ईहते भगवानीशो न हि तत्र विसज्जते ।
आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥ १५ ॥
ईहते भगवान् ईशः न हि तत्र विसज्जते आत्म-लाभेन पूर्ण-अर्थः न अवसीदन्ति ये अनु तम्
तमीहमानं निरहङ्कृतं बुधं
निराशिषं पूर्णमनन्यचोदितम् ।
नृञ् शिक्षयन्तं निजवर्त्मसंस्थितं
प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥ १६ ॥
तम् ईहमानम् निरहङ्कृतम् बुधम् निराशिषम् पूर्णम् अनन्य चोदितम् नॄन् शिक्षयन्तम् निज-वर्त्म संस्थितम् प्रभुम् प्रपद्ये अखिल-धर्म-भावनम्
श्रीशुक उवाच
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।
दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ १७ ॥
श्री-शुकः उवाच इति मन्त्र-उपनिषदम् व्याहरन्तम् समाहितम् दृष्ट्वा असुराः यातुधानाः जग्धुम् अभ्यद्रवन् क्षुधा
तांस्तथावसितान् वीक्ष्य यज्ञ: सर्वगतो हरि: ।
यामै: परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् ॥ १८ ॥
तान् तथा अवसितान् वीक्ष्य यज्ञः सर्व-गतः हरिः यामैः परिवृतः देवैः हत्वा अशासत् त्रि-विष्टपम्
स्वारोचिषो द्वितीयस्तु मनुरग्ने: सुतोऽभवत् ।
द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजा: ॥ १९ ॥
स्वारोचिषः द्वितीयः तु मनुः अग्नेः सुतः अभवत् द्युमत् सुषेण रोचिष्मत् प्रमुखाः तस्य च आत्म-जाः
तत्रेन्द्रो रोचनस्त्वासीद् देवाश्च तुषितादय: ।
ऊर्जस्तम्भादय: सप्त ऋषयो ब्रह्मवादिन: ॥ २० ॥
तत्र इन्द्रः रोचनः तु आसीत् देवाः च तुषित-आदयः ऊर्ज स्तम्भ आदयः सप्त ऋषयः ब्रह्म-वादिनः
ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् ।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुत: ॥ २१ ॥
ऋषेः तु वेदशिरसः तुषिता नाम पत्नी अभूत् तस्याम् जज्ञे ततः देवः विभुः इति अभिविश्रुतः
अष्टाशीतिसहस्राणि मुनयो ये धृतव्रता: ।
अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिण: ॥ २२ ॥
अष्टाशीति सहस्राणि मुनयः ये धृत-व्रताः अन्वशिक्षन् व्रतम् तस्य कौमार ब्रह्मचारिणः
तृतीय उत्तमो नाम प्रियव्रतसुतो मनु: ।
पवन: सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥ २३ ॥
तृतीयः उत्तमः नाम प्रियव्रत सुतः मनुः पवनः सृञ्जयः यज्ञहोत्र-आद्याः तत्-सुताः नृप
वसिष्ठतनया: सप्त ऋषय: प्रमदादय: ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४ ॥
वसिष्ठ-तनयाः सप्त ऋषयः प्रमद-आदयः सत्याः वेदश्रुताः भद्राः देवाः इन्द्रः तु सत्यजित्
धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तम: ।
सत्यसेन इति ख्यातो जात: सत्यव्रतै: सह ॥ २५ ॥
धर्मस्य सूनृतायाम् तु भगवान् पुरुष-उत्तमः सत्यसेनः इति ख्यातः जातः सत्यव्रतैः सह
सोऽनृतव्रतदु:शीलानसतो यक्षराक्षसान् ।
भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सख: ॥ २६ ॥
सः अनृत-व्रत दुःशीलान् असतः यक्ष-राक्षसान् भूत-द्रुहः भूत-गणान् च अवधीत् सत्यजित्-सखः
चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामस: ।
पृथु: ख्यातिर्नर: केतुरित्याद्या दश तत्सुता: ॥ २७ ॥
चतुर्थ उत्तम-भ्राता मनुः नाम्ना च तामसः पृथुः ख्यातिः नरः केतुः इति आद्याः दश तत्-सुताः
सत्यका हरयो वीरा देवास्त्रिशिख ईश्वर: ।
ज्योतिर्धामादय: सप्त ऋषयस्तामसेऽन्तरे ॥ २८ ॥
सत्यकाः हरयः वीराः देवाः त्रिशिखः ईश्वरः ज्योतिर्धाम-आदयः सप्त ऋषयः तामसे अन्तरे
देवा वैधृतयो नाम विधृतेस्तनया नृप ।
नष्टा: कालेन यैर्वेदा विधृता: स्वेन तेजसा ॥ २९ ॥
देवाः वैधृतयः नाम विधृतेः तनयाः नृप नष्टाः कालेन यैः वेदाः विधृताः स्वेन तेजसा
तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधस: ।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ ३० ॥
तत्रापि जज्ञे भगवान् हरिण्याम् हरिमेधसः हरिः इति आहृतः येन गज-इन्द्रः मोचितः ग्रहात्
श्रीराजोवाच
बादरायण एतत् ते श्रोतुमिच्छामहे वयम् ।
हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ ३१ ॥
श्री-राजा उवाच बादरायणे एतत् ते श्रोतुम् इच्छामहे वयम् हरिः यथा गज-पतिम् ग्राह-ग्रस्तम् अमूमुचत्
तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
यत्र यत्रोत्तमश्लोको भगवान्गीयते हरि: ॥ ३२ ॥
तत्-कथासु महत् पुण्यम् धन्यम् स्वस्त्ययनम् शुभम् यत्र यत्र उत्तमश्लोकः भगवान् गीयते हरिः
श्रीसूत उवाच
परीक्षितैवं स तु बादरायणि:
प्रायोपविष्टेन कथासु चोदित: ।
उवाच विप्रा: प्रतिनन्द्य पार्थिवं
मुदा मुनीनां सदसि स्म शृण्वताम् ॥ ३३ ॥
श्री-सूतः उवाच परीक्षिता एवम् सः तु बादरायणिः प्राय-उपविष्टेन कथासु चोदितः उवाच विप्राः प्रतिनन्द्य पार्थिवम् मुदा मुनीनाम् सदसि स्म शृण्वताम्
८.२
श्रीशुक उवाच
आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुत: ।
क्षीरोदेनावृत: श्रीमान्योजनायुतमुच्छ्रित: ॥ १ ॥
श्री-शुकः उवाच आसीत् गिरिवरः राजन् त्रि-कूटः इति विश्रुतः क्षीर-उदेन आवृतः श्रीमान् योजन अयुतम् उच्छ्रितः
तावता विस्तृत: पर्यक्त्रिभि: शृङ्गै: पयोनिधिम् ।
दिश: खं रोचयन्नास्ते रौप्यायसहिरण्मयै: ॥ २ ॥
अन्यैश्च ककुभ: सर्वा रत्नधातुविचित्रितै: ।
नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३ ॥
तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयः-निधिम् दिशः खम् रोचयन् आस्ते रौप्य अयस हिरण्मयैः अन्यैः च ककुभः सर्वाः रत्न धातु विचित्रितैः नाना द्रुम-लता गुल्मैः निर्घोषैः निर्झर अम्भसाम्
स चावनिज्यमानाङ्घ्रि: समन्तात् पयऊर्मिभि: ।
करोति श्यामलां भूमिं हरिन्मरकताश्मभि: ॥ ४ ॥
सः च अवनिज्यमान-अङ्घ्रिः समन्तात् पयः-ऊर्मिभिः करोति श्यामलाम् भूमिम् हरित् मरकत अश्मभिः
सिद्धचारणगन्धर्वैर्विद्याधरमहोरगै: ।
किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दर: ॥ ५ ॥
सिद्ध चारण गन्धर्वैः विद्याधर महा-उरगैः किन्नरैः अप्सरोभिः च क्रीडद्भिः जुष्ट कन्दरः
यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया ।
अभिगर्जन्ति हरय: श्लाघिन: परशङ्कया ॥ ६ ॥
यत्र सङ्गीत सन्नादैः नदत् गुहम् अमर्षया अभिगर्जन्ति हरयः श्लाघिनः पर-शङ्कया
नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृत: ।
चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गम: ॥ ७ ॥
नाना अरण्य-पशु व्रात सङ्कुल द्रोणि अलङ्कृतः चित्र द्रुम सुर-उद्यान कलकण्ठ विहङ्गमः
सरित्सरोभिरच्छोदै: पुलिनैर्मणिवालुकै: ।
देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युत: ॥ ८ ॥
सरित् सरोभिः अच्छोदैः पुलिनैः मणि वालुकैः देव-स्त्री मज्जन आमोद सौरभ अम्बु अनिलैः युतः
तस्य द्रोण्यां भगवतो वरुणस्य महात्मन: ।
उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥
सर्वतोऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमै: ।
मन्दारै: पारिजातैश्च पाटलाशोकचम्पकै: ॥ १० ॥
चूतै: पियालै: पनसैराम्रैराम्रातकैरपि ।
क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकै: ॥ ११ ॥
मधुकै: शालतालैश्च तमालैरसनार्जुनै: ।
अरिष्टोडुम्बरप्लक्षैर्वटै: किंशुकचन्दनै: ॥ १२ ॥
पिचुमर्दै: कोविदारै: सरलै: सुरदारुभि: ।
द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलै: ॥ १३ ॥
तस्य द्रोण्याम् भगवतः वरुणस्य महा-आत्मनः उद्यानम् ऋतुमत् नाम आक्रीडम् सुर-योषिताम् सर्वतः अलङ्कृतम् दिव्यैः नित्य पुष्प फल द्रुमैः मन्दारैः पाटल पियालैः पनसैः आम्रैः आम्रातकैः अपि क्रमुकैः नारिकेलैः च खर्जूरैः बीजपूरकैः मधुकैः शाल-तालैः च तमालैः असन अर्जुनैः अरिष्ट उडुम्बर प्लक्षैः वटैः किंशुक चन्दनैः पिचुमर्दैः कोविदारैः सरलैः सुर-दारुभिः द्राक्षा इक्षुः रम्भा जम्बुभिः बदरी अक्ष अभय आमलैः
८.२.१४-१९
बिल्वै: कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभि: ।
तस्मिन्सर: सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥
कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् ।
मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनै: ॥ १५ ॥
हंसकारण्डवाकीर्णं चक्राह्वै: सारसैरपि ।
जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६ ॥
मत्स्यकच्छपसञ्चारचलत्पद्मरज:पय: ।
कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७ ॥
कुन्दै: कुरुबकाशोकै: शिरीषै: कूटजेङ्गुदै: ।
कुब्जकै: स्वर्णयूथीभिर्नागपुन्नागजातिभि: ॥ १८ ॥
मल्लिकाशतपत्रैश्च माधवीजालकादिभि: ।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमै: ॥ १९ ॥
बिल्वैः कपित्थैः जम्बीरैः वृतः भल्लातक-आदिभिः तस्मिन् सरः सु-विपुलम् लसत् काञ्चन पङ्क-जम् कुमुद उत्पल कह्लार शतपत्र श्रिया ऊर्जितम् मत्त षट्-पद निर्घुष्टम् शकुन्तैः च कल-स्वनैः हंस कारण्डव आकीर्णम् चक्राह्वैः सारसैः अपि जलकुक्कुट कोयष्टि दात्यूह कूजितम् मत्स्य कच्छप सञ्चार चलत् पद्म रजः पयः कदम्ब वेतस कुन्दैः कुरुबक यूथीभिः माधवी जालकादिभिः तीरजैः च अन्यैः नित्य-ऋतुभिः अलम् द्रुमैः
तत्रैकदा तद्गिरिकाननाश्रय:
करेणुभिर्वारणयूथपश्चरन् ।
सकण्टकं कीचकवेणुवेत्रवद्
विशालगुल्मं प्ररुजन्वनस्पतीन् ॥ २० ॥
तत्र एकदा तत्-गिरि कानन-आश्रयः करेणुभिः वारण-यूथ-पः चरन् स-कण्टकम् कीचक-वेणु-वेत्र-वत् विशाल-गुल्मम् प्ररुजन् वनः-पतीन्
यद्गन्धमात्राद्धरयो गजेन्द्रा
व्याघ्रादयो व्यालमृगा: सखड्गा: ।
महोरगाश्चापि भयाद्द्रवन्ति
सगौरकृष्णा: सरभाश्चमर्य: ॥ २१ ॥
यत्-गन्ध-मात्रात् हरयः गज-इन्द्राः व्याघ्र-आदयः व्याल-मृगाः सखड्गाः महा-उरगाः च अपि भयात् द्रवन्ति स गौर-कृष्णाः सरभाः चमर्यः
गोपुच्छशालावृकमर्कटाश्च ।
अन्यत्र क्षुद्रा हरिणा: शशादय-
श्चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥
वृकाः वराहाः महिष ऋक्ष शल्याः गोपुच्छ शालावृक मर्कटाः च अन्यत्र क्षुद्राः हरिणाः शश-आदयः चरन्ति अभीताः यत्-अनुग्रहेण
स घर्मतप्त: करिभि: करेणुभि-
र्वृतो मदच्युत्करभैरनुद्रुत: ।
गिरिं गरिम्णा परित: प्रकम्पयन्
निषेव्यमाणोऽलिकुलैर्मदाशनै: ॥ २३ ॥
सरोऽनिलं पङ्कजरेणुरूषितं
जिघ्रन्विदूरान्मदविह्वलेक्षण: ।
वृत: स्वयूथेन तृषार्दितेन तत्
सरोवराभ्यासमथागमद्द्रुतम् ॥ २४ ॥
सः घर्म-तप्तः करिभिः करेणुभिः वृतः मद-च्युत् करभैः अनुद्रुतः गिरिम् गरिम्णा परितः प्रकम्पयन् निषेव्यमाणः अलिकुलैः मद-अशनैः सरः अनिलम् पङ्कज-रेणु-रूषितम् जिघ्रन् विदूरात् मद-विह्वल ईक्षणः वृतः स्व-यूथेन तृषार्दितेन तत् सरोवर-अभ्यासम् अथ अगमत् द्रुतम्
विगाह्य तस्मिन्नमृताम्बु निर्मलं
हेमारविन्दोत्पलरेणुरूषितम् ।
पपौ निकामं निजपुष्करोद्धृत-
मात्मानमद्भि: स्नपयन्गतक्लम: ॥ २५ ॥
विगाह्य तस्मिन् अमृत-अम्बु निर्मलम् हेम अरविन्द-उत्पल रेणु रूषितम् पपौ निकामम् निज पुष्कर-उद्धृतम् आत्मानम् अद्भिः स्नपयन् गत-क्लमः
स पुष्करेणोद्धृतशीकराम्बुभि-
र्निपाययन्संस्नपयन्यथा गृही ।
घृणी करेणु: करभांश्च दुर्मदो
नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥
सः पुष्करेण उद्धृत शीकर-अम्बुभिः निपाययन् संस्नपयन् यथा गृही घृणी करेणुः करभान् च दुर्मदः न आचष्ट कृच्छ्रम् कृपणः अज-मायया
तं तत्र कश्चिन्नृप दैवचोदितो
ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।
यदृच्छयैवं व्यसनं गतो गजो
यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥
तम् तत्र कश्चित् नृप दैव-चोदितः ग्राहः बलीयान् चरणे रुषा अग्रहीत् यदृच्छया एवम् व्यसनम् गतः गजः यथा-बलम् सः अति-बलः विचक्रमे
तथातुरं यूथपतिं करेणवो
विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर्दीनधियोऽपरे गजा:
पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥
तथा आतुरम् यूथ-पतिम् करेणवः विकृष्यमाणम् तरसा बलीयसा विचुक्रुशुः दीन-धियः अपरे गजाः पार्ष्णि-ग्रहाः तारयितुम् न च अशकन्
नियुध्यतोरेवमिभेन्द्रनक्रयो-
र्विकर्षतोरन्तरतो बहिर्मिथ: ।
समा: सहस्रं व्यगमन् महीपते
सप्राणयोश्चित्रममंसतामरा: ॥ २९ ॥
नियुध्यतोः एवम् इभ-इन्द्र नक्रयोः विकर्षतोः अन्तरतः बहिः मिथः समाः सहस्रम् व्यगमन् मही-पते स-प्राणयोः चित्रम् अमंसत अमराः
ततो गजेन्द्रस्य मनोबलौजसां
कालेन दीर्घेण महानभूद् व्यय: ।
विकृष्यमाणस्य जलेऽवसीदतो
विपर्ययोऽभूत् सकलं जलौकस: ॥ ३० ॥
ततः गज-इन्द्रस्य मनः बल ओजसाम् कालेन दीर्घेण महान् अभूत् व्ययः विकृष्यमाणस्य जले अवसीदतः विपर्ययः अभूत् सकलम् जल-ओकसः
इत्थं गजेन्द्र: स यदाप सङ्कटं
प्राणस्य देही विवशो यदृच्छया ।
अपारयन्नात्मविमोक्षणे चिरं
दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥
इत्थम् गज-इन्द्रः सः यदा आप सङ्कटम् प्राणस्य देही विवशः यदृच्छया अपारयन् आत्म-विमोक्षणे चिरम् दध्यौ इमाम् बुद्धिम् अथ अभ्यपद्यत
न मामिमे ज्ञातय आतुरं गजा:
कुत: करिण्य: प्रभवन्ति मोचितुम् ।
ग्राहेण पाशेन विधातुरावृतो-
ऽप्यहं च तं यामि परं परायणम् ॥ ३२ ॥
न माम् इमे ज्ञातयः आतुरम् गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् ग्राहेण पाशेन विधातुः आवृतः अपि अहम् च तम् यामि परम् परायणम्
य: कश्चनेशो बलिनोऽन्तकोरगात्
प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्भया-
न्मृत्यु: प्रधावत्यरणं तमीमहि ॥ ३३ ॥
यः कश्चन ईशः बलिनः अन्तक-उरगात् प्रचण्ड-वेगात् अभिधावतः भृशम् भीतम् प्रपन्नम् परिपाति यत्-भयात् मृत्युः प्रधावति अरणम् तम् ईमहि
८.३
श्रीबादरायणिरुवाच
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ॥ १ ॥
श्री-बादरायणिः उवाच एवम् व्यवसितः बुद्ध्या समाधाय मनः हृदि जजाप परमम् जाप्यम् प्राक्-जन्मनि अनुशिक्षितम्
श्रीगजेन्द्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभिधीमहि ॥ २ ॥
श्री-गजेन्द्रः उवाच ओम् नमः भगवते तस्मै यतः एतत् चित्-आत्मकम् पुरुषाय आदि-बीजाय पर-ईशाय अभिधीमहि
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ ३ ॥
यस्मिन् इदम् यतः च इदम् येन इदम् यः इदम् स्वयम् यः अस्मात् परस्मात् च परः तम् प्रपद्ये स्वयम्भुवम्
य: स्वात्मनीदं निजमाययार्पितं
क्वचिद् विभातं क्व च तत् तिरोहितम् ।
अविद्धदृक् साक्ष्युभयं तदीक्षते
स आत्ममूलोऽवतु मां परात्पर: ॥ ४ ॥
यः स्व-आत्मनि इदम् निज-मायया अर्पितम् क्वचित् विभातम् क्व च तत् तिरोहितम् अविद्ध-दृक् साक्षी उभयम् तत् ईक्षते सः आत्म-मूलः अवतु माम् परात्-परः
कालेन पञ्चत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदासीद् गहनं गभीरं
यस्तस्य पारेऽभिविराजते विभु: ॥ ५ ॥
कालेन पञ्चत्वम् इतेषु कृत्स्नशः लोकेषु पालेषु च सर्व-हेतुषु तमः तदा आसीत् गहनम् गभीरम् यः तस्य पारे अभिविराजते विभुः
न यस्य देवा ऋषय: पदं विदु-
र्जन्तु: पुन: कोऽर्हति गन्तुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमण: स मावतु ॥ ६ ॥
न यस्य देवाः ऋषयः पदम् विदुः जन्तुः पुनः कः अर्हति गन्तुम् ईरितुम् यथा नटस्य आकृतिभिः विचेष्टतः दुरत्यय अनुक्रमणः सः मा अवतु
दिदृक्षवो यस्य पदं सुमङ्गलं
विमुक्तसङ्गा मुनय: सुसाधव: ।
चरन्त्यलोकव्रतमव्रणं वने
भूतात्मभूता: सुहृद: स मे गति: ॥ ७ ॥
दिदृक्षवः यस्य पदम् सु-मङ्गलम् विमुक्त-सङ्गाः मुनयः सु-साधवः चरन्ति अलोक-व्रतम् अव्रणम् वने भूत-आत्म-भूताः सुहृदः सः मे गतिः
न विद्यते यस्य च जन्म कर्म वा
न नामरूपे गुणदोष एव वा ।
तथापि लोकाप्ययसम्भवाय य:
स्वमायया तान्यनुकालमृच्छति ॥ ८ ॥
तस्मै नम: परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ ९ ॥
न विद्यते यस्य च जन्म कर्म वा न नाम-रूपे गुण दोषः एव वा तथापि लोक अप्यय सम्भवाय यः स्व-मायया तानि अनुकालम् ऋच्छति तस्मै नमः पर ईशाय ब्रह्मणे अनन्त-शक्तये अरूपाय उरु-रूपाय नमः आश्चर्य-कर्मणे
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥ १० ॥
नमः आत्म-प्रदीपाय साक्षिणे परम-आत्मने नमः गिराम् विदूराय मनसः चेतसाम् अपि
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नम: कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥
सत्त्वेन प्रति-लभ्याय नैष्कर्म्येण विपश्चिता नमः कैवल्य-नाथाय निर्वाण सुख संविदे
नम: शान्ताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२ ॥
नमः शान्ताय घोराय मूढाय गुण-धर्मिणे निर्विशेषाय साम्याय नमः ज्ञान-घनाय च
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नम: ॥ १३ ॥
क्षेत्र-ज्ञाय नमः तुभ्यम् सर्व अध्यक्षाय साक्षिणे पुरुषाय आत्म-मूलाय मूल-प्रकृतये नमः
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नम: ॥ १४ ॥
सर्व-इन्द्रिय-गुण-द्रष्ट्रे सर्व-प्रत्यय-हेतवे असता छायया उक्ताय सत् आभासाय ते नमः
नमो नमस्तेऽखिलकारणाय
निष्कारणायाद्भुतकारणाय ।
सर्वागमाम्नायमहार्णवाय
नमोऽपवर्गाय परायणाय ॥ १५ ॥
नमः नमः ते अखिल-कारणाय निष्कारणाय अद्भुत-कारणाय सर्व आगम-आम्नाय महा-अर्णवाय नमः अपवर्गाय पर-अयणाय
गुणारणिच्छन्नचिदुष्मपाय
तत्क्षोभविस्फूर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागम-
स्वयंप्रकाशाय नमस्करोमि ॥ १६ ॥
गुण अरणि छन्न चित् उष्मपाय तत्-क्षोभ विस्फूर्जित मानसाय नैष्कर्म्य-भावेन विवर्जित आगम स्वयम् प्रकाशाय नमः करोमि
मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकरुणाय नमोऽलयाय ।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत-
प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ १७ ॥
मादृक् प्रपन्न पशु पाश विमोक्षणाय मुक्ताय भूरि-करुणाय नमः अलयाय स्व-अंशेन सर्व तनु-भृत् मनसि प्रतीत प्रत्यक्-दृशे भगवते बृहते नमः ते
आत्मात्मजाप्तगृहवित्तजनेषु सक्तै-
र्दुष्प्रापणाय गुणसङ्गविवर्जिताय ।
मुक्तात्मभि: स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय ॥ १८ ॥
आत्म आत्म-ज आप्त गृह वित्त जनेषु सक्तैः दुष्प्रापणाय गुण-सङ्ग विवर्जिताय मुक्त-आत्मभिः स्व-हृदये परिभाविताय ज्ञान-आत्मने भगवते नमः ईश्वराय
यं धर्मकामार्थविमुक्तिकामा
भजन्त इष्टां गतिमाप्नुवन्ति ।
किं चाशिषो रात्यपि देहमव्ययं
करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९ ॥
यम् धर्म-काम-अर्थ-विमुक्ति-कामाः भजन्तः इष्टाम् गतिम् आप्नुवन्ति किम् च आशिषः राति अपि देहम् अव्ययम् करोतु मे अदभ्र-दयः विमोक्षणम्
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्ना: ।
अत्यद्भुतं तच्चरितं सुमङ्गलं
गायन्त आनन्दसमुद्रमग्ना: ॥ २० ॥
तमक्षरं ब्रह्म परं परेश-
मव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूर-
मनन्तमाद्यं परिपूर्णमीडे ॥ २१ ॥
एकान्तिनः यस्य न कञ्चन अर्थम् वाञ्छन्ति ये वै भगवत्-प्रपन्नाः अति-अद्भुतम् तत्-चरितम् सु-मङ्गलम् गायन्तः आनन्द समुद्र मग्नाः तम् अक्षरम् ब्रह्म परम् पर-ईशम् अव्यक्तम् आध्यात्मिक योग गम्यम् अति-इन्द्रियम् सूक्ष्मम् इव अति-दूरम् अनन्तम् आद्यम् परिपूर्णम् ईडे
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचरा: ।
नामरूपविभेदेन फल्ग्व्या च कलया कृता: ॥ २२ ॥
यथार्चिषोऽग्ने: सवितुर्गभस्तयो
निर्यान्ति संयान्त्यसकृत् स्वरोचिष: ।
तथा यतोऽयं गुणसम्प्रवाहो
बुद्धिर्मन: खानि शरीरसर्गा: ॥ २३ ॥
स वै न देवासुरमर्त्यतिर्यङ्
न स्त्री न षण्ढो न पुमान् न जन्तु: ।
नायं गुण: कर्म न सन्न चासन्
निषेधशेषो जयतादशेष: ॥ २४ ॥
यस्य ब्रह्म-आदयः देवाः वेदाः लोकाः चर-अचराः नाम-रूप विभेदेन फल्ग्व्या च कलया कृताः यथा अर्चिषः अग्नेः सवितुः गभस्तयः निर्यान्ति संयान्ति असकृत् स्व-रोचिषः तथा यतः अयम् गुण-सम्प्रवाहः बुद्धिः मनः खानि शरीर सर्गाः सः वै न देव असुर मर्त्य तिर्यक् न स्त्री न षण्ढः न पुमान् न जन्तुः न अयम् गुणः कर्म न सत् न च असत् निषेध शेषः जयतात् अशेषः
जिजीविषे नाहमिहामुया कि-
मन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लव-
स्तस्यात्मलोकावरणस्य मोक्षम् ॥ २५ ॥
जिजीविषे न अहम् इह अमुया किम् अन्तः बहिः च आवृतया इभ-योन्या इच्छामि कालेन न यस्य विप्लवः तस्य आत्म-लोक-आवरणस्य मोक्षम्
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६ ॥
सः अहम् विश्व-सृजम् विश्वम् अविश्वम् विश्व-वेदसम् विश्व-आत्मानम् अजम् ब्रह्म प्रणतः अस्मि परम् पदम्
योगरन्धितकर्माणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥ २७ ॥
योग-रन्धित-कर्माणः हृदि योग-विभाविते योगिनः यम् प्रपश्यन्ति योग-ईशम् तम् नतः अस्मि अहम्
नमो नमस्तुभ्यमसह्यवेग-
शक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८ ॥
नमः नमः तुभ्यम् असह्य वेग शक्ति-त्रयाय अखिल धी गुणाय प्रपन्न-पालाय दुरन्त-शक्तये कत्-इन्द्रियाणाम् अनवाप्य वर्त्मने
नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥ २९ ॥
न अयम् वेद स्वम् आत्मानम् यत्-शक्त्या अहम् धिया हतम् तम् दुरत्यय माहात्म्यम् भगवन्तम् इतः अस्मि अहम्
श्रीशुक उवाच
एवं गजेन्द्रमुपवर्णितनिर्विशेषं
ब्रह्मादयो विविधलिङ्गभिदाभिमाना: ।
नैते यदोपससृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत् ॥ ३० ॥
श्री-शुकः उवाच एवम् गजेन्द्रम् उपवर्णित निर्विशेषम् ब्रह्मा-आदयः विविध लिङ्ग-भिदा अभिमानाः न एते यदा उपससृपुः निखिल-आत्मकत्वात् तत्र अखिल अमर-मयः हरिः आविरासीत्
तं तद्वदार्तमुपलभ्य जगन्निवास:
स्तोत्रं निशम्य दिविजै: सह संस्तुवद्भि: ।
छन्दोमयेन गरुडेन समुह्यमान-
श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्र: ॥ ३१ ॥
तम् तद्वत् आर्तम् उपलभ्य जगत्-निवासः स्तोत्रम् निशम्य दिविजैः सह संस्तुवद्भिः छन्दोमयेन गरुडेन समुह्यमानः चक्र आयुधः अभ्यगमत् आशु यतः गजेन्द्रः
सोऽन्त:सरस्युरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-
न्नारायणाखिलगुरो भगवन् नमस्ते ॥ ३२ ॥
सः अन्तः-सरसि उरु-बलेन गृहीतः आर्तः दृष्ट्वा गरुत्मति हरिम् खे उपात्त-चक्रम् उत्क्षिप्य स-अम्बुज-करम् गिरमाह कृच्छ्रात् नारायण अखिल-गुरो भगवन् नमः ते
तं वीक्ष्य पीडितमज: सहसावतीर्य
सग्राहमाशु सरस: कृपयोज्जहार ।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं
संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ ३३ ॥
तम् वीक्ष्य पीडितम् अजः सहसा अवतीर्य स-ग्राहम् आशु सरसः कृपया उज्जहार ग्राहात् विपाटित मुखात् अरिणा गजेन्द्रम् सम्पश्यताम् हरिः अमूम् उचत् उच्छ्रियाणाम्
८.४
श्रीशुक उवाच
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमा: ।
मुमुचु: कुसुमासारं शंसन्त: कर्म तद्धरे: ॥ १ ॥
श्री-शुकः उवाच तदा देव-ऋषि-गन्धर्वाः ब्रह्म-ईशान-पुरोगमाः मुमुचुः कुसुम-आसारम् शंसन्तः कर्म तत् हरेः
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगु: ।
ऋषयश्चारणा: सिद्धास्तुष्टुवु: पुरुषोत्तमम् ॥ २ ॥
नेदुः दुन्दुभयः दिव्याः गन्धर्वाः ननृतुः जगुः ऋषयः चारणाः सिद्धाः तुष्टुवुः पुरुष-उत्तमम्
योऽसौ ग्राह: स वै सद्य: परमाश्चर्यरूपधृक् ।
मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तम: ॥ ३ ॥
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् ।
अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥
यः असौ ग्राहः सः वै सद्यः परम आश्चर्य रूप-धृक् मुक्तः देवल-शापेन हूहूः गन्धर्व-सत्तमः प्रणम्य शिरसा अधीशम् उत्तम-श्लोकम् अव्ययम् अगायत यशः-धाम कीर्तन्य-गुण-सत्-कथम्
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिष: ॥ ५ ॥
सः अनुकम्पितः ईशेन परिक्रम्य प्रणम्य तम् लोकस्य पश्यतः लोकम् स्वम् अगात् मुक्त किल्बिषः
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुज: ॥ ६ ॥
गजेन्द्रः भगवत्-स्पर्शात् विमुक्तः अज्ञान-बन्धनात् प्राप्तः भगवतः रूपम् पीत-वासाः चतुः-भुजः
स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तम: ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण: ॥ ७ ॥
सः वै पूर्वम् अभूत् राजा पाण्ड्यः द्रविड-सत्-तमः इन्द्रद्युम्नः इति ख्यातः विष्णु-व्रत-परायणः
स एकदाराधनकाल आत्मवान्
गृहीतमौनव्रत ईश्वरं हरिम् ।
जटाधरस्तापस आप्लुतोऽच्युतं
समर्चयामास कुलाचलाश्रम: ॥ ८ ॥
सः एकदा आराधन-काले आत्मवान् गृहीत मौन-व्रतः ईश्वरम् हरिम् जटा-धरः तापसः आप्लुतः अच्युतम् समर्चयाम् आस कुलाचल-आश्रमः
यदृच्छया तत्र महायशा मुनि:
समागमच्छिष्यगणै: परिश्रित: ।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं
रहस्युपासीनमृषिश्चुकोप ह ॥ ९ ॥
यदृच्छया तत्र महा-यशाः मुनिः समागमत् शिष्य-गणैः परिश्रितः तम् वीक्ष्य तूष्णीम् अकृत-अर्हण-आदिकम् रहसि उपासीनम् ऋषिः चुकोप ह
तस्मा इमं शापमदादसाधु-
रयं दुरात्माकृतबुद्धिरद्य ।
विप्रावमन्ता विशतां तमिस्रं
यथा गज: स्तब्धमति: स एव ॥ १० ॥
तस्मै इमम् शापम् अदात् असाधुः अयम् दुरात्मा अकृत बुद्धिः अद्य विप्र अवमन्ता विशताम् तमिस्रम् यथा गजः स्तब्ध-मतिः सः एव
श्रीशुक उवाच
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुग: ।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११ ॥
आपन्न: कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।
हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृति: ॥ १२ ॥
श्री-शुकः उवाच एवम् शप्त्वा गतः अगस्त्यः भगवान् नृप स-अनुगः इन्द्रद्युम्नः अपि राजर्षिः दिष्टम् तत् उपधारयन् आपन्नः कौञ्जरीम् योनिम् आत्म-स्मृति विनाशिनीम् हरि अर्चन-अनुभावेन यत् गजत्वे अपि अनुस्मृतिः
एवं विमोक्ष्य गजयूथपमब्जनाभ-
स्तेनापि पार्षदगतिं गमितेन युक्त: ।
गन्धर्वसिद्धविबुधैरुपगीयमान-
कर्माद्भुतं स्वभवनं गरुडासनोऽगात् ॥ १३ ॥
एवम् विमोक्ष्य गज-यूथ-पम् अब्ज-नाभः तेन अपि पार्षद-गतिम् गमितेन युक्तः गन्धर्व सिद्ध विबुधैः उपगीयमान कर्म अद्भुतम् स्व-भवनम् गरुड-आसनः अगात्
एतन्महाराज तवेरितो मया
कृष्णानुभावो गजराजमोक्षणम् ।
स्वर्ग्यं यशस्यं कलिकल्मषापहं
दु:स्वप्ननाशं कुरुवर्य शृण्वताम् ॥ १४ ॥
एतत् महा-राज तव ईरितः मया कृष्ण-अनुभावः गज-राज-मोक्षणम् स्वर्ग्यम् यशस्यम् कलि-कल्मष-अपहम् दुःस्वप्न-नाशम् कुरु-वर्य शृण्वताम्
यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातय: ।
शुचय: प्रातरुत्थाय दु:स्वप्नाद्युपशान्तये ॥ १५ ॥
यथा अनुकीर्तयन्ति एतत् श्रेयः-कामाः द्वि-जातयः शुचयः प्रातः उत्थाय दुःस्वप्न-आदि उपशान्तये
इदमाह हरि: प्रीतो गजेन्द्रं कुरुसत्तम ।
शृण्वतां सर्वभूतानां सर्वभूतमयो विभु: ॥ १६ ॥
इदम् आह हरिः प्रीतः गजेन्द्रम् कुरु-सत्-तम शृण्वताम् सर्व-भूतानाम् सर्व-भूत-मयः विभुः
श्रीभगवानुवाच
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २० ॥
मत्स्यकूर्मवराहाद्यैरवतारै: कृतानि मे ।
कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥
प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।
दाक्षायणीर्धर्मपत्नी: सोमकश्यपयोरपि ॥ २२ ॥
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।
ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥
उत्थायापररात्रान्ते प्रयता: सुसमाहिता: ।
स्मरन्ति मम रूपाणि मुच्यन्ते तेꣷहसोऽखिलात् ॥ २४ ॥
श्री-भगवान् उवाच ये माम् त्वाम् च सरः च इदम् गिरि कन्दर काननम् वेत्र कीचक वेणूनाम् गुल्मानि सुर-पादपान् शृङ्गाणि इमानि धिष्ण्यानि ब्रह्मणः मे शिवस्य च क्षीर-उदम् मे प्रियम् धाम श्वेत-द्वीपम् च भास्वरम् श्रीवत्सम् कौस्तुभम् मालाम् गदाम् कौमोदकीम् मम सुदर्शनम् पाञ्चजन्यम् सुपर्णम् पतग-ईश्वरम् शेषम् च मत्-कलाम् सूक्ष्माम् श्रियम् देवीम् मत्-आश्रयाम् ब्रह्माणम् नारदम् ऋषिम् भवम् प्रह्रादम् एव च मत्स्य कूर्म वराह आद्यैः अवतारैः कृतानि मे कर्माणि अनन्त पुण्यानि सूर्यम् सोमम् हुताशनम् प्रणवम् सत्यम् अव्यक्तम् गो-विप्रान् धर्मम् अव्ययम् दाक्षायणीः धर्म-पत्नीः सोम कश्यपयोः अपि गङ्गाम् सरस्वतीम् नन्दाम् कालिन्दीम् सित-वारणम् ध्रुवम् ब्रह्म-ऋषीन् सप्त पुण्य-श्लोकान् च मानवान् उत्थाय अपर-रात्र-अन्ते प्रयताः सु-समाहिताः स्मरन्ति मम रूपाणि मुच्यन्ते ते अंहसः अखिलात्
ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये ।
तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ २५ ॥
ये माम् स्तुवन्ति अनेन अङ्ग प्रतिबुध्य निश-अत्यये तेषाम् प्राण-अत्यये च अहम् ददामि विपुलाम् गतिम्
श्रीशुक उवाच
इत्यादिश्य हृषीकेश: प्राध्माय जलजोत्तमम् ।
हर्षयन्विबुधानीकमारुरोह खगाधिपम् ॥ २६ ॥
श्री-शुकः उवाच इति आदिश्य हृषीकेशः प्राध्माय जल-ज-उत्तमम् हर्षयन् विबुध-अनीकम् आरुरोह खग-अधिपम्
८.५
श्रीशुक उवाच
राजन्नुदितमेतत् ते हरे: कर्माघनाशनम् ।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥ १ ॥
श्री-शुकः उवाच राजन् उदितम् एतत् ते हरेः कर्म अघ-नाशनम् गजेन्द्र-मोक्षणम् पुण्यम् रैवतम् तु अन्तरम् शृणु
पञ्चमो रैवतो नाम मनुस्तामससोदर: ।
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वका: ॥ २ ॥
पञ्चमः रैवतः नाम मनुः तामस-सोदरः बलि विन्ध्य आदयः तस्य सुताः ह अर्जुन पूर्वकाः
विभुरिन्द्र: सुरगणा राजन्भूतरयादय: ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजा: ॥ ३ ॥
विभुः इन्द्रः सुर-गणाः राजन् भूतरय-आदयः हिरण्यरोमा वेदशिरा ऊर्ध्वबाहु आदयः द्विजाः
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठै: सुरसत्तमै: ।
तयो: स्वकलया जज्ञे वैकुण्ठो भगवान्स्वयम् ॥ ४ ॥
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्-तमैः तयोः स्व-कलया जज्ञे वैकुण्ठः भगवान् स्वयम्
वैकुण्ठ: कल्पितो येन लोको लोकनमस्कृत: ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५ ॥
वैकुण्ठः कल्पितः येन लोकः लोक-नमस्कृतः रमया प्रार्थ्यमानेन देव्या तत् प्रिय-काम्यया
तस्यानुभाव: कथितो गुणाश्च परमोदया: ।
भौमान्रेणून्स विममे यो विष्णोर्वर्णयेद् गुणान् ॥ ६ ॥
तस्य अनुभावः कथितः गुणाः च परम-उदयाः भौमान् रेणून् सः विममे यः विष्णोः वर्णयेत् गुणान्
षष्ठश्च चक्षुष: पुत्रश्चाक्षुषो नाम वै मनु: ।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजा: ॥ ७ ॥
षष्ठः च चक्षुषः पुत्रः चाक्षुषः नाम वै मनुः पूरु पूरुष सुद्युम्न प्रमुखाः चाक्षुष-आत्म-जाः
इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणा: ।
मुनयस्तत्र वै राजन्हविष्मद्वीरकादय: ॥ ८ ॥
इन्द्रः मन्त्रद्रुमः तत्र देवाः आप्य-आदयः गणाः मुनयः तत्र वै राजन् हविष्मत् वीरक-आदयः
तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुत: ।
अजितो नाम भगवानंशेन जगत: पति: ॥ ९ ॥
तत्र अपि देवसम्भूत्याम् वैराजस्य अभवत् सुतः अजितः नाम भगवान् अंशेन जगतः पतिः
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृत: कूर्मरूपेण मन्दर: ॥ १० ॥
पयोधिम् येन निर्मथ्य सुराणाम् साधिता सुधा भ्रममाणः अम्भसि धृतः कूर्म-रूपेण मन्दरः
श्रीराजोवाच
यथा भगवता ब्रह्मन्मथित: क्षीरसागर: ।
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११ ॥
यथामृतं सुरै: प्राप्तं किं चान्यदभवत् तत: ।
एतद् भगवत: कर्म वदस्व परमाद्भुतम् ॥ १२ ॥
श्री-राजा उवाच यथा भगवता ब्रह्मन् मथितः क्षीर-सागरः यत्-अर्थम् वा यतः च अद्रिम् दधार अम्बुचर-आत्मना यथा अमृतम् सुरैः प्राप्तम् किम् च अन्यत् अभवत् ततः एतत् भगवतः कर्म वदस्व परम-अद्भुतम्
त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पते: ।
नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३ ॥
त्वया सङ्कथ्यमानेन महिम्ना सात्वताम् पतेः न अति-तृप्यति मे चित्तम् सुचिरम् ताप तापितम्
श्रीसूत उवाच
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजा: ।
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ १४ ॥
श्री-सूतः उवाच सम्पृष्टः भगवान् एवम् द्वैपायन-सुतः द्वि-जाः अभिनन्द्य हरेः वीर्यम् अभ्याचष्टुम् प्रचक्रमे
श्रीशुक उवाच
यदा युद्धेऽसुरैर्देवा बध्यमाना: शितायुधै: ।
गतासवो निपतिता नोत्तिष्ठेरन्स्म भूरिश: ॥ १५ ॥
यदा दुर्वास: शापेन सेन्द्रा लोकास्त्रयो नृप ।
नि:श्रीकाश्चाभवंस्तत्र नेशुरिज्यादय: क्रिया: ॥ १६ ॥
श्री-शुकः उवाच यदा युद्धे असुरैः देवाः बध्यमानाः शित-आयुधैः गत-आसवः निपतिताः न उत्तिष्ठेरन् स्म भूरिशः यदा दुर्वासः शापेन स-इन्द्राः लोकाः त्रयः नृप निःश्रीकाः च अभवन् तत्र नेशुः इज्य-आदयः क्रियाः
निशाम्यैतत् सुरगणा महेन्द्रवरुणादय: ।
नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् ॥ १७ ॥
ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वश: ।
सर्वं विज्ञापयां चक्रु: प्रणता: परमेष्ठिने ॥ १८ ॥
निशाम्य एतत् सुर-गणाः महा-इन्द्र वरुण-आदयः न अध्यगच्छन् स्वयम् मन्त्रैः मन्त्रयन्तः विनिश्चितम् ततः ब्रह्म-सभाम् जग्मुः मेरोः मूर्धनि सर्वशः सर्वम् विज्ञापयाम् चक्रुः प्रणताः परमेष्ठिने
स विलोक्येन्द्रवाय्वादीन् नि:सत्त्वान्विगतप्रभान् ।
लोकानमङ्गलप्रायानसुरानयथा विभु: ॥ १९ ॥
समाहितेन मनसा संस्मरन्पुरुषं परम् ।
उवाचोत्फुल्लवदनो देवान्स भगवान्पर: ॥ २० ॥
सः विलोक्य इन्द्र-वायु-आदीन् निःसत्त्वान् विगत-प्रभान् लोकान् अमङ्गल-प्रायान् असुरान् अयथाः विभुः समाहितेन मनसा संस्मरन् पुरुषम् परम् उवाच उत्फुल्ल-वदनः देवान् सः भगवान् परः
अहं भवो यूयमथोऽसुरादयो
मनुष्यतिर्यग्द्रुमघर्मजातय: ।
यस्यावतारांशकलाविसर्जिता
व्रजाम सर्वे शरणं तमव्ययम् ॥ २१ ॥
अहम् भवः यूयम् अथो असुर-आदयः मनुष्य तिर्यक् द्रुम घर्म-जातयः यस्य अवतार अंश कला विसर्जिताः व्रजाम सर्वे शरणम् तम् अव्ययम्
न यस्य वध्यो न च रक्षणीयो
नोपेक्षणीयादरणीयपक्ष: ।
तथापि सर्गस्थितिसंयमार्थं
धत्ते रज:सत्त्वतमांसि काले ॥ २२ ॥
न यस्य वध्यः न च रक्षणीयः न उपेक्षणीय आदरणीय पक्षः तथापि सर्ग स्थिति संयम अर्थम् धत्ते रजः सत्त्व तमांसि काले
अयं च तस्य स्थितिपालनक्षण:
सत्त्वं जुषाणस्य भवाय देहिनाम् ।
तस्माद् व्रजाम: शरणं जगद्गुरुं
स्वानां स नो धास्यति शं सुरप्रिय: ॥ २३ ॥
अयम् च तस्य स्थिति-पालन-क्षणः सत्त्वम् जुषाणस्य भवाय देहिनाम् तस्मात् व्रजामः शरणम् जगत्-गुरुम् स्वानाम् सः नः धास्यति शम् सुर-प्रियः
श्रीशुक उवाच
इत्याभाष्य सुरान्वेधा: सह देवैररिन्दम ।
अजितस्य पदं साक्षाज्जगाम तमस: परम् ॥ २४ ॥
श्री-शुकः उवाच इति आभाष्य सुरान् वेधाः सह देवैः अरिम्-दम अजितस्य पदम् साक्षात् जगाम तमसः परम्
तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभु: ।
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रिय: ॥ २५ ॥
तत्र अदृष्ट-स्वरूपाय श्रुत-पूर्वाय वै प्रभुः स्तुतिम् अब्रूत दैवीभिः गीर्भिः तु अवहित-इन्द्रियः
श्रीब्रह्मोवाच
अविक्रियं सत्यमनन्तमाद्यं
गुहाशयं निष्कलमप्रतर्क्यम् ।
मनोऽग्रयानं वचसानिरुक्तं
नमामहे देववरं वरेण्यम् ॥ २६ ॥
श्री-ब्रह्मा उवाच अविक्रियम् सत्यम् अनन्तम् आद्यम् गुहा-शयम् निष्कलम् अप्रतर्क्यम् मनः-अग्रयानम् वचसा अनिरुक्तम् नमामहे देव-वरम् वरेण्यम्
विपश्चितं प्राणमनोधियात्मना-
मर्थेन्द्रियाभासमनिद्रमव्रणम् ।
छायातपौ यत्र न गृध्रपक्षौ
तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥
विपश्चितम् प्राण मनः धिय आत्मनाम् अर्थ इन्द्रिय आभासम् अनिद्रम् अव्रणम् छाया-आतपौ यत्र न गृध्र-पक्षौ तम् अक्षरम् खम् त्रि-युगम् व्रजामहे
अजस्य चक्रं त्वजयेर्यमाणं
मनोमयं पञ्चदशारमाशु ।
त्रिनाभि विद्युच्चलमष्टनेमि
यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥
अजस्य चक्रम् तु अजया ईर्यमाणम् मनः-मयम् पञ्चदश अरम् आशु त्रि-नाभि विद्युत् चलम् अष्ट-नेमि यत् अक्षम् आहुः तम् ऋतम् प्रपद्ये
य एकवर्णं तमस: परं त-
दलोकमव्यक्तमनन्तपारम् ।
आसांचकारोपसुपर्णमेन-
मुपासते योगरथेन धीरा: ॥ २९ ॥
यः एक-वर्णम् तमसः परम् तत् अलोकम् अव्यक्तम् अनन्त-पारम् आसाम् चकार उप-सुपर्णम् एनम् उपासते योग-रथेन धीराः
न यस्य कश्चातितितर्ति मायां
यया जनो मुह्यति वेद नार्थम् ।
तं निर्जितात्मात्मगुणं परेशं
नमाम भूतेषु समं चरन्तम् ॥ ३० ॥
न यस्य कश्च अतितितर्ति मायाम् यया जनः मुह्यति वेद न अर्थम् तम् निर्जित आत्मा आत्म-गुणम् पर-ईशम् नमाम भूतेषु समम् चरन्तम्
इमे वयं यत्प्रिययैव तन्वा
सत्त्वेन सृष्टा बहिरन्तरावि: ।
गतिं न सूक्ष्मामृषयश्च विद्महे
कुतोऽसुराद्या इतरप्रधाना: ॥ ३१ ॥
इमे वयम् यत् प्रियया एव तन्वा सत्त्वेन सृष्टाः बहिः-अन्तः-आविः गतिम् न सूक्ष्माम् ऋषयः च विद्महे कुतः असुर-आद्याः इतर प्रधानाः
पादौ महीयं स्वकृतैव यस्य
चतुर्विधो यत्र हि भूतसर्ग: ।
स वै महापूरुष आत्मतन्त्र:
प्रसीदतां ब्रह्म महाविभूति: ॥ ३२ ॥
पादौ मही इयम् स्व-कृत एव यस्य चतुः-विधः यत्र हि भूत-सर्गः सः वै महा-पूरुषः आत्म-तन्त्रः प्रसीदताम् ब्रह्म महा-विभूतिः
अम्भस्तु यद्रेत उदारवीर्यं
सिध्यन्ति जीवन्त्युत वर्धमाना: ।
लोकायतोऽथाखिललोकपाला:
प्रसीदतां न: स महाविभूति: ॥ ३३ ॥
अम्भः तु यत्-रेतः उदार-वीर्यम् सिध्यन्ति जीवन्ति उत वर्धमानाः लोकाः यतः अथ अखिल-लोक-पालाः प्रसीदताम् नः सः महा-विभूतिः
सोमं मनो यस्य समामनन्ति
दिवौकसां यो बलमन्ध आयु: ।
ईशो नगानां प्रजन: प्रजानां
प्रसीदतां न: स महाविभूति: ॥ ३४ ॥
सोमम् मनः यस्य समामनन्ति दिवौकसाम् यः बलम् अन्धः आयुः ईशः नगानाम् प्रजनः प्रजानाम् प्रसीदताम् नः सः महा-विभूतिः
अग्निर्मुखं यस्य तु जातवेदा
जात: क्रियाकाण्डनिमित्तजन्मा ।
अन्त:समुद्रेऽनुपचन्स्वधातून्
प्रसीदतां न: स महाविभूति: ॥ ३५ ॥
अग्निः मुखम् यस्य तु जात-वेदाः जातः क्रिया-काण्ड निमित्त जन्मा अन्तः-समुद्रे अनुपचन् स्व-धातून् प्रसीदताम् नः सः महा-विभूतिः
यच्चक्षुरासीत् तरणिर्देवयानं
त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
द्वारं च मुक्तेरमृतं च मृत्यु:
प्रसीदतां न: स महाविभूति: ॥ ३६ ॥
यत् चक्षुः आसीत् तरणिः देव-यानम् त्रयी-मयः ब्रह्मणः एषः धिष्ण्यम् द्वारम् च मुक्तेः अमृतम् च मृत्युः प्रसीदताम् नः सः महा-विभूतिः
प्राणादभूद् यस्य चराचराणां
प्राण: सहो बलमोजश्च वायु: ।
अन्वास्म सम्राजमिवानुगा वयं
प्रसीदतां न: स महाविभूति: ॥ ३७ ॥
प्राणात् अभूत् यस्य चर-अचराणाम् प्राणः सहः बलम् ओजः च वायुः अन्वास्म सम्राजम् इव अनुगाः वयम् प्रसीदताम् नः सः महा-विभूतिः
श्रोत्राद् दिशो यस्य हृदश्च खानि
प्रजज्ञिरे खं पुरुषस्य नाभ्या: ।
प्राणेन्द्रियात्मासुशरीरकेत:
प्रसीदतां न: स महाविभूति: ॥ ३८ ॥
श्रोत्रात् दिशः यस्य हृदः च खानि प्रजज्ञिरे खम् पुरुषस्य नाभ्याः प्राण इन्द्रिय आत्मा असु शरीर केतः प्रसीदताम् नः सः महा-विभूतिः
बलान्महेन्द्रस्त्रिदशा: प्रसादा-
न्मन्योर्गिरीशो धिषणाद् विरिञ्च: ।
खेम्यस्तुछन्दांस्यृषयो मेढ्रत: क:
प्रसीदतां न: स महाविभूति: ॥ ३९ ॥
बलात् महा-इन्द्रः त्रि-दशाः प्रसादात् मन्योः गिरि-ईशः धिषणात् विरिञ्चः खेभ्यः तु छन्दांसि ऋषयः मेढ्रतः कः प्रसीदताम् नः सः महा-विभूतिः
श्रीर्वक्षस: पितरश्छाययासन्
धर्म: स्तनादितर: पृष्ठतोऽभूत् ।
द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात्
प्रसीदतां न: स महाविभूति: ॥ ४० ॥
श्रीः वक्षसः पितरः छायया आसन् धर्मः स्तनात् इतरः पृष्ठतः अभूत् द्यौः यस्य शीर्ष्णः अप्सरसः विहारात् प्रसीदताम् नः सः महा-विभूतिः
विप्रो मुखाद् ब्रह्म च यस्य गुह्यं
राजन्य आसीद् भुजयोर्बलं च ।
ऊर्वोर्विडोजोऽङ्घ्रिरवेदशूद्रौ
प्रसीदतां न: स महाविभूति: ॥ ४१ ॥
विप्रः मुखात् ब्रह्म च यस्य गुह्यम् राजन्यः आसीत् भुजयोः बलम् च ऊर्वोः विट् ओजः अङ्घ्रिः अवेद शूद्रौ प्रसीदताम् नः सः महा-विभूतिः
लोभोऽधरात् प्रीतिरुपर्यभूद् द्युति-
र्नस्त: पशव्य: स्पर्शेन काम: ।
भ्रुवोर्यम: पक्ष्मभवस्तु काल:
प्रसीदतां न: स महाविभूति: ॥ ४२ ॥
लोभः अधरात् प्रीतिः उपरि अभूत् द्युतिः नस्तः पशव्यः स्पर्शेन कामः भ्रुवोः यमः पक्ष्म-भवः तु कालः प्रसीदताम् नः सः महा-विभूतिः
द्रव्यं वय: कर्म गुणान्विशेषं
यद्योगमायाविहितान्वदन्ति ।
यद् दुर्विभाव्यं प्रबुधापबाधं
प्रसीदतां न: स महाविभूति: ॥ ४३ ॥
द्रव्यम् वयः कर्म गुणान् विशेषम् यत् योग-माया विहितान् वदन्ति यत् दुर्विभाव्यम् प्रबुध-अपबाधम् प्रसीदताम् नः सः महा-विभूतिः
नमोऽस्तु तस्मा उपशान्तशक्तये
स्वाराज्यलाभप्रतिपूरितात्मने ।
गुणेषु मायारचितेषु वृत्तिभि-
र्न सज्जमानाय नभस्वदूतये ॥ ४४ ॥
नमः अस्तु तस्मै उपशान्त-शक्तये स्वाराज्य लाभ प्रतिपूरित आत्मने गुणेषु माया-रचितेषु वृत्तिभिः न सज्जमानाय नभस्वत् ऊतये
स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् ।
प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५ ॥
सः त्वम् नः दर्शय आत्मानम् अस्मत्-करण-गोचरम् प्रपन्नानाम् दिदृक्षूणाम् सस्मितम् ते मुख-अम्बुजम्
तैस्तै: स्वेच्छाभूतै रूपै: काले काले स्वयं विभो ।
कर्म दुर्विषहं यन्नो भगवांस्तत् करोति हि ॥ ४६ ॥
तैः तैः स्व-इच्छा-भूतैः रूपैः काले काले स्वयम् विभो कर्म दुर्विषहम् यत् नः भगवान् तत् करोति हि
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७ ॥
क्लेश भूरि अल्प साराणि कर्माणि विफलानि वा देहिनाम् विषय-अर्तानाम् न तथा एव अर्पितम् त्वयि
नावम: कर्मकल्पोऽपि विफलायेश्वरार्पित: ।
कल्पते पुरुषस्यैव स ह्यात्मा दयितो हित: ॥ ४८ ॥
न अवमः कर्म कल्पः अपि विफलाय ईश्वर-अर्पितः कल्पते पुरुषस्य एव सः हि आत्मा दयितः हितः
यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
एवमाराधनं विष्णो: सर्वेषामात्मनश्च हि ॥ ४९ ॥
यथा हि स्कन्ध शाखानाम् तरोः मूल अवसेचनम् एवम् आराधनम् विष्णोः सर्वेषाम् आत्मनः च हि
नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे ।
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५० ॥
नमः तुभ्यम् अनन्ताय दुर्वितर्क्य-आत्म-कर्मणे निर्गुणाय गुण-ईशाय सत्त्व-स्थाय च साम्प्रतम्
८.६
श्रीशुक उवाच
एवं स्तुत: सुरगणैर्भगवान् हरिरीश्वर: ।
तेषामाविरभूद् राजन्सहस्रार्कोदयद्युति: ॥ १ ॥
श्री-शुकः उवाच एवम् स्तुतः सुर-गणैः भगवान् हरिः ईश्वरः तेषाम् आविरभूत् राजन् सहस्र अर्क उदय द्युतिः
तेन एव सहसा सर्वे देवाः प्रतिहत-ईक्षणाः न अपश्यन् खम् दिशः क्षौणीम् आत्मानम् च कुतः विभुम्
विरिञ्चो भगवान्दृष्ट्वा सह शर्वेण तां तनुम् ।
स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥
तप्तहेमावदातेन लसत्कौशेयवाससा ।
प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥
महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।
कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम् ॥ ५ ॥
काञ्चीकलापवलयहारनूपुरशोभिताम् ।
कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥
सुदर्शनादिभि: स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् ।
तुष्टाव देवप्रवर: सशर्व: पुरुषं परम् ।
सर्वामरगणै: साकं सर्वाङ्गैरवनिं गतै: ॥ ७ ॥
विरिञ्चः भगवान् दृष्ट्वा सह शर्वेण ताम् तनुम् स्वच्छाम् मरकत-श्यामाम् कञ्ज-गर्भ-अरुण-ईक्षणाम् तप्त-हेम-अवदातेन लसत् कौशेय-वाससा प्रसन्न-चारु-सर्व-अङ्गीम् सु-मुखीम् सुन्दर-भ्रुवम् महा-मणि-किरीटेन केयूराभ्याम् च भूषिताम् कर्ण-आभरण-निर्भात कपोल श्री-मुख-अम्बुजाम् काञ्ची-कलाप-वलय हार-नूपुर शोभिताम् कौस्तुभ-आभरणाम् लक्ष्मीम् बिभ्रतीम् वन-मालिनीम् सुदर्शन-आदिभिः स्व-अस्त्रैः मूर्तिमद्भिः उपासिताम् तुष्टाव देव-प्रवरः स-शर्वः पुरुषम् परम् सर्व-अमर-गणैः साकम् सर्व-अङ्गैः अवनिम् गतैः
श्रीब्रह्मोवाच
अजातजन्मस्थितिसंयमाया-
गुणाय निर्वाणसुखार्णवाय ।
अणोरणिम्नेऽपरिगण्यधाम्ने
श्री-ब्रह्मा उवाच अजात-जन्म-स्थिति-संयमाय अगुणाय निर्वाण-सुख-अर्णवाय अणोः अणिम्ने अपरिगण्य-धाम्ने महा-अनुभावाय नमः नमः ते
रूपं तवैतत् पुरुषर्षभेज्यं
श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ।
योगेन धात: सह नस्त्रिलोकान्
पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥ ९ ॥
रूपम् तव एतत् पुरुष-ऋषभ इज्यम् श्रेयः अर्थिभिः वैदिक तान्त्रिकेण योगेन धातः सह नः त्रि-लोकान् पश्यामि अमुष्मिन् उ ह विश्व-मूर्तौ
त्वय्यग्र आसीत् त्वयि मध्य आसीत्
त्वय्यन्त आसीदिदमात्मतन्त्रे ।
त्वमादिरन्तो जगतोऽस्य मध्यं
घटस्य मृत्स्नेव पर: परस्मात् ॥ १० ॥
त्वयि अग्रे आसीत् त्वयि मध्ये आसीत् त्वयि अन्ते आसीत् इदम् आत्म-तन्त्रे त्वम् आदिः अन्तः जगतः अस्य मध्यम् घटस्य मृत्स्ना इव परः परस्मात्
त्वं माययात्माश्रयया स्वयेदं
निर्माय विश्वं तदनुप्रविष्ट: ।
पश्यन्ति युक्ता मनसा मनीषिणो
गुणव्यवायेऽप्यगुणं विपश्चित: ॥ ११ ॥
त्वम् मायया आत्म-आश्रयया स्वया इदम् निर्माय विश्वम् तत् अनुप्रविष्टः पश्यन्ति युक्ताः मनसा मनीषिणः गुण व्यवाये अपि अगुणम् विपश्चितः
यथाग्निमेधस्यमृतं च गोषु
भुव्यन्नमम्बूद्यमने च वृत्तिम् ।
योगैर्मनुष्या अधियन्ति हि त्वां
गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥
यथा अग्निम् एधसि अमृतम् च गोषु भुवि अन्नम् अम्बु उद्यमने च वृत्तिम् योगैः मनुष्याः अधियन्ति हि त्वाम् गुणेषु बुद्ध्या कवयः वदन्ति
तं त्वां वयं नाथ समुज्जिहानं
सरोजनाभातिचिरेप्सितार्थम् ।
दृष्ट्वा गता निर्वृतमद्य सर्वे
गजा दवार्ता इव गाङ्गमम्भ: ॥ १३ ॥
तम् त्वाम् वयम् नाथ समुज्जिहानम् सरोज-नाभ अति-चिर ईप्सित अर्थम् दृष्ट्वा गताः निर्वृतम् अद्य सर्वे गजाः दव-अर्ताः इव गाङ्गम् अम्भः
स त्वं विधत्स्वाखिललोकपाला
वयं यदर्थास्तव पादमूलम् ।
समागतास्ते बहिरन्तरात्मन्
किं वान्यविज्ञाप्यमशेषसाक्षिण: ॥ १४ ॥
सः त्वम् विधत्स्व अखिल-लोक-पालाः वयम् यत् अर्थाः तव पाद-मूलम् समागताः ते बहिः-अन्तः-आत्मन् किम् वा अन्य-विज्ञाप्यम् अशेष-साक्षिणः
अहं गिरित्रश्च सुरादयो ये
दक्षादयोऽग्नेरिव केतवस्ते ।
किं वा विदामेश पृथग्विभाता
विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ १५ ॥
अहम् गिरित्रः च सुर-आदयः ये दक्ष-आदयः अग्नेः इव केतवः ते किम् वा विदाम ईश पृथक्-विभाताः विधत्स्व शम् नः द्विज-देव-मन्त्रम्
श्रीशुक उवाच
एवं विरिञ्चादिभिरीडितस्तद्
विज्ञाय तेषां हृदयं यथैव ।
जगाद जीमूतगभीरया गिरा
बद्धाञ्जलीन्संवृतसर्वकारकान् ॥ १६ ॥
श्री-शुकः उवाच एवम् विरिञ्च-आदिभिः ईडितः तत् विज्ञाय तेषाम् हृदयम् यथा एव जगाद जीमूत-गभीरया गिरा बद्ध-अञ्जलीन् संवृत सर्व कारकान्
एक एवेश्वरस्तस्मिन्सुरकार्ये सुरेश्वर: ।
विहर्तुकामस्तानाह समुद्रोन्मथनादिभि: ॥ १७ ॥
एकः एव ईश्वरः तस्मिन् सुर-कार्ये सुर-ईश्वरः विहर्तु कामः तान् आह समुद्र-उन्मथन-आदिभिः
श्रीभगवानुवाच
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।
शृणुतावहिता: सर्वे श्रेयो व: स्याद् यथा सुरा: ॥ १८ ॥
श्री-भगवान् उवाच हन्त ब्रह्मन् अहो शम्भो हे देवाः मम भाषितम् शृणुत अवहिताः सर्वे श्रेयः वः स्यात् यथा सुराः
यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् ।
कालेनानुगृहीतैस्तैर्यावद् वो भव आत्मन: ॥ १९ ॥
यात दानव दैतेयैः तावत् सन्धिः विधीयताम् कालेन अनुगृहीतैः तैः यावत् वः भवः आत्मनः
अरयोऽपि हि सन्धेया: सति कार्यार्थगौरवे ।
अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतै: ॥ २० ॥
अरयः अपि हि सन्धेयाः सति कार्य-अर्थ-गौरवे अहि मूषिक वत् देवाः हि अर्थस्य पदवीम् गतैः
अमृतोत्पादने यत्न: क्रियतामविलम्बितम् ।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥
अमृत-उत्पादने यत्नः क्रियताम् अविलम्बितम् यस्य पीतस्य वै जन्तुः मृत्यु-ग्रस्तः अमरः भवेत्
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधी: ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥
सहायेन मया देवा निर्मन्थध्वमतन्द्रिता: ।
क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहा: ॥ २३ ॥
क्षिप्त्वा क्षीर-उदधौ सर्वाः वीरुत् तृण लता औषधीः मन्थानम् मन्दरम् कृत्वा नेत्रम् कृत्वा तु वासुकिम् सहायेन मया देवाः निर्मन्थध्वम् अतन्द्रिताः क्लेश-भाजः भविष्यन्ति दैत्याः यूयम् फल-ग्रहाः
यूयं तदनुमोदध्वं यदिच्छन्त्यसुरा: सुरा: ।
न संरम्भेण सिध्यन्ति सर्वार्था: सान्त्वया यथा ॥ २४ ॥
यूयम् तत् अनुमोदध्वम् यत् इच्छन्ति असुराः सुराः न संरम्भेण सिध्यन्ति सर्व-अर्थाः सान्त्वया यथा
न भेतव्यं कालकूटाद् विषाज्जलधिसम्भवात् ।
लोभ: कार्यो न वो जातु रोष: कामस्तु वस्तुषु ॥ २५ ॥
न भेतव्यम् कालकूटात् विषात् जलधि सम्भवात् लोभः कार्यः न वः जातु रोषः कामः तु वस्तुषु
श्रीशुक उवाच
इति देवान्समादिश्य भगवान् पुरुषोत्तम: ।
तेषामन्तर्दधे राजन्स्वच्छन्दगतिरीश्वर: ॥ २६ ॥
श्री-शुकः उवाच इति देवान् समादिश्य भगवान् पुरुष-उत्तमः तेषाम् अन्तर्दधे राजन् स्वच्छन्द गतिः ईश्वरः
अथ तस्मै भगवते नमस्कृत्य पितामह: ।
भवश्च जग्मतु: स्वं स्वं धामोपेयुर्बलिं सुरा: ॥ २७ ॥
अथ तस्मै भगवते नमस्कृत्य पिता-महः भवः च जग्मतुः स्वम् स्वम् धाम उपेयुः बलिम् सुराः
दृष्ट्वारीनप्यसंयत्ताञ्जातक्षोभान्स्वनायकान् ।
न्यषेधद् दैत्यराट् श्लोक्य: सन्धिविग्रहकालवित् ॥ २८ ॥
दृष्ट्वा अरीन् अपि असंयत्तान् जात-क्षोभान् स्व-नायकान् न्यषेधत् दैत्य-राट् श्लोक्यः सन्धि विग्रह काल वित्
ते वैरोचनिमासीनं गुप्तं चासुरयूथपै: ।
श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥
ते वैरोचनिम् आसीनम् गुप्तम् च असुर-यूथ-पैः श्रिया परमया जुष्टम् जित-अशेषम् उपागमन्
महेन्द्र: श्लक्ष्णया वाचा सान्त्वयित्वा महामति: ।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥
महा-इन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महा-मतिः अभ्यभाषत तत् सर्वम् शिक्षितम् पुरुष-उत्तमात्
तत्त्वरोचत दैत्यस्य तत्रान्ये येऽसुराधिपा: ।
शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिन: ॥ ३१ ॥
तत् तु अरोचत दैत्यस्य तत्र अन्ये ये असुर-अधिपाः शम्बरः अरिष्टनेमिः च ये च त्रिपुर-वासिनः
ततो देवासुरा: कृत्वा संविदं कृतसौहृदा: ।
उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ ३२ ॥
ततः देव-असुराः कृत्वा संविदम् कृत-सौहृदाः उद्यमम् परमम् चक्रुः अमृत-अर्थे परन्तप
ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदा: ।
नदन्त उदधिं निन्यु: शक्ता: परिघबाहव: ॥ ३३ ॥
ततः ते मन्दर-गिरिम् ओजसा उत्पाट्य दुर्मदाः नदन्त उदधिम् निन्युः शक्ताः परिघ-बाहवः
दूरभारोद्वहश्रान्ता: शक्रवैरोचनादय: ।
अपारयन्तस्तं वोढुं विवशा विजहु: पथि ॥ ३४ ॥
दूर भार-उद्वह श्रान्ताः शक्र वैरोचन-आदयः अपारयन्तः तम् वोढुम् विवशाः विजहुः पथि
निपतन्स गिरिस्तत्र बहूनमरदानवान् ।
चूर्णयामास महता भारेण कनकाचल: ॥ ३५ ॥
निपतन् सः गिरिः तत्र बहून् अमर-दानवान् चूर्णयाम् आस महता भारेण कनक-अचलः
तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।
विज्ञाय भगवांस्तत्र बभूव गरुडध्वज: ॥ ३६ ॥
तान् तथा भग्न-मनसः भग्न-बाहु ऊरु कन्धरान् विज्ञाय भगवान् तत्र बभूव गरुड-ध्वजः
गिरिपातविनिष्पिष्टान्विलोक्यामरदानवान् ।
ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ ३७ ॥
गिरि-पात विनिष्पिष्टान् विलोक्य अमर दानवान् ईक्षया जीवयाम् आस निर्जरान् निर्व्रणान् यथा
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
आरुह्य प्रययावब्धिं सुरासुरगणैर्वृत: ॥ ३८ ॥
गिरिम् च आरोप्य गरुडे हस्तेन एकेन लीलया आरुह्य प्रययौ अब्धिम् सुर-असुर-गणैः वृतः
अवरोप्य गिरिं स्कन्धात् सुपर्ण: पततां वर: ।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जित: ॥ ३९ ॥
अवरोप्य गिरिम् स्कन्धात् सुपर्णः पतताम् वरः ययौ जल-अन्ते उत्सृज्य हरिणा सः विसर्जितः
८.७
श्रीशुक उवाच
ते नागराजमामन्त्र्य फलभागेन वासुकिम् ।
परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विता: ।
आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह ॥ १ ॥
श्री-शुकः उवाच ते नाग-राजम् आमन्त्र्य फल-भागेन वासुकिम् परिवीय गिरौ तस्मिन् नेत्रम् अब्धिम् मुदा अन्विताः आरेभिरे सुराः यत्ताः अमृत-अर्थे कुरु-उद्वह
हरि: पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥ २ ॥
हरिः पुरस्तात् जगृहे पूर्वम् देवाः ततः अभवन्
तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।
न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ।
स्वाध्यायश्रुतसम्पन्ना: प्रख्याता जन्मकर्मभि: ॥ ३ ॥
तत् न ऐच्छन् दैत्य-पतयः महा-पुरुष चेष्टितम् न गृह्णीमः वयम् पुच्छम् अहेः अङ्गम् अमङ्गलम् स्वाध्याय श्रुत सम्पन्नाः प्रख्याताः जन्म-कर्मभिः
इति तूष्णीं स्थितान्दैत्यान् विलोक्य पुरुषोत्तम: ।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामर: ॥ ४ ॥
इति तूष्णीम् स्थितान् दैत्यान् विलोक्य पुरुष-उत्तमः स्मयमानः विसृज्य अग्रम् पुच्छम् जग्राह स-अमरः
कृतस्थानविभागास्त एवं कश्यपनन्दना: ।
ममन्थु: परमं यत्ता अमृतार्थं पयोनिधिम् ॥ ५ ॥
कृत स्थान-विभागाः ते एवम् कश्यप-नन्दनाः ममन्थुः परमम् यत्ताः अमृत-अर्थम् पयः-निधिम्
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।
ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन ॥ ६ ॥
मथ्यमाने अर्णवे सः अद्रिः अनाधारः हि अपः अविशत् ध्रियमाणः अपि बलिभिः गौरवात् पाण्डु-नन्दन
ते सुनिर्विण्णमनस: परिम्लानमुखश्रिय: ।
आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ ७ ॥
ते सुनिर्विण्ण-मनसः परिम्लान मुख-श्रियः आसन् स्व-पौरुषे नष्टे दैवेन अति-बलीयसा
विलोक्य विघ्नेशविधिं तदेश्वरो
दुरन्तवीर्योऽवितथाभिसन्धि: ।
कृत्वा वपु: कच्छपमद्भुतं महत्
प्रविश्य तोयं गिरिमुज्जहार ॥ ८ ॥
विलोक्य विघ्न ईश-विधिम् तदा ईश्वरः दुरन्त-वीर्यः अवितथ अभिसन्धिः कृत्वा वपुः कच्छपम् अद्भुतम् महत् प्रविश्य तोयम् गिरिम् उज्जहार
तमुत्थितं वीक्ष्य कुलाचलं पुन:
समुद्यता निर्मथितुं सुरासुरा: ।
दधार पृष्ठेन स लक्षयोजन-
प्रस्तारिणा द्वीप इवापरो महान् ॥ ९ ॥
तम् उत्थितम् वीक्ष्य कुलाचलम् पुनः समुद्यताः निर्मथितुम् सुर-असुराः दधार पृष्ठेन सः लक्ष-योजन प्रस्तारिणा द्वीपः इव अपरः महान्
सुरासुरेन्द्रैर्भुजवीर्यवेपितं
परिभ्रमन्तं गिरिमङ्ग पृष्ठत: ।
बिभ्रत् तदावर्तनमादिकच्छपो
मेनेऽङ्गकण्डूयनमप्रमेय: ॥ १० ॥
सुर-असुर-इन्द्रैः भुज-वीर्य वेपितम् परिभ्रमन्तम् गिरिम् अङ्ग पृष्ठतः बिभ्रत् तत् आवर्तनम् आदि-कच्छपः मेने अङ्ग-कण्डूयनम् अप्रमेयः
तथासुरानाविशदासुरेण
रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन् देवगणांश्च विष्णु-
र्दैवेन नागेन्द्रमबोधरूप: ॥ ११ ॥
तथा असुरान् आविशत् आसुरेण रूपेण तेषाम् बल-वीर्यम् ईरयन् उद्दीपयन् देव-गणान् च विष्णुः दैवेन नाग-इन्द्रम् अबोध-रूपः
उपर्यगेन्द्रं गिरिराडिवान्य
आक्रम्य हस्तेन सहस्रबाहु: ।
तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यै-
रभिष्टुवद्भि: सुमनोऽभिवृष्ट: ॥ १२ ॥
उपरि अगेन्द्रम् गिरि-राट् इव अन्यः आक्रम्य हस्तेन सहस्र-बाहुः तस्थौ दिवि ब्रह्म भव इन्द्र मुख्यैः अभिष्टुवद्भिः सुमनः अभिवृष्टः
उपर्यधश्चात्मनि गोत्रनेत्रयो:
परेण ते प्राविशता समेधिता: ।
ममन्थुरब्धिं तरसा मदोत्कटा
महाद्रिणा क्षोभितनक्रचक्रम् ॥ १३ ॥
उपरि अधः च आत्मनि गोत्र-नेत्रयोः परेण ते प्राविशता समेधिताः ममन्थुः अब्धिम् तरसा मद-उत्कटाः महा-अद्रिणा क्षोभित नक्र-चक्रम्
अहीन्द्रसाहस्रकठोरदृङ्मुख-
श्वासाग्निधूमाहतवर्चसोऽसुरा: ।
पौलोमकालेयबलील्वलादयो
दवाग्निदग्धा: सरला इवाभवन् ॥ १४ ॥
अहीन्द्र साहस्र कठोर दृक् मुख श्वास अग्नि धूम आहत वर्चसः असुराः पौलोम कालेय बलि इल्वल आदयः दव-अग्नि दग्धाः सरलाः इव अभवन्
देवांश्च तच्छ्वासशिखाहतप्रभान्
धूम्राम्बरस्रग्वरकञ्चुकाननान् ।
समभ्यवर्षन्भगवद्वशा घना
ववु: समुद्रोर्म्युपगूढवायव: ॥ १५ ॥
देवान् च तत् श्वास शिखा हत प्रभान् धूम्र अम्बर स्रक्-वर कञ्चुक आननान् समभ्यवर्षन् भगवत्-वशाः घनाः ववुः समुद्र ऊर्मि उपगूढ वायवः
मथ्यमानात् तथा सिन्धोर्देवासुरवरूथपै: ।
यदा सुधा न जायेत निर्ममन्थाजित: स्वयम् ॥ १६ ॥
मथ्यमानात् तथा सिन्धोः देव असुर वरूथ-पैः यदा सुधा न जायेत निर्ममन्थ अजितः स्वयम्
मेघश्याम: कनकपरिधि: कर्णविद्योतविद्यु-
न्मूर्ध्नि भ्राजद्विलुलितकच: स्रग्धरो रक्तनेत्र: ।
जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा
मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रि: ॥ १७ ॥
मेघ-श्यामः कनक-परिधिः कर्ण विद्योत-विद्युत् मूर्ध्नि भ्राजत् विलुलित कचः स्रक्-धरः रक्त-नेत्रः जैत्रैः दोर्भिः जगत् अभय-दैः दन्दशूकम् गृहीत्वा मथ्नन् मथ्ना प्रतिगिरिः इव अशोभत अथो धृत-अद्रिः
निर्मथ्यमानादुदधेरभूद्विषं
महोल्बणं हालहलाह्वमग्रत: ।
सम्भ्रान्तमीनोन्मकराहिकच्छपात्
तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ १८ ॥
निर्मथ्यमानात् उदधेः अभूत् विषम् महा-उल्बणम् हालहल-आह्वम् अग्रतः सम्भ्रान्त मीन उन्मकर अहि कच्छपात् तिमि द्विप ग्राह तिमिङ्गिल आकुलात्
तदुग्रवेगं दिशि दिश्युपर्यधो
विसर्पदुत्सर्पदसह्यमप्रति ।
भीता: प्रजा दुद्रुवुरङ्ग सेश्वरा
अरक्ष्यमाणा: शरणं सदाशिवम् ॥ १९ ॥
तत् उग्र-वेगम् दिशि दिशि उपरि अधः विसर्पत् उत्सर्पत् असह्यम् अप्रति भीताः प्रजाः दुद्रुवुः अङ्ग स-ईश्वराः अरक्ष्यमाणाः शरणम् सदाशिवम्
विलोक्य तं देववरं त्रिलोक्या
भवाय देव्याभिमतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतो-
स्तपो जुषाणं स्तुतिभि: प्रणेमु: ॥ २० ॥
विलोक्य तम् देव-वरम् त्रि-लोक्याः भवाय देव्या अभिमतम् मुनीनाम् आसीनम् अद्रौ अपवर्ग-हेतोः तपः जुषाणम् स्तुतिभिः प्रणेमुः
श्रीप्रजापतय ऊचु:
देवदेव महादेव भूतात्मन् भूतभावन ।
त्राहि न: शरणापन्नांस्त्रैलोक्यदहनाद् विषात् ॥ २१ ॥
श्री-प्रजापतयः ऊचुः देव-देव महा-देव भूत-आत्मन् भूत-भावन त्राहि नः शरण-आपन्नान् त्रैलोक्य दहनात् विषात्
त्वमेक: सर्वजगत ईश्वरो बन्धमोक्षयो: ।
तं त्वामर्चन्ति कुशला: प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥
त्वम् एकः सर्व-जगतः ईश्वरः बन्ध-मोक्षयोः तम् त्वाम् अर्चन्ति कुशलाः प्रपन्न-आर्ति-हरम् गुरुम्
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो ।
धत्से यदा स्वदृग् भूमन्ब्रह्मविष्णुशिवाभिधाम् ॥ २३ ॥
गुण-मय्या स्व-शक्त्या अस्य सर्ग-स्थिति-अप्ययान् विभो धत्से यदा स्व-दृक् भूमन् ब्रह्म-विष्णु-शिव-अभिधाम्
त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् ।
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वर: ॥ २४ ॥
त्वम् ब्रह्म परमम् गुह्यम् सत्-असत्-भाव-भावनम् नाना-शक्तिभिः आभातः त्वम् आत्मा जगत्-ईश्वरः
त्वं शब्दयोनिर्जगदादिरात्मा
प्राणेन्द्रियद्रव्यगुण: स्वभाव: ।
काल: क्रतु: सत्यमृतं च धर्म-
स्त्वय्यक्षरं यत् त्रिवृदामनन्ति ॥ २५ ॥
त्वम् शब्द-योनिः जगत्-आदिः आत्मा प्राण इन्द्रिय द्रव्य गुणः स्व-भावः कालः क्रतुः सत्यम् ऋतम् च धर्मः त्वयि अक्षरम् यत् त्रि-वृत् आमनन्ति
अग्निर्मुखं तेऽखिलदेवतात्मा
क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् ।
कालं गतिं तेऽखिलदेवतात्मनो
दिशश्च कर्णौ रसनं जलेशम् ॥ २६ ॥
अग्निः मुखम् ते अखिल-देवता-आत्मा क्षितिम् विदुः लोक-भव अङ्घ्रि-पङ्कजम् कालम् गतिम् ते अखिल-देवता-आत्मनः दिशः च कर्णौ रसनम् जल-ईशम्
नाभिर्नभस्ते श्वसनं नभस्वान्
सूर्यश्च चक्षूंषि जलं स्म रेत: ।
परावरात्माश्रयणं तवात्मा
सोमो मनो द्यौर्भगवन् शिरस्ते ॥ २७ ॥
नाभिः नभः ते श्वसनम् नभस्वान् सूर्यः च चक्षूंषि जलम् स्म रेतः पर-अवर-आत्म-आश्रयणम् तव आत्मा सोमः मनः द्यौः भगवन् शिरः ते
कुक्षि: समुद्रा गिरयोऽस्थिसङ्घा
रोमाणि सर्वौषधिवीरुधस्ते ।
छन्दांसि साक्षात् तव सप्त धातव-
स्त्रयीमयात्मन् हृदयं सर्वधर्म: ॥ २८ ॥
कुक्षिः समुद्राः गिरयः अस्थि सङ्घाः रोमाणि सर्व औषधि वीरुधः ते छन्दांसि साक्षात् तव सप्त धातवः त्रयी-मय-आत्मन् हृदयम् सर्व-धर्मः
मुखानि पञ्चोपनिषदस्तवेश
यैस्त्रिंशदष्टोत्तरमन्त्रवर्ग: ।
यत् तच्छिवाख्यं परमात्मतत्त्वं
देव स्वयंज्योतिरवस्थितिस्ते ॥ २९ ॥
मुखानि पञ्च उपनिषदः तव ईश यैः त्रिंशत्-अष्ट-उत्तर-मन्त्र-वर्गः यत् तत् शिव-आख्यम् परमात्म-तत्त्वम् देव स्वयम्-ज्योतिः अवस्थितिः ते
छाया त्वधर्मोर्मिषु यैर्विसर्गो
नेत्रत्रयं सत्त्वरजस्तमांसि ।
साङ्ख्यात्मन: शास्त्रकृतस्तवेक्षा
छन्दोमयो देव ऋषि: पुराण: ॥ ३० ॥
छाया तु अधर्म-ऊर्मिषु यैः विसर्गः नेत्र-त्रयम् सत्त्व रजः तमांसि साङ्ख्य-आत्मनः शास्त्र कृतः तव ईक्षा छन्दः-मयः देव ऋषिः पुराणः
न ते गिरित्राखिललोकपाल-
विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।
ज्योति: परं यत्र रजस्तमश्च
सत्त्वं न यद् ब्रह्म निरस्तभेदम् ॥ ३१ ॥
न ते गिरि-त्र अखिल-लोक-पाल विरिञ्च वैकुण्ठ सुर-इन्द्र गम्यम् ज्योतिः परम् यत्र रजः तमः च सत्त्वम् न यत् ब्रह्म निरस्त-भेदम्
कामाध्वरत्रिपुरकालगराद्यनेक-
भूतद्रुह: क्षपयत: स्तुतये न तत् ते ।
यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र-
वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ ३२ ॥
काम-अध्वर त्रिपुर कालगर आदि अनेक भूत-द्रुहः क्षपयतः स्तुतये न तत् ते यः तु अन्त-काले इदम् आत्म-कृतम् स्व-नेत्र वह्नि-स्फुलिङ्ग-शिखया भसितम् न वेद
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि-
द्वन्द्वं चरन्तमुमया तपसाभितप्तम् ।
कत्थन्त उग्रपरुषं निरतं श्मशाने
ते नूनमूतिमविदंस्तव हातलज्जा: ॥ ३३ ॥
ये तु आत्म-राम-गुरुभिः हृदि चिन्तित-अङ्घ्रि-द्वन्द्वम् चरन्तम् उमया तपसा अभितप्तम् कत्थन्ते उग्र-परुषम् निरतम् श्मशाने ते नूनम् ऊतिम् अविदन् तव हात-लज्जाः
तत् तस्य ते सदसतो: परत: परस्य
नाञ्ज: स्वरूपगमने प्रभवन्ति भूम्न: ।
ब्रह्मादय: किमुत संस्तवने वयं तु
तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ ३४ ॥
तत् तस्य ते सत्-असतोः परतः परस्य न अञ्जः स्वरूप-गमने प्रभवन्ति भूम्नः ब्रह्म-आदयः किम् उत संस्तवने वयम् तु तत् सर्ग-सर्ग-विषयाः अपि शक्ति-मात्रम्
एतत् परं प्रपश्यामो न परं ते महेश्वर ।
मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मण: ॥ ३५ ॥
एतत् परम् प्रपश्यामः न परम् ते महा-ईश्वर मृडनाय हि लोकस्य व्यक्तिः ते अव्यक्त-कर्मणः
श्रीशुक उवाच
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडित: ।
सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम् ॥ ३६ ॥
श्री-शुकः उवाच तत् वीक्ष्य व्यसनम् तासाम् कृपया भृश-पीडितः सर्व-भूत-सुहृत् देवः इदम् आह सतीम् प्रियाम्
श्रीशिव उवाच
अहो बत भवान्येतत् प्रजानां पश्य वैशसम् ।
क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥ ३७ ॥
श्री-शिवः उवाच अहो बत भवानि एतत् प्रजानाम् पश्य वैशसम् क्षीर-उद मथन-उद्भूतात् कालकूटात् उपस्थितम्
आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।
एतावान्हि प्रभोरर्थो यद् दीनपरिपालनम् ॥ ३८ ॥
आसाम् प्राण-परीप्सूनाम् विधेयम् अभयम् हि मे एतावान् हि प्रभोः अर्थः यत् दीन-परिपालनम्
प्राणै: स्वै: प्राणिन: पान्ति साधव: क्षणभङ्गुरै: ।
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ ३९ ॥
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षण-भङ्गुरैः बद्ध-वैरेषु भूतेषु मोहितेषु आत्म-मायया
पुंस: कृपयतो भद्रे सर्वात्मा प्रीयते हरि: ।
प्रीते हरौ भगवति प्रीयेऽहं सचराचर: ।
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ ४० ॥
पुंसः कृपयतः भद्रे सर्व-आत्मा प्रीयते हरिः प्रीते हरौ भगवति प्रीये अहम् स-चर-अचरः तस्मात् इदम् गरम् भुञ्जे प्रजानाम् स्वस्तिः अस्तु मे
श्रीशुक उवाच
एवमामन्त्र्य भगवान्भवानीं विश्वभावन: ।
तद् विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ४१ ॥
श्री-शुकः उवाच एवम् आमन्त्र्य भगवान् भवानीम् विश्व-भावनः तत् विषम् जग्धुम् आरेभे प्रभाव-ज्ञा अन्वमोदत
तत: करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन्महादेव: कृपया भूतभावन: ॥ ४२ ॥
ततः करतली-कृत्य व्यापि हालाहलम् विषम् अभक्षयत् महा-देवः कृपया भूत-भावनः
तस्यापि दर्शयामास स्ववीर्यं जलकल्मष: ।
यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥ ४३ ॥
तस्य अपि दर्शयाम् आस स्व-वीर्यम् जल-कल्मषः यत् चकार गले नीलम् तत् च साधोः विभूषणम्
तप्यन्ते लोकतापेन साधव: प्रायशो जना: ।
परमाराधनं तद्धि पुरुषस्याखिलात्मन: ॥ ४४ ॥
तप्यन्ते लोक-तापेन साधवः प्रायशः जनाः परम-आराधनम् तत् हि पुरुषस्य अखिल-आत्मनः
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुष: ।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ ४५ ॥
निशम्य कर्म तत् शम्भोः देव-देवस्य मीढुषः प्रजाः दाक्षायणी ब्रह्मा वैकुण्ठः च शशंसिरे
प्रस्कन्नं पिबत: पाणेर्यत् किञ्चिज्जगृहु: स्म तत् ।
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥ ४६ ॥
प्रस्कन्नम् पिबतः पाणेः यत् किञ्चित् जगृहुः स्म तत् वृश्चिक अहि विष-औषध्यः दन्दशूकाः च ये अपरे
८.८
श्रीशुक उवाच
पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवा: ।
ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥ १ ॥
श्री-शुकः उवाच पीते गरे वृष-अङ्केण प्रीताः ते अमर दानवाः ममन्थुः तरसा सिन्धुम् हविर्धानी ततः अभवत्
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिन: ।
यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥ २ ॥
ताम् अग्नि-होत्रीम् ऋषयः जगृहुः ब्रह्म-वादिनः यज्ञस्य देव-यानस्य मेध्याय हविषे नृप
तत उच्चै:श्रवा नाम हयोऽभूच्चन्द्रपाण्डुर: ।
तस्मिन्बलि: स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ ३ ॥
ततः उच्चैःश्रवाः नाम हयः अभूत् चन्द्र-पाण्डुरः तस्मिन् बलिः स्पृहाम् चक्रे न इन्द्रः ईश्वर-शिक्षया
तत ऐरावतो नाम वारणेन्द्रो विनिर्गत: ।
दन्तैश्चतुर्भि: श्वेताद्रेर्हरन्भगवतो महिम् ॥ ४ ॥
ततः ऐरावतः नाम वारण-इन्द्रः विनिर्गतः दन्तैः चतुर्भिः श्वेत अद्रेः हरन् भगवतः महिम्
ऐरावणादयस्त्वष्टौ दिग् गजा अभवंस्तत: ।
अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप ॥ ५ ॥
ऐरावण-आदयः तु अष्टौ दिक्-गजाः अभवन् ततः अभ्रमु-प्रभृतयः अष्टौ च करिण्यः तु अभवन् नृप
कौस्तुभाख्यमभूद् रत्नं पद्मरागो महोदधे: ।
तस्मिन् मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरि: ।
ततोऽभवत् पारिजात: सुरलोकविभूषणम् ।
पूरयत्यर्थिनो योऽर्थै: शश्वद् भुवि यथा भवान् ॥ ६ ॥
कौस्तुभ-आख्यम् अभूत् रत्नम् पद्मरागः महा-उदधेः तस्मिन् मणौ स्पृहाम् चक्रे वक्षः-अलङ्करणे हरिः ततः अभवत् पारिजातः सुर-लोक-विभूषणम् पूरयति अर्थिनः यः अर्थैः शश्वत् भुवि यथा भवान्
ततश्चाप्सरसो जाता निष्ककण्ठ्य: सुवासस: ।
रमण्य: स्वर्गिणां वल्गुगतिलीलावलोकनै: ॥ ७ ॥
ततः च अप्सरसः जाताः निष्क-कण्ठ्यः सु-वाससः रमण्यः स्वर्गिणाम् वल्गु-गति-लीला-अवलोकनैः
ततश्चाविरभूत् साक्षाच्छ्री रमा भगवत्परा ।
रञ्जयन्ती दिश: कान्त्या विद्युत् सौदामनी यथा ॥ ८ ॥
ततः च आविरभूत् साक्षात् श्री रमा भगवत्-परा रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा
तस्यां चक्रु: स्पृहां सर्वे ससुरासुरमानवा: ।
रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतस: ॥ ९ ॥
तस्याम् चक्रुः स्पृहाम् सर्वे स-सुर-असुर-मानवाः रूप-औदार्य वयः वर्ण महिमा आक्षिप्त चेतसः
तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् ।
मूर्तिमत्य: सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ १० ॥
तस्याः आसनम् आनिन्ये महा-इन्द्रः महत् अद्भुतम् मूर्ति-मत्यः सरित्-श्रेष्ठाः हेम कुम्भैः जलम् शुचि
आभिषेचनिका भूमिराहरत् सकलौषधी: ।
गाव: पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥ ११ ॥
आभिषेचनिकाः भूमिः आहरत् सकल औषधीः गावः पञ्च पवित्राणि वसन्तः मधु-माधवौ
ऋषय: कल्पयांचक्रुराभिषेकं यथाविधि ।
जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगु: ॥ १२ ॥
ऋषयः कल्पयाम् चक्रुः आभिषेकम् यथा-विधि जगुः भद्राणि गन्धर्वाः नट्यः च ननृतुः जगुः
मेघा मृदङ्गपणवमुरजानकगोमुखान् ।
व्यनादयन् शङ्खवेणुवीणास्तुमुलनि:स्वनान् ॥ १३ ॥
मेघाः मृदङ्ग पणव मुरज आनक गोमुखान् व्यनादयन् शङ्ख वेणु वीणाः तुमुल निःस्वनान्
ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।
दिगिभा: पूर्णकलशै: सूक्तवाक्यैर्द्विजेरितै: ॥ १४ ॥
ततः अभिषिषिचुः देवीम् श्रियम् पद्म-कराम् सतीम् दिगिभाः पूर्ण-कलशैः सूक्त-वाक्यैः द्वि-ज ईरितैः
समुद्र: पीतकौशेयवाससी समुपाहरत् ।
वरुण: स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥ १५ ॥
समुद्रः पीत-कौशेय वाससी समुपाहरत् वरुणः स्रजम् वैजयन्तीम् मधुना मत्त षट्-पदाम्
भूषणानि विचित्राणि विश्वकर्मा प्रजापति: ।
हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥ १६ ॥
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः हारम् सरस्वती पद्मम् अजः नागाः च कुण्डले
तत: कृतस्वस्त्ययनोत्पलस्रजं
नदद्द्विरेफां परिगृह्य पाणिना ।
चचाल वक्त्रं सुकपोलकुण्डलं
सव्रीडहासं दधती सुशोभनम् ॥ १७ ॥
ततः कृत-स्वस्त्ययना उत्पल-स्रजम् नदत् द्विरेफाम् परिगृह्य पाणिना चचाल वक्त्रम् सु-कपोल-कुण्डलम् स-व्रीड-हासम् दधती सु-शोभनम्
स्तनद्वयं चातिकृशोदरी समं
निरन्तरं चन्दनकुङ्कुमोक्षितम् ।
ततस्ततो नूपुरवल्गुशिञ्जितै-
र्विसर्पती हेमलतेव सा बभौ ॥ १८ ॥
स्तन-द्वयम् च अति-कृश-उदरी समम् निरन्तरम् चन्दन-कुङ्कुम उक्षितम् ततः ततः नूपुर वल्गु शिञ्जितैः विसर्पती हेम-लता इव सा बभौ
विलोकयन्ती निरवद्यमात्मन:
पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।
गन्धर्वसिद्धासुरयक्षचारण-
त्रैपिष्टपेयादिषु नान्वविन्दत ॥ १९ ॥
विलोकयन्ती निरवद्यम् आत्मनः पदम् ध्रुवम् च अव्यभिचारि-सत्-गुणम् गन्धर्व सिद्ध असुर यक्ष चारण त्रैपिष्टपेय-आदिषु न अन्वविन्दत
नूनं तपो यस्य न मन्युनिर्जयो
ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् ।
कश्चिन्महांस्तस्य न कामनिर्जय:
स ईश्वर: किं परतोव्यपाश्रय: ॥ २० ॥
नूनम् तपः यस्य न मन्यु निर्जयः ज्ञानम् क्वचित् तत् च न सङ्ग-वर्जितम् कश्चित् महान् तस्य न काम निर्जयः सः ईश्वरः किम् परतः व्यपाश्रयः
धर्म: क्वचित् तत्र न भूतसौहृदं
त्याग: क्वचित् तत्र न मुक्तिकारणम् ।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं
न हि द्वितीयो गुणसङ्गवर्जित: ॥ २१ ॥
धर्मः क्वचित् तत्र न भूत-सौहृदम् त्यागः क्वचित् तत्र न मुक्ति-कारणम् वीर्यम् न पुंसः अस्ति अज-वेग-निष्कृतम् न हि द्वितीयः गुण-सङ्ग-वर्जितः
क्वचिच्चिरायुर्न हि शीलमङ्गलं
क्वचित् तदप्यस्ति न वेद्यमायुष: ।
यत्रोभयं कुत्र च सोऽप्यमङ्गल:
सुमङ्गल: कश्च न काङ्क्षते हि माम् ॥ २२ ॥
क्वचित् चिर-आयुः न हि शील-मङ्गलम् क्वचित् तत् अपि अस्ति न वेद्यम् आयुषः यत्र उभयम् कुत्र च सः अपि अमङ्गलः सु-मङ्गलः कश्च न काङ्क्षते हि माम्
एवं विमृश्याव्यभिचारिसद्गुणै-
र्वरं निजैकाश्रयतयागुणाश्रयम् ।
वव्रे वरं सर्वगुणैरपेक्षितं
रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २३ ॥
एवम् विमृश्य अव्यभिचारि-सत्-गुणैः वरम् निज-एक-आश्रयतया अगुण-आश्रयम् वव्रे वरम् सर्व-गुणैः अपेक्षितम् रमा मुकुन्दम् निरपेक्षम् ईप्सितम्
तस्यांसदेश उशतीं नवकञ्जमालां
माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् ।
तस्थौ निधाय निकटे तदुर: स्वधाम
सव्रीडहासविकसन्नयनेन याता ॥ २४ ॥
तस्य अंस-देशे उशतीम् नव कञ्ज-मालाम् माद्यत् मधुव्रत-वरूथ गिरा उपघुष्टाम् तस्थौ निधाय निकटे तत्-उरः स्व-धाम स-व्रीड-हास विकसत् नयनेन याता
तस्या: श्रियस्त्रिजगतो जनको जनन्या
वक्षोनिवासमकरोत् परमं विभूते: ।
श्री: स्वा: प्रजा: सकरुणेन निरीक्षणेन
यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ २५ ॥
तस्याः श्रियः त्रि-जगतः जनकः जनन्याः वक्षः निवासम् अकरोत् परमम् विभूतेः श्रीः स्वाः प्रजाः स-करुणेन निरीक्षणेन यत्र स्थिता ऐधयत स-अधिपतीन् त्रि-लोकान्
शङ्खतूर्यमृदङ्गानां वादित्राणां पृथु: स्वन: ।
देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ २६ ॥
शङ्ख तूर्य मृदङ्गानाम् वादित्राणाम् पृथुः स्वनः देव-अनुगानाम् स-स्त्रीणाम् नृत्यताम् गायताम् अभूत्
ब्रह्मरुद्राङ्गिरोमुख्या: सर्वे विश्वसृजो विभुम् ।
ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गै: पुष्पवर्षिण: ॥ २७ ॥
ब्रह्म रुद्र अङ्गिरः मुख्याः सर्वे विश्व-सृजः विभुम् ईडिरे अवितथैः मन्त्रैः तत्-लिङ्गैः पुष्प-वर्षिणः
श्रियावलोकिता देवा: सप्रजापतय: प्रजा: ।
शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् ॥ २८ ॥
श्रिया अवलोकिताः देवाः स-प्रजापतयः प्रजाः शील-आदि-गुण-सम्पन्नाः लेभिरे निर्वृतिम् पराम्
नि:सत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपा: ।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवा: ॥ २९ ॥
निःसत्त्वाः लोलुपाः राजन् निरुद्योगाः गत-त्रपाः यदा च उपेक्षिताः लक्ष्म्या बभूवुः दैत्य-दानवाः
अथासीद् वारुणी देवी कन्या कमललोचना ।
असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ ३० ॥
अथ आसीत् वारुणी देवी कन्या कमल-लोचना असुराः जगृहुः ताम् वै हरेः अनुमतेन ते
अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभि: ।
उदतिष्ठन्महाराज पुरुष: परमाद्भुत: ॥ ३१ ॥
अथ उदधेः मथ्यमानात् काश्यपैः अमृत-अर्थिभिः उदतिष्ठत् महाराज पुरुषः परम अद्भुतः
दीर्घपीवरदोर्दण्ड: कम्बुग्रीवोऽरुणेक्षण: ।
श्यामलस्तरुण: स्रग्वी सर्वाभरणभूषित: ॥ ३२ ॥
दीर्घ पीवर दोः-दण्डः कम्बु ग्रीवः अरुण-ईक्षणः श्यामलः तरुणः स्रग्वी सर्व आभरण भूषितः
पीतवासा महोरस्क: सुमृष्टमणिकुण्डल: ।
स्निग्धकुञ्चितकेशान्तसुभग: सिंहविक्रम: ।
अमृतापूर्णकलसं बिभ्रद् वलयभूषित: ॥ ३३ ॥
पीत-वासाः महा-उरस्कः सु-मृष्ट-मणि-कुण्डलः स्निग्ध कुञ्चित-केश अन्त सु-भगः सिंह-विक्रमः अमृत आपूर्ण कलसम् बिभ्रत् वलय भूषितः
स वै भगवत: साक्षाद्विष्णोरंशांशसम्भव: ।
धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् ॥ ३४ ॥
सः वै भगवतः साक्षात् विष्णोः अंश-अंश-सम्भवः धन्वन्तरिः इति ख्यातः आयुः-वेद-दृक् इज्य-भाक्
तमालोक्यासुरा: सर्वे कलसं चामृताभृतम् ।
लिप्सन्त: सर्ववस्तूनि कलसं तरसाहरन् ॥ ३५ ॥
तम् आलोक्य असुराः सर्वे कलसम् च अमृत-आभृतम् लिप्सन्तः सर्व-वस्तूनि कलसम् तरसा अहरन्
नीयमानेऽसुरैस्तस्मिन्कलसेऽमृतभाजने ।
विषण्णमनसो देवा हरिं शरणमाययु: ॥ ३६ ॥
नीयमाने असुरैः तस्मिन् कलसे अमृत-भाजने विषण्ण-मनसः देवाः हरिम् शरणम् आययुः
इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत् ।
मा खिद्यत मिथोऽर्थं व: साधयिष्ये स्वमायया ॥ ३७ ॥
इति तत् दैन्यम् आलोक्य भगवान् भृत्य-काम-कृत् मा खिद्यत मिथः अर्थम् वः साधयिष्ये स्व-मायया
मिथ: कलिरभूत्तेषां तदर्थे तर्षचेतसाम् ।
अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥ ३८ ॥
मिथः कलिः अभूत् तेषाम् तत्-अर्थे तर्ष-चेतसाम् अहम् पूर्वम् अहम् पूर्वम् न त्वम् न त्वम् इति प्रभो
देवा: स्वं भागमर्हन्ति ये तुल्यायासहेतव: ।
सत्रयाग इवैतस्मिन्नेष धर्म: सनातन: ॥ ३९ ॥
इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सरा: ।
दुर्बला: प्रबलान् राजन्गृहीतकलसान् मुहु: ॥ ४० ॥
देवाः स्वम् भागम् अर्हन्ति ये तुल्य-आयास-हेतवः सत्र-यागे इव एतस्मिन् एषः धर्मः सनातनः इति स्वान् प्रत्यषेधन् वै दैतेयाः जात-मत्सराः दुर्बलाः प्रबलान् राजन् गृहीत कलसान् मुहुः
एतस्मिन्नन्तरे विष्णु: सर्वोपायविदीश्वर: ।
योषिद्रूपमनिर्देश्यं दधार परमाद्भुतम् ॥ ४१ ॥
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ ४२ ॥
नवयौवननिर्वृत्तस्तनभारकृशोदरम् ।
मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचनम् ॥ ४३ ॥
बिभ्रत् सुकेशभारेण मालामुत्फुल्लमल्लिकाम् ।
सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ ४४ ॥
विरजाम्बरसंवीतनितम्बद्वीपशोभया ।
काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् ॥ ४५ ॥
सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनै: ।
दैत्ययूथपचेत:सु काममुद्दीपयन् मुहु: ॥ ४६ ॥
एतस्मिन् अन्तरे विष्णुः सर्व-उपाय-वित् ईश्वरः योषित्-रूपम् अनिर्देश्यम् दधार परम अद्भुतम् प्रेक्षणीय उत्पल-श्यामम् सर्व अवयव सुन्दरम् समान कर्ण-आभरणम् सु-कपोल उन्नस-आननम् नव-यौवन निर्वृत्त-स्तन भार कृश उदरम् मुख आमोद अनुरक्त अलि झङ्कार उद्विग्न लोचनम् बिभ्रत् सु-केश-भारेण मालाम् उत्फुल्ल-मल्लिकाम् सु-ग्रीव कण्ठ-आभरणम् सु-भुज अङ्गद-भूषितम् विरज-अम्बर संवीत नितम्ब द्वीप शोभया काञ्च्या प्रविलसत् वल्गु चलत्-चरण-नूपुरम् स-व्रीड-स्मित विक्षिप्त भ्रू-विलास अवलोकनैः दैत्य-यूथ-प चेतःसु कामम् उद्दीपयत् मुहुः
८.९
श्रीशुक उवाच
तेऽन्योन्यतोऽसुरा: पात्रं हरन्तस्त्यक्तसौहृदा: ।
क्षिपन्तो दस्युधर्माण आयान्तीं ददृशु: स्त्रियम् ॥ १ ॥
श्री-शुकः उवाच ते अन्योन्यतः असुराः पात्रम् हरन्तः त्यक्त-सौहृदाः क्षिपन्तः दस्यु-धर्माणः आयान्तीम् ददृशुः स्त्रियम्
अहो रूपमहो धाम अहो अस्या नवं वय: ।
इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छया: ॥ २ ॥
अहो रूपम् अहो धाम अहो अस्याः नवम् वयः इति ते ताम् अभिद्रुत्य पप्रच्छुः जात-हृत्-शयाः
का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।
कस्यासि वद वामोरु मथ्नतीव मनांसि न: ॥ ३ ॥
का त्वम् कञ्ज-पलाश-अक्षि कुतः वा किम् चिकीर्षसि कस्य असि वद वाम-ऊरु मथ्नती इव मनांसि नः
न वयं त्वामरैर्दैत्यै: सिद्धगन्धर्वचारणै: ।
नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभि: ॥ ४ ॥
न वयम् त्वा अमरैः दैत्यैः सिद्ध गन्धर्व चारणैः न अस्पृष्ट-पूर्वाम् जानीमः लोक-ईशैः च कुतः नृभिः
नूनं त्वं विधिना सुभ्रू: प्रेषितासि शरीरिणाम् ।
सर्वेन्द्रियमन:प्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥
नूनम् त्वम् विधिना सु-भ्रूः प्रेषिता असि शरीरिणाम् सर्व इन्द्रिय मनः प्रीतिम् विधातुम् स-घृणेन किम्
सा त्वं न: स्पर्धमानानामेकवस्तुनि मानिनि ।
ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥
सा त्वम् नः स्पर्धमानानाम् एक-वस्तुनि मानिनि ज्ञातीनाम् बद्ध-वैराणाम् शम् विधत्स्व सु-मध्यमे
वयं कश्यपदायादा भ्रातर: कृतपौरुषा: ।
विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥
वयम् कश्यप-दायादाः भ्रातरः कृत-पौरुषाः विभजस्व यथा-न्यायम् न एव भेदः यथा भवेत्
इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरि: ।
प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ ८ ॥
इति उपामन्त्रितः दैत्यैः माया-योषित् वपुः हरिः प्रहस्य रुचिर अपाङ्गैः निरीक्षन् इदम् अब्रवीत्
श्रीभगवानुवाच
कथं कश्यपदायादा: पुंश्चल्यां मयि सङ्गता: ।
विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥
श्री-भगवान् उवाच कथम् कश्यप-दायादाः पुंश्चल्याम् मयि सङ्गताः विश्वासम् पण्डितः जातु कामिनीषु न याति हि
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विष: ।
सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ १० ॥
सालावृकाणाम् स्त्रीणाम् च स्वैरिणीनाम् सुर-द्विषः सख्यानि आहुः अनित्यानि नूत्नम् नूत्नम् विचिन्वताम्
श्रीशुक उवाच
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुरा: ।
जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११ ॥
श्री-शुकः उवाच इति ते क्ष्वेलितैः तस्याः आश्वस्त मनसः असुराः जहसुः भाव-गम्भीरम् ददुः च अमृत-भाजनम्
ततो गृहीत्वामृतभाजनं हरि-
र्बभाष ईषत्स्मितशोभया गिरा ।
यद्यभ्युपेतं क्व च साध्वसाधु वा
कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥
ततः गृहीत्वा अमृत-भाजनम् हरिः बभाष ईषत् स्मित-शोभया गिरा यदि अभ्युपेतम् क्व च साधु असाधु वा कृतम् मया वः विभजे सुधाम् इमाम्
इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवा: ।
अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत ॥ १३ ॥
इति अभिव्याहृतम् तस्याः आकर्ण्य असुर-पुङ्गवाः अप्रमाण-विदः तस्याः तत् तथा इति अन्वमंसत
अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् ।
दत्त्वा गोविप्रभूतेभ्य: कृतस्वस्त्ययना द्विजै: ॥ १४ ॥
यथोपजोषं वासांसि परिधायाहतानि ते ।
कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिता: ॥ १५ ॥
अथ उपोष्य कृत-स्नानाः हुत्वा च हविषा अनलम् दत्त्वा गो-विप्र-भूतेभ्यः कृत-स्वस्त्ययनाः द्विजैः यथा-उपजोषम् वासांसि परिधाय आहतानि ते कुशेषु प्राविशन् सर्वे प्राक्-अग्रेषु अभिभूषिताः
प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।
धूपामोदितशालायां जुष्टायां माल्यदीपकै: ॥ १६ ॥
तस्यां नरेन्द्र करभोरुरुशद्दुकूल-
श्रोणीतटालसगतिर्मदविह्वलाक्षी ।
सा कूजती कनकनूपुरशिञ्जितेन
कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥
प्राक्-मुखेषु उपविष्टेषु सुरेषु दिति-जेषु च धूप-आमोदित-शालायाम् जुष्टायाम् माल्य-दीपकैः तस्याम् नर-इन्द्र करभ-ऊरुः उशत्-दुकूल श्रोणी-तट अलस-गतिः मद-विह्वल-अक्षी सा कूजती कनक-नूपुर शिञ्जितेन कुम्भ-स्तनी कलस-पाणिः अथ आविवेश
तां श्रीसखीं कनककुण्डलचारुकर्ण-
नासाकपोलवदनां परदेवताख्याम् ।
संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन
देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ १८ ॥
ताम् श्री-सखीम् कनक-कुण्डल चारु कर्ण नासा कपोल वदनाम् पर-देवता-आख्याम् संवीक्ष्य सम्मुमुहुः उत्स्मित वीक्षणेन देव-असुराः विगलित-स्तन-पट्टिक-अन्ताम्
असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।
मत्वा जातिनृशंसानां न तां व्यभजदच्युत: ॥ १९ ॥
असुराणाम् सुधा-दानम् सर्पाणाम् इव दुर्नयम् मत्वा जाति-नृशंसानाम् न ताम् व्यभजत् अच्युतः
कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पति: ।
तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ २० ॥
कल्पयित्वा पृथक् पङ्क्तीः उभयेषाम् जगत्-पतिः तान् च उपवेशयाम् आस स्वेषु स्वेषु च पङ्क्तिषु
दैत्यान्गृहीतकलसो वञ्चयन्नुपसञ्चरै: ।
दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥
दैत्यान् गृहीत-कलसः वञ्चयन् उपसञ्चरैः दूर-स्थान् पाययाम् आस जरा-मृत्यु-हराम् सुधाम्
ते पालयन्त: समयमसुरा: स्वकृतं नृप ।
तूष्णीमासन्कृतस्नेहा: स्त्रीविवादजुगुप्सया ॥ २२ ॥
ते पालयन्तः समयम् असुराः स्व-कृतम् नृप तूष्णीम् आसन् कृत-स्नेहाः स्त्री-विवाद जुगुप्सया
तस्यां कृतातिप्रणया: प्रणयापायकातरा: ।
बहुमानेन चाबद्धा नोचु: किञ्चन विप्रियम् ॥ २३ ॥
तस्याम् कृत-अति-प्रणयाः प्रणय-अपाय-कातराः बहु-मानेन च आबद्धाः न ऊचुः किञ्चन विप्रियम्
देवलिङ्गप्रतिच्छन्न: स्वर्भानुर्देवसंसदि ।
प्रविष्ट: सोममपिबच्चन्द्रार्काभ्यां च सूचित: ॥ २४ ॥
देव-लिङ्ग-प्रतिच्छन्नः स्वर्भानुः देव-संसदि प्रविष्टः सोमम् अपिबत् चन्द्र-अर्काभ्याम् च सूचितः
चक्रेण क्षुरधारेण जहार पिबत: शिर: ।
हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥
चक्रेण क्षुर-धारेण जहार पिबतः शिरः हरिः तस्य कबन्धः तु सुधया अप्लावितः अपतत्
शिरस्त्वमरतां नीतमजो ग्रहमचीक्लृपत् ।
यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधी: ॥ २६ ॥
शिरः तु अमरताम् नीतम् अजः ग्रहम् अचीकॢपत् यः तु पर्वणि चन्द्र-अर्कौ अभिधावति वैर-धीः
पीतप्रायेऽमृते देवैर्भगवान् लोकभावन: ।
पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरि: ॥ २७ ॥
पीत-प्राये अमृते देवैः भगवान् लोक-भावनः पश्यताम् असुर-इन्द्राणाम् स्वम् रूपम् जगृहे हरिः
एवं सुरासुरगणा: समदेशकाल-
हेत्वर्थकर्ममतयोऽपि फले विकल्पा: ।
तत्रामृतं सुरगणा: फलमञ्जसापु-
र्यत्पादपङ्कजरज:श्रयणान्न दैत्या: ॥ २८ ॥
एवम् सुर असुर-गणाः सम देश काल हेतु अर्थ कर्म मतयः अपि फले विकल्पाः तत्र अमृतम् सुर-गणाः फलम् अञ्जसा आपुः यत् पाद-पङ्कज रजः श्रयणात् न दैत्याः
यद् युज्यतेऽसुवसुकर्ममनोवचोभि-
र्देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् ।
तैरेव सद् भवति यत् क्रियतेऽपृथक्त्वात्
सर्वस्य तद् भवति मूलनिषेचनं यत् ॥ २९ ॥
यत् युज्यते असु वसु कर्म मनः वचोभिः देह-आत्म-ज-आदिषु नृभिः तत् असत् पृथक्त्वात् तैः एव सत् भवति यत् क्रियते अपृथक्त्वात् सर्वस्य तत् भवति मूल-निषेचनम् यत्
८.१०
श्रीशुक उवाच
इति दानवदैतेया नाविन्दन्नमृतं नृप ।
युक्ता: कर्मणि यत्ताश्च वासुदेवपराङ्मुखा: ॥ १ ॥
श्री-शुकः उवाच इति दानव-दैतेयाः न अविन्दन् अमृतम् नृप युक्ताः कर्मणि यत्ताः च वासुदेव पराङ्मुखाः
साधयित्वामृतं राजन्पाययित्वा स्वकान्सुरान् ।
पश्यतां सर्वभूतानां ययौ गरुडवाहन: ॥ २ ॥
साधयित्वा अमृतम् राजन् पाययित्वा स्वकान् सुरान् पश्यताम् सर्व-भूतानाम् ययौ गरुड-वाहनः
सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दना: ।
अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधा: ॥ ३ ॥
सपत्नानाम् पराम् ऋद्धिम् दृष्ट्वा ते दिति-नन्दनाः अमृष्यमाणाः उत्पेतुः देवान् प्रत्युद्यत-आयुधाः
तत: सुरगणा: सर्वे सुधया पीतयैधिता: ।
प्रतिसंयुयुधु: शस्त्रैर्नारायणपदाश्रया: ॥ ४ ॥
ततः सुर-गणाः सर्वे सुधया पीतया एधिताः प्रतिसंयुयुधुः शस्त्रैः नारायण-पद-आश्रयाः
तत्र दैवासुरो नाम रण: परमदारुण: ।
रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षण: ॥ ५ ॥
तत्र दैव असुरः नाम रणः परम दारुणः रोधसि उदन्वतः राजन् तुमुलः रोम-हर्षणः
तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे ।
समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधै: ॥ ६ ॥
तत्र अन्योन्यम् सपत्नाः ते संरब्ध मनसः रणे समासाद्य असिभिः बाणैः निजघ्नुः विविध-आयुधैः
शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् ।
हस्त्यश्वरथपत्तीनां नदतां निस्वनोऽभवत् ॥ ७ ॥
शङ्ख तूर्य मृदङ्गानाम् भेरी डमरिणाम् महान् हस्ति अश्व रथ-पत्तीनाम् नदताम् निस्वनः अभवत्
रथिनो रथिभिस्तत्र पत्तिभि: सह पत्तय: ।
हया हयैरिभाश्चेभै: समसज्जन्त संयुगे ॥ ८ ॥
रथिनः रथिभिः तत्र पत्तिभिः सह पत्तयः हयाः हयैः इभाः च इभैः समसज्जन्त संयुगे
उष्ट्रै: केचिदिभै: केचिदपरे युयुधु: खरै: ।
केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटा: ॥ ९ ॥
उष्ट्रैः केचित् इभैः केचित् अपरे युयुधुः खरैः केचित् गौर-मुखैः ऋक्षैः द्वीपिभिः हरिभिः भटाः
गृध्रै: कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलै: ।
शरभैर्महिषै: खड्गैर्गोवृषैर्गवयारुणै: ॥ १० ॥
शिवाभिराखुभि: केचित् कृकलासै: शशैर्नरै: ।
बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरै: ॥ ११ ॥
अन्ये जलस्थलखगै: सत्त्वैर्विकृतविग्रहै: ।
सेनयोरुभयो राजन्विविशुस्तेऽग्रतोऽग्रत: ॥ १२ ॥
गृध्रैः कङ्कैः बकैः अन्ये श्येन भासैः तिमिङ्गिलैः शरभैः महिषैः खड्गैः गो वृषैः गवय-अरुणैः शिवाभिः आखुभिः केचित् कृकलासैः शशैः नरैः बस्तैः एके कृष्ण-सारैः हंसैः अन्ये च सूकरैः अन्ये जल-स्थल-खगैः सत्त्वैः विकृत विग्रहैः सेनयोः उभयोः राजन् विविशुः ते अग्रतः अग्रतः
चित्रध्वजपटै राजन्नातपत्रै: सितामलै: ।
महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरै: ॥ १३ ॥
वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणै: ।
स्फुरद्भिर्विशदै: शस्त्रै: सुतरां सूर्यरश्मिभि: ॥ १४ ॥
देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।
रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥ १५ ॥
चित्र-ध्वज-पटैः राजन् आतपत्रैः सित-अमलैः महा-धनैः वज्र-दण्डैः व्यजनैः बार्ह-चामरैः वात-उद्धूत उत्तर-उष्णीषैः अर्चिर्भिः वर्म-भूषणैः स्फुरद्भिः विशदैः शस्त्रैः सुतराम् सूर्य-रश्मिभिः देव-दानव-वीराणाम् ध्वजिन्यौ पाण्डु-नन्दन रेजतुः वीर-मालाभिः यादसाम् इव सागरौ
वैरोचनो बलि: सङ्ख्ये सोऽसुराणां चमूपति: ।
यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ १६ ॥
सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।
अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ १७ ॥
आस्थितस्तद् विमानाग्र्यं सर्वानीकाधिपैर्वृत: ।
बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ १८ ॥
वैरोचनः बलिः सङ्ख्ये सः असुराणाम् चमू-पतिः यानम् वैहायसम् नाम काम-गम् मय-निर्मितम् सर्व साङ्ग्रामिक-उपेतम् सर्व-आश्चर्य-मयम् प्रभो अप्रतर्क्यम् अनिर्देश्यम् दृश्यमानम् अदर्शनम् आस्थितः तत् विमान-अग्र्यम् सर्व अनीक-अधिपैः वृतः बाल-व्यजन-छत्र-अग्र्यैः रेजे चन्द्रः इव उदये
तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुरा: ।
नमुचि: शम्बरो बाणो विप्रचित्तिरयोमुख: ॥ १९ ॥
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वल: ।
शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचन: ॥ २० ॥
हयग्रीव: शङ्कुशिरा: कपिलो मेघदुन्दुभि: ।
तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कल: ॥ २१ ॥
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिप: ।
अन्ये पौलोमकालेया निवातकवचादय: ॥ २२ ॥
अलब्धभागा: सोमस्य केवलं क्लेशभागिन: ।
सर्व एते रणमुखे बहुशो निर्जितामरा: ॥ २३ ॥
सिंहनादान्विमुञ्चन्त: शङ्खान्दध्मुर्महारवान् ।
दृष्ट्वा सपत्नानुत्सिक्तान्बलभित् कुपितो भृशम् ॥ २४ ॥
तस्य आसन् सर्वतः यानैः यूथानाम् पतयः असुराः नमुचिः शम्बरः बाणः विप्रचित्तिः अयोमुखः द्विमूर्धा कालनाभः अथ प्रहेतिः हेतिः इल्वलः शकुनिः भूतसन्तापः वज्रदंष्ट्रः विरोचनः हयग्रीवः शङ्कुशिराः कपिलः मेघदुन्दुभिः तारकः चक्रदृक् शुम्भः निशुम्भः जम्भः उत्कलः अरिष्टः अरिष्टनेमिः च मयः च त्रिपुराधिपः अन्ये पौलोम-कालेयाः निवातकवच-आदयः अलब्ध-भागाः सोमस्य केवलम् क्लेश-भागिनः सर्वे एते रण-मुखे बहुशः निर्जित-अमराः सिंह-नादान् विमुञ्चन्तः शङ्खान् दध्मुः महा-रवान् दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितः भृशम्
ऐरावतं दिक्करिणमारूढ: शुशुभे स्वराट् ।
यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पति: ॥ २५ ॥
ऐरावतम् दिक्-करिणम् आरूढः शुशुभे स्व-राट् यथा स्रवत् प्रस्रवणम् उदय-अद्रिम् अहः-पतिः
तस्यासन्सर्वतो देवा नानावाहध्वजायुधा: ।
लोकपाला: सहगणैर्वाय्वग्निवरुणादय: ॥ २६ ॥
तस्य आसन् सर्वतः देवाः नाना-वाह ध्वज-आयुधाः लोक-पालाः सह गणैः वायु अग्नि वरुण आदयः
तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथ: ।
आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिन: ॥ २७ ॥
ते अन्योन्यम् अभिसंसृत्य क्षिपन्तः मर्मभिः मिथः आह्वयन्तः विशन्तः अग्रे युयुधुः द्वन्द्व-योधिनः
युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।
वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना ॥ २८ ॥
युयोध बलिः इन्द्रेण तारकेण गुहः अस्यत वरुणः हेतिना अयुध्यत् मित्रः राजन् प्रहेतिना
यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचन: ॥ २९ ॥
यमः तु कालनाभेन विश्वकर्मा मयेन वै शम्बरः युयुधे त्वष्ट्रा सवित्रा तु विरोचनः
अपराजितेन नमुचिरश्विनौ वृषपर्वणा ।
सूर्यो बलिसुतैर्देवो बाणज्येष्ठै: शतेन च ॥ ३० ॥
राहुणा च तथा सोम: पुलोम्ना युयुधेऽनिल: ।
निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ ३१ ॥
अपराजितेन नमुचिः अश्विनौ वृषपर्वणा सूर्यः बलि-सुतैः देवः बाण-ज्येष्ठैः शतेन च राहुणा च तथा सोमः पुलोम्ना युयुधे अनिलः निशुम्भ शुम्भयोः देवी भद्रकाली तरस्विनी
वृषाकपिस्तु जम्भेन महिषेण विभावसु: ।
इल्वल: सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ ३२ ॥
कामदेवेन दुर्मर्ष उत्कलो मातृभि: सह ।
बृहस्पतिश्चोशनसा नरकेण शनैश्चर: ॥ ३३ ॥
मरुतो निवातकवचै: कालेयैर्वसवोऽमरा: ।
विश्वेदेवास्तु पौलोमै रुद्रा: क्रोधवशै: सह ॥ ३४ ॥
वृषाकपिः तु जम्भेन महिषेण विभावसुः इल्वलः सह वातापिः ब्रह्म-पुत्रैः अरिम्-दम कामदेवेन दुर्मर्षः उत्कलः मातृभिः सह बृहस्पतिः च उशनसा नरकेण शनैश्चरः मरुतः निवातकवचैः कालेयैः वसवः अमराः विश्वेदेवाः तु पौलोमैः रुद्राः क्रोधवशैः सह
त एवमाजावसुरा: सुरेन्द्रा
द्वन्द्वेन संहत्य च युध्यमाना: ।
अन्योन्यमासाद्य निजघ्नुरोजसा
जिगीषवस्तीक्ष्णशरासितोमरै: ॥ ३५ ॥
ते एवम् आजौ असुराः सुर-इन्द्राः द्वन्द्वेन संहत्य च युध्यमानाः अन्योन्यम् आसाद्य निजघ्नुः ओजसा जिगीषवः तीक्ष्ण शर असि तोमरैः
भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशै:
शक्त्युल्मुकै: प्रासपरश्वधैरपि ।
निस्त्रिंशभल्लै: परिघै: समुद्गरै:
सभिन्दिपालैश्च शिरांसि चिच्छिदु: ॥ ३६ ॥
भुशुण्डिभिः चक्र गदा ऋष्टि पट्टिशैः शक्ति उल्मुकैः प्रास परश्वधैः अपि निस्त्रिंश भल्लैः परिघैः स-मुद्गरैः स-भिन्दिपालैः च शिरांसि चिच्छिदुः
गजास्तुरङ्गा: सरथा: पदातय:
सारोहवाहा विविधा विखण्डिता: ।
निकृत्तबाहूरुशिरोधराङ्घ्रय-
श्छिन्नध्वजेष्वासतनुत्रभूषणा: ॥ ३७ ॥
गजाः तुरङ्गाः स-रथाः पदातयः सारोह-वाहाः विविधाः विखण्डिताः निकृत्त-बाहु ऊरु शिरोधर अङ्घ्रयः छिन्न ध्वज इष्वास तनुत्र भूषणाः
तेषां पदाघातरथाङ्गचूर्णिता-
दायोधनादुल्बण उत्थितस्तदा ।
रेणुर्दिश: खं द्युमणिं च छादयन्
न्यवर्ततासृक् स्रुतिभि: परिप्लुतात् ॥ ३८ ॥
तेषाम् पदाघात रथ-अङ्ग चूर्णितात् आयोधनात् उल्बणः उत्थितः तदा रेणुः दिशः खम् द्युमणिम् च छादयन् न्यवर्तत असृक् स्रुतिभिः परिप्लुतात्
शिरोभिरुद्धूतकिरीटकुण्डलै:
संरम्भदृग्भि: परिदष्टदच्छदै: ।
महाभुजै: साभरणै: सहायुधै:
सा प्रास्तृता भू: करभोरुभिर्बभौ ॥ ३९ ॥
शिरोभिः उद्धूत किरीट कुण्डलैः संरम्भ-दृग्भिः परिदष्ट दच्छदैः महा-भुजैः स-आभरणैः सह-आयुधैः सा प्रास्तृता भूः करभ-ऊरुभिः बभौ
कबन्धास्तत्र चोत्पेतु: पतितस्वशिरोऽक्षिभि: ।
उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ ४० ॥
कबन्धाः तत्र च उत्पेतुः पतित स्व-शिरः-अक्षिभिः उद्यत आयुध दोर्दण्डैः आधावन्तः भटान् मृधे
बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरै: ।
चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ॥ ४१ ॥
बलिः महा-इन्द्रम् दशभिः त्रिभिः ऐरावतम् शरैः चतुर्भिः चतुरः वाहान् एकेन आरोहम् आर्च्छयत्
स तानापतत: शक्रस्तावद्भि: शीघ्रविक्रम: ।
चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव ॥ ४२ ॥
सः तान् आपततः शक्रः तावद्भिः शीघ्र-विक्रमः चिच्छेद निशितैः भल्लैः असम्प्राप्तान् हसन् इव
तस्य कर्मोत्तमं वीक्ष्य दुर्मर्ष: शक्तिमाददे ।
तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरि: ॥ ४३ ॥
तस्य कर्म-उत्तमम् वीक्ष्य दुर्मर्षः शक्तिम् आददे ताम् ज्वलन्तीम् महा-उल्का-आभाम् हस्त-स्थाम् अच्छिनत् हरिः
तत: शूलं तत: प्रासं ततस्तोमरमृष्टय: ।
यद् यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद् विभु: ॥ ४४ ॥
ततः शूलम् ततः प्रासम् ततः तोमरम् ऋष्टयः यत् यत् शस्त्रम् समादद्यात् सर्वम् तत् अच्छिनत् विभुः
ससर्जाथासुरीं मायामन्तर्धानगतोऽसुर: ।
तत: प्रादुरभूच्छैल: सुरानीकोपरि प्रभो ॥ ४५ ॥
ससर्ज अथ आसुरीम् मायाम् अन्तर्धान गतः असुरः ततः प्रादुरभूत् शैलः सुर-अनीक-उपरि प्रभो
ततो निपेतुस्तरवो दह्यमाना दवाग्निना ।
शिला: सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥ ४६ ॥
ततः निपेतुः तरवः दह्यमानाः दव-अग्निना शिलाः स-टङ्क-शिखराः चूर्णयन्त्यः द्विषत्-बलम्
महोरगा: समुत्पेतुर्दन्दशूका: सवृश्चिका: ।
सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजा: ॥ ४७ ॥
महा-उरगाः समुत्पेतुः दन्दशूकाः स-वृश्चिकाः सिंह व्याघ्र वराहाः च मर्दयन्तः महा-गजाः
यातुधान्यश्च शतश: शूलहस्ता विवासस: ।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणा: प्रभो ॥ ४८ ॥
यातुधान्यः च शतशः शूल-हस्ताः विवाससः छिन्धि भिन्धि इति वादिन्यः तथा रक्षः-गणाः प्रभो
ततो महाघना व्योम्नि गम्भीरपरुषस्वना: ।
अङ्गारान्मुमुचुर्वातैराहता: स्तनयित्नव: ॥ ४९ ॥
ततः महा-घनाः व्योम्नि गम्भीर-परुष-स्वनाः अङ्गारान् मुमुचुः वातैः आहताः स्तनयित्नवः
सृष्टो दैत्येन सुमहान्वह्नि: श्वसनसारथि: ।
सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ ५० ॥
सृष्टः दैत्येन सु-महान् वह्निः श्वसन-सारथिः सांवर्तकः इव अति उग्रः विबुध ध्वजिनीम् अधाक्
तत: समुद्र उद्वेल: सर्वत: प्रत्यदृश्यत ।
प्रचण्डवातैरुद्धूततरङ्गावर्तभीषण: ॥ ५१ ॥
ततः समुद्रः उद्वेलः सर्वतः प्रत्यदृश्यत प्रचण्ड वातैः उद्धूत तरङ्ग आवर्त भीषणः
एवं दैत्यैर्महामायैरलक्ष्यगतिभीरणे ।
सृज्यमानासु मायासु विषेदु: सुरसैनिका: ॥ ५२ ॥
एवम् दैत्यैः महा-मायैः अलक्ष्य-गतिभिः रणे सृज्यमानासु मायासु विषेदुः सुर-सैनिकाः
न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।
ध्यात: प्रादुरभूत् तत्र भगवान्विश्वभावन: ॥ ५३ ॥
न तत्-प्रतिविधिम् यत्र विदुः इन्द्र-आदयः नृप ध्यातः प्रादुरभूत् तत्र भगवान् विश्व-भावनः
तत: सुपर्णांसकृताङ्घ्रिपल्लव:
पिशङ्गवासा नवकञ्जलोचन: ।
अदृश्यताष्टायुधबाहुरुल्लस-
च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डल: ॥ ५४ ॥
ततः सुपर्ण-अंस-कृत-अङ्घ्रि-पल्लवः पिशङ्ग-वासाः नव-कञ्ज-लोचनः अदृश्यत अष्ट-आयुध बाहुः उल्लसत् श्री कौस्तुभ अनर्घ्य किरीट कुण्डलः
तस्मिन्प्रविष्टेऽसुरकूटकर्मजा
माया विनेशुर्महिना महीयस: ।
स्वप्नो यथा हि प्रतिबोध आगते
हरिस्मृति: सर्वविपद्विमोक्षणम् ॥ ५५ ॥
तस्मिन् प्रविष्टे असुर कूट-कर्म-जा माया विनेशुः महिना महीयसः स्वप्नः यथा हि प्रतिबोधे आगते हरि-स्मृतिः सर्व-विपत् विमोक्षणम्
दृष्ट्वा मृधे गरुडवाहमिभारिवाह
आविध्य शूलमहिनोदथ कालनेमि: ।
तल्लीलया गरुडमूर्ध्नि पतद् गृहीत्वा
तेनाहनन्नृप सवाहमरिं त्र्यधीश: ॥ ५६ ॥
दृष्ट्वा मृधे गरुड-वाहम् इभारि-वाहः आविध्य शूलम् अहिनोत् अथ कालनेमिः तत् लीलया गरुड-मूर्ध्नि पतत् गृहीत्वा तेन अहनत् नृप स-वाहम् अरिम् त्रि-अधीशः
माली सुमाल्यतिबलौ युधि पेततुर्य
च्चक्रेण कृत्तशिरसावथ माल्यवांस्तम् ।
आहत्य तिग्मगदयाहनदण्डजेन्द्र
तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाद्य: ॥ ५७ ॥
माली सुमाली अति-बलौ युधि पेततुः यत्-चक्रेण कृत्त-शिरसौ अथ माल्यवान् तम् आहत्य तिग्म-गदया अहनत् अण्ड-ज-इन्द्रम् तावत् शिरः अच्छिनत् अरेः नदतः अरिणा आद्यः
८.११
श्रीशुक उवाच
अथो सुरा: प्रत्युपलब्धचेतस:
परस्य पुंस: परयानुकम्पया ।
जघ्नुर्भृशं शक्रसमीरणादय-
स्तांस्तान्रणे यैरभिसंहता: पुरा ॥ १ ॥
श्री-शुकः उवाच अथो सुराः प्रत्युपलब्ध-चेतसः परस्य पुंसः परया अनुकम्पया जघ्नुः भृशम् शक्र समीरण आदयः तान् तान् रणे यैः अभिसंहताः पुरा
वैरोचनाय संरब्धो भगवान्पाकशासन: ।
उदयच्छद् यदा वज्रं प्रजा हा हेति चुक्रुशु: ॥ २ ॥
वैरोचनाय संरब्धः भगवान् पाक-शासनः उदयच्छत् यदा वज्रम् प्रजाः हा हा इति चुक्रुशुः
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुर:स्थितम् ।
मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ ३ ॥
वज्र-पाणिः तम् आह इदम् तिरस्कृत्य पुरः-स्थितम् मनस्विनम् सु-सम्पन्नम् विचरन्तम् महा-मृधे
नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि ।
जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥ ४ ॥
नट-वत् मूढ मायाभिः माया-ईशान् नः जिगीषसि जित्वा बालान् निबद्ध-अक्षान् नटः हरति तत्-धनम्
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् ।
तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादध: ॥ ५ ॥
आरुरुक्षन्ति मायाभिः उत्सिसृप्सन्ति ये दिवम् तान् दस्यून् विधुनोमि अज्ञान् पूर्वस्मात् च पदात् अधः
सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।
शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभि: सह ॥ ६ ॥
सः अहम् दुर्मायिनः ते अद्य वज्रेण शत-पर्वणा शिरः हरिष्ये मन्द-आत्मन् घटस्व ज्ञातिभिः सह
श्रीबलिरुवाच
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् ।
कीर्तिर्जयोऽजयो मृत्यु: सर्वेषां स्युरनुक्रमात् ॥ ७ ॥
श्री-बलिः उवाच सङ्ग्रामे वर्तमानानाम् काल-चोदित कर्मणाम् कीर्तिः जयः अजयः मृत्युः सर्वेषाम् स्युः अनुक्रमात्
तदिदं कालरशनं जगत् पश्यन्ति सूरय: ।
न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिता: ॥ ८ ॥
तत् इदम् काल-रशनम् जगत् पश्यन्ति सूरयः न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः
न वयं मन्यमानानामात्मानं तत्र साधनम् ।
गिरो व: साधुशोच्यानां गृह्णीमो मर्मताडना: ॥ ९ ॥
न वयम् मन्यमानानाम् आत्मानम् तत्र साधनम् गिरः वः साधु-शोच्यानाम् गृह्णीमः मर्म-ताडनाः
श्रीशुक उवाच
इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दन: ।
आकर्णपूर्णैरहनदाक्षेपैराहतं पुन: ॥ १० ॥
श्री-शुकः उवाच इति आक्षिप्य विभुम् वीरः नाराचैः वीर-मर्दनः आकर्ण-पूर्णैः अहनत् आक्षेपैः आह तम् पुनः
एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विप: ॥ ११ ॥
एवम् निराकृतः देवः वैरिणा तथ्य-वादिना न अमृष्यत् तत् अधिक्षेपम् तोत्र आहतः इव द्विपः
प्राहरत् कुलिशं तस्मा अमोघं परमर्दन: ।
सयानो न्यपतद् भूमौ छिन्नपक्ष इवाचल: ॥ १२ ॥
प्राहरत् कुलिशम् तस्मै अमोघम् पर-मर्दनः स-यानः न्यपतत् भूमौ छिन्न-पक्षः इव अचलः
सखायं पतितं दृष्ट्वा जम्भो बलिसख: सुहृत् ।
अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् ॥ १३ ॥
सखायम् पतितम् दृष्ट्वा जम्भः बलि-सखः सुहृत् अभ्ययात् सौहृदम् सख्युः हतस्य अपि समाचरन्
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा ।
जत्रावताडयच्छक्रं गजं च सुमहाबल: ॥ १४ ॥
सः सिंह-वाहः आसाद्य गदाम् उद्यम्य रंहसा जत्रौ अताडयत् शक्रम् गजम् च सु-महा-बलः
गदाप्रहारव्यथितो भृशं विह्वलितो गज: ।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ १५ ॥
गदा-प्रहार-व्यथितः भृशम् विह्वलितः गजः जानुभ्याम् धरणीम् स्पृष्ट्वा कश्मलम् परमम् ययौ
ततो रथो मातलिना हरिभिर्दशशतैर्वृत: ।
आनीतो द्विपमुत्सृज्य रथमारुरुहे विभु: ॥ १६ ॥
ततः रथः मातलिना हरिभिः दश-शतैः वृतः आनीतः द्विपम् उत्सृज्य रथम् आरुरुहे विभुः
तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तम: ।
शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥ १७ ॥
तस्य तत् पूजयन् कर्म यन्तुः दानव-सत्-तमः शूलेन ज्वलता तम् तु स्मयमानः अहनत् मृधे
सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलि: ।
इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिर: ॥ १८ ॥
सेहे रुजम् सु-दुर्मर्षाम् सत्त्वम् आलम्ब्य मातलिः इन्द्रः जम्भस्य सङ्क्रुद्धः वज्रेण अपाहरत् शिरः
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषे: ।
नमुचिश्च बल: पाकस्तत्रापेतुस्त्वरान्विता: ॥ १९ ॥
जम्भम् श्रुत्वा हतम् तस्य ज्ञातयः नारदात् ऋषेः नमुचिः च बलः पाकः तत्र आपेतुः त्वरा-अन्विताः
वचोभि: परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु ।
शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ २० ॥
वचोभिः परुषैः इन्द्रम् अर्दयन्तः अस्य मर्मसु शरैः अवाकिरन् मेघाः धाराभिः इव पर्वतम्
हरीन्दशशतान्याजौ हर्यश्वस्य बल: शरै: ।
तावद्भिरर्दयामास युगपल्लघुहस्तवान् ॥ २१ ॥
हरीन् दश-शतानि आजौ हर्यश्वस्य बलः शरैः तावद्भिः अर्दयाम् आस युगपत् लघु-हस्तवान्
शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
सकृत्सन्धानमोक्षेण तदद्भुतमभूद् रणे ॥ २२ ॥
शताभ्याम् मातलिम् पाकः रथम् स-अवयवम् पृथक् सकृत् सन्धान मोक्षेण तत् अद्भुतम् अभूत् रणे
नमुचि: पञ्चदशभि: स्वर्णपुङ्खैर्महेषुभि: ।
आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयद: ॥ २३ ॥
नमुचिः पञ्च-दशभिः स्वर्ण-पुङ्खैः महा-इषुभिः आहत्य व्यनदत् सङ्ख्ये स-तोयः इव तोय-दः
सर्वत: शरकूटेन शक्रं सरथसारथिम् ।
छादयामासुरसुरा: प्रावृट्सूर्यमिवाम्बुदा: ॥ २४ ॥
सर्वतः शर-कूटेन शक्रम् स-रथ सारथिम् छादयाम् आसुः असुराः प्रावृट् सूर्यम् इव अम्बु-दाः
अलक्षयन्तस्तमतीव विह्वला
विचुक्रुशुर्देवगणा: सहानुगा: ।
अनायका: शत्रुबलेन निर्जिता
वणिक्पथा भिन्ननवो यथार्णवे ॥ २५ ॥
अलक्षयन्तः तम् अतीव विह्वलाः विचुक्रुशुः देव-गणाः सह-अनुगाः अनायकाः शत्रु-बलेन निर्जिताः वणिक्-पथाः भिन्न-नवः यथा अर्णवे
ततस्तुराषाडिषुबद्धपञ्जराद्
विनिर्गत: साश्वरथध्वजाग्रणी: ।
बभौ दिश: खं पृथिवीं च रोचयन्
स्वतेजसा सूर्य इव क्षपात्यये ॥ २६ ॥
ततः तुराषाट् इषु-बद्ध-पञ्जरात् विनिर्गतः स अश्व रथ ध्वज अग्रणीः बभौ दिशः खम् पृथिवीम् च रोचयन् स्व-तेजसा सूर्यः इव क्षपा-अत्यये
निरीक्ष्य पृतनां देव: परैरभ्यर्दितां रणे ।
उदयच्छद् रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ २७ ॥
निरीक्ष्य पृतनाम् देवः परैः अभ्यर्दिताम् रणे उदयच्छत् रिपुम् हन्तुम् वज्रम् वज्र-धरः रुषा
स तेनैवाष्टधारेण शिरसी बलपाकयो: ।
ज्ञातीनां पश्यतां राजञ्जहार जनयन्भयम् ॥ २८ ॥
सः तेन एव अष्ट-धारेण शिरसी बल-पाकयोः ज्ञातीनाम् पश्यताम् राजन् जहार जनयन् भयम्
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वित: ।
जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ २९ ॥
नमुचिः तत् वधम् दृष्ट्वा शोक-अमर्ष रुषा-अन्वितः जिघांसुः इन्द्रम् नृ-पते चकार परम उद्यमम्
अश्मसारमयं शूलं घण्टावद्धेमभूषणम् ।
प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन् ।
प्राहिणोद् देवराजाय निनदन् मृगराडिव ॥ ३० ॥
अश्मसार-मयम् शूलम् घण्टा-वत् हेम-भूषणम् प्रगृह्य अभ्यद्रवत् क्रुद्धः हतः असि इति वितर्जयन् प्राहिणोत् देव-राजाय निनदन् मृग-राट् इव
तदापतद् गगनतले महाजवंविचिच्छिदे हरिरिषुभि: सहस्रधा ।
तमाहनन्नृप कुलिशेन
कन्धरेरुषान्वितस्त्रिदशपति: शिरो हरन् ॥ ३१ ॥
तदा अपतत् गगन-तले महा-जवम् विचिच्छिदे हरिः इषुभिः सहस्रधा तम् आहनत् नृप कुलिशेन कन्धरे रुषा-अन्वितः त्रिदश-पतिः शिरः हरन्
न तस्य हि त्वचमपि वज्र ऊर्जितो
बिभेद य: सुरपतिनौजसेरित: ।
तदद्भुतं परमतिवीर्यवृत्रभित्
तिरस्कृतो नमुचिशिरोधरत्वचा ॥ ३२ ॥
न तस्य हि त्वचम् अपि वज्रः ऊर्जितः बिभेद यः सुर-पतिना ओजसा ईरितः तत् अद्भुतम् परम् अतिवीर्य-वृत्र-भित् तिरस्कृतः नमुचि-शिरोधर-त्वचा
तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्र: प्रतिहतो यत: ।
किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ ३३ ॥
तस्मात् इन्द्रः अबिभेत् शत्रोः वज्रः प्रतिहतः यतः किम् इदम् दैव-योगेन भूतम् लोक-विमोहनम्
येन मे पूर्वमद्रीणां पक्षच्छेद: प्रजात्यये ।
कृतो निविशतां भारै: पतत्त्रै: पततां भुवि ॥ ३४ ॥
येन मे पूर्वम् अद्रीणाम् पक्ष-च्छेदः प्रजा-अत्यये कृतः निविशताम् भारैः पतत्त्रैः पतताम् भुवि
तप:सारमयं त्वाष्ट्रं वृत्रो येन विपाटित: ।
अन्ये चापि बलोपेता: सर्वास्त्रैरक्षतत्वच: ॥ ३५ ॥
तपः सार-मयम् त्वाष्ट्रम् वृत्रः येन विपाटितः अन्ये च अपि बल-उपेताः सर्व अस्त्रैः अक्षत त्वचः
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।
नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ॥ ३६ ॥
सः अयम् प्रतिहतः वज्रः मया मुक्तः असुरे अल्पके न अहम् तत् आददे दण्डम् ब्रह्म-तेजः अपि अकारणम्
इति शक्रं विषीदन्तमाह वागशरीरिणी ।
नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानव: ॥ ३७ ॥
इति शक्रम् विषीदन्तम् आह वाक् अशरीरिणी न अयम् शुष्कैः अथो न आर्द्रैः वधम् अर्हति दानवः
मयास्मै यद् वरो दत्तो मृत्युर्नैवार्द्रशुष्कयो: ।
अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपो: ॥ ३८ ॥
मया अस्मै यत् वरः दत्तः मृत्युः न एव आर्द्र शुष्कयोः अतः अन्यः चिन्तनीयः ते उपायः मघवन् रिपोः
तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहित: ।
ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ ३९ ॥
ताम् दैवीम् गिरम् आकर्ण्य मघवान् सु-समाहितः ध्यायन् फेनम् अथ अपश्यत् उपायम् उभय-आत्मकम्
न शुष्केण न चार्द्रेण जहार नमुचे: शिर: ।
तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ॥ ४० ॥
न शुष्केण न च आर्द्रेण जहार नमुचेः शिरः तम् तुष्टुवुः मुनि-गणाः माल्यैः च अवाकिरन् विभुम्
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू ।
देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ ४१ ॥
गन्धर्व-मुख्यौ जगतुः विश्वावसु परावसू देव-दुन्दुभयः नेदुः नर्तक्यः ननृतुः मुदा
अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वग्निवरुणादय: ।
सूदयामासुरसुरान् मृगान्केसरिणो यथा ॥ ४२ ॥
अन्ये अपि एवम् प्रतिद्वन्द्वान् वायु अग्नि वरुण-आदयः सूदयाम् आसुः असुरान् मृगान् केसरिणः यथा
ब्रह्मणा प्रेषितो देवान्देवर्षिर्नारदो नृप ।
वारयामास विबुधान्दृष्ट्वा दानवसङ्क्षयम् ॥ ४३ ॥
ब्रह्मणा प्रेषितः देवान् देव-ऋषिः नारदः नृप वारयाम् आस विबुधान् दृष्ट्वा दानव-सङ्क्षयम्
श्रीनारद उवाच
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयै: ।
श्रिया समेधिता: सर्व उपारमत विग्रहात् ॥ ४४ ॥
श्री-नारदः उवाच भवद्भिः अमृतम् प्राप्तम् नारायण भुज-आश्रयैः श्रिया समेधिताः सर्वे उपारमत विग्रहात्
श्रीशुक उवाच
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वच: ।
उपगीयमानानुचरैर्ययु: सर्वे त्रिविष्टपम् ॥ ४५ ॥
श्री-शुकः उवाच संयम्य मन्यु संरम्भम् मानयन्तः मुनेः वचः उपगीयमान अनुचरैः ययुः सर्वे त्रिविष्टपम्
येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ ४६ ॥
ये अवशिष्टाः रणे तस्मिन् नारद-अनुमतेन ते बलिम् विपन्नम् आदाय अस्तम् गिरिम् उपागमन्
तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
उशना जीवयामास संजीवन्या स्वविद्यया ॥ ४७ ॥
तत्र अविनष्ट-अवयवान् विद्यमान-शिरोधरान् उशनाः जीवयाम् आस संजीवन्या स्व-विद्यया
बलिश्चोशनसा स्पृष्ट: प्रत्यापन्नेन्द्रियस्मृति: ।
पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षण: ॥ ४८ ॥
बलिः च उशनसा स्पृष्टः प्रत्यापन्न इन्द्रिय-स्मृतिः पराजितः अपि न अखिद्यत् लोक-तत्त्व-विचक्षणः
८.१२
श्रीबादरायणिरुवाच
वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् ।
मोहयित्वा सुरगणान्हरि: सोममपाययत् ॥ १ ॥
वृषमारुह्य गिरिश: सर्वभूतगणैर्वृत: ।
सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदन: ॥ २ ॥
श्री-बादरायणिः उवाच वृष-ध्वजः निशम्य इदम् योषित्-रूपेण दानवान् मोहयित्वा सुर-गणान् हरिः सोमम् अपाययत् वृषम् आरुह्य गिरिशः सर्व भूत-गणैः वृतः सह देव्या ययौ द्रष्टुम् यत्र आस्ते मधुसूदनः
सभाजितो भगवता सादरं सोमया भव: ।
सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥ ३ ॥
सभाजितः भगवता स-आदरम् स-उमया भवः सु-उपविष्टः उवाच इदम् प्रतिपूज्य स्मयन् हरिम्
श्रीमहादेव उवाच
देवदेव जगद्वयापिञ्जगदीश जगन्मय ।
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वर: ॥ ४ ॥
श्री-महादेवः उवाच देव-देव जगत्-व्यापिन् जगत्-ईश जगत्-मय सर्वेषाम् अपि भावानाम् त्वम् आत्मा हेतुः ईश्वरः
आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहि: ।
यतोऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद्भवान् ॥ ५ ॥
आदि अन्तौ अस्य यत् मध्यम् इदम् अन्यत् अहम् बहिः यतः अव्ययस्य न एतानि तत् सत्यम् ब्रह्म चित् भवान्
तवैव चरणाम्भोजं श्रेयस्कामा निराशिष: ।
विसृज्योभयत: सङ्गं मुनय: समुपासते ॥ ६ ॥
तव एव चरण-अम्भोजम् श्रेयः-कामाः निराशिषः विसृज्य उभयतः सङ्गम् मुनयः समुपासते
त्वं ब्रह्म पूर्णममृतं विगुणं विशोक-
मानन्दमात्रमविकारमनन्यदन्यत् ।
विश्वस्य हेतुरुदयस्थितिसंयमाना-
मात्मेश्वरश्च तदपेक्षतयानपेक्ष: ॥ ७ ॥
त्वम् ब्रह्म पूर्णम् अमृतम् विगुणम् विशोकम् आनन्द-मात्रम् अविकारम् अनन्यत् अन्यत् विश्वस्य हेतुः उदय स्थिति संयमानाम् आत्म-ईश्वरः च तत्-अपेक्षतया अनपेक्षः
एकस्त्वमेव सदसद्द्वयमद्वयं च
स्वर्णं कृताकृतमिवेह न वस्तुभेद: ।
अज्ञानतस्त्वयि जनैर्विहितो विकल्पो
यस्माद् गुणव्यतिकरो निरुपाधिकस्य ॥ ८ ॥
एकः त्वम् एव सत् असत् द्वयम् अद्वयम् च स्वर्णम् कृत आकृतम् इव इह न वस्तु-भेदः अज्ञानतः त्वयि जनैः विहितः विकल्पः यस्मात् गुण-व्यतिकरः निरुपाधिकस्य
त्वां ब्रह्म केचिदवयन्त्युत धर्ममेकेएके परं सदसतो: पुरुषं परेशम् ।
अन्येऽवयन्ति नवशक्तियुतं परं
त्वांकेचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९ ॥
त्वाम् ब्रह्म केचित् अवयन्ति उत धर्मम् एके एके परम् सत्-असतोः पुरुषम् परेशम् अन्ये अवयन्ति नव-शक्ति-युतम् परम् त्वाम् केचित् महा-पुरुषम् अव्ययम् आत्म-तन्त्रम्
नाहं परायुर्ऋषयो न मरीचिमुख्याजानन्ति यद्विरचितं खलु सत्त्वसर्गा: ।
यन्मायया मुषितचेतस
ईश दैत्य-मर्त्यादय: किमुत शश्वदभद्रवृत्ता: ॥ १० ॥
न अहम् पर-आयुः ऋषयः न मरीचि-मुख्याः जानन्ति यत् विरचितम् खलु सत्त्व-सर्गाः यत्-मायया मुषित-चेतसः ईश दैत्य मर्त्य-आदयः किम् उत शश्वत् अभद्र-वृत्ताः
स त्वं समीहितमद: स्थितिजन्मनाशंभूतेहितं च जगतो भवबन्धमोक्षौ ।
वायुर्यथा विशति खं च
चराचराख्यंसर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११ ॥
सः त्वम् समीहितम् अदः स्थिति-जन्म-नाशम् भूत ईहितम् च जगतः भव-बन्ध-मोक्षौ वायुः यथा विशति खम् च चर-अचर-आख्यम् सर्वम् तत् आत्मकतया अवगमः अवरुन्त्से
अवतारा मया दृष्टा रममाणस्य ते गुणै: ।
सोऽहं तद्द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम् ॥ १२
॥
अवताराः मया दृष्टाः रममाणस्य ते गुणैः सः अहम् तत् द्रष्टुम् इच्छामि यत् ते योषित्-वपुः धृतम्
येन सम्मोहिता दैत्या: पायिताश्चामृतं सुरा: ।
तद् दिदृक्षव आयाता: परं कौतूहलं हि न: ॥
१३ ॥
येन सम्मोहिताः दैत्याः पायिताः च अमृतम् सुराः तत् दिदृक्षवः आयाताः परम् कौतूहलम् हि नः
श्रीशुक उवाच
एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना ।
प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४ ॥
श्री-शुकः उवाच एवम् अभ्यर्थितः विष्णुः भगवान् शूल-पाणिना प्रहस्य भाव-गम्भीरम् गिरिशम् प्रत्यभाषत
श्रीभगवानुवाच
कौतूहलाय दैत्यानां योषिद्वेषो मया धृत: ।
पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५ ॥
श्री-भगवान् उवाच कौतूहलाय दैत्यानाम् योषित्-वेषः मया धृतः पश्यता सुर-कार्याणि गते पीयूष-भाजने
तत्तेऽहं दर्शयिष्यामि दिदृक्षो: सुरसत्तम ।
कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् ॥ १६ ॥
तत् ते अहम् दर्शयिष्यामि दिदृक्षोः सुर-सत्तम कामिनाम् बहु मन्तव्यम् सङ्कल्प प्रभव-उदयम्
श्रीशुक उवाच
इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।
सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥ १७ ॥
श्री-शुकः उवाच इति ब्रुवाणः भगवान् तत्र एव अन्तरधीयत सर्वतः चारयन् चक्षुः भवः आस्ते सह-उमया
ततो ददर्शोपवने वरस्त्रियंविचित्रपुष्पारुणपल्लवद्रुमे ।
विक्रीडतीं कन्दुकलीलया
लसद्-दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८ ॥
ततः ददर्श उपवने वर-स्त्रियम् विचित्र पुष्प अरुण पल्लव द्रुमे विक्रीडतीम् कन्दुक लीलया लसत् दुकूल पर्यस्त नितम्ब मेखलाम्
आवर्तनोद्वर्तनकम्पितस्तन-प्रकृष्टहारोरुभरै: पदे पदे ।
प्रभज्यमानामिव मध्यतश्चलत्-पदप्रवालं
नयतीं ततस्तत: ॥ १९ ॥
आवर्तन उद्वर्तन कम्पित स्तन प्रकृष्ट हार उरु-भरैः पदे पदे प्रभज्यमानाम् इव मध्यतः चलत् पद-प्रवालम् नयतीम् ततः ततः
दिक्षु भ्रमत्कन्दुकचापलैर्भृशंप्रोद्विग्नतारायतलोललोचनाम् ।
स्वकर्णविभ्राजितकुण्डलोल्लसत्-कपोलनीलालकमण्डिताननाम् ॥ २० ॥
दिक्षु भ्रमत् कन्दुक चापलैः भृशम् प्रोद्विग्न तार आयत लोल लोचनाम् स्व-कर्ण विभ्राजित कुण्डल उल्लसत् कपोल नील अलक मण्डित आननाम्
श्लथद् दुकूलं कबरीं च विच्युतांसन्नह्यतीं वामकरेण वल्गुना ।
विनिघ्नतीमन्यकरेण
कन्दुकंविमोहयन्तीं जगदात्ममायया ॥ २१ ॥
श्लथत् दुकूलम् कबरीम् च विच्युताम् सन्नह्यतीम् वाम-करेण वल्गुना विनिघ्नतीम् अन्य-करेण कन्दुकम् विमोहयन्तीम् जगत् आत्म-मायया
तां वीक्ष्य देव इति कन्दुकलीलयेषद्-व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्ट: ।
स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मानात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥
ताम् वीक्ष्य देवः इति कन्दुक-लीलया ईषत् व्रीडा अस्फुट स्मित विसृष्ट कटाक्ष-मुष्टः स्त्री-प्रेक्षण प्रतिसमीक्षण विह्वल-आत्मा न आत्मानम् अन्तिके उमाम् स्व-गणान् च वेद
तस्या: कराग्रात् स तु कन्दुको यदागतो विदूरं तमनुव्रजत्स्त्रिया: ।
वास: ससूत्रं लघु
मारुतोऽहरद्भवस्य देवस्य किलानुपश्यत: ॥ २३ ॥
तस्याः कर-अग्रात् सः तु कन्दुकः यदा गतः विदूरम् तम् अनुव्रजत् स्त्रियाः वासः स-सूत्रम् लघु मारुतः अहरत् भवस्य देवस्य किल अनुपश्यतः
एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।
दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भव: किल ॥
२४ ॥
एवम् ताम् रुचिर-अपाङ्गीम् दर्शनीयाम् मनोरमाम् दृष्ट्वा तस्याम् मनः चक्रे विषज्जन्त्याम् भवः किल
तयापहृतविज्ञानस्तत्कृतस्मरविह्वल: ।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५ ॥
तया अपहृत विज्ञानः तत्-कृत स्मर विह्वलः भवान्याः अपि पश्यन्त्याः गत-ह्रीः तत्-पदम् ययौ
सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।
निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥
२६ ॥
सा तम् आयान्तम् आलोक्य विवस्त्रा व्रीडिता भृशम् निलीयमाना वृक्षेषु हसन्ती न अन्वतिष्ठत
तामन्वगच्छद् भगवान् भव: प्रमुषितेन्द्रिय: ।
कामस्य च वशं नीत: करेणुमिव यूथप: ॥ २७ ॥
ताम् अन्वगच्छत् भगवान् भवः प्रमुषित-इन्द्रियः कामस्य च वशम् नीतः करेणुम् इव यूथपः
सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।
केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥
सः अनुव्रज्य अति-वेगेन गृहीत्वा अनिच्छतीम् स्त्रियम् केश-बन्धे उपानीय बाहुभ्याम् परिषस्वजे
सोपगूढा भगवता करिणा करिणी यथा ।
इतस्तत: प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥
आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् ।
प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३०
॥
सा उपगूढा भगवता करिणा करिणी यथा इतः ततः प्रसर्पन्ती विप्रकीर्ण शिरोरुहा आत्मानम् मोचयित्वा अङ्ग सुर-ऋषभ भुज-अन्तरात् प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता
तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मण: ।
प्रत्यपद्यत कामेन वैरिणेव विनिर्जित: ॥ ३१ ॥
तस्य असौ पदवीम् रुद्रः विष्णोः अद्भुत-कर्मणः प्रत्यपद्यत कामेन वैरिणा इव विनिर्जितः
तस्यानुधावतो रेतश्चस्कन्दामोघरेतस: ।
शुष्मिणो यूथपस्येव वासितामनुधावत: ॥ ३२ ॥
तस्य अनुधावतः रेतः चस्कन्द अमोघ-रेतसः शुष्मिणः यूथपस्य इव वासिताम् अनुधावतः
यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मन: ।
तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते ॥ ३३ ॥
यत्र यत्र अपतत् मह्याम् रेतः तस्य महा-आत्मनः तानि रूप्यस्य हेम्नः च क्षेत्राणि आसन् मही-पते
सरित्सर:सु शैलेषु वनेषूपवनेषु च ।
यत्र क्व चासन्नृषयस्तत्र सन्निहितो हर: ॥ ३४ ॥
सरित् सरःसु शैलेषु वनेषु उपवनेषु च यत्र क्व च आसन् ऋषयः तत्र सन्निहितः हरः
स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया ।
जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५ ॥
स्कन्ने रेतसि सः अपश्यत् आत्मानम् देव-मायया जडीकृतम् नृप-श्रेष्ठ सन्न्यवर्तत कश्मलात्
अथावगतमाहात्म्य आत्मनो जगदात्मन: ।
अपरिज्ञेयवीर्यस्य न मेने तदुहाद्भुतम् ॥ ३६ ॥
अथ अवगत माहात्म्यः आत्मनः जगत्-आत्मनः अपरिज्ञेय-वीर्यस्य न मेने तत् उ ह अद्भुतम्
तमविक्लवमव्रीडमालक्ष्य मधुसूदन: ।
उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम् ॥ ३७ ॥
तम् अविक्लवम् अव्रीडम् आलक्ष्य मधु-सूदनः उवाच परम-प्रीतः बिभ्रत् स्वाम् पौरुषीम् तनुम्
श्रीभगवानुवाच
दिष्टया त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थित: ।
यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग
मायया ॥ ३८ ॥
श्री-भगवान् उवाच दिष्ट्या त्वम् विबुध-श्रेष्ठ स्वाम् निष्ठाम् आत्मना स्थितः यत् मे स्त्री-रूपया स्वैरम् मोहितः अपि अङ्ग मायया
को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।
तांस्तान्विसृजतीं भावान्दुस्तरामकृतात्मभि: ॥ ३९
॥
कः नु मे अतितरेत् मायाम् विषक्तः त्वत्-ऋते पुमान् तान् तान् विसृजतीम् भावान् दुस्तराम् अकृत-आत्मभिः
सेयं गुणमयी माया न त्वामभिभविष्यति ।
मया समेता कालेन कालरूपेण भागश: ॥ ४० ॥
सा इयम् गुण-मयी माया न त्वाम् अभिभविष्यति मया समेता कालेन काल-रूपेण भागशः
श्रीशुक उवाच
एवं भगवता राजन् श्रीवत्साङ्केन सत्कृत: ।
आमन्त्र्य तं परिक्रम्य सगण: स्वालयं ययौ ॥ ४१ ॥
श्री-शुकः उवाच एवम् भगवता राजन् श्रीवत्स-अङ्केन सत्-कृतः आमन्त्र्य तम् परिक्रम्य स-गणः स्व-आलयम् ययौ
आत्मांशभूतां तां मायां भवानीं भगवान्भव: ।
सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥
आत्म-अंश-भूताम् ताम् मायाम् भवानीम् भगवान् भवः सम्मताम् ऋषि-मुख्यानाम् प्रीत्या आचष्ट अथ भारत
अयि व्यपश्यस्त्वमजस्य मायांपरस्य पुंस: परदेवताया: ।
अहं कलानामृषभोऽपि मुह्येययावशोऽन्ये
किमुतास्वतन्त्रा: ॥ ४३ ॥
अयि व्यपश्यः त्वम् अजस्य मायाम् परस्य पुंसः पर-देवतायाः अहम् कलानाम् ऋषभः अपि मुह्ये यया अवशः अन्ये किम् उत अस्वतन्त्राः
यं मामपृच्छस्त्वमुपेत्य योगात्समासहस्रान्त उपारतं वै ।
स एष साक्षात् पुरुष: पुराणोन यत्र
कालो विशते न वेद: ॥ ४४ ॥
यम् माम् अपृच्छः त्वम् उपेत्य योगात् समा सहस्र-अन्ते उपारतम् वै सः एषः साक्षात् पुरुषः पुराणः न यत्र कालः विशते न वेदः
श्रीशुक उवाच
इति तेऽभिहितस्तात विक्रम: शार्ङ्गधन्वन: ।
सिन्धोर्निर्मथने येन धृत: पृष्ठे महाचल: ॥ ४५
॥
श्री-शुकः उवाच इति ते अभिहितः तात विक्रमः शार्ङ्ग-धन्वनः सिन्धोः निर्मथने येन धृतः पृष्ठे महा-अचलः
एतन्मुहु: कीर्तयतोऽनुशृण्वतो
न रिष्यते जातु समुद्यम: क्वचित् ।
यदुत्तमश्लोकगुणानुवर्णनं
समस्तसंसारपरिश्रमापहम् ॥ ४६ ॥
एतत् मुहुः कीर्तयतः अनुशृण्वतः न रिष्यते जातु समुद्यमः क्वचित् यत् उत्तमश्लोक गुण-अनुवर्णनम् समस्त संसार परिश्रम अपहम्
असदविषयमङ्घ्रिं भावगम्यं प्रपन्ना-
नमृतममरवर्यानाशयत् सिन्धुमथ्यम् ।
कपटयुवतिवेषो मोहयन्य: सुरारीं-
स्तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७ ॥
असत्-अविषयम् अङ्घ्रिम् भाव-गम्यम् प्रपन्नान् अमृतम् अमर-वर्यान् आशयत् सिन्धु-मथ्यम् कपट-युवति-वेषः मोहयन् यः सुर-अरीन् तम् अहम् उपसृतानाम् काम-पूरम् नतः अस्मि
८.१३
श्रीशुक उवाच
मनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: ।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥ १ ॥
श्री-शुकः उवाच मनुः विवस्वतः पुत्रः श्राद्धदेवः इति श्रुतः सप्तमः वर्तमानः यः तत् अपत्यानि मे शृणु
इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥ २ ॥
तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृत: ।
मनोर्वैवस्वतस्यैते दशपुत्रा: परन्तप ॥ ३ ॥
इक्ष्वाकुः नभगः च एव धृष्टः शर्यातिः एव च नरिष्यन्तः अथ नाभागः सप्तमः दिष्टः उच्यते तरूषः च पृषध्रः च दशमः वसुमान् स्मृतः मनोः वैवस्वतस्य एते दश-पुत्राः परन्तप
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा: ।
अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दर: ॥ ४ ॥
आदित्याः वसवः रुद्राः विश्वेदेवाः मरुत्-गणाः अश्विनौ ऋभवः राजन् इन्द्रः तेषाम् पुरन्दरः
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतम: ।
जमदग्निर्भरद्वाज इति सप्तर्षय: स्मृता: ॥ ५ ॥
कश्यपः अत्रिः वसिष्ठः च विश्वामित्रः अथ गौतमः जमदग्निः भरद्वाजः इति सप्त-ऋषयः स्मृताः
अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६ ॥
अत्र अपि भगवत्-जन्म कश्यपात् अदितेः अभूत् आदित्यानाम् अवर-जः विष्णुः वामन-रूप-धृक्
सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते ।
भविष्याण्यथ वक्ष्यामि विष्णो: शक्त्यान्वितानि च ॥ ७ ॥
सङ्क्षेपतः मया उक्तानि सप्त मनु-अन्तराणि ते भविष्याणि अथ वक्ष्यामि विष्णोः शक्त्या अन्वितानि च
विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे ।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ ८ ॥
विवस्वतः च द्वे जाये विश्वकर्म-सुते उभे संज्ञा छाया च राज-इन्द्र ये प्राक् अभिहिते तव
तृतीयां वडवामेके तासां संज्ञासुतास्त्रय: ।
यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥ ९ ॥
तृतीयाम् वडवाम् एके तासाम् संज्ञा-सुताः त्रयः यमः यमी श्राद्धदेवः छायायाः च सुतान् शृणु
सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥ १० ॥
सावर्णिः तपती कन्या भार्या संवरणस्य या शनैश्चरः तृतीयः अभूत् अश्विनौ वडवा-आत्म-जौ
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनु: ।
निर्मोकविरजस्काद्या: सावर्णितनया नृप ॥ ११ ॥
अष्टमे अन्तरे आयाते सावर्णिः भविता मनुः निर्मोक विरजस्क-आद्याः सावर्णि तनयाः नृप
तत्र देवा: सुतपसो विरजा अमृतप्रभा: ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥
तत्र देवाः सुतपसः विरजाः अमृतप्रभाः तेषाम् विरोचन-सुतः बलिः इन्द्रः भविष्यति
दत्त्वेमां याचमानाय विष्णवे य: पदत्रयम् ।
राद्धमिन्द्रपदं हित्वा तत: सिद्धिमवाप्स्यति ॥ १३ ॥
दत्त्वा इमाम् याचमानाय विष्णवे यः पद-त्रयम् राद्धम् इन्द्र-पदम् हित्वा ततः सिद्धिम् अवाप्स्यति
योऽसौ भगवता बद्ध: प्रीतेन सुतले पुन: ।
निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव ॥ १४ ॥
यः असौ भगवता बद्धः प्रीतेन सुतले पुनः निवेशितः अधिके स्वर्गात् अधुना आस्ते स्व-राट् इव
गालवो दीप्तिमान्रामो द्रोणपुत्र: कृपस्तथा ।
ऋष्यशृङ्ग: पितास्माकं भगवान्बादरायण: ॥ १५ ॥
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगत: ।
इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ १६ ॥
गालवः दीप्तिमान् रामः द्रोण-पुत्रः कृपः तथा ऋष्यशृङ्गः पिता अस्माकम् भगवान् बादरायणः इमे सप्त-ऋषयः तत्र भविष्यन्ति स्व-योगतः इदानीम् आसते राजन् स्वे स्वे आश्रम-मण्डले
देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभु: ।
स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वर: ॥ १७ ॥
देवगुह्यात् सरस्वत्याम् सार्वभौमः इति प्रभुः स्थानम् पुरन्दरात् हृत्वा बलये दास्यति ईश्वरः
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८ ॥
नवमः दक्ष-सावर्णिः मनुः वरुण-सम्भवः भूतकेतुः दीप्तकेतुः इति आद्याः तत् सुताः नृप
पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥ १९ ॥
पारा मरीचिगर्भ आद्याः देवाः इन्द्रः अद्भुतः स्मृतः द्युतिमत् प्रमुखाः तत्र भविष्यन्ति ऋषयः ततः
आयुष्मतोऽम्बुधारायामृषभो भगवत्कला ।
भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुत: ॥ २० ॥
आयुष्मतः अम्बुधारायाम् ऋषभः भगवत्-कला भविता येन संराद्धाम् त्रि-लोकीम् भोक्ष्यते अद्भुतः
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनु: ।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजा: ॥ २१ ॥
दशमः ब्रह्म-सावर्णिः उपश्लोक-सुतः मनुः तत्-सुताः भूरिषेण-आद्याः हविष्मत् प्रमुखाः द्विजाः
हविष्मान्सुकृत: सत्यो जयो मूर्तिस्तदा द्विजा: ।
सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥ २२ ॥
हविष्मान् सुकृतः सत्यः जयः मूर्तिः तदा द्विजाः सुवासन विरुद्ध आद्याः देवाः शम्भुः सुर-ईश्वरः
विष्वक्सेनो विषूच्यां तु शम्भो: सख्यं करिष्यति ।
जात: स्वांशेन भगवान्गृहे विश्वसृजो विभु: ॥ २३ ॥
विष्वक्सेनः विषूच्याम् तु शम्भोः सख्यम् करिष्यति जातः स्व-अंशेन भगवान् गृहे विश्वसृजः विभुः
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् ।
अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ २४ ॥
मनुः वै धर्म-सावर्णिः एकादशमः आत्मवान् अनागताः तत् सुताः च सत्यधर्म-आदयः दश
विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥ २५ ॥
विहङ्गमाः कामगमाः निर्वाणरुचयः सुराः इन्द्रः च वैधृतः तेषाम् ऋषयः च अरुण-आदयः
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृत: ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २६ ॥
आर्यकस्य सुतः तत्र धर्मसेतुः इति स्मृतः वैधृतायाम् हरेः अंशः त्रि-लोकीम् धारयिष्यति
भविता रुद्रसावर्णी राजन्द्वादशमो मनु: ।
देववानुपदेवश्च देवश्रेष्ठादय: सुता: ॥ २७ ॥
भविता रुद्र-सावर्णिः राजन् द्वादशमः मनुः देववान् उपदेवः च देवश्रेष्ठ आदयः सुताः
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादय: ।
ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादय: ॥ २८ ॥
ऋतधामा च तत्र इन्द्रः देवाः च हरित-आदयः ऋषयः च तपोमूर्तिः तपस्वी आग्नीध्रक आदयः
स्वधामाख्यो हरेरंश: साधयिष्यति तन्मनो: ।
अन्तरं सत्यसहस: सुनृताया: सुतो विभु: ॥ २९ ॥
स्वधामा-आख्यः हरेः अंशः साधयिष्यति तत्-मनोः अन्तरम् सत्यसहसः सुनृतायाः सुतः विभुः
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।
चित्रसेनविचित्राद्या देवसावर्णिदेहजा: ॥ ३० ॥
मनुः त्रयोदशः भाव्यः देव-सावर्णिः आत्मवान् चित्रसेन विचित्र-आद्याः देव-सावर्णि देह-जाः
देवा: सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पति: ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३१ ॥
देवाः सुकर्म सुत्राम-संज्ञाः इन्द्रः दिवस्पतिः निर्मोक तत्त्वदर्श-आद्याः भविष्यन्ति ऋषयः तदा
देवहोत्रस्य तनय उपहर्ता दिवस्पते: ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ ३२ ॥
देवहोत्रस्य तनयः उपहर्ता दिवस्पतेः योग-ईश्वरः हरेः अंशः बृहत्याम् सम्भविष्यति
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।
उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजा: ॥ ३३ ॥
मनुः वा इन्द्र-सावर्णिः चतुर्दशमः एष्यति उरु गम्भीर बुध-आद्याः इन्द्र-सावर्णि वीर्य-जाः
पवित्राश्चाक्षुषा देवा: शुचिरिन्द्रो भविष्यति ।
अग्निर्बाहु: शुचि: शुद्धो मागधाद्यास्तपस्विन: ॥ ३४ ॥
पवित्राः चाक्षुषाः देवाः शुचिः इन्द्रः भविष्यति अग्निः बाहुः शुचिः शुद्धः मागध आद्याः तपस्विनः
सत्रायणस्य तनयो बृहद्भानुस्तदा हरि: ।
वितानायां महाराज क्रियातन्तून्वितायिता ॥ ३५ ॥
सत्रायणस्य तनयः बृहद्भानुः तदा हरिः वितानायाम् महा-राज क्रिया-तन्तून् वितायिता
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तान्येभिर्मित: कल्पो युगसाहस्रपर्यय: ॥ ३६ ॥
राजन् चतुर्दश एतानि त्रि-काल अनुगतानि ते प्रोक्तानि एभिः मितः कल्पः युग-साहस्र पर्ययः
८.१४
श्रीराजोवाच
मन्वन्तरेषु भगवन्यथा मन्वादयस्त्विमे ।
यस्मिन्कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ १ ॥
श्री-राजा उवाच मन्वन्तरेषु भगवन् यथा मनु-आदयः तु इमे यस्मिन् कर्मणि ये येन नियुक्ताः तत् वदस्व मे
श्रीऋषिरुवाच
मनवो मनुपुत्राश्च मुनयश्च महीपते ।
इन्द्रा: सुरगणाश्चैव सर्वे पुरुषशासना: ॥ २ ॥
श्री-ऋषिः उवाच मनवः मनु-पुत्राः च मुनयः च मही-पते इन्द्राः सुर-गणाः च एव सर्वे पुरुष-शासनाः
यज्ञादयो या: कथिता: पौरुष्यस्तनवो नृप ।
मन्वादयो जगद्यात्रां नयन्त्याभि: प्रचोदिता: ॥ ३ ॥
यज्ञ-आदयः याः कथिताः पौरुष्यः तनवः नृप मनु-आदयः जगत्-यात्राम् नयन्ति आभिः प्रचोदिताः
चतुर्युगान्ते कालेन ग्रस्ताञ्छ्रुतिगणान्यथा ।
तपसा ऋषयोऽपश्यन्यतो धर्म: सनातन: ॥ ४ ॥
चतुः-युग-अन्ते कालेन ग्रस्तान् श्रुति-गणान् यथा तपसा ऋषयः अपश्यन् यतः धर्मः सनातनः
ततो धर्मं चतुष्पादं मनवो हरिणोदिता: ।
युक्ता: सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥
ततः धर्मम् चतुः-पादम् मनवः हरिणा उदिताः युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीम् नृप
पालयन्ति प्रजापाला यावदन्तं विभागश: ।
यज्ञभागभुजो देवा ये च तत्रान्विताश्च तै: ॥ ६ ॥
पालयन्ति प्रजा-पालाः यावत् अन्तम् विभागशः यज्ञ-भाग-भुजः देवाः ये च तत्र अन्विताः च तैः
इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।
भुञ्जान: पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥
इन्द्रः भगवता दत्ताम् त्रैलोक्य श्रियम् ऊर्जिताम् भुञ्जानः पाति लोकान् त्रीन् कामम् लोके प्रवर्षति
ज्ञानं चानुयुगं ब्रूते हरि: सिद्धस्वरूपधृक् ।
ऋषिरूपधर: कर्म योगं योगेशरूपधृक् ॥ ८ ॥
ज्ञानम् च अनुयुगम् ब्रूते हरिः सिद्ध-स्वरूप-धृक् ऋषि-रूप-धरः कर्म योगम् योग-ईश-रूप-धृक्
सर्गं प्रजेशरूपेण दस्यून्हन्यात् स्वराड्वपु: ।
कालरूपेण सर्वेषामभावाय पृथग्गुण: ॥ ९ ॥
सर्गम् प्रजा-ईश-रूपेण दस्यून् हन्यात् स्व-राट्-वपुः काल-रूपेण सर्वेषाम् अभावाय पृथक् गुणः
स्तूयमानो जनैरेभिर्मायया नामरूपया ।
विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते ॥ १० ॥
स्तूयमानः जनैः एभिः मायया नाम-रूपया विमोहित आत्मभिः नाना दर्शनैः न च दृश्यते
एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।
यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविद: ॥ ११ ॥
एतत् कल्प विकल्पस्य प्रमाणम् परिकीर्तितम् यत्र मन्वन्तराणि आहुः चतुर्दश पुरा-विदः
८.१५
श्रीराजोवाच
बले: पदत्रयं भूमे: कस्माद्धरिरयाचत ।
भूतेश्वर: कृपणवल्लब्धार्थोऽपि बबन्ध तम् ॥ १ ॥
एतद् वेदितुमिच्छामो महत्कौतूहलं हि न: ।
याच्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागस: ॥ २ ॥
श्री-राजा उवाच बलेः पद-त्रयम् भूमेः कस्मात् हरिः अयाचत भूत-ईश्वरः कृपण-वत् लब्ध-अर्थः अपि बबन्ध तम् एतत् वेदितुम् इच्छामः महत् कौतूहलम् हि नः याच्ञा ईश्वरस्य पूर्णस्य बन्धनम् च अपि अनागसः
श्रीशुक उवाच
पराजितश्रीरसुभिश्च हापितो
हीन्द्रेण राजन्भृगुभि: स जीवित: ।
सर्वात्मना तानभजद् भृगून्बलि:
शिष्यो महात्मार्थनिवेदनेन ॥ ३ ॥
श्री-शुकः उवाच पराजित श्रीः असुभिः च हापितः हि इन्द्रेण राजन् भृगुभिः सः जीवितः सर्व-आत्मना तान् अभजत् भृगून् बलिः शिष्यः महात्मा अर्थ-निवेदनेन
तं ब्राह्मणा भृगव: प्रीयमाणा
अयाजयन्विश्वजिता त्रिणाकम् ।
जिगीषमाणं विधिनाभिषिच्य
महाभिषेकेण महानुभावा: ॥ ४ ॥
तम् ब्राह्मणाः भृगवः प्रीयमाणाः अयाजयन् विश्वजिता त्रि-नाकम् जिगीषमाणम् विधिना अभिषिच्य महा-अभिषेकेण महा-अनुभावाः
ततो रथ: काञ्चनपट्टनद्धो
हयाश्च हर्यश्वतुरङ्गवर्णा: ।
ध्वजश्च सिंहेन विराजमानो
हुताशनादास हविर्भिरिष्टात् ॥ ५ ॥
ततः रथः काञ्चन पट्ट नद्धः हयाः च हर्यश्व-तुरङ्ग-वर्णाः ध्वजः च सिंहेन विराजमानः हुत-अशनात् आस हविर्भिः इष्टात्
धनुश्च दिव्यं पुरटोपनद्धं
तूणावरिक्तौ कवचं च दिव्यम् ।
पितामहस्तस्य ददौ च माला-
मम्लानपुष्पां जलजं च शुक्र: ॥ ६ ॥
धनुः च दिव्यम् पुरट-उपनद्धम् तूणौ अरिक्तौ कवचम् च दिव्यम् पितामहः तस्य ददौ च मालाम् अम्लान-पुष्पाम् जल जम् च शुक्रः
एवं स विप्रार्जितयोधनार्थ-
स्तै: कल्पितस्वस्त्ययनोऽथ विप्रान् ।
प्रदक्षिणीकृत्य कृतप्रणाम:
प्रह्लादमामन्त्र्य नमश्चकार ॥ ७ ॥
एवम् सः विप्र-अर्जित योधन-अर्थः तैः कल्पित स्वस्त्ययनः अथ विप्रान् प्रदक्षिणी-कृत्य कृत-प्रणामः प्रह्रादम् आमन्त्र्य नमः-चकार
अथारुह्य रथं दिव्यं भृगुदत्तं महारथ: ।
सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधि: ॥ ८ ॥
हेमाङ्गदलसब्दाहु: स्फुरन्मकरकुण्डल: ।
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ ९ ॥
अथ आरुह्य रथम् दिव्यम् भृगु-दत्तम् महा-रथः सु-स्रक्-धरः अथ सन्नह्य धन्वी खड्गी धृत-इषुधिः हेम-अङ्गद-लसत्-बाहुः स्फुरत्-मकर-कुण्डलः रराज रथम् आरूढः धिष्ण्य-स्थः इव हव्य-वाट्
तुल्यैश्वर्यबलश्रीभि: स्वयूथैर्दैत्ययूथपै: ।
पिबद्भिरिव खं दृग्भिर्दहद्भि: परिधीनिव ॥ १० ॥
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभु: ।
ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥ ११ ॥
तुल्य-ऐश्वर्य बल श्रीभिः स्व-यूथैः दैत्य-यूथ-पैः पिबद्भिः इव खम् दृग्भिः दहद्भिः परिधीन् इव वृतः विकर्षन् महतीम् आसुरीम् ध्वजिनीम् विभुः ययौ इन्द्र-पुरीम् सु-ऋद्धाम् कम्पयन् इव रोदसी
रम्यामुपवनोद्यानै: श्रीमद्भिर्नन्दनादिभि: ।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतै: ।
प्रवालफलपुष्पोरुभारशाखामरद्रुमै: ॥ १२ ॥
रम्याम् उपवन उद्यानैः श्रीमद्भिः नन्दन-आदिभिः कूजत् विहङ्ग मिथुनैः गायत् मत्त मधु-व्रतैः प्रवाल फल-पुष्प उरु भार शाखा अमर-द्रुमैः
हंससारसचक्राह्वकारण्डवकुलाकुला: ।
नलिन्यो यत्र क्रीडन्ति प्रमदा: सुरसेविता: ॥ १३ ॥
हंस सारस चक्राह्व कारण्डव कुल आकुलाः नलिन्यः यत्र क्रीडन्ति प्रमदाः सुर-सेविताः
आकाशगङ्गया देव्या वृतां परिखभूतया ।
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ १४ ॥
आकाश-गङ्गया देव्या वृताम् परिख-भूतया प्राकारेण अग्नि-वर्णेन स-अट्टालेन उन्नतेन च
रुक्मपट्टकपाटैश्च द्वारै: स्फटिकगोपुरै: ।
जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ १५ ॥
रुक्म-पट्ट कपाटैः च द्वारैः स्फटिक-गोपुरैः जुष्टाम् विभक्त-प्रपथाम् विश्वकर्म-विनिर्मिताम्
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् ।
शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभि: ॥ १६ ॥
सभा चत्वर रथ्य आढ्याम् विमानैः न्यर्बुदैः युताम् शृङ्ग-आटकैः मणि-मयैः वज्र विद्रुम वेदिभिः
यत्र नित्यवयोरूपा: श्यामा विरजवासस: ।
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नय: ॥ १७ ॥
यत्र नित्य-वयः-रूपाः श्यामाः विरज-वाससः भ्राजन्ते रूप-वत् नार्यः हि अर्चिर्भिः इव वह्नयः
सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम् ।
यत्रामोदमुपादाय मार्ग आवाति मारुत: ॥ १८ ॥
सुर-स्त्री केश विभ्रष्ट नव-सौगन्धिक स्रजाम् यत्र आमोदम् उपादाय मार्गे आवाति मारुतः
हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना ।
पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रिया: ॥ १९ ॥
हेम-जाल-अक्ष निर्गच्छत् धूमेन अगुरु-गन्धिना पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुर-प्रियाः
मुक्तावितानैर्मणिहेमकेतुभि-
र्नानापताकावलभीभिरावृताम् ।
शिखण्डिपारावतभृङ्गनादितां
वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ २० ॥
मुक्ता-वितानैः मणि-हेम-केतुभिः नाना-पताका वलभीभिः आवृताम् शिखण्डि पारावत भृङ्ग नादिताम् वैमानिक स्त्री कल-गीत मङ्गलाम्
मृदङ्गशङ्खानकदुन्दुभिस्वनै:
सतालवीणामुरजेष्टवेणुभि: ।
नृत्यै: सवाद्यैरुपदेवगीतकै-
र्मनोरमां स्वप्रभया जितप्रभाम् ॥ २१ ॥
मृदङ्ग शङ्ख आनक-दुन्दुभि स्वनैः स-ताल वीणा मुरज इष्ट-वेणुभिः नृत्यैः स-वाद्यैः उपदेव-गीतकैः मनोरमाम् स्व-प्रभया जित-प्रभाम्
यां न व्रजन्त्यधर्मिष्ठा: खला भूतद्रुह: शठा: ।
मानिन: कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ २२ ॥
याम् न व्रजन्ति अधर्मिष्ठाः खलाः भूत-द्रुहः शठाः मानिनः कामिनः लुब्धाः एभिः हीनाः व्रजन्ति यत्
तां देवधानीं स वरूथिनीपति-
र्बहि: समन्ताद् रुरुधे पृतन्यया ।
आचार्यदत्तं जलजं महास्वनं
दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम् ॥ २३ ॥
ताम् देव-धानीम् सः वरूथिनी-पतिः बहिः समन्तात् रुरुधे पृतन्यया आचार्य-दत्तम् जल-जम् महा-स्वनम् दध्मौ प्रयुञ्जन् भयम् इन्द्र-योषिताम्
मघवांस्तमभिप्रेत्य बले: परममुद्यमम् ।
सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ २४ ॥
मघवान् तम् अभिप्रेत्य बलेः परमम् उद्यमम् सर्व-देव-गण उपेतः गुरुम् एतत् उवाच ह
भगवन्नुद्यमो भूयान्बलेर्न: पूर्ववैरिण: ।
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जित: ॥ २५ ॥
भगवन् उद्यमः भूयान् बलेः नः पूर्व-वैरिणः अविषह्यम् इमम् मन्ये केन आसीत् तेजसा ऊर्जितः
नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वर: ।
पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।
दहन्निव दिशो दृग्भि: संवर्ताग्निरिवोत्थित: ॥ २६ ॥
न एनम् कश्चित् कुतः वा अपि प्रतिव्योढुम् अधीश्वरः पिबन् इव मुखेन इदम् लिहन् इव दिशः दश दहन् इव दिशः दृग्भिः संवर्त-अग्निः इव उत्थितः
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपो: ।
ओज: सहो बलं तेजो यत एतत्समुद्यम: ॥ २७ ॥
ब्रूहि कारणम् एतस्य दुर्धर्षत्वस्य मत्-रिपोः ओजः सहः बलम् तेजः यतः एतत् समुद्यमः
श्रीगुरुरुवाच
जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम् ।
शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभि: ॥ २८ ॥
श्री-गुरुः उवाच जानामि मघवन् शत्रोः उन्नतेः अस्य कारणम् शिष्याय उपभृतम् तेजः भृगुभिः ब्रह्म-वादिभिः
ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन ।
भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् ।
विजेष्यति न कोऽप्येनं ब्रह्मतेज:समेधितम् ।
नास्य शक्त: पुर: स्थातुं कृतान्तस्य यथा जना: ॥ २९ ॥
ओजस्विनम् बलिम् जेतुम् न समर्थः अस्ति कश्चन भवत्-विधः भवान् वा अपि वर्जयित्वा ईश्वरम् हरिम् विजेष्यति न कः अपि एनम् ब्रह्म-तेजः-समेधितम् न अस्य शक्तः पुरः स्थातुम् कृत-अन्तस्य यथा जनाः
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
यात कालं प्रतीक्षन्तो यत: शत्रोर्विपर्यय: ॥ ३० ॥
तस्मात् निलयम् उत्सृज्य यूयम् सर्वे त्रि-विष्टपम् यात कालम् प्रतीक्षन्तः यतः शत्रोः विपर्ययः
एष विप्रबलोदर्क: सम्प्रत्यूर्जितविक्रम: ।
तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥ ३१ ॥
एषः विप्र-बल-उदर्कः सम्प्रति ऊर्जित-विक्रमः तेषाम् एव अपमानेन स-अनुबन्धः विनङ्क्ष्यति
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणा: कामरूपिण: ॥ ३२ ॥
एवम् सु-मन्त्रित अर्थाः ते गुरुणा अर्थ-अनुदर्शिना हित्वा त्रि-विष्टपम् जग्मुः गीर्वाणाः काम-रूपिणः
देवेष्वथ निलीनेषु बलिर्वैरोचन: पुरीम् ।
देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ ३३ ॥
देवेषु अथ निलीनेषु बलिः वैरोचनः पुरीम् देव-धानीम् अधिष्ठाय वशम् निन्ये जगत्-त्रयम्
तं विश्वजयिनं शिष्यं भृगव: शिष्यवत्सला: ।
शतेन हयमेधानामनुव्रतमयाजयन् ॥ ३४ ॥
तम् विश्व-जयिनम् शिष्यम् भृगवः शिष्य-वत्सलाः शतेन हय-मेधानाम् अनुव्रतम् अयाजयन्
ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।
कीर्तिं दिक्षु वितन्वान: स रेज उडुराडिव ॥ ३५ ॥
ततः तत्-अनुभावेन भुवन-त्रय विश्रुताम् कीर्तिम् दिक्षु वितन्वानः सः रेजे उडुराट् इव
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।
कृतकृत्यमिवात्मानं मन्यमानो महामना: ॥ ३६ ॥
बुभुजे च श्रियम् सु-ऋद्धाम् द्विज देव उपलम्भिताम् कृत-कृत्यम् इव आत्मानम् मन्यमानः महा-मनाः
८.१६
श्रीशुक उवाच
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।
हृते त्रिविष्टपे दैत्यै: पर्यतप्यदनाथवत् ॥ १ ॥
श्री-शुकः उवाच एवम् पुत्रेषु नष्टेषु देव-माता अदितिः तदा हृते त्रि-विष्टपे दैत्यैः पर्यतप्यत् अनाथ-वत्
एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥
एकदा कश्यपः तस्याः आश्रमम् भगवान् अगात् निरुत्सवम् निरानन्दम् समाधेः विरतः चिरात्
स पत्नीं दीनवदनां कृतासनपरिग्रह: ।
सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३ ॥
सः पत्नीम् दीन-वदनाम् कृत-आसन-परिग्रहः सभाजितः यथा-न्यायम् इदम् आह कुरु-उद्वह
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् ।
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिन: ॥ ४ ॥
अपि अभद्रम् न विप्राणाम् भद्रे लोके अधुना आगतम् न धर्मस्य न लोकस्य मृत्योः छन्द-अनुवर्तिनः
अपि वाकुशलं किञ्चिद् गृहेषु गृहमेधिनि ।
धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥
अपि वा अकुशलम् किञ्चित् गृहेषु गृह-मेधिनि धर्मस्य अर्थस्य कामस्य यत्र योगः हि अयोगिनाम्
अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।
गृहादपूजिता याता: प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥
अपि वा अतिथयः अभ्येत्य कुटुम्ब-आसक्तया त्वया गृहात् अपूजिताः याताः प्रत्युत्थानेन वा क्वचित्
गृहेषु येष्वतिथयो नार्चिता: सलिलैरपि ।
यदि निर्यान्ति ते नूनं फेरुराजगृहोपमा: ॥ ७ ॥
गृहेषु येषु अतिथयः न अर्चिताः सलिलैः अपि यदि निर्यान्ति ते नूनम् फेरु-राज गृह उपमाः
अप्यग्नयस्तु वेलायां न हुता हविषा सति ।
त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥
अपि अग्नयः तु वेलायाम् न हुताः हविषा सति त्वया उद्विग्न-धिया भद्रे प्रोषिते मयि कर्हिचित्
यत्पूजया कामदुघान्याति लोकान्गृहान्वित: ।
ब्राह्मणोऽग्निश्च वै विष्णो: सर्वदेवात्मनो मुखम् ॥ ९ ॥
यत्-पूजया काम-दुघान् याति लोकान् गृह-अन्वितः ब्राह्मणः अग्निः च वै विष्णोः सर्व-देव-आत्मनः मुखम्
अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि ।
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥
अपि सर्वे कुशलिनः तव पुत्राः मनस्विनि लक्षये अस्वस्थम् आत्मानम् भवत्याः लक्षणैः अहम्
श्रीअदितिरुवाच
भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च ।
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥ ११ ॥
श्री-अदितिः उवाच भद्रम् द्विज-गवाम् ब्रह्मन् धर्मस्य अस्य जनस्य च त्रि-वर्गस्य परम् क्षेत्रम् गृहमेधिन् गृहाः इमे
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सव: ।
सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२ ॥
अग्नयः अतिथयः भृत्याः भिक्षवः ये च लिप्सवः सर्वम् भगवतः ब्रह्मन् अनुध्यानात् न रिष्यति
को नु मे भगवन्कामो न सम्पद्येत मानस: ।
यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥
कः नु मे भगवन् कामः न सम्पद्येत मानसः यस्याः भवान् प्रजा-अध्यक्षः एवम् धर्मान् प्रभाषते
तवैव मारीच मन:शरीरजा:
प्रजा इमा: सत्त्वरजस्तमोजुष: ।
समो भवांस्तास्वसुरादिषु प्रभो
तथापि भक्तं भजते महेश्वर: ॥ १४ ॥
तव एव मारीच मनः-शरीर-जाः प्रजाः इमाः सत्त्व-रजः-तमः-जुषः समः भवान् तासु असुर-आदिषु प्रभो तथा अपि भक्तम् भजते महा-ईश्वरः
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।
हृतश्रियो हृतस्थानान्सपत्नै: पाहि न: प्रभो ॥ १५ ॥
तस्मात् ईश भजन्त्याः मे श्रेयः चिन्तय सु-व्रत हृत-श्रियः हृत-स्थानान् सपत्नैः पाहि नः प्रभो
परैर्विवासिता साहं मग्ना व्यसनसागरे ।
ऐश्वर्यं श्रीर्यश: स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥
परैः विवासिता सा अहम् मग्ना व्यसन-सागरे ऐश्वर्यम् श्रीः यशः स्थानम् हृतानि प्रबलैः मम
यथा तानि पुन: साधो प्रपद्येरन् ममात्मजा: ।
तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥
यथा तानि पुनः साधो प्रपद्येरन् मम आत्मजाः तथा विधेहि कल्याणम् धिया कल्याण-कृत्-तम
श्रीशुक उवाच
एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।
अहो मायाबलं विष्णो: स्नेहबद्धमिदं जगत् ॥ १८ ॥
श्री-शुकः उवाच एवम् अभ्यर्थितः अदित्या कः ताम् आह स्मयन् इव अहो माया-बलम् विष्णोः स्नेह-बद्धम् इदम् जगत्
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृते: पर: ।
कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥
क्व देहः भौतिकः अनात्मा क्व च आत्मा प्रकृतेः परः कस्य के पति पुत्र-आद्याः मोहः एव हि कारणम्
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥
उपतिष्ठस्व पुरुषम् भगवन्तम् जनार्दनम् सर्व-भूत-गुहा-वासम् वासुदेवम् जगत्-गुरुम्
स विधास्यति ते कामान्हरिर्दीनानुकम्पन: ।
अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ २१ ॥
सः विधास्यति ते कामान् हरिः दीन अनुकम्पनः अमोघा भगवत्-भक्तिः न इतरा इति मतिः मम
श्रीअदितिरुवाच
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् ।
यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ २२ ॥
श्री-अदितिः उवाच केन अहम् विधिना ब्रह्मन् उपस्थास्ये जगत्-पतिम् यथा मे सत्य-सङ्कल्पः विदध्यात् सः मनोरथम्
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।
आशु तुष्यति मे देव: सीदन्त्या: सह पुत्रकै: ॥ २३ ॥
आदिश त्वम् द्विज-श्रेष्ठ विधिम् तत् उपधावनम् आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः
श्रीकश्यप उवाच
एतन्मे भगवान्पृष्ट: प्रजाकामस्य पद्मज: ।
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥
श्री-कश्यपः उवाच एतत् मे भगवान् पृष्टः प्रजा-कामस्य पद्म-जः यत् आह ते प्रवक्ष्यामि व्रतम् केशव-तोषणम्
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् ।
अर्चयेदरविन्दाक्षं भक्त्या परमयान्वित: ॥ २५ ॥
फाल्गुनस्य अमले पक्षे द्वादश-अहम् पयः-व्रतम् अर्चयेत् अरविन्द-अक्षम् भक्त्या परमया अन्वितः
सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया ।
यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६ ॥
सिनीवाल्याम् मृदा आलिप्य स्नायात् क्रोड-विदीर्णया यदि लभ्येत वै स्रोतसि एतम् मन्त्रम् उदीरयेत्
त्वं देव्यादिवराहेण रसाया: स्थानमिच्छता ।
उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥
त्वम् देवि आदि-वराहेण रसायाः स्थानम् इच्छता उद्धृता असि नमः तुभ्यम् पाप्मानम् मे प्रणाशय
निर्वर्तितात्मनियमो देवमर्चेत् समाहित: ।
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८ ॥
निर्वर्तित आत्म-नियमः देवम् अर्चेत् समाहितः अर्चायाम् स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि
नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
नमः तुभ्यम् भगवते पुरुषाय महीयसे सर्व-भूत-निवासाय वासुदेवाय साक्षिणे
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३० ॥
नमः अव्यक्ताय सूक्ष्माय प्रधान-पुरुषाय च चतुः-विंशत् गुण-ज्ञाय गुण-सङ्ख्यान हेतवे
नमो द्विशीर्ष्णे त्रिपदे चतु:शृङ्गाय तन्तवे ।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नम: ॥ ३१ ॥
नमः द्वि-शीर्ष्णे त्रि-पदे चतुः-शृङ्गाय तन्तवे सप्त-हस्ताय यज्ञाय त्रयी विद्या-आत्मने नमः
नम: शिवाय रुद्राय नम: शक्तिधराय च ।
सर्वविद्याधिपतये भूतानां पतये नम: ॥ ३२ ॥
नमः शिवाय रुद्राय नमः शक्ति-धराय च सर्व-विद्या-अधिपतये भूतानाम् पतये नमः
नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥
नमः हिरण्यगर्भाय प्राणाय जगत्-आत्मने योग-ऐश्वर्य-शरीराय नमः ते योग-हेतवे
नमस्त आदिदेवाय साक्षिभूताय ते नम: ।
नारायणाय ऋषये नराय हरये नम: ॥ ३४ ॥
नमः ते आदि-देवाय साक्षि-भूताय ते नमः नारायणाय ऋषये नराय हरये नमः
नमो मरकतश्यामवपुषेऽधिगतश्रिये ।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥
नमः मरकत-श्याम-वपुषे अधिगत-श्रिये केशवाय नमः तुभ्यम् नमः ते पीत-वाससे
त्वं सर्ववरद: पुंसां वरेण्य वरदर्षभ ।
अतस्ते श्रेयसे धीरा: पादरेणुमुपासते ॥ ३६ ॥
त्वम् सर्व-वर-दः पुंसाम् वरेण्य वर-द-ऋषभ अतः ते श्रेयसे धीराः पाद-रेणुम् उपासते
अन्ववर्तन्त यं देवा: श्रीश्च तत्पादपद्मयो: ।
स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥ ३७ ॥
अन्ववर्तन्त यम् देवाः श्रीः च तत्-पाद-पद्मयोः स्पृहयन्तः इव आमोदम् भगवान् मे प्रसीदताम्
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।
अर्चयेच्छ्रद्धया युक्त: पाद्योपस्पर्शनादिभि: ॥ ३८ ॥
एतैः मन्त्रैः हृषीकेशम् आवाहन पुरस्कृतम् अर्चयेत् श्रद्धया युक्तः पाद्य-उपस्पर्शन-आदिभिः
अर्चित्वा गन्धमाल्याद्यै: पयसा स्नपयेद् विभुम् ।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्तत: ।
गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥ ३९ ॥
अर्चित्वा गन्ध-माल्य-आद्यैः पयसा स्नपयेत् विभुम् वस्त्र उपवीत आभरण पाद्य उपस्पर्शनैः ततः गन्ध धूप आदिभिः च अर्चेत् द्वादश-अक्षर-विद्यया
शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।
ससर्पि: सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४० ॥
शृतम् पयसि नैवेद्यम् शालि-अन्नम् विभवे सति स-सर्पिः स-गुडम् दत्त्वा जुहुयात् मूल-विद्यया
निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् ।
दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१ ॥
निवेदितम् तत्-भक्ताय दद्यात् भुञ्जीत वा स्वयम् दत्त्वा आचमनम् अर्चित्वा ताम्बूलम् च निवेदयेत्
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभि: प्रभुम् ।
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥
जपेत् अष्टोत्तर-शतम् स्तुवीत स्तुतिभिः प्रभुम् कृत्वा प्रदक्षिणम् भूमौ प्रणमेत् दण्डवत् मुदा
कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् तत: ।
द्वयवरान्भोजयेद् विप्रान्पायसेन यथोचितम् ॥ ४३ ॥
कृत्वा शिरसि तत्-शेषाम् देवम् उद्वासयेत् ततः द्वि-अवरान् भोजयेत् विप्रान् पायसेन यथा-उचितम्
भुञ्जीत तैरनुज्ञात: सेष्ट: शेषं सभाजितै: ।
ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४ ॥
स्नात: शुचिर्यथोक्तेन विधिना सुसमाहित: ।
पयसा स्नापयित्वार्चेद् यावद्व्रतसमापनम् ॥ ४५ ॥
भुञ्जीत तैः अनुज्ञातः स-इष्टः शेषम् सभाजितैः ब्रह्मचारी अथ तत्-रात्र्याम् श्वः भूते प्रथमे अहनि स्नातः शुचिः यथा-उक्तेन विधिना सु-समाहितः पयसा स्नापयित्वा अर्चेत् यावत् व्रत-समापनम्
पयोभक्षो व्रतमिदं चरेद् विष्णवर्चनादृत: ।
पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥
पयः-भक्षः व्रतम् इदम् चरेत् विष्णु-अर्चन-आदृतः पूर्व-वत् जुहुयात् अग्निम् ब्राह्मणान् च अपि भोजयेत्
एवं त्वहरह: कुर्याद्द्वादशाहं पयोव्रतम् ।
हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७ ॥
एवम् तु अहः अहः कुर्यात् द्वादश-अहम् पयः-व्रतम् हरेः आराधनम् होमम् अर्हणम् द्विज-तर्पणम्
प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम् ।
ब्रह्मचर्यमध:स्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥
प्रतिपत्-दिनम् आरभ्य यावत् शुक्ल त्रयोदशीम् ब्रह्मचर्यम् अधः-स्वप्नम् स्नानम् त्रि-सवनम् चरेत्
वर्जयेदसदालापं भोगानुच्चावचांस्तथा ।
अहिंस्र: सर्वभूतानां वासुदेवपरायण: ॥ ४९ ॥
वर्जयेत् असत्-आलापम् भोगान् उच्च-अवचान् तथा अहिंस्रः सर्व-भूतानाम् वासुदेव-परायणः
त्रयोदश्यामथो विष्णो: स्नपनं पञ्चकैर्विभो: ।
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदै: ॥ ५० ॥
त्रयोदश्याम् अथो विष्णोः स्नपनम् पञ्चकैः विभोः कारयेत् शास्त्र-दृष्टेन विधिना विधि-कोविदैः
पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जित: ।
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥
सूक्तेन तेन पुरुषं यजेत सुसमाहित: ।
नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम् ॥ ५२ ॥
पूजाम् च महतीम् कुर्यात् वित्त-शाठ्य विवर्जितः चरुम् निरूप्य पयसि शिपिविष्टाय विष्णवे सूक्तेन तेन पुरुषम् यजेत सु-समाहितः नैवेद्यम् च अति-गुण-वत् दद्यात् पुरुष-तुष्टि-दम्
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभि: ।
तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरे: ॥ ५३ ॥
आचार्यम् ज्ञान-सम्पन्नम् वस्त्र-आभरण-धेनुभिः तोषयेत् ऋत्विजः च एव तत् विद्धि आराधनम् हरेः
भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते ।
अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागता: ॥ ५४ ॥
भोजयेत् तान् गुण-वता सत्-अन्नेन शुचि-स्मिते अन्यान् च ब्राह्मणान् शक्त्या ये च तत्र समागताः
दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हत: ।
अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५ ॥
दक्षिणाम् गुरवे दद्यात् ऋत्विग्भ्यः च यथा-अर्हतः अन्न-अद्येन आश्व-पाकान् च प्रीणयेत् समुपागतान्
भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु ।
विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभि: ॥ ५६ ॥
भुक्तवत्सु च सर्वेषु दीन अन्ध कृपण आदिषु विष्णोः तत् प्रीणनम् विद्वान् भुञ्जीत सह बन्धुभिः
नृत्यवादित्रगीतैश्च स्तुतिभि: स्वस्तिवाचकै: ।
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥
नृत्य वादित्र गीतैः च स्तुतिभिः स्वस्ति-वाचकैः कारयेत् तत्-कथाभिः च पूजाम् भगवतः अन्वहम्
एतत्पयोव्रतं नाम पुरुषाराधनं परम् ।
पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥
एतत् पयः-व्रतम् नाम पुरुष-आराधनम् परम् पितामहेन अभिहितम् मया ते समुदाहृतम्
त्वं चानेन महाभागे सम्यक्चीर्णेन केशवम् ।
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥
त्वम् च अनेन महा-भागे सम्यक् चीर्णेन केशवम् आत्मना शुद्ध-भावेन नियत-आत्मा भज अव्ययम्
अयं वै सर्वयज्ञाख्य: सर्वव्रतमिति स्मृतम् ।
तप:सारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६० ॥
अयम् वै सर्व-यज्ञ आख्यः सर्व-व्रतम् इति स्मृतम् तपः-सारम् इदम् भद्रे दानम् च ईश्वर तर्पणम्
त एव नियमा: साक्षात्त एव च यमोत्तमा: ।
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षज: ॥ ६१ ॥
ते एव नियमाः साक्षात् ते एव च यम-उत्तमाः तपः दानम् व्रतम् यज्ञः येन तुष्यति अधोक्षजः
तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर ।
भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥
तस्मात् एतत् व्रतम् भद्रे प्रयता श्रद्धया आचर भगवान् परितुष्टः ते वरान् आशु विधास्यति
८.१७
श्रीशुक उवाच
इत्युक्ता सादिती राजन्स्वभर्त्रा कश्यपेन वै ।
अन्वतिष्ठद् व्रतमिदं द्वादशाहमतन्द्रिता ॥ १ ॥
श्री-शुकः उवाच इति उक्ता सा अदितिः राजन् स्व-भर्त्रा कश्यपेन वै अनु अतिष्ठत् व्रतम् इदम् द्वादश-अहम् अतन्द्रिता
चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् ।
प्रगृह्येन्द्रियदुष्टाश्वान्मनसा बुद्धिसारथि: ॥ २ ॥
मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।
वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥
चिन्तयन्ति एकया बुद्ध्या महा-पुरुषम् ईश्वरम् प्रगृह्य इन्द्रिय दुष्ट अश्वान् मनसा बुद्धि-सारथिः मनः च एक-अग्रया बुद्ध्या भगवति अखिल-आत्मनि वासुदेवे समाधाय चचार ह पयः-व्रतम्
तस्या: प्रादुरभूत्तात भगवानादिपुरुष: ।
पीतवासाश्चतुर्बाहु: शङ्खचक्रगदाधर: ॥ ४ ॥
तस्याः प्रादुरभूत् तात भगवान् आदि-पुरुषः पीत-वासाः चतुः-बाहुः शङ्ख-चक्र-गदा-धरः
तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।
ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥
तम् नेत्र-गोचरम् वीक्ष्य सहसा उत्थाय स-आदरम् ननाम भुवि कायेन दण्ड-वत् प्रीति-विह्वला
सोत्थाय बद्धाञ्जलिरीडितुं स्थिता
नोत्सेह आनन्दजलाकुलेक्षणा ।
बभूव तूष्णीं पुलकाकुलाकृति-
स्तद्दर्शनात्युत्सवगात्रवेपथु: ॥ ६ ॥
सा उत्थाय बद्ध-अञ्जलिः ईडितुम् स्थिता न उत्सेहे आनन्द जल आकुल-ईक्षणा बभूव तूष्णीम् पुलक आकुल आकृतिः तत्-दर्शन अति-उत्सव गात्र वेपथुः
प्रीत्या शनैर्गद्गदया गिरा हरिं
तुष्टाव सा देव्यदिति: कुरूद्वह ।
उद्वीक्षती सा पिबतीव चक्षुषा
रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥
प्रीत्या शनैः गद्गदया गिरा हरिम् तुष्टाव सा देवी अदितिः कुरु-उद्वह उद्वीक्षती सा पिबती इव चक्षुषा रमा-पतिम् यज्ञ-पतिम् जगत्-पतिम्
श्रीअदितिरुवाच
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
तीर्थश्रव: श्रवणमङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदयाद्य
शं न: कृधीश भगवन्नसि दीननाथ: ॥ ८ ॥
श्री-अदितिः उवाच यज्ञ-ईश यज्ञ-पुरुष अच्युत तीर्थ-पाद तीर्थ-श्रवः श्रवण मङ्गल नामधेय आपन्न लोक वृजिन उपशम उदय आद्य शम् नः कृधि ईश भगवन् असि दीन-नाथः
विश्वाय विश्वभवनस्थितिसंयमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहितपूर्णबोध-
व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥
विश्वाय विश्व भवन स्थिति संयमाय स्वैरम् गृहीत पुरु शक्ति-गुणाय भूम्ने स्व-स्थाय शश्वत् उपबृंहित पूर्ण बोध व्यापादित आत्म-तमसे हरये नमः ते
आयु: परं वपुरभीष्टमतुल्यलक्ष्मी-
र्द्योभूरसा: सकलयोगगुणास्त्रिवर्ग: ।
ज्ञानं च केवलमनन्त भवन्ति तुष्टात्
त्वत्तो नृणां किमु सपत्नजयादिराशी: ॥ १० ॥
आयुः परम् वपुः अभीष्टम् अतुल्य-लक्ष्मीः द्यो भू रसाः सकल योग-गुणाः त्रि-वर्गः ज्ञानम् च केवलम् अनन्त भवन्ति तुष्टात् त्वत्तः नृणाम् किम् उ सपत्न जय आदिः आशीः
श्रीशुक उवाच
अदित्यैवं स्तुतो राजन्भगवान्पुष्करेक्षण: ।
क्षेत्रज्ञ: सर्वभूतानामिति होवाच भारत ॥ ११ ॥
श्री-शुकः उवाच अदित्या एवम् स्तुतः राजन् भगवान् पुष्कर-ईक्षणः क्षेत्र-ज्ञः सर्व-भूतानाम् इति ह उवाच भारत
श्रीभगवानुवाच
देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् ।
यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामत: ॥ १२ ॥
श्री-भगवान् उवाच देव-मातः भवत्याः मे विज्ञातम् चिर-काङ्क्षितम् यत् सपत्नैः हृत-श्रीणाम् च्यावितानाम् स्व-धामतः
तान्विनिर्जित्य समरे दुर्मदानसुरर्षभान् ।
प्रतिलब्धजयश्रीभि: पुत्रैरिच्छस्युपासितुम् ॥ १३ ॥
तान् विनिर्जित्य समरे दुर्मदान् असुर-ऋषभान् प्रतिलब्ध जय श्रीभिः पुत्रैः इच्छसि उपासितुम्
इन्द्रज्येष्ठै: स्वतनयैर्हतानां युधि विद्विषाम् ।
स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दु:खिता: ॥ १४ ॥
इन्द्र-ज्येष्ठैः स्व-तनयैः हतानाम् युधि विद्विषाम् स्त्रियः रुदन्तीः आसाद्य द्रष्टुम् इच्छसि दुःखिताः
आत्मजान्सुसमृद्धांस्त्वं प्रत्याहृतयश:श्रिय: ।
नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥
आत्म-जान् सु-समृद्धान् त्वम् प्रत्याहृत यशः श्रियः नाक-पृष्ठम् अधिष्ठाय क्रीडतः द्रष्टुम् इच्छसि
प्रायोऽधुना तेऽसुरयूथनाथा
अपारणीया इति देवि मे मति: ।
यत्तेऽनुकूलेश्वरविप्रगुप्ता
न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥
प्रायः अधुना ते असुर-यूथ-नाथाः अपारणीयाः इति देवि मे मतिः यत् ते अनुकूल-ईश्वर-विप्र-गुप्ताः न विक्रमः तत्र सुखम् ददाति
अथाप्युपायो मम देवि चिन्त्य:
सन्तोषितस्य व्रतचर्यया ते ।
ममार्चनं नार्हति गन्तुमन्यथा
श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥
अथ अपि उपायः मम देवि चिन्त्यः सन्तोषितस्य व्रत-चर्यया ते मम अर्चनम् न अर्हति गन्तुम् अन्यथा श्रद्धा-अनुरूपम् फल हेतुकत्वात्
त्वयार्चितश्चाहमपत्यगुप्तये
पयोव्रतेनानुगुणं समीडित: ।
स्वांशेन पुत्रत्वमुपेत्य ते सुतान्
गोप्तास्मि मारीचतपस्यधिष्ठित: ॥ १८ ॥
त्वया अर्चितः च अहम् अपत्य-गुप्तये पयः-व्रतेन अनुगुणम् समीडितः स्व-अंशेन पुत्रत्वम् उपेत्य ते सुतान् गोप्ता अस्मि मारीच तपसि अधिष्ठितः
उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।
मां च भावयती पत्यावेवंरूपमवस्थितम् ॥ १९ ॥
उपधाव पतिम् भद्रे प्रजापतिम् अकल्मषम् माम् च भावयती पत्यौ एवम् रूपम् अवस्थितम्
नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।
सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥
न एतत् परस्मै आख्येयम् पृष्टया अपि कथञ्चन सर्वम् सम्पद्यते देवि देव-गुह्यम् सु-संवृतम्
श्रीशुक उवाच
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।
अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभो: ।
उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ॥ २१ ॥
श्री-शुकः उवाच एतावत् उक्त्वा भगवान् तत्र एव अन्तः-अधीयत अदितिः दुर्लभम् लब्ध्वा हरेः जन्म आत्मनि प्रभोः उपाधावत् पतिम् भक्त्या परया कृत-कृत्य-वत्
स वै समाधियोगेन कश्यपस्तदबुध्यत ।
प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षण: ॥ २२ ॥
सः वै समाधि-योगेन कश्यपः तत् अबुध्यत प्रविष्टम् आत्मनि हरेः अंशम् हि अवितथ-ईक्षणः
सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।
समाहितमना राजन्दारुण्यग्निं यथानिल: ॥ २३ ॥
सः अदित्याम् वीर्यम् आधत्त तपसा चिर-सम्भृतम् समाहित-मनाः राजन् दारुणि अग्निम् यथा अनिलः
अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।
हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभि: ॥ २४ ॥
अदितेः धिष्ठितम् गर्भम् भगवन्तम् सनातनम् हिरण्यगर्भः विज्ञाय समीडे गुह्य-नामभिः
श्रीब्रह्मोवाच
जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते ।
नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नम: ॥ २५ ॥
श्री-ब्रह्मा उवाच जय उरुगाय भगवन् उरुक्रम नमः अस्तु ते नमः ब्रह्मण्य-देवाय त्रि-गुणाय नमः नमः
नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।
त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥
नमः ते पृश्नि-गर्भाय वेद-गर्भाय वेधसे त्रि-नाभाय त्रि-पृष्ठाय शिपि-विष्टाय विष्णवे
त्वमादिरन्तो भुवनस्य मध्य-
मनन्तशक्तिं पुरुषं यमाहु: ।
कालो भवानाक्षिपतीश विश्वं
स्रोतो यथान्त:पतितं गभीरम् ॥ २७ ॥
त्वम् आदिः अन्तः भुवनस्य मध्यम् अनन्त-शक्तिम् पुरुषम् यम् आहुः कालः भवान् आक्षिपति ईश विश्वम् स्रोतः यथा अन्तः पतितम् गभीरम्
त्वं वै प्रजानां स्थिरजङ्गमानां
प्रजापतीनामसि सम्भविष्णु: ।
दिवौकसां देव दिवश्च्युतानां
परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥
त्वम् वै प्रजानाम् स्थिर-जङ्गमानाम् प्रजापतीनाम् असि सम्भविष्णुः दिव-ओकसाम् देव दिवः च्युतानाम् परायणम् नौः इव मज्जतः अप्सु
८.१८
श्रीशुक उवाच
इत्थं विरिञ्चस्तुतकर्मवीर्य:
प्रादुर्बभूवामृतभूरदित्याम् ।
चतुर्भुज: शङ्खगदाब्जचक्र:
पिशङ्गवासा नलिनायतेक्षण: ॥ १ ॥
श्री-शुकः उवाच इत्थम् विरिञ्च-स्तुत-कर्म-वीर्यः प्रादुर्बभूव अमृत-भूः अदित्याम् चतुः-भुजः शङ्ख-गदा-अब्ज-चक्रः पिशङ्ग-वासाः नलिन-आयत-ईक्षणः
श्यामावदातो झषराजकुण्डल-
त्विषोल्लसच्छ्रीवदनाम्बुज: पुमान् ।
श्रीवत्सवक्षा बलयाङ्गदोल्लस-
त्किरीटकाञ्चीगुणचारुनूपुर: ॥ २ ॥
श्याम-अवदातः झष-राज-कुण्डल त्विषा उल्लसत् श्री-वदन-अम्बुजः पुमान् श्रीवत्स-वक्षाः बलय अङ्गद उल्लसत् किरीट काञ्ची गुण चारु नूपुरः
मधुव्रतव्रातविघुष्टया स्वया
विराजित: श्रीवनमालया हरि: ।
प्रजापतेर्वेश्मतम: स्वरोचिषा
विनाशयन् कण्ठनिविष्टकौस्तुभ: ॥ ३ ॥
मधु-व्रत व्रात विघुष्टया स्वया विराजितः श्री वन-मालया हरिः प्रजापतेः वेश्म-तमः स्व-रोचिषा विनाशयन् कण्ठ निविष्ट कौस्तुभः
दिश: प्रसेदु: सलिलाशयास्तदा
प्रजा: प्रहृष्टा ऋतवो गुणान्विता: ।
द्यौरन्तरीक्षं क्षितिरग्निजिह्वा
गावो द्विजा: सञ्जहृषुर्नगाश्च ॥ ४ ॥
दिशः प्रसेदुः सलिल आशयाः तदा प्रजाः प्रहृष्टाः ऋतवः गुण-अन्विताः द्यौः अन्तरीक्षम् क्षितिः अग्नि-जिह्वाः गावः द्विजाः सञ्जहृषुः नगाः च
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभु: ।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ ५ ॥
श्रोणायाम् श्रवण-द्वादश्याम् मुहूर्ते अभिजिति प्रभुः सर्वे नक्षत्र तारा आद्याः चक्रुः तत्-जन्म दक्षिणम्
द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप ।
विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरे: ॥ ६ ॥
द्वादश्याम् सविता अतिष्ठत् मध्यम्-दिन-गतः नृप विजया-नाम सा प्रोक्ता यस्याम् जन्म विदुः हरेः
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानका: ।
चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥ ७ ॥
शङ्ख दुन्दुभयः नेदुः मृदङ्ग पणव-आनकाः चित्र वादित्र तूर्याणाम् निर्घोषः तुमुलः अभवत्
प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगु: ।
तुष्टुवुर्मुनयो देवा मनव: पितरोऽग्नय: ॥ ८ ॥
प्रीताः च अप्सरसः अनृत्यन् गन्धर्व-प्रवराः जगुः तुष्टुवुः मुनयः देवाः मनवः पितरः अग्नयः
सिद्धविद्याधरगणा: सकिम्पुरुषकिन्नरा: ।
चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमा: ॥ ९ ॥
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगा: ।
अदित्या आश्रमपदं कुसुमै: समवाकिरन् ॥ १० ॥
सिद्ध विद्याधर-गणाः स किम्पुरुष किन्नराः चारणाः यक्ष रक्षांसि सुपर्णाः भुजग-उत्तमाः गायन्तः अति-प्रशंसन्तः नृत्यन्तः विबुध-अनुगाः अदित्याः आश्रम-पदम् कुसुमैः समवाकिरन्
दृष्ट्वादितिस्तं निजगर्भसम्भवं
परं पुमांसं मुदमाप विस्मिता ।
गृहीतदेहं निजयोगमायया
प्रजापतिश्चाह जयेति विस्मित: ॥ ११ ॥
दृष्ट्वा अदितिः तम् निज-गर्भ-सम्भवम् परम् पुमांसम् मुदम् आप विस्मिता गृहीत देहम् निज-योग-मायया प्रजापतिः च आह जय इति विस्मितः
यत् तद् वपुर्भाति विभूषणायुधै-
रव्यक्तचिद्वयक्तमधारयद्धरि: ।
बभूव तेनैव स वामनो वटु:
सम्पश्यतोर्दिव्यगतिर्यथा नट: ॥ १२ ॥
यत् तत् वपुः भाति विभूषण आयुधैः अव्यक्त चित्-व्यक्तम् अधारयत् हरिः बभूव तेन एव सः वामनः वटुः सम्पश्यतोः दिव्य-गतिः यथा नटः
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षय: ।
कर्माणि कारयामासु: पुरस्कृत्य प्रजापतिम् ॥ १३ ॥
तम् वटुम् वामनम् दृष्ट्वा मोदमानाः महा-ऋषयः कर्माणि कारयाम् आसुः पुरस्कृत्य प्रजापतिम्
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।
बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥ १४ ॥
तस्य उपनीयमानस्य सावित्रीम् सविता अब्रवीत् बृहस्पतिः ब्रह्म-सूत्रम् मेखलाम् कश्यपः अददात्
ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पति: ।
कौपीनाच्छादनं माता द्यौश्छत्रं जगत: पते: ॥ १५ ॥
ददौ कृष्ण-अजिनम् भूमिः दण्डम् सोमः वनः-पतिः कौपीन आच्छादनम् माता द्यौः छत्रम् जगतः पतेः
कमण्डलुं वेदगर्भ: कुशान्सप्तर्षयो ददु: ।
अक्षमालां महाराज सरस्वत्यव्ययात्मन: ॥ १६ ॥
कमण्डलुम् वेद-गर्भः कुशान् सप्त-ऋषयः ददुः अक्ष-मालाम् महाराज सरस्वती अव्यय-आत्मनः
तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।
भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ १७ ॥
तस्मै इति उपनीताय यक्ष-राट् पात्रिकाम् अदात् भिक्षाम् भगवती साक्षात् उमा अदात् अम्बिका सती
स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटु: ।
ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिष: ॥ १८ ॥
सः ब्रह्म-वर्चसेन एवम् सभाम् सम्भावितः वटुः ब्रह्म-ऋषि-गण-सञ्जुष्टाम् अति-अरोचत मारिषः
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् ।
परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद् द्विज: ॥ १९ ॥
समिद्धम् आहितम् वह्निम् कृत्वा परिसमूहनम् परिस्तीर्य समभ्यर्च्य समिद्भिः अजुहोत् द्विजः
श्रुत्वाश्वमेधैर्यजमानमूर्जितं
बलिं भृगूणामुपकल्पितैस्तत: ।
जगाम तत्राखिलसारसम्भृतो
भारेण गां सन्नमयन्पदे पदे ॥ २० ॥
श्रुत्वा अश्वमेधैः यजमानम् ऊर्जितम् बलिम् भृगूणाम् उपकल्पितैः ततः जगाम तत्र अखिल-सार-सम्भृतः भारेण गाम् सन्नमयन् पदे पदे
तं नर्मदायास्तट उत्तरे बले-
र्य ऋत्विजस्ते भृगुकच्छसंज्ञके ।
प्रवर्तयन्तो भृगव: क्रतूत्तमं
व्यचक्षतारादुदितं यथा रविम् ॥ २१ ॥
तम् नर्मदायाः तटे उत्तरे बलेः ये ऋत्विजः ते भृगुकच्छ-संज्ञके प्रवर्तयन्तः भृगवः क्रतु-उत्तमम् व्यचक्षत आरात् उदितम् यथा रविम्
ते ऋत्विजो यजमान: सदस्या
हतत्विषो वामनतेजसा नृप ।
सूर्य: किलायात्युत वा विभावसु:
सनत्कुमारोऽथ दिदृक्षया क्रतो: ॥ २२ ॥
ते ऋत्विजः यजमानः सदस्याः हत-त्विषः वामन-तेजसा नृप सूर्यः किल आयाति उत वा विभावसुः सनत्-कुमारः अथ दिदृक्षया क्रतोः
इत्थं सशिष्येषु भृगुष्वनेकधा
वितर्क्यमाणो भगवान्स वामन: ।
छत्रं सदण्डं सजलं कमण्डलुं
विवेश बिभ्रद्धयमेधवाटम् ॥ २३ ॥
इत्थम् स-शिष्येषु भृगुषु अनेकधा वितर्क्यमाणः भगवान् सः वामनः छत्रम् स-दण्डम् स-जलम् कमण्डलुम् विवेश बिभ्रत् हयमेध वाटम्
मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् ।
जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४ ॥
प्रविष्टं वीक्ष्य भृगव: सशिष्यास्ते सहाग्निभि: ।
प्रत्यगृह्णन्समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥ २५ ॥
मौञ्ज्या मेखलया वीतम् उपवीत अजिन-उत्तरम् जटिलम् वामनम् विप्रम् माया-माणवकम् हरिम् प्रविष्टम् वीक्ष्य भृगवः स-शिष्याः ते सह-अग्निभिः प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्ताः तस्य तेजसा
यजमान: प्रमुदितो दर्शनीयं मनोरमम् ।
रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६ ॥
यजमानः प्रमुदितः दर्शनीयम् मनोरमम् रूप अनुरूप अवयवम् तस्मै आसनम् आहरत्
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलि: ।
अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ २७ ॥
सु-आगतेन अभिनन्द्य अथ पादौ भगवतः बलिः अवनिज्य अर्चयाम् आस मुक्त-सङ्ग-मनोरमम्
तत्पादशौचं जनकल्मषापहं
स धर्मविन्मूर्ध्न्यदधात् सुमङ्गलम् ।
यद् देवदेवो गिरिशश्चन्द्रमौलि-
र्दधार मूर्ध्ना परया च भक्त्या ॥ २८ ॥
तत्-पाद-शौचम् जन-कल्मष-अपहम् सः धर्म-वित् मूर्ध्नि अदधात् सु-मङ्गलम् यत् देव-देवः गिरिशः चन्द्र-मौलिः दधार मूर्ध्ना परया च भक्त्या
श्रीबलिरुवाच
स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते ।
ब्रह्मर्षीणां तप: साक्षान्मन्ये त्वार्य वपुर्धरम् ॥ २९ ॥
श्री-बलिः उवाच सु-आगतम् ते नमः तुभ्यम् ब्रह्मन् किम् करवाम ते ब्रह्म-ऋषीणाम् तपः साक्षात् मन्ये त्वा आर्य वपुः-धरम्
अद्य न: पितरस्तृप्ता अद्य न: पावितं कुलम् ।
अद्य स्विष्ट: क्रतुरयं यद् भवानागतो गृहान् ॥ ३० ॥
अद्य नः पितरः तृप्ताः अद्य नः पावितम् कुलम् अद्य सु-इष्टः क्रतुः अयम् यत् भवान् आगतः गृहान्
अद्याग्नयो मे सुहुता यथाविधि
द्विजात्मज त्वच्चरणावनेजनै: ।
हतांहसो वार्भिरियं च भूरहो
तथा पुनीता तनुभि: पदैस्तव ॥ ३१ ॥
अद्य अग्नयः मे सु-हुताः यथा-विधि द्विज-आत्मज त्वत्-चरण-अवनेजनैः हत-अंहसः वार्भिः इयम् च भूः अहो तथा पुनीता तनुभिः पदैः तव
यद् वटो वाञ्छसि तत्प्रतीच्छ मे
त्वामर्थिनं विप्रसुतानुतर्कये ।
गां काञ्चनं गुणवद् धाम मृष्टं
तथान्नपेयमुत वा विप्रकन्याम् ।
ग्रामान् समृद्धांस्तुरगान् गजान् वा
रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ ३२ ॥
यत् यत् वटो वाञ्छसि तत् प्रतीच्छ मे त्वाम् अर्थिनम् विप्र-सुत अनुतर्कये गाम् काञ्चनम् गुणवत् धाम मृष्टम् तथा अन्न पेयम् उत वा विप्र-कन्याम् ग्रामान् समृद्धान् तुरगान् गजान् वा रथान् तथा अर्हत्-तम सम्प्रतीच्छ
८.१९
श्रीशुक उवाच
इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् ।
निशम्य भगवान्प्रीत: प्रतिनन्द्येदमब्रवीत् ॥ १ ॥
श्री-शुकः उवाच इति वैरोचनेः वाक्यम् धर्म-युक्तम् सः सू-नृतम् निशम्य भगवान् प्रीतः प्रतिनन्द्य इदम् अब्रवीत्
श्रीभगवानुवाच
वचस्तवैतज्जनदेव सूनृतं
कुलोचितं धर्मयुतं यशस्करम् ।
यस्य प्रमाणं भृगव: साम्पराये
पितामह: कुलवृद्ध: प्रशान्त: ॥ २ ॥
श्री-भगवान् उवाच वचः तव एतत् जन-देव सू-नृतम् कुल-उचितम् धर्म-युतम् यशः-करम् यस्य प्रमाणम् भृगवः साम्पराये पितामहः कुल-वृद्धः प्रशान्तः
न ह्येतस्मिन्कुले कश्चिन्नि:सत्त्व: कृपण: पुमान् ।
प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ ३ ॥
न हि एतस्मिन् कुले कश्चित् निःसत्त्वः कृपणः पुमान् प्रत्याख्याता प्रतिश्रुत्य यः वा अदाता द्विजातये
न सन्ति तीर्थे युधि चार्थिनार्थिता:
पराङ्मुखा ये त्वमनस्विनो नृप ।
युष्मत्कुले यद्यशसामलेन
प्रह्लाद उद्भाति यथोडुप: खे ॥ ४ ॥
न सन्ति तीर्थे युधि च अर्थिना अर्थिताः पराङ्मुखाः ये तु अमनस्विनः नृप युष्मत्-कुले यत् यशसा अमलेन प्रह्रादः उद्भाति यथा उडुपः खे
यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् ।
प्रतिवीरं दिग्विजये नाविन्दत गदायुध: ॥ ५ ॥
यतः जातः हिरण्याक्षः चरन् एकः इमाम् महीम् प्रतिवीरम् दिक्-विजये न अविन्दत गदा-आयुधः
यं विनिर्जित्य कृच्छ्रेण विष्णु: क्ष्मोद्धार आगतम् ।
आत्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६ ॥
यम् विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मा-उद्धारे आगतम् आत्मानम् जयिनम् मेने तत्-वीर्यम् भूरि अनुस्मरन्
निशम्य तद्वधं भ्राता हिरण्यकशिपु: पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरे: ॥ ७ ॥
निशम्य तत्-वधम् भ्राता हिरण्यकशिपुः पुरा हन्तुम् भ्रातृ-हणम् क्रुद्धः जगाम निलयम् हरेः
तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् ।
चिन्तयामास कालज्ञो विष्णुर्मायाविनां वर: ॥ ८ ॥
तम् आयान्तम् समालोक्य शूल-पाणिम् कृतान्त-वत् चिन्तयाम् आस काल-ज्ञः विष्णुः मायाविनाम् वरः
यतो यतोऽहं तत्रासौ मृत्यु: प्राणभृतामिव ।
अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृश: ॥ ९ ॥
यतः यतः अहम् तत्र असौ मृत्युः प्राण-भृताम् इव अतः अहम् अस्य हृदयम् प्रवेक्ष्यामि पराक्-दृशः
एवं स निश्चित्य रिपो: शरीर-
माधावतो निर्विविशेऽसुरेन्द्र ।
श्वासानिलान्तर्हितसूक्ष्मदेह-
स्तत्प्राणरन्ध्रेण विविग्नचेता: ॥ १० ॥
एवम् सः निश्चित्य रिपोः शरीरम् आधावतः निर्विविशे असुर-इन्द्र श्वास-अनिल अन्तर्हित सूक्ष्म-देहः तत्-प्राण-रन्ध्रेण विविग्न-चेताः
स तन्निकेतं परिमृश्य शून्य-
मपश्यमान: कुपितो ननाद ।
क्ष्मां द्यां दिश: खं विवरान्समुद्रान्
विष्णुं विचिन्वन् न ददर्श वीर: ॥ ११ ॥
सः तत्-निकेतम् परिमृश्य शून्यम् अपश्यमानः कुपितः ननाद क्ष्माम् द्याम् दिशः खम् विवरान् समुद्रान् विष्णुम् विचिन्वन् न ददर्श वीरः
अपश्यन्निति होवाच मयान्विष्टमिदं जगत् ।
भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२ ॥
अपश्यन् इति ह उवाच मया अन्विष्टम् इदम् जगत् भ्रातृ-हा मे गतः नूनम् यतः न आवर्तते पुमान्
वैरानुबन्ध एतावानामृत्योरिह देहिनाम् ।
अज्ञानप्रभवो मन्युरहंमानोपबृंहित: ॥ १३ ॥
वैर-अनुबन्धः एतावान् आमृत्योः इह देहिनाम् अज्ञान-प्रभवः मन्युः अहम्-मान उपबृंहितः
पिता प्रह्लादपुत्रस्ते तद्विद्वान्द्विजवत्सल: ।
स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात् स याचित: ॥ १४ ॥
पिता प्रह्राद-पुत्रः ते तत्-विद्वान् द्विज-वत्सलः स्वम् आयुः द्विज-लिङ्गेभ्यः देवेभ्यः अदात् सः याचितः
भवानाचरितान्धर्मानास्थितो गृहमेधिभि: ।
ब्राह्मणै: पूर्वजै: शूरैरन्यैश्चोद्दामकीर्तिभि: ॥ १५ ॥
भवान् आचरितान् धर्मान् आस्थितः गृहमेधिभिः ब्राह्मणैः पूर्व-जैः शूरैः अन्यैः च उद्दाम-कीर्तिभिः
तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात् ।
पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६ ॥
तस्मात् त्वत्तः महीम् ईषत् वृणे अहम् वरद-ऋषभात् पदानि त्रीणि दैत्य-इन्द्र सम्मितानि पदा मम
नान्यत् ते कामये राजन्वदान्याज्जगदीश्वरात् ।
नैन: प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रह: ॥ १७ ॥
न अन्यत् ते कामये राजन् वदान्यात् जगत्-ईश्वरात् न एनः प्राप्नोति वै विद्वान् यावत्-अर्थ प्रतिग्रहः
श्रीबलिरुवाच
अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मता: ।
त्वं बालो बालिशमति: स्वार्थं प्रत्यबुधो यथा ॥ १८ ॥
श्री-बलिः उवाच अहो ब्राह्मण-दायाद वाचः ते वृद्ध-सम्मताः त्वम् बालः बालिश-मतिः स्व-अर्थम् प्रति अबुधः यथा
मां वचोभि: समाराध्य लोकानामेकमीश्वरम् ।
पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम् ॥ १९ ॥
माम् वचोभिः समाराध्य लोकानाम् एकम् ईश्वरम् पद-त्रयम् वृणीते यः अबुद्धिमान् द्वीप-दाशुषम्
न पुमान् मामुपव्रज्य भूयो याचितुमर्हति ।
तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २० ॥
न पुमान् माम् उपव्रज्य भूयः याचितुम् अर्हति तस्मात् वृत्ति-करीम् भूमिम् वटो कामम् प्रतीच्छ मे
श्रीभगवानुवाच
यावन्तो विषया: प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् ।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१ ॥
श्री-भगवान् उवाच यावन्तः विषयाः प्रेष्ठाः त्रि-लोक्याम् अजित-इन्द्रियम् न शक्नुवन्ति ते सर्वे प्रतिपूरयितुम् नृप
त्रिभि: क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।
नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ २२ ॥
त्रिभिः क्रमैः असन्तुष्टः द्वीपेन अपि न पूर्यते नव-वर्ष-समेतेन सप्त-द्वीप-वर-इच्छया
सप्तद्वीपाधिपतयो नृपा वैन्यगयादय: ।
अर्थै: कामैर्गता नान्तं तृष्णाया इति न: श्रुतम् ॥ २३ ॥
सप्त-द्वीप-अधिपतयः नृपाः वैण्य-गय-आदयः अर्थैः कामैः गताः न अन्तम् तृष्णायाः इति नः श्रुतम्
यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।
नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितै: ॥ २४ ॥
यदृच्छया उपपन्नेन सन्तुष्टः वर्तते सुखम् न असन्तुष्टः त्रिभिः लोकैः अजित-आत्मा उपसादितैः
पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयो: ।
यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृत: ॥ २५ ॥
पुंसः अयम् संसृतेः हेतुः असन्तोषः अर्थ-कामयोः यदृच्छया उपपन्नेन सन्तोषः मुक्तये स्मृतः
यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
तत् प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणि: ॥ २६ ॥
यदृच्छा-लाभ-तुष्टस्य तेजः विप्रस्य वर्धते तत् प्रशाम्यति असन्तोषात् अम्भसा इव आशुशुक्षणिः
तस्मात् त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् ।
एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम् ॥ २७ ॥
तस्मात् त्रीणि पदानि एव वृणे त्वत् वरद-ऋषभात् एतावता एव सिद्धः अहम् वित्तम् यावत् प्रयोजनम्
श्रीशुक उवाच
इत्युक्त: स हसन्नाह वाञ्छात: प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥
श्री-शुकः उवाच इति उक्तः सः हसन् आह वाञ्छातः प्रतिगृह्यताम् वामनाय महीम् दातुम् जग्राह जल-भाजनम्
विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।
जानंश्चिकीर्षितं विष्णो: शिष्यं प्राह विदां वर: ॥ २९ ॥
विष्णवे क्ष्माम् प्रदास्यन्तम् उशनाः असुर-ईश्वरम् जानन् चिकीर्षितम् विष्णोः शिष्यम् प्राह विदाम् वरः
श्रीशुक्र उवाच
एष वैरोचने साक्षाद् भगवान्विष्णुरव्यय: ।
कश्यपाददितेर्जातो देवानां कार्यसाधक: ॥ ३० ॥
श्री-शुक्रः उवाच एषः वैरोचने साक्षात् भगवान् विष्णुः अव्ययः कश्यपात् अदितेः जातः देवानाम् कार्य-साधकः
प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता ।
न साधु मन्ये दैत्यानां महानुपगतोऽनय: ॥ ३१ ॥
प्रतिश्रुतम् त्वया एतस्मै यत् अनर्थम् अजानता न साधु मन्ये दैत्यानाम् महान् उपगतः अनयः
एष ते स्थानमैश्वर्यं श्रियं तेजो यश: श्रुतम् ।
दास्यत्याच्छिद्य शक्राय मायामाणवको हरि: ॥ ३२ ॥
एषः ते स्थानम् ऐश्वर्यम् श्रियम् तेजः यशः श्रुतम् दास्यति आच्छिद्य शक्राय माया माणवकः हरिः
त्रिभि: क्रमैरिमाल्लोकान्विश्वकाय: क्रमिष्यति ।
सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥
त्रिभिः क्रमैः इमान् लोकान् विश्व-कायः क्रमिष्यति सर्वस्वम् विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम्
क्रमतो गां पदैकेन द्वितीयेन दिवं विभो: ।
खं च कायेन महता तार्तीयस्य कुतो गति: ॥ ३४ ॥
क्रमतः गाम् पदा एकेन द्वितीयेन दिवम् विभोः खम् च कायेन महता तार्तीयस्य कुतः गतिः
निष्ठां ते नरके मन्ये ह्यप्रदातु: प्रतिश्रुतम् ।
प्रतिश्रुतस्य योऽनीश: प्रतिपादयितुं भवान् ॥ ३५ ॥
निष्ठाम् ते नरके मन्ये हि अप्रदातुः प्रतिश्रुतम् प्रतिश्रुतस्य यः अनीशः प्रतिपादयितुम् भवान्
न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
दानं यज्ञस्तप: कर्म लोके वृत्तिमतो यत: ॥ ३६ ॥
न तत् दानम् प्रशंसन्ति येन वृत्तिः विपद्यते दानम् यज्ञः तपः कर्म लोके वृत्तिमतः यतः
धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
पञ्चधा विभजन्वित्तमिहामुत्र च मोदते ॥ ३७ ॥
धर्माय यशसे अर्थाय कामाय स्व-जनाय च पञ्चधा विभजन् वित्तम् इह अमुत्र च मोदते
अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम ।
सत्यमोमिति यत् प्रोक्तं यन्नेत्याहानृतं हि तत् ॥ ३८ ॥
अत्र अपि बहु-ऋचैः गीतम् शृणु मे असुर-सत्तम सत्यम् ओम् इति यत् प्रोक्तम् यत् न इति आह अनृतम् हि तत्
सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।
वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मन: ॥ ३९ ॥
सत्यम् पुष्प-फलम् विद्यात् आत्म-वृक्षस्य गीयते वृक्षे अजीवति तत् न स्यात् अनृतम् मूलम् आत्मनः
तद् यथा वृक्ष उन्मूल: शुष्यत्युद्वर्ततेऽचिरात् ।
एवं नष्टानृत: सद्य आत्मा शुष्येन्न संशय: ॥ ४० ॥
तत् यथा वृक्षः उन्मूलः शुष्यति उद्वर्तते अचिरात् एवम् नष्ट अनृतः सद्यः आत्मा शुष्येत् न संशयः
पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति ।
यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् ।
भिक्षवे सर्वम्ॐ कुर्वन्नालं कामेन चात्मने ॥ ४१ ॥
पराक् रिक्तम् अपूर्णम् वा अक्षरम् यत् तत् ओम् इति यत् किञ्चित् ओम् इति ब्रूयात् तेन रिच्येत वै पुमान् भिक्षवे सर्वम् ओं कुर्वन् न अलम् कामेन च आत्मने
अथैतत् पूर्णमभ्यात्मं यच्च नेत्यनृतं वच: ।
सर्वं नेत्यनृतं ब्रूयात् स दुष्कीर्ति: श्वसन्मृत: ॥ ४२ ॥
अथ एतत् पूर्णम् अभ्यात्मम् यत् च न इति अनृतम् वचः सर्वम् न इति अनृतम् ब्रूयात् सः दुष्कीर्तिः श्वसन् मृतः
स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे ।
गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥ ४३ ॥
स्त्रीषु नर्म-विवाहे च वृत्ति-अर्थे प्राण-सङ्कटे गो-ब्राह्मण-अर्थे हिंसायाम् न अनृतम् स्यात् जुगुप्सितम्
८.२०
श्रीशुक उवाच
बलिरेवं गृहपति: कुलाचार्येण भाषित: ।
तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ १ ॥
श्री-शुकः उवाच बलिः एवम् गृह-पतिः कुल-आचार्येण भाषितः तूष्णीम् भूत्वा क्षणम् राजन् उवाच अवहितः गुरुम्
श्रीबलिरुवाच
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।
अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥
श्री-बलिः उवाच सत्यम् भगवता प्रोक्तम् धर्मः अयम् गृहमेधिनाम् अर्थम् कामम् यशः वृत्तिम् यः न बाधेत कर्हिचित्
स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
प्रतिश्रुत्य ददामीति प्राह्रादि: कितवो यथा ॥ ३ ॥
सः च अहम् वित्त-लोभेन प्रत्याचक्षे कथम् द्विजम् प्रतिश्रुत्य ददामि इति प्राह्रादिः कितवः यथा
न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम् ।
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥
न हि असत्यात् परः अधर्मः इति ह उवाच भूः इयम् सर्वम् सोढुम् अलम् मन्ये ऋते अलीक-परम् नरम्
नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् ।
न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥ ५ ॥
न अहम् बिभेमि निरयात् न अधन्यात् असुख-अर्णवात् न स्थान-च्यवनात् मृत्योः यथा विप्र-प्रलम्भनात्
यद् यद्धास्यति लोकेऽस्मिन्सम्परेतं धनादिकम् ।
तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥
यत् यत् हास्यति लोके अस्मिन् सम्परेतम् धन-आदिकम् तस्य त्यागे निमित्तम् किम् विप्रः तुष्येत् न तेन चेत्
श्रेय: कुर्वन्ति भूतानां साधवो दुस्त्यजासुभि: ।
दध्यङ्शिबिप्रभृतय: को विकल्पो धरादिषु ॥ ७ ॥
श्रेयः कुर्वन्ति भूतानाम् साधवः दुस्त्यज असुभिः दध्यङ् शिबि प्रभृतयः कः विकल्पः धरा-आदिषु
यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभि: ।
तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥
यैः इयम् बुभुजे ब्रह्मन् दैत्य-इन्द्रैः अनिवर्तिभिः तेषाम् कालः अग्रसीत् लोकान् न यशः अधिगतम् भुवि
सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यज: ।
न तथा तीर्थ आयाते श्रद्धया ये धनत्यज: ॥ ९ ॥
सु-लभाः युधि विप्र-ऋषे हि अनिवृत्ताः तनु-त्यजः न तथा तीर्थे आयाते श्रद्धया ये धन-त्यजः
मनस्विन: कारुणिकस्य शोभनं
यदर्थिकामोपनयेन दुर्गति: ।
कुत: पुनर्ब्रह्मविदां भवादृशां
ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥
मनस्विनः कारुणिकस्य शोभनम् यत् अर्थि काम-उपनयेन दुर्गतिः कुतः पुनः ब्रह्म-विदाम् भवादृशाम् ततः वटोः अस्य ददामि वाञ्छितम्
यजन्ति यज्ञंक्रतुभिर्यमादृता
भवन्त आम्नायविधानकोविदा: ।
स एव विष्णुर्वरदोऽस्तु वा परो
दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥
यजन्ति यज्ञम् क्रतुभिः यम् आदृताः भवन्तः आम्नाय-विधान-कोविदाः सः एव विष्णुः वरदः अस्तु वा परः दास्यामि अमुष्मै क्षितिम् ईप्सिताम् मुने
यद्यप्यसावधर्मेण मां बध्नीयादनागसम् ।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
यद्यपि असौ अधर्मेण माम् बध्नीयात् अनागसम् तथापि एनम् न हिंसिष्ये भीतम् ब्रह्म-तनुम् रिपुम्
एष वा उत्तमश्लोको न जिहासति यद् यश: ।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥
एषः वा उत्तम-श्लोकः न जिहासति यत् यशः हत्वा मा एनाम् हरेत् युद्धे शयीत निहतः मया
श्रीशुक उवाच
एवमश्रद्धितं शिष्यमनादेशकरं गुरु: ।
शशाप दैवप्रहित: सत्यसन्धं मनस्विनम् ॥ १४ ॥
श्री-शुकः उवाच एवम् अश्रद्धितम् शिष्यम् अनादेश-करम् गुरुः शशाप दैव-प्रहितः सत्य-सन्धम् मनस्विनम्
दृढं पण्डितमान्यज्ञ: स्तब्धोऽस्यस्मदुपेक्षया ।
मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रिय: ॥ १५ ॥
दृढम् पण्डित-मानी अज्ञः स्तब्धः असि अस्मत् उपेक्षया मत्-शासन-अतिगः यः त्वम् अचिरात् भ्रश्यसे श्रियः
एवं शप्त: स्वगुरुणा सत्यान्न चलितो महान् ।
वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ १६ ॥
एवम् शप्तः स्व-गुरुणा सत्यात् न चलितः महान् वामनाय ददौ एनाम् अर्चित्वा उदक-पूर्वकम्
विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी ।
आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ १७ ॥
विन्ध्यावलिः तदा आगत्य पत्नी जालक-मालिनी आनिन्ये कलशम् हैमम् अवनेजनि-अपाम् भृतम्
यजमान: स्वयं तस्य श्रीमत् पादयुगं मुदा ।
अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनी: ॥ १८ ॥
यजमानः स्वयम् तस्य श्रीमत् पाद-युगम् मुदा अवनिज्य अवहत् मूर्ध्नि तत् अपः विश्व-पावनीः
तदासुरेन्द्रं दिवि देवतागणा
गन्धर्वविद्याधरसिद्धचारणा: ।
तत्कर्म सर्वेऽपि गृणन्त आर्जवं
प्रसूनवर्षैर्ववृषुर्मुदान्विता: ॥ १९ ॥
तदा असुर-इन्द्रम् दिवि देवता-गणाः गन्धर्व विद्याधर सिद्ध चारणाः तत् कर्म सर्वे अपि गृणन्तः आर्जवम् प्रसून-वर्षैः ववृषुः मुदा-अन्विताः
नेदुर्मुहुर्दुन्दुभय: सहस्रशो
गन्धर्वकिम्पूरुषकिन्नरा जगु: ।
मनस्विनानेन कृतं सुदुष्करं
विद्वानदाद् यद् रिपवे जगत्त्रयम् ॥ २० ॥
नेदुः मुहुः दुन्दुभयः सहस्रशः गन्धर्व किम्पूरुष किन्नराः जगुः मनस्विना अनेन कृतम् सु-दुष्करम् विद्वान् अदात् यत् रिपवे जगत्-त्रयम्
तद् वामनं रूपमवर्धताद्भुतं
हरेरनन्तस्य गुणत्रयात्मकम् ।
भू: खं दिशो द्यौर्विवरा: पयोधय-
स्तिर्यङ्नृदेवा ऋषयो यदासत ॥ २१ ॥
तत् वामनम् रूपम् अवर्धत अद्भुतम् हरेः अनन्तस्य गुण-त्रय-आत्मकम् भूः खम् दिशः द्यौः विवराः पयोधयः तिर्यक् नृ देवाः ऋषयः यत् आसत
काये बलिस्तस्य महाविभूते:
सहर्त्विगाचार्यसदस्य एतत् ।
ददर्श विश्वं त्रिगुणं गुणात्मके
भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥
काये बलिः तस्य महा-विभूतेः सह-ऋत्विक्-आचार्य-सदस्यः एतत् ददर्श विश्वम् त्रि-गुणम् गुण-आत्मके भूत इन्द्रिय अर्थ आशय जीव-युक्तम्
रसामचष्टाङ्घ्रितलेऽथ पादयो-
र्महीं महीध्रान्पुरुषस्य जङ्घयो: ।
पतत्त्रिणो जानुनि विश्वमूर्ते-
रूर्वोर्गणं मारुतमिन्द्रसेन: ॥ २३ ॥
रसाम् अचष्ट अङ्घ्रि-तले अथ पादयोः महीम् महीध्रान् पुरुषस्य जङ्घयोः पतत्त्रिणः जानुनि विश्व-मूर्तेः ऊर्वोः गणम् मारुतम् इन्द्र-सेनः
सन्ध्यां विभोर्वाससि गुह्य ऐक्षत्
प्रजापतीञ्जघने आत्ममुख्यान् ।
नाभ्यां नभ: कुक्षिषु सप्तसिन्धू-
नुरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥
सन्ध्याम् विभोः वाससि गुह्ये ऐक्षत् प्रजापतीन् जघने आत्म-मुख्यान् नाभ्याम् नभः कुक्षिषु सप्त सिन्धून् उरुक्रमस्य उरसि च ऋक्ष-मालाम्
हृद्यङ्ग धर्मं स्तनयोर्मुरारे-
र्ऋतं च सत्यं च मनस्यथेन्दुम् ।
श्रियं च वक्षस्यरविन्दहस्तां
कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥
इन्द्रप्रधानानमरान्भुजेषु
तत्कर्णयो: ककुभो द्यौश्च मूर्ध्नि ।
केशेषु मेघाञ्छ्वसनं नासिकाया-
मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥
वाण्यां च छन्दांसि रसे जलेशं
भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
अहश्च रात्रिं च परस्य पुंसो
मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥
स्पर्शे च कामं नृप रेतसाम्भ:
पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।
छायासु मृत्युं हसिते च मायां
तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥
नदीश्च नाडीषु शिला नखेषु
बुद्धावजं देवगणानृषींश्च ।
प्राणेषु गात्रे स्थिरजङ्गमानि
सर्वाणि भूतानि ददर्श वीर: ॥ २९ ॥
हृदि अङ्ग धर्मम् स्तनयोः मुरारेः ऋतम् च सत्यम् च मनसि अथ इन्दुम् श्रियम् च वक्षसि अरविन्द-हस्ताम् कण्ठे च सामानि समस्त-रेफान् इन्द्र-प्रधानान् अमरान् भुजेषु तत्-कर्णयोः ककुभः द्यौः च मूर्ध्नि केशेषु मेघान् श्वसनम् नासिकायाम् अक्ष्णोः च सूर्यम् वदने च वह्निम् वाण्याम् च छन्दांसि रसे जल-ईशम् भ्रुवोः निषेधम् च विधिम् च पक्ष्मसु अहः च रात्रिम् च परस्य पुंसः मन्युम् ललाटे अधरे एव लोभम् स्पर्शे च कामम् नृप रेतसा अम्भः पृष्ठे तु अधर्मम् क्रमणेषु यज्ञम् छायासु मृत्युम् हसिते च मायाम् तनू-रुहेषु ओषधि-जातयः च नदीः च नाडीषु शिलाः नखेषु बुद्धौ अजम् देव-गणान् ऋषीन् च प्राणेषु गात्रे स्थिर-जङ्गमानि सर्वाणि भूतानि ददर्श वीरः
सर्वात्मनीदं भुवनं निरीक्ष्य
सर्वेऽसुरा: कश्मलमापुरङ्ग ।
सुदर्शनं चक्रमसह्यतेजो
धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ ३० ॥
सर्व-आत्मनि इदम् भुवनम् निरीक्ष्य सर्वे असुराः कश्मलम् आपुः अङ्ग सुदर्शनम् चक्रम् असह्य तेजः धनुः च शार्ङ्गम् स्तनयित्नु घोषम्
पर्जन्यघोषो जलज: पाञ्चजन्य:
कौमोदकी विष्णुगदा तरस्विनी ।
विद्याधरोऽसि: शतचन्द्रयुक्त-
स्तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥
पर्जन्य-घोषः जलजः पाञ्चजन्यः कौमोदकी विष्णु-गदा तरस्विनी विद्याधरः असिः शत-चन्द्र-युक्तः तूण-उत्तमौ अक्षयसायकौ च
सुनन्दमुख्या उपतस्थुरीशं
पार्षदमुख्या: सहलोकपाला: ।
स्फुरत्किरीटाङ्गदमीनकुण्डल:
श्रीवत्सरत्नोत्तममेखलाम्बरै: ॥ ३२ ॥
मधुव्रतस्रग्वनमालयावृतो
रराज राजन्भगवानुरुक्रम: ।
क्षितिं पदैकेन बलेर्विचक्रमे
नभ: शरीरेण दिशश्च बाहुभि: ॥ ३३ ॥
सुनन्द-मुख्याः उपतस्थुः ईशम् पार्षद-मुख्याः सह-लोक-पालाः स्फुरत्-किरीट अङ्गद मीन-कुण्डलः श्रीवत्स रत्न-उत्तम मेखला अम्बरैः मधु-व्रत स्रक् वनमालया आवृतः रराज राजन् भगवान् उरुक्रमः क्षितिम् पदा एकेन बलेः विचक्रमे नभः शरीरेण दिशः च बाहुभिः
पदं द्वितीयं क्रमतस्त्रिविष्टपं
न वै तृतीयाय तदीयमण्वपि ।
उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो
महर्जनाभ्यां तपस: परं गत: ॥ ३४ ॥
पदम् द्वितीयम् क्रमतः त्रि-विष्टपम् न वै तृतीयाय तदीयम् अणु अपि उरुक्रमस्य अङ्घ्रिः उपरि उपरि अथो महः-जनाभ्याम् तपसः परम् गतः
८.२१
श्रीशुक उवाच
सत्यं समीक्ष्याब्जभवो नखेन्दुभि-
र्हतस्वधामद्युतिरावृतोऽभ्यगात् ।
मरीचिमिश्रा ऋषयो बृहद्व्रता:
सनन्दनाद्या नरदेव योगिन: ॥ १ ॥
श्री-शुकः उवाच सत्यम् समीक्ष्य अब्ज-भवः नख-इन्दुभिः हत स्व-धाम-द्युतिः आवृतः अभ्यगात् मरीचि-मिश्राः ऋषयः बृहत्-व्रताः सनन्दन-आद्याः नर-देव योगिनः
वेदोपवेदा नियमा यमान्विता-
स्तर्केतिहासाङ्गपुराणसंहिता: ।
ये चापरे योगसमीरदीपित-
ज्ञानाग्निना रन्धितकर्मकल्मषा: ॥ २ ॥
ववन्दिरे यत्स्मरणानुभावत:
स्वायम्भुवं धाम गता अकर्मकम् ।
अथाङ्घ्रये प्रोन्नमिताय विष्णो-
रुपाहरत् पद्मभवोऽर्हणोदकम् ।
समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा
यन्नाभिपङ्केरुहसम्भव: स्वयम् ॥ ३ ॥
वेद उपवेदाः नियमाः यम अन्विताः तर्क इतिहास अङ्ग पुराण संहिताः ये च अपरे योग-समीर-दीपित ज्ञान-अग्निना रन्धित-कर्म-कल्मषाः ववन्दिरे यत्-स्मरण-अनुभावतः स्वायम्भुवम् धाम गताः अकर्मकम् अथ अङ्घ्रये प्रोन्नमिताय विष्णोः उपाहरत् पद्म-भवः अर्हण-उदकम् समर्च्य भक्त्या अभ्यगृणात् शुचि-श्रवाः यत्-नाभि-पङ्केरुह-सम्भवः स्वयम्
धातु: कमण्डलुजलं तदुरुक्रमस्य
पादावनेजनपवित्रतया नरेन्द्र ।
स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि
लोकत्रयं भगवतो विशदेव कीर्ति: ॥ ४ ॥
धातुः कमण्डलु-जलम् तत् उरुक्रमस्य पाद-अवनेजन-पवित्रतया नर-इन्द्र स्वर्धुनी अभूत् नभसि सा पतती निमार्ष्टि लोक-त्रयम् भगवतः विशदा इव कीर्तिः
ब्रह्मादयो लोकनाथा: स्वनाथाय समादृता: ।
सानुगा बलिमाजह्रु: सङ्क्षिप्तात्मविभूतये ॥ ५ ॥
ब्रह्म-आदयः लोक-नाथाः स्व-नाथाय समादृताः स-अनुगाः बलिम् आजह्रुः सङ्क्षिप्त-आत्म-विभूतये
तोयै: समर्हणै: स्रग्भिर्दिव्यगन्धानुलेपनै: ।
धूपैर्दीपै: सुरभिभिर्लाजाक्षतफलाङ्कुरै: ॥ ६ ॥
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितै: ।
नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनि:स्वनै: ॥ ७ ॥
तोयैः समर्हणैः स्रग्भिः दिव्य-गन्ध-अनुलेपनैः धूपैः दीपैः सुरभिभिः लाज अक्षत फल अङ्कुरैः स्तवनैः जय-शब्दैः च तत्-वीर्य-महिमा-अङ्कितैः नृत्य-वादित्र-गीतैः च शङ्ख दुन्दुभि निःस्वनैः
जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजव: ।
विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ ८ ॥
जाम्बवान् ऋक्ष-राजः तु भेरी-शब्दैः मनः-जवः विजयम् दिक्षु सर्वासु महा-उत्सवम् अघोषयत्
महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया ।
ऊचु: स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिता: ॥ ९ ॥
महीम् सर्वाम् हृताम् दृष्ट्वा त्रि-पद-व्याज-याच्ञया ऊचुः स्व-भर्तुः असुराः दीक्षितस्य अति अमर्षिताः
न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वर: ।
द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ १० ॥
न वा अयम् ब्रह्म-बन्धुः विष्णुः मायाविनाम् वरः द्विज-रूप प्रतिच्छन्नः देव-कार्यम् चिकीर्षति
अनेन याचमानेन शत्रुणा वटुरूपिणा ।
सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ ११ ॥
अनेन याचमानेन शत्रुणा वटु-रूपिणा सर्वस्वम् नः हृतम् भर्तुः न्यस्त दण्डस्य बर्हिषि
सत्यव्रतस्य सततं दीक्षितस्य विशेषत: ।
नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावत: ॥ १२ ॥
सत्य-व्रतस्य सततम् दीक्षितस्य विशेषतः न अनृतम् भाषितुम् शक्यम् ब्रह्मण्यस्य दया-वतः
तस्मादस्य वधो धर्मो भर्तु: शुश्रूषणं च न: ।
इत्यायुधानि जगृहुर्बलेरनुचरासुरा: ॥ १३ ॥
तस्मात् अस्य वधः धर्मः भर्तुः शुश्रूषणम् च नः इति आयुधानि जगृहुः बलेः अनुचर असुराः
ते सर्वे वामनं हन्तुं शूलपट्टिशपाणय: ।
अनिच्छन्तो बले राजन् प्राद्रवञ्जातमन्यव: ॥ १४ ॥
ते सर्वे वामनम् हन्तुम् शूल पट्टिश पाणयः अनिच्छन्तः बलेः राजन् प्राद्रवन् जात-मन्यवः
तानभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।
प्रहस्यानुचरा विष्णो: प्रत्यषेधन्नुदायुधा: ॥ १५ ॥
तान् अभिद्रवतः दृष्ट्वा दितिज-अनीक-पान् नृप प्रहस्य अनुचराः विष्णोः प्रत्यषेधन् उदायुधाः
नन्द: सुनन्दोऽथ जयो विजय: प्रबलो बल: ।
कुमुद: कुमुदाक्षश्च विष्वक्सेन: पतत्त्रिराट् ॥ १६ ॥
जयन्त: श्रुतदेवश्च पुष्पदन्तोऽथ सात्वत: ।
सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ १७ ॥
नन्दः सुनन्दः अथ जयः विजयः प्रबलः बलः कुमुदः कुमुदाक्षः च विष्वक्सेनः पतत्त्रि-राट् जयन्तः श्रुतदेवः च पुष्पदन्तः अथ सात्वतः सर्वे नाग-अयुत-प्राणाः चमूम् ते जघ्नुः आसुरीम्
हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलि: ।
वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ १८ ॥
हन्यमानान् स्वकान् दृष्ट्वा पुरुष-अनुचरैः बलिः वारयाम् आस संरब्धान् काव्य-शापम् अनुस्मरन्
हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वच: ।
मा युध्यत निवर्तध्वं न न: कालोऽयमर्थकृत् ॥ १९ ॥
हे विप्रचित्ते हे राहो हे नेमे श्रूयताम् वचः मा युध्यत निवर्तध्वम् न नः कालः अयम् अर्थ-कृत्
य: प्रभु: सर्वभूतानां सुखदु:खोपपत्तये ।
तं नातिवर्तितुं दैत्या: पौरुषैरीश्वर: पुमान् ॥ २० ॥
यः प्रभुः सर्व-भूतानाम् सुख-दुःख-उपपत्तये तम् न अतिवर्तितुम् दैत्याः पौरुषैः ईश्वरः पुमान्
यो नो भवाय प्रागासीदभवाय दिवौकसाम् ।
स एव भगवानद्य वर्तते तद्विपर्ययम् ॥ २१ ॥
यः नः भवाय प्राक् आसीत् अभवाय दिव-ओकसाम् सः एव भगवान् अद्य वर्तते तत्-विपर्ययम्
बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभि: ।
सामादिभिरुपायैश्च कालं नात्येति वै जन: ॥ २२ ॥
बलेन सचिवैः बुद्ध्या दुर्गैः मन्त्र-औषध-आदिभिः साम-आदिभिः उपायैः च कालम् न अत्येति वै जनः
भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरे: ।
दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति न: ॥ २३ ॥
भवद्भिः निर्जिताः हि एते बहुशः अनुचराः हरेः दैवेन ऋद्धैः ते एव अद्य युधि जित्वा नदन्ति नः
एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।
तस्मात् कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥ २४ ॥
एतान् वयम् विजेष्यामः यदि दैवम् प्रसीदति तस्मात् कालम् प्रतीक्षध्वम् यः नः अर्थत्वाय कल्पते
श्रीशुक उवाच
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपा: ।
रसां निर्विविशू राजन् विष्णुपार्षदताडिता: ॥ २५ ॥
श्री-शुकः उवाच पत्युः निगदितम् श्रुत्वा दैत्य-दानव-यूथ-पाः रसाम् निर्विविशूः राजन् विष्णु-पार्षद ताडिताः
अथ तार्क्ष्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितम् ।
बबन्ध वारुणै: पाशैर्बलिं सूत्येऽहनि क्रतौ ॥ २६ ॥
अथ तार्क्ष्य-सुतः ज्ञात्वा विराट् प्रभु-चिकीर्षितम् बबन्ध वारुणैः पाशैः बलिम् सूत्ये अहनि क्रतौ
हाहाकारो महानासीद् रोदस्यो: सर्वतोदिशम् ।
निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥ २७ ॥
हाहा-कारः महान् आसीत् रोदस्योः सर्वतः दिशम् निगृह्यमाणे असुर-पतौ विष्णुना प्रभविष्णुना
तं बद्धं वारुणै: पाशैर्भगवानाह वामन: ।
नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ २८ ॥
तम् बद्धम् वारुणैः पाशैः भगवान् आह वामनः नष्ट-श्रियम् स्थिर-प्रज्ञम् उदार-यशसम् नृप
पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर ।
द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ २९ ॥
पदानि त्रीणि दत्तानि भूमेः मह्यम् त्वया असुर द्वाभ्याम् क्रान्ता मही सर्वा तृतीयम् उपकल्पय
यावत् तपत्यसौ गोभिर्यावदिन्दु: सहोडुभि: ।
यावद् वर्षति पर्जन्यस्तावती भूरियं तव ॥ ३० ॥
यावत् तपति असौ गोभिः यावत् इन्दुः सह-उडुभिः यावत् वर्षति पर्जन्यः तावती भूः इयम् तव
पदैकेन मयाक्रान्तो भूर्लोक: खं दिशस्तनो: ।
स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ॥ ३१ ॥
पदा एकेन मया आक्रान्तः भूर्लोकः खम् दिशः तनोः स्वर्लोकः ते द्वितीयेन पश्यतः ते स्वम् आत्मना
प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।
विश त्वं निरयं तस्माद् गुरुणा चानुमोदित: ॥ ३२ ॥
प्रतिश्रुतम् अदातुः ते निरये वासः इष्यते विश त्वम् निरयम् तस्मात् गुरुणा च अनुमोदितः
वृथा मनोरथस्तस्य दूर: स्वर्ग: पतत्यध: ।
प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥ ३३ ॥
वृथा मनोरथः तस्य दूरः स्वर्गः पतति अधः प्रतिश्रुतस्य अदानेन यः अर्थिनम् विप्रलम्भते
विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।
तद् व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समा: ॥ ३४ ॥
विप्रलब्धः ददामि इति त्वया अहम् च आढ्य-मानिना तत् व्यलीक-फलम् भुङ्क्ष्व निरयम् कतिचित् समाः
८.२२
श्रीशुक उवाच
एवं विप्रकृतो राजन् बलिर्भगवतासुर: ।
भिद्यमानोऽप्यभिन्नात्मा प्रत्याहाविक्लवं वच: ॥ १ ॥
श्री-शुकः उवाच एवम् विप्रकृतः राजन् बलिः भगवता असुरः भिद्यमानः अपि अभिन्न-आत्मा प्रत्याह अविक्लवम् वचः
श्रीबलिरुवाच
यद्युत्तमश्लोक भवान् ममेरितं
वचो व्यलीकं सुरवर्य मन्यते ।
करोम्यृतं तन्न भवेत् प्रलम्भनं
पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ २ ॥
श्री-बलिः उवाच यदि उत्तमश्लोक भवान् मम ईरितम् वचः व्यलीकम् सुर-वर्य मन्यते करोमि ऋतम् तत् न भवेत् प्रलम्भनम् पदम् तृतीयम् कुरु शीर्ष्णि मे निजम्
बिभेमि नाहं निरयात् पदच्युतो
न पाशबन्धाद् व्यसनाद् दुरत्ययात् ।
नैवार्थकृच्छ्राद् भवतो विनिग्रहा-
दसाधुवादाद् भृशमुद्विजे यथा ॥ ३ ॥
बिभेमि न अहम् निरयात् पद-च्युतः न पाश-बन्धात् व्यसनात् दुरत्ययात् न एव अर्थ-कृच्छ्रात् भवतः विनिग्रहात् असाधु-वादात् भृशम् उद्विजे यथा
पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।
यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ ४ ॥
पुंसाम् श्लाघ्य-तमम् मन्ये दण्डम् अर्हत्तम-अर्पितम् यम् न माता पिता भ्राता सुहृदः च आदिशन्ति हि
त्वं नूनमसुराणां न: परोक्ष: परमो गुरु: ।
यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ ५ ॥
त्वम् नूनम् असुराणाम् नः परोक्षः परमः गुरुः यः नः अनेक मद-अन्धानाम् विभ्रंशम् चक्षुः आदिशत्
यस्मिन् वैरानुबन्धेन व्यूढेन विबुधेतरा: ।
बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिन: ॥ ६ ॥
तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।
बद्धश्च वारुणै: पाशैर्नातिव्रीडे न च व्यथे ॥ ७ ॥
यस्मिन् वैर-अनुबन्धेन व्यूढेन विबुध-इतराः बहवः लेभिरे सिद्धिम् याम् उ ह एकान्त-योगिनः तेन अहम् निगृहीतः अस्मि भवता भूरि-कर्मणा बद्धः च वारुणैः पाशैः न अति-व्रीडे न च व्यथे
पितामहो मे भवदीयसम्मत:
प्रह्लाद आविष्कृतसाधुवाद: ।
भवद्विपक्षेण विचित्रवैशसं
सम्प्रापितस्त्वं परम: स्वपित्रा ॥ ८ ॥
पितामहः मे भवदीय-सम्मतः प्रह्रादः आविष्कृत-साधु-वादः भवत्-विपक्षेण विचित्र-वैशसम् सम्प्रापितः त्वम् परमः स्व-पित्रा
किमात्मनानेन जहाति योऽन्तत:
किं रिक्थहारै: स्वजनाख्यदस्युभि: ।
किं जायया संसृतिहेतुभूतया
मर्त्यस्य गेहै: किमिहायुषो व्यय: ॥ ९ ॥
किम् आत्मना अनेन जहाति यः अन्ततः किम् रिक्थ-हारैः स्वजन-आख्य-दस्युभिः किम् जायया संसृति-हेतु-भूतया मर्त्यस्य गेहैः किम् इह आयुषः व्ययः
इत्थं स निश्चित्य पितामहो महा-
नगाधबोधो भवत: पादपद्मम् ।
ध्रुवं प्रपेदे ह्यकुतोभयं जनाद्
भीत: स्वपक्षक्षपणस्य सत्तम ॥ १० ॥
इत्थम् सः निश्चित्य पितामहः महान् अगाध-बोधः भवतः पाद-पद्मम् ध्रुवम् प्रपेदे हि अकुतः-भयम् जनात् भीतः स्वपक्ष-क्षपणस्य सत्-तम
अथाहमप्यात्मरिपोस्तवान्तिकं
दैवेन नीत: प्रसभं त्याजितश्री: ।
इदं कृतान्तान्तिकवर्ति जीवितं
ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ ११ ॥
अथ अहम् अपि आत्म-रिपोः तव अन्तिकम् दैवेन नीतः प्रसभम् त्याजित श्रीः इदम् कृत-अन्त-अन्तिक-वर्ति जीवितम् यया अध्रुवम् स्तब्ध-मतिः न बुध्यते
श्रीशुक उवाच
तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रिय: ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थित: ॥ १२ ॥
श्री-शुकः उवाच तस्य इत्थम् भाषमाणस्य प्रह्रादः भगवत्-प्रियः आजगाम कुरु-श्रेष्ठ राका-पतिः इव उत्थितः
तमिन्द्रसेन: स्वपितामहं श्रिया
विराजमानं नलिनायतेक्षणम् ।
प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं
प्रलम्बबाहुं शुभगर्षभमैक्षत ॥ १३ ॥
तम् इन्द्र-सेनः स्व-पितामहम् श्रिया विराजमानम् नलिन-आयत-ईक्षणम् प्रांशुम् पिशङ्ग-अम्बरम् अञ्जन-त्विषम् प्रलम्ब-बाहुम् शुभग-ऋषभम् ऐक्षत
तस्मै बलिर्वारुणपाशयन्त्रित:
समर्हणं नोपजहार पूर्ववत् ।
ननाम मूर्ध्नाश्रुविलोललोचन:
सव्रीडनीचीनमुखो बभूव ह ॥ १४ ॥
तस्मै बलिः वारुण-पाश-यन्त्रितः समर्हणम् न उपजहार पूर्व-वत् ननाम मूर्ध्ना अश्रु-विलोल-लोचनः स-व्रीड नीचीन मुखः बभूव ह
स तत्र हासीनमुदीक्ष्य सत्पतिं
हरिं सुनन्दाद्यनुगैरुपासितम् ।
उपेत्य भूमौ शिरसा महामना
ननाम मूर्ध्ना पुलकाश्रुविक्लव: ॥ १५ ॥
सः तत्र ह आसीनम् उदीक्ष्य सत्-पतिम् हरिम् सुनन्द-आदि-अनुगैः उपासितम् उपेत्य भूमौ शिरसा महा-मनाः ननाम मूर्ध्ना पुलक-अश्रु-विक्लवः
श्रीप्रह्लाद उवाच
त्वयैव दत्तं पदमैन्द्रमूर्जितं
हृतं तदेवाद्य तथैव शोभनम् ।
मन्ये महानस्य कृतो ह्यनुग्रहो
विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥ १६ ॥
श्री-प्रह्रादः उवाच त्वया एव दत्तम् पदम् ऐन्द्रम् ऊर्जितम् हृतम् तत् एव अद्य तथा एव शोभनम् मन्ये महान् अस्य कृतः हि अनुग्रहः विभ्रंशितः यत् श्रियः आत्म-मोहनात्
यया हि विद्वानपि मुह्यते यत-
स्तत् को विचष्टे गतिमात्मनो यथा ।
तस्मै नमस्ते जगदीश्वराय वै
नारायणायाखिललोकसाक्षिणे ॥ १७ ॥
यया हि विद्वान् अपि मुह्यते यतः तत् कः विचष्टे गतिम् आत्मनः यथा तस्मै नमः ते जगत्-ईश्वराय वै नारायणाय अखिल-लोक-साक्षिणे
श्रीशुक उवाच
तस्यानुशृण्वतो राजन् प्रह्लादस्य कृताञ्जले: ।
हिरण्यगर्भो भगवानुवाच मधुसूदनम् ॥ १८ ॥
श्री-शुकः उवाच तस्य अनुशृण्वतः राजन् प्रह्रादस्य कृत-अञ्जलेः हिरण्यगर्भः भगवान् उवाच मधुसूदनम्
बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला ।
प्राञ्जलि: प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप ॥ १९ ॥
बद्धम् वीक्ष्य पतिम् साध्वी तत्-पत्नी भय-विह्वला प्राञ्जलिः प्रणता उपेन्द्रम् बभाषे अवाक्-मुखी नृप
श्रीविन्ध्यावलिरुवाच
क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते
स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्यु: ।
कर्तु: प्रभोस्तव किमस्यत आवहन्ति
त्यक्तह्रियस्त्वदवरोपितकर्तृवादा: ॥ २० ॥
श्री-विन्ध्यावलिः उवाच क्रीडा-अर्थम् आत्मनः इदम् त्रि-जगत् कृतम् ते स्वाम्यम् तु तत्र कुधियः अपरे ईश कुर्युः कर्तुः प्रभोः तव किम् अस्यतः आवहन्ति त्यक्त-ह्रियः त्वत् अवरोपित कर्तृ-वादाः
श्रीब्रह्मोवाच
भूतभावन भूतेश देवदेव जगन्मय ।
मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ २१ ॥
श्री-ब्रह्मा उवाच भूत-भावन भूत-ईश देव-देव जगत्-मय मुञ्च एनम् हृत-सर्वस्वम् न अयम् अर्हति निग्रहम्
कृत्स्ना तेऽनेन दत्ता भूर्लोका: कर्मार्जिताश्च ये ।
निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥ २२ ॥
कृत्स्नाः ते अनेन दत्ताः भूः लोकाः कर्म-अर्जिताः च ये निवेदितम् च सर्वस्वम् आत्मा अविक्लवया धिया
यत्पादयोरशठधी: सलिलं प्रदाय
दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।
अप्युत्तमां गतिमसौ भजते त्रिलोकीं
दाश्वानविक्लवमना: कथमार्तिमृच्छेत् ॥ २३ ॥
यत्-पादयोः अशठ-धीः सलिलम् प्रदाय दूर्वा अङ्कुरैः अपि विधाय सतीम् सपर्याम् अपि उत्तमाम् गतिम् असौ भजते त्रि-लोकीम् दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत्
श्रीभगवानुवाच
ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।
यन्मद: पुरुष: स्तब्धो लोकं मां चावमन्यते ॥ २४ ॥
श्री-भगवान् उवाच ब्रह्मन् यम् अनुगृह्णामि तत् विशः विधुनोमि अहम् यत्-मदः पुरुषः स्तब्धः लोकम् माम् च अवमन्यते
यदा कदाचिज्जीवात्मा संसरन् निजकर्मभि: ।
नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥ २५ ॥
यदा कदाचित् जीव-आत्मा संसरन् निज-कर्मभिः नाना-योनिषु अनीशः अयम् पौरुषीम् गतिम् आव्रजेत्
जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभि: ।
यद्यस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रह: ॥ २६ ॥
जन्म कर्म वयः रूप विद्या ऐश्वर्य धन आदिभिः यदि अस्य न भवेत् स्तम्भः तत्र अयम् मत्-अनुग्रहः
मानस्तम्भनिमित्तानां जन्मादीनां समन्तत: ।
सर्वश्रेय:प्रतीपानां हन्त मुह्येन्न मत्पर: ॥ २७ ॥
मान स्तम्भ निमित्तानाम् जन्म-आदीनाम् समन्ततः सर्व-श्रेयः प्रतीपानाम् हन्त मुह्येत् न मत्-परः
एष दानवदैत्यानामग्रणी: कीर्तिवर्धन: ।
अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ २८ ॥
एषः दानव-दैत्यानाम् अग्रनीः कीर्ति-वर्धनः अजैषीत् अजयाम् मायाम् सीदन् अपि न मुह्यति
क्षीणरिक्थश्च्युत: स्थानात् क्षिप्तो बद्धश्च शत्रुभि: ।
ज्ञातिभिश्च परित्यक्तो यातनामनुयापित: ॥ २९ ॥
गुरुणा भर्त्सित: शप्तो जहौ सत्यं न सुव्रत: ।
छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ ३० ॥
क्षीण-रिक्थः च्युतः स्थानात् क्षिप्तः बद्धः च शत्रुभिः ज्ञातिभिः च परित्यक्तः यातनाम् अनुयापितः गुरुणा भर्त्सितः शप्तः जहौ सत्यम् न सु-व्रतः छलैः उक्तः मया धर्मः न अयम् त्यजति सत्य-वाक्
एष मे प्रापित: स्थानं दुष्प्रापममरैरपि ।
सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रय: ॥ ३१ ॥
एषः मे प्रापितः स्थानम् दुष्प्रापम् अमरैः अपि सावर्णेः अन्तरस्य अयम् भविता इन्द्रः मत्-आश्रयः
तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।
यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभव: ।
नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ ३२ ॥
तावत् सुतलम् अध्यास्ताम् विश्वकर्म-विनिर्मितम् यत् आधयः व्याधयः च क्लमः तन्द्रा पराभवः न उपसर्गाः निवसताम् सम्भवन्ति मम ईक्षया
इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।
सुतलं स्वर्गिभि: प्रार्थ्यं ज्ञातिभि: परिवारित: ॥ ३३ ॥
इन्द्रसेन महाराज याहि भोः भद्रम् अस्तु ते सुतलम् स्वर्गिभिः प्रार्थ्यम् ज्ञातिभिः परिवारितः
न त्वामभिभविष्यन्ति लोकेशा: किमुतापरे ।
त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥ ३४ ॥
न त्वाम् अभिभविष्यन्ति लोक-ईशाः किम् उत अपरे त्वत्-शासन-अतिगान् दैत्यान् चक्रम् मे सूदयिष्यति
रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।
सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ ३५ ॥
रक्षिष्ये सर्वतः अहम् त्वाम् स-अनुगम् स-परिच्छदम् सदा सन्निहितम् वीर तत्र माम् द्रक्ष्यते भवान्
तत्र दानवदैत्यानां सङ्गात्ते भाव आसुर: ।
दृष्ट्वा मदनुभावं वै सद्य: कुण्ठो विनङ्क्ष्यति ॥ ३६ ॥
तत्र दानव-दैत्यानाम् सङ्गात् ते भावः आसुरः दृष्ट्वा मत्-अनुभावम् वै सद्यः कुण्ठः विनङ्क्ष्यति
८.२३
श्रीशुक उवाच
इत्युक्तवन्तं पुरुषं पुरातनं
महानुभावोऽखिलसाधुसम्मत: ।
बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो
भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ १ ॥
श्री-शुकः उवाच इति उक्तवन्तम् पुरुषम् पुरातनम् महा-अनुभावः अखिल-साधु-सम्मतः बद्ध-अञ्जलिः बाष्प-कल-आकुल-ईक्षणः भक्ति-उत्कलः गद्गदया गिरा अब्रवीत्
श्रीबलिरुवाच
अहो प्रणामाय कृत: समुद्यम:
प्रपन्नभक्तार्थविधौ समाहित: ।
यल्लोकपालैस्त्वदनुग्रहोऽमरै-
रलब्धपूर्वोऽपसदेऽसुरेऽर्पित: ॥ २ ॥
श्री-बलिः उवाच अहो प्रणामाय कृतः समुद्यमः प्रपन्न-भक्त-अर्थ-विधौ समाहितः यत् लोक-पालैः त्वत्-अनुग्रहः अमरैः अलब्ध-पूर्वः अपसदे असुरे अर्पितः
श्रीशुक उवाच
इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं तत: ।
विवेश सुतलं प्रीतो बलिर्मुक्त: सहासुरै: ॥ ३ ॥
श्री-शुकः उवाच इति उक्त्वा हरिम् आनत्य ब्रह्माणम् स-भवम् ततः विवेश सुतलम् प्रीतः बलिः मुक्तः सह असुरैः
एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् ।
पूरयित्वादिते: काममशासत् सकलं जगत् ॥ ४ ॥
एवम् इन्द्राय भगवान् प्रत्यानीय त्रि-विष्टपम् पूरयित्वा अदितेः कामम् अशासत् सकलम् जगत्
लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।
निशाम्य भक्तिप्रवण: प्रह्लाद इदमब्रवीत् ॥ ५ ॥
लब्ध-प्रसादम् निर्मुक्तम् पौत्रम् वंश-धरम् बलिम् निशाम्य भक्ति-प्रवणः प्रह्रादः इदम् अब्रवीत्
श्रीप्रह्लाद उवाच
नेमं विरिञ्चो लभते प्रसादं
न श्रीर्न शर्व: किमुतापरेऽन्ये ।
यन्नोऽसुराणामसि दुर्गपालो
विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रि: ॥ ६ ॥
श्री-प्रह्रादः उवाच न इमम् विरिञ्चः लभते प्रसादम् न श्रीः न शर्वः किम् उत अपरे अन्ये यत् नः असुराणाम् असि दुर्ग-पालः विश्व-अभिवन्द्यैः अभिवन्दित-अङ्घ्रिः
यत्पादपद्ममकरन्दनिषेवणेन
ब्रह्मादय: शरणदाश्नुवते विभूती: ।
कस्माद् वयं कुसृतय: खलयोनयस्ते
दाक्षिण्यदृष्टिपदवीं भवत: प्रणीता: ॥ ७ ॥
यत् पाद-पद्म मकरन्द निषेवणेन ब्रह्म-आदयः शरण-द अश्नुवते विभूतीः कस्मात् वयम् कु-सृतयः खल-योनयः ते दाक्षिण्य-दृष्टि-पदवीम् भवतः प्रणीताः
चित्रं तवेहितमहोऽमितयोगमाया-
लीलाविसृष्टभुवनस्य विशारदस्य ।
सर्वात्मन: समदृशोऽविषम: स्वभावो
भक्तप्रियो यदसि कल्पतरुस्वभाव: ॥ ८ ॥
चित्रम् तव ईहितम् अहो अमित योग-माया लीला विसृष्ट-भुवनस्य विशारदस्य सर्व-आत्मनः सम-दृशः अविषमः स्वभावः भक्त-प्रियः यत् असि कल्पतरु-स्वभावः
श्रीभगवानुवाच
वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम् ।
मोदमान: स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥
श्री-भगवान् उवाच वत्स प्रह्राद भद्रम् ते प्रयाहि सुतल-आलयम् मोदमानः स्व-पौत्रेण ज्ञातीनाम् सुखम् आवह
नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।
मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धन: ॥ १० ॥
नित्यम् द्रष्टा असि माम् तत्र गदा-पाणिम् अवस्थितम् मत्-दर्शन महा-आह्लाद ध्वस्त कर्म-निबन्धनः
श्रीशुक उवाच
आज्ञां भगवतो राजन्प्रह्लादो बलिना सह ।
बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलि: ॥ ११ ॥
परिक्रम्यादिपुरुषं सर्वासुरचमूपति: ।
प्रणतस्तदनुज्ञात: प्रविवेश महाबिलम् ॥ १२ ॥
श्री-शुकः उवाच आज्ञाम् भगवतः राजन् प्रह्रादः बलिना सह बाढम् इति अमल-प्रज्ञः मूर्ध्नि आधाय कृत-अञ्जलिः परिक्रम्य आदि-पुरुषम् सर्व-असुर-चमूपतिः प्रणतः तत्-अनुज्ञातः प्रविवेश महा-बिलम्
अथाहोशनसं राजन्हरिर्नारायणोऽन्तिके ।
आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥
अथ आह उशनसम् राजन् हरिः नारायणः अन्तिके आसीनम् ऋत्विजाम् मध्ये सदसि ब्रह्म-वादिनाम्
ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वत: ।
यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥
ब्रह्मन् सन्तनु शिष्यस्य कर्म-छिद्रम् वितन्वतः यत् तत् कर्मसु वैषम्यम् ब्रह्म-दृष्टम् समम् भवेत्
श्रीशुक्र उवाच
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।
यज्ञेशो यज्ञपुरुष: सर्वभावेन पूजित: ॥ १५ ॥
श्री-शुक्रः उवाच कुतः तत् कर्म-वैषम्यम् यस्य कर्म-ईश्वरः भवान् यज्ञ-ईशः यज्ञ-पुरुषः सर्व-भावेन पूजितः
मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुत: ।
सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ १६ ॥
मन्त्रतः तन्त्रतः छिद्रम् देश काल अर्ह वस्तुतः सर्वम् करोति निश्छिद्रम् अनुसङ्कीर्तनम् तव
तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।
एतच्छ्रेय: परं पुंसां यत् तवाज्ञानुपालनम् ॥ १७ ॥
तथापि वदतः भूमन् करिष्यामि अनुशासनम् एतत् श्रेयः परम् पुंसाम् यत् तव आज्ञा-अनुपालनम्
श्रीशुक उवाच
प्रतिनन्द्य हरेराज्ञामुशना भगवानिति ।
यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभि: सह ॥ १८ ॥
श्री-शुकः उवाच प्रतिनन्द्य हरेः आज्ञाम् उशनाः भगवान् इति यज्ञ-छिद्रम् समाधत्त बलेः विप्र-ऋषिभिः सह
एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरि: ।
ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥
एवम् बलेः महीम् राजन् भिक्षित्वा वामनः हरिः ददौ भ्रात्रे महा-इन्द्राय त्रिदिवम् यत् परैः हृतम्
प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपै: ।
दक्षभृग्वङ्गिरोमुख्यै: कुमारेण भवेन च ॥ २० ॥
कश्यपस्यादिते: प्रीत्यै सर्वभूतभवाय च ।
लोकानां लोकपालानामकरोद् वामनं पतिम् ॥ २१ ॥
प्रजापति-पतिः ब्रह्मा देव ऋषि पितृ भूमिपैः दक्ष भृगु अङ्गिराः मुख्यैः कुमारेण भवेन च कश्यपस्य अदितेः प्रीत्यै सर्व-भूत-भवाय च लोकानाम् लोक-पालानाम् अकरोत् वामनम् पतिम्
वेदानां सर्वदेवानां धर्मस्य यशस: श्रिय: ।
मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयो: ॥ २२ ॥
उपेन्द्रं कल्पयांचक्रे पतिं सर्वविभूतये ।
तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥
वेदानाम् सर्व-देवानाम् धर्मस्य यशसः श्रियः मङ्गलानाम् व्रतानाम् च कल्पम् स्वर्ग-अपवर्गयोः उपेन्द्रम् कल्पयाम् चक्रे पतिम् सर्व-विभूतये तदा सर्वाणि भूतानि भृशम् मुमुदिरे नृप
ततस्त्विन्द्र: पुरस्कृत्य देवयानेन वामनम् ।
लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदित: ॥ २४ ॥
ततः तु इन्द्रः पुरस्कृत्य देव-यानेन वामनम् लोक-पालैः दिवम् निन्ये ब्रह्मणा च अनुमोदितः
प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालित: ।
श्रिया परमया जुष्टो मुमुदे गतसाध्वस: ॥ २५ ॥
प्राप्य त्रि-भुवनम् च इन्द्रः उपेन्द्र-भुज-पालितः श्रिया परमया जुष्टः मुमुदे गत-साध्वसः
ब्रह्मा शर्व: कुमारश्च भृग्वाद्या मुनयो नृप ।
पितर: सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥
सुमहत् कर्म तद् विष्णोर्गायन्त: परमद्भुतम् ।
धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ २७ ॥
ब्रह्मा शर्वः कुमारः च भृगु-आद्याः मुनयः नृप पितरः सर्व-भूतानि सिद्धाः वैमानिकाः च ये सुमहत् कर्म तत् विष्णोः गायन्तः परम् अद्भुतम् धिष्ण्यानि स्वानि ते जग्मुः अदितिम् च शशंसिरे
सर्वमेतन्मयाख्यातं भवत: कुलनन्दन ।
उरुक्रमस्य चरितं श्रोतृणामघमोचनम् ॥ २८ ॥
सर्वम् एतत् मया आख्यातम् भवतः कुल-नन्दन उरुक्रमस्य चरितम् श्रोतॄणाम् अघ-मोचनम्
पारं महिम्न उरुविक्रमतो गृणानो
य: पार्थिवानि विममे स रजांसि मर्त्य: ।
किं जायमान उत जात उपैति मर्त्य
इत्याह मन्त्रदृगृषि: पुरुषस्य यस्य ॥ २९ ॥
पारम् महिम्नः उरुविक्रमतः गृणानः यः पार्थिवानि विममे सः रजांसि मर्त्यः किम् जायमानः उत जातः उपैति मर्त्यः इति आह मन्त्र-दृक् ऋषिः पुरुषस्य यस्य
य इदं देवदेवस्य हरेरद्भुतकर्मण: ।
अवतारानुचरितं शृण्वन् याति परां गतिम् ॥ ३० ॥
यः इदम् देव-देवस्य हरेः अद्भुत-कर्मणः अवतार-अनुचरितम् शृण्वन् याति पराम् गतिम्
क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।
यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदु: ॥ ३१ ॥
क्रियमाणे कर्मणि इदम् दैवे पित्र्ये अथ मानुषे यत्र यत्र अनुकीर्त्येत तत् तेषाम् सुकृतम् विदुः
८.२४
श्रीराजोवाच
भगवञ्छ्रोतुमिच्छामि हरेरद्भुतकर्मण: ।
अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १ ॥
श्री-राजा उवाच भगवन् श्रोतुम् इच्छामि हरेः अद्भुत-कर्मणः अवतार-कथाम् आद्याम् माया-मत्स्य-विडम्बनम्
यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् ।
तम:प्रकृति दुर्मर्षं कर्मग्रस्त इवेश्वर: ॥ २ ॥
एतन्नो भगवन् सर्वं यथावद् वक्तुमर्हसि ।
उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥
यत्-अर्थम् अदधात् रूपम् मात्स्यम् लोक-जुगुप्सितम् तमः प्रकृति दुर्मर्षम् कर्म-ग्रस्तः इव ईश्वरः एतत् नः भगवन् सर्वम् यथावत् वक्तुम् अर्हसि उत्तमश्लोक-चरितम् सर्व-लोक-सुख-आवहम्
श्रीसूत उवाच
इत्युक्तो विष्णुरातेन भगवान् बादरायणि: ।
उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ ४ ॥
श्री-सूतः उवाच इति उक्तः विष्णु-रातेन भगवान् बादरायणिः उवाच चरितम् विष्णोः मत्स्य-रूपेण यत् कृतम्
श्रीशुक उवाच
गोविप्रसुरसाधूनां छन्दसामपि चेश्वर: ।
रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥
श्री-शुकः उवाच गो विप्र सुर साधूनाम् छन्दसाम् अपि च ईश्वरः रक्षाम् इच्छन् तनूः धत्ते धर्मस्य अर्थस्य च एव हि
उच्चावचेषु भूतेषु चरन् वायुरिवेश्वर: ।
नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणै: ॥ ६ ॥
उच्च-अवचेषु भूतेषु चरन् वायुः इव ईश्वरः न उच्च-अवचत्वम् भजते निर्गुणत्वात् धियः गुणैः
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लय: ।
समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७ ॥
आसीत् अतीत कल्प-अन्ते ब्राह्मः नैमित्तिकः लयः समुद्र उपप्लुताः तत्र लोकाः भूः-आदयः नृप
कालेनागतनिद्रस्य धातु: शिशयिषोर्बली ।
मुखतो नि:सृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥
कालेन आगत-निद्रस्य धातुः शिशयिषोः बली मुखतः निःसृतान् वेदान् हयग्रीवः अन्तिके अहरत्
ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।
दधार शफरीरूपं भगवान् हरिरीश्वर: ॥ ९ ॥
ज्ञात्वा तत् दानव-इन्द्रस्य हयग्रीवस्य चेष्टितम् दधार शफरी-रूपम् भगवान् हरिः ईश्वरः
तत्र राजऋषि: कश्चिन्नाम्ना सत्यव्रतो महान् ।
नारायणपरोऽतपत् तप: स सलिलाशन: ॥ १० ॥
तत्र राज-ऋषिः कश्चित् नाम्ना सत्यव्रतः महान् नारायण-परः अतपत् तपः सः सलिल-आशनः
योऽसावस्मिन् महाकल्पे तनय: स विवस्वत: ।
श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पित: ॥ ११ ॥
यः असौ अस्मिन् महा-कल्पे तनयः सः विवस्वतः श्राद्धदेवः इति ख्यातः मनुत्वे हरिणा अर्पितः
एकदा कृतमालायां कुर्वतो जलतर्पणम् ।
तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत ॥ १२ ॥
एकदा कृतमालायाम् कुर्वतः जल-तर्पणम् तस्य अञ्जलि उदके काचित् शफरी एका अभ्यपद्यत
सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।
उत्ससर्ज नदीतोये शफरीं द्रविडेश्वर: ॥ १३ ॥
सत्यव्रतः अञ्जलि-गताम् सह तोयेन भारत उत्ससर्ज नदी-तोये शफरीम् द्रविड-ईश्वरः
तमाह सातिकरुणं महाकारुणिकं नृपम् ।
यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।
कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥
तम् आह सा अति-करुणम् महा-कारुणिकम् नृपम् यादोभ्यः ज्ञाति-घातिभ्यः दीनाम् माम् दीन-वत्सल कथम् विसृजसे राजन् भीताम् अस्मिन् सरित्-जले
तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।
अजानन् रक्षणार्थाय शफर्या: स मनो दधे ॥ १५ ॥
तम् आत्मनः अनुग्रह-अर्थम् प्रीत्या मत्स्य-वपुः-धरम् अजानन् रक्षण-अर्थाय शफर्याः सः मनः दधे
तस्या दीनतरं वाक्यमाश्रुत्य स महीपति: ।
कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥
तस्याः दीन-तरम् वाक्यम् आश्रुत्य सः मही-पतिः कलश-अप्सु निधाय एनाम् दयालुः निन्ये आश्रमम्
सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।
अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥
सा तु तत्र एक-रात्रेण वर्धमाना कमण्डलौ अलब्ध्वा आत्म-अवकाशम् वा इदम् आह मही-पतिम्
नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।
कल्पयौक: सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥
न अहम् कमण्डलौ अस्मिन् कृच्छ्रम् वस्तुम् इह उत्सहे कल्पय ओकः सु-विपुलम् यत्र अहम् निवसे सुखम्
स एनां तत आदाय न्यधादौदञ्चनोदके ।
तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥
सः एनाम् ततः आदाय न्यधात् औदञ्चन-उदके तत्र क्षिप्ता मुहूर्तेन हस्त-त्रयम् अवर्धत
न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् ।
पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता ॥ २० ॥
न मे एतत् अलम् राजन् सुखम् वस्तुम् उदञ्चनम् पृथु देहि पदम् मह्यम् यत् त्वा अहम् शरणम् गता
तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।
तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१ ॥
ततः आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे तत् आवृत्य आत्मना सः अयम् महा-मीनः अन्ववर्धत
नैतन्मे स्वस्तये राजन्नुदकं सलिलौकस: ।
निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥
न एतत् मे स्वस्तये राजन् उदकम् सलिल-ओकसः निधेहि रक्षा-योगेन ह्रदे माम् अविदासिनि
इत्युक्त: सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।
जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥
इति उक्तः सः अनयत् मत्स्यम् तत्र तत्र अविदासिनि जल-आशये असम्मितम् तम् समुद्रे प्राक्षिपत् झषम्
क्षिप्यमाणस्तमाहेदमिह मां मकरादय: ।
अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥
क्षिप्यमाणः तम् आह इदम् इह माम् मकर-आदयः अदन्ति अति-बलाः वीर माम् न इह उत्स्रष्टुम् अर्हसि
एवं विमोहितस्तेन वदता वल्गुभारतीम् ।
तमाह को भवानस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥
एवम् विमोहितः तेन वदता वल्गु-भारतीम् तम् आह कः भवान् अस्मान् मत्स्य-रूपेण मोहयन्
नैवंवीर्यो जलचरो दृष्टोऽस्माभि: श्रुतोऽपि वा ।
यो भवान् योजनशतमह्नाभिव्यानशे सर: ॥ २६ ॥
न एवम् वीर्यः जल-चरः दृष्टः अस्माभिः श्रुतः अपि वा यः भवान् योजन-शतम् अह्ना अभिव्यानशे सरः
नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्यय: ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥
नूनम् त्वम् भगवान् साक्षात् हरिः नारायणः अव्ययः अनुग्रहाय भूतानाम् धत्से रूपम् जल-ओकसाम्
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां न: प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८ ॥
नमः ते पुरुष-श्रेष्ठ स्थिति उत्पत्ति अप्यय ईश्वर भक्तानाम् नः प्रपन्नानाम् मुख्यः हि आत्म-गतिः विभो
सर्वे लीलावतारास्ते भूतानां भूतिहेतव: ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥
सर्वे लीला अवताराः ते भूतानाम् भूति हेतवः ज्ञातुम् इच्छामि अदः रूपम् यत्-अर्थम् भवता धृतम्
न तेऽरविन्दाक्ष पदोपसर्पणं
मृषा भवेत् सर्वसुहृत्प्रियात्मन: ।
यथेतरेषां पृथगात्मनां सता-
मदीदृशो यद् वपुरद्भुतं हि न: ॥ ३० ॥
न ते अरविन्द-अक्ष पद-उपसर्पणम् मृषा भवेत् सर्व-सुहृत् प्रिय आत्मनः यथा इतरेषाम् पृथक्-आत्मनाम् सताम् अदीदृशः यत् वपुः अद्भुतम् हि नः
श्रीशुक उवाच
इति ब्रुवाणं नृपतिं जगत्पति:
सत्यव्रतं मत्स्यवपुर्युगक्षये ।
विहर्तुकाम: प्रलयार्णवेऽब्रवी-
च्चिकीर्षुरेकान्तजनप्रिय: प्रियम् ॥ ३१ ॥
श्री-शुकः उवाच इति ब्रुवाणम् नृपतिम् जगत्-पतिः सत्यव्रतम् मत्स्य-वपुः युग-क्षये विहर्तु-कामः प्रलय-अर्णवे अब्रवीत् चिकीर्षुः एकान्त-जन-प्रियः प्रियम्
श्रीभगवानुवाच
सप्तमे ह्यद्यतनादूर्ध्वमहन्येतदरिंदम ।
निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥
श्री-भगवान् उवाच सप्तमे हि अद्यतनात् ऊर्ध्वम् अहनि एतत् अरिम्दम निमङ्क्ष्यति अप्यय-अम्भोधौ त्रैलोक्यम् भूः-भुव-आदिकम्
त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।
उपस्थास्यति नौ: काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥
त्रि-लोक्याम् लीयमानायाम् संवर्त-अम्भसि वै तदा उपस्थास्यति नौः काचित् विशाला त्वाम् मया ईरिता
त्वं तावदोषधी: सर्वा बीजान्युच्चावचानि च ।
सप्तर्षिभि: परिवृत: सर्वसत्त्वोपबृंहित: ॥ ३४ ॥
आरुह्य बृहतीं नावं विचरिष्यस्यविक्लव: ।
एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥
त्वम् तावत् ओषधीः सर्वाः बीजानि उच्च-अवचानि च सप्त-ऋषिभिः परिवृतः सर्व-सत्त्व उपबृंहितः आरुह्य बृहतीम् नावम् विचरिष्यसि अविक्लवः एक-अर्णवे निरालोके ऋषीणाम् एव वर्चसा
दोधूयमानां तां नावं समीरेण बलीयसा ।
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ ३६ ॥
दोधूयमानाम् ताम् नावम् समीरेण बलीयसा उपस्थितस्य मे शृङ्गे निबध्नीहि महा-अहिना
अहं त्वामृषिभि: सार्धं सहनावमुदन्वति ।
विकर्षन् विचरिष्यामि यावद् ब्राह्मी निशा प्रभो ॥ ३७ ॥
अहम् त्वाम् ऋषिभिः सार्धम् सह नावम् उदन्वति विकर्षन् विचरिष्यामि यावत् ब्राह्मी निशा प्रभो
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ ३८ ॥
मदीयम् महिमानम् च परम् ब्रह्म इति शब्दितम् वेत्स्यसि अनुगृहीतम् मे सम्प्रश्नैः विवृतम् हृदि
इत्थमादिश्य राजानं हरिरन्तरधीयत ।
सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥
इत्थम् आदिश्य राजानम् हरिः अन्तरधीयत सः अन्ववैक्षत तम् कालम् यम् हृषीक-ईशः आदिशत्
आस्तीर्य दर्भान् प्राक्कूलान् राजर्षि: प्रागुदङ्मुख: ।
निषसाद हरे: पादौ चिन्तयन् मत्स्यरूपिण: ॥ ४० ॥
आस्तीर्य दर्भान् प्राक्-कूलान् राज-ऋषिः प्राक्-उदक्-मुखः निषसाद हरेः पादौ चिन्तयन् मत्स्य-रूपिणः
तत: समुद्र उद्वेल: सर्वत: प्लावयन् महीम् ।
वर्धमानो महामेघैर्वर्षद्भि: समदृश्यत ॥ ४१ ॥
ततः समुद्रः उद्वेलः सर्वतः प्लावयन् महीम् वर्धमानः महा-मेघैः वर्षद्भिः समदृश्यत
ध्यायन् भगवदादेशं ददृशे नावमागताम् ।
तामारुरोह विप्रेन्द्रैरादायौषधिवीरुध: ॥ ४२ ॥
ध्यायन् भगवत्-आदेशम् ददृशे नावम् आगताम् ताम् आरुरोह विप्र-इन्द्रैः आदाय औषधि वीरुधः
तमूचुर्मुनय: प्रीता राजन् ध्यायस्व केशवम् ।
स वै न: सङ्कटादस्मादविता शं विधास्यति ॥ ४३ ॥
तम् ऊचुः मुनयः प्रीताः राजन् ध्यायस्व केशवम् सः वै नः सङ्कटात् अस्मात् अविता शम् विधास्यति
सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे ।
एकशृङ्गधरो मत्स्यो हैमो नियुतयोजन: ॥ ४४ ॥
सः अनुध्यातः ततः राज्ञा प्रादुरासीत् महा-अर्णवे एक-शृङ्ग-धरः मत्स्यः हैमः नियुत-योजनः
निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा ।
वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ ४५ ॥
निबध्य नावम् तत्-शृङ्गे यथा-उक्तः हरिणा पुरा वरत्रेण अहिना तुष्टः तुष्टाव मधुसूदनम्
श्रीराजोवाच
अनाद्यविद्योपहतात्मसंविद-
स्तन्मूलसंसारपरिश्रमातुरा: ।
यदृच्छयोपसृता यमाप्नुयु-
र्विमुक्तिदो न: परमो गुरुर्भवान् ॥ ४६ ॥
श्री-राजा उवाच अनादि अविद्या उपहत आत्म-संविदः तत् मूल संसार परिश्रम आतुराः यदृच्छया उपसृताः यम् आप्नुयुः विमुक्ति-दः नः परमः गुरुः भवान्
जनोऽबुधोऽयं निजकर्मबन्धन:
सुखेच्छया कर्म समीहतेऽसुखम् ।
यत्सेवया तां विधुनोत्यसन्मतिं
ग्रन्थिं स भिन्द्याद् धृदयं स नो गुरु: ॥ ४७ ॥
जनः अबुधः अयम् निज-कर्म-बन्धनः सुख-इच्छया कर्म समीहते असुखम् यत्-सेवया ताम् विधुनोति असत्-मतिम् ग्रन्थिम् सः भिन्द्यात् हृदयम् सः नः गुरुः
यत्सेवयाग्नेरिव रुद्ररोदनं
पुमान् विजह्यान्मलमात्मनस्तम: ।
भजेत वर्णं निजमेष सोऽव्ययो
भूयात् स ईश: परमो गुरोर्गुरु: ॥ ४८ ॥
यत्-सेवया अग्नेः इव रुद्र-रोदनम् पुमान् विजह्यात् मलम् आत्मनः तमः भजेत वर्णम् निजम् एषः सः अव्ययः भूयात् सः ईशः परमः गुरोः गुरुः
न यत्प्रसादायुतभागलेश-
मन्ये च देवा गुरवो जना: स्वयम् ।
कर्तुं समेता: प्रभवन्ति पुंस-
स्तमीश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥
न यत्-प्रसाद अयुत-भाग-लेशम् अन्ये च देवाः गुरवः जनाः स्वयम् कर्तुम् समेताः प्रभवन्ति पुंसः तम् ईश्वरम् त्वाम् शरणम् प्रपद्ये
अचक्षुरन्धस्य यथाग्रणी: कृत-
स्तथा जनस्याविदुषोऽबुधो गुरु: ।
त्वमर्कदृक् सर्वदृशां समीक्षणो
वृतो गुरुर्न: स्वगतिं बुभुत्सताम् ॥ ५० ॥
अचक्षुः अन्धस्य यथा अग्रणीः कृतः तथा जनस्य अविदुषः अबुधः गुरुः त्वम् अर्क-दृक् सर्व-दृशाम् समीक्षणः वृतः गुरुः नः स्व-गतिम् बुभुत्सताम्
जनो जनस्यादिशतेऽसतीं गतिं
यया प्रपद्येत दुरत्ययं तम: ।
त्वं त्वव्ययं ज्ञानममोघमञ्जसा
प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥
जनः जनस्य आदिशते असतीम् गतिम् यया प्रपद्येत दुरत्ययम् तमः त्वम् तु अव्ययम् ज्ञानम् अमोघम् अञ्जसा प्रपद्यते येन जनः निजम् पदम्
त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो
ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धि: ।
तथापि लोको न भवन्तमन्धधी-
र्जानाति सन्तं हृदि बद्धकाम: ॥ ५२ ॥
त्वम् सर्व-लोकस्य सुहृत् प्रिय ईश्वरः हि आत्मा गुरुः ज्ञानम् अभीष्ट-सिद्धिः तथा अपि लोकः न भवन्तम् अन्ध-धीः जानाति सन्तम् हृदि बद्ध-कामः
त्वं त्वामहं देववरं वरेण्यं
प्रपद्य ईशं प्रतिबोधनाय ।
छिन्ध्यर्थदीपैर्भगवन् वचोभि-
र्ग्रन्थीन् हृदय्यान् विवृणु स्वमोक: ॥ ५३ ॥
त्वम् त्वाम् अहम् देव-वरम् वरेण्यम् प्रपद्ये ईशम् प्रतिबोधनाय छिन्धि अर्थ-दीपैः भगवन् वचोभिः ग्रन्थीन् हृदय्यान् विवृणु स्वम् ओकः
श्रीशुक उवाच
इत्युक्तवन्तं नृपतिं भगवानादिपूरुष: ।
मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥ ५४ ॥
श्री-शुकः उवाच इति उक्तवन्तम् नृपतिम् भगवान् आदि-पूरुषः मत्स्य-रूपी महा-अम्भोधौ विहरन् तत्त्वम् अब्रवीत्
पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् ।
सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषत: ॥ ५५ ॥
पुराण संहिताम् दिव्याम् साङ्ख्य योग क्रियावतीम् सत्यव्रतस्य राज-ऋषेः आत्म-गुह्यम् अशेषतः
अश्रौषीदृषिभि: साकमात्मतत्त्वमसंशयम् ।
नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥
अश्रौषीत् ऋषिभिः साकम् आत्म-तत्त्वम् असंशयम् नावि आसीनः भगवता प्रोक्तम् ब्रह्म सनातनम्
अतीतप्रलयापाय उत्थिताय स वेधसे ।
हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरि: ॥ ५७ ॥
अतीत प्रलय-अपाये उत्थिताय सः वेधसे हत्वा असुरम् हयग्रीवम् वेदान् प्रत्याहरत् हरिः
स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुत: ।
विष्णो: प्रसादात् कल्पेऽस्मिन्नासीद् वैवस्वतो मनु: ॥ ५८ ॥
सः तु सत्यव्रतः राजा ज्ञान-विज्ञान-संयुतः विष्णोः प्रसादात् कल्पे अस्मिन् आसीत् वैवस्वतः मनुः
सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिण: ।
संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥
सत्यव्रतस्य राज-ऋषेः माया-मत्स्यस्य शार्ङ्गिणः संवादम् महत्-आख्यानम् श्रुत्वा मुच्येत किल्बिषात्
अवतारं हरेर्योऽयं कीर्तयेदन्वहं नर: ।
सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६० ॥
अवतारम् हरेः यः अयम् कीर्तयेत् अन्वहम् नरः सङ्कल्पाः तस्य सिध्यन्ति सः याति परमाम् गतिम्
प्रलयपयसि धातु: सुप्तशक्तेर्मुखेभ्य:
श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।
दितिजमकथयद् यो ब्रह्म सत्यव्रतानां
तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥
स वै मन: कृष्णपदारविन्दयो-
र्वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥
प्रलय-पयसि धातुः सुप्त-शक्तेः मुखेभ्यः श्रुति-गणम् अपनीतम् प्रत्युपादत्त हत्वा दितिजम् अकथयत् यः ब्रह्म सत्यव्रतानाम् तम् अहम् अखिल-हेतुम् जिह्म-मीनम् नतः अस्मि