श्रीमद्भागवतमहापुराणम्
अष्टम: स्कन्ध:
प्रथम: अध्याय:
राजा-उवाच - The King (Pareekshita) said -
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुत: ।
यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व न: ॥१॥
स्वायम्भुवस्य-इह गुरो of Swaayambhuva, here, O Preceptor!
वंश:-अयम् विस्तरात्-श्रुत: lineage this, in detail have heard
यत्र विश्वसृजाम् सर्ग: where the creator of the universe posterity was
यत्र विश्वसृजाम् सर्ग: where the creator of the universe posterity was figured
मनून्-अन्यान्-वदस्व न: the Manus others do tell us
यत्र यत्र हरेर्जन्म कर्माणि च महीयस: ।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥२॥
यत्र यत्र हरे:-जन्म where all, Shree Hari's birth
कर्माणि च महीयस: exploits and of the greatest the great
गृणन्ति कवय: ब्रह्मन्- describe the wise, O Holy One!
तानि न: वद शृण्वताम् those tell us, (who are) eager to hear
यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावन: ।
कृतवान्कुरुते कर्ता ह्यतीतेऽअनागतेऽद्य वा ॥३॥
यत्-यस्मिन्-अन्तरे ब्रह्मन्- that which, in which Manvantara, O Holy One!
भगवान्-विश्वभावन: The Lord, Protector of the universe
कृतवान्-कुरुते कर्ता हि- did, doing now, will do indeed
अतीते-अनागते-अद्य वा in the past, future and today or
ऋषि:-उवाच - The sage (Shukadeva) said -
मनवोऽस्मिन्व्यतीता: षट् कल्पे स्वायम्भुवादय: ।
आद्यस्ते कथितो यत्र देवादीनां च सम्भव: ॥४॥
मनव:-अस्मिन् व्यतीता: षट् Manvantaras, in this have passed six
कल्पे स्वायम्भुव-आदय: Kalpas, of Swaayambhuva and others
आद्य:-ते कथित: यत्र in the beginning to you have been told, where,
देव-आदीनाम् च सम्भव: of the gods and others creation
आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनो: ।
धर्मज्ञानोपदेशार्थं भगवन्पुत्रतां गत: ॥५॥
आकूत्याम् देवहूत्याम् च in Aakooti, Devahooti and
दुहित्रो:-तस्य वै मनो: the daughters of his, certainly of Manu
धर्म-ज्ञान-उपदेश-अर्थम् for piety and wisdom teaching purpose
भगवन्-पुत्रताम् गत: The Lord of a son's form took
कृतं पुरा भगवत: कपिलस्यानुवर्णितम् ।
आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह ॥६॥
कृतम् पुरा भगवत: the achievement, formerly of Lord
कपिलस्य-अनुवर्णितम् Kapila was described
आख्यास्ये भगवान्-यज्ञ: will tell (you) of Lord, the Yagya
यत्-चकार कुरूद्वह which (He) did O Chief of Kurus!
विरक्त: कामभोगेषु शतरूपापति: प्रभु: ।
विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥७॥
विरक्त: काम-भोगेषु fed up of sense objects and enjoyments
शतरूपा-पति: प्रभु: Shataroopaa's spouse, The Lord
विसृज्य राज्यम् तपसे relinquished the kingdom, for austerities
सभार्य: वनम्-आविशत् along with his consort, into the forests entered
सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् ।
तप्यमानस्तपो घोरमिदमन्वाह भारत ॥८॥
सुनन्दायाम् वर्ष-शतम् on the banks of Sunandaa, for years hundred,
पद-एकेन भुवम् स्पृशन् by foot one, the earth touching
तप्यमान:-तप: घोरम्- practising asceticism austerities rigid
इदम्-अन्वाह भारत this repeated, O Bhaarata!
मनु:-उवाच - Manu said -
येन चेतयते विश्वं विश्वं चेतयते न यम् ।
यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद स: ॥९॥
येन चेतयते विश्वम् by Whom comes to consciousness the world
विश्वम् चेतयते न यम् world, consciousness does not bring to Whom
य: जागर्ति शयाने-अस्मिन्- Who keeps awake, (when) sleeping it is
न अयम् तम् वेद वेद स: not this (soul) Him knows, knows He
आत्मावास्यमिदं विश्वं यत् किञ्चिज्जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृध: कस्यस्विद्धनम् ॥१०॥
आत्म-आवास्यम्-इदम् विश्वम् by The Spirit is pervaded this universe
यत् किञ्चित्-जगत्याम् जगत् what ever in this world are the objects
तेन त्यक्तेन भुञ्जीथा: by Him assigned, live upon that
मा गृध: कस्य-स्वित्-धनम् do not covet, anyone's at all wealth
यं न पश्यति पश्यन्तं चक्षुर्यस्य न रिष्यति ।
तं भूतनिलयं देवं सुपर्णमुपधावत ॥११॥
यम् न पश्यति पश्यन्तम् Whom does not see, (Who) is witnessing
चक्षु:-यस्य न रिष्यति eyes Whose do not fail
तम् भूत-निलयम् देवम् to That in the beings dwelling The Lord
सुपर्णम्-उपधावत self-effulgent, flee to (for protection)
न यस्याद्यन्तौ मध्यं च स्व: परो नान्तरं बहि: ।
विश्वस्यामूनि यद् यस्माद् विश्वं च तदृतं महत् ॥१२॥
न यस्य-आदि-अन्तौ not Whose beginning end
मध्यम् च स्व: पर: middle and own, another
न-अन्तरम् बहि: not inside outside
विश्वस्य-अमूनि यत् यस्मात् the world's (forms) these, is That, from Whom
विश्वम् च तत्-ऋतम् महत् the world is That Reality great
स विश्वकाय: पुरुहूत ईश: सत्य: स्वयंज्योतिरज: पुराण: ।
धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या तां विद्ययोदस्य निरीह आस्ते ॥१३॥
स: विश्व-काय: He the world as body
पुरु-हूत: ईश: सत्य: by many (names) called, The Ruler, The Truth,
स्वयम्-ज्योति:-अज: पुराण: Self-effulgent, Unborn, The Primary,
धत्ते-अस्य जन्म-आदि- undertakes this (world's) creation etc.,
अजया-आत्म-शक्त्या ताम् by Maayaa, His own Energy, that (Maayaa)
विद्यया-उदस्य निरीह आस्ते by another Energy giving up, actionless remains
अथाग्रे ऋषय: कर्माणीहन्तेऽकर्महेतवे ।
ईहमानो हि पुरुष: प्रायोऽनीहां प्रपद्यते ॥१४॥
अथ-अग्रे ऋषय: कर्माणि- therefore, first, the sages actions
ईहन्ते-अकर्म-हेतवे undertake, non-actions for
ईहमान: हि पुरुष: an active only person
प्राय:-अनीहाम् प्रपद्यते generally non-active becomes
ईहते भगवानीशो न हि तत्र विषज्जते ।
आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥१५॥
ईहते भगवान्-ईश: actions does Lord Almighty
न हि तत्र विषज्जते not certainly in them is attached
आत्म-लाभेन पूर्ण-अर्थ: by self realization, everything having achieved
न-अवसीदन्ति ये-अनु तम् do not suffer they, who follow Him
तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् ।
नृञ् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिलधर्मभावनम् ॥१६॥
तम्-ईहमानम् निरहङ्कृतम् Him performing actions, devoid of ego,
बुधम् निराशिषम् पूर्णम्- The All-knowing, without any cravings, complete,
अनन्य-चोदितम् not by others impelled
नृञ् शिक्षयन्तम् the humans teaching
निज-वर्त्म-संस्थितम् प्रभुम् on own path steadfast, The Lord
प्रपद्ये-अखिल-धर्म-भावनम् I bow, of all righteousness The Protector
श्री शुक उवाच - Shri Shuka said -
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।
दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥१७॥
इति मन्त्र-उपनिषदम् thus, the mystical prayers, of the sacred texts
व्याहरन्तम् समाहितम् repeating, absorbed in
दृष्ट्वा-असुरा: यातुधाना: seeing the demons and Raakshasas
जग्धुम्-अभ्यद्रवन् क्षुधा to devour, assailed, impelled by hunger
तांस्तथावसितान् वीक्ष्य यज्ञ: सर्वगतो हरि: ।
यामै: परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् ॥१८॥
तान्-तथा-अवसितान् वीक्ष्य them, thus resolved seeing
यज्ञ: सर्वगत: हरि: Lord Yagya, all-pervading Shree Hari
यामै: परिवृत: देवै:- by the Yaamas surrounded the deities,
हत्वा-अशासत् त्रिविष्टपम् slaying, ruled over heaven
स्वारोचिषो द्वितीयस्तु मनुरग्ने: सुतोऽभवत् ।
द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजा: ॥१९॥
स्वारोचिष:-द्वितीय:-तु मनु:- Svarochisha, second, indeed Manu,
अग्ने: सुत:-अभवत् of Agni the son became
द्युमत्-सुषेण-रोचिष्मत्- Dyumata, Sushena, Rochishmat,
प्रमुखा:-तस्य च-आत्मजा: the chief of his and sons
तत्रेन्द्रो रिचनस्त्वासीद् देवाश्च तुषितादय: ।
ऊर्जस्तम्भादय: सप्त ऋषयो ब्रह्मवादिन: ॥२०॥
तत्र-इन्द्र: रोचन:-तु-आसीत् there, Indra, Rochana, indeed was,
देवा:-च तुषित-आदय: the gods and Tushita and others,
ऊर्ज:-स्तम्भ-आदय: Urja and Stambha etc.,
सप्त ऋषय: ब्रह्म-वादिन: seven sages were Veda expositors
ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत् ।
तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुत: ॥२१॥
ऋषे:-तु वेदशिरस:- of the sage, indeed, Vedashiras
तुषिता नाम पत्नी-अभूत् Tushita named wife was
तस्याम् जज्ञे तत: देव: from her was born, then The Lord
विभु:-इति-अभिविश्रुत: Vibhu, thus well known
अष्टाशीतिसहस्राणि मुनयो ये धृतव्रता: ।
अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिण: ॥२२॥
अष्टाशीति-सहस्राणि eighty-eight thousand
मुनय: ये धृत-व्रता: sages who undertaking the vow
अन्वशिक्षन्-व्रतम् तस्य followed the vow His
कौमार-ब्रह्म-चारिण: from boyhood, bachelor remaining
तृतीय उत्तमो नाम प्रियव्रतसुतो मनु: ।
पवन: सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ॥२३॥
तृतीय: उत्तम: नाम the third Uttama named
प्रियव्रत-सुत: मनु: Priyavrata's son, Manu
पवन: सृञ्जय: यज्ञहोत्र- Pavana, Srinjaya, Yagyahotra,
आद्या: तत्-सुता: नृप and others, his sons, O King!
वसिष्ठतनया: सप्त ऋषय: प्रमदादय: ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥२४॥
वसिष्ठ-तनया: सप्त Vashishtha's sons were the seven
ऋषय: प्रमद-आदय: seers, Pramada and others
सत्या: वेदश्रुता: भद्रा: The Satyas, Vedashrutas, Bhadras
देवा: इन्द्रस्तु सत्यजित् were the gods, Indra was Satyajit
धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तम: ।
सत्यसेन इति ख्यातो जात: सत्यव्रतै: सह ॥२५॥
धर्मस्य सूनृतायाम् तु of Dharma from Soonritee, indeed,
भगवान्-पुरुषोत्तम: Lord Purushottama
सत्यसेन: इति ख्यात: Satyasena thus known,
जात: सत्यव्रतै: सह was born Satyavrata along with
सोऽनृतव्रतदु:शीलानसतो यक्षराक्षसान् ।
भूतद्रुहो भूतगणांस्त्ववधीत् सत्यजित्सख: ॥२६॥
स:-अनृत-व्रत दु:शीलान्- He, mendacity vowed to, evil in ways,
असत: यक्ष-राक्षसान् wicked the Yakshas and Raakshasas
भूत-द्रुह: भूतगणान्- enemies of the created beings, the evil spirits
तु-अवधीत् सत्यजित्-सख: indeed killed, The Satyajit's helpmate
चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामस: ।
पृथु: ख्यातिर्नर: केतुरित्याद्या दश तत्सुता: ॥२७॥
चतुर्थ: उत्तम-भ्राता fourth, Uttama's brother
मनु:-नाम्ना च तामस: Manu, by name, and Taamasa
पृथु: ख्याति:-नर: केतु:-इति- Prithu, Khyati, Nara, Ketu, these
आद्या: दश तत्-सुता: and others, ten his sons
सत्यका हरयो वीरा देवास्त्रिशिख ईश्वर: ।
ज्योतिर्धामादय: सप्त ऋषयस्तामसेऽन्तरे ॥२८॥
सत्यका हरय: वीरा: the Satyakaas, the Haris, the Veeras,
देवा: त्रिशिख ईश्वर: the gods, Trishikha the ruler
ज्योतिर्धाम-आदय: Jyotirdhaama and others
सप्त ऋषय: तामसे-अन्तरे the seven seers, in the Taamasa Manvantara
देवा वैधृतयो नाम विधृतेस्तनया नृप ।
नष्टा: कालेन यैर्वेदा विधृता: स्वेन तेजसा ॥२९॥
देवा: वैधृतय: नाम the gods Vaidhritis by name
विधृते:-तनया: नृप (were) Vaidhritis sons, O King!
नष्टा: कालेन यै:-वेदा: destroyed in course of time, by whom the Vedas
विधृता: स्वेन तेजसा were preserved by their own calibre
तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधस: ।
हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥३०॥
तत्र-अपि जज्ञे भगवान्- there also was born The Lord,
हरिण्याम् हरि-मेधस: to Harinee from Harimedhaa
हरि:-इति-आहृत: येन Hari thus called by Whom
गजेन्द्र: मोचित: ग्रहात् the elephant leader was extricated from the
गजेन्द्र: मोचित: ग्रहात् the elephant leader was extricated from the alligator
राजा-उवाच - The King (Pareekshita) said
बादरायण एतत् ते श्रोतुमिच्छामहे वयम् ।
हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥३१॥
बादरायण एतत् ते O Son of Baadaraayana! this from you
श्रोतुम्-इच्छामहे वयम् to hear wish we
हरि:-यथा गजपतिम् Hari how the elephant leader
ग्राह-ग्रस्तम्-अमूमुचत् by the alligator seized set free
तत्कथा सुमहत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
यत्र यत्रोत्तमश्लोको भगवान्गीयते हरि: ॥३२॥
तत्-कथा सुमहत् पुण्यम् धन्यम् that story is highly sacred, pious
स्वस्ति-अयनम् शुभम् praiseworthy, blessedness conducive, auspicious
यत्र यत्र-उत्तम-श्लोक: where the highly renowned
भगवान्-गीयते हरि: Lord is sung of, Shree Hari
सूत उवाच - Soota said -
परीक्षितैवं स तु बादरायणि: प्रायोपविष्टेन कथासु चोदित: ।
उवाच विप्रा: प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् ॥३३॥
परीक्षिता-एवम् स: तु by Pareekshit, thus, he indeed,
बादरायणि: प्रायोपविष्टेन Baadaraayanee, by (him) fasting unto death
कथासु चोदित: in the story telling urging
उवाच विप्रा: प्रतिनन्द्य said the Braahmanas, praising
पार्थिवम् मुदा मुनीनां the King, delighted in the sages'
सदसि स्म शृण्वताम् assembly as were listening
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे मन्वन्तरानुचरिते प्रथम: अध्याय:
द्वितीय: अध्याय:
श्री शुक उवाच - Shri Shuka said-
आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुत: ।
क्षीरोदेनावृत: श्रीमान्योजनायुतमुच्छ्रित: ॥१॥
आसीद् गिरिवर: राजन्- there was a great mountain, O King!
त्रिकूट इति विश्रुत: Trikoota, thus well known
क्षीर-उदेन-आवृत: श्रीमान्- by milk ocean surrounded, rich (in minerals etc.,)
योजन-आयुतम्-उच्छ्रित: Yojanas ten thousand high
तावता विस्तृत: पर्यक् त्रिभि: शृङ्गै: पयोनिधिम् ।
दिश: खं रोचयन्नास्ते रौप्यायसहिरण्मयै: ॥२॥
तावता विस्तृत: पर्यक् in the same (measure) extended all around
त्रिभि: शृङ्गै: पयोनिधिम् by three peaks, the ocean
दिश: खम् रोचयन्-आस्ते the quarters, the sky illuminating, stood
रौप्य-आयस-हिरण्मयै: by silver, steel and golden
अन्यैश्च ककुभ: सर्वा रत्नधातुविचित्रितै: ।
नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥३॥
अन्यै:-च ककुभ: सर्वा: by other and peaks all
रत्न-धातु विचित्रितै: with gems minerals of different colours
नाना-द्रुम-लता-गुल्मै:- various trees, creepers, shrubs,
निर्घोषै:-निर्झर-अम्भसाम् murmuring cascades of water
स चावनिज्यमानाङ्घ्रि: समन्तात् पयऊर्मिभि: ।
करोति श्यामलां भूमिं हरिन्मरकताश्मभि: ॥४॥
स: च-अवनिज्यमान-अङ्घ्रि: he (the mountain) and washed feet
समन्तात् पय-ऊर्मिभि: on every side, by the water's waves,
करोति श्यामलाम् भूमिम् made dark the land
हरिन्-मरकत-अश्मभि: with the green emerald stones
सिद्धचारणगन्धर्वविद्याधरमहोरगै: ।
किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दर: ॥५॥
सिद्ध-चारण-गन्धर्व- the Siddhas, Chaaranas, Gandharvas,
विद्याधर-महोरगै: Vidyaadharas, and great serpents
किन्नरै:-अप्सरोभि:-च Kinnaras, Apsaraas, and
क्रीडद्भि:-जुष्ट-कन्दर: sporting in its caves
यत्र संगीतसन्नादैर्नदद्गुहममर्षया ।
अभिगर्जन्ति हरय: श्लाघिन: परशङ्कया ॥६॥
यत्र संगीत-सन्नादै:- where by the musical echoes
नदद्-गुहम्-अमर्षया resounded the caves, in anger
अभिगर्जन्ति हरय: roaring the lions
श्लाघिन: पर-शङ्कया in indignation of another's presence doubting
नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृत: ।
चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गम: ॥७॥
नाना-अरण्य-पशु-व्रात- with various wild animals' herds
सङ्कुल-द्रोणी-अलङ्कृत: infested, the mountain was ornate
चित्र-द्रुम-सुर-उद्यान- (also) by various trees, celestial gardens
कल-कण्ठ विहङ्गम: sweet throated birds
सरित्सरोभिरच्छोदै: पुलिनैर्मणिवालुकै: ।
देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युत: ॥८॥
सरित्-सरोभि:-अच्छोदै: with rivers and lakes of pure water,
पुलिनै:-मणि-वालुकै: the banks by gemstones dust
देव-स्त्री-मज्जन-आमोद- the celestial ladies bathing and sporting
सौरभ-अम्बु-अनिलै:-युत: scented water the breeze consisted
तस्य द्रोण्यां भगवतो वरुणस्य महात्मन: ।
उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥९॥
तस्य द्रोण्याम् भगवत: in its valley, of the pious
वरुणस्य महात्मन: Varuna, the high souled
उद्यानम्-ऋतुमत्-नाम a garden, Ritumaana named
आक्रीडम् सुर-योषिताम् the play-ground of the celestial ladies
सर्वतोऽलङ्कृतं दिव्यैर्नित्यं पुष्पफलद्रुमै: ।
मन्दारै: पारिजातैश्च पाटलाशोकचम्पकै: ॥१०॥
सर्वत:-अलङ्कृतम् दिव्यै:- on all sides it was adorned by divine
नित्यम् पुष्प-फल-द्रुमै: always flowering and fruits yielding trees,
मन्दारै: पारिजातै:-च the Mandaaras, Paareejaatas, and
पाटल-अशोक-चम्पकै: Paatalas, Ashokas and Champakas
चूतै: प्रियालै: पनसैराम्रैराम्रातकैरपि ।
क्रमुकैर्नालिकेरैश्च खर्जूरैर्बीजपूरकै: ॥११॥
चूतै: प्रियालै: पनसै:- by mangoes, Priyaalaas, Panasas,
आम्रै:-आम्रातकै:-अपि Aamra, Aamratakas, also
क्रमुकै:-नालिकेरै:-च Kramukas, Coconuts, and
खर्जूरै:-बीजपूरकै: dates, and Beejapoorakas
मधूकै: सालतालैश्च तमालैरसनार्जुनै: ।
अरिष्टोदुम्बरप्लक्षैर्वटै: किंशुकचन्दनै: ॥१२॥
मधूकै: साल-तालै:-च by Madhukas, Saalas, Palmyras, and
तमालै:-असन-अर्जुनै: Tamaalas, Asanas, Arjunas,
अरिष्ट-उदुम्बर-प्लक्षै:- Arishta, Udumbaras, Plaksha,
वटै: किंशुक-चन्दनै: Vata, Kinshuka and Sandal
पिचुमन्दै: कोविदारै: सरलै: सुरदारुभि: ।
द्राक्षेक्षुरम्भाजम्बूभिर्बदर्यक्षाभयामलै: ॥१३॥
पिचुमन्दै: कोविदारै: Nimbus trees, Kovidaaras,
सरलै: सुरदारुभि: Saralas, Deodars,
द्राक्षा-इक्षु:-अम्भा-जम्बूभि:- vines, sugar-canes, plantains, Jambiras,
वदरी-अक्ष-अभय-आमलै: Badaree, Rudraaksha, Harry, and Aamalas
बिल्वै: कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभि: ।
तस्मिन्सर: सुविपुलं लसत्काञ्चनपङ्कजम् ॥१४॥
बिल्वै: कपित्थै:-जम्बीरै:- by Bilvas, Kapithas, Jambeeras,
वृत: भल्लातक-आदिभि: consisting of, Bhallaatakas, and others
तस्मिन्-सर: सुविपुलम् in that, (garden) a lake extensive,
लसत्-काञ्चन-पङ्कजम् sporting golden lotuses
कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् ।
मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनै: ॥१५॥
कुमुद-उत्पल-कह्लार- by Kumuda, Utpala, Kalhaara,
शतपत्र-श्रिया-ऊर्जितम् Shatapatra, beauty enhanced
मत्त-षट्पद निर्घुष्टम् intoxicated bees, resounding
शकुन्तै:-च कल-स्वनै: and by the birds' chirping sound
हंसकारण्डवाकीर्णं चक्राह्वै: सारसैरपि ।
जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥१६॥
हंस-कारण्डव-आकीर्णम् by swans, Kaarandavas, swarmed
चक्राह्वै: सारसै:-अपि Chakrawaaka, cranes also
जलकुक्कुट-कोयष्टि- water-fowls, Koyashtees
दात्यूह-कुल-कूजितम् and Chaatakas swarms resounded
मत्स्यकच्छपसञ्चारचलत्पद्मरज: पय: ।
कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥१७॥
मत्स्य-कच्छप-सञ्चार- by the fishes and tortoise moving around,
चलत्-पद्म-रज: पय: shaking lotus pollen (overlaid) water
कदम्ब-वेतस-नल- Kadamba, Vetasa, Nala,
नीप-वञ्जुलकै:-वृतम् Neepa, and Vanjulakas surrounded by
कुन्दै: कुरबकाशोकै: शिरीषै: कुटजेङ्गुदै: ।
कुब्जकै: स्वर्णयूथीभिर्नागपुन्नागजातिभि: ॥१८॥
कुन्दै: कुरबक-अशोकै: by Kundas, Kurabakas, Ashokas,
शिरीषै: कुटज-इङ्गुदै: Shireeshas, Kutaja, Ingudee,
कुब्जकै: स्वर्ण-यूथीभि:- Kubjakaas, golden Yoothees,
नाग-पुन्नाग जातिभि: Naaga, Punnaaga various
मल्लिकाशतपत्रैश्च माधवीजालकादिभि: ।
शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमै: ॥१९॥
मल्लिका-शतपत्रै:-च Mallikaas, Shatapatras, and
माधवी-जालक-आदिभि: Maadhavee, Jaalakas, and others
शोभितम् तीरजै:-च-अन्यै:- beautified by on the margin growing, and by other
नित्य-ऋतुभि:-अलम् द्रुमै: all time season's many trees
तत्रैकदा तद्गिरिकाननाश्रय: करेणुभिर्वारणयूथपश्चरन् ।
सकण्टकान् कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन्वनस्पतीन् ॥२०॥
तत्र-एकदा तत्-गिरि-कानन- there once, on that mountain's forest
आश्रय: करेणुभि:- living with female elephants
वारण-यूथप:-चरन् the elephant leader roaming about
सकण्टकान् कीचक-वेणु-वेत्रवद् the thorny Keechaka and Venu bamboos'
विशाल-गुल्मम् प्ररुजन्-वनस्पतीन् big thicket trampling the vegetation
यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगा: सखड्गा: ।
महोरगाश्चापि भयाद् द्रवन्ति सगौरकृष्णा: शरभाश्चमर्य: ॥२१॥
यत्-गन्ध-मात्रात्- by whose scent alone
हरय: गजेन्द्रा: व्याघ्र-आदय: lions, and leaders of elephants, tigers and
हरय: गजेन्द्रा: व्याघ्र-आदय: lions, and leaders of elephants, tigers and other (beasts)
व्यालमृगा: सखड्गा: rhinoceroses, wild animals,
महा-उरगा:-च-अपि भयात् huge serpants, and also, out of fear
द्रवन्ति स-गौर-कृष्णा: flee along with white and black
शरभा:-चमर्य: Sharabhas and Chaamarees
वृका वराहा महिषर्क्षशल्या गोपुच्छसालावृकमर्कटाश्च ।
अन्यत्र क्षुद्रा हरिणा: शशादयश्चरन्त्यभीता यदनुग्रहेण ॥२२॥
वृका: वराहा: महिष- the wolves, boars, bosons,
ऋक्ष-शल्या: गोपुच्छ- bears, porcupines, baboons,
सालावृक-मर्कटा:-च hyenas, monkeys and
अन्यत्र क्षुद्रा हरिणा: other weaker antelopes,
शशादय: चरन्ति-अभीता: rabbits, roam about fearlessly
यद्-अनुग्रहेण by whose grace
स घर्मतप्त: करिभि: करेणुभिर्वृतो मदच्युत्कलभैरनुद्रुत: ।
गिरिं गरिम्णा परित: प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनै: ॥२३॥
स: घर्म-तप्त: करिभि: he, by the Sun heated, with elephants and
करेणुभि:-वृत: female elephants surrounded,
मदच्युत्-कलभै:-अनुद्रुत: temporal fluid emitting, by elephant young's followed,
गिरिम् गरिम्णा परित: the mountain on all sides
प्रकम्पयन् निषेव्यमाण:- shaking by (his) weight
अलि-कुलै:-मद-अशनै: by the bees swarmed, the temporal fluid feeding on
सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्विदूरान्मदविह्वलेक्षण: ।
वृत: स्वयूथेन तृषार्दितेन तत् सरोवराभ्याशमथागमद् द्रुतम् ॥२४॥
सर:-अनिलम् पङ्कज-रेणु- the lakes breeze, by the lotus pollen
रूषितम् जिघ्रन्-विदूरात् infested, smelling from afar
मद-विह्वल-ईक्षण: by the temporal fluid intoxicated eyed
वृत: स्व-यूथेन तृषा-अर्दितेन surrounded by his herd, by thirst oppressed,
तत् सरोवर-अभ्याशम्- he, to the lakes vicinity
अथ-अगमत् द्रुतम् then went swiftly
विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम् ।
पपौ निकामं निजपुष्करोद्धृतमात्मानमद्भि: स्नपयन्गतक्लम: ॥२५॥
विगाह्य तस्मिन्-अमृत-अम्बु entering in that nectar like water
निर्मलम् हेम-अरविन्द- pure, golden and red
उत्पल-रेणु-वासितम् lotus pollen dust perfumed
पपौ निकामम् निज-पुष्कर- drank to contentment, by own trunk
उद्धृतम्-आत्मानम्-अद्भि: spraying himself by the waters
स्नपयन्-गत-क्लम: bathed relieved of fatigue
स्वपुष्करेणोद्धृतशीकराम्बुभिर्निपाययन्संस्नपयन्यथा गृही ।
घृणी करेणु: कलभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥२६॥
स्व-पुष्करेण-उद्धृत- by his own trunk showering
शीकर-अम्बुभि:-निपाययन्- the sprays of water, making them drink
संस्नपयन्-यथा गृही and bathing them like a householder
घृणी करेणु: कलभान्-च the compassionate, female elephants and young ones
दुर्मद: न-आचष्ट कृच्छ्रम् the infatuated did not realise the great danger,
कृपण:-अज-मायया the proud, by The Lord's deluding potency
तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।
यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥२७॥
तम् तत्र कश्चित्-नृप him, there, some, O King!
दैव-चोदित: ग्राह: बलीयान्- by destiny impelled, alligator powerful,
चरणे रुषा-अग्रहीत् by the foot, indignantly caught hold of
यदृच्छया-एवम् व्यसनम् गत: suddenly thus, in adversity fallen,
गज: यथा-बलम् the elephant, to utmost strength
स:-अतिबल: विचक्रमे he the mighty struggled
तथाऽऽतुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर्दीनधियोऽपरे गजा: पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥२८॥
तथा-आतुरम् यूथ-पतिम् thus dismayed, the leader of the herd,
करेणव: विकृष्यमाणम् the female elephants, being dragged
तरसा बलीयसा swiftly with great strength
विचुक्रुशु:-दीन-धिय:- screamed, helpless minded
अपरे गजा: पार्ष्णि-ग्रहा:- the other elephants, from the back
तारयितुम् न च-आशकन् trying to save, were not able
नियुध्यतोरेवमिभेन्द्रनक्रयोर्विकर्षतोरन्तरतो बहिर्मिथ: ।
समा: सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामरा: ॥२९॥
नियुध्यतो:-एवम्-इभ-इन्द्र- contending thus, the lord of the elephants
नक्रयो:-विकर्षतो:- and the alligator pulling
अन्तरत: बहि:-मिथ: inside outside both
समा: सहस्रम् व्यगमन् years thousand passed
महीपते सप्राणयो:- O King! Living (both)
चित्रम्-अमंसत-अमरा: strange considered the gods
ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्यय: ।
विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकस: ॥३०॥
तत: गजेन्द्रस्य मनोबल- then, the elephant lord's mental strength,
औजसाम् कालेन दीर्घेण vitality by time great
महान्-अभूद् व्यय: very much became depleted
विकृष्यमाणस्य जले- of (him) being pulled in the water
अवसीदत: विपर्यय:-अभूत् living, the opposite happened
सकलम् जलौकस: all of the water creature
इत्थं गजेन्द्र: स यदाऽऽप संकटं प्राणस्य देही विवशो यदृच्छया ।
अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥३१॥
इत्थम् गजेन्द्र: स: यदा- like this, the elephant leader, he, when
आप संकटम् प्राणस्य got into trouble, of the life
देही विवश: यदृच्छया the body, powerless to be released
अपारयन्-आत्म-विमोक्षणे unable the self to liberate
चिरम् दध्यौ-इमाम्- for long pondered on this
बुद्धिम्-अथ-अभ्यपद्यत conclusion then reached
न मामिमे ज्ञातय आतुरं गजा: कुत: करिण्य: प्रभवन्ति मोचितुम् ।
ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम् ॥३२॥
न माम्-इमे ज्ञातय: आतुरम् not me these kinsmen dismayed
गजा: कुत: करिण्य: the elephants, how will the female elephants
प्रभवन्ति मोचितुम् will be able to extricate
ग्राहेण पाशेन विधातु:- by the alligator trap of Providence,
आवृत:-अपि-अहम् च caught in, even I and
तम् यामि परम् परायणम् to Him, will flee, to The Supreme Refuge
य: कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्भयान्मृत्यु: प्रधावत्यरणं तमीमहि ॥३३॥
य: कश्चन-ईश: बलिन:- who ever, The Lord, from the powerful
अन्तक-उरगात् प्रचण्ड-वेगात्- killing serpent of terrible speed,
अभिधावत: भृशम् advancing fiercefully
भीतम् प्रपन्नम् परिपाति afraid (a being) suppliant, protects
यत्-भयात्-मृत्यु: प्रधावति- from Whose fear even Death runs (helter scelter)
अरणम् तम्-ईमहि The Saviour Him I resort to
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे मन्वन्तरवर्णने द्वितीय:
अध्याय: ॥२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे मन्वन्तरवर्णने द्वितीय:
अध्याय: ॥२॥ Thus ends the second discourse, hinging on the legend of the king of
तृतीय: अध्याय:
श्री शुक उवाच - Shri Shuka said -
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् ॥१॥
एवम् व्यवसित: बुद्ध्या thus resolved, by reason
समाधाय मन: हृदि steadying the mind in the heart
जजाप परमम् जाप्यम् chanted the highly chant able
प्राक्-जन्मनि-अनुशिक्षितम् in the former birth learnt
गजेन्द्र उवाच - The elephant king said -
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभिधीमहि ॥२॥
ॐ नम: भगवते तस्मै Om (the mystical syllable) salutations to The Lord That
यत एतत्-चित्-आत्मकम् Who, this consciousness personifies
पुरुषाय-आदि-बीजाय to The (Primary) Purusha, the root cause
पर-ईशाय-अभिधीमहि the Supreme Ruler, mentally resort to
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥३॥
यस्मिन्-इदम् यत:-च-इदम् in Whom this is, from Whom, and, it (emanates)
येन-इदम् य: इदम् स्वयम् by Whom it is, Which this is (Himself constituted of)
य:-अस्मात् परस्मात्-च Who from this (manifest) unmanifest and
परस्तम् प्रपद्ये स्वयम्-भुवम् transcending it, to Him I approach, The
परस्तम् प्रपद्ये स्वयम्-भुवम् transcending it, to Him I approach, The Self-Causing
य: स्वात्मनीदं निजमाययार्पितं क्वचिद् विभातं क्व च तत् तिरोहितम् ।
अविद्धदृक् साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्पर: ॥४॥
य: स्वात्मनि-इदम् Who in Himself this (universe)
निज-मायया-अर्पितम् by own Maayaa (creative energy) placed
क्वचिद् विभातम् somewhere manifested
क्व च तत् तिरोहितम् sometimes that is screened
अविद्धदृक् साक्षि-उभयम् (He) of unobstructed vision, witness to both
तत्-ईक्षते स: आत्म-मूल:- that watches He, the Self rooted,
अवतु माम् परात्पर: may protect me, The transcendent of the Supreme
कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदाऽऽसीद् गहनं गभीरं यस्तस्य पारेऽभिविराजते विभु: ॥५॥
कालेन पञ्चत्वम्-इतेषु by the time (of dissolution), into five elements
कालेन पञ्चत्वम्-इतेषु by the time (of dissolution), into five elements dissolved
कृत्स्नश: लोकेषु पालेषु altogether, the worlds and the quarters,
च सर्व-हेतुषु and all the causes,
तम:-तदा-आसीत्-गहनम् darkness then was there dense
गभीरम् य:-तस्य पारे- and deep, Who its beyond
अभिविराजते विभु: shines and is present, The All-pervading Lord
न यस्य देवा ऋषय: पदं विदुर्जन्तु: पुन: कोऽर्हति गन्तुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमण: स मावतु ॥६॥
न यस्य देवा: ऋषय: not Whose, the gods, the sages
पदम् विदु:-जन्तु: पुन: क:- reality comprehend, a creature again which
अर्हति गन्तुम्-ईरितुम् is capable of to go and say
यथा नटस्य-आकृतिभि:- just as an actor's (different) appearances
विचेष्टत: दुरत्यय-अनुक्रमण: and acting is difficult to (describe) the conduct
स: मा-अवतु He, may me protect
दिदृक्षवो यस्य पदं सुमङ्गलम् विमुक्तसङ्गा मुनय सुसाधव: ।
चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूता: सुहृद: स मे गति: ॥७॥
दिदृक्षव: यस्य पदम् eager to perceive, Whose nature
सुमङ्गलम् विमुक्त-सङ्गा: most auspicious, those having given up all
सुमङ्गलम् विमुक्त-सङ्गा: most auspicious, those having given up all attachments
मुनय: सुसाधव: the sages, the very pious
चरन्ति-अलोक-व्रतम्-अव्रणम् (who) observe non-ordinary vows, unceasingly
वने भूत-आत्म-भूता: in the woods, all created beings like self observing
सुहृद: स: मे गति: the Friend He is my refuge
न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा ।
तथापि लोकाप्ययसंभवाय य: स्वमायया तान्यनुकालमृच्छति ॥८॥
न विद्यते यस्य च जन्म not is there Whose, and birth
कर्म वा न नाम-रूपे activity or nor name form
गुण-दोष एव वा merits demerits even or
तथा-अपि लोक-अप्यय- yet also for the world's destruction
संभवाय य: स्व-मायया creation, Who by own Maayaa
तानि-अनुकालम्-ऋच्छति these from time to time assumes
तस्मै नम: परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥९॥
तस्मै नम: पर-ईशाय for Him, Hail the Supreme Lord
ब्रह्मणे-अनन्त-शक्तये The Brahman, of infinite potencies,
अरूपाय-उरु-रूपाय without form, with innumerable forms,
नम: आश्चर्य-कर्मणे Hail for (The One with) wonderful activity
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥१०॥
नम: आत्म-प्रदीपाय Hail to The Self effulgent
साक्षिणे परम-आत्मने The Witness, The Supreme Soul
नम: गिराम् विदूराय Salutations to the speech beyond,
मनस:-चेतसाम्-अपि of mind, and the faculties of the mind
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नम: केवल्यनाथाय निर्वाणसुखसंविदे ॥११॥
सत्त्वेन प्रतिलभ्याय through purity of mind attainable
नैष्कर्म्येण विपश्चिता by cessation (of worldly activities), by devotional
नैष्कर्म्येण विपश्चिता by cessation (of worldly activities), by devotional acts
नम: केवल्य-नाथाय salutations to The Liberation Bestower
निर्वाण सुख-संविदे of the beatitudes, bliss constituting the realization
नम: शन्ताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥१२॥
नम: शन्ताय घोराय (I) bow to The serene, The dreadful,
मूढाय गुण-धर्मिणे The infatuated, of the Gunas' The characteristics,
निर्विशेषाय साम्याय The one of not a particular quality, The One of
निर्विशेषाय साम्याय The one of not a particular quality, The One of uniformity
नमो ज्ञान-घनाय च salutations to the knowledge dense and
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नम: ॥१३॥
क्षेत्रज्ञाय नम:-तुभ्यम् to The Knower of all organisms, salutations for Thee,
सर्व-अध्यक्षाय साक्षिणे of all The Ruler, The Witness,
पुरुषाय-आत्म-मूलाय The Person, at the beings' source
मूल-प्रकृतये नम: The Substrata of Prakriti, Hail!
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नम: ॥१४॥
सर्व-इन्द्रिय-गुण-द्रष्ट्रे of all senses, objects, The Perceiver,
सर्व-प्रत्यय-हेतवे of all cognitions, The Cause
असतात्-छायया-उक्ताय by the material, its reflection, the existence is
असतात्-छायया-उक्ताय by the material, its reflection, the existence is known
सदा-आभासाय ते नम: always reflected, to Thee salutations
नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय ।
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ॥१५॥
नमो नम:-ते अखिल- Hail! Hail for Thee, of all the
कारणाय निष्कारणाय- effects The Cause, (to Thee) without a cause
अद्भुत-कारणाय The wonderful Cause
सर्व-आगम-आम्नाय महा-अर्णवाय of all the Vedas and Scriptures, The great
सर्व-आगम-आम्नाय महा-अर्णवाय of all the Vedas and Scriptures, The great Ocean
नम:-अपवर्गाय परायणाय Hail to Beatitude (embodied), to refuge of the great
गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागमस्वयं प्रकाशाय नमस्करोमि ॥१६॥
गुण-अरणि- of the Gunas the fire lighting wood
छ्न्न-चित्-ऊष्मपाय hidden Consciousness fire
तत्-क्षोभ-विस्फूर्जित मानसाय of them (Gunas) disturbed (equilibrium) aroused
तत्-क्षोभ-विस्फूर्जित मानसाय of them (Gunas) disturbed (equilibrium) aroused will
नैष्कर्म्य-भावेन by the non-active way
विवर्जित-आगम discarded the Shaastra
स्वयम् प्रकाशाय नमस्करोमि to The Self revealing Truth, I bow down to
मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय ।
स्वांशेन सर्वतनुभृन्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते ॥१७॥
मादृक्-प्रपन्न-पशु-पाश- me like fallen in the animal's trap
विमोक्षणाय मुक्ताय to set free, to The ever-free
भूरि-करुणाय नम:-अलयाय of boundless compassion, salutations to The
भूरि-करुणाय नम:-अलयाय of boundless compassion, salutations to The non-weary
स्व-अंशेन सर्व-तनु-भृत्- by own part, of all the embodied beings'
मनसि प्रतीत-प्रत्यक्-दृशे minds present, directly visible,
भगवते बृहते नमस्ते to The Lord, The Infinite, I bow to
आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय ।
मुक्तात्मभि:स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥१८॥
आत्म-आत्मज-आप्त-गृह-वित्त- to the body, children, friends, house, wealth,
जनेषु सक्तै:-दुष्प्रापणाय kinsmen, attached to, difficult to be attained
गुण-सङ्ग-विवर्जिताय attachment to the senses devoid of
मुक्त-आत्मभि: स्व-हृदये by the emancipated souls, in own heart
परिभाविताय ज्ञान-आत्मने contemplated upon, Consciousness personified,
भगवते नम: ईश्वराय to The Lord, Hail! To The All-powerful
यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति ।
किं त्वाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् ॥१९॥
यम् धर्म-काम-अर्थ- Whom religious merit, sensuous objects, riches,
विमुक्ति-कामा: भजन्ते final beatitude, seeking, worship
इष्टाम् गतिम्-आप्नुवन्ति desired goals attain,
किम् तु-आशिष: राति-अपि what more, blessings gives also
देहम्-अव्ययम् करोतु मे- of body undecayable, may He do, to me,
अदभ्रदय: विमोक्षणम् divine body giver deliverance
एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्ना: ।
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्ना: ॥२०॥
एकान्तिन: यस्य न the exclusively devoted Whose not
कञ्चन-अर्थम् वाञ्छन्ति any thing desiring
ये वै भगवत्-प्रपन्ना: who indeed, are in Lord's shelter
अति-अद्भुतम् तत्-चरितम् very wondrous Whose stories
सुमङ्गलम् गायन्त very auspicious singing
आनन्द-समुद्र-मग्ना: in bliss ocean are merged
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ॥२१॥
तम्-अक्षरम् ब्रह्म परम् Him, The Imperishable, Brahman, The Supreme,
परेशम्-अव्यक्तम्- the greatest Ruler, mysterious,
आध्यात्मिक-योग-गम्यम् spiritual, by Yoga attainable,
अति-इन्द्रियम् सूक्ष्मम्-इव- beyond the senses, minute like,
अति-दूरम्-अनन्तम्- very far, endless,
आद्यम् परिपूर्णम्-ईडे the Primary Principle, absolutely perfect, I glorify
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचरा: ।
नामरूपविभेदेन फल्ग्व्या च कलया कृता: ॥२२॥
यस्य ब्रह्म-आदय: देवा: by Whose, Brahmaa, and other deities,
वेदा: लोका:-चर-अचरा: the Vedas, the worlds, mobile and immobile,
नाम-रूप-विभेदेन by name and form differentiated,
फल्ग्व्या च कलया कृता: by the tiniest and part are created
यथार्चिषोऽग्ने: सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिष: ।
तथा यतोऽयं गुणसंप्रवाहो बुद्धिर्मन: खानि शरीरसर्गा: ॥२३॥
यथा-अर्चिष:-अग्ने: just as, the flames of fire,
सवितु:-गभस्तय: निर्यान्ति of the Sun the rays, emanate
संयान्ति-असकृत् स्वरोचिष: and return again and again, The Self luminous One
तथा यत:-अयम् गुण-संप्रवाह: like that, from Whom this Gunas flow
बुद्धि:-मन: खानि of the intellect, mind, and the Indriyas,
शरीर-सर्गा: with bodies consisting
स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तु: ।
नायं गुण: कर्म न सन्न चासन् निषेधशेषो जयतादशेष: ॥२४॥
स: वै न देव-असुर- He certainly, (is) not a god, a demon,
मर्त्य-तिर्यङ् न स्त्री a human being, an animal, nor a woman,
न षण्ढ: न पुमान् न जन्तु: nor (a person of) neither sex, nor a man, nor a
न षण्ढ: न पुमान् न जन्तु: nor (a person of) neither sex, nor a man, nor a creature,
न-अयम् गुण: कर्म nor is This Guans, nor actions,
न सन्न च-असन् nor cause and effect,
निषेध-शेष: जयतात्-अशेष: by negation, what remains, may reveal The Endless
जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् ॥२५॥
जिजीविषे न-अहम्-इह- long to live, not I, here,
अमुया किम्-अन्त:-बहि:-च- by this what (gain), in and out and
आवृतया-इभ-योन्या enveloped, by the elephant life
इच्छामि कालेन न I seek, by Time is not
यस्य विप्लव:-तस्य- Whose washing away, of that
आत्मलोक-आवरणस्य मोक्षम् the Spirit's knowledge's covering lifting of
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥२६॥
स:-अहम् विश्व-सृजम् that I, to The creator of the universe,
विश्वम्-अविश्वम् the universe's constituent, yet, other than the universe,
विश्व-वेदसम् with the universe toying,
विश्व-आत्मानम्- of the universe the Inner Soul
अजम् ब्रह्म The Birth-less Brahman
प्रणत:-अस्मि परम् पदम् bowed am (I), to the Supreme goal
योगरन्धितकर्माणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥२७॥
योग-रन्धित-कर्माण: by Yoga having burnt the Karmas
हृदि योग-विभाविते in the heart by Yoga, enlightened
योगिन: यम् प्रपश्यन्ति the Yogis Whom perceive
योगेशम् तम् नत:-अस्मि-अहम् to The Master of Yoga, Him, bowed am I
नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥२८॥
नम: नम:-तुभ्यम्- Hail! Hail to You
असह्य-वेग-शक्ति-त्रयाय- of irresistible force, of the potency of the three (Gunas)
अखिल-धी-गुणाय of all the senses and their objects,
प्रपन्न-पालाय of those who have taken refuge, The Protector,
दुरन्त-शक्तये of endless potency
कद्-इन्द्रियाणाम्- to those whose senses are outgoing
अनवाप्य-वर्त्मने un-attainable the path
नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् ॥२९॥
न-अयम् वेद स्वम्-आत्मानम् not this (Jeeva) knows own self
यत्-शक्त्या-अहम्-धिया हतम् by Whose potency (Maayaa), by ego mindedness
यत्-शक्त्या-अहम्-धिया हतम् by Whose potency (Maayaa), by ego mindedness struck
तम् दुरत्यय-माहात्म्यम् Him of unfathomable glory
भगवन्तम्-इत:-अस्मि-अहम् The Lord such, seek I
श्री शुक उवाच - Shree Shuka said -
एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमाना: ।
नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ॥३०॥
एवम् गजेन्द्रम्-उपवर्णित- thus, The elephant king described
निर्विशेषम् ब्रह्म-आदय: The Formless, Brahmaa and others
विविध-लिङ्ग-अभिदा-अभिमाना: of distinctive forms different, identifying
विविध-लिङ्ग-अभिदा-अभिमाना: of distinctive forms different, identifying with
न-एते यदा-उपससृपु:- not these, when approached
निखिल-आत्मकत्वात् तत्र- of all The Soul being, there,
अखिल-अमरमय: हरि:-आविरासीत् of all the gods (the embodiment) Shree Hari
अखिल-अमरमय: हरि:-आविरासीत् of all the gods (the embodiment) Shree Hari manifested
तं तद्वदार्त्तमुपलभ्य जगन्निवास: स्तोत्रं निशम्य दिविजै: सह संस्तुवद्भि:।
छन्दोमयेन गरुडेनसमुह्यमानश्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्र: ॥३१॥
तम् तत्-वत्-आर्त्तम्-उपलभ्य him, that like, distressed finding
जगन्निवास: स्तोत्रम् निशम्य The Abode of the universe, the hymn hearing
दिविजै: सह संस्तुवद्भि: the gods along with extolling
छन्दोमयेन गरुडेन-समुह्यमान:- at will speeded by Garuda, mounted on
चक्रायुधो:-अभ्यगमत्- with the discus as the weapon, arrived
आशु यत: गजेन्द्र: swiftly where the elephant king was
सोऽन्त: सरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिं ख उपात्त चक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान्नारायणाखिलगुरो भगवन् नमस्ते ॥३२॥
स:-अन्त: सरसि-उरु-बलेन he inside the lake, with great force
गृहीत आर्तो दृष्ट्वा गरुत्मति seized, distressed, seeing, mounted on Garuda,
हरिम् खे उपात्त चक्रम् Lord Shree Hari, in the sky with uplifted discus
उत्क्षिप्य साम्बुज-करम् upholding with a lotus the trunk
गिरम्-आह कृच्छ्रात्- word said faintly
नारायण-अखिल-गुरो ' Naaraayana! Preceptor of the universe!
नारायण-अखिल-गुरो
भगवन् नमस्ते Lord ! Hail to You!'
तं वीक्ष्य पीडितमज: सहसावतीर्य सग्राहमाशु सरस: कृपयोज्जहार ।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥३३॥
तम् वीक्ष्य पीडितम्-अज: him perceiving in pain, The Birth less,
सहसा-अवतीर्य सग्राहम्-आशु at once alighted, along with the alligator,
सहसा-अवतीर्य सग्राहम्-आशु at once alighted, along with the alligator, swiftly,
सरस: कृपया-उज्जहार from the lake, compassionately pulled out
ग्राहात् विपाटित-मुखात्- from the alligator's cut mouth
अरिणा गजेन्द्रम् संपश्यताम् by the discus, the elephant king, as they looked on
हरि:-अमूमुचतु:-त्रियाणाम् Lord Shree Hari extricated, the gods
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे गजेन्द्रमोक्षणे तृतीय: अध्याय:
चतुर्थ: अध्याय:
श्री शुक उवाच - Shree Shuka said -
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमा: ।
मुमुचु: कुसुमासारं शंसन्त: कर्म तत् हरे: ॥१॥
तदा देवर्षि-गन्धर्वा: at that time, the gods, the sages, the Gandharvas,
ब्रह्म-ईशान-पुरोगमा: Brahmaa, Lord Shiva, headed by
मुमुचु: कुसुम-आसारम् discharged flower showers
शंसन्त: कर्म तत् हरे: applauding the feat that of Shree Hari
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगु: ।
ऋषयश्चारणा: सिद्धास्तुष्टुवु: पुरुषोत्तमम् ॥२॥
नेदु:-दुन्दुभय: दिव्या: sounded were trumpets heavenly
गन्धर्वा: ननृतु:-जगु: the Gandharvas, danced and sang
ऋषय:-चारणा: सिद्धा:- the sages and Chaaranas, the Siddhas
तुष्टुवु: पुरुषोत्तमम् glorified The Supreme Person
योऽसौ ग्राह: स वै सद्य: परमाश्चर्यरूपधृक् ।
मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तम: ॥३॥
य:-असौ ग्राह: स: वै that which was the alligator, he certainly
सद्य: परम-आश्चर्य-रूपधृक् soon, very astonishing form assuming
मुक्त: देवल-शापेन redeemed from Devala's curse
हूहू:-गन्धर्व-सत्तम: (who was) Hoo-hoo, the Gandharva prominent
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् ।
अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥४॥
प्रणम्य शिरसा-अधीशम्- greeting with head (bowed low), The Supreme Lord,
उत्तम-श्लोकम्-अव्ययम् of excellent renown, The Immortal,
अगायत यश:-धाम sang to The Abode of all glory
कीर्तन्य-गुण-सत्-कथम् worthy of being sung, (His) virtues and sacred stories
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिष: ॥५॥
स:-अनुकम्पित ईशेन he, favoured by The Lord,
परिक्रम्य प्रणम्य तम् circumbulated (Him), bowed to Him
लोकस्य पश्यत: लोकम् स्वम्- as the assembly looked on, to realm own
अगात्-मुक्त-किल्बिष: went, freed of all sins
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुज: ॥६॥
गजेन्द्र: भगवत्-स्पर्शात् the elephants' leader, by The Lord's touch
विमुक्त:-अज्ञान-बन्धनात् freed from ignorance bondage
प्राप्त: भगवत: रूपम् attained The Lord's form
पीतवासा:-चतुर्भुज: in yellow clad, with four arms
स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तम: ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण: ॥७॥
स: वै पूर्वम्-अभूद् राजा he indeed, in the previous birth was the king
पाण्ड्य: द्रविड-सत्तम: of the Paandyas, of the Dravida (country) the
पाण्ड्य: द्रविड-सत्तम: of the Paandyas, of the Dravida (country) the foremost
इन्द्रद्युम्न: इति ख्यात: Indradyumna, thus well known
विष्णु-व्रत-परायण: Vishnu's worship devoted to
स एकदाऽऽराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् ।
जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रम: ॥८॥
स: एकदा-आराधन-काले he one day, at worshipping time
आत्मवान् गृहीत-मौन-व्रत taken to asceticism, taking a silence vow
ईश्वरम् हरिम् The Lord Hari
जटा-धर:-तापस आप्लुत:- with matted locks, having,
अच्युतम् समर्चयामास The Immortal worshipped
कुलाचल-आश्रम: in (the mount) Kulaachala, having hermitage
यदृच्छया तत्र महायशा मुनि: समागमच्छिष्यगणै: परिश्रित: ।
तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह ॥९॥
यदृच्छया तत्र महायशा: by chance there, the greatly renowned
मुनि: समागमत्- sage reached,
शिष्य-गणै: परिश्रित: with disciples' hosts surrounded
तम् वीक्ष्य तूष्णीम्- him seeing silent
अकृत-अर्हण-आदिकम् not offering welcome materials etc.,
रहसि-उपासीनम्- in seclusion seated
ऋषि:-चुकोप ह the sage was enraged indeed
तस्मा इमं शापमदादसाधुरय़ं दुरात्माकृतबुद्धिरद्य ।
विप्रावमन्ता विशतां तमोऽन्धं यथा गज: स्तब्धमति: स एव ॥१०॥
तस्मै इमम् शापम्-अदात्- for him this curse gave
असाधु:-अयम् दुरात्मा- impious, this evil souled,
अकृत-बुद्धि:-अद्य uncultured minded, today
विप्र-अवमन्ता विशताम् has the Braahmana insulted, may enter
तम:-अन्धम् यथा गज: darkness blinding, as an elephant
स्तब्ध-मति: स: एव dull minded that only
श्री शुक उवाच - Shree Shuka said -
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुग: ।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥११॥
एवम् शप्त्वा गत:-अगस्त्य: thus having cursed, went away Agastya
भगवान् नृप सानुग: the glorious, O King! With his followers
इन्द्रद्युम्न:-अपि राजर्षि:- Indradyumna also, the king sage
दिष्टम् तत्-उपधारयन् destiny directed, that accepted
आपन्न: कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् ।
हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृति: ॥१२॥
आपन्न: कौञ्जरीम् योनिम्- fallen in elephant's womb
आत्म-स्मृति-विनाशिनीम् Self consciousness destroying
हरि-अर्चन-अनुभावेन यत्- Shree Hari's adoration by virtue of, so that,
गजत्वे-अपि-अनुस्मृति: in elephant body also remembered
एवं विमोक्ष्य गजयूथपमब्जनाभस्तेनापि पार्षदगतिं गमितेन युक्त: ।
गन्धर्वसिद्धविबुधैरुपगीयमानकर्माद्भुतं स्वभवनं गरुडासनोऽगात् ॥१३॥
एवम् विमोक्ष्य गजयूथपम्- thus liberating, the elephant herd's leader
अब्जनाभ:- The Lord with a lotus in the navel
तेन-अपि पार्षद-गतिम् by him also divine attendents state
गमितेन युक्त: having attained, accompanied
गन्धर्व-सिद्ध-विबुधै:- The Gandharvas, Siddhas, the gods,
उपगीयमान-कर्म-अद्भुतम् singing, the feat wonderful
स्व-भवनम् गरुड-आसन:-अगात् to own realm, on Garuda seated went
एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् ॥
स्वर्ग्यं यशस्यं कलिकल्मषापहं दु:स्वप्ननाशं कुरुवर्य शृण्वताम् ॥१४॥
एतत्-महाराज तव-ईरित: this, O great King! to you is told
मया कृष्ण-अनुभाव: by me, Krishna's glory
गजराज-मोक्षणम् the elephant king's liberation
स्वर्ग्यम् यशस्यम् which leads to heaven, renown conducive,
कलिकल्मष-आपहम् of Kali age the impurities removing
दु:स्वप्न-नाशम् bad dreams destroying
कुरुवर्य शृण्वताम् O Scion of The Kuru clan! (for) the willing to hear
यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातय: ।
शुचय: प्रातरुत्थाय दु:स्वप्नाद्युपशान्तये ॥१५॥
यथा-अनुकीर्तयन्ति-एतत्- Thus, recite this
श्रेयस्कामा: द्विजातय: welfare seeking, the twice born, (Braahmanas)
शुचय: प्रात:-उत्थाय purified, in the early morning arising,
दु:स्वप्न-आदि-उपशान्तये bad dreams etc., to neutralize
इदमाह हरि: प्रीतो गजेन्द्रं कुरुसत्तम ।
शृण्वतां सर्वभूतानां सर्वभूतमयो विभु: ॥१६॥
इदम्-आह हरि: प्रीत: this said Shree Hari, with joy
गजेन्द्रम् कुरुसत्तम to the elephant king, O jewel of Kurus!
शृण्वताम् सर्व-भूतानाम् in the hearing of all living beings
सर्व-भूतमय: विभु: The All-pervading, All-mighty
श्री भगवान् उवाच - The Lord said -
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
वेत्रकीचकवेणुनां गुल्मानि सुरपादपान् ॥१७॥
ये माम् त्वाम् च सर:-च- who-so-ever Me you and lake and
इदम् गिरि-कन्दर-काननम् this, mountain, cave, forest,
वेत्र-कीचक-वेणुनाम् the canes, the solid bamboos, the bamboos
गुल्मानि सुर-पादपान् clusters, the celestial trees
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥१८॥
शृङ्गाणि-इमानि धिष्ण्यानि the peaks these, the abodes
ब्रह्मण: मे शिवस्य च of Brahmaa, Myself of Shiva and
क्षीरोदम् मे प्रियम् धाम the milk ocean My favourite abode,
श्वेतद्वीपम् च भास्वरम् Shweta dweep and resplendent
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥१९॥
श्रीवत्सम् कौस्तुभम् मालाम् the ShreeVats, the Kaustubha, the garland,
गदाम् कौमोदकीम् मम the mace, the Kaumodaki, mine,
सुदर्शनम् पाञ्चजन्यम् the Sudarshana, the Paanchajanya,
सुपर्णम् पतगेश्वरम् the beautiful winged Garuda
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥२०॥
शेषम् च मत्-कलाम् सूक्ष्माम् Shesha and My part subtle
श्रियम् देवीम् मत्-आश्रयाम् Shree The Goddess, in Me residing
ब्रह्माणम् नारदम्-ऋषिम् Brahmaa, Naarada, the sage,
भवम् प्रह्लादम्-एव च Shiva, Prahlaada also and
मत्स्यकूर्मवराहाद्यैरवतारै: कृतानि मे ।
कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥२१॥
मत्स्य-कूर्म-वराह-आद्यै:- Fish, Tortoise, Boar and other
अवतारै: कृतानि मे कर्माणि- descents, performed by Me, deeds
अनन्त-पुण्यानि of inexhaustible merit
सूर्यम् सोमम् हुताशनम् The Sun, The Moon, The Fire
प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।
दाक्षायणीर्धर्मपत्नी: सोमकश्यपयोरपि ॥२२॥
प्रणवम् सत्यम्-अव्यक्तम् Pranava (OM) the Truth unmanifest,
गो-विप्रान् धर्मम्-अव्ययम् cows, Braahmanas, religion immortal,
दाक्षायणी:-धर्म-पत्नी: Daksha's daughters, Dharma's wives
सोम-कश्यपयो:-अपि the Moon Kashyapa, also,
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।
ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥२३॥
गङ्गाम् सरस्वतीम् नन्दाम् Gangaa, Sarasvati, Nandaa,
कालिन्दीम् सितवारणम् Yamunaa, the white elephant, (Airaawata)
ध्रुवम् ब्रह्म-ऋषीन्-सप्त Dhruva, the Braahmana sages seven,
पुण्य-श्लोकान्-च मानवान् of sacred renown and men
उत्थायापररात्रान्ते प्रयता: सुसमाहिता: ।
स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात् ॥२४॥
उत्थाय-अपर-रात्र-अन्ते arising, at the last of the night's end
प्रयता: सुसमाहिता: purified and with concentration
स्मरन्ति मम रूपाणि remembers My forms
मुच्यन्ते हि-एनस:-अखिलात् are freed certainly, of sins all
ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये ।
तेषां प्राणात्यये चाहं ददामि विमलां मतिम् ॥२५॥
ये माम् स्तुवन्ति-अनेन-अङ्ग those who Me extol by this hymn, O Dear One!
प्रतिबुध्य निशा-अत्यये awaking at night's end
तेषाम् प्राण-अत्यये च-अहम् at their life's end, and I
ददामि विमलाम् मतिम् give clear mind
श्री शुक उवाच - Shri Shuka said -
इत्यादिश्य हृषीकेश: प्रध्माय जलजोत्तमम् ।
हर्षयन्विबुधानीकमारुरोह खगाधिपम् ॥२६॥
इति-आदिश्य हृषीकेश: thus instructing, Shree Hari (The Controller of the
इति-आदिश्य हृषीकेश: thus instructing, Shree Hari (The Controller of the senses)
प्रध्माय जलज-उत्तमम् blowing the conch supreme
हर्षयन्-विबुध-अनीकम्- delighting the gods' hosts
आरुरोह खग-अधिपम् mounted the birds' King, Garuda
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थ:
अध्याय: ॥४॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थ:
अध्याय: ॥४॥ Thus ends the fourth discourse entitled 'The deliverance of the king of
पञ्चम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
राजन्नुदितमेतत् ते हरे: कर्माघनाशनम् ।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥१॥
राजन्-उदितम्-एतत् ते O King! is narrated this to you
हरे: कर्म-अघ-नाशनम् Shree Hari's deeds, sins destroying
गजेन्द्र-मोक्षणम् पुण्यम् the elephant king's deliverance sacred,
रैवतम् तु-अन्तरम् शृणु of Raivata, now, Manvantara listen to
पञ्चमो रैवतो नाम मनुस्तामससोदर: ।
बलिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वका: ॥२॥
पञ्चम: रैवत: नाम the fifth, Raivata named
मनु:-तामस-सोदर: Manu, of Taamasa the brother
बलि-विन्ध्य-आदय:- Bali, Vindhya and others
तस्य सुता: अर्जुन-पूर्वका: his sons, Arjun the eldest
विभुरिन्द्र: सुरगणा राजन्भूतरयादय: ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजा: ॥३॥
विभु:-इन्द्र: सुर-गणा: Vibhu, the Indra the gods' hosts
राजन्-भूतरयो-आदय: O King! Bhootarayas and others
हिरण्यरोमा वेदशिरा Hiranyaromaa, Vedashira
ऊर्ध्वबाहु-आदय: द्विजा: Oordhvabaahu and others were the (seven) seers
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठै: सुरसत्तमै: ।
तयो: स्वकलया जज्ञे वैकुण्ठो भगवान्स्वयम् ॥४॥
पत्नी विकुण्ठा शुभ्रस्य wife Vikunthaa of Shubhra
वैकुण्ठै: सुर-सत्तमै: with Vaikuntha the foremost of gods
तयो: स्व-कलया जज्ञे from them by part manifestation was born
वैकुण्ठ: भगवान्-स्वयम् Vaikuntha, The Lord Himself
वैकुण्ठ: कल्पितो येन लोको लोकनमस्कृत: ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥५॥
वैकुण्ठ: कल्पित: येन Vaikuntha was revealed by Whom
लोक: लोक-नमस्कृत: the region, by the worlds adored
रमया प्रार्थ्यमानेन by Ramaa requested
देव्या तत्-प्रिय-काम्यया by the Goddess, her to please intending
तस्यानुभाव: कथितो गुणाश्च परमोदया: ।
भौमान्-रेणुन्स विममे यो विष्णोर्वर्णयेद् गुणान् ॥६॥
तस्य-अनुभाव: कथित: His excellent glories are said of
गुणा:-च परमोदया: and of the virtues and the elevation
भौमान्-रेणुन्-स: विममे of the earth the dust particles, he may count
य: विष्णो:-वर्णयेत् गुणान् who of Vishnu describes the virtues
षष्टश्च चक्षुष: पुत्रश्चाक्षुषो नाम वै मनु: ।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजा: ॥७॥
षष्ट:-च चक्षुष: पुत्र:- sixth and of Chakshu, the son
चाक्षुष: नाम वै मनु: Chaakshusha named indeed Manu
पूरु-पूरुष-सुद्युम्न- Puru, Purusha, Sudyumna
प्रमुखा:-चाक्षुष-आत्मजा: mainly Chakshusha's sons
इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणा: ।
मुनयस्तत्र वै राजन्हविष्मद्वीरकादय: ॥८॥
इन्द्र: मन्त्रद्रुम:-तत्र Indra was Mantradruma, then,
देवा आप्य-आदय: गणा: the gods Aapyaya and others' hosts
मुनय:-तत्र वै राजन् the seers then, certainly, O King!
हविष्मत्-वीरक-आदय: (were) Havishmata Veeraka and others
तत्रापि देव: सम्भूत्यां वैरजस्याभवत् सुत: ।
अजितो नाम भगवानंशेन जगत: पति: ॥९॥
तत्र-अपि देव: सम्भूत्याम् There also the divine, from Sambhooti
वैरजस्य-अभवत् सुत: Vairaja's was born the son
अजित: नाम भगवान्- Ajita by name, from The Lord's
अंशेन जगत: पति: part, of the world's The Protector
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृत: कूर्मरूपेण मन्दर: ॥१०॥
पयोधिम् येन निर्मथ्य the ocean by whom, was churned
सुराणाम् साधिता सुधा and to the gods was given to drink the nectar
भ्रममाण:-अम्भसि धृत: revolving in the water, supported,
कूर्म-रूपेण मन्दर: in Tortoise form, The Mandara
राजा उवाच - The King said -
यथा भगवता ब्रह्मन्मथित: क्षीरसागर: ।
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥११॥
यथा भगवता ब्रह्मन्- how by The Lord, O Holy One!
मथित: क्षीर-सागर: was churned the milk ocean
यत्-अर्थम् यत:-च-अद्रिं for what reason, why and the mountain
दधार-अम्बुचर-आत्मना upheld Tortoise as Self
यथामृतं सुरै: प्राप्तं किञ्चान्यदभवत् तत: ।
एतद् भगवत: कर्म वदस्व परमाद्भुतम् ॥१२॥
यथा-अमृतम् सुरै: प्राप्तम् how the nectar, by the gods was obtained
किञ्च-अन्यत्-अभवत् तत: what and else happenned after that
एतद् भगवत: कर्म this, The Lord's deed
वदस्व परम-अद्भुतम् do tell, very wonderful
त्वया सङ्कथ्यमानेन महिमना सात्वतां पते: ।
नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥१३॥
त्वया सङ्कथ्यमानेन by you in length told
महिमना सात्वताम् पते: the glory of the devotees of The Lord
न-अति-तृप्यति मे चित्तम् is not vey much satisfied, my mind
सुचिरम् ताप-तापितम् for long by agony distressed
सूत्त् उवाच - Soota said -
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजा: ।
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥१४॥
सम्पृष्ट: भगवान्-एवम् being asked The glorious thus,
द्वैपायन-सुत: द्विजा: Dvepaayana's son (Shuka), O Braahmanas!
अभिनन्द्य हरे:-वीर्यम्- welcoming, Shree Hari's valours
अभ्याचष्टुम् प्रचक्रमे to describe proceeded
श्री शुक उवाच - Shree Shuka said -
यदा युद्धेऽसुरैर्देवा बाध्यमाना: शितायुधै: ।
गतासवो निपतिता नोत्तिष्ठेरन्स्म भूयश: ॥१५॥
यदा युद्धे-असुरै:-देवा: when in the battle, with the demons, the gods
बाध्यमाना: शित-आयुधै: impelled by sharp weapons
गत-असव: निपतिता: having lost life, fell
न-उत्तिष्ठेरन्-स्म भूयश: did not arise, again
यदा दुर्वासस: शापात् सेन्द्रा लोकास्त्रयो नृप ।
नि:श्रीकाश्चाभवंस्तत्र नेशुरिज्यादय: क्रिया: ॥१६॥
यदा दुर्वासस: शापात् when, by Durvaasaa's curse
स-इन्द्रा: लोका:-त्रय: नृप along with Indra the worlds three, O King!
नि:श्रीका:-च-अभवन्-तत्र splendour less and became, then,
नेशु:-इज्या-अदय: क्रिया: disappeared sacrifice and other (sacred) activities
निशाम्यैतत् सुरगणा महेन्द्रवरुणादय: ।
नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयम् ॥१७॥
निशाम्य-एतत् सुर-गणा: observing this, the gods' hosts
महेन्द्र-वरुण-आदय: the great Indra Varuna and others
न-अध्यगच्छन्-स्वयम् मन्त्रै:- did not reach, among themselves thinking
मन्त्रयन्त: विनिश्चयम् and consulting, a decision
ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वश: ।
सर्वे विज्ञापयाञ्चक्रु: प्रणता: परमेष्ठिने ॥१८॥
तत: ब्रह्म-सभाम् जग्मु:- then, to Brahmaa's court, went
मेरो:-मूर्धनि सर्वश: on Meru's summit, all of them
सर्वे विज्ञापयाम्-चक्रु: they all made known
प्रणता: परमेष्ठिने submissively to the supreme ruler
स विलोक्येन्द्रवाय्वादीन् नि:सत्त्वान्विगतप्रभान् ।
लोकानमङ्गलप्रायानसुरानयथा विभु: ॥१९॥
स: विलोक्य-इन्द्र-वायु-आदीन् he seeing, Indra Varuna and others
नि:सत्त्वान्-विगत-प्रभान् devoid of strength, shorn of splendour
लोकान्-अमङ्गल-प्रायान्- the worlds inauspicious almost,
असुरान्-अयथा विभु: the demons unlike, full of prosperity
समाहितेन मनसा संस्मरन्पुरुषं परम् ।
उवाचोत्फुल्लवदनो देवान्स भगवान्पर: ॥२०॥
समाहितेन मनसा with concentrated mind
संस्मरन्-पुरुषम् परम् contemplating on The Person Supreme
उवाच-उत्फुल्ल-वदन: said with joyful countenance
देवान्-स: भगवान्-पर: to the gods he, the lord supreme
अहं भवो यूयमथोऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातय: ।
यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥२१॥
अहम् भव: यूयम्-अथ- myself, Shiva, you all, then,
असुर-आदय: मनुष्य-तिर्यग्- the demons and others, human beings, animals,
द्रुम-घर्म-जातय: vegetable kingdom, those born of sweat,
यस्य-अवतार-अंश- of Whose manifestation's part
कला-विसर्जिता: व्रजाम सर्वे or of His part dispensed, will go all
शरणम् तम्-अव्ययम् surrendered to Him The Immortal
न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्ष: ।
अथापि सर्गस्थितिसंयमार्थं धत्ते रज:सत्त्वतमांसि काले ॥२२॥
न यस्य वध्य: न च not for Whom is (anyone) to be killed, not and
रक्षणीय: न-उपेक्षणीय- to be protected, not to be neglected
आदरणीय-पक्ष: or worthy of respect, any one
अथ-अपि सर्ग-स्थिति- then even, creation, maintenance
संयम-अर्थम् धत्ते dissolution, for the purpose, assumes
रज:-सत्त्व-तमांसि काले Rajas, Sattva, Tamas, in (proper) time
अयं च तस्य स्थितिपालनक्षण: सत्त्वं जुषाणस्य भवाय देहिनाम् ।
तस्माद् व्रजाम: शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रिय: ॥२३॥
अयम् च तस्य this and His
स्थिति-पालन-क्षण: maintenance and preservation time
सत्त्वम् जुषाणस्य Sattva accepting
भवाय देहिनाम् for the welfare of the embodied
तस्माद् व्रजाम: therefore will go
शरणम् जगद्गुरुम् in shelter of the World Preceptor
स्वानाम् स: न: धास्यति of His Own (people) He, of ours, will ensure
शम् सुरप्रिय: well-being, of the gods The Beloved
श्री शुक उवाच - Shree Shuka said -
इत्याभाष्य सुरान्वेधा: सह देवैररिन्दम ।
अजितस्य पदं साक्षाज्जगाम तमस: परम् ॥२४॥
इति-आभाष्य सुरान्-वेधा: this saying, to the gods, Brahmaa
सह देवै:-अरिन्दम along with the gods, O Foe suppressor!
अजितस्य पदम् साक्षात्- to Ajita's realm Himself
जगाम तमस: परम् went, Tamas (darkness, ignorance) beyond
तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो ।
स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रिय: ॥२५॥
तत्र-अदृष्ट-स्वरूपाय there, Whose not seen form
श्रुत-पूर्वाय वै विभो heard before, indeed, O lord!
स्तुतिम्-अब्रूत दैवीभि:- hymn uttered, with Vedic
गीर्भि:-तु-अवहितेन्द्रिय: words, indeed, with concentration
ब्रह्मा उवाच - Brahmaa said -
अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् ।
मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् ॥२६॥
अविक्रियं सत्यम्-अनन्तम्- changeless, ever true, infinite,
आद्यम् गुहा-आशयम् most ancient, in the heart (cave) dwelling
निष्कलम्-अप्रतर्क्यम् unconditioned, incomprehensible,
मन:-अग्रयानम् than the mind quicker
वचसा-अनिरुक्तम् नमामहे by speech indescribable, we bow down to
देव-वरम् वरेण्यम् of the gods the foremost, worthy of being sought for
विपश्चितं प्राणमनोधियात्मनामर्थेन्द्रियाभासमनिद्रमव्रणम् ।
छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥२७॥
विपश्चितम् प्राण-मन:- The Knower of the vital airs, mind,
धिया-आत्मनाम्-अर्थे- the intellect, ego, for the purpose of
इन्द्रिय-आभासम्- the senses' perception
अनिद्रम्-अव्रणम् devoid of sleep, bodiless,
छाया-आतपौ यत्र shade and light (are) where
न गृध्र-पक्षौ not of Jeeva the characteristics
तम्-अक्षरम् खम् Him, infinite, all perfect
त्रि-युगम् व्रजामहे in the three Yugas, we resort to
अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु ।
त्रिणाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥२८॥
अजस्य चक्रम् तु-अजया- of the unborn (the self) (it's body's) wheel, indeed
ईर्यमाणम् मनोमयम् rotating, of mind consists
पञ्चदश-अरम्-आशु fifteen spokes provided with
त्रि-नाभि: विद्युत्-चलम्- three navels, of lightning speed
अष्ट-नेमि यत्-अक्षम्-आहु:- with eight fellies, that axle called
तम्-ऋतम् प्रपद्ये Him The Truth I run for protection
य एकवर्णं तमस: परं तदलोकमव्यक्तमनन्तपारम् ।
आसाञ्चकारोपसुपर्णमेनमुपासते योगरथेन धीरा: ॥२९॥
य: एक-वर्णम् तमस: परम् Who is one nature , Prakriti beyond
तत्-अलोकम्-अव्यक्तम्- That imperceptible, undifferentiated
अनन्त-पारम् unlimited and beyond (time and space)
आसान्-चकार-उपसुपर्णम्- inner Controller dwells (in every heart), near the
एनम्-उपासते Him seek
योग-रथेन धीरा: by Yoga discipline, the wise
न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् ।
तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ॥३०॥
न यस्य क:-च- not Whose who and
अतितितर्ति मायाम् यया can overpass Maayaa, by whom
जन: मुह्यति वेद न-अर्थम् men are bewildered, do not know the truth
तम् निर्जित-आत्मा-आत्म- whom has subdued That Self
गुणम् परेशम् नमाम and its Gunas beyond The Lord, will bow
भूतेषु समम् चरन्तम् in the beings equally moves
इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तरावि: ।
गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधाना: ॥३१॥
इमे वयम् यत्-प्रियया- these we, by Whose favourite
एव तन्वा सत्त्वेन सृष्टा: only body, of Sattva are created
बहि:-अन्त:-आवि: outside and inside pervading
गतिम् न सूक्ष्माम्- that essence not subtle
ऋषय:-च विद्महे the sages and know
कुत:-असुर-आद्या: how the demons and others
इतर-प्रधाना: of other (Gunas) prominent
पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्ग: ।
स वै महापुरुष आत्मतन्त्र: प्रसीदतां ब्रह्म महाविभूति: ॥३२॥
पादौ मही-इयम् स्वकृता-एव the feet, the earth this, is self evolved even
यस्य चतुर्विध: यत्र by Whom, four types of where
हि भूत-सर्ग: indeed beings' creations
स: वै महापुरुष: आत्म-तन्त्र: He surely The Supreme Person, The Self-dependent
प्रसीदताम् ब्रह्म may be pleased, Brahman
महा-विभूति: of Infinite Power
अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमाना: ।
लोकास्त्रयोऽथाखिललोकपाला: प्रसीदतां ब्रह्म महाविभूति: ॥३३॥
अम्भ:-तु यत्-रेत: water indeed of great strength
उदार-वीर्यम् सिध्यन्ति generous generative fluid, are born,
जीवन्ति-उत वर्धमाना: subsist, certainly flourish
लोका:-त्रय:-अथ- the worlds three, then
अखिल-लोकपाला: प्रसीदताम् all the guardians, may He be gracious,
ब्रह्म महा-विभूति: The Brahman, of immense glory
सोमं मनो यस्य समामनन्ति दिवौकसां वै बलमन्ध आयु: ।
ईशो नगानां प्रजन: प्रजानां प्रसीदतां न: स महाविभूति: ॥३४॥
सोमम् मन: यस्य the moon, the mind, Whose
सम-आमनन्ति दिवौकसाम् the Vedas declare, of the gods
वै बलम्-अन्ध: आयु: indeed, the strength, food and life,
ईश: नगानाम् प्रजन: प्रजानाम् the ruler of the plants, the father of the
ईश: नगानाम् प्रजन: प्रजानाम् the ruler of the plants, the father of the created beings
प्रसीदताम् न: may be gracious to us
स: महा-विभूति: He of boundless power
अग्निर्मुखं यस्य तु जातवेदा जाता: क्रियाकाण्डनिमित्तजन्मा ।
अन्त:समुद्रेऽनुपचन् स्वधातून् प्रसीदतां न: स महाविभूति: ॥३५॥
अग्नि:-मुखम् यस्य fire is mouth Whose
तु जातवेदा: जाता: indeed for oblations for gods conveys
क्रिया-काण्ड-निमित्त-जन्मा rituals performing, for the purpose came into
क्रिया-काण्ड-निमित्त-जन्मा rituals performing, for the purpose came into existence
अन्त:-समुद्रे-अनुपचन् in the insides of the ocean assimilates
स्व-धातून् प्रसीदताम् न: the digestible objects, may be gracious to us
स: महाविभूति: That Lord of infinite power
यच्चक्षुरासीत् तरणिर्देवयाणं त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
द्वारं च मुक्तेरमृतं च मृत्यु: प्रसीदतां न: स महाविभूति: ॥३६॥
यत्-चक्षु:-आसीत् तरणि:- Whose eyes were The Sun
देवयाणम् त्रयीमय: of the gods' path, of Vedas the embodiment
ब्रह्मण: एष: धिष्ण्यम् of Brahman He, abode to be meditated upon
द्वारम् च मुक्ते:-अमृतम् च the path to liberation, immortality, and
मृत्यु: प्रसीदतां न: death, May be gracious to us
स: महाविभूति: He of infinite glory
प्राणादभूद् यस्य चराचराणां प्राण: सहो बलमोजश्च वायु: ।
अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां न: स महाविभूति: ॥३७॥
प्राणात्-अभूत् यस्य the life-breath, proceeded, from Whose
चर-अचराणां प्राण: of the mobile and immobile the life force
सह: बलम्-ओज:-च वायु: along with strength, potency and the air
अन्वास्म सम्राजम्-इव- have followed, the emperor like
अनुगा: वयम् प्रसीदताम् न: servants we, may be propitious to us
स: महाविभूति: He, of infinite splendour
श्रोत्राद् दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्या: ।
प्राणेन्द्रियात्मासुशरीरकेतं प्रसीदतां न: स महाविभूति: ॥३८॥
श्रोत्रात् दिश: यस्य from the ear the directions Whose
हृद:-च खानि प्रजज्ञिरे from heart the senses were born
खम् पुरुषस्य नाभ्या: the ether from the navel
प्राण-इन्द्रिय-आत्मा-असु- the life force, the ten Indriyas, mind, the five
शरीर-केतम् प्रसीदतम् न: in the body functioning, may be pleased with us
स: महाविभूति: He, The Person of unbound power
बलान्महेन्द्रस्त्रिदशा: प्रसादान्मन्योर्गिरीशो धिषणाद् विरिञ्च: ।
खेभ्यश्च छन्दांस्यृषयो मेढ्रत: क: प्रसीदतां न: स महाविभूति: ॥३९॥
बलात्-महेन्द्र: त्रिदशा: प्रसादात्- from strength sprang Indra, the gods from
मन्यो:-गिरीश: from wrath Lord Shiva,
धिष्णाद् विरिञ्च: from intellect Brahmaa,
खेभ्य:-च छन्दांसि- from the apertures (of the body) the metres of the Vedas
ऋषय: मेढ्रत: क: the sages from the genital organ Prajaapati
प्रसीदताम् न: may favourably be inclined to us
स: महाविभूति: He of unbound glory
श्रीर्वक्षस: पितरश्छाययाऽऽसन् धर्म: स्तनादितर: पृष्ठतोऽभूत् ।
द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात् प्रसीदतां न: स महाविभूति: ॥४०॥
श्री:-वक्षस: पितर:-छायया- Shree from the bosom, the manes from shadow
आसन् धर्म: स्तनात्- were, Dharma from the breast
इतर: पृष्ठत:-अभूत् the other (Adharma) from back emerged
द्यौ:-यस्य शीर्ष्ण:-अप्सरस: the heaven from Whose head, the Apsaras
विहारात् प्रसीदताम् न: from recreation, may propitious be
स: महाविभूति: He of infinite glory
विप्रो मुखं ब्रह्म च यस्य गुह्यं राजन्य आसीद् भुजयोर्बलं च ।
ऊर्वोर्विडोजोऽङ्घ्रिरवेदशूद्रौ प्रसीदतां न: स महाविभूति: ॥४१॥
विप्र: मुखम् ब्रह्म च Braahmanas from the mouth, Vedas and
यस्य गुह्यम् राजन्य: Whose beyond the senses, the Kshatriyas
आसीद् भुजयो:-बलम् च came, from the arms and also the strength
ऊर्वो:-विड्-ओज:- from the thighs the Vaishyas, and their skill
अङ्घ्रि:-अवेद-शूद्रौ from the feet, service and the Shudras
प्रसीदताम् न: may be pleased with us
स: महाविभूति: He of immense power
लोभोऽधरात् प्रीतिरुपर्यभूद् द्युतिर्नस्त: पशव्य: स्पर्शेन काम: ।
भ्रुवोर्यम: पक्ष्मभवस्तु काल: प्रसीदतां न: स महाविभूति: ॥४२॥
लोभ:-अधरात् प्रीति:-ऊपरि- greed from lower lip, love from upper (lip)
अभूत् द्युति:-नस्त: came, splendour from the nose
पशव्य: स्पर्शेन काम: dear to animals, from touch, sexual desire
भ्रुवो:-यम: पक्ष्म-भव:-तु from eyebrows Yama, from eyelashes indeed
काल: प्रसीदताम् न: Kaala, may be favourably inclined to us
स: महाविभूति: He of infinite glory
द्रव्यं वय: कर्म गुणान्विशेषं यद्योगमायाविहितान्वदन्ति ।
यद् दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां न: स महाविभूति: ॥४३॥
द्रव्यम् वय: कर्म गुणान्- the elements, Time, destiny, the Gunas,
विशेषम् यत्-योग-माया- and the material universe, which by Yoga-Maayaa
विहितान्-वदन्ति enclosed are said to be
यद् दुर्विभाव्यम् प्रबुध- which is difficult to comprehend, the wise
अपबाधम् प्रसीदताम् न: disregard, may be pleased to us
स: महाविभूति: He of boundless power
नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने ।
गुणेषु मायारचितेषु वृत्तिभिर्न सज्जमानाय नभस्वदूतये ॥४४॥
नम:-अस्तु तस्मै salutations may be to Him
उपशान्त-शक्तये in Whom are dormant all energies
स्वाराज्य-लाभ- with Bliss supreme enjoyment
प्रतिपूरित-आत्मने sated mind
गुणेषु माया-रचितेषु in the Gunas, by Maayaa created
वृत्तिभि:-न सज्जमानाय by faculties (of sight etc.) not attached to
नभस्वत्-ऊतये ( comparable) to the air's role
स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् ।
प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥४५॥
स: त्वम् न: दर्शय-आत्मानम्- That You to us, reveal Yourself
अस्मत्-करण-गोचरम् into our sense perception range
प्रपन्नानाम् दिदृक्षूणाम् resorted (to You), eager to behold
सस्मितम् ते मुख-अम्बुजम् smiling Your face lotus
तैस्तै: स्वेच्छाधृतै रूपै: काले काले स्वयं विभो ।
कर्म दुर्विषहं यन्नो भगवांस्तत् करोति हि ॥४६॥
तै:-तै: स्वेच्छा-धृतै: रूपै: by those all, at will taken forms
काले काले स्वयम् विभो from time to time, Yourself, O Almighty!
कर्म दुर्विषहम् यत्-न: work difficult to do, which by us
भगवान्-तत् करोति हि O Lord! do indeed
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥४७॥
क्लेश-भूरि-अल्प-साराणि hardships many, small returns,
कर्माणि विफलानि वा actions futile or
देहिनाम् विषय-आर्तानाम् of embodied souls, by senses tormented
न तथा-एव-अर्पितम् त्वयि not like that only, dedicated to You
नावम: कर्मकल्पोऽपि विफलायेश्वरार्पित: ।
कल्पते पुरुषस्यैष स ह्यात्मा दयितो हित: ॥४८॥
न-अवम: कर्म-कल्प:-अपि not the smallest action imagined also
विफलाय-ईश्वर-अर्पित: may be futile, to The Lord resigned
कल्पते पुरुषस्य-एष: स: is supposed to be of the Jeeva, This He
हि-आत्मा दयित: हित: the very Self, beloved and well-wisher
यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
एवमाराधनं विष्णो: सर्वेषामात्मनश्च हि ॥४९॥
यथा हि स्कन्ध-शाखानाम् just as indeed, the trunk and boughs
तरो:-मूल-अवसेचनम् tree root by watering
एवम्-आराधनम् विष्णो: like that propitiating Vishnu
सर्वेषाम्-आत्मन:-च हि is to all and self and indeed
नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे ।
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥५०॥
नम:-तुभ्यम्-अनन्ताय Hail to You! to The Infinite Lord
दुर्वितर्क्य-आत्म-कर्मणे hard to comprehend, Self movements
निर्गुणाय गुण-ईशाय transcending the Gunas, the Gunas' Ruler,
सत्त्व-स्थाय च साम्प्रतम् in Sattva established and present
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे अमृतमथने पञ्चमोऽध्याय: ॥५॥ Thus ends the fifth discourse, forming part of the story relating to the
श्रीमद्भागवत महापुराणम्
षष्ठ: अध्याय:
श्री शुक उवाच - Shree Shuka said -
एवं स्तुत: सुरगणैर्भगवान् हरिरीश्वर: ।
तेषामाविरभूद् राजन्सहस्रार्कोदयद्युति: ॥१॥
एवम् स्तुत: सुर-गणै:- thus extolled, by the gods' hosts,
भगवान् हरि:-ईश्वर: The Lord, Shree Hari The Almighty
तेषाम्-आवि:-अभूद् राजन्- before them appeared, O King!
सहस्र-अर्क:-उदय-द्युति: thousand Suns' rising effulgence
तेन सहसा सर्वे देवा: प्रतिहतेक्षणा: ।
नापश्यन्खं दिश: क्षोणिमात्मानं च कुतो विभुम् ॥२॥
तेन सहसा सर्वे by that (effulgence) suddenly, all
देवा: प्रतिहत-ईक्षणा: the gods, dazzled eyed
न-अपश्यन्-खम् दिश: क्षोणिम्- did not see the sky, the directions, the earth
आत्मानम् च कुत: विभुम् themselves and how The Lord
विरिञ्चो भगवान्दृष्ट्वा सह शर्वेण तां तनुम् ।
स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥३॥
विरिञ्च: भगवान्-दृष्ट्वा Brahmaa the glorious, beholding
सह शर्वेण ताम् तनुम् along with Lord Shiva, that body
स्वच्छाम् मरकत-श्यामाम् spotless, emerald like dark green
कञ्ज-गर्भ-अरुण-ईक्षणाम् the lotus interior like red eyed
तप्तहेमावदातेन लसत्कौशेयवाससा ।
प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥४॥
तप्त-हेम-अवदातेन in molten gold clad like
लसत्-कौशेय-वाससा shining yellow silk
प्रसन्न-चारु-सर्व-अङ्गीम् cheerful and charming on all limbs
सुमुखीम् सुन्दर-भ्रुवम् lovely countenance, and beautiful eyebrows
महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।
कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम् ॥५॥
महा-मणि-किरीटेन precious gems (studded) crown
केयूराभ्याम् च भूषिताम् a pair of armlets and adorned
कर्ण-आभरण-निर्भात-कपोल-श्री- by the ear-rings enhanced the cheeks charm
मुख-अम्बुजाम् and of the face lotus like
काञ्चीकलापवलयहारनूपुरशोभिताम् ।
कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥६॥
काञ्ची-कलाप-वलय-हार- girdle, wristlets, pearl necklace,
नूपुर-शोभिताम् anklets bedecked with
कौस्तुभ-आभरणाम् लक्ष्मीम् by Kaustubha adorned Lakshmi
बिभ्रतीम् वन-मालिनीम् dazzling, and sylvan flowers' garland
सुदर्शनादिभि: स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् ।
तुष्टाव देवप्रवर: सशर्व: पुरुषं परम् ।
सर्वामरगणै: साकं सर्वाङ्गैरवनिं गतै: ॥७॥
सुदर्शन-आदिभि: स्व-अस्त्रै:- by Sudarshana and other own weapons
मूर्तिमद्भि:-उपासिताम् personified, waited upon
तुष्टाव देव-प्रवर: extolled the gods' foremost (Brahmaa)
स-शर्व: पुरुषम् परम् along with Shiva, The Person Supreme
सर्व-अमर-गणै: साकम् by all the gods' hosts, along with
सर्वाङ्गै:-अवनिम् गतै: by all limbs on the ground falling (prostrate)
ब्रह्मा उवाच - Brahmaa said -
अजातजन्मस्थितिसंयमायागुणाय निर्वाणसुखार्णवाय ।
अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥८॥
अजात-जन्म- not predicated (Whose) birth is
स्थिति-संयमाय- or, continuance, destruction
अगुणाय (Who is) devoid of the Gunas
निर्वाण-सुख-अर्णवाय beatitude Bliss is the ocean of
अणो:-अणिम्ने- is of the subtle, subtler
अपरिगण्य-धाम्ने of unconceivable form,
महा-अनुभावाय of immeasurable glory
नम: नम:-ते Hail! Hail! To You
रूपं तवैतत् पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ।
योगेन धात: सह नस्त्रिलोकान् पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ ॥९॥
रूपम् तव-एतत् पुरुषर्षभ- form Yours this, O Supreme Person!
इज्यम् श्रेय:-अर्थिभि:- deserves to be worshipped by blessedness seekers
वैदिक-तान्त्रिकेण laid by Vedas or Tantras
योगेन धात: सह न:- methods, O Maker of all! along with us
त्रि-लोकान् पश्यामि-अमुष्मिन् the three worlds I perceive in this
नु ह विश्वमूर्तौ most certainly in The Universe embodied
त्वय्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीदिदमात्मतन्त्रे ।
त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव पर: परस्मात् ॥१०॥
त्वयि-अग्रे आसीत् in You, in the beginning (this universe) was
त्वयि मध्ये आसीत् in You, in the middle was
त्वयि-अन्ते आसीत्- in You in the end will be
इदम्-आत्मतन्त्रे this, O Self-dependent One!
त्वम्-आदि:-अन्त: You are the beginning, end,
जगत:-अस्य मध्यम् of cosmos this, the middle,
घटस्य मृत्स्ना-इव a pot's clay like
पर: परस्मात् beyond the highest
त्वं माययाऽऽत्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्ट: ।
पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चित: ॥११॥
त्वम् मायया-आत्म-आश्रयया You by Maayaa, on Yourself dependent
स्वया-इदम् निर्माय Your own, this having created,
विश्वम् तत्-अनुप्रविष्ट: the universe, in it have entered
पश्यन्ति युक्ता: मनसा perceive the mind controlled, by mind,
मनीषिण: गुण-व्यवाये- the knowers of the scriptures, of the Gunas the result
अपि-अगुणम् विपश्चित: yet without Gunas, the wise
यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम् ।
योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥१२॥
यथा-अग्निम्-एधसि- just as fire in wood
अमृतम् च गोषु milk and in cow
भुवि-अन्नम्-अम्बु in the soil food and water,
उद्यमने च वृत्तिम् by exertion and livelihood,
योगै:-मनुष्या: by Yoga men
अधियन्ति हि त्वाम् realize indeed You
गुणेषु बुद्ध्या in the sense objects by pure intellect
कवय: वदन्ति the intellectuals describe (You)
तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् ।
दृष्ट्वा गता निर्वृत्तिमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भ: ॥१३॥
तम् त्वाम् वयम् नाथ Him You, we, O Lord!
समुज्जिहानम् सरोजनाभ- appearing in person, O The One with Lotus in navel
अतिचिर-ईप्सित-अर्थम् for long longing the sight
दृष्ट्वा गता: निर्वृत्तिम्-अद्य having seen, attained supreme bliss, today
सर्वे गजा: दवार्ता: we all, elephants by the wild fire distressed
इव गाङ्गम्-अम्भ: like Ganga's water
स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् ।
समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिण: ॥१४॥
स: त्वम् विधत्स्व-अखिल- that You accomplish, all
लोकपाला: वयम् यत्-अर्था:- the guardians, we for what purpose
तव पाद-मूलम् समागता:- at Your feet soles, have come
ते बहि:-अन्त:-आत्मन् Yours, of the outside and inside The Self!
किम् वा-अन्य-विज्ञाप्यम्- what or other is to be made known
अशेष-साक्षिण: O of all The Witness!
अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते ।
किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् ॥१५॥
अहम् गिरित्र:-च सुर-आदय: ये myself, Lord Shiva, and the gods and others
अहम् गिरित्र:-च सुर-आदय: ये myself, Lord Shiva, and the gods and others those
दक्ष-आदय:-अग्ने:-इव केतव:-ते Daksha and others, fire's like sparks of You
किम् वा विदाम-ईश what do we know, O Lord!
पृथक्-विभाता विधत्स्व separately standing, conduct
शम् न: द्विज-देव-मन्त्रम् welfare our, of the Brahmanas and gods the counsel
श्री शुक उवाच - Shree Shuka said -
एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं तथैव ।
जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन्संवृतसर्वकारकान् ॥१६॥
एवम् विरिञ्च-आदिभि:-ईडित:- in this manner by Brahmaa and others extolled,
तत् विज्ञाय तेषाम् हृदयम् that knowing, of their hearts
तथा-एव जगाद जीमूत- as it was only, spoke in rumbling
गभीरया गिरा बद्ध-अञ्जलीन्- deep voice, (to them) with folded hands
संवृत-सर्व-कारकान् controlled of all senses
एक एवेश्वरस्तस्मिन्सुरकार्ये सुरेश्वर: ।
विहर्तुकामस्तानाह समुद्रोन्मथनादिभि: ॥१७॥
एक: एव-ईश्वर:-तस्मिन्- One alone, The Lord, in that
सुर-कार्ये सुरेश्वर: gods' purpose, the gods' Ruler
विहर्तु-काम:-तान्-आह sport to desiring, to them said
समुद्र-उन्मथन-आदिभि: by the ocean churning and others (sports)
श्री भगवान् उवाच - The Lord said -
हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् ।
शृणुतावहिता: सर्वे श्रेयो व: स्याद् यथा सुरा: ॥१८॥
हन्त ब्रह्मन्-अहो शम्भो Hello Brahmaa! O Shiva!
हे देवा मम भाषितम् O gods! my words
शृणुत-अवहिता: सर्वे listen to carefully, all
श्रेय: व: स्याद् यथा सुरा: good to you may come, so that, O gods!
यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् ।
कालेनानुगृहीतैस्तैर्यावद् वो भव आत्मन: ॥१९॥
यात दानव-दैतेयै:- (until) comes, with the Daanavas and Daityas
तावत् सन्धि:-विधीयताम् till then, truce may hold
कालेन-अनुगृहीतै:-यावद् by Time favoured, until
व: भव आत्मन: your time own
अरयोऽपि हि सन्धेया: सति कार्यार्थगौरवे ।
अहिमूषकवद् देवा ह्यर्थस्य पदवीं गतै: ॥२०॥
अरय:-अपि हि सन्धेया: enemies also certainly be befriended,
सति कार्य-अर्थ गौरवे in case of purpose fulfilling event
अहि-मूषक-वत् देवा: snake and rat like, O gods!
हि-अर्थस्य पदवीम् गतै: indeed the purpose accomplished being
अमृतोत्पादने यत्न क्रियतामविलम्बितम् ।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥२१॥
अमृत-उत्पादने यत्न in nectar producing, effort
क्रियताम्-अविलम्बितम् put forth without delay
यस्य पीतस्य वै जन्तु:- which by drinking even, a being
मृत्यु-ग्रस्त:-अमर: भवेत् in death's jaws, immortal becomes
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधी: ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥२२॥
क्षिप्त्वा क्षीर-उदधौ सर्वा: putting in, in the milk ocean, all
वीरुत्-तृण-लता-औषधी: plants, grasses, creepers, and herbs
मन्थानम् मन्दरम् कृत्वा the churning rod, the Mount Mandara making
नेत्रम् कृत्वा तु वासुकिम् the rope making, indeed Vasukee
सहायेन मया देवा निर्मन्थध्वमतन्द्रिता: ।
क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहा: ॥२३॥
सहायेन मया देवा with help from Me, O Gods!
निर्मन्थध्वम्-अतन्द्रिता: churn unsluggishly
क्लेशभाज: भविष्यन्ति दैत्या: exertion deservers will be the Daityas
यूयम् फलग्रहा: and you the fruit obtainers
यूयं तदनुमोदध्वं यदिच्छन्त्यसुरा: सुरा: ।
न संरम्भेण सिध्यन्ति सर्वेऽर्था: सान्त्वया यथा ॥२४॥
यूयम् तत्-अनुमोदध्वम् you all that accept
यत्-इच्छन्ति-असुरा: सुरा: what want the Asuras, O gods!
न संरम्भेण सिध्यन्ति not by anger are achieved
सर्वे-अर्था: सान्त्वया यथा all objects, peacefully as
न भेतव्यं कालकूटाद् विषाज्जलधिसम्भवात् ।
लोभ: कार्यो न वो जातु रोष: कामस्तु वस्तुषु ॥२५॥
न भेतव्यम् कालकूटात् do not be afraid of Kaalkoota
विषात्-जलधि-सम्भवात् poison, from the ocean coming out
लोभ: कार्य: न व: जातु greed should be done not by you or
रोष: काम:-तु वस्तुषु vent anger, for desired indeed objects
श्री शुक उवाच - Shree Shuka said -
इति देवान्समादिश्य भगवन्पुरुषोत्तम: ।
तेषामन्तर्दधे राजन्स्वच्छन्दगतिरीश्वर: ॥२६॥
इति देवान्-समादिश्य this to the gods, directing
भगवन्-पुरुषोत्तम: The Lord Supreme Person
तेषाम्-अन्तर्दधे राजन्- from amongst them vanished, O King!
स्वच्छन्द-गति:-ईश्वर: at will moving about, Lord Shree Hari
अथ तस्मै भगवते नमस्कृत्य पितामह: ।
भवश्च जग्मतु: स्वं स्वं धामोपेयुर्बलिं सुरा: ॥२७॥
अथ तस्मै भगवते after that, to Him The Lord
नमस्कृत्य पितामह: having bowed, Brahmaa
भव:-च जग्मतु: स्वम् स्वम् Shiva and went to own
धाम: उपेयु:-बलिम् सुरा: abodes, approached Bali the gods
दृष्ट्वारीनप्यसंयत्ताञ्जातक्षोभान्स्वनायकान् ।
न्यषेधद् दैत्यराट् श्लोक्य: सन्धिविग्रहकालवित् ॥२८॥
दृष्ट्वा-अरीन्-अपि- seeing the enemies, even
असंयत्-तान्-जात-क्षोभान्- uncontrolled, becoming agitated
स्व-नायकान् own generals
न्यषेधt दैत्यराट् श्लोक्य: deterred the Daitya emperor praiseworthy
सन्धि-विग्रह-काल-वित् truce and battle time knowing
ते वैरोचनिमासीनं गुप्तं चासुरयूथपै: ।
श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥२९॥
ते वैरोचनिम्-आसीनम् they, to Bali, sitting,
गुप्तम् च-असुर-यूथपै: guarded and by Asura troop leaders
श्रिया परमया जुष्टम् with splendour highest invested
जित-अशेषम्-उपागमन् having conquered all, approached
महेन्द्र: श्लक्ष्णया वाचा सान्त्वयित्वा महामति: ।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥३०॥
महेन्द्र: श्लक्ष्णया वाचा Indra, in sweet words
सान्त्वयित्वा महामति: explaining, the talented
अभ्यभाषत तत् सर्वम् told that all
शिक्षितम् पुरुषोत्तमात् instructed by The Person Supreme
तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपा: ।
शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिन: ॥३१॥
तत्-अरोचत दैत्यस्य that pleased, the Daitya (chief)
तत्र-अन्ये ये-असुर-अधिपा: there the other those Asura leaders
शम्बर:-अरिष्टनेमि:-च Shambara, Arishtanemee and
ये च त्रिपुर-वासिन: those and of Tripura the denizens
ततो देवासुरा: कृत्वा संविदं कृतसौहृदा: ।
उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥३२॥
तत: देव-असुरा: कृत्वा then, the Devas and the Asuras, coming
संविदम् कृत-सौहृदा: to an understanding, made friends
उद्यमम् परमम् चक्रु:- effort high put forth
अमृत-अर्थे परन्तप nectar sake, O Pareekshita!
ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदा: ।
नदन्त उदधिं निन्यु: सक्ता: परिघबाहव: ॥३३॥
तत:-ते मन्दर-गिरिम्- after that they, the Mandara mountain
ओजसा-उत्पाट्य दुर्मदा: with might uprooted, the arrogant
नदन्त: उदधिम् निन्यु: roaring to the ocean took,
सक्ता: परिघ-बाहव: full of energy, bludgeons armed
दूरभारोद्वहश्रान्ता: शक्रवैरोचनादय: ।
अपारयन्तस्तं वोढुं विवशा विजहु: पथि ॥३४॥
दूरभार-उद्वह-श्रान्ता: the very heavy, by carrying exhausted
शक्र-वैरोचन-आदय: Indra, Bali and others
अपारयन्त:-तम् वोढुम् unable that to carry
विवशा: विजहु: पथि helplessly dropped, on the way
निपतन्स गिरस्तत्र बहूनमरदानवान् ।
चूर्णयामास महता भारेण कनकाचल: ॥३५॥
निपतन्-स: गिर:-तत्र while falling that mountain there
बहून्-अमर-दानवान् many gods and demons
चूर्णयामास महता भारेण crushed by huge weight
कनकाचल: like Sumeru mountain
तांस्तथा भग्नमनसो भग्नबाहोरुकन्धरान् ।
विज्ञाय भगवांस्तत्र बभूव गरुडध्वज: ॥३६॥
तान्-तथा भग्न-मनस: them, thus disheartened,
भग्न-बाहू-ऊरु-कन्धरान् broken armed, thighs and shoulders
विज्ञाय भगवान्-तत्र knowing The Lord, there
बभूव गरुडध्वज: appeared on Gaduda's back
गिरिपातविनिष्पिष्टान्विलोक्यामरदानवान् ।
ईक्षया जीवयामास निर्जरान् निर्व्रणान्यथा ॥३७॥
गिरि-पात-विनिष्पिष्टान्- by the mountain's falling crushed
विलोक्य-अमर-दानवान् seeing the gods and demons
ईक्षया जीवयामास by a glance revived
निर्जरान् निर्व्रणान्-यथा the gods unhurt like
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
आरुह्य प्रययावब्धिम् सुरासुरगणैर्वृत: ॥३८॥
गिरिम् च-आरोप्य गरुडे the mountain and placing on Garuda
हस्तेन-एकेन लीलया by hand one, sportingly
आरुह्य प्रययौ-अब्धिम् mounting, went to the ocean
सुर-असुर गणै:-वृत: by gods and demons' hosts surrounded
अवरोप्य गिरिं स्कन्धात् सुपर्ण: पततां वर: ।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जित: ॥३९॥
अवरोप्य गिरिम् स्कन्धात् placing the mountain, from the shoulder,
सुपर्ण: पतताम् वर: Suparna, of the winged the foremost,
ययौ जलान्ते उत्सृज्य went on the water-side leaving
हरिणा स: विसर्जित: by Lord Shree Hari he dispersed
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे अमृतमथने मन्दराचलानयनं नाम्
षष्ठोऽध्याय: ॥६॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे अमृतमथने मन्दराचलानयनं नाम्
षष्ठोऽध्याय: ॥६॥ Thus ends the sixth discourse, entitled 'The transportation of Mount
सप्तम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
ते नागराजमामन्त्र्य फलभागेन वासुकिम् ।
परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विता: ॥१॥
ते नागराजम्-आमन्त्र्य they, the serpent king, invited
फल-भागेन वासुकिम् with fruit share, the Vaasuki
परिवीय गिरौ तस्मिन् entwined on the mountain that
नेत्रम्-अब्धिम् मुदा-अन्विता: a cord to (churn) the ocean, joy full of
आरेभिरे सुसंयत्ता अमृतार्थं कुरूद्वह ।
हरि: पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ॥२॥
आरेभिरे सुसंयत्ता: commenced, well prepared
अमृत-अर्थम् कुरूद्वह for nectar's sake, O Scion of the Kurus!
हरि: पुरस्तात्-जगृहे Lord Shree Hari from the front caught
पूर्वम् देवा:-तत:-अभवन् hold first, the gods like that became
तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।
न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥३॥
तत्-न-ऐच्छन् दैत्य-पतय: that did not agree to, the Daitya generals
महापुरुष-चेष्टितम् The Supreme Persons' act
न गृह्णीम: वयम् पुच्छम्- will not hold we, the tail
अहे:-अङ्गम्-अमङ्गलम् of the serpent, limb inauspicious
स्वाध्यायश्रुतसम्पन्ना: प्रख्याता जन्मकर्मभि: ।
इति तूष्णीं स्थितान्दैत्यान् विलोक्य पुरुषोत्तम: ।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामर: ॥४॥
स्वाध्याय-श्रुत-सम्पन्ना: with the learning of the Vedas, enriched
प्रख्याता: जन्म-कर्मभि: well known by birth and deeds,
इति तूष्णीम् स्थितान्-दैत्यान् thus silent becoming the Daityas
विलोक्य पुरुषोत्तम: seeing, The Supreme Person
स्मयमान: विसृज्य-अग्रम् smilingly gave up the fore part
पुच्छम् जग्राह स-अमर: the tail got hold of with the gods
कृतस्थानविभागास्त एवं कश्यपनन्दना: ।
ममन्थु: परमायत्ता अमृतार्थं पयोनिधिम् ॥५॥
कृत-स्थान-विभागा:-ते with their positions demarked, they
एवम् कश्यप-नन्दना: like this, Kashyapa's sons (gods and demons)
ममन्थु: परम-आयत्ता: churned with full enthusiasm
अमृत-अर्थम् पयोनिधिम् for nectar sake the ocean
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।
ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन ॥६॥
मथ्यमाने-अर्णवे स:-अद्रि:- (as was) churned the ocean, that mountain
अनाधार: हि-अपि-अविशत् baseless, indeed also, sank
ध्रियमाण:-अपि बलिभि:- held though, by the strong (gods and demons),
गौरवात् पाण्डु-नन्दन by weight, O Paandu's son!
ते सुनिर्विण्णमनस: परिम्लानमुखश्रिय: ।
आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥७॥
ते सुनिर्विण्ण-मनस: they, depressed minded
परिम्लान मुख-श्रिय: and lost colour of face and the splendour,
आसन् स्व-पौरुषे नष्टे became, own efforts being futile
दैवेन-अति बलीयसा by providence, very powerful
विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धि: ।
कृत्वा वपु: काच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार ॥८॥
विलोक्य विघ्नेश-विधिम् seeing Vighnesha's (the lord of impediments) ways,
तदा-ईश्वर: दुरन्त-वीर्य:- then, The Lord of unlimited prowess
अवितथ-अभिसन्धि: unfailing resolve
कृत्वा वपु: काच्छपम्- making the body tortoise
अद्भुतम् महत् प्रविश्य strange, gigantic, entering
तोयम् गिरिम्-उज्जहार the water, the mountain uplifted
तमुत्थितं वीक्ष्य कुलाचलं पुन: समुत्थिता निर्मथितुं सुरासुरा: ।
दधार पृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान् ॥९॥
तम्-उत्थितम् वीक्ष्य that rising, seeing
कुलाचलम् पुन: समुत्थिता: the Mandaraachala again arising
निर्मथितुम् सुर-असुरा: to churn the gods and demons
दधार पृष्ठेन स: held up on the back He
लक्ष-योजन-प्रस्तारिणा one lakh yojana spread
द्वीप इव-अपर: महान् island like another huge
सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठत: ।
बिभ्रत् तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेय: ॥१०॥
सुर-असुर-इन्द्रै:-भुज-वीर्य- by the gods' and demons' great ones' arms' might
वेपितम् परिभ्रमन्तम् set into motion, the revolving
गिरिम्-अङ्ग पृष्ठत: mountain, O Dear One! on the back
बिभ्रत् तत्-आवर्तनम्- revolving, its revolution
आदि-कच्छप: मेने-अङ्ग the Primary Tortoise, considered, O Dear One!
कण्डूयनम्-अप्रमेय: the (body's) scratching, The Infinite Lord
तथासुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन् देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूप: ॥११॥
तथा असुरान्-आविशत्- in this manner, in the demons entered
आसुरेण रूपेण तेषाम् in demonic form (of Rajas), their
बल-वीर्यम्-ईरयन् strength and energy enhancing
उद्दीपयन् देव-गणान्-च enlighten the gods' hosts and
विष्णु:-दैवेन Lord Vishnu by godly form (Saatvic)
नागेन्द्रम्-अबोध-रूप: the serpent king in unconscious (of Tejas) state
उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहु: ।
तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैरभिष्टुवद्भि: सुमनोऽभिवृष्ट: ॥१२॥
उपरि-अगेन्द्रम् गिरिराट्- on the top of the mountain, a huge mountain
इव-अन्यम्-आक्रम्य like, another, pressing
हस्तेन सहस्र-बाहु: with hand, The thousand arms One
तस्थौ-दिवि stood in the sky
ब्रह्म-भव-इन्द्र-मुख्यै:- by Brahmaa, Shiva, Indra, the leaders
अभिष्टुवद्भि: सुमन:-अभिवृष्ट: extolled, with flowers showered
उपर्यधश्चात्मनि गोत्रनेत्रयो: परेण ते प्राविशता समेधिता: ।
ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् ॥१३॥
उपरि-अध:-च-आत्मनि on the top and below, Himself
गोत्र-नेत्रयो: परेण ते the mountain and the serpent, very much them
प्राविशता: समेधिता: entering energizing
ममन्थु:-अब्धिम् तरसा churned the ocean in speed,
मद-उत्कटा: महा-अद्रिणा in pride intoxicated, by the great mountain,
क्षोभित नक्र-चक्रम् violently stirring the crocodiles and (aquatic
क्षोभित नक्र-चक्रम् violently stirring the crocodiles and (aquatic creatures)
अहीन्द्रसाहस्रकठोरदृङ्मुखश्वासाग्निधूमाहत वर्चसोऽसुरा: ।
पौलोमकालेयबलील्वलादयो दवाग्निदग्धा: सरला: इवाभवन् ॥१४॥
अहीन्द्र-साहस्र-कठोर- by the serpent king's thousand ferocious
दृङ्-मुख-श्वास-अग्नि- eyes, mouths, breath fire
धूम-आहत वर्चस:-असुरा: smoke hit, the brightness of the Asuras
पौलोम-कालेय-बलि-इल्वल- Pauloma, Kaaleya, Bali, Ilvala
आदय: दवाग्नि-दग्धा: and others, forest fire charred
सरला: इव-अभवन् Sarala trees like became
देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान् ।
समभ्यवर्षन्भगवद्वशा घना ववु: समुद्रोर्म्युपगूढवायव: ॥१५॥
देवान्-च-तत्-श्वास-शिखा the gods and by his breath flame
हत-प्रभान् धूम्र-अम्बर-स्रग्- marred splendour, obscured clothes garland
वर-कञ्चुक-आननान् excellent coats and faces
समभ्यवर्षत्-भगवत्-वशा: very well showered, by The Lord prompted
घना: ववु: समुद्र-ऊर्मि- clouds, blew the sea waves
उपगूढ-वायव: moistened breeze
मथ्यमानात् तथा सिन्धोर्देवासुरवरूथपै: ।
यदा सुधा न जायेत निर्ममन्थाजित: स्वयं ॥१६॥
मथ्यमानात् तथा सिन्धो:- being churned thus the ocean
देव-असुर-वरूथपै: by the gods and demon leaders
यदा सुधा न जायेत when nectar did not come out
निर्ममन्थ-अजित: स्वयम् churned Lord Ajita Himself
मेघश्याम: कनकपरिधि: कर्णविद्योतविद्युन्मूर्ध्नि भ्राजद्विलुलितकच: स्रग्धरोरक्तनेत्र: ।
जेत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रि: ॥१७॥
मेघ-श्याम: कनक-परिधि: cloud like dark, golden garment
कर्ण-विद्योत-विद्युत्- ears with shining earrings like lightening
मूर्ध्नि भ्राजत्-विलुलित-कच: on the crown adorning curls of dark hair
स्रग्धर:-रक्त-नेत्र: garland wearing, red eyed
जेत्रै:-दोर्भि:-जगत्-अभयदै:- by arms two, the world’s protection promising
दन्दशूकम् गृहीत्वा मथ्यन् the serpent (Vaasuki) holding, churning
मथ्ना प्रतिगिरि:-इव- with the churning staff, another mountain like
अशोभत-अथ-उद्धृत-अद्रि: shone, then uplifting the mountain
निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रत: ।
सम्भ्रान्तमीनोन्मकराहिकच्छपात् तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥१८॥
निर्मथ्यमानात्-उदधे:-अभूत्- being churned, from the ocean came
विषम् महा-उल्बणम् poison, most deadly
हालहल-आह्वम्-अग्रत: Halaahala called, firstly
सम्भ्रान्त-मीन-उत्-मकर-अहि- disturbed the fish, indeed crocodiles, snakes,
कच्छपात् तिमि-द्विपग्राह- tortoises, Timi fish, sea-elephants,
तिमिङ्गिल-आकुलात् sharks agitated
तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति ।
भीता: प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणा: शरणं सदाशिवम् ॥१९॥
तत्-उग्र-वेगम् दिशि दिशि- its irresistible flow, in all quarters
उपरि-अध: विसर्पत्-उत्सर्पत्- up and below, spreading and flowing
असह्यम्-अप्रति unbearable, undirected
भीता: प्रजा: दुद्रुवु:-अङ्ग frightened all the people fled to, O Dear One!
स-ईश्वरा: अरक्ष्यमाणा: Along with The Lord, not finding protection
शरणम् सदा-शिवम् the shelter of Sadaa Shiva
विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् ।
आसीनमद्रावपवर्गहेतोस्तपो जुषाणं स्तुतिभि: प्रणेमु: ॥२०॥
विलोक्य तम् देव-वरम् beholding Him, the gods' chief
त्रिलोक्या: भवाय देव्या- for the three world's welfare with His spouse
अभिमतम् मुनीनाम् dear to the sages
आसीनम्-अद्रौ-अपवर्ग-हेतो:- seated on the mountain, liberation seeking
तप: जुषाणम् austerities practising
स्तुतिभि: प्रणेमु: with hymns greeted
प्रजापतय: ऊचु: - The lords of the created beings said -
देवदेव महादेव भूतात्मन् भूतभावन ।
त्राहि न: शरणापन्नांस्त्रैलोक्यदहनाद् विषात् ॥२१॥
देव-देव महादेव O God of gods! The Supreme Deity!
भूतात्मन् भूत-भावन of beings the protector! of beings the very being!
त्राहि न: शरण-आपन्नान्- save us, in shelter fallen
त्रैलोक्य-दहनात् विषात् the three worlds from burning by the poison
त्वमेक: सर्वजगत ईश्वरो बन्धमोक्षयो: ।
तं त्वामर्चन्ति कुशला: प्रपन्नार्तिहरं गुरुम् ॥२२॥
त्वम्-एक: सर्व-जगत: You are the One, of the whole world
ईश्वर: बन्ध-मोक्षयो: The Lord of bondage and liberation
तम् त्वाम्-अर्चन्ति कुशला: that You worship the wise
प्रपन्न-आर्ति-हरम् गुरुम् of the refuge seeking agony Reliever, the Preceptor
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो ।
धत्से यदा स्वदृग् भूमन्ब्रह्मबिष्णुशिवाभिधाम् ॥२३॥
गुणमय्या स्व-शक्त्या-अस्य Gunas consisting, own energy (Maayaa), of this
सर्ग-स्थिति-अपि-अयान्-विभो creation maintenance and dissolution, O Perfect
सर्ग-स्थिति-अपि-अयान्-विभो creation maintenance and dissolution, O Perfect One!
धत्से यदा स्वदृग् भूमन्- take on, then, O Self-seeing Lord!
ब्रह्म-बिष्णु-शिव-अभिधाम् Brahmaa, Vishnu, Shiva names
त्वं ब्रह्मपरमं गुह्यं सदसद्भावभावन: ।
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वर: ॥२४॥
त्वम् ब्रह्म-परमम् गुह्यम् You (are) Brahman, The Supreme, mysterious
सत्-असत्-भाव-भावन: the true and untrue, concepts standing as
नाना-शक्तिभि:-आभात:- by various energies manifested
त्वम्-आत्मा जगत्-ईश्वर: You are the Spirit, the Universe Ruler
त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणस्वभाव: ।
काल: क्रतु: सत्यमृतं च धर्मस्त्वय्यक्षरं यत् त्रिवृदामनन्ति ॥२५॥
त्वम् शब्द-योनि:-जगत्- You are the Word's (Vedas') Source, of the universe
आदि:-अत्मा प्राण-इन्द्रिय- the primary form, life force, the senses,
द्रव्य-गुण-स्वभाव: material, of the Gunas consisting,
काल: क्रतु: सत्यम्-ऋतम् Time, Kratu (creative will), The Truth, Rita (polite
काल: क्रतु: सत्यम्-ऋतम् Time, Kratu (creative will), The Truth, Rita (polite speech)
च धर्म:-त्वयि-अक्षरम् and Dharma, in You is The Word (OM)
यत् त्रिवृत्-आमनन्ति that of the three Gunas, they say
अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् ।
कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् ॥२६॥
अग्नि:-मुखम् ते- fire is mouth Your
अखिल-देवता-आत्मा of all the gods the self
क्षितिम् विदु:-लोक-भव- the earth, is said to be O universe's Source!
अङ्घ्रि-पङ्कजम् feet lotuses
कालम् गतिम् ते- Time movement Your
अखिल-देवता-आत्मन: all the gods are Your-self
दिश:-च कर्णौ the directions are the ears
रसनम् जलेशम् and tongue Varuna (the god of water)
नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेता: ।
परावरात्माश्रयणम् तवात्मा सोमो मनो द्यौर्भगवञ्छिरस्ते ॥२७॥
नाभि:-नभ:-ते श्वसनम् the navel is the sky Your, respiration
नभस्वान् सूर्य:-च चक्षूंषि the air, the Sun and the eyes,
जलम् स्म रेता: water the generative fluid
पर-अवर-आत्मा-आश्रयणम् high and low beings, the support,
तव-आत्मा सोम: मन: Your ego, the moon the mind
द्यौ:-भगवन्-शिर:-ते the heaven, O Lord! Head Your
कुक्षि: समुद्र: गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते ।
छन्दांसि साक्षात् तव सप्त धातवस्त्रयीमयात्मन् हृदयं सर्वधर्म: ॥२८॥
कुक्षि: समुद्र: गिरय:- (Your) abdomen is the ocean, the mountains,
अस्थि-सङ्घा: रोमाणि of the bones the frame, the (body) hair
सर्व-औषधि-वीरुध:-ते all the herbs and creepers, Your
छन्दांसि साक्षात् तव सप्त धातव:- the meters directly, Your seven constituents
त्रयीमया-आत्मन् the three Vedas as body
हृदयम् सर्व-धर्म: the heart all the religions
मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्ग: ।
यत् तच्छिवाख्यं परमार्थतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ॥२९॥
मुखानि पञ्च-उपनिषद:- faces five the Upanishads
तव-ईश यै:-त्रिंशदष्टोत्तर Your O Lord! by which thirty eight
मन्त्र-वर्ग: यत् तत्-शिव-आख्यम् Mantra groups, which that Shiva named
पर-अर्थ-तत्त्वम् The Supreme Reality Principle
देव स्वयम्-ज्योति:- O Lord! Is self effulgence
अवस्थिति:-ते is the Being Your
छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि ।
सांख्यात्मन: शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषि: पुराण: ॥३०॥
छाया तु-अधर्म:- (Your) shadow indeed in unrighteousness
ऊर्मिषु यै:-विसर्ग: waves by which is destruction
नेत्र-त्रयम् सत्त्व-रज:-तमांसि the eyes three, Sattva, Rajas, Tamas,
सांख्य-आत्मन: शास्त्र-कृत:- Saankhya constituting, from Shaastra, brought,
तव-ईक्षा छन्दोमय: are Your glance metrical,
देव ऋषि: पुराण: O Lord! The All-wise Primary
न ते गिरित्राखिललोकपालविरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।
ज्योति: परं यत्र रजस्तमश्च सत्त्वं न यद् ब्रह्म निरस्तभेदम् ॥३१॥
न ते गिरित्र- not of You, O Protector of mountains!
अखिल-लोक-पाल- to all the spheres' guardians
विरिञ्च-वैकुण्ठ-सुरेन्द्र-गम्यम् Brahmaa, Vishnu, Indra inaccessible
ज्योति: परम् यत्र the effulgence Supreme, where
रज:-तम:-च सत्त्वम् न Rajas, Tamas and Sattva are not
यत् ब्रह्म-निरस्त-भेदम् that Brahman, devoid of all differences
कामाध्वरत्रिपुरकालगराद्यनेकभूतद्रुह: क्षपयत: स्तुतये न तत् ते ।
यस्त्वन्तकाल इदमात्मकृतं स्वनेत्रवह्निस्फुलिङ्गशिखया भसितं न वेद ॥३२॥
काम-अध्वर-त्रिपुर-काल- the god of love, (Daksha's) sacrifice, Tripuraasura,
गर-आदि-अनेक- the poison Halaahala, and other many
भूत-द्रुह: क्षपयत: of the beings' enemies destroyed
स्तुतये न तत् ते for praise not that of You
य:-तु-अन्त-काले that indeed, in the time of dissolution
इदम्-आत्म-कृतम् this (universe) by Yourself created
स्व-नेत्र-वह्नि-स्फुलिङ्ग- by Your (third) eye's fire, sparks,
शिखया भसितम् न वेद flames burnt down, do not know
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रिद्वन्द्वं चरन्तमुमया तपसाभितप्तम् ।
कत्थन्त उग्रपुरुषं निरतं श्मशाने ते नून मूतिमविदंस्तव हातलज्जा: ॥३३॥
ये तु-आत्मराम-गुरुभि:-हृदि those indeed, in self revelling, by teachers, in
ये तु-आत्मराम-गुरुभि:-हृदि those indeed, in self revelling, by teachers, in their hearts
चिन्तित-अङ्घ्रि-द्वन्द्वम् meditate feet pair
चरन्तम्-उमया तपसा-अभितप्तम् living fondly with Umaa, by austerities
चरन्तम्-उमया तपसा-अभितप्तम् living fondly with Umaa, by austerities disciplined
कत्थन्त: उग्र-पुरुषम् निरतम् declare, as fierce person living in
श्मशाने ते नूनम्-ऊतिम्- the cremation ground, they surely the nature
अविदन्-तव हातलज्जा: not knowing Your, devoid of shame
तत् तस्य ते सदसतो: परत: परस्य नाञ्ज: स्वरूपगमने प्रभवन्ति भूम्न: ।
ब्रह्मादय: किमुत संस्तवने वयं तु तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥३४॥
तत् तस्य ते सत्-असतो: परत: that, of that, Your, of cause and effect's beyond
परस्य न-अञ्ज: स्वरूप-गमने of (even) beyond do not know the true nature's
परस्य न-अञ्ज: स्वरूप-गमने of (even) beyond do not know the true nature's concept
प्रभवन्ति भूम्न: are capable, O Perfect One!
ब्रह्म-आदय: किम्-उत Brahmaa and other, what of
संस्तवने वयम् तु in (trying) to extol, we indeed
तत्-सर्ग-सर्ग-विषया His children's children being
अपि शक्ति-मात्रम् though to capacity utmost
एतत् परं प्रपश्यामो न परं ते महेश्वर ।
मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मण: ॥३५॥
एतत् परम् प्रपश्याम: न this (material form) beyond, we see not
परम् ते महेश्वर Supreme Your (form), O Supreme Lord!
मृडनाय हि लोकस्य delight indeed for the people
व्यक्ति:-ते-अव्यक्त-कर्मण: is revelation Your, of undeclared deeds
श्री शुक उवाच - Shree Shuka said -
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडित: ।
सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम् ॥३६॥
तत्-वीक्ष्य व्यसनम् तासाम् that perceiving, distress their
कृपया भृश-पीडित: with sympathy very much struck
सर्व-भूत-सुहृत् देव all beings' friend, The Lord
इदम्-आह सतीम् प्रियाम् this said to Sati the beloved
शिव उवाच - Shiva said -
अहो बत भवान्येतत् प्रजानां पश्य वैशसम् ।
क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥३७॥
अहो बत भवानि-एतत् Oh Alas! O Bhavaani! This
प्रजानाम् पश्य वैशसम् on the creatures, look at the distress
क्षीरोद-मथन-उद्भूतात् by the milk ocean's churning, produced
कालकूटात्-उपस्थितम् Kaalakoota (poison) having arrived
आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।
एतावान्हि प्रभोरर्थो यद् दीनपरिपालनम् ॥३८॥
आसाम् प्राण-परीप्सूनाम् of these, life desiring to save
विधेयम्-अभयम् हि मे should be extended security, indeed by Me
एतावान्-हि प्रभो:-अर्थ: this much only, of the great ones purpose
यत् दीन-परिपालनम् that of the unfortunate protection
प्राणै: स्वै: प्राणिन: पान्ति साधव: क्षणभङ्गुरै: ।
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥३९॥
प्राणै: स्वै: प्राणिन: पान्ति by life ones own, the beings save
साधव: क्षण-भङ्गुरै the noble by the transient
बद्ध-वैरेषु भूतेषु in the animosity holding beings
मोहितेषु-आत्म-मायया deluded by Your own Maayaa
पुंस: कृपयतो भद्रे सर्वात्मा प्रीयते हरि: ।
प्रीतौ हरौ भगवति प्रीयेऽहं सचराचर: ।
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥४०॥
पुंस: कृपयत: भद्रे on the people the compassionate, O Dear!
सर्व-आत्मा प्रीयते हरि: The Supreme Spirit, is pleased, Shree Hari
प्रीतौ हरौ भगवति on being pleased Shree Hari, The Lord,
प्रीये-अहम् सचराचर: pleased I am with the mobile and immobile
तस्मात्-इदम्-गरम् भुञ्जे therefore this, poison will drink
प्रजानाम् स्वस्ति:-अस्तु मे of the people well-being may be of Mine
श्री शुक उवाच - Shree Shuka said -
एवमामन्त्र्य भगवान्भवानीं विश्वभावन: ।
तद् विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥४१॥
एवम्-आमन्त्र्य भगवान्- thus consulting The Lord,
भवानीम् विश्वभावन: with Bhavaani, the world's Delighter
तत् विषम् जग्धुम्-आरेभे that poison to drink started
प्रभावज्ञा-अन्वमोदत strength efficacy knower (she) consented
तत: करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन्महादेव: कृपया भूतभावन: ॥४२॥
तत: करतली-कृत्य then on the palm placing
व्यापि हालाहलम् विषम् the flowing Halaahala poison
अभक्षयत्-महादेव: drank the Supreme Deity
कृपया भूत-भावन: with compassion, of the beings The Protector
तस्यापि दर्शयामास स्ववीर्यं जलकल्मष: ।
यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥४३॥
तस्य-अपि दर्शयामास its also showed
स्व-वीर्यम् जल-कल्मष: own effect, the water's impurity
यत्-चकार गले नीलम् which made in the throat blue
तत्-च साधो:-विभूषणम् that and of the benevolent ornament
तप्यन्ते लोभतापेन साधव: प्रायशो जना: ।
परमाराधनं तत् हि पुरुषस्याखिलात्मन: ॥४४॥
तप्यन्ते लोभ-तापेन undergo trouble, by the worlds' agony
साधव: प्रायश: जना: the benevolent generally, people
परम-आराधनम् तत् हि the highest worship, that alone
पुरुषस्य-अखिल-आत्मन: is of The Person of all the beings The Soul
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुष: ।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥४५॥
निशम्य कर्म तत्- hearing the action that
शम्भो:-देव-देवस्य मीढुष: of Shiva, the god of the gods, All wish Fulfiller
प्रजा दाक्षायणी ब्रह्मा the people, (Sati), Daksha's daughter, Brahmaa,
वैकुण्ठ:-च शशंसिरे Vishnu and praised
प्रस्कन्नं पिबत: पाणेर्यत् किञ्चिज्जगृहु: स्म तत् ।
वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥४६॥
प्रस्कन्नम् पिबत: पाणे:-यत् leaking as (He) drank, from the palms
किञ्चित्-जगृहु: स्म तत् that little, drank that
वृश्चिका-अहि-विष-औषध्य: scorpions, snakes, poisonous herbs
दन्दशूका:-च ये-अपरे biting creatures and those others
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे अमृतमथने सप्तमोऽध्याय: ॥७॥ Thus ends the seventh discourse, forming part of the story of the
अष्टम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवा: ।
ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥१॥
पीते गरे वृषाङ्केण being drunk the poison, by Lord Shiva
प्रीता:-ते-अमर-दानवा: delighted they, the gods and demons
ममन्थु:-तरसा सिन्धुम् churned enthusiastically, the ocean
हविर्धानी तत:-अभवत् the Kaamadhenu, from that came
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिन: ।
यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥२॥
ताम्-अग्निहोत्रीम्-ऋषय: her, of sacrificial material provider, the sages
जगृहु:-ब्रह्मवादिन: took, of the Vedas the exponents
यज्ञस्य देवयानस्य for the sacrifice, to gods' path (leading)
मेध्याय हविषे नृप for milk, ghee, sacrificial materials for oblation, O
मेध्याय हविषे नृप for milk, ghee, sacrificial materials for oblation, O King!
तत उच्चै:श्रवा नाम हयोऽभूच्चन्द्रपाण्डुर: ।
तस्मिन्बलि: स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥३॥
तत: उच्चै:श्रवा-नाम after that Uchchaishravaa named
हय:-अभूत्-चन्द्र-पाण्डुर: horse came, moon like white
तस्मिन्-बलि: स्पृहाम् चक्रे in that Bali, desire made
न-इन्द्र ईश्वर-शिक्षया not Indra, by Lord's instruction
तत ऐरावतोनाम वारणेन्द्रो विनिर्गत: ।
दन्तैश्चतुर्भि: श्वेताद्रेर्हरन्भगवतो महिम् ॥४॥
तत: ऐरावत:-नाम then Airaawata named
वारणेन्द्र: विनिर्गत: elephant king came out
दन्तै:-चतुर्भि: श्वेत- by teeth four, the white
आद्रे:-हरन्-भगवत: महिम् mountain's stealing, Lord Shiva's splendour
कौस्तुभाख्यमभूद् रत्नं पद्मरागो महोदधे: ।
तस्मिन्हरि: स्पृहां चक्रे वक्षोऽलङ्करणे मणौ ॥५॥
कौस्तुभ-आख्यम्-अभूद् रत्नं Kaustubha named, came gem
पद्मराग: महोदधे: Padmaraaga (ruby like), from the great ocean
तस्मिन्-हरि: स्पृहाम् चक्रे in that Lord Shree Hari, desire placed
वक्ष:-अलङ्करणे मणौ for bosom adornment with the gem
ततोऽभवत् पारिजात: सुरलोकविभूषणम् ।
पूरयत्यर्थिनो योऽर्थै: शश्वद् भुवि यथा भवान् ॥६॥
तत:-अभवत् पारिजात: then appeared Paareejaatas (the tree)
सुर-लोक-विभूषणम् of the gods' realm the ornament
पूरयति-अर्थिन: य:-अर्थै: fulfils of the desiring, who the desires,
शश्वद् भुवि यथा भवान् incessantly, on the earth just as you
ततश्चाप्सरसो जाता निष्ककण्ठ्य: सुवासस: ।
रमण्य: स्वर्गिणां वल्गुगतिलीलावलोकनै: ॥७॥
तत:-च-अप्सरस: जाता: then and the Apsaras came forth,
निष्क-कण्ठ्य: सुवासस: with golden necklaces in the neck, in beautiful
निष्क-कण्ठ्य: सुवासस: with golden necklaces in the neck, in beautiful garments
रमण्य: स्वर्गिणाम् entertaining the celestial people
वल्गु-गति लीला-अवलोकनै: by charming gait and playful glances
ततश्चाविरभूत् साक्षाच्छ्री रमा भगवत्परा ।
रञ्जयन्ती दिश: कान्त्या विद्युत् सौदामनी यथा ॥८॥
तत:-च-आविरभूत् साक्षात्- after that and appeared Herself
श्री रमा भगवत्-परा Effulgent Goddess Ramaa, to The Lord devoted
रञ्जयन्ती दिश: कान्त्या illumining the quarters by splendour
विद्युत् सौदामनी यथा lightening brightens just as
तस्यां चक्रु: स्पृहां सर्वे ससुरासुरमानवा: ।
रूपौदार्यवयोवर्णमहिमाक्षिप्तचेतस: ॥९॥
तस्याम् चक्रु: स्पृहाम् सर्वे in her placed longing all
ससुर-असुर-मानवा: along with the gods, the demons and human beings
रूप-औदार्य-वय:-वर्ण- by beauty, nobility, age, complexion
महिमा-आक्षिप्त-चेतस: glory awe-struck minded
तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् ।
मूर्तिमत्य: सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥१०॥
तस्या: आसनम्-आनिन्ये for Her seat brought
महेन्द्र: महत्-अद्भुतम् the great Indra, very wonderful
मूर्तिमत्य: सरित्-श्रेष्ठा: in person, the rivers principal
हेम-कुम्भै:-जलम् शुचि in golden pots, water pure
आभिषेचनिका भूमिराहरत् सकलौषधी: ।
गाव: पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥११॥
आभिषेचनिका भूमि:- for ablution, earth
आहरत् सकल-औषधी: brought all herbs
गाव: पञ्च पवित्राणि the cows, the five sacred products,
वसन्त: मधु-माधवौ spring (products of) next two months
ऋषय: कल्पयाञ्चक्रुरभिषेकं यथाविधि ।
जगुर्भद्राणि गन्धर्वा नट्यश्चननृतुर्जगु: ॥१२॥
ऋषय: कल्पयान्-चक्रु: the sages carried out
अभिषेकम् यथा-विधि the ablution as per rites
जगु:-भद्राणि गन्धर्वा: sang auspicious songs, the Gandharvas
नट्य:-च ननृतु:-जगु: the dancers and danced and sang
मेघा मृदङ्गपणवमुरजानकगोमुखान् ।
व्यनादयञ्छङ्खवेणुवीणास्तुमुलनि:स्वनान् ॥१३॥
मेघा मृदङ्ग-पणव-मुरज- the clouds, the tomtoms,tabors, drums,
आनक-गोमुखान् double drums, clarinets
व्यनादयन्-शङ्ख-वेणु-वीणा:- sounded, conch, flute, lute
तुमुल-नि:स्वनान् in resounding fanfare
ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।
दिगिभा: पूर्णकलशै: सूक्तवाक्यैर्द्विजेरितै: ॥१४॥
तत:-अभिषिषिचु:-देवीम् then, bathed, the Goddess
श्रियम् पद्म-कराम् सतीम् Beauty incarnate, lotus in hand, virtue embodied
दिगिभा: पूर्ण-कलशै: the elephants of the quarters with full pots
सूक्त-वाक्यै:-द्विज-ईरितै: by sacred chants, by the Braahmanas chanted
समुद्र: पीतकौशेयवाससी समुपाहरत् ।
वरुण: स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥१५॥
समुद्र: पीत-कौशेय- the ocean, yellow silk
वाससी समुपाहरत् garment presented
वरुण: स्रजम् वैजयन्तीम् Varuna garland of sylvan flowers
मधुना मत्त-षट्पदाम् by smell intoxicated bees
भूषणानि विचित्राणि विश्वकर्मा प्रजापति: ।
हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥१६॥
भूषणानि विचित्राणि ornaments various
विश्वकर्मा प्रजापति: Vishvakarmaa, the Prajaapati
हारम् सरस्वती पद्मम्- necklace Sarasvati, lotus
अज: नागा:-च कुण्डले Brahmaa, and the snakes ear-rings
तत: कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना ।
चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् ॥१७॥
तत: कृत-स्वस्ति-अयन- then, having read the auspicious chants
उत्पल-स्रजम् नदद्-द्विरेफम् a lotus garland, with buzzing bees
परिगृह्य पाणिना holding in the hand
चचाल वक्त्रम् सुकपोल-कुण्डलम् moved with face with sweet cheeks and ear-rings
सव्रीड-हासम् a bashful smile
दधती सुशोभनम् spreading glorious beauty
स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् ।
ततस्ततो नूपुरवल्गुशिञ्जितैर्विसर्पती हेमलतेव सा बभौ ॥१८॥
स्तन-द्वयम् च-अति- breasts a pair of, and very
कृश-उदरी समम् निरन्तरम् lean waist, symmetrical and close
चन्दन-कुङ्कुम्-उक्षितम् sandal paste and saffron's sprinkled
तत:-तत: नूपुर-वल्गु-शिञ्जितै:- here and there, anklets sweet sounding
विसर्पती हेम-लता-इव सा बभौ moving, golden creeper like She shone
विलोकयन्ती निरवद्यमात्मन: पदं ध्रुवं चाव्यभिचारिसद्गुणम् ।
गन्धर्वयक्षासुरसिद्धचारणत्रैविष्टपेयादिषु नान्वविन्दत ॥१९॥
विलोकयन्ती निरवद्यम्- looking for, flaw-less,
आत्मन: पदम् ध्रुवम् for Herself, place (husband) eternal
च-अव्यभिचारि-सद्गुणम् and without blemish, virtuous
गन्धर्व-यक्ष-असुर-सिद्ध- (among) the Gandharvas, Yakshas, demons, Siddhas,
चारण त्रैविष्टपेय-आदिषु Chaaranas, the gods and others
न-अन्वविन्दत did not find
नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच्च न सङ्गवर्जितम् ।
कश्चिन्महांस्तस्य न कामनिर्जय: स ईश्वर: किं परतोव्यपाश्रय: ॥२०॥
नूनम् तप: यस्य न मन्यु- surely austerities are not whose, not on anger
निर्जय: ज्ञानम् क्वचित् control, wisdom is somewhere
तत्-च न सङ्ग-वर्जितम् that and not is attachment without
कश्चित्-महान्-तस्य न some one is great, his is not
काम-निर्जय: स: ईश्वर: किम् passion conquered, he is a lord, is it
परत:-व्यपाश्रय: on others dependent
धर्म क्वचित् तत्र न भूतसौहृदं त्याग: क्वचित् तत्र न मुक्तिकारणम् ।
वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जित: ॥२१॥
धर्म: क्वचित् तत्र न righteousness somewhere, there is not
भूत-सौहृदम् त्याग: क्वचित् in beings love, dispassion in some
तत्र न मुक्ति-कारणम् there is not reason for liberation
वीर्यम् न पुंस:-अस्ति- prowess not in men is
अज-वेग-निष्कृतम् न हि Time ravages immunity, not indeed
द्वितीय: गुण-सङ्ग-वर्जित: the others, (though) Gunas association devoid of
क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्यस्ति न वेद्यमायुष: ।
यत्रोभयं कुत्र च सोऽप्यमङ्गल: सुमङ्गल: कश्चन न काङ्क्षते हि माम् ॥२२॥
क्वचित्-चिरायु:-न हि someone is long-lived, not indeed
शील-मङ्गलम् क्वचित् is amiable and auspicious, somewhere
तत्-अपि-अस्ति that also is there
न वेद्यम्-आयुष: not is know the life span
यत्र-उभयम् कुत्र च where there are both somewhere and
स:-अपि-अमङ्गल: he also is inauspicious
सुमङ्गल: कश्चन auspicious is someone
न काङ्क्षते हि माम् does not covet indeed me
एवं विमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतयागुणाश्रयम् ।
वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् ॥२३॥
एवम् विमृश्य-अव्यभिचारि- thus concluding, of good conduct,
सद्गुणै:-वरम् निज-एक- with high virtues exalted, for Herself the One
आश्रयतया गुण-आश्रयम् support, of the Gunas the support
वव्रे-वरम् सर्व-गुणै:-अपेक्षितम् chose the husband, by all the excellences wooed
रमा मुकुन्दम् (Goddess) Rama, Mukunda (chose)
निरपेक्षम्-ईप्सितम् the disinterested, coveted (by Her)
तस्यांसदेश उशतीं नवकञ्जमालां माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् ।
तस्थौ निधाय निकटे तदुर: स्वधाम सव्रीडहासविकसन्नयनेन याता ॥२४॥
तस्य-अंस-देशे उशतीम् on His shoulders' sides, the beautiful
नव-कञ्ज-मालाम् fresh lotus garland
माद्यन्-मधुव्रत-वरूथ- by intoxicated bees swarms
गिरा-उपघुष्टाम् buzzing resonate
तस्थौ निधाय निकटे stood, placing near
तत्-उर: स्व-धाम His bosom , own abode
सव्रीड-हास- with bashful smile
विकसत्-नयनेन याता blooming glance attained
तस्या: श्रियस्त्रिजगतो जनको जनन्या वक्षोनिवासमकरोत् परमं विभूते: ।
श्री: स्वा: प्रजा: सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥२५॥
तस्या: श्रिय:-त्रि-जगत: जनक: of Her, Goddess Shree, of the three worlds The
तस्या: श्रिय:-त्रि-जगत: जनक: of Her, Goddess Shree, of the three worlds The Father
जनन्या वक्ष:-निवासम्-अकरोत् for the mother, the bosom, abode made
परमम् विभूते: of the epitome of resources
श्री: स्वा: प्रजा: सकरुणेन Goddess Laxmi Her own people, by compassionate
निरीक्षणेन यत्र स्थित:-ऐधयत glances, where placed enhanced
स-अधिपतीन्-त्रि-लोकान् along with the rulers of the three worlds
शङ्खतूर्यमृदङ्गानां वादित्राणां पृथु: स्वन: ।
देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥२६॥
शङ्ख-तूर्य-मृदङ्गानाम् of conch, trumpets, and drums
वादित्राणाम् पृथु: स्वन: musical instruments, great sound (issued)
देव-अनुगानाम् सस्त्रीणाम् the gods following, with their wives
नृत्यताम् गायताम्-अभूत् dancing and singing was done
ब्रह्मरुद्राङ्गिरोमुख्या: सर्वे विश्वसृजो विभुम् ।
ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गै: पुष्पवर्षिण: ॥२७॥
ब्रह्म-रुद्र-अङ्गिर:-मुख्या: Brahmaa, Rudra, Angiraa, the prominent
सर्वे विश्वसृज: विभुम् all, the creators, The Lord
ईडिरे-अवितथै:-मन्त्रै:- felicitated by truth revealing sacred texts
तत्-लिङ्गै: पुष्प-वर्षिण: and by His deeds, flowers showering
श्रिया विलोकिता देवा: सप्रजापतय: प्रजा: ।
शीलादिगुणसम्पन्ना लेभिरे निर्वृत्तिं पराम् ॥२८॥
श्रिया विलोकिता देवा: by The Goddess looked at, the gods,
सप्रजापतय: प्रजा: along with the creators of the worlds, created beings
शील-आदि गुण-सम्पन्ना amiability and other virtues became rich in
लेभिरे निर्वृत्तिम् पराम् and attained peace supreme
नि:सत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपा: ।
यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवा: ॥२९॥
नि:सत्त्वा: लोलुपा: राजन् powerless, greedy, O King!
निरुद्योगा: गतत्रपा: effortless, devoid of shame
यदा च-उपेक्षिता: लक्ष्म्या when and ignored by Laxmi
बभूवु:-दैत्य-दानवा: became the Daityas and Daanavas
अथासीद् वारुणी देवी कन्या कमललोचना ।
असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥३०॥
अथ-आसीद् वारुणी देवी then there was Vaarunee goddess
कन्या कमल-लोचना maiden lotus eyed
असुरा: जगृहु:-ताम् the Asuras took her
वै हरे:-अनुमतेन ते of course by Shree Hari's approval they
अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभि: ।
उदतिष्ठन्महाराज पुरुष: परमाद्भुत: ॥३१॥
अथ-उदधे:-मथ्यमानात् then from the ocean being churned
काश्यपै:-अमृत-अर्थिभि: by the Kashyapa's (gods and demons), nectar desirous
उदतिष्ठन्-महाराज came out, O Emperor!
पुरुष: परम-अद्भुत: a person most wonderful
दीर्घपीवरदोर्दण्ड: कम्बुग्रीवोऽरुणेक्षण: ।
श्यामलस्तरुण: स्रग्वी सर्वाभरणभूषित: ॥३२॥
दीर्घ-पीवर-दो:-दण्ड: long thick two arms
कम्बु-ग्रीव:-अरुण-ईक्षण: conch shaped neck red eyed
श्यामल:-तरुण: स्रग्वी dark brown, young, with a garland
सर्व-आभरण-भूषित: all ornaments decked with
पीतवासा महोरस्क: सुमृष्टमणिकुण्डल: ।
स्निग्धकुञ्चितकेशान्त: सुभग: सिंहविक्रम: ॥३३॥
पीतवासा महोरस्क: in yellow garment, broad chest
सुमृष्ट-मणि-कुण्डल: graced with inlaid gems ear-rings
स्निग्ध-कुञ्चित-केशान्त: dark soft hair tips,
सुभग: सिंह-विक्रम: charming, with a lion's gait
अमृतापूर्णकलशं बिभ्रद् वलयभूषित: ।
स वै भगवत: साक्षाद्विष्णोरंशांशसम्भव: ॥३४॥
अमृत-आपूर्ण-कलशम् nectar filled pot
बिभ्रद् वलय-भूषित: holding, wristlets adorned with
स: वै भगवत: साक्षात्- he surely of The Lord, Himself
विष्णो:-अंश-अंश-सम्भव: Vishnu's part's part created
धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् ।
तमालोक्यासुरा: सर्वे कलशं चामृताभृतम् ॥३५॥
धन्वन्तरि:-इति ख्यात: Dhanvantaree, thus well known
आयुर्वेद-दृक्-इज्य-भाक् Aaayurveda propounders, sacrifice (offerings) sharing
तम्-आलोक्य-असुरा: सर्वे him seeing, the Asuras all
कलशम् च-अमृत-आभृतम् the pot and nectar filled
लिप्सन्त: सर्ववस्तूनि कलशं तरसाहरन् ।
नीयमानेऽसुरैस्तस्मिन्कलशेऽमृतभाजने ॥३६॥
लिप्सन्त: सर्व-वस्तूनि longing for all articles
कलशम् तरसा-आहरन् the pot quickly snatching
नीयमाने-असुरै: तस्मिन्- and carried by the Asuras, that
कलशे-अमृत-भाजने pot, nectar holding
विषण्णमनसो देवा हरिं शरणमाययु: ।
इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत् ।
मा खिद्यत मिथोऽर्थं व: साधयिष्ये स्वमायया ॥३७॥
विषण्ण-मनस: देवा: with depressed minds, the gods
हरिम् शरणम्-आययु: Shree Hari's shelter took to
इति तत्-दैन्यम्-आलोक्य in this manner their helplessness seeing,
भगवान्-भृत्य-काम-कृत् The Lord, of the devotees purpose fulfilling
मा खिद्यत मिथ:-अर्थम् व: 'Do not be depressed, mutual purpose of you both
मा खिद्यत मिथ:-अर्थम् व:
साधयिष्ये स्व-मायया will fulfil, by My own Maayaa'
मिथ: कलिरभूत्तेषां तदर्थे तर्षचेतसाम् ।
अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥३८॥
मिथ: कलि:-अभूत्-तेषाम् amongst them quarrel arose, in them
तत्-अर्थे तर्ष-चेतसाम् for its acquiring, of nectar obsessed minds
अहम् पूर्वम्-अहम् पूर्वम् Me first, me first,
न त्वम् न त्वम्-इति प्रभो not you not you' thus, O lord!
देवा: स्वं भागमर्हन्ति ये तुल्यायासहेतव: ।
सत्रयाग इवैतस्मिन्नेष धर्म: सनातन: ॥३९॥
देवा: स्वम् भागम्-अर्हन्ति the gods their own share deserve
ये तुल्य आयास-हेतव: who equally effort contributing to the cause
सत्रयाग इव-एतस्मिन्- community sacrifice like (conducted) in this,
एष: धर्म: सनातन: this is eternal law
इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सरा: ।
दुर्बला: प्रबलान् राजन् गृहीतकलशान् मुहु: ॥४०॥
इति स्वान् प्रत्यषेधत्-वै so, their own protested indeed
दैतेया जात-मत्सरा: the Daityas with aroused jealousy
दुर्बला: प्रबलान् राजन् the weaker ones the stronger ones, O King!
गृहीत-कलशान् मुहु: holding the pot again and again
एतस्मिन्नन्तरे विष्णु: सर्वोपायविदीश्वर: ।
योषिद्रूपमनिर्देश्यं दधार परमद्भुतम् ॥४१॥
एतस्मिन्-अन्तरे विष्णु: meanwhile, Lord Vishnu
सर्व-उपाय-वित्-ईश्वर: all tricks Knower, The Mighty
योषित्-रूपम्-अनिर्देश्यम् in damsel form, indescribable
दधार परम्-अद्भुतम् assumed, most amazing
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
समानकर्णाभरणं सुकपोलोन्नसाननम् ॥४२॥
प्रेक्षणीय-उत्पल-श्यामम् worth looking at, like blue lotus dark
सर्व-अवयव-सुन्दरम् all limbs beautiful
समान-कर्ण-आभरणम् equally the ears and the ornaments
सुकपोल-उन्नस-आननम् beautiful cheeks, prominent nose, face
नवयौवननिर्वृत्तस्तनभारकृशोदरम् ।
मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचनम् ॥४३॥
नव-यौवन-निर्वृत्त-स्तन- budding youth, full breasts
भार-कृश-उदरम् by the weight slender waist
मुख-आमोद-अनुरक्त-अलि- mouth's fragrance attracted bees
झङ्कार-उद्विग्न-लोचनम् humming, distressed eyes
बिभ्रत् स्वकेशभारेण मालामुत्फुल्लमल्लिकाम् ।
सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥४४॥
बिभ्रत् स्व-केश-भारेण flaunting on own hair curls
मालाम्-उत्फुल्ल-मल्लिकाम् garland of blooming jasmine (flowers)
सुग्रीव-कण्ठ-आभरणम् shapely neck with necklace
सुभुजा-अङ्गद-भूषितम् shapely arms with armlets adorned
विरजाम्बरसंवीतनितम्बद्वीपशोभया ।
काञ्च्या प्रविलसद्वल्गुचलच्चरणनूपुरम् ॥४५॥
विरज-अम्बर-संवीत-नितम्ब- spotless cloth covering hips
द्वीप-शोभया broad, graced by
काञ्च्या प्रविलसत्-वल्गु- girdle adding charm winsome
चलत्-चरण-नूपुरम् gait, feet anklets
सव्रीडस्मितविक्षिप्तभ्रूविलासावलोकनै: ।
दैत्ययूथपचेत:सु काममुद्दीपयन् मुहु: ॥४६॥
सव्रीड-स्मित-विक्षिप्त-भ्रू- with her coy smile, dancing eyebrows
विलास-अवलोकनै: amorous glances
दैत्य-यूथप-चेत:सु in the Daitya generals' minds
कामम्-उद्दीपयन् मुहु: passion kindled again and again
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे भगवन्मायोपलम्भनं नाम अष्टम:
अध्याय: ॥८॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे भगवन्मायोपलम्भनं नाम अष्टम:
अध्याय: ॥८॥ Thus ends the eighth discourse entitled 'The manifestation (in personal
नवम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
तेऽन्योन्यतोऽसुरा: पात्रं हरन्तस्त्यक्तसौहृदा: ।
क्षिपन्तो दस्युधर्माण आयान्तीं ददृशु: स्त्रियम् ॥१॥
ते-अन्य:-अन्यत:-सुरा: पात्रम् they, one from the other, the nectar pot
हरन्त:-त्यक्त-सौहृदा: snatching, abandoning fellowship
क्षिपन्त: दस्यु-धर्माण: extending plunderer' ways
आयान्तीम् ददृशु: स्त्रियम् the approaching saw damsel
अहो रूपमहो धाम अहो अस्या नवं वय: ।
इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छया: ॥२॥
अहो रूपम्-अहो धाम wonderful beauty, amazing splendour
अहो अस्या: नवम् वय: charming her budding youth
इति ते ताम्-अभिद्रुत्य thus they her quickly going to
पप्रच्छु:-जात-हृच्छया: asked with enkindled desire
का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।
कस्यासि वद वामोरु मथ्नन्तीव मनांसि न: ॥३॥
का त्वम् कञ्जपलाश-अक्षि who are you, O lotus petal eyed One!
कुत: वा किम् चिकीर्षसि from where or, what do you want
कस्य-असि वद वामोरु whose are you (the daughter) do say, O Beautiful one!
मथ्नन्ती-इव मनांसि न: churning as if hearts ours
न वयं त्वामरैर्दैत्यै: सिद्धगन्धर्वचारणै: ।
नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभि: ॥४॥
न वयम् त्वा-अमरै:-दैत्यै: not we, you by the gods, Daityas
सिद्ध-गन्धर्व-चारणै: Siddhas, Gandharvas and Chaaranaas,
न-अस्पृष्ट-पूर्वाम् जानीम: not touched before, know
लोकेशै:-च-कुत: नृभि: by the gods of the spheres and where then by mortals
नूनं त्वं विधिना सुभ्रू: प्रेषितासि शरीरिणाम् ।
सर्वेन्द्रियमन: प्रीतिं विधातुं सघृणेन किम् ॥५॥
नूनम् त्वम् विधिना सुभ्रू: definitely, you, by Creator, O with beautiful
नूनम् त्वम् विधिना सुभ्रू: definitely, you, by Creator, O with beautiful eyebrows
प्रेषिता-असि शरीरिणाम् sent are, for the mortals
सर्व-इन्द्रिय-मन: प्रीतिम् all senses and mind delight
विधातुम् सघृणेन किम् to give, by The Merciful, is it
सा त्वं न: स्पर्धमानानामेकवस्तुनि मानिनि ।
ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥६॥
सा त्वम् न: स्पर्धमानानाम् that you, us contesting
एक-वस्तुनि मानिनि for one object, O proud lady!
ज्ञातीनाम् बद्ध-वैराणाम् (though) kins have become enemies
शम् विधत्स्व सुमध्यमे peace bring about, O slender waisted one!
वयं कश्यपदायादा भ्रातर: कृतपौरुषा: ।
विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥७॥
वयम् कश्यप-दायादा: we are Kashyapa's sons
भ्रातर: कृत-पौरुषा: brothers, have put in effort
विभजस्व यथा-न्यायम् divide according to equality
न-एव भेद: यथा भवेत् not even difference, so that is there
इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरि: ।
प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥८॥
इति-उपामन्त्रित: दैत्यै:- thus sought for advice, by the Daityas
माया-योषित्-वपु:-हरि: by Maayaa having a damsel's body, Shree Hari
प्रहस्य रुचिरा-आपाङ्गै:- laughingly by beautiful side glances
निरीक्षन्-इदम्-अब्रवीत् looking around this said
श्री भगवान उवाच - The Lord said -
कथं कश्यपदायादा: पुंश्चल्यां मयि सङ्गता: ।
विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥९॥
कथम् कश्यप-दायादा: how Kashyapa's sons
पुंश्चल्याम् मयि सङ्गता: on a wayward me, have trusted
विश्वासम् पण्डित: जातु faith, the wise, never on
कामिनीषु न याति हि lustful women do not put indeed
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विष: ।
सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥१०॥
सालावृकाणाम् स्त्रीणाम् च of wolves and women
स्वैरिणीनाम् सुरद्विष: independent, O Daityas!
सख्यानि-आहु:-अनित्यानि friendship is said to be inconstant
नूत्नम् नूत्नम् विचिन्वताम् new, ever new, explore
श्री शुक उवाच - Shree Shuka said -
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुरा: ।
जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥११॥
इति ते क्ष्वेलितै:-तस्या thus they, mocked by her
आश्वस्त-मनस:-असुरा: reassured in mind, the Asuras
जहसु:-भाव-गम्भीरम् laughed meaningfully and deep
ददु:-च-अमृत-भाजनम् gave and the nectar pot
ततो गृहीत्वामृतभाजनं हरिर्बभाष ईषत्स्मितशोभया गिरा ।
यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥१२॥
तत: गृहीत्वा-अमृत-भाजनम् then taking hold of the nectar pot
हरि:-बभाष ईषत्-स्मित- Hari said, a little smilingly
शोभया गिरा in a sweet voice
यदि-अभ्युपेतम् क्व च if it is agreeable, whether
साधु-असाधु वा कृतम् मया right wrong or done by me
व: विभजे सुधाम्-इमाम् in you will divide nectar this
इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवा: ।
अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत ॥१३॥
इति-अभिव्याहृतम् तस्या: this declaration of her's
आकर्ण्य-असुर-पुङ्गवा: hearing, the Asura lords
अप्रमाणविद:-तस्या:-तत् not knowing reality, her, that
तथा-इति-अन्वमंसत 'so be it' thus agreed.
तथा-इति-अन्वमंसत
अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् ।
दत्त्वा गोविप्रभूतेभ्य: कृतस्वस्त्ययना द्विजै: ॥१४॥
अथ-उपोष्य कृत-स्नाना: then having fasted, having bathed,
हुत्वा च हविषा-अनलम् sacrificed and oblations in fire
दत्त्वा गो-विप्र-भूतेभ्य: having given to cows, Braahmanas and living beings
कृत-स्वस्ति-अयना: द्विजै: got the auspicious chants done by the Braahmanas
यथोपजोषं वासांसि परिधायाहतानि ते ।
कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिता: ॥१५॥
यथा-उपजोषम् वासांसि according to preference, clothes
परिधाय-अहतानि ते wore, unstitched they
कुशेषु प्राविशत्-सर्वे on Kush grass(mats) sat all
प्राक्-अग्रे अभिभूषिता: towards east facing, with ornaments attired
प्राङ्गमुखेषूपविषटेषु सुरेषु दितिजेषु च ।
धूपामोदितशालायां जुष्टायां माल्यदीपकै: ॥१६॥
प्राङ्ग-मुखेषु-उपविषटेषु (when) east facing were sitting
सुरेषु दितिजेषु च the gods, the sons of Diti (Daityas) and
धूप-आमोदित-शालायाम् by innocence scented hall
जुष्टायाम् माल्य दीपकै: assembled, by garlands and lamps
तस्यां नरेन्द्र करभोरुरुशद्दुकूलश्रोणीतटालसगतिर्मदविह्वलाक्षी ।
सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलशपाणिरथाविवेश ॥१७॥
तस्याम् नरेन्द्र करभोरु:- on her, O King! like on an elephant
उशत्-दुकूल-श्रोणी-तट- young's thighs, a beautiful piece of cloth waist
अलस-गति:-मद-विह्वल-आक्षी slow gait, intoxication impelled eyes
सा कूजती कनक-नूपुर- she resounding golden anklets
शिञ्जितेन कुम्भ-स्तनी tinkle, pitcher breasted
कलश-पाणि:-अथ-आविवेश pot in hand, then entered
तां श्रीसखीं कनककुण्डलचारुकर्णनासाकपोलवदनां परदेवताख्याम् ।
संवीक्ष्य संमुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् ॥१८॥
ताम् श्री-सखीम् कनक-कुण्डल- her, (Goddess) Shree's friend, golden ear-rings,
चारु-कर्ण-नासा-कपोल-वदनाम् charming ears, nose, cheeks faced,
पर-देवता-आख्याम् Supreme Deity known as
संवीक्ष्य संमुमुहु:-उत् watching intently, enchanted indeed
स्मित-वीक्षणेन देव-असुरा:- by smiling side glances, the gods and Asuras
विगलित-स्तन-पट्टिका-अन्ताम् slipped from the breast, the cloth's part
असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।
मत्वा जातिनृशंसानां न तां व्यभजदच्युत: ॥१९॥
असुराणाम् सुधा-दानम् to the Asuras, nectar giving
सर्पाणाम्-इव दुर्नयम् to the serpants like, unwise
मत्वा जाति-नृशंसानाम् deciding, the race to be cruel
न ताम् व्यभजत्-अच्युत: not that divided Lord Achyuta
कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पति: ।
तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥२०॥
कल्पयित्वा पृथक् पङ्क्ती:- demarcating separate rows
उभयेषाम् जगत्पति: for both of them, The Lord of the universe
तान्-च-उपवेशयामास them and made to sit
स्वेषु स्वेषु च पङ्क्तिषु in their own and rows
दैत्यान्गृहीतकलशो वञ्चयन्नुपसञ्चरै: ।
दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥२१॥
दैत्यान्-गृहीत-कलश: the Daityas holding the pot
वञ्चयन्-उपसञ्चरै: deceiving by coy behaviour
दूरस्थान् पाययामास at a distance (seated) gave to drink
जरा-मृत्यु-हराम् सुधाम् old age and death preventing nectar
ते पालयन्त: समयमसुरा: स्वकृतं नृप ।
तूष्णीमासन्कृतस्नेहा: स्त्रीविवादजुगुप्सया ॥२२॥
ते पालयन्त: समयम्- they adhering to the promise,
असुरा: स्वकृतम् नृप the Asuras, agreed to, O King!
तूष्णीम्-आसन्-कृत-स्नेहा: silent were, having bestowed love
स्त्री-विवाद-जुगुप्सया with a woman controversy wanting to avoid
तस्यां कृतातिप्रणया: प्रणयापायकातरा: ।
बहुमानेन चाबद्धा नोचु: किञ्चन विप्रियम् ॥२३॥
तस्याम् कृत-अति-प्रणया: in her, placing all love
प्रणय-अपाय-कातरा: that love losing afraid of
बहु-मानेन च-आबद्धा: by most regard and tied down by,
न-ऊचु: किञ्चन विप्रियम् did not say anything unwelcome
देवलिङ्गप्रतिच्छन्न: स्वर्भानुर्देवसंसदि ।
प्रविष्ट: सोममपिबच्चन्द्रार्काभ्यां च सूचित: ॥२४॥
देव-लिङ्ग-प्रतिच्छन्न: in gods' garb disguised
स्वर्भानु:-देव-संसदि प्रविष्ट: Raahu in the gods' row entered
सोमम्-अपिबत्- nectar drank
चन्द्र-अर्काभ्याम् च सूचित: by the Moon and Sun was pointed out
चक्रेण क्षुरधारेण जहार पिबत: शिर: ।
हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥२५॥
चक्रेण क्षुर-धारेण जहार by the discus razor edged, cut off
पिबत: शिर: while drinking the head
हरि:-तस्य कबन्ध:-तु Lord Shree Hari his the trunk indeed
सुधया-अप्लावित:-अपतत् by the nectar not touched, fell down
शिरस्त्वमरतां नीतमजो ग्रहमचीक्लृपत् ।
यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधी: ॥२६॥
शिर:-तु-अमरताम् नीतम्- the head indeed, to immortality raised
अज: ग्रहम्-अचीक्लृपत् Brahmaa, a planet (deity) made
य:-तु पर्वणि चन्द्र-अर्कौ- who indeed in fortnights, the Moon and the Sun
अभिधावति वैरधी: chases harbouring enmity
पीतप्रायेऽमृते देवैर्भगवाँल्लोकभावन: ।
पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरि: ॥२७॥
पीत-प्राये-अमृते देवै:- having drunk almost the nectar by the gods,
भगवान्-लोकभावन: The Lord, the universe Protector
पश्यताम्-असुरेन्द्राणाम् as they looked on the Asura chiefs
स्वम् रूपम् जगृहे हरि: own form assumed Lord Shree Hari
एवं सुरासुरगणा: समदेशकालहेत्वर्थकर्ममतयोऽपि फले विकल्पा: ।
तत्रामृतं सुरगणा: फलमञ्जसाऽऽपुर्यत्पादपङ्कजरज: श्रयणान्न दैत्या: ॥२८॥
एवम् सुर-असुर-गणा: in this manner, the gods' and the demons' groups
सम-देश-काल-हेतु- in same place time, purpose,
अर्थ-कर्म-मतय:-अपि means, effort and mind even
फले विकल्पा: in result were different
तत्र-अमृतम् सुर-गणा: there, the nectar, the gods' hosts
फलम्-अञ्जसा-आपु:- the result easily got
यत्-पाद-पङ्कज-रज: because His feet lotus dust
श्रयणात्-न दैत्या: resorted to, not the Daityas
यत् युज्यतेऽसुवसुकर्ममनोवचोभिर्देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् ।
तैरेव सद्भवति यत् क्रियतेऽपृथक्त्वात् सर्वस्य तद् भवति मूलनिषेचनं यत् ॥२९॥
यत् युज्यते- that activity (done)
असु-वसु-कर्म-मन:-वचोभि:- by life, wealth, organs of action, speech
देह्-आत्मज-आदिषु नृभि:- for own body, progeny or others, by men
तत्-असत् पृथक्त्वात् that is fruitless, because of different from (divine)
तै:-एव सत्-भवति those only fruitful are
यत् क्रियते-अपृथक्त्वात् which are done by indiscrimination (with divine)
सर्वस्य तद् भवति all that becomes (like)
मूल-निषेचनम् यत् the root watering because
श्रीमद्भागते महापुराणे पार्महंस्यां संहितायां अष्टमे स्कन्धे अमृतमथने नवम: अध्याय: ॥९॥ Thus ends the ninth discourse, comprised in the story of the churning of
श्रीमद्भागवत महापुराणम्
दशम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
इति दानवदैतेया नविन्दन्नमृतं नृप ।
युक्ता: कर्माणि यत्ताश्च वासुदेवपराङ्मुखा: ॥१॥
इति दानव-दैतेया thus, the Daanavas and the Daityas
न-अविन्दत्-अमृतम् नृप did not get the nectar, O King!
युक्ता: कर्माणि यत्ता:-च engaged in the action, with unity and
वासुदेव-पराङ्मुखा: Vasudeva towards indifferent
साधयित्वामृतं राजन्पाययित्वा स्वकान्सुरान् ।
पश्यतां सर्वभूतानां ययौ गरुडवाहन: ॥२॥
साधयित्वा-अमृतम् राजन्- getting procured the nectar, O King!
पाययित्वा स्वकान्-सुरान् made it to be drunk to His own (people) the gods
पश्यताम् सर्व-भूतानाम् while looked on all the living beings
ययौ गरुड-वाहन: went away on Gaduda mounted
सपत्नानां परमृद्धिं दृष्ट्वा ते दितिनन्दन: ।
अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधा: ॥३॥
सपत्नानाम् परम्-ऋद्धिम् of the enemies, the utmost good fortune
दृष्ट्वा ते दिति-नन्दन: observing, they, Diti's sons
अमृष्यमाणा: उत्पेतु:-देवान्- being jealous, attacked the gods
प्रत्युद्यत-आयुधा: upholding weapons
तत: सुरगणा: सर्वे सुधया पीतयैधिता: ।
प्रति संयुयुधु: शस्त्रैर्नारायणपदाश्रया: ॥४॥
तत: सुर-गणा: सर्वे after that, the gods' hosts all
सुधया पीतया-ऐधिता: by the nectar drinking rejuvenated
प्रति संयुयुधु: शस्त्रै:- answered in combat with weapons
नारायण-पद-आश्रया: in Naaraayana's feet resorting to
तत्र दैवासुरो नाम रण: परमदारुण: ।
रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षण: ॥५॥
तत्र दैव-असुर: नाम there, Deva-Asura, named
रण: परम-दारुण: battle very fierce
रोधसि-उदन्वत: राजन्- on shore of the sea, O King!
तुमुल: रोम-हर्षण: Dreadful, thrilling (ensued)
तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे ।
समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधै: ॥६॥
तत्र-अन्य:-अन्यम् सपत्ना:- there, each other, enemies
ते संरब्ध-मनस: रणे they, anger in minds, in the battle,
समासाद्य-असिभि:-बाणै:- face to face, with swords, arrows,
जघ्नु:-विविध-आयुधै: attacked with various weapons
शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् ।
हस्त्यश्वरथपत्तीनां नदतां निस्वनोऽभवत् ॥७॥
शङ्ख-तूर्य-मृदङ्गानाम् of conchs, trumpets, drums
भेरी-डमरिणाम् महान् clarinets, Dammars, great
हस्ति-अश्व-रथ-पत्तीनाम् of the elephants, horses, chariots, foot soldiers
नदताम् निस्वन:-अभवत् shootings', roaring's became
रथिनो रथिभिस्तत्र पत्तिभि: सह पत्तय: ।
हया हयैरिभाश्चेभै: समसज्जन्त संयुगे ॥८॥
रथिन: रथिभि:-तत्र the charioteers with the chariots, there
पत्तिभि: सह पत्तय: with the foot soldiers the foot soldiers
हया: हयै:-इभा:-च-इभै: horses with the horses, elephants with the elephants
समसज्जन्त संयुगे got engaged in the battle
उष्ट्रै: केचिदिभै: केचिदपरे युयुधु: खरै: ।
केचिद् गौरमृगै: ऋक्षैर्द्वीपिभिर्हरिभिर्भटा: ॥९॥
उष्ट्रै: केचित्-इभै: केचित्- on camels some, on elephants some
अपरे युयुधु: खरै: others fought from donkeys
केचिद् गौर-मृगै:-ऋक्षै:- some on Gauramrigas, bears,
द्वीपिभि:-हरिभि:-भटा: tigers, lions, the warriors
गृध्रै: कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलै: ।
शरभैर्महिषै: खड्गैर्गोवृषै: गवयारुणै: ॥१०॥
गृध्रै: कङ्कै:-बकै:-अन्ये on vultures, buzzards, herons, others
श्येन-भासै:-तिमिङ्गिलै: hawks, Bhaasa, whales,
शरभै:-महिषै: खड्गै:- Sharabhas, bison, rhinoceroses,
गोवृषै: गवय-अरुणै: bulls, Gayals and Arunas
शिवाभिराखुभि: केचिद्कृकलासै: शशैर्नरै: ।
बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरै: ॥११॥
शिवाभि:-आखुभि: केचिद्- on jackals, rats, some
कृकलासै: शशै:-नरै: on chameleons, hares, men,
बस्तै:-एके कृष्ण-सारै:- on goats, some on black antelopes,
हंसै:-अन्ये च सूकरै: on swans, others and on boars
अन्ये जलस्थलखगै: सत्त्वैर्विकृतविग्रहै: ।
सेनयोरुभयो राजन्विविशुस्तेऽग्रतोऽग्रत: ॥१२॥
अन्ये जल-स्थल-खगै: others, on water and land birds
सत्त्वै:-विकृत-विग्रहै: on animals with deformed bodies
सेनयो:-उभयो: राजन्- the armies both, O King!
विविशु:-ते-अग्रत:-अग्रत: penetrated they, further and further
चित्रध्वजपटै राजन्नातपत्रै: सितामलै:।
महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरै: ॥१३॥
चित्र-ध्वज-पटै:-राजन्- multi coloured flags, O King!
आत-पत्रै: सित-अमलै: Umbrellas white and clean
महा-धनै:-वज्र-दण्डै:- embedded with gems, strong staffs
व्यजनै:-बार्ह-चामरै: fans of peacock feathers
वातोद्धूतोत्तरोष्णीषैरर्चिभिर्वर्मभूषणै: ।
स्फुरद्भिर्विशदै: शस्त्रै: सुतरां सूर्यरश्मिभि: ॥१४॥
वात-उद्धूत-उत्तर-उष्णीषै:- in the winds waving upper cloths, turbans
अर्चिभि:-वर्म-भूषणै: the jewels, armours, ornaments
स्फुरद्भि:-विशदै: शस्त्रै: shining various weapons
सुतराम् सूर्य-रश्मिभि: very much like Sun's rays
देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।
रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥१५॥
देव-दानव-वीराणाम् the Devas and Daanava's warrior
ध्वजिन्यौ पाण्डुनन्दन armies, O Son of Paandu!
रेजतु:-वीर-मालाभि:- shone with warriors' rows
यादसाम्-इव सागरौ sea monsters like in the oceans
वैरोचनो बलि: संख्ये सोऽसुराणां चमूपति: ।
यानं वैहायसं नाम कामगं मयनिर्मितं ॥१६॥
वैरोचन: बलि: संख्ये स:- Virochana's son Bali, in the battle, he (was seated)
असुराणाम् चमू-पति: of the Asura force, the commander-in-chief
यानम् वैहायसम् नाम the vehicle, Vaihaasa named
कामगम् मय-निर्मितम् flying at will, by Maya built
सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।
अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥१७॥
सर्व-साङ्ग्रामिक्-उपेतम् with all battle implements equipped with
सर्व-आश्चर्यमयम् प्रभो (full of) all wonders, O lord!
अप्रतर्क्यम्-अनिर्देश्यम् indisputable, not locatable
दृश्यमानम्-अदर्शनम् visible, invisible
आस्थितस्तद् विमानाग्र्यं सर्वानीकाधिपैर्वृत: ।
बालव्यजनछत्राग्र्यै: रेजे चन्द्र इवोदये ॥१८॥
आस्थित:-तत् विमान-अग्र्यम् seated in that Ariel car high class
सर्व-अनीक-अधिपै:-वृत: all the armies commanders surrounded with
बाल-व्यजन-छत्र-अग्र्यै: young fan, umbrella exquisite,
रेजे चन्द्र इव-उदये shone, moon like rising
तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुरा: ।
नमुचि: शम्बरो बाणो विप्रचित्तिरयोमुख: ॥१९॥
तस्य-आसन्-सर्वतो: यानै:- his were, all around in Ariel cars
यूथानाम् पतय:-असुरा: of the squadrons leaders the Asuras
नमुचि: शम्बर: बाण: Namuchi, Shambara, Baana,
विप्रचित्ति:-अयोमुख: Viprachitti, Ayomukha
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वल: ।
शकुनिर्भूतसंतापो वज्रदंष्ट्रो विरोचन: ॥२०॥
द्विमूर्धा कालनाभ:-अथ Dvimoordhaa, Kaalanaabha, then
प्रहेति:-हेति:-इल्वल: Praheti, Heti, Ilvala,
शकुनि:-भूतसंताप: Shakuni, Bhootasantaapa,
वज्रदंष्ट्र: विरोचन: Vajradanshtra, Virochana
हयग्रीव: शङ्कुशिरा: कपिलो मेघदुन्दुभि: ।
तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कल: ॥२१॥
हयग्रीव: शङ्कुशिरा: Hayagreeva, Shankushiraa,
कपिल: मेघदुन्दुभि: Kapila, Meghadundubhi,
तारक:-चक्रदृक् शुम्भ: Taaraka, Chakradrik, Shumbha,
निशुम्भ: जम्भ: उत्कल: Nishumbha, Jaambha, Utkala,
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिप: ।
अन्ये पौलोमकालेया निवातकवचादय: ॥२२॥
अरिष्ट:-अरिष्टनेमि:-च Arishta, Arishtanemee and
मय:-च त्रिपुर-अधिप: Maya, and the three cities lord,
अन्ये पौलोम-कालेया: others, Pauloma, the Kaaleyas,
निवातकवच-आदय: the Nivaatacavachas, and others
अलब्धभागा: सोमस्य केवलं क्लेशभागिन: ।
सर्व: एते रणमुखे बहुशो निर्जितामरा: ॥२३॥
अलब्ध-भागा: सोमस्य not received share of the nectar
केवलम् क्लेश-भागिन: only, in toil participated
सर्व: एते रण-मुखे all of them in the battles' beginning
बहुश: निर्जित-अमरा: many times had defeated the immortals
सिंहनादान्विमुञ्चन्त: शङ्खान्दध्मुर्महारवान् ।
दृष्ट्वा सपत्नानुत्सिक्तान्बलभित् कुपितो भृशम् ॥२४॥
सिंहनादान्-विमुञ्चन्त: lions' roars letting out
शङ्खान्-दध्मु:-महा-रवान् conch blowing of intense sound
दृष्ट्वा सपत्नान्-उत्सिक्तान्- seeing, the enemies bloated
बलभित् कुपित: भृशम् Indra became angry very much
ऐरावतं दिक्करिणमारूढ: शुशुभे स्वराट् ।
यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पति: ॥२५॥
ऐरावतम् दिक्करिणम्- Airaawata, the quarter's guardian elephant
आरूढ: शुशुभे स्वराट् mounted, shone Indra
यथा स्रवत्-प्रस्रवणम्- like streaming cascades
उदय-अद्रिम्-अहर्पति: on the eastern mountain, the Sun
तस्यासन्सर्वतो देवा नानावाहध्वजायुधा: ।
लोकपाला: सह गणैर्वाय्वग्निवरुणादय: ॥२६॥
तस्य-आसन्-सर्वत: देवा of his were, all around gods,
नाना-वाह-ध्वजा-आयुधा: various vehicles, flags, weapons,
लोक-पाला: सह गणै:- the directions' guardians, along with the Ganas,
वायु-अग्नि-वरुण-आदय: Vaayu, Agni, Varuna, and others
तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथ: ।
आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिन: ॥२७॥
ते-अन्य:-अन्यम्-अभिसंसृत्य they, one another facing
क्षिपन्त: मर्मभि:-मिथ: reproaching, with cutting words mutually
आह्वयन्त: विशन्त:-अग्रे calling, rushing forwards
युयुधु:-द्वन्द्व-योधिन: fought in pairs the warriors
युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।
वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना ॥२८॥
युयोध बलि:-इन्द्रेण fought Bali with Indra
तारकेण गुह:-अस्यत with Taaraka, Guha fought
वरुण: हेतिना-अयुध्यत्- Varuna with Heti fought
मित्र: राजन्-प्रहेतिना Mitra, O King! with Praheti
यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचन: ॥२९॥
यम:-तु कालनाभेन Yama indeed with Kaalanaabha
विश्वकर्मा मयेन वै Vishvakarmaa with Maya certainly,
शम्बर: युयुधे त्वष्ट्रा Shambara fought with Tvashtra,
सवित्रा तु विरोचन: with Savitaa indeed Virochana
अपराजितेन नमुचिरश्विनौ वृषपर्वणा ।
सूर्यो बलिसुतैर्देवो बाणज्येष्ठै: शतेन च ॥३०॥
अपराजितेन नमुचि:- with Aparaajita Namuchi,
अश्विनौ वृषपर्वणा the Ashwinis with Vrishaparvana,
सूर्य: बलिसुतै:-देव: Soorya with Bali's sons, god
बाणज्येष्ठै: शतेन च with Baana the eldest, hundreds and
राहुणा च तथा सोम: पुलोम्ना युयुधेऽनिल: ।
निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥३१॥
राहुणा च तथा सोम: with Raahu and also Moon,
पुलोम्ना युयुधे-अनिल: with Pulomaa fought Anila (wind)
निशुम्भ-शुम्भयो:- with Nishumbha and Shumbha both
देवी भद्रकाली तरस्विनी The Goddess Bhadrakaali, the powerful
वृषाकपिस्तु जम्भेन महिषेण विभावसु: ।
इल्वलै: सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥३२॥
वृषाकपि:-तु जम्भेन Vrishaakapi indeed with Jambha,
महिषेण विभावसु: with Mahisha Vibhaavasu
इल्वलै: सह वातापि:- Ilvala with Vaataapee
ब्रह्मपुत्रै: अरिन्दम with Brahma's sons, O Oppressor of the foes!
कामदेवेन दुर्मर्ष उत्कलो मातृभि: सह ।
बृहस्पतिश्चोशनसा नरकेण शनिश्चर: ॥३३॥
कामदेवेन दुर्मर्ष Kaama deva with Durmarsha
उत्कल: मातृभि: सह Utkala, the Maatrees with
बृहस्पति:-च-उशनसा Brihaspati with Shukraachaaryaa
नरकेण शनिश्चर: with Naraka Shanishchara
मरुतो निवातकवचै: कालेयैर्वसवोऽमरा: ।
विश्वेदेवास्तु पौलोमै रुद्रा: क्रोधवशै: सह ॥३४॥
मरुत: निवातकवचै: Maruta with the Nivaatakavachas,
कालेयै:-वसव:-अमरा: with the Kaaleyas the Vasava gods
विश्वेदेवा:-तु पौलोमै: Vishvedevas indeed with Poulomas
रुद्रा: क्रोधवशै: सह and the Rudras Krodhavasas with
त एवमाजावसुरा: सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमाना: ।
अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरै: ॥३५॥
ते एवम्-अजौ-असुरा: they, like this, in the battle, the Asuras,
सुरेन्द्रा: द्वन्द्वेन संहत्य the leaders of gods, in pairs assailing
च युध्यमाना: and fighting
अन्योन्यम्-आसाद्य one another approaching
निजघ्नु:-ओजसा जिगीषव:- struck violently, in eagerness to win,
तीक्ष्ण शर-असि-तोमरै: with sharp arrows, swords and spears
भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशै: शक्त्युल्मुकै: प्रासपरवधैरपि ।
निस्त्रिंशभल्लै: परिधै: समुद्गरै: सभिन्दिपालैश्च शिरांसि चिच्छिदु: ॥३६॥
भुशुण्डिभि:-चक्र-गद-अर्ष्टि- with Bhushundis, discuses, maces, lances,
पट्टिशै: शक्ति-उल्मुकै: spears, darts and firebrands,
प्रास-परवधै:-अपि Praasas, axes, also
निस्त्रिंश-भल्लै: परिधै: scimitra, Bhallas, bludgeons and
समुद्गरै: सभिन्दिपालै:-च also with Mudgaras, also with Bhindipaalas, and
शिरांसि चिच्छिदु: the heads chopped off
गजास्तुरङ्गा: सरथा: पदातय: सारोहवाहा विविधा विखण्डिता: ।
निकृत्तबाहूरुशिरोधराङ्घ्र्यश्छिन्नध्वजेष्वासतनुत्रभूषणा: ॥३७॥
गजा:-तुरङ्गा: सरथा: elephants, horses, with chariots,
पदातय: सारोहवाहा: on foot, along with their mounts
विविधा: विखण्डिता: various were cut to pieces
निकृत्त-बाहु-उरु-शिरोधर- with severed arms, thighs, necks,
अङ्घ्रय:-छिन्न-ध्वज- feet, shattered flags,
इष्वास-तनुत्र-भूषणा: bows, armour, ornaments
तेषां पदाघातरथाङ्गचूर्णितादायोधनादुल्बण उत्थितस्तदा ।
रेणुर्दिश: खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभि: परिप्लुतात् ॥३८॥
तेषाम् पद-आघात- their feet's treading
रथ-अङ्ग-चूर्णितात्- chariot's wheels' crushed
आयोधनात्-उल्बण उत्थित:-तदा from battle field, intense arose then,
रेणु:-दिश: खम् द्युमणिम् dust, the quarters, sky, Sun
च छादयन् न्यवर्तत- and enveloping, settled
असृक्-स्रुतिभि: परिप्लुतात् blood flow drenched (earth)
शिरोभिरुद्भूतकिरीटकुण्डलै: संरम्भदृग्भि: परिदष्टदच्छदै: ।
महाभुजै: साभरणै: सहायुधै: सा प्रास्तृता भू: करभोरुभिर्बभौ ॥३९॥
शिरोभि:-उद्भूत-किरीट-कुण्डलै: from heads severed, by diadems, ear-rings,
संरम्भ-दृग्भि: with wrathful eyes,
परिदष्ट-दच्छदै: clasped teeth
महा-भुजै: स-आभरणै: big arms, with ornaments
सह-आयुधै: सा प्रास्तृता भू: along with weapons, she, scattered the earth
करभ-उरुभि:-बभौ elephant (trunks) thighs became
कबन्धास्तत्र चोत्पेतु: पतितस्वशिरोऽक्षिभि: ।
उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥४०॥
कबन्धा:-तत्र च-उत्पेतु: the bodies, there and sprang up
पतित: स्व-शिर:-अक्षिभि: fallen, by own head and eyes
उद्यत-आयुध-दोर्दण्डै:- holding weapons, by two arms
आधावन्त: भटान् मृधे running after warriors in the battle
बलिर्महेन्द्रंदशभिस्त्रिभिरैरावतं शरै: ।
चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ॥४१॥
बलि:-महेन्द्रम् दशभि:- Bali, at Indra with ten,
त्रिभि:-ऐरावतम् शरै: three at Airaawata, arrows,
चतुर्भि:-चतुर: वाहान्- by four the four guards,
एकेन-आरोहम्-आर्च्छयत् by one, the driver assailed
स तानापतत: शक्रस्तावद्भि: शीघ्रविक्रम: ।
चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव ॥४२॥
स: तान्-आपतत: शक्र:- he, them, coming, Indra,
तावद्भि: शीघ्र-विक्रम: with as many, swiftly and with valour
चिच्छेद निशितै:-भल्लै:- cut short by sharp spears,
असम्प्राप्तान्-हसन्-इव before their reaching, laughing as though
तस्य कर्मोत्तमं वीक्ष्य दुर्मर्ष: शक्तिमाददे ।
तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद् हरि: ॥४३॥
तस्य कर्म-उत्तमम् वीक्ष्य his action, superb seeing
दुर्मर्ष: शक्तिम्-आददे unflinchable dart took
ताम् ज्वलन्तीम् महा-उल्काभाम् that burning, great meteor like glowing
हस्त-स्थाम्-अच्छिनत् हरि: in hand placed, cut off Indra
तत: शूलं तत: प्रासं ततस्तोमरमृष्टय: ।
यद् यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद् विभु: ॥४४॥
तत: शूलम् तत: प्रासम् then, spear, then Praasa,
तत:-तोमर-मृष्टय: then Tomar, double-edged sword,
यत् यत्-शस्त्रम् समादद्यात्- what ever weapon took up
सर्वम् तत्-अच्छिनद् विभु: all that cut off Indra
ससर्जाथासुरीं मायामन्तर्धानगतोऽसुर: ।
तत: प्रादुरभूच्छैल: सुरानीकोपरि प्रभो ॥४५॥
ससर्ज-अथ-आसुरीम् मायाम्- created then demonic illusion,
अन्तर्धान-गत:-असुर: out of sight went, the Asura
तत: प्रादु:-अभूत्-शैल: then there appeared a mountain
सुर-अनीक-उपरि प्रभो on the gods' armies above, O King!
ततो निपेतुस्तरवो दह्यमाना दवाग्निना।
शिला: सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥४६॥
तत: निपेतु:-तरव: from that fell trees
दह्यमाना दवाग्निना burning with forest fire
शिला: सटङ्क-शिखरा:- rocks chisel (sharp) peaks
चूर्णयन्त्य: द्विषद्-बलम् crushing the gods' forces
महोरगा: समुत्पेतुर्दन्दशूका: सवृश्चिका: ।
सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान् ॥४७॥
महा-उरगा: समुत्पेतु:- huge serpants emerged
दन्दशूका: सवृश्चिका: snakes with scorpions
सिंह-व्याघ्र-वराहा:-च tigers lions boars and
मर्दयन्त:-महा-गजान् trampling the great elephants
यातुधान्यश्च शतश: शूलहस्ता विवासस: ।
छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणा: प्रभो ॥४८॥
यातुधान्य:-च शतश: ogresses and in hundreds
शूल-हस्ता: विवासस: pikes in hand, cloth-less
छिन्धि भिन्धि-इति वादिन्य:- 'cut! Break' this, shouting,
तथा रक्षोगणा: प्रभो and ogres hoards, O lord!
ततो महाघना व्योम्नि गम्भीरपरुषस्वना: ।
अङ्गारान्मुमुचुर्वातैराहता: स्तनयित्नव: ॥४९॥
तत: महा-घना: व्योम्नि then, large clouds in the sky
गम्भीर-परुष-स्वना: deep, terrific sounding
अङ्गारान्-मुमुचु:-वातै:- live coals rained, by wind
आहता: स्तनयित्नव: thrown, thundering roars
सृष्टो दैत्येन सुमहान्वह्नि: श्वसनसारथि: ।
सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥५०॥
सृष्ट: दैत्येन सुमहान्-वह्नि: created by the Daitya (Bali), great fire
श्वशन-सारथि: by wind enhanced
सांवर्तक इव-अति-उग्र: of dissolution like very fierce,
विबुध-ध्वजिनीम्-अधाक् the celestial armies began to burn
तत: समुद्र उद्वेल: सर्वत: प्रत्यदृश्यत ।
प्रचण्डवातैरुद्धूततरङ्गावर्तभीषण: ॥५१॥
तत: समुद्र उद्वेल: then, an ocean surrounding
सर्वत: प्रत्यदृश्यत all around was seen
प्रचण्ड-वातै:-उद्धूत- by fierce winds high
तरङ्ग-आवर्त-भीषण: waves, whirlpools terrible
एवं दैत्यैर्महामायैरलक्ष्यगतिभीषणै:।
सृज्यमानासु मायासु विषेदु: सुरसैनिका: ॥५२॥
एवम् दैत्यै:-महा-मायै:- like this, by the Daityas, the great conjurers
अलक्ष्य-गति-भीषणै: of imperceptible movements, fierce
सृज्यमानासु मायासु creating illusions,
विषेदु: सुर-सैनिका: were depressed the gods' soldiers
न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।
ध्यात: प्रादुरभूत् तत्र भगवान्विश्व भावन: ॥५३॥
न तत्-प्रति-विधिम् यत्र not that to counter system, when
विदु:-इन्द्र-आदय: नृप knowing, Indra and others, O King!
ध्यात: प्रादु:-अभूत् on concentrating, manifested
तत्र भगवान्-विश्व भावन: there The Lord, The world's Protector
तत: सुपर्णांसकृताङ्घ्रिपल्लव: पिशङ्गवासा नवकञ्जलोचन: ।
अदृश्यताष्टायुधबाहुरुल्लसच्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डल: ॥५४॥
तत: सुपर्ण-अंस-कृत- then, on Gaduda's shoulder placing
अङ्घ्रि-पल्लव: पिशङ्ग-वासा feet lotus, in yellow clothed
नव-कञ्ज-लोचन: fresh lotus eyed
अदृश्यत-अष्ट-आयुध-बाहु:- was seen with eight weapons in arms
उल्लसत्-श्री-कौस्तुभ- resplendent with beauty of the Kaustubha,
अनर्घ्य-किरीट-कुण्डल: on the crown, diadem and earrings
तस्मिन्प्रविषटेऽसुरकूटकर्मजा माया विनेशुर्महिना महीयस: ।
स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृति: सर्वविपद्विमोक्षणम् ॥५५॥
तस्मिन्-प्रविष्टे-असुर-कूट- on His entering, the Asuras' deceitful
कर्मजा माया विनेशु:- illusory Maayaa was destroyed
महिना महीयस: by the glory of the Mighty
स्वप्न: यथा हि प्रतिबोध dream just as indeed wakefulness
आगते हरि-स्मृति: having come Shree Hari's thought
सर्व-विपत्-विमोक्षणम् all evils is dispelling
दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमि: ।
तल्लीलया गरुडमूर्ध्नि पतद् गृहीत्वा तेनाहनन्नृप सवाहमरिं त्र्यधीश: ॥५6॥
दृष्ट्वा मृधे गरुड-वाहम्- perceiving in the battle, on Gaduda mounted
इभ-अरि-वाह आविश्य on lion the enemy mounted, seated
शूलम्-अहिनोत्-अथ कालनेमि: spear charged then, Kaalanemi
तत्-लीलया गरुडमूर्ध्नि that, sportingly, on the Gaduda's head
पतद् गृहीत्वा तेन-अहनत्- falling, getting hold of, by that killed,
नृप सवाहम्-अरिम्-त्र्यधीश: O King! with mount, the enemy, The Lord of three
नृप सवाहम्-अरिम्-त्र्यधीश: O King! with mount, the enemy, The Lord of three worlds
माली सुमाल्यतिबलौ युधि पेततुर्यच्चक्रेण कृत्तशिरसावथ माल्यवांस्तम् ।
आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्य: ॥५७॥
माली सुमाली-अति-बलौ युधि Maali and Sumaali, very powerful both, in the
माली सुमाली-अति-बलौ युधि Maali and Sumaali, very powerful both, in the battle
पेततु: यत्-चक्रेण कृत्त-शिरसौ- felled, by which discus, cut off heads
अथ माल्यवान्-तम् then, Maalyavaan, Him
आहत्य तिग्म-गदया- striking, by a forceful mace
अहनत्-अण्डजेन्द्रम् killed Gaduda
तावत्-शिर:-अच्छिनत्- just then head severed
अरे:-नदत:-अरिणा आद्य: of enemy roaring, by the discus, The Primary (Person)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे देवासुरसंग्रामे दशम: अध्याय:
एकादश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
अथो सुरा: प्रत्युपलब्धचेतस: परस्य पुंस: परयानुकम्पया ।
जघ्नुर्भृशं शक्रसमीरणादयस्तांस्तान् रणे यैरभिसंहता: पुरा ॥१॥
अथ: सुरा: प्रत्युपलब्ध- then the gods having regained presence of mind
परस्य पुंस: by the Supreme Person's
परया-अनुकम्पया supreme grace
जघ्नु:-भृशम् शक्र-समीरण- hit back forcefully Indra, Sameerana
आदय:-तान्-तान् रणे and others, all of them in the battle
यै:-अभिसंहता: पुरा by whom they were assaulted before
वैरोचनाय संरब्धो भगवान्पाकशासन: ।
उदयच्छत् यदा वज्रम् प्रजा हा हेति चक्रुशु: ॥२॥
वैरोचनाय संरब्ध: on Bali, while fighting,
भगवान्-पाकशासन: the glorious Indra
उदयच्छत् यदा वज्रम् took up when the thunderbolt
प्रजा हा हा-इति चक्रुशु: the people 'Alas! Alas!' thus shouted
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुर: स्थितम् ।
मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥३॥
वज्रपाणि:-तम्-आह-इदम् with the thunderbolt in hand, to him said this
तिरस्कृत्य पुर: स्थितम् insultingly, in front standing
मनस्विनम् सुसम्पन्नम् the heroic, well equipped,
विचरन्तम् महा-मृधे ranging in the great battle
नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि ।
जित्वा बालान् निबद्धाक्षान् नटो हरति तद् धनम् ॥४॥
नट-वत्-मूढ मायाभि:- conjurer like stupid (you), by illusions,
माया-ईशान् न: जिगीषसि the Maayaa lords, us, wish to conquer
जित्वा बालान् निबद्ध-अक्षान् winning over children, by tying their eyes
नट: हरति तत् धनम् the conjurer steals the wealth
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् ।
तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादध: ॥५॥
आरुरुक्षन्ति मायाभि:-उत्- wanting to ascend by Maayaa, indeed,
सिसृप्सन्ति ये दिवम् and go above and beyond, they to heaven
तान्-दस्यून्-विधुनोमि- them the robbers, throw (I)
अज्ञान्-पूर्वस्मात्-च पदात्-अध: the foolish, from the former region below
सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।
शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभि: सह ॥६॥
स:-अहम् दुर्मायिन:-ते- that I, O adept in malevolent spells! Your
अद्य वज्रेण शत-पर्वणा today, with the thunderbolt with hundred edges
शिर: हरिष्ये मन्द-आत्मन्- head will sheer off, O dull witted one!
घटस्व ज्ञातिभि: सह go meet your kinsmen
बलि:-उवाच - Bali said -
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् ।
कीर्तिर्जयोऽजयो मृत्यु: सर्वेषां स्युरनुक्रमात् ॥७॥
सङ्ग्रामे वर्तमानानाम् in wars involved,
काल-चोदित-कर्मणाम् by Time (Destiny) impelled, according to deeds
कीर्ति:-जय:-अजय: मृत्यु: fame, victory, defeat, death
सर्वेषाम् स्यु:-अनुक्रमात् for all come in successions
तदिदं कालरशनं जना: पश्यन्ति सूरय: ।
न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिता: ॥८॥
तत्-इदम् काल-रशनम् that this, Time's bondage
जना: पश्यन्ति सूरय: men understand, the wise
न हृष्यन्ति न शोचन्ति do not rejoice, do not grieve
तत्र यूयम्-अपण्डिता: in that you are not enlightened
न वयं मन्यमानानामात्मानं तत्र साधनम् ।
गिरो व: साधुशोच्यानां गृह्णीमो मर्मताडना: ॥९॥
न वयम् मन्यमानानाम्- do not we believing
आत्मानम् तत्र साधनम् yourself, in that (victory defeat etc) instrumental
गिर: व: साधु-शोच्यानाम् words your, by the pious pitiable
गृह्णीम: मर्म-ताडना: accept, heart pinching
श्री शुक उवाच - Shree Shuka said -
इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दन: ।
आकर्णपूर्णैरहनदाक्षेपैराहतं पुन: ॥१०॥
इति-आक्षिप्य विभुम् thus retorting the powerful (Indra),
वीर: नाराचै:-वीर-मर्दन: the valiant (Bali) with arrows, the vanquisher of
वीर: नाराचै:-वीर-मर्दन: the valiant (Bali) with arrows, the vanquisher of heroes,
आकर्ण-पूर्णै:-अहनत्- till the ear pulled, struck,
आक्षेपै:-आहतम् पुन: by retorts stung, again
एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विप: ॥११॥
एवम् निराकृत: देव: in this manner, reproached the god,
वैरिणा तथ्य-वादिना by the enemy truth speaking
न-अमृष्यत् तत्-अधिक्षेपम् could not bear that insult
तोत्र-आहत: इव द्विप: by a goad poked like an elephant
प्राहरत् कुलिशं तस्मा अमोघं परमर्दन: ।
सयानो न्यपतद् भूमौ छिन्नपक्ष इवाचल: ॥१२॥
प्राहरत् कुलिशम् तस्मै hurled the thunderbolt on him
अमोघम् पर-मर्दन: the unfailing, foe vanquisher (Indra)
सयान: न्यपतद् भूमौ along with the aerial car, fell on the ground,
छिन्न-पक्ष इव-अचल: cut off wings, like a mountain
सखायं पतितं दृष्ट्वा जम्भो बलिसख: सुहृत् ।
अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् ॥१३॥
सखायम् पतितम् दृष्ट्वा friend fallen seeing
जम्भ: बलि-सख: सुहृत् Jambha, Bali's friend and well wisher
अभ्ययात् सौहृदम् सख्यु:- struck back, friendship of friend,
हतस्य-अपि समाचरन् fallen though practicing
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा ।
जत्रावताडयच्छक्रं गजं च सुमहाबल: ॥१४॥
स: सिंह-वाह: आसाद्य he, mounted on a lion, snatching
गदाम्-उद्यम्य रंहसा a mace, approaching swiftly
जत्रौ-अताडयत्-शक्रम् on the collar bone hit Indra,
गजम् च सुमहाबल: the elephant (Airaawata) and with great power
गदाप्रहारव्यथितो भृशं विह्वलितो गज: ।
जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ॥१५॥
गदा-प्रहार-व्यथित: by the mace struck tormented
भृशम् विह्वलित: गज: very much agonized elephant
जानुभ्याम् धरणीम् स्पृष्ट्वा on the knees, on the earth resting
कश्मलम् परमम् ययौ pain great underwent
ततो रथो मातलिना हरिभिर्दशशतैर्वृत: ।
आनीतो द्विपमुत्सृज्य रथमारुरुहे विभु: ॥१६॥
तत: रथ: मातलिना then, a chariot, by Maatali
हरिभि:-दश-शतै:-वृत: with horses thousand drawn
आनीत: द्विपम्-उत्सृज्य was brought, the elephant abandoning
रथम्-आरुरुहे विभु: the chariot mounted, the lord (Indra)
तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तम: ।
शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥१७॥
तस्य तत् पूजयन् his that admiring
कर्म यन्तु:-दानव-सत्तम: the action of the charioteer, the demon chief
शूलेन ज्वलता तम् तु by a dart burning, him indeed
स्मयमान:-अहनत्-मृधे smilingly struck in the battle
सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलि: ।
इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिर: ॥१८॥
सेहे रुजम् सुदुर्मर्षाम् bore the pain unbearable
सत्त्वम्-आलम्ब्य मातलि: taking recourse to fortitude, Maatali
इन्द्र: जम्भस्य संक्रुद्ध: Indra Jambha's enraged
वज्रेण-अपाहरत्-शिर: by the thunderbolt severed the head
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषे: ।
नमुचिश्च बल: पाकस्तत्रापेतुस्त्वरान्विता: ॥१९॥
जम्भम् श्रुत्वा हतम् Jambha, hearing killed
तस्य ज्ञातय: नारदात्-ऋषे: his kinsmen from Naarada the sage
नमुचि:-च बल: पाक:- Namuchi, Bala, Paaka,
तत्र-आपेतु:-त्वरान्विता: there reached quickly
वचोभि: परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु ।
शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥२०॥
वचोभि: परुषै:-इन्द्रम्- by words harsh, Indra
अर्दयन्त: अस्य मर्मसु assailing to his heart
शरै:-अवाकिरन् मेघा: by arrows showered clouds
धाराभि:-इव पर्वतम् in torrents like the mountain
हरीन्दशशतान्याजौ हर्यश्वस्य बल: शरै: ।
तावद्भिरर्दयामास युगपल्लघुहस्तवान् ॥२१॥
हरीन्-दश-शतानि-आजौ horses thousand in the battle,
हर्यश्वस्य बल: शरै: of Indra, Bala with arrows
तावद्भि:-अर्दयामास as many struck
युगपत्-लघु-हस्तवान् simultaneously, swift of hand
शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
सकृत्सन्धानमोक्षेण तदद्भुतमभूद् रणे ॥२२॥
शताभ्याम् मातलिम् by hundred Maatali
पाक: रथम् स-अवयवम् पृथक् Paaka the chariot, with parts separately
सकृत्-सन्धान-मोक्षेण at a time fitting (the arrows) and charging
तत्-अद्भुतम्-अभूद् रणे that wonder happened in the battle
नमुचि: पञ्चदशभि: स्वर्णपुङ्खैर्महेषुभि: ।
आहत्य व्यनदत्संख्ये सतोय इव तोयद: ॥२३॥
नमुचि: पञ्च-दशभि: Namuchi with five and ten (fifteen)
स्वर्ण-पुङ्खै:-महा-इषुभि: with golden hilts large arrows
आहत्य व्यनदत्-संख्ये struck (Indra) and roared in the battle
सतोय इव तोयद: full of water like a cloud
सर्वत: शरकूटेन शक्रं सरथसारथिम् ।
छादयामासुरसुरा: प्रावृट्सूर्यमिवाम्बुदा: ॥२४॥
सर्वत: शर-कूटेन from all sides with arrows net
शक्रम् स-रथ-सारथिम् Indra with the chariot and the charioteer
छादयामासु:-असुरा: प्रावृट्- covered the Asuras, in the rains
सूर्यम्-इव-अम्बुदा: the Sun like the clouds
अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणा: सहानुगा: ।
अनायका: शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे ॥२५॥
अलक्षयन्त:-तम्- not perceiving him
अतीव विह्वला: विचुक्रुशु:- very perturbed, wailed
देव-गणा: सह-अनुगा: the celestial troops, along with the retinue
अनायका: शत्रु-बलेन निर्जिता: leaderless, by the enemy forces defeated
वणिक्-पथा भिन्न-नव: trader on the way, broken boat
यथा-अर्णवे like in the ocean
ततस्तुराषाडिषुबद्धपञ्जराद् विनिर्गत: साश्वरथध्वजाग्रणी: ।
बभौ दिश: खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये ॥२६॥
तत:-तुराषाट्- then, Indra
इषु-बद्ध-पञ्जरात् विनिर्गत: from arrow built cage came out
स-अश्व-रथ-ध्वज-अग्रणी: with the horses, chariot, the flag, charioteer
बभौ दिश: खम् पृथिवीम् became the directions, sky, earth
च रोचयन् स्व-तेजसा and enlighten by own lustre
सूर्य: इव क्षपात्यये Sun like, at night passing
निरीक्ष्य पृतनां देव: परैरभ्यर्दितां रणे ।
उदयच्छद् रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥२७॥
निरीक्ष्य पृतनाम् देव: perceiving the army, the god,
परै:-अभ्यर्दिताम् रणे by the enemies trampled in the battle
उदयच्छद् रिपुम् हन्तुम् lifted up, the enemy to kill,
वज्रम् वज्रधर: रुषा the thunderbolt, the thunderbolt wielder in anger
स तेनैवाष्टधारेण शिरसी बलपाकयो: ।
ज्ञातीनां पश्यतां राजञ्जहार जनयन्भयम् ॥२८॥
स: तेन-एव-अष्ट-धारेण he, by that only, with eight edged
शिरसी बल-पाकयो: on the heads of Bala and Paaka
ज्ञातीनाम् पश्यताम् राजन्- as the kinsfolk looked on, O King!
जहार जनयन्-भयम् cut off, instigating fright
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वित: ।
जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥२९॥
नमुचि:-तत्-वधम् दृष्ट्वा Namuchi, their death seeing
शोक-अमर्ष-रुषा-अन्वित: by grief, indignation anger filled
जिघांसु:-इन्द्रम् नृपते eager to kill Indra, O King!
चकार परम-उद्यमम् put forth great effort
अश्मसारमयं शूलं घण्टावत् हेमभूषणम् ।
प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन् ।
प्राहिणोद् देवराजाय निनदन् मृगराडिव ॥३०॥
अश्म-सार-मयम् शूलम् steel made of, lance
घण्टावत् हेम-भूषणम् with bells, golden ornaments
प्रगृह्य-अभ्यद्रवत् क्रुद्ध: getting hold of, darted, angered,
हत:-असि-इति वितर्जयन् 'Killed are you', thus threatening
हत:-असि-इति वितर्जयन्
प्राहिणोत् देव-राजाय flung on the god's king Indra
निनदन् मृगराट्-इव roaring lion like
तदापतद् गगनतले महाजवं विचिच्छिदे हरिरिषुभि: सहस्रधा ।
तमाहनन्नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपति: शिरो हरन् ॥३१॥
तदा-अपतत् गगन-तले then, falling under the sky
महा-जवम् विचिच्छिदे हरि:- with great speed, severed, Hari (Indra)
इषुभि: सहस्रधा with arrows thousands
तम्-अहनत्-नृप कुलिशेन him struck, O King! with the thunderbolt
कन्धरे रुषा-अन्वित:- on the neck, with anger overcome
त्रिदशपति: शिर: हरन् Indra head to cut
न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद य: सुरपतिनौजसेरित: ।
तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा ॥३२॥
न तस्य हि त्वचम्-अपि not his indeed skin even
वज्र: ऊर्जित: बिभेद the thunderbolt, hurled pierce
य: सुरपतिना-ओजसा-ईरित: which by the gods' lord with might was charged
तत्-अद्भुतम् परम्- that strange highly
अति-वीर्य-वृत्र-भित् very powerful Vritraasura smasher
तिरस्कृत: नमुचि-शिरोधर-त्वचा was sent back, by Namuchi's neck's skin
तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्र: प्रतिहतो यत: ।
किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥३३॥
तस्मात्-इन्द्र:-अबिभेत्- because of that, Indra was afraid,
शत्रो:-वज्र: प्रतिहत: यत: by the enemy the thunderbolt was repelled because
किम्-इदम् दैव-योगेन 'What is this! by fate conspiring
किम्-इदम् दैव-योगेन
भूतम् लोक-विमोहनम् has happened, the worlds' bewildering'
येन मे पूर्वमद्रीणां पक्षच्छेद: प्रजात्यये ।
कृतो निविशतां भारै: पतत्त्रै: पततां भुवि ॥३४॥
येन मे पूर्वम्-अद्रीणाम् by which by me, formerly, of the mountains
पक्षच्छेद: प्रजा-अत्यये wings were clipped, for the peoples' welfare
कृत: निविशताम् भारै: done for falling, due to weight
पतत्त्रै: पतताम् भुवि flying, settling on earth
तप: सारमयं त्वष्ट्रं वृत्रो येन विपाटित: ।
अन्ये चापि बलोपेता: सर्वास्त्रैरक्षयत्वच: ॥३५॥
तप: सारमयम् त्वष्ट्रम् the austerities total of Twashtra,
वृत्र: येन विपाटित: Vritra by which was torn apart
अन्ये च-अपि बल-उपेता: others and also with power invested
सर्व-अस्त्रै:-अक्षय-त्वच: by all weapons (were) unpierced skins
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।
नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ॥३६॥
स:-अयम् प्रतिहत: वज्र: that, this, failed the thunderbolt
मया मुक्त:-असुरे-अल्पके by me hurled on the Asura petty
न-अहम् तत्-आददे दण्डम् not I, that will take staff
ब्रह्म-तेज:-अपि-कारणम् Brahma energy, even the cause
इति शक्रं विषीदन्तमाह वागशरीरिणी ।
नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानव: ॥३७॥
इति शक्रम् विषीदन्तम्- thus to Indra lamenting,
आह वाक्-अशरीरिणी said, a voice formless
न-अयम् शुष्कै:-अथ: न-आर्द्रै:- not this by dry, and then, by wet
वधम्-अर्हति दानव: to be killed is worthy, the Daanava
मयास्मै यद् वरो दत्तो मृत्युर्नैवार्द्रशुष्कयो: ।
अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपो: ॥३८॥
मया-अस्मै यत् वर: दत्त: by me to him, that boon was given
मृत्यु:-नैव-आर्द्र-शुष्कयो: death not at all by wet and dry
अत:-अन्य:-चिन्तनीय:-ते therefore another should be thought by you
उपाय: मघवन् रिपो: means, O Indra! Of the enemy
तां दैवीं गिरामाकर्ण्य मघवान्सुसमाहित: ।
ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥३९॥
ताम् दैवीम् गिराम्-आकर्ण्य that divine voice hearing
मघवान्-सुसमाहित: Indra concentrating
ध्यायन् फेनम्-अथ-अपश्यत्- thought of foam, then, saw
उपायम्-उभय-आत्मकम् the means of both kinds
न शुष्केण न चार्द्रेण जहार नमुचे: शिर: ।
तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ॥४०॥
न शुष्केण न च-आर्द्रेण not by dry nor by wet
जहार नमुचे: शिर: cut Namuchi's head
तम् तुष्टुवु:-मुनि-गणा: him glorified the sages lots,
माल्यै:-च-अवाकिरन्-विभुम् with garlands and showered the lord
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू ।
देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥४१॥
गन्धर्व-मुख्यौ जगतु:- the Gandharva chiefs sang
विश्वावसु-परावसू Vishwaavasu and Paraavasu,
देव-दुन्दुभय: नेदु:- the gods trumpets sounded
नर्तक्य: ननृतु:-मुदा dancers danced in delight
अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वग्निवरुणादय: ।
सूदयामासुरस्त्रौघैर्मृगान्केसरिणो यथा ॥४२॥
अन्ये-अपि-एवम् प्रतिद्वन्द्वान्- others also, like this, the rivals
वायु-अग्नि-वरुणादय: Vaayu, Agni, Varuna and others
सूदयामासु:-अस्त्र-औघै:- destroyed, with weapons great,
मृगान्-केसरिण:- यथा the deers, lion like
ब्रह्मणा प्रेषितो देवान्देवर्षिर्नारदो नृप ।
वारयामास विबुधान्दृष्ट्वा दानवसंक्षयम् ॥४३॥
ब्रह्मणा प्रेषित: देवान्- by Brahmaa was sent, to the gods
देवर्षि:-नारद: नृप the celestial sage Naarada, O King!
वारयामास विबुधान्- asked to stop, the gods,
दृष्ट्वा दानव-संक्षयम् seeing the Daanava's extermination
नारद उवाच - Naarada said -
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयै: ।
श्रिया समेधिता: सर्व उपारमत विग्रहात् ॥४४॥
भवद्भि:-अमृतम् प्राप्तम् by you all nectar is obtained
नारायण-भुजा-आश्रयै: by Naaraayana's arms resorting to
श्रिया समेधिता: and by Shree enhanced
सर्वे उपारमत विग्रहात् all of you cease from hostilities
श्री शुक उवाच - Shree Shuka said -
संयम्य मन्युसंरभ्यं मानयन्तो मुनेर्वच: ।
उपगीयमानानुचरैर्ययु: सर्वे त्रिविष्टपम् ॥४५॥
संयम्य मन्यु-संरभ्यम् giving up fighting, and anger controlling
मानयन्त: मुने:-वच: obeying the sage's words
उपगीयमान-अनुचरै:- glorified by the attendents,
ययु: सर्वे त्रिविष्टपम् went all to heaven
येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥४६॥
ये-अवशिष्टा रणे तस्मिन् those who survived in battle that
नारद-अनुमतेन ते by Naarada's permission, they
बलिम् विपन्नम्-आदाय Bali, dead taking
अस्तम् गिरिम्-उपागमन् to Astaachala mountain went
तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
उशना जीवयामास संजीविन्या स्वविद्यया ॥४७॥
तत्र-अविनष्ट-अवयवान् there, (with) undestroyed limbs
विद्यमान-शिरोधरान् and intact necks
उशना जीवयामास Shukraachaaryaa enlivened
संजीविन्या स्व-विद्यया by Sanjeevanee, his knowledge
बलिश्चोशनसा स्पृष्ट: प्रत्यापन्नेन्द्रियस्मृति: ।
पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षण: ॥४८॥
बलि:-च-उशनसा स्पृष्ट: Bali and by Shukraachaaryaa touched
प्रत्यापन्न-इन्द्रिय-स्मृति: regained senses and memory
पराजित:-अपि न-अखिद्यत्- defeated though, did not sorrow
लोक-तत्त्व-विचक्षण: the world's truth expert knower
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे देवासुरसंग्राम एकादश: अध्याय:
द्वादश: अध्याय:
श्री बादरायणि:-उवाच - Shree Shuka said -
वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् ।
मोहयित्वा सुरगणान्हरि: सोममपाययत् ॥१॥
वृषध्वज: निशम्य्-इदम् Lord Shiva hearing this
योषित्-रूपेण दानवान् in damsel form to the Daanavas
मोहयित्वा सुरगणान्-हरि: enchanting, to the hosts of gods, Shree Hari
सोमम्-अपाययत् nectar made to drink
वृषमारुह्य गिरिश: सर्वभूतगणैर्वृत:
सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदन: ॥२॥
वृषम्-आरुह्य गिरिश: the bull mounting Lord Shiva
सर्व-भूत-गणै:-वृत: with all the evil spirit gathered
सह देव्या ययौ द्रष्टुम् with the Goddess went to see
यत्र-आस्ते मधुसूदन: where lived Madhusoodana (Vishnu)
सभाजितो भगवता सादरं सोमया भव: ।
सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥३॥
सभाजित: भगवता सादरम् welcomed by The Lord respectfully
स-उमया भव: सूपविष्ट: with Umaa, Lord Shiva well seated
उवाच-इदम् प्रतिपूज्य said this greeting
स्मयन्-हरिम् smilingly to Shree Hari
श्रीमहादेव उवाच - Mahaadeva said -
देव देव जगद्व्यापिञ्जगदीश जगन्मय ।
सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वर: ॥४॥
देव देव जगत्-व्यापिन्- O god of gods! the universe pervading,
जगत्-ईश जगत्-मय the universe's controller, the worlds constituting
सर्वेषाम्-अपि भावानाम् of all also the substances
त्वम्-आत्मा हेतु:-ईश्वर: You are The Spirit, Cause and Ruler
आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहि: ।
यतोऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद् भवान् ॥५॥
आदि-अन्तौ-अस्य यत्-मध्यम्- the beginning end of this, that the middle,
इदम्-अन्यत्-अहम् बहि: this is the other, the ego lying outside
यत:-अव्ययस्य न-एतानि because, of the unchangeable, not are these,
तत् सत्यम् ब्रह्म चिद् भवान् That True Brahman, Consciousness is You
तथैव चरणाम्भोजं श्रेयस्कामा निराशिष: ।
विसृज्योभयत: सङ्गं मुनय: समुपासते ॥६॥
तथा-एव चरण-अम्भोजम् that is why the feet lotuses
श्रेय:-कामा: निराशिष: well-fare desiring, unattached
विसृज्य-उभयत: सङ्गम् abandoning both attachment,
मुनय: समुपासते the sages worship
त्वं ब्रह्म पूर्णममृतं विगुणं विशोकमानन्दमात्रमविकारमनन्यदन्यत् ।
विश्वस्य हेतुरुदयस्थितिसंयमानामात्मेश्वरश्च तदपेक्षतयानपेक्ष: ॥७॥
त्वम् ब्रह्म पूर्णम्-अमृतम् You are Brahman, complete, immortal,
विगुणम् विशोकम्-आनन्द-मात्रम्- attribute less, sorrow less, bliss absolute
अविकारम्-अनन्यत्-अन्यत् immutable, without a second, different
विश्वस्य हेतु:-उदय-स्थिति of world's the cause, of creation, preservation,
संयमानाम्-आत्मा-ईश्वर:- and dissolution the very form, The Controller
च तत्-अपेक्षतया-अनपेक्ष: and that sought by, unseeking
एकस्त्वमेव सदसद् द्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेद: ।
अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्माद् गुणैर्व्यतिकरो निरुपाधिकस्य ॥८॥
एक:-त्वम्-एव सत्-असत् One You alone (are) cause effect
द्वयम्-अद्वयम् च स्वर्णम् कृत- both, not both and gold moulded,
अकृतम्-इव-इह न वस्तु-भेद: unmolded, like, here is not in substance difference
अज्ञानत:-त्वयि जनै:-विहित: due to ignorance, in You, by the people is
अज्ञानत:-त्वयि जनै:-विहित: due to ignorance, in You, by the people is placed
विकल्प: यस्माद् गुणै:- diversity, because by the Gunas
व्यतिकर: निरुपाधिकस्य (is) diversity, (You Who) are free of all adjuncts
त्वां ब्रह्म केचिदवयन्त्युत धर्ममेक एके परं सदसतो: पुरुषं परेशम् ।
अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥९॥
त्वाम् ब्रह्म केचित्-अवयन्ति- You, Brahman, some know
उत धर्मम्-एक एके परम् indeed as Dharma some, some The Absolute
सत्-असतो: पुरुषम् परेषम् beyond the truth and false, The Person Primary
अन्ये-अवयन्ति नव-शक्ति-युतम् others understand, as with nine potencies endowed
परम् त्वाम् केचित्-महापुरुषम्- The Supreme You, some foremost Purusha
अव्ययम्-आत्म-तन्त्रम् changeless, self-dependent
नाहं परायु:-ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गा: ।
यन्मायया मुषितचेतस ईश दैत्यमर्त्यादय: किमुत शश्वदभद्रवृत्ता: ॥१०॥
न-अहम् परायु: ऋषय: न neither I, nor Brahmaa, the sages nor,
मरीचि-मुख्या: जानन्ति यत्- by Marichi led, know that
विरचितम् खलु सत्त्व-सर्गा: created, indeed of Sattva created
यत्-मायया मुषित-चेतस: ईश so, by Maayaa, of dull minds, O Lord!
दैत्य-मर्त्य-आदय: किमुत The Daityas, mortals and others, what of
शश्वत्-अभद्र-वृत्ता: ever in Raajasic and Taamasic engaged
स त्वं समीहितमद: स्थितिजन्मनाशं भूतेहितं च जगतो भवबन्धमोक्षौ ।
वायुर्यथा विशतिखं च चराचराख्यं सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥११॥
स: त्वम् समीहितम्-अद: that You, know this (world's)
स्थिति-जन्म-नाशम् existence, birth, and decay
भूत-ईहितम् च of the beings activities and
जगत: भव-बन्ध-मोक्षौ of the world's existence, bondage and release,
वायु:-यथा विशति-खम् च air just as pervades the sky and
चर-अचर-आख्यम् सर्वम् the mobile, immobile named all
तत्-आत्मकतया- by Your self pervading
आवगम:-अवरुन्त्से knowing hold together
अवतारा मया दृष्टा रममाणस्य ते गुणै: ।
सोऽहं तद् द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम् ॥१२॥
अवतारा: मया दृष्टा: descents, by me are seen
रममाणस्य ते गुणै: revelling by You with the Gunas
स:-अहम् तत् द्रष्टुम्-इच्छामि that I, that to see desire
यत् ते योषित्-वपु:-धृतम् which by You damsel form assumed
येन सम्मोहिता दैत्या: पायिताश्चामृतं सुरा: ।
तद्दिदृक्षव आयाता: परं कौतूहलं हि न: ॥१३॥
येन सम्मोहिता: दैत्या: by which were bewitched the Daityas
पायिता:-च-अमृतम् सुरा: were made to drink and nectar the gods
तत्-दिदृक्षव: आयाता: that desiring to see we have come
परम् कौतूहलम् हि न: great curiosity definitely is ours
श्री शुक उवाच - Shree Shuka said -
एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना ।
प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥१४॥
एवम्-अभ्यर्थित: विष्णु:- thus requested Vishnu
भगवान् शूल-पाणिना The Lord, by the trident holding
प्रहस्य भाव-गम्भीरम् laughed aloud, with meaning deep
गिरिशम् प्रत्यभाषत to Lord Shiva replied
श्री भगवान् उवाच - The Lord said -
कौतूहलाय दैत्यानां योषिद्वेषो मया कृत: ।
पश्यता सुरकार्याणि गते पीयूषभाजने ॥१५॥
कौतूहलाय दैत्यानाम् to bewilder the Daityas
योषित्-वेष: मया कृत: damsel form by Me was taken
पश्यता सुर-कार्याणि regarding the gods' purpose
गते पीयूष-भाजने on the disappearing of the nectar pot
तत्तेऽहं दर्शयिष्यामि दिदृक्षो: सुरसत्तम ।
कामिनां बहु मन्तव्यं संकल्पप्रभवोदयम् ॥१६॥
तत्-ते-अहम् दर्शयिष्यामि that to you I will show
दिदृक्षो: सुर-सत्तम willing to see, O gods' Leader!
कामिनाम् बहु मन्तव्यम् to the passionate very valuable
संकल्प-प्रभव-उदयम् passionate feeling exciting
श्री शुक उवाच - Shree Shuka said -
इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।
सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥१७॥
इति ब्रुवाण: भगवान्- thus saying, The Lord
तत्र-एव-अन्तरधीयत there alone vanished
सर्वत:-चारयन्-चक्षु:- all around casting sight,
भव आस्ते सह-उमया Lord Shiva remained with Umaa
ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे ।
विक्रीडतीं कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम् ॥१८॥
तत: ददर्श-उपवने just then, saw in the garden
वर-स्त्रियम् विचित्र-पुष्प- a beautiful damsel, strange flowers
अरुण-पल्लव-द्रुमे with red leaved trees
विक्रीडतीम् कन्दुक-लीलया playing with a ball sportingly
लसत् दुकूल-पर्यस्त with silk garment wrapped
नितम्ब-मेखलाम् breast with girdle
आवर्तनोद्वर्तनकम्पितस्तनप्रकृष्टहारोरुभरै: पदे पदे ।
प्रभज्यमानामिव मध्यतश्चलत् पदप्रवालं नयतीं ततस्तत: ॥१९॥
आवर्तन-उद्वर्तन-कम्पित- when catching and tossing, the shivering
स्तन-प्रकृष्ट-हार- breasts, the exquisite necklace
उरु-भरै: पदे पदे with the heavy weight, on every step
प्रभज्यमानाम्-इव मध्यत:- breaking as if the waist,
चलत् पद-प्रवालम् when walking with feet like tender leaves
नयतीम् तत:-तत: going here and there
दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् ।
स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम् ॥२०॥
दिक्षु भ्रमत्-कन्दुक-चापलै:- in the directions roaming, by the ball's swiftness
भृशम् प्रोद्विग्न-तारा-आयत- very much dancing, pupils dilated
लोल-लोचनाम् red eyed
स्व-कर्ण-विभ्राजित-कुण्डल- in own ears shining earrings
उल्लसत् कपोल-नील-अलक- shaking, cheeks bluish hair curls
मण्डित-आननाम् decorating the face
श्लथद् दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना ।
विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया ॥२१॥
श्लथद् दुकूलम् कबरीम् च slipping garment, braid and
विच्युताम् सन्नह्यतीम् displaced, replacing
वाम-करेण वल्गुना with left hand delicate
विनिघ्नतीम्-अन्य-करेण hitting with the other hand
कन्दुकम् विमोहयन्तीम् the ball, bewitching
जगत्-आत्म-मायया the world with her Maayaa (charm)
तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्ट: ।
स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥२२॥
ताम् वीक्ष्य देव इति her seeing, the lord thus
कन्दुक-लीलया-ईषद् with the ball playing slightly
व्रीडा-स्फुट-स्मित- coyly blushing smile
विसृष्ट-कटाक्ष-मुष्ट: gave, with side glance was lost
स्त्री-प्रेक्षण-प्रति-समीक्षण by the woman gazing at, by her gazing back
विह्वल-आत्मा न-अत्मानम्- bewilderment minded, did not Himself
उमाम् स्वगणान्-च वेद Umaa, own attendents and knew
तस्या: कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रिया: ।
वास: ससूत्रं लघु मारुतोऽहरद् भवस्य देवस्य किलानुपश्यत: ॥२३॥
तस्या: कर-अग्रात् स: तु from her hand fingers, that indeed
कन्दुक: यदा गत: विदूरम् ball, when went afar
तम्-अनुव्रजत्-स्त्रिया: that following by the damsel
वास: ससूत्रम् लघु मारुत:- garment with the girdle fine, wind
अहरत् भवस्य देवस्य blew off, as Lord Shiva
किल-अनुपश्यत: surely looked on
एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।
दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भव: किल ॥२४॥
एवम् ताम् रुचिर-अपाङ्गीम् like that, her ravishing side-long glances
दर्शनीयाम् मनोरमाम् worthy to be looked at, pleasing
दृष्ट्वा तस्याम् मन:-चक्रे seeing, in her, heart gave
विषज्जन्त्याम् भव: किल enamoured as if, Lord Shiva definitely
तयापहृतविज्ञानस्तत्कृतस्मरविह्वल: ।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥२५॥
तया-अपहृत-विज्ञान:- by her stolen senses,
तत्-कृत-स्मर-विह्वल: by her sake, by Cupid overpowered,
भवान्या: अपि पश्यन्त्या: Bhavaani even looking on
गत-ह्री:-तत्-पदम् ययौ devoid of shame, her near went
सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।
निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥२६॥
सा तम्-आयान्तम्-आलोक्य she, Him approaching, seeing,
विवस्त्रा व्रीडिता भृशम् clothing's-less, ashamed very much
निलीयमान वृक्षेषु hiding behind the trees
हसन्ती न-अन्वतिष्ठत laughing, did not stay
तामन्वगच्छद् भगवान् भव: प्रमुषितेन्द्रय: ।
कामस्य च वशं नीत: करेणुमिव यूथप: ॥२७॥
ताम्-अन्वगच्छत् भगवान् her following, Lord
भव: प्रमुषित-इन्द्रय: Shiva, devoid of senses
कामस्य च वशम् नीत: by passion and in control taken
करेणुम्-इव यूथप: she elephant like the head of the elephants
सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।
केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥२८॥
स:-अनुव्रज्य-अति-वेगेन He, following very fast
गृहीत्वा-अनिच्छतीम् स्त्रियम् getting hold of the unwilling lady
केश-बन्ध उपानीय hair knot bringing
बाहुभ्याम् परिषस्वजे with arms embraced
सोपगूढा भगवता करिणा करिणी यथा ।
इतस्तत: प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥२९॥
सा-उपगूढा भगवता she embraced by the lord
करिणा करिणी यथा by the elephant, she elephant just as
इत:-तत: प्रसर्पन्ती here and there moving about
विप्रकीर्ण-शिरोरुहा scattering the hair
आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् ।
प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥३०॥
आत्मानम् मोचयित्वा-अङ्ग herself freeing, O Dear!
सुरर्षभ-भुजा-अन्तरात् from the leader of the gods' arms middle
प्राद्रावत्-सा पृथु-श्रोणी ran she, large hipped
माया देव विनिर्मिता Maayaa, by The Lord created
तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मण: ।
प्रत्यपद्यत कामेन वैरिणेव विनिर्जित: ॥३१॥
तस्य-असौ पदवीम् रुद्र: His, this form, Lord Shiva,
विष्णो:-अद्भुत-कर्मण: of Vishnu, of strange deeds
प्रत्यपद्यत कामेन ran after by Cupid
वैरिणा-इव विनिर्जित: the enemy like conquered
तस्यानुधावतो रेतश्चस्कन्दामोघरेतस: ।
शुष्मिणो यूथपस्येव वासितामनु धावत: ॥३२॥
तस्य-अनुधावत: रेत:- by His running after, seed
चस्कन्द-अमोघ-रेतस: escaped, of unfailing procreative energy
शुष्मिण: यूथपस्य-इव passionate, of the herd leader, like
वासिताम्-अनुधावत: she elephant pursuing
यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मन: ।
तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन्महीपते ॥३३॥
यत्र यत्र-अपतत्-मह्याम् where-ever, dropped on the earth
रेत:-तस्य महात्मन: seed His, of The great soul,
तानि रूप्यस्य हेम्न:-च they of silver gold and
क्षेत्राणि-आसन्-महीपते fields became, O King!
सरित्सरस्सु शैलेषु वनेषूपवनेषु च ।
यत्र क्व चासन्नृषयस्तत्र संनिहितो हर: ॥३४॥
सरित्-सरस्सु शैलेषु in rivers banks, lakes, mountains,
वनेषु-उपवनेषु च forests, gardens and
यत्र क्व च-आसन्-ऋषय:- where ever and were the sages,
तत्र संनिहित: हर: there was present Lord Shiva
स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया ।
जडीकृतं नृपश्रेष्ठ संन्यवर्तत कश्मलात् ॥३५॥
स्कन्ने रेतसि स:-अपश्यत्- as escaped the seed, He saw
आत्मानम् देव-मायया Himself, by The Lord's Maayaa
जडी-कृतम् नृप-श्रेष्ठ deceived, O Foremost of Kings!
संन्यवर्तत कश्मलात् withdrew from passion
अथावगतमाहात्म्य आत्मनो जगदात्मन: ।
अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ॥३६॥
अथ-अवगत-माहात्म्य then knowing the glory
आत्मन: जगत्-आत्मन: of His own, and of the Universal Soul
अपरिज्ञेय-वीर्यस्य न मेने of the unfathomable power did not consider
तत्-उ ह-अद्भुतम् that indeed, very strange
तमविक्लवमव्रीडमालक्ष्य मधुसूदन: ।
उवाच परमप्रीतो विभ्रत्स्वां पौरुषीं तनुम् ॥३७॥
तम्-अविक्लवम्-अव्रीडम्- Him unperturbed, unashamed,
आलक्ष्य मधुसूदन: seeing, Madhusoodana (Lord Vishnu)
उवाच परम-प्रीत: said with much delight
विभ्रत्-स्वाम् पौरुषीम् तनुम् taking on Own manly body
श्री भगवान्-उवाच - The Lord said -
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थित: ।
यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया ॥३८॥
दिष्ट्या त्वम् विबुध-श्रेष्ठ fortunately, You, O of the gods the foremost!
स्वाम् निष्ठाम्-आत्मना स्थित: to own natural state, by Yourself regained
यत्-मे स्त्री-रूपया स्वैरम् in that, by My feminine form, easily
मोहित: अपि-अङ्ग-मायया infatuated even O Dear One! By My Maayaa
को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।
तांस्तान्विसृजतीं भावान्दुस्तरामकृतात्मभि: ॥३९॥
क: नु मे-अतितरेत्-मायाम् who indeed, My, may overcome Maayaa
विषक्त:-त्वत्-ऋते पुमान् ensnared, Yourself other than, a person
तान्-तान्-विसृजतीम् भावान्- all those (various) creating illusions,
दुस्तराम्-अकृत-आत्मभि: overpowering, of uncontrolled Self's
सेयं गुणमयी माया न त्वामभिभविष्यति ।
मया समेता कालेन कालरूपेण भागश: ॥४०॥
सा-इयम् गुणमयी माया that this, Gunas consisting Maayaa
न त्वाम्-अभिभविष्यति will not You overpower
मया समेता कालेन with Me united, in Time,
काल-रूपेण भागश: in Time Spirit form, divided (into the three gunas)
श्री शुक उवाच - Shri Shuka said -
एवं भगवता राजन् श्रीवत्साङ्केन सत्कृत: ।
आमन्त्र्य तं परिक्रम्य सगण: स्वालयं ययौ ॥४१॥
एवम् भगवता राजन् thus by The Lord, O King!
श्रीवत्स-अङ्केन सत्कृत: by Shri Vatsa mark honoured
आमन्त्र्य तम् परिक्रम्य taking leave His, circumbulating Him
सगण: स्व-आलयम् ययौ with His retinue, to own abode went
आत्मांशभूतां तां मायां भवानीं भगवान्भव: ।
शंसतामृषिमुख्यानां प्रीत्याऽऽचष्टाथ भारत ॥४२॥
आत्म-अंश-भूताम् ताम् मायाम् from Own Self become, that Maayaa
भवानीम् भगवान्-भव: to Goddess Paarvati, Lord Shiva
शंसताम्-ऋषि-मुख्यानाम् in the gathering of sages prominent
प्रीत्या-आचष्ट-अथ भारत with delight described, then, O Bhaarata (Pareekshit)
अपि व्यपश्यस्त्वमजस्य माय़ां परस्य पुंस: परदेवताया: ।
अहं कलानामृषभो विमुह्ये ययावशोऽन्ये किमुतास्वतन्त्रा: ॥४३॥
अपि व्यपश्य:-त्वम्- did see you
अजस्य माय़ाम् परस्य of The Birthless's Maayaa, The Supreme Person
पुंस: पर-देवताया: of people, the highest Deity
अहम् कलानाम्-ऋषभ: I of the parts the foremost
विमुह्ये यया-अवश:- was deluded by whom helpless
अन्ये किमुत्-अस्वतन्त्रा: others what of, not independent
यं मामपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै ।
स एष साक्षात् पुरुष: पुराणो न यत्र कालो विशते न वेद: ॥४४॥
यम् माम्-पृच्छ:-त्वम्- Whom, to me, asked about, you
उपेत्य योगात् approaching from Yoga
समा-सहस्र-अन्त उपारतम् वै years thousand's end, completed indeed
स: एष: साक्षात् पुरुष: पुराण: That This Himself, The Person Primary
न यत्र काल: विशते न वेद: not where time enters, nor the Vedas (comprehend)
श्री शुक उवाच - Shree Shuka said -
इति तेऽभिहितस्तात विक्रम: शार्ङ्गधन्वन: ।
सिन्धोर्निर्मथने येन धृत: पृष्ठे महाचल: ॥४५॥
इति ते-अभिहित:-तात this to you, have narrated O Dear!
विक्रम: शार्ङ्गधन्वन: valour of the Shaaranga bow wielder
सिन्धो:-निर्मथने येन in the ocean's churning, by Whom
धृत: पृष्ठे महा-अचल: was held on the back the great mountain
एतन्मुहु: कीर्तयतोऽनुशृण्वतो न रिष्यते जातु समुद्यम: क्वचित् ।
यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् ॥४६॥
एतत्-मुहु: कीर्तयत:- this again and again reciting
अनुशृण्वत: न रिष्यते and hearing, does not fail
जातु समुद्यम: क्वचित् the generated fatigue, ever
यत्-उत्तम-श्लोक-गुण- because the excellent famed, (Lord Vishnu's) virtues
अनुवर्णनम् समस्त-संसार- describing, of all the worlds'
परिश्रम-अपहम् fatigue relieves
असदविषयमङ्घ्रिं भावगम्यं प्रपन्नानमृतममरवर्यानाशयत् सिन्धुमथ्यम् ।
कपटयुवतिवेषो मोहयन्य: सुरारींस्तमहमुपसृतानां कामपूरं नतोऽस्मि ॥४७॥
असत्-अविषयम्-अङ्घ्रिम् to the vile, unattainable (Whose) feet
भाव-गम्यम् प्रपन्नान्- by devotion attainable, to those taking shelter,
अमृतम्-अमर-वर्यान्- nectar, the gods leading
आशयत् सिन्धु-मथ्यम् made to drink, when ocean was churned
कपट-युवति-वेष: (Who took on) the deluding damsel form
मोहयन्-य: सुरारीन्- deluding Who the Demons
तम-अहम्-उपसृतानाम् Him I, of those who approach Him
काम-पूरम् नत:-अस्मि desire fulfilling, bowed am
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे शंकरमोहनं नाम द्वादशोऽध्याय:
त्रयोदश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
मनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: ।
सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥१॥
मनु:-विवस्वत: पुत्र: Manu, of Vivasvata, the son,
श्राद्धदेव: इति श्रुत: Shraaddhadeva, thus well-known
सप्तम: वर्तमान: य:- the seventh present which,
तत्-अपत्यानि मे शृणु of his sons, from me hear
इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥२॥
इक्ष्वाकु:-नभग:-च-एव Ikshwaaku, Nabhaga, and also
धृष्ट: शर्याति:-एव च Dhrishta, Sharyaatee, also and
नरिष्यन्त:-अथ नाभाग: Narishyanta, then Naabhaaga
सप्तम: दिष्ट: उच्यते seventh Dishta is called
करूपश्च पृषध्रश्च दशमो वसुमान्स्मृत: ।
मनोर्वैवस्वतस्यैते दश पुत्रा: परन्तप ॥३॥
करूप:-च पृषध्र:-च Karoopa, and Prishadhra, and
दशम: वसुमान्-स्मृत: tenth Vasumaan is remembered as
मनो:-वैवस्वतस्य- Of Manu Vaivasvata
एते दश पुत्रा: परन्तप these ten sons, O Pareekshit!
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा: ।
अश्विनावृभवो राजन्निद्रस्तेषां पुरन्दर: ॥४॥
आदित्या: वसव: रुद्रा: the Aadityas, the Vasavas, the Rudras,
विश्वेदेवा: मरुत्-गणा: the Vishvedevas, the Maruts' group
अश्विनौ-ऋभव: राजन्- the two Ashwinis, and the Ribhus, O King!
इन्द्र:-तेषाम् पुरन्दर: Indra theirs is Purandara
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतम: ।
जमदग्निर्भरद्वाज इति सप्तर्षय: स्मृता: ॥५॥
कश्यप:-अत्रि:-वसिष्ठ:-च Kashyapa, Atri, Vashishtha, and
विश्वामित्र:-अथ गौतम: Vishwaamitra, then, Gautama,
जमदग्नि:-भरद्वाज: Jamadagni, Bharadwaaja,
इति सप्त-ऋषय: स्मृता: these seven seers are remembered as
अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥६॥
अत्र-अपि भगवत्-जन्म here also, The Lord's birth
कश्यपात्-अदिते:-अभूत् from Kashyapa to Aditi happened
आदित्यानाम्-अवरज: of the Aaditya's the youngest
विष्णु:-वामन-रूप-धृक् Vishnu, Vaamana's form assumed
संक्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते ।
भविष्याण्यथ वक्ष्यामि विष्णो: शक्त्यान्वितानि च ॥७॥
संक्षेपत: मया-उक्तानि in short, by me are told
सप्त मन्वन्तराणि ते of the seven Manvantaras to you
भविष्याणि-अथ वक्ष्यामि the later, now will say
विष्णो: शक्त्या अन्वितानि च with Vishnu's power filled and
विवस्वतश्च द्वे जाये विश्वकर्म सुते उभे ।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥८॥
विवस्वत:-च द्वे जाये of Vivasvaana and were two wives
विश्वकर्म सुते उभे of Vishvakarmaa daughters both
संज्ञा छाया च राजेन्द्र Sangyaa Chaayaa and O King!
ये प्राक्-अभिहिते तव about whom, were told you
तृतीयां वडवामेके तासां संज्ञासुतास्त्रय: ।
यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥९॥
तृतीयाम् वडवाम्-एके third Vadavaa some say
तासाम् संज्ञा-सुता:-त्रय: of them, Sangya's sons three
यम: यमी श्राद्धदेव:- Yama, Yamee, Shraaddhadeva,
छायाया:-च सुतान्-शृणु of Chaayaa and sons hear
सावर्णिस्तपती कन्या भार्या संवरणस्य या ।
शनिश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥१०॥
सावर्णि:-तपती कन्या Saavarnee , Tapati, the daughter,
भार्या संवरणस्य या wife of Samvarana who (was)
शनिश्चर:-तृतीय:-अभूत्- Shanishchara third was
अश्विनौ वडवा-आत्मजौ the two Ashwinis Vadavaa sons (were)
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनु: ।
निर्मोकविरजस्काद्या: सावर्णितनया नृप ॥११॥
अष्टमे-अन्तरे आयाते in the eighth Manvantara, coming
सावर्णि-भविता मनु: Saavarnee will be Manu
निर्मोक-विरजस्क-आद्या: Nirmoka, Virajask etc.,
सावर्णि-तनया: नृप Saavarnee sons, O King!
तत्र देवा: सुतपसो विरजो अमृतप्रभा: ।
तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥१२॥
तत्र देवा: सुतपस: then the gods, Sutapasa,
विरज: अमृतप्रभा: Viraja, Amritaprabhaa,
तेषाम् विरोचन-सुत: of them, Virochana's son
बलि:-इन्द्र: भविष्यति Bali, Indra will be
दत्त्वेमां याचमानाय विष्णवे य: पदत्रयम् ।
राद्धमिन्द्रपदं हित्वा तत: सिद्धिमवाप्स्यति ॥१३॥
दत्त्वा-इमाम् याचमानाय giving this, to the asking
विष्णवे य: पद-त्रयम् Lord Vishnu, who steps three
राद्धम्-इन्द्र-पदम् हित्वा glorious Indra's position giving up
तत: सिद्धिम्-अवाप्स्यति from that Siddhi will attain
योऽसौ भगवता बद्ध: प्रीतेन सुतले पुन: ।
निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥१४॥
य:-असौ भगवता बद्ध: who this, by The Lord bound
प्रीतेन सुतले पुन: delighted, in Sutala, again
निवेशित:-अधिके स्वर्गात्- established in more than the heaven,
अधुना-आस्ते स्वराट-इव today (also) remains Indra like
गालवो दीप्तिमान् रामो द्रोणपुत्र: कृपस्तथा ।
ऋष्यशृङ्ग: पितास्माकं भगवान्बादरायण: ॥१५॥
गालव: दीप्तिमान्-राम: Gaalava, Deeptimaan, Rama (Parashuraama)
द्रोण-पुत्र: कृप:-तथा Drona's son, Kripa, and
ऋष्यशृङ्ग: पिता-अस्माकम् Rishyashringa, father our
भगवान्-बादरायण: Lord Baadaraayana
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगत: ।
इदानीमासते राजन् स्वे स्वे आश्रममण्डले ॥१६॥
इमे सप्त-ऋषय:-तत्र these the seven seers, then,
भविष्यन्ति स्व-योगत: will become by their own Yoga
इदानीम्-आसते राजन् at present are O King!
स्वे स्वे आश्रम-मण्डले in own hermitage place
देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभु: ।
स्थानं पुरन्दरात्-हृत्वा बलये दास्यतीश्वर: ॥१७॥
देवगुह्यात्-सरस्वत्याम् from Devaguhya into Sarasvati
सार्वभौम इति प्रभु: Saarvabhauma, thus The Lord!
स्थानम् पुरन्दरात्-हृत्वा the heaven kingdom, from Purandara snatching
बलये दास्यति-ईश्वर: to Bali will give, The All Mighty
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥१८॥
नवम: दक्षसावर्णि:- ninth (will be) Dakshasaavarnee
मनु:-वरुण सम्भव: the Manu, from Varun born
भूतकेतु:-दीप्तकेतु:-इति- Bhootaketu, Deeptaketu, these
आद्या:-तत्-सुता: नृप and others will be his sons, O King!
पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥१९॥
पारा मरीचिगर्भ-आद्या: The Paaras, Mareechigarbhas, and others,
देवा: इन्द्र:-अद्भुत: स्मृत: the gods, Indra, Adbhuta named
द्युतिमत्-प्रमुखा:-तत्र Dyutimaan the main, there
भविष्यन्ति-ऋषय:-तत: will be the seers then
आयुष्मतोऽम्बुधारामृषभो भगवत्कला ।
भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुत: ॥२०॥
आयुष्मत:-अम्बुधाराम्- from Aayushmata, through Ambudhaaraa
ऋषभ: भगवत्-कला Rishabha, The Lord's part
भविता येन संराद्धाम् will be by whom conquered
त्रिलोकीम् भोक्ष्यते-अद्भुत: the three worlds, will rule Adbhuta
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो महान् ।
तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजा: ॥२१॥
दशम: ब्रह्म-सावर्णि:- the tenth Brahmasaavarnee
उपश्लोक-सुत: महान् Upashloka's son, the great, (will be)
तत्-सुता: भूरिषेण-आद्या: his sons Bhoorishena and others
हविष्मत्-प्रमुखा: द्विजा: Havishmata leading, the Braahmana (sages, seven)
हविष्मान्सुकृति: सत्यो जयो मूर्तिस्तदा द्विजा: ।
सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥२२॥
हविष्मान्-सुकृति: सत्य: Havishmaan, Sukriti, Satya,
जय: मूर्ति:-तदा द्विजा: Jaya, Moorti will then be the Braahmanas
सुवासन-विरुद्ध-आद्या: Suvaasana, Viruddha and others
देवा: शम्भु: सुरेश्वर: the gods, Shambhu the Indra
विष्वक्सेनो विषूच्यां तु शम्भो: सख्यं करिष्यति ।
जात: स्वांशेन भगवान्गृहे विश्वसृजो विभु: ॥२३॥
विष्वक्सेन: विषूच्याम् तु Vishwaksena, through Vishoochi
शम्भो: सख्यम् करिष्यति with Shambhu friends will make
जात: स्व-अंशेन भगवान्- born of His own essence, The Lord
गृहे विश्वसृज: विभु: in the house of Vishvasrija, Vishnu
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् ।
अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥२४॥
मनु:-वै धर्मसावर्णि:- Manu, indeed, Dharmasaavarnee
एकादशम: आत्मवान् the eleventh, in self revelling
अनागता:-तत्-सुता:-च in the future his sons, and
सत्यधर्म-आदय: दश Satyadharma and others
विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: ।
इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥२५॥
विहङ्गमा: कामगमा: the Vihangamaas, the Kaamagaas,
निर्वाणरुचय: सुरा: the Nirvaanaruchis the gods,
इन्द्र:-च वैधृत:-तेषाम्- Indra and Vaidhrita, their
ऋषय: च-अरुण-आदय: sages and Aruna and others
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृत: ।
वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥२६॥
आर्यकस्य सुत:-तत्र Aaryaka's son, then,
धर्मसेतु:-इति स्मृत: Dharmasetu, thus, known
वैधृतायाम् हरे:-अंश:- through Vaidhritaa, Shri Hari's part (incarnation)
त्रिलोकीम् धारयिष्यति the three worlds will maintain
भविता रुद्रसावर्णी राजन् द्वादशमो मनु: ।
देववानुपदेवश्च देवश्रेष्ठादय: सुता: ॥२७॥
भविता रुद्रसावर्णी राजन्- there will be Rudrasaavarnee, O King!
द्वादशम: मनु: the twelfth Manu
देववान्-उपदेव:-च Devavaan, Upadeva,
देवश्रेष्ठ-आदय: सुता: Devashreshtha and others, the sons
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादय: ।
ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादय: ॥२८॥
ऋतधामा च तत्र-इन्द्र: Ritadhaamaa and there Indra
देवा:-च हरित-आदय: the gods and Harita and others
ऋषय:-च तपोमूर्ति:- the sages and Tapomoorti,
तपस्वी-अग्नीध्रक-आदय: Tapasvee, Agnidhraka and others
स्वधामाख्यो हरेरंश: साधयिष्यति तन्मनो: ।
अन्तरं सत्यसहस: सूनृताया: सुतो विभु: ॥२९॥
स्वधामा-आख्य: हरे:-अंश: Svadhaamaa named, Shree Hari's part incarnation
साधयिष्यति तत्-मनो: will protect that Manu
अन्तरम् सत्यसहस: of Manvantara, Satyasahasa
सूनृताया: सुत: विभु: through Sunritaa, the son mighty
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् ।
चित्रसेनविचित्राद्या देवसावर्णिदेहजा: ॥३०॥
मनु:-त्रयोदश: भाव्य: Manu, the thirteenth, will be
देवसावर्णि-आत्मवान् Devasaavarnee, the soul enlightened
चित्रसेन-विचित्र-आद्या: Chitrasena, Vichitra, and others
देवसावर्णि-देहजा: of Devasaavarnee, the sons
देवा: सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पति: ।
निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥३१॥
देवा: सुकर्म-सुत्राम-संज्ञा: the gods Sukarma, Sutraama, named
इन्द्र: दिवस्पति: Indra, Divaspati,
निर्मोक-तत्त्वदर्श-अद्या: Nirmoka, Tattvadarsha and others
भविष्यन्ति-ऋषय:-तदा will be the sages then
देवहोत्रस्य तनय उपहर्ता दिवस्पते: ।
योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥३२॥
देवहोत्रस्य तनय: Devahotra's son
उपहर्ता दिवस्पते: the benefactor of (Indra) Divaspati
योगेश्वर: हरे:-अंश: as Yogeshvara, Lord Shree Hari's incarnation
बृहत्याम् सम्भविष्यति through Brihatee will be born
मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।
उरुगम्भीरबुध्याद्या इन्द्रसावर्णिवीर्यजा: ॥३३॥
मनु:-वा इन्द्रसावर्णि:- Manu, indeed Indrasaavarnee
चतुर्दशम एष्यति the fourteenth will come
उरु-गम्भीरबुद्धि-आद्या: Uru, Gambheerabuddhi and others
इन्द्रसावर्णि-वीर्यजा: Indrasaavarnee's sons
पवित्राश्चाक्षुषा देवा: शुचिरिन्द्रो भविष्यति ।
अग्निर्बाहु: शुचि: शुद्धो मागधाद्यास्तपस्विन: ॥३४॥
पवित्रा:-चाक्षुषा: देवा: the Pavitras, the Chakshushaas the gods
शुचि:-इन्द्र: भविष्यति Shuchi Indra will be
अग्नि:-बाहु: शुचि: शुद्ध: Agni, Baahu, Shuchi, Shuddha,
मागध-आद्या: तपस्विन: Maagadha and others, the sages
सत्रायणस्य तनयो बृहद्भानुस्तदा हरि: ।
वितानायां महाराज क्रियातन्तून्वितायिता ॥३५॥
सत्रायणस्य तनय: Satraayana's son
बृहद्भानु:-तदा हरि: Brihadbhaanoo, then Hari's incarnation
वितानायाम् महाराज through Vitaanaayaa, O Great King!
क्रियातन्तून्-वितायिता the ritual systems will promote
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तान्येभिर्मित: कल्पो युगसाहस्रपर्यय: ॥३६॥
राजन्-चतुर्दश-एतानि O King! fourteen these
त्रिकाल-अनुगतानि ते the three times covering, to you
प्रोक्तानि-एभि:-मित: कल्प: have been said, by these are measured the Kalpas
युग-साहस्र-पर्यय: of the Yugas of thousand times (revolution)
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदश:
अध्याय: ॥१३॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदश:
अध्याय: ॥१३॥ Thus ends the thirteenth discourse entitled 'A description of the (concluding eight) Manvantaras', in Book Eight of the great and glorious
चतुर्दश: अध्याय:
राजा-उवाच - The King said -
मन्वन्तरेषु भगवान्यथा मन्वादयस्त्विमे ।
यस्मिन्कर्मणि ये येन नियुक्तास्तद् वदस्व मे ॥१॥
मन्वन्तरेषु भगवान्-यथा in the Manvantaras, O Holy One!, how
मनु-आदय:-तु-इमे the Manu and others, these,
यस्मिन्-कर्मणि ये येन in what work they, by whom
नियुक्ता:-तत् वदस्व मे were engaged, that do tell me
ऋषि:-उवाच - The sage said -
मनवो मनुपुत्राश्च मुनयश्च महीपते ।
इन्द्रा: सुरगणाश्चैव सर्वे पुरुषशासना: ॥२॥
मनव: मनु-पुत्रा:-च the Manus, Manu's sons and
मुनय:-च महीपते the sages and O King!
इन्द्रा: सुरगणा:-च-एव the Indras, the gods and also
सर्वे पुरुष-शासना: everyone are by (Primary) Purusha commanded
यज्ञादयो या: कथिता: पौरुष्यस्तनवो नृप ।
मन्वादयो जगद्यात्रां नयन्त्याभि: प्रचोदिता: ॥३॥
यज्ञ-आदय: या: कथिता: Yagya and the others, those told about
पौरुष्य:-तनव: नृप of The Person's incarnations, O King!
मनु-आदय: जगत्-यात्राम् Manus and others, universe's administration
नयन्ति-आभि: प्रचोदिता: carry on, by these directed
चतुर्युगान्ते कालेन ग्रस्ताञ्छ्रुतिगणान्यथा ।
तपसा ऋषयोऽपश्यन्यतो धर्म: सनातन: ॥४॥
चतुर्युग-अन्ते कालेन ग्रस्तान्- of four Yugas at the end, by Time destroyed
श्रुति-गणान्-यथा the Vedic collection, when
तपसा ऋषय:-अपश्यन्- by asceticism the seers perceive
यत: धर्म: सनातन: from which the religion eternal
ततो धर्मं चतुश्पादं मनवो हरिणोदिता: ।
युक्ता: सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप ॥५॥
तत: धर्मम् चतुश्पादम् then, Dharma's the four pillars
मनव: हरिणा-उदिता: the Manus, by Shree Hari directed
युक्ता: सञ्चारयन्ति-अद्धा carefully promote, in fact
स्वे स्वे काले महीम् नृप in their own times, the earth O King!
पालयन्ति प्रजापाला यावदन्तं विभागश: ।
यज्ञभागभुजो देवा ये च तत्रान्विताश्च तै: ॥६॥
पालयन्ति प्रजापाला: protect the Prajaapalas, (the sons of Manus)
यावत्-अन्तम् विभागश: till the end, as per division
यज्ञ-भाग भुज: देवा: the sacrifice portions, enjoy the gods
ये च तत्र-अन्विता:-च तै: those and there connected and by them
इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् ।
भुञ्जान: पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥७॥
इन्द्र: भगवता दत्ताम् Indra, by The Lord given
त्रैलोक्य-श्रियम्-ऊर्जिताम् of the three worlds' the bounty limitless
भुञ्जान: पाति लोकान्-त्रीन् enjoys, protects the worlds three
कामम् लोके प्रवर्षति at will on the worlds, showers rain
ज्ञानं चानुयुगं ब्रूते हरि: सिद्धस्वरूपधृक् ।
ऋषिरूपधर: कर्म योगं योगेशरूपधृक् ॥८॥
ज्ञानम् च-अनुयुगम् ब्रूते wisdom and in every Yuga, teaches
हरि: सिद्ध-स्वरूप-धृक् Shree Hari, Siddha form taking
ऋषि-रूप-धर: कर्म seer form taking, (teaches) rituals
योगम् योगेश-रूप-धृक् Yoga (teaches) Yoga master's form taking
सर्गं प्रजेशरूपेण दस्यून्हन्यात् स्वराड्वपु: ।
कालरूपेण सर्वेषामभावाय पृथग्गुण: ॥९॥
सर्गम् प्रजेश-रूपेण creation, in the lord of created beings' form
दस्यून्-हन्यात् स्वराड्-वपु: robbers destroys, in the sole ruler form
काल-रूपेण सर्वेषाम्- in Time form of all
अभावाय पृथक्-गुण: disappearance, of diverse nature
स्तूयमानो जनैरेभिर्मायया नामरूपया ।
विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते ॥१०॥
स्तूयमान: जनै:-एभि:- exalted by people these
मायया नाम-रूपया by Maayaa, by (various) names and forms
विमोहित-आत्मभि:- deluded in themselves
नाना-दर्शनै:-न च दृश्यते by various philosophies, not and is perceived
एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् ।
यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविद: ॥११॥
एतत् कल्प विकल्पस्य this, of Kalpa and of Mahaa-kalpa,
प्रमाणम् परिकीर्तितम् duration is explained
यत्र मन्वन्तराणि-आहु:- where the Manvantaras, are said to be
चतुर्दश पुराविद: fourteen, by the knowers of the ancient lore
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे चतुर्दश: अध्याय: ॥१४॥ Thus ends the fourteenth discourse in Book Eight of the great and
पञ्चदश: अध्याय:
राजा-उवाच - The King said -
बल: पदत्रयं भूमे: कस्मात् हरिरयाचत ।
भूतेश्वर: कृपणवल्लब्धार्थोऽपि बबन्ध तम् ॥१॥
बल: पद-त्रयम् भूमे: from Bali, paces three, land,
कस्मात् हरि:-अयाचत why did Lord Shree Hari ask for
भूत-ईश्वर: कृपण-वत्- The creation's Lord, miserable like
लब्ध-अर्थ:-अपि बबन्ध तम् having attained the purpose even, bind him
एतद् वेदितुमिच्छामो महत् कौतुहलं हि न: ।
यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागस: ॥२॥
एतद् वेदितुम्-इच्छाम: this, to know we want
महत् कौतुहलम् हि न: great inquisitiveness
यज्ञेश्वरस्य पूर्णस्य of The Lord of the Yagyas, Fulfilment in Himself
बन्धनम् च-अपि-अनागस: bondage and also
श्री शुक उवाच - Shree Shuka said -
पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन् भृगुभि: स जीवित: ।
सर्वात्मना तानभजद् भृगून्बलि: शिष्यो महात्मार्थनिवेदनेन ॥३॥
पराजित-श्री:- deported of royal splendour
असुभि:-च हापित: हि-इन्द्रेण of life and deprived, indeed by Indra
राजन्-भृगुभि: स: जीवित: O King! By Bhrigu, he was restored to life
सर्व-आत्मना तान्- with all his being, them
अभजत् भृगुन्-बलि: शिष्य: served the Bhrigus, Bali the disciple
महात्मा-अर्थ-निवेदनेन the great, by all means offering
तं ब्राह्मणा भृगव: प्रीयमाणा अयाजयन्विश्वजिता त्रिणाकम् ।
जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावा: ॥४॥
तम् ब्राह्मणा: भृगव: him, by the Braahmanas, of the Bhrigus,
प्रीयमाणा: अयाजयन्- delighted, made to do the sacrifice
विश्वजिता त्रिणाकम् Vishvajita, the heavens
जिगीषमाणम् विधिना- willing to conquer, by systematically
अभिषिच्य महा-अभिषेकेण consecrating (him Bali), with grand ablution
महानुभावा: the well versed
ततो रथ: काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णा: ।
ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ॥५॥
तत: रथ: then, a chariot
काञ्चन-पट्ट-नद्ध: with golden sheet encased
हया:-च हर्यश्व-तुरङ्ग-वर्णा: horses and Indra's horses of colour
ध्वज:-च सिंहेन विराजमान: phaetons and with lion embossed
हुताशनात्-आस from the fire emerged
हविर्भि:-इष्टात् by oblations offered
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् ।
पितामहस्तस्य ददौ च मालामम्लानपुष्पां जलजं च शुक्र: ॥६॥
धनु:-च दिव्यम् पुरट-उपनद्धम् bow and divine, with gold plated
तूणौ-अरिक्तौ a pair of quivers, inexhaustible
कवचम् च दिव्यम् armour and divine
पितामह:-तस्य ददौ grandfather his gave
च मालाम्-अम्लान-पुष्पाम् and garland of ever-fresh flowers
जलजम् च शुक्र: conch and Shukra
एवं स विप्रार्जितयोधनार्थस्तै:कल्पितस्वस्त्ययनोऽथ विप्रान् ।
प्रदक्षिणीकृत्य कृतप्रणाम: प्रह्लादमामन्त्र्य नमश्चकार॥७॥
एवम् स: विप्र-अर्जित- in this manner, he, by the Braahmanas gained,
योधन-अर्थ:-तै: कल्पित- the weapons needed, and by them conducted
स्वस्ति-अयन:-अथ विप्रान् auspicious rites, then, to the Braahmanas
प्रदक्षिणीकृत्य कृत-प्रणाम: circumambulated and bowed down
प्रह्लादम्-आमन्त्र्य Prahlaada and consulting
नम:-चकार and bowing performed
अथारुह्य रथं दिव्यं भृगुदत्तं महारथ: ।
सुस्रग्धरोऽथ संनह्य धन्वी खड्गी धृतेषुधि: ॥८॥
अथ-आरुह्य रथम् दिव्यम् then, mounting the chariot divine,
भृगु-दत्तम् महारथ: by Shukra given, the great charioteer (Bali)
सुस्रग्धर:-अथ संनह्य beautiful garland adorning, then, armed with armour
धन्वी खड्गी धृत-इषुधि: bow, sword, and holding a quiver
हेमाङ्गदलसद्बाहु: स्फुरन्मकरकुण्डल: ।
रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥९॥
हेम-अङ्गद-लसत्-बाहु: golden armlets adorned arms
स्फुरन्-मकर-कुण्डल: resplendent alligator ear-rings
रराज रथम्-आरूढ: shone the chariot mounted
धिष्ण्यस्थ इव हव्यवाट् in the sacrificial pit present, like the fire
तुल्यैश्वर्यबलश्रीभि: स्वयूथैर्दैत्ययूथपै: ।
पिबद्भिरिव खं दृग्भिर्दहद्भि: परिधीनिव ॥१०॥
तुल्य-ऐश्वर्य-बल-श्रीभि: equal in wealth, strength, and splendour
स्व-यूथै:-दैत्य-यूथपै: by own generals, the Daitya generals
पिबद्भि:-इव खम् दृग्भि:- drank as though the sky, with the eyes,
दहद्भि: परिधीन्-इव burning, the quarters as it were
वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभु: ।
ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥११॥
वृत: विकर्षन् along with and leading
महतीम्-आसुरीम् the great of the Asuras,
ध्वजिनीम् विभु: the army, the powerful (Bali)
ययौ-इन्द्र-पुरीम् marched to Indra's city
स्वृद्धाम् the most prosperous
कम्पयन्-इव रोदसी shaking as though the heaven
रम्यामुपवनोद्यानै: श्रीमद्भिर्नन्दनादिभि: ।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतै: ॥१२॥
रम्याम्-उपवन-उद्यानै: with enchanting gardens
श्रीमद्भि:-नन्दन-आदिभि: orchards splendid, Nandana and others
कूजत्-विहङ्ग-मिथुनै:- with cooing birds' pairs
गायन्-मत्त-मधुव्रतै: humming of intoxicated black bees
प्रवालफलपुष्पोरुभारशाखामरद्रुमै: ।
हंससारसचक्राह्वकारण्डवकुलाकुला: ।
नलिन्यो यत्र क्रीडन्ति प्रमदा: सुरसेविता: ॥१३॥
प्रवाल-फल-पुष्प-उरु-भार- leaves, fruits, flowers great loaded
शाखा-अमर-द्रुमै: branches, celestial trees
हंस-सारस-चक्राह्व- swans, cranes, Chakrahvas,
कारण्ड-वकुल-आकुला: Kaarandas, Vakulas full of
नलिन्य: यत्र क्रीडन्ति lotuses where sporting
प्रमदा: सुर-सेविता: the celestial ladies, with the gods attending
आकाशगङ्गया देव्या वृतां परिखभूतया ।
प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥१४॥
आकाशगङ्गया देव्या by the heavenly Ganga, the worshipful
वृताम् परिख-भूतया surrounded, moat becoming
प्राकारेण-अग्नि-वर्णेन by a boundary wall of fire colour (gold)
साट्टालेन-उन्नतेन च with watchtowers high and
रुक्मपट्टकपाटैश्च द्वारै: स्फटिकगोपुरै: ।
जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥१५॥
रुक्म-पट्ट-कपाटै:-च with gold plated doors and
द्वारै: स्फटिक-गोपुरै: doorways crystal made city gates
जुष्टाम् विभक्त-प्रपथाम् consisting, different pathways
विश्वकर्म-विनिर्मिताम् by Vishvakarmaa constructed
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युतान् ।
शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभि: ॥१६॥
सभा-चत्वर-रथ्य-आढ्याम् halls, square platforms, for chariots to be driven
सभा-चत्वर-रथ्य-आढ्याम् halls, square platforms, for chariots to be driven on,
विमानै:-न्यर्बुदै:-युतान् with Ariel car tens of thousands consisting
शृङ्गाटकै:-मणिमयै:- crossroads inlaid with gems
वज्र-विद्रुम-वेदिभि: diamonds and corals platforms
यत्र नित्यवयोरूपा: श्यामा विरजवासस: ।
भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नय: ॥१७॥
यत्र नित्य-वय:-रूपा: where always of age beautiful
श्यामा: विरज-वासस: sixteen, neatly dressed
भ्राजन्ते रूपवत्-नार्य: shine, beauty itself, like the women
हि-अर्चिभि:-इव वह्नय: indeed by the flames like of the fire
सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम् ।
यत्रामोदमुपादाय मार्गे आवाति मारुत: ॥१८॥
सुर-स्त्री-केश-विभ्रष्ट- from the celestial ladies, locks of hair, fallen
नव-सौगन्धिक-स्रजाम् new fragrance garlands
यत्र-आमोदम्-उपादाय where the fragrance carrying
मार्गे आवाति मारुत: on the pathways, wafts the breeze
हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना ।
पाण्डुरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रिया: ॥१९॥
हेम-जालाक्ष-निर्गच्छत्- from golden windows floating out
धूमेन-अगुरु-गन्धिना fumes of Agaru incense smell
पाण्डुरेण प्रतिच्छन्न- yellowish, covered
मार्गे यान्ति सुरप्रिया: the paths walk the celestial dames
मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलभीभिरावृताम् ।
शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् ॥२०॥
मुक्ता-वितानै:- with pearl canopies
मणि-हेम-केतुभि:- gems and golden phaetons
नाना-पताका- various flags
वलभीभि:-आवृताम् on the balconies fixed
शिखण्डि-पारावत- peacocks pigeons
भृङ्ग-नादिताम् black bees resonant with
वैमानिक-स्त्री- of the celestial ladies
कल-गीत-मङ्गलाम् sweet songs are auspicious
मृदङ्गशङ्खानकदुन्दुभिस्वनै: सतालवीणामुरजर्ष्टिवेणुभि: ।
नृत्यै: सवाद्यैरुपदेवगीतकैर्मनोरमां स्वप्रभया जितप्रभाम् ॥२१॥
मृदङ्ग-शङ्ख-आनक-दुन्दुभि- by the Mridanga, conchs, drums, trumpets'
स्वनै: सताल-वीणा- sounds, with the beats, Veena
मुरज-ऋष्टि-वेणुभि: Muraja, Rishti, flutes
नृत्यै: सवाद्यै:-उपदेव-गीतकै:- dances, with instruments, demigods’ songs
मनोरमाम् स्वप्रभया enchanting, by own lustre
जित-प्रभाम् outshines the splendour
यां न व्रजन्त्यधर्मिष्ठा: खला भूतद्रुह: शठा: ।
मानिन: कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥२२॥
याम् न व्रजन्ति-अधर्मिष्ठा: where, do not venture unrighteous,
खला: भूतद्रुह: शठा: wicked, enemies of the beings, fraudulent,
मानिन: कामिन: लुब्धा: proud, lustful, greedy
एभि:-हीना: व्रजन्ति यत् these bereft of, approach where
तां देवधानीं स वरूथिनीपतिर्बहि: समन्ताद् रुरुधे पृतन्यया ।
आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम् ॥२३॥
ताम् देवधानीम् that gods' city
स: वरूथिनी-पति:- he the demon army chief (Bali)
बहि: समन्ताद् on the outside, from all sides
रुरुधे पृतन्यया besieged with his huge army
आचार्य-दत्तम् by the preceptor (Shukraachaaryaa) given
जलजम् महा-स्वनम् conch of loud sound
दध्मौ प्रयुञ्जन्- blew infusing
भयम्-इन्द्र-योषिताम् fear in Indra's women
मघवांस्तमभिप्रेत्य बले: परममुद्यमम् ।
सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥२४॥
मघवान्-तम्-अभिप्रेत्य Indra, him understanding
बले: परमम्-उद्यमम् Bali's great effort
सर्व-देव-गण-उपेत: all the gods hosts along with
गुरुम्-एतत्-उवाच ह to his preceptor this said indeed
भगवन्नुद्यमो भूयान्बलेर्न: पूर्ववैरिण: ।
अविषह्यमिमं मन्ये केनासीत्तेजसोर्जित: ॥२५॥
भगवन्-उद्यम: भूयान्- O lord! the undertaking is great
बले:-न: पूर्व-वैरिण: of Bali, our, old enemy
अविषह्यम्-इमम्- मन्ये irresistible this I consider
केन-आसीत्-तेजसा-ऊर्जित: by what has he in power increased
नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वर: ।
पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।
दहन्निव दिशो दृग्भि: संवर्ताग्निरिवोत्थित: ॥२६॥
न-एनम् कश्चित् कुत: वा-अपि not him any one, anywhere or also
प्रतिव्योढुम्-अधीश्वर: to beat back is capable
पिबन्-इव मुखेन-इदम् drinking as if, by mouth this (creation)
लिहन्-इव दिश: दश: licking as if, the directions ten
दहन्-इव दिश: दृग्भि: burning as if, the direction by his sight
संवर्त-अग्नि:-इव-उत्थित: the dissolution fire like sprung up
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपो: ।
ओज: सहो बलं तेजो यत एतत्समुद्यम: ॥२७॥
ब्रूहि कारणम्-एतस्य do say the cause of his
दुर्धर्षत्वस्य मत्-रिपो: formidableness of my enemy
ओज: सह: बलम् तेज: strength, capacity, power and glory
यत: एतत्-समुद्यम: whence this thorough effort
गुरु:-उवाच - The Preceptor (Brihaspati) said -
जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम् ।
शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभि: ॥२८॥
जानामि मघवन्-शत्रो:- I know, O Indra! the enemy's
उन्नते:-अस्य कारणम् rise, of this the cause
शिष्याय-उपभृतम् तेज:- for the disciple, infused energy
भृगुभि:-ब्रह्म-वादिभि: by the Bhrigus, the Veda exponents
भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् ।
नास्य शक्त: पुर: स्थातुं कृतान्तस्य यथा जना: ॥२९॥
भवत्-विध: भवान्-वा-अपि your likes, you or also
वर्जयित्वा-ईश्वरम् हरिम् except The Lord Shree Hari
न-अस्य शक्त: पुर: स्थातुम् not in his is capable in front to stand
कृतान्तस्य यथा जना: in (front of) Death, like the people
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
यात कालं प्रतीक्षन्तो यत: शत्रोर्विपर्यय: ॥३०॥
तस्मात्-निलयम्-उत्सृज्य therefore, get out of sight, giving up
यूयम् सर्वे त्रिविष्टपम् you all, the heaven
यात कालम् प्रतीक्षन्त: at passing of Time awaiting
यत: शत्रो:-विपर्यय: when of the enemy, reverse (of fortune)
एष विप्रबलोदर्क: सम्प्रत्यूर्जितविक्रम: ।
तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥३१॥
एष: विप्र-बल-उदर्क: he, by the Braahmana's strength is rising
सम्प्रति-अर्जित-विक्रम: right now, has gained power
तेषाम्-एव-अपमानेन by their alone insult
सानुबन्ध: विनङ्क्ष्यति with all materials, will perish
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणा: कामरूपिण: ॥३२॥
एवम् सुमन्त्रित-अर्था:-ते thus well advised, with meaning, they
गुरुणा-अर्थ-अनुदर्शिना by the preceptor, the meaning well knowing
हित्वा त्रिविष्टपम् जग्मु:- giving up the heaven, went
गीर्वाणा: काम-रूपिण: the gods, at will taking form
देवेष्वथ निलीनेषु बलिर्वैरोचन: पुरीम् ।
देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥३३॥
देवेषु-अथ निलीनेषु the gods having disappeared
बलि:-वैरोचन: पुरीम् Bali, the son of Virochana, the city,
देवधानीम्-अधिष्ठाय of Amaraavati occupied
वशम् निन्ये जगत्-त्रयम् and in control took, the worlds three
तं विश्वजयिनं शिष्यं भृगव: शिष्यवत्सला: ।
शतेन हयमेधानामनुव्रतमयाजयन् ॥३४॥
तम् विश्व-जयिनम् शिष्यम् him, the world conqueror disciple,
भृगव: शिष्य-वत्सला: the Bhrigus, the disciple fond of
शतेन हय-मेधानाम्- by hundred horse sacrifices
अनुव्रतम्-अयाजयन् to propitiate got to be conducted
ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।
कीर्तिं दिक्षु वितन्वान: स रेज उडुराडिव ॥३५॥
तत:-तत्-अनुभावेन then, by its effect
भुवन-त्रय-विश्रुताम् in the worlds three renown
कीर्तिम् दिक्षु वितन्वान: fame in the quarters spreading
स: रेजे उडुराड्-इव he shone, moon like
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।
कृतकृत्यमिवात्मानं मन्यमानो महामना: ॥३६॥
बुभुजे च श्रियम् स्वृद्धाम् enjoyed and the wealth overflowing,
द्विज-देव-उपलम्भिताम् by the Braahmanas, as gods bestowed
कृतकृत्यम्-इव-आत्मानम् fulfilled of desires like, himself
मन्यमान: महामना: considered the high souled
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे पञ्चदश: अध्याय: ॥१५॥ Thus ends the fifteenth discourse, in Book Eight of the great and
षोडश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।
हृते त्रिविष्टपे दैत्यै: पर्यतप्यदनाथवत् ॥१॥
एवम् पुत्रेषु नष्टेषु in this manner, the sons having vanished
देव-माता-अदिति:-तदा the gods' mother Aditi, then,
हृते त्रिविष्टपे दैत्यै: having taken over the heaven by the Daityas,
पर्यतप्यत्-अनाथ-वत् was distressed, help-less like
एकदा कश्यपस्तस्या आश्रमं भगवानगात् ।
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥२॥
एकदा कश्यप:-तस्या: one day, Kashyapa, to her
आश्रमम् भगवान्-अगात् hermitage, the all-powerful went
निरुत्सवम् निरानन्दम् cheerless, joyless
समाधे:-विरत:-चिरात् Samadhi having completed for long
स पत्नीं दीनवदनां कृतासनपरिग्रह: ।
सभाजितो यथान्यायमिदमाह कुरूद्वह: ॥३॥
स: पत्नीम् दीन-वदनाम् he, to his wife with sad face
कृत-आसन-परिग्रह: having seat taken,
सभाजित: यथा-न्यायम्- welcomed as per required
इदम्-आह कुरूद्वह: this said, O Kurus' Scion!
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् ।
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिन: ॥४॥
अपि-अभद्रम् न विप्राणाम् is it that misfortune, not on the Braahmanas
भद्रे लोके-अधुना-आगतम् O Good Lady! on the people, now has come
न धर्मस्य न लोकस्य not on righteousness, not on the people
मृत्यो:-छन्द-अनुवर्तिन: Death's commands the followers
अपि वा कुशलं किञ्चिद् गृहेषु गृहमेधिनि ।
धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥५॥
अपि वा कुशलम् किञ्चिद् or is all well, somewhat,
गृहेषु गृह-मेधिनि in some houses of the householders
धर्मस्य-अर्थस्य कामस्य of righteousness, wealth, and desires
यत्र योग: हि-अयोगिनाम् where, Yoga is of the non-yogis
अपि वातिथयोऽभ्येत्य कुटुम्भासक्तया त्वया ।
गृहादपूजिता याता: प्रत्युत्थानेन वा क्वचित् ॥६॥
अपि वा-अतिथय:-अभ्येत्य is it or, guests having come
कुटुम्भ-आसक्तया त्वया family engrossed in by you
गृहात्-अपूजिता: याता: from the house unhonoured, went away,
प्रत्युत्थानेन वा क्वचित् having not risen, or at all
गृहेषु येष्वतिथयो नार्चिता: सलिलैरपि ।
यदि निर्यान्ति ते नूनं फेरुराजगृहोपमा: ॥७॥
गृहेषु येषु-अतिथय: the houses in which, the guests
न-अर्चिता: सलिलै:-अपि are not entertained with water even
यदि निर्यान्ति ते नूनम् if they go away, those (houses) certainly
फेरुराज-गृह-उपमा: are jackal leader's den like
अप्यग्नयस्तु वेलायां न हुता हविषा सति ।
त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥८॥
अपि-अग्नय:-तु वेलायाम् is it (that) the fires indeed, in time
न हुता: हविषा सति were not fed with oblations, O Good Lady!
त्वया-उद्विग्न-धिया भद्रे by you distressed minded, O Blessed One!
प्रोषिते मयि कर्हिचित् being away me, at some time
यत्पूजया कामदुघान्याति लोकान्गृहान्वित: ।
ब्राह्मणोऽग्निश्च वै विष्णो: सर्वदेवात्मनो मुखम् ॥९॥
यत्-पूजया काम-दुघान्- by whose worship desires granting
याति लोकान्-गृहान्वित: avail the worlds, the householders
ब्राह्मण:-अग्नि:-च वै विष्णो: Braahmanas, fire and indeed Lord Vishnu
सर्व-देव-आत्मन: मुखम् of all the gods the soul, the mouth
अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि ।
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥१०॥
अपि सर्वे कुशलिन:- is it that all is well
तव पुत्रा: मनस्विनि with your sons, O Proud Lady!
लक्षये-अस्वस्थम्-आत्मानम् see unwell yourself,
भवत्या लक्षणै:-अहम् by your signs, I
अदिति: -उवाच - Aditi said -
भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च ।
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥११॥
भद्रम् द्विज-गवाम् ब्रह्मन्- all is well with Braahmanas, cows, O Holy sage!
धर्मस्य-अस्य जनस्य च of righteousness this person and
त्रिवर्गस्य परम् क्षेत्रम् of the three pursuits, the best field
गृहमेधिन्-गृहा: इमे the houses these
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सव: ।
सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥१२॥
अग्नय:-अतिथय: भृत्या: the fires, guests, servants,
भिक्षव: ये च लिप्सव: beggars, those and seeking (something)
सर्वम् भगवत: ब्रह्मन्- all (of them) of your, O holy Brahman!
अनुध्यानात्-न रिष्यति by thinking of, is not neglected
को नु मे भगवन्कामो न सम्पद्यते मानस: ।
यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥१३॥
क: नु मे भगवन्-काम: which not my, O Holy One! desire
न सम्पद्यते मानस: is not fulfilled of the mind
यस्या: भवान्-प्रजाध्यक्ष: of whom, you, The lord of the beings,
एवम् धर्मान्-प्रभाषते thus, the duties teaches
तवैव मारीच मन:शरीरजा: प्रजा इमा: सत्त्वरजस्तमोजुष: ।
समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वर: ॥१४॥
तव-एव मारीच of you alone, O Son of Marichi!
मन:-शरीर-जा: प्रजा: इमा: from mind and body born, people these
सत्त्व-रज:-तम:-जुष: of Sattva, Rajas and Tamas containing
सम: भवान्-तासु-असुर-आदिषु equal are you, to them the Asuras and others
प्रभो तथापि भक्तं O Lord! Yet, the devotees
भजते महेश्वर: attached to, is The Supreme Lord
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।
हृतश्रियो हृतस्थानान्सपत्नै: पाहि न: प्रभो ॥१५॥
तस्मात्-ईश भजन्त्या: मे therefore, of the serving me,
श्रेय:-चिन्तय सुव्रत good do consider, O Holy vowed One!
हृत-श्रिय: हृत-स्थानान्- of snatched wealth, snatched residence
सपत्नै: पाहि न: प्रभो by the enemies, save us O Master!
परैर्विवासिता साहं मग्ना व्यसनसागरे ।
ऐश्वर्यं श्रीर्यश: स्थानं हृतानि प्रबलैर्मम ॥१६॥
परै:-विवासिता सा-अहम् by the foes, exiled that I,
मग्ना व्यसन-सागरे am merged in sorrow ocean
ऐश्वर्यम् श्री:-यश: स्थानम् fortune, splendour, glory and abode
हृतानि प्रबलै:-मम are usurped by the powerful, mine
यथा तानि पुन: साधो प्रपद्येरन् ममात्मजा: ।
तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥१७॥
यथा तानि पुन: साधो so that those again, O Noble One!
प्रपद्येरन् मम-आत्मजा: are retrieved by my sons
तथा विधेहि कल्याणम् thus advise the good
धिया कल्याणकृत्तम by judgement, O Great Benefactor!
श्री शुक उवाच - Shree Shuka said -
एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।
अहो मायाबलं विष्णो: स्नेहबद्धमिदं जगत् ॥१८॥
एवम्-अभ्यर्थित:-अदित्या thus entreated by Aditi
क:-ताम्-आह स्मयन्-इव Kashyapa, to her said, smiling as if
अहो माया-बलम् विष्णो: Alas! Maya's might of Vishnu!
स्नेह-बद्धम्-इदम् जगत् affection bound this world
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृते: पर: ।
कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥१९॥
क्व देह: भौतिक:-अनात्मा where stands the body of elements, soul-less
क्व च-आत्मा प्रकृते: पर: and where the soul, from Prakriti beyond
कस्य के पति-पुत्र-आद्या: whose who are husband sons and others
मोह: एव हि कारणम् ignorant attachment alone indeed is the cause
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥२०॥
उपतिष्ठस्व पुरुषम् worship The Person
भगवन्तम् जनार्दनम् Supreme, of the devotees The Saviour
सर्व-भूत-गुहा-वासम् of all created beings, in the heart residing
वासुदेवम् जगत्-गुरुम् Vaasudeva, The universe preceptor
स विधास्यति ते कामान् हरिर्दीनानुकम्पन: ।
अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥२१॥
स: विधास्यति ते कामान्- He will fulfil your desires,
हरि:-दीने-अनुकम्पन: Shree Hari, to the miserable, The compassionate
अमोघा भगवद्-भक्ति:- unfailing is Lord's devotion
न-इतरा-इति-मति:-मम not of others, this is opinion mine
अदिति:-उवाच - Aditi said -
केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् ।
यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥२२॥
केन-अहम् विधिना ब्रह्मन्- by what I method, O Holy sage!
उपस्थास्ये जगत्पतिम् serve The universe's Ruler
यथा मे सत्य-सङ्कल्प: so that my, The True Resolved
विदध्यात् स: मनोरथम् may conduct, He, the desire
आदिश्य त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।
आशु तुष्यति मे देव: सीदन्त्या: सह पुत्रकै: ॥२३॥
आदिश्य त्वम् द्विज-श्रेष्ठ instruct you, O foremost of the Braahmanas!
विधिम् तत्-उपधावनम् method that of worship
आशु तुष्यति मे देव: soon is pleased on me The Lord
सीदन्त्या: सह पुत्रकै: suffering with the sons
कश्यप उवाच - Kashyapa said -
एतन्मे भगवान्पृष्ट: प्रजाकामस्य पद्मज: ।
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥२४॥
एतत्-मे भगवान्-पृष्ट: this, by me, The Lord was asked
प्रजा-कामस्य पद्मज: progeny desiring, The lotus-born (Brahmaa)
यत्-आह ते प्रवक्ष्यामि what (He) said, to you will tell
व्रतम् केशव-तोषणम् the vow, Keshava to please
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रत: ।
अर्चयेदरविन्दाक्षं भक्त्या परमयान्वित: ॥२५॥
फाल्गुनस्य-अमले पक्षे in (the month of) Phaalguna, in the bright fortnight
द्वादश-आहम् पयोव्रत: for twelve days, milk subsisting on
अर्चयेत्-अरविन्द-आक्षम् should worship the lotus eyed (Lord Vishnu)
भक्त्या परमया-अन्वित: with devotion, deeply involved
सिनीवाल्यां मृदाऽऽलिप्य स्नायात् क्रोडविदीर्णया ।
यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥२६॥
सिनीवाल्याम् मृदा-आलिप्य on the last day of dark fortnight, mud smearing
स्नायात् क्रोड-विदीर्णया should bathe, by the boar dug
यदि लभ्येत वै स्रोतसि- if available, indeed in a stream
एतम् मन्त्रम्-उदीरयेत् this Mantra should chant
त्वं देव्यादिवराहेण रसाया: स्थानमिच्छता ।
उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥२७॥
त्वम् देवि-आदि-वराहेण 'You, O Goddess! by the Primary boar,
त्वम् देवि-आदि-वराहेण
रसाया: स्थानम्-इच्छता from the deluge, footage seeking
उद्धृतासि नम:-तुभ्यम् was lifted up, Hail to You!
पाप्मानम् मे प्रणाशय sins mine, do destroy'
निर्वर्तितात्मनियमो देवमर्चेत् समाहित: ।
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥२८॥
निर्वर्तित-आत्म-नियम: completing own daily routine
देवम्-अर्चेत् समाहित: The Lord should worship with concentration
अर्चायाम् स्थण्डिले सूर्ये in the worship in the image, alter, Sun
जले वह्नौ गुरौ-अपि Water, Fire, Preceptor also
नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥२९॥
नम:-तुभ्यम् भगवते Hail to You! The Supreme
पुरुषाय महीयसे Person, The greatest of the great,
सर्व-भूत-निवासाय in all the created beings, The One residing,
वासुदेवाय साक्षिणे to Vaasudeva The Witness
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे ॥३०॥
नम:-अव्यक्ताय सूक्ष्माय 'Hail to The Unmanifest! The Subtle
नम:-अव्यक्ताय सूक्ष्माय
प्रधान-पुरुषाय च The Pradhaan, Purusha and
चतुर्विंशत्-गुणज्ञाय twenty-four categories The Knower of
गुण-संख्यान-हेतवे of the Twenty fifth and of Saankhya founder
नमो द्विशीर्ष्णे त्रिपदे चतु:शृङ्गाय तन्तवे ।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नम: ॥३१॥
नम: द्वि-शीर्ष्णे त्रि-पदे Hail to The Two headed, The Three feeted
चतु:-शृङ्गाय तन्तवे The One with four horns, Bestower of rewards
सप्त-हस्ताय यज्ञाय The Seven Armed, the sacrifices presider
त्रयी-विद्या-आत्मने नम: three knowledged, the form Hail
नम: शिवाय रुद्राय नम: शक्तिधराय च ।
सर्वविद्याधिपतये भूतानां पतये नम: ॥३२॥
नम: शिवाय रुद्राय Salutations to Shiva, to Rudra
नम: शक्ति-धराय च salutations to The wielder of power and
सर्व-विद्या-अधिपतये to, of all the knowledge the Commander
भूतानाम् पतये नम: to, of the ghosts The Ruler, Hail!
नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥३३॥
नम: हिरण्य-गर्भाय Salutations to Hiranyagarbha (Brahmaa)
प्राणाय जगत्-आत्मने to The Life force, to The universe Soul
योग-ऐश्वर्य शरीराय to Yoga's powers, to (Yoga) Personified,
नमस्ते योग-हेतवे salutations, to the Yoga cause
नमस्ते आदिदेवाय साक्षिभूताय ते नम: ।
नारायणाय ऋषये नराय हरये नम: ॥३४॥
नम:-ते आदि-देवाय salutations to You, The first Deity!
साक्षि-भूताय ते नम: to The Witness standing as, to You salutations
नारायणाय ऋषये To Naaraayana, the sage
नराय हरये नम: to Nara, to Hari salutations
नमो मरकतश्यामवपुषेऽधिगतश्रिये ।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥३५॥
नम: मरकत-श्याम-वपुषे- salutations to emerald green bodied
अधिगत-श्रिये The winner of Shree
केशवाय नम:-तुभ्यम् to Keshava, salutations to You
नमस्ते पीत-वाससे salutations to the Yellow clothed
त्वं सर्ववरद: पुंसां वरेण्य वरदर्षभ ।
अतस्ते श्रेयसे धीरा: पादरेणुमुपासते ॥३६॥
त्वम् सर्व-वरद: पुंसाम् You of all boons restorer, of the people
वरेण्य वरद-ऋषभ worthy to be sought, of boon Bestower The Chief
अत:-ते श्रेयसे धीरा: therefore Your for blessedness, the wise
पाद-रेणुम्-उपासते feet dust worship
अन्ववर्तन्त यं देवा: श्रीश्च तत्पादपद्मयो: ।
स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥३७॥
अन्ववर्तन्त यम् देवा: keep on serving, Whom the gods
श्री:-च तत्-पाद-पद्मयो: Shree and Those feet lotuses'
स्पृहयन्त इव-आमोदम् seeking as though the fragrance,
भगवान्-मे प्रसीदताम् That Lord, to me may be gracious
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।
अर्चयेच्छ्रद्धया युक्त: पाद्योपस्पर्शनादिभि: ॥३८॥
एतै:-मन्त्रै:-हृषीकेशम्- by these Mantras, Lord Vishnu
आवाहन पुरस्कृतम् invoking first
अर्चयेत्-श्रद्धया युक्त: should worship with devotion imbued,
पाद्य-उपस्पर्शन-आदिभि: by feet washing, touching (the water) and such
अर्चित्वा गन्धमाल्याद्यै: पयसा स्नपयेद् विभुम् ।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्तत: ।
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ॥३९॥
अर्चित्वा गन्ध-माल्य-आद्यै: having worshipped with incense, garlands, others
पयसा स्नपयेत् विभुम् with milk bathe The Lord
वस्त्र-उपवीत-आभरण- with raiment's, sacred thread, jewels,
पाद्य-उपस्पर्शनै:-तत: washing of feet, water touching then
गन्ध-धूप-आदिभि:-च-अर्चेत्- with sandal paste, incense, etc. and worship
द्वादश-अक्षर विद्यया by the twelve letter Mantra
शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।
ससर्पि: सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥४०॥
शृतम् पयसि नैवेद्यम् cooked milk (and rice), oblation (of food)
शाल्यन्नम् विभवे सति and rice, capacity if is there
ससर्पि: सगुडम् दत्त्वा with ghee, with jaggery offering
जुहुयात्-मूल-विद्यया pour as oblation with the root Mantra
निवेदितं तद् भक्ताय दद्याद् भुञ्जीत वा स्वयम् दत्त्वाऽऽचमनमर्चित्वा ताम्बूलं च निवेदयेत्
निवेदितं तद् भक्ताय दद्याद् भुञ्जीत वा स्वयम् दत्त्वाऽऽचमनमर्चित्वा ताम्बूलं च निवेदयेत्
निवेदितम् तत् भक्ताय the offered, that to the devotee
दद्याद् भुञ्जीत वा स्वयम् should give, eat or oneself
दत्त्वा-आचमनम्-अर्चित्वा giving water to wash mouth, after worshipping,
ताम्बूलम् च निवेदयेत् betel leaf and should offer
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभि: प्रभुम् ।
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥४२॥
जपेत्-अष्ट-उत्तर-शतम् should repeat One hundred and eight times
स्तुवीत स्तुतिभि: प्रभुम् glorify with praises The Lord
कृत्वा प्रदक्षिणम् भूमौ having circumambulating on the ground
प्रणमेत् दण्डवत्-मुदा bow, lying like a log, delighted
कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् तत: ।
द्व्यवरान्भोजयेद् विप्रान्पायसेन यथोचितम् ॥४३॥
कृत्वा शिरसि तत्-शेषाम् lifting to the head, all that remaining (flowers
कृत्वा शिरसि तत्-शेषाम् lifting to the head, all that remaining (flowers etc.)
देवम्-उद्वासयेत् तत: the Lord should request to disperse, then
द्व्यवरान्-भोजयेद् विप्रान्- two good should feed Braahmanas
पायसेन यथा-उचितम् with rice boiled in milk and sugar, as proper
भुञ्जीत तैरनुज्ञात: शेषं सेष्ट: सभाजितै:।
ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥४४॥
भुञ्जीत तै:-अनुज्ञात: should eat, by them ordered
शेषम् सेष्ट: सभाजितै: the rest with the others, the respectful
ब्रह्मचारी-अथ तत्-रात्र्याम् celibate then, that night
श्वो-भूते प्रथमे-अहनि till next morning, the first day
स्नात: शुचिर्यथोक्तेन विधिना सुसमाहित: ।
पयसा स्नापयित्वार्चेद् यावद्व्रतसमापनम् ॥४५॥
स्नात: शुचि:-यथा-उक्तेन having bathed, being pure, as explained
विधिना सुसमाहित: by that method, with concentrated mind
पयसा स्नापयित्वा-अर्चेत् with the milk boiled rice should worship,
यावत्-व्रत-समापनम् till, The vow ends
पयोभक्षो व्रतमिदं चरेद् विष्ण्वर्चनादृत: ।
पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥४६॥
पय:-भक्ष: व्रतम्-इदम् चरेत् milk subsisting on, vow this must carry out
विष्णु-अर्चन-आद्दृत: Vishnu's worship with reverence
पूर्व-वत्-जुहुयात्-अग्निम् before like, pour oblation in the fire
ब्राह्मणान्-च-अपि भोजयेत् Braahmanas and also should feed
एवं त्वहरह: कुर्याद् द्वादशाहं पयोव्रत: ।
हरेराराधनं होममर्हणं द्विजतर्पणम् ॥४७॥
एवम् तु-अहरह: कुर्याद् like this, indeed, every day, should do
द्वादश-आहम् पयोव्रत: for twelve days, 'Payovrata'
हरे:-आराधनम् होमम्- with Shree Hari's worship, pouring oblations,
अर्हणम् द्विज-तर्पणम् worshipping the image, Braahmana's feeding
प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशी ।
ब्रह्मचर्यमध:स्वप्नं स्नानं त्रिषवणं चरेद् ॥४८॥
प्रतिपत्-दिनम्-आरभ्य from first day starting
यावत्-शुक्ल-त्रयोदशी till, of bright (fortnight) the thirteenth
ब्रह्मचर्यम्-अध:-स्वप्नम् strict continence, on floor sleeping
स्नानम् त्रि-षवणम् चरेत् bathing three times should observe
वर्जयेदसदालापं भोगानुच्चावचांस्तथा ।
अहिंस्र: सर्वभूतानां वासुदेवपरायण: ॥४९॥
वर्जयेत्-असत्-आलापम् should refrain from vile conversation
भोगान्-उच्च-अवचान्-तथा luxuries great and small, and
अहिंस्र: सर्व-भूतानाम् non-violent to all created beings
वासुदेव-परायण: Vaasudeva devoted to
त्रयोदश्यामथो विष्णो: स्नपनं पञ्चकैर्विभो: ।
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदै: ॥५०॥
त्रयोदश्याम्-अथ: विष्णो: on the thirteenth (day) then, of Lord Vishnu
स्नपनम् पञ्चकै:-विभो: bathing, with five (things) of The Lord
कारयेत्-शास्त्र-दृष्टेन should be performed, by the scriptures shown
विधिना विधि-कोविदै: by the methods, by the method knowers
पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जित: ।
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥५१॥
पूजाम् च महतीम् कुर्यात् worship and extensive should do
वित्त-शाठ्य विवर्जित: wealth squinting refraining from
चरुम् निरूप्य पयसि 'Charu' oblation pouring in the milk
चरुम् निरूप्य पयसि
शिपिविष्टाय विष्णवे for the rays emitting Lord Vishnu
शृतेन तेन पुरुषं यजेत सुसमाहित: ।
नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम् ॥५२॥
शृतेन तेन पुरुषम् cooked, by that (Charu), The Supreme Person
यजेत सुसमाहित: should propitiate with concentration of mind
नैवेद्यम् च-अति-गुण-वत्- food and with high nutritious value
दद्यात्-पुरुष-तुष्टिदम् should offer to Supreme Person, gratify Him
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभि: ।
तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरे: ॥५३॥
आचार्यम् ज्ञान-सम्पन्नम् the Preceptor, with knowledge accomplished
वस्त्र-आभरण धेनुभि: with raiment's, jewels, cows
तोषयेत्-ऋत्विज:-च-एव should gratify, the priests and also
तत्-विधि-आराधनम् हरे: that kind of worship only of Shree Hari
भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते ।
अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागता: ॥५४॥
भोजयेत् तान् गुणवता should feed them with nutritious
सत्-अन्नेन शुचि-स्मिते pure food, O You with beautiful smile!
अन्यान्-च ब्राह्मणान्-शक्त्या others and Braahmanas, according to capacity
ये च तत्र समागता: who and there have come
दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हत: ।
अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥५५॥
दक्षिणाम् गुरवे दद्यात्- fees for rituals, to the Preceptor should give
ऋत्विग्भ्य:-च यथा-अर्हत: to the priests and as per merit
अन्न-आद्येन-अश्वपाकान्-च with food and other (things), the Chaandaala and
प्रीणयेत्-समुपागतान् please, (who may have) come there
भुक्तवत्सु च सर्वेषु दीनान्धकृपणेषु च ।
विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभि: ॥५६॥
भुक्तवत्सु च सर्वेषु having eaten and by all
दीन-अन्ध-कृपणेषु च poor, blind, miserable and
विष्णो:-तत्-प्रीणनम् Vishnu's that delight,
विद्वान्-भुञ्जीत सह बन्धुभि: the wise should eat with kinsmen
नृत्यवादित्रगीतैश्च स्तुतिभि: स्वस्तिवाचकै: ।
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥५७॥
नृत्य-वादित्र-गीतै:-च with dance, music, songs and
स्तुतिभि: स्वस्ति-वाचकै: praises, blessing words
कारयेत्-तत्-कथाभि:-च should get by His stories and
पूजाम् भगवत:-अन्वहम् worship of The Lord, every day
एतत्पयोव्रतं नाम पुरुषाराधनं परम् ।
पितामहेनाभिहितं मया ते समुदाहृतम् ॥५८॥
एतत्-पयोव्रतम् नाम this 'Payovrata' named
पुरुष-आराधनम् परम् The Primary Person's worship highest
पितामहेन-अभिहितम् by Brahmaa told
मया ते समुदाहृतम् by me to you, is well explained
त्वं चानेन महाभागे सम्यक्चीर्णेन केशवम् ।
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥५९॥
त्वम् च-अनेन महाभागे you and by this, O Noble lady!
सम्यक्-चीर्णेन केशवम् well observed, Keshava
आत्मना शुद्ध-भावेन with mind full of pure devotion
नियत-आत्मा भज-अव्ययम् controlling the self, worship the Immortal
अयं वै सर्वयज्ञाख्य: सर्वव्रतमिति स्मृतम् ।
तप:सारमिदं भद्रे दानं चेश्वरतर्पणम् ॥६०॥
अयम् वै सर्व-यज्ञ-आख्य: this indeed, the universal sacrifices is called
सर्व-व्रतम्-इति स्मृतम् the universal vow, thus is known to be
तप:-सारम्-इदम् भद्रे of all the austerities the essence this, O Good lady!
दानम् च-ईश्वर-तर्पणम् charity and for God's gratification
त एव नियमा: साक्षात्त एव च यमोत्तमा: ।
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षज: ॥६१॥
ते एव नियमा: साक्षात्- those alone are observances, in fact,
ते एव च यम-उत्तमा: those alone and disciplines best
तप: दानम् व्रतम् यज्ञ: austerities, charity, vows, sacrifice,
येन तुष्यति-अधोक्षज: by which is gratified Lord Vishnu
तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर ।
भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥६२॥
तस्मात्-एतत्-व्रतम् भद्रे therefore, this vow, O Good lady!
प्रयता श्रद्धया चर with discipline and reverence observe
भगवान्-परितुष्ट:-ते The Lord gratified, to you
वरान्-आशु विधास्यति boons soon will grant
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अदितिपयोव्रतकथनं नाम षोडश:
अध्याय: ॥१६॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अदितिपयोव्रतकथनं नाम षोडश:
अध्याय: ॥१६॥ Thus ends the sixteenth discourse entitled 'The procedure of (observing
सप्तदश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
इत्युक्ता सादिती राजन्स्वभर्त्रा कश्यपेन वै ।
अन्वतिष्ठद् व्रतमिदं द्वादशाहमतन्द्रिता ॥१॥
इत्युक्ता सा-अदिती राजन्- thus told, she, Aditi, O King! (Pareekshit)
स्व-भर्त्रा कश्यपेन वै by her husband Kashyapa indeed
अन्वतिष्ठत् व्रतम्-इदम् observed the vow this
द्वादश-आहम्-अतन्द्रिता for twelve days, carefully
चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम् ।
प्रगृह्येन्द्रियदुष्टाश्वान्मनसा बुद्धिसारथि: ॥२॥
चिन्तयन्ती-एकया बुद्ध्या contemplating with singular mind
महा-पुरुषम्-ईश्वरम् The Supreme Person, The Almighty
प्रगृह्य-इन्द्रिय-दुष्ट-अश्वान्- holding on the senses', unruly horses
मनसा बुद्धि-सारथि: by the mind, the intellect as the charioteer
मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।
वासुदेवे समाधाय चचार ह पयोव्रतम् ॥३॥
मन:-च-एकाग्रया बुद्ध्या mind and concentrated intellect
भगवति-अखिल-आत्मनि in The Lord, in The Universal Soul
वासुदेवे समाधाय in Vaasudeva firmly placing
चचार ह पयोव्रतम् conducted indeed the Payovrata.
तस्या: प्रादुरभूत्तात भगवानादिपूरुष: ।
पीतवासाश्चतुर्बाहु: शङ्खचक्रगदाधर: ॥४॥
तस्या: प्रादुरभूत्-तात for her appeared, O Dear One!
भगवान्-आदि-पूरुष: The Almighty, The Primary Person
पीत-वासा:-चतु:-बाहु: in yellow clad, four armed
शङ्ख-चक्र-गदा-धर: conch, discuss, mace bearing
तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।
ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥५॥
तम् नेत्र-गोचरम् वीक्ष्य Him, with the eyes visible seeing
सहसा-उत्थाय सादरम् suddenly, rising with reverence
ननाम भुवि कायेन दण्डवत् bowed down on the ground, with body like a staff
प्रीति-विह्वला with joy and love overwhelmed
सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा ।
बभूव तूष्णीं पुलकाकुलाकृतिस्तद्दर्शनात्युत्सवगात्रवेपथु: ॥६॥
सा-उत्थाय बद्ध-अञ्जलि:- she arising, with joined palms
ईडितुम् स्थिता न-उत्सेहे to glorify stood, did not venture (to do so)
आनन्द-जल-आकुल-ईक्षणा for the joyful tears bewildered eyes
बभूव तूष्णीम् पुलक- became quiet, horripilation
आकुल-आकृति:-तत्-दर्शन- induced body, His sight
अति-उत्सव-गात्र-वेपथु: very festival, body shivering
प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्यदिति: कुरूद्वह ।
उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥७॥
प्रीत्या-शनै:-गद्गदया गिरा lovingly, slowly, with faltering voice
हरिम् तुष्टाव सा Shree Hari extolled she
देवी-अदिति: कुरूद्वह the heavenly Aditi, O Scion of Kurus!
उद्वीक्षती सा पिबति-इव looking up she, drinking as though
चक्षुषा रमा-पतिम् with the eyes, Ramaa's spouse,
यज्ञ-पतिम् जगत्-पतिम् Sacrifices' Lord, the universe's Ruler
अदिति:-उवाच - Aditi said -
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रव: श्रवणमङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदयाद्य शं न: कृधीश भगवन्नसि दीननाथ: ॥८॥
यज्ञ-ईश यज्ञ-पुरुष- of sacrifices The Lord, sacrifice Personified
अच्युत तीर्थ-पाद तीर्थ-श्रव: O Immortal! of holy feet, of holy fame
श्रवण-मङ्गल नाम-धेय to hear auspicious names having
आपन्न-लोक-वृजिन-उपशम- of the distressed people, sorrows ending
उदय-आद्य शम् न: कृधि- manifested The Primary ,happiness our cause
ईश भगवन्-असि दीन-नाथ: O Almighty! The Ruler! Are of the helpless, Saviour
विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहितपूर्णबोधव्यापादितात्मतमसे हरये नमस्ते ॥९॥
विश्वाय विश्वभवन स्थिति to The Universe (itself), for the universe's
विश्वाय विश्वभवन स्थिति to The Universe (itself), for the universe's creation
संयमाय स्वैरं गृहीत- sustenance and dissolution, at Your Own will taken
पुरु-शक्ति-गुणाय भूम्ने many powers and Gunas, O Infinite Lord!
स्वस्थाय शश्वत्-उपबृंहित established in Own Self, ever shining
पूर्ण-बोध-व्यापादिता perfect wisdom dispersed
आत्म-तमसे हरये नमस्ते Self ignorance, to Shree Hari Hail!
आयु: परं वपुरभीष्टमतुल्यलक्ष्मीर्द्योभूरसा: सकलयोगगुणास्त्रिवर्ग: ।
ज्ञानं च केवलमनन्त भवन्ति तुष्टात् त्वत्तो नृणां किमु सपत्न जयादिराशी: ॥१०॥
आयु: परम् वपु:-अभीष्टम्- age longest, body as desired
अतुल्य-लक्ष्मी:-द्यो:-भू-रसा: unequal wealth, of heaven, earth, nether worlds,
सकल-योग-गुणा:-त्रि-वर्ग: all the Yoga powers, the three pursuits
ज्ञानम् च केवलम्-अनन्त wisdom and of Truth, O Infinite Lord!
भवन्ति तुष्टात् त्वत्-त: नृणाम् happen by Your gratification from You, to people
किमु सपत्न जय-आदि:-आशी: what of, enemy conquering and such blessings
श्री शुक उवाच - Shree Shuka said -
अदित्यैवं स्तुतो राजन्भगवान्-पुष्करेक्षण: ।
क्षेत्रज्ञ: सर्वभूतानामिति होवाच भारत ॥११॥
अदित्या-एवम् स्तुत: राजन्- by Aditi thus extolled, O King!
भगवान्-पुष्कर-ईक्षण: The Almighty lotus eyed
क्षेत्रज्ञ: सर्वभूतानाम्- The Inner Controller of all created beings
इति ह-उवाच भारत this indeed said, O Scion of Bhaarata!
श्री भगवान-उवाच - The Lord said -
देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् ।
यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामत: ॥१२॥
देवमात:-भवत्या मे O Mother of gods! your to Me
विज्ञातम् चिर-काङ्क्षितम् is known the long desired
यत् सपत्नै:-हृत-श्रीणाम् that by the enemies usurped wealth
च्यावितानाम् स्वधामत: and expelled from own abode
तान्विनिर्जित्य समरे दुर्मदानसुरर्षभान् ।
प्रतिलब्धजयश्रीभि: पुत्रैरिच्छस्युपासितुम् ॥१३॥
तान्-विनिर्जित्य समरे them defeating in the battle
दुर्मदान्-असुर-ऋषभान् the proud demon chiefs
प्रतिलब्ध-जय-श्रीभि: regaining glory and wealth
पुत्रै:-इच्छसि-उपासितुम् with the sons want to live
इन्द्रज्येष्ठै: स्वतनयैर्हतानां युधि विद्विषाम् ।
स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दु:खिता: ॥१४॥
इन्द्र-ज्येष्ठै: स्व-तनयै:- by Indra the eldest and others own sons
हतानाम् युधि विद्विषाम् slain in the battle, the enemies
स्त्रिय: रुदन्ती:-आसाद्य (their) wives weeping, coming
द्रष्टुम्-इच्छसि दु:खिता: to see, want to, sorrowful
आत्मजान्सुसमृद्धांस्त्वं प्रत्याहृतयश: श्रिय: ।
नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥१५॥
आत्मजान्-सुसमृद्धान्-त्वम् your sons well established, you,
प्रत्याहृत-यश: श्रिय: having regained fame and fortune
नाक-पृष्ठम्-अधिष्ठाय heaven over ruling
क्रीडत: द्रष्टुम्-इच्छसि and revelling, to see want to
प्रायोऽधुना तेऽसुरयूथनाथा अपारणीया इति देवि मे मति: ।
यत्तेऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥१६॥
प्राय:-अधुना ते-असुर-यूथ-नाथा: in general, at present, those Asura army
प्राय:-अधुना ते-असुर-यूथ-नाथा: in general, at present, those Asura army generals
अपारणीया: इति देवि मे मति: are invincible, this, O celestial lady! is My
अपारणीया: इति देवि मे मति: are invincible, this, O celestial lady! is My opinion
यत्-ते-अनुकूल-ईश्वर-विप्र- because in their favour are Time, Braahmanas,
गुप्ता: न विक्रम:-तत्र protection, not valour there
सुखम् ददाति will happiness give
अथाप्युपायो मम देवि चिन्त्य: सन्तोषितस्य व्रतचर्यया ते ।
ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥१७॥
अथ-अपि-उपाय: मम then, even, solution by Me
देवि चिन्त्य: सन्तोषितस्य O Celestial lady! Has to be thought, gratified
व्रत-चर्यया ते by vow carrying out of yours
मम-अर्चनम् न-अर्हति My worship does not deserve
गन्तुम्-अन्यथा श्रद्धा-अनुरूपम् to go otherwise reverence conduced
फल-हेतुकत्वात् result orienting
त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडित: ।
स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्यधिष्ठित: ॥१८॥
त्वया-अर्चित: च-अहम्- by you worshipped and I
अपत्य-गुप्तये पयोव्रतेन- for the sons' protection, by the 'Payovrata'
अनुगुणम् समीडित: as per rituals and singing of praises
स्व-अंशेन पुत्रत्वम्-उपेत्य with My own part, son's role taking on,
ते सुतान् गोप्ता-अस्मि your sons, protect will
मारीच-तपसि-अधिष्ठित: in Kashyapa's procreative energy entering
उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।
मां च भावयती पत्यावेवंरूपमवस्थितम् ॥१९॥
उपधाव पतिम् भद्रे serve your husband, O Blessed One!
प्रजापतिम्-अकल्मषम् Kashyapa, sinless
माम् च भावयती पत्यौ- Me and thinking of in your husband,
एवम् रूपम्-अवस्थितम् in this form present
नैतत् परस्मा आख्येयं पृष्टयापि कथंचन ।
सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥२०॥
न-एतत् परस्मै आख्येयम् not this, to others should be told
पृष्टया-अपि कथंचन if asked even, ever
सर्वम् सम्पद्यते देवि all is successful, O Celestial Lady!
देव-गुह्यम् सुसंवृतम् the gods' plans well guarded
श्री शुक उवाच - Shree Shuka said -
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।
अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभो: ॥२१॥
एतावत्-उक्त्वा भगवान्- like this having said, The Almighty
तत्र-एव-अन्तरधीयत there only disappeared
अदिति:-दुर्लभम् लब्ध्वा Aditi, the rare acquiring,
हरे:-जन्म-आत्मनि प्रभो: Shree Hari's birth in herself, The Lord
उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ।
स वै समाधियोगेन कश्यपस्तदबुध्यत ॥२२॥
उपाधावत् पतिम् भक्त्या served her husband with devotion
परया कृत-कृत्य-वत् supreme, as if having accomplished her purpose
स: वै समाधि-योगेन he certainly, by mental concentration applying
कश्यप:-तत्-अबुध्यत Kashyapa that knew
प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षण: ।
सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।
समाहितमना राजन्दारुण्यग्निं यथानिल: ॥२३॥
प्रविष्टम्-आत्मनि हरे:-अंशम् entered in himself, Lord Shree Hari's part
हि-अवितथ-ईक्षण: indeed (he) of true insight
स:-अदित्याम् वीर्यम्-आधत्त he in Aditi the seed placed
तपसा चिर-सम्भृतम् by asceticism for long conserved
समाहित-मना राजन्- with a concentrated mind, O King!
दारुणि-अग्निम् यथा-अनिल: in the wood, the fire, like the wind
अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।
हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभि: ॥२४॥
अदिते:-अधिष्ठितम् गर्भम् in Aditi's, has entered the womb
भगवन्तम् सनातनम् The Lord Eternal
हिरण्यगर्भ: विज्ञाय Brahmaa, coming to know,
समीडे गुह्य-नामभि: praised by secret names
ब्रह्मा-उअवाच - Brahma said -
जयोरुगाय भगवन्नुरुक्रम नमोस्तु ते ।
नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नम: ॥२५॥
जय-उरुगाय भगवन्- salutations to the much extolled, The Lord
उरुक्रमे नम:-अस्तु ते of great valour, Hail be to You
नम: ब्रह्मण्य-देवाय Hail to The Braahmanas' loving God
त्रि-गुणाय नम: नम: The Controller of the three Gunas, Hail! Hail!
नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।
त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥२६॥
नमस्ते पृश्नि-गर्भाय salutations to Prishni's womb laying in
वेद-गर्भाय वेधसे by the Vedas well concealed, The Maker ( of all)
त्रि-नाभाय त्रि-पृष्ठाय three worlds in navel, One, three worlds beyond
शिपि-विष्टाय विष्णवे in the inside of the beings present, Lord Vishnu
त्वमादिरन्तो भुवनस्य मध्यमनन्तशक्तिं पुरुषं यमाहु: ।
कालो भवानाक्षिपतीश विश्वं स्रोतो यथान्त: पतितं गभीरम् ॥२७॥
त्वम्-आदि:-अन्त: भुवनस्य You are The beginning, The end, of the cosmos,
मध्यम्-अनन्त-शक्तिम् the middle, of unbounded valour
पुरुषम् यम्-आहु: Purusha Who is called
काल: भवान्-अक्षिपति-ईश Time You are, Who draws O Lord!
विश्वम् स्रोत: यथा- the world's stream, just as
अन्त: पतितम् गभीरम् in it fallen deep
त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णु: ।
दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु ॥२८॥
त्वम् वै प्रजानाम् You indeed of the created beings
स्थिर-जङ्गमानाम् the immobile and mobile
प्रजापतीनाम्-असि of the lords of creation, are
सम्भ-विष्णु: The creator Vishnu
दिवौकसाम् देव of the gods O Lord
दिव:-च्युतानाम् from the heavens fallen
परायणम् नौ:-इव the Support, boat like
मज्जत:-अप्सु drowning in the water
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदश: अध्याय:
अष्टादश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
इत्थं विरिञ्चस्तुतकर्मवीर्य: प्रादुर्बभूवामृतभूरदित्याम् ।
चतुर्भुज: शङ्खगदाब्जचक्र: पिशङ्गवासा नलिनायतेक्षण: ॥१॥
इत्थम् विरिञ्च-स्तुत-कर्म-वीर्य: when, thus, Brahmaa, extolled exploits, glory
प्रादुर्बभूव-अमृत-भू:-अदित्याम् descended Immortality personified, in Aditi
चतु:-भुज: शङ्ख-गदा-अब्ज-चक्र: four armed, conch, mace, lotus, discus,
पिशङ्ग-वासा नलिन-आयत-ईक्षण: in yellow garment, lotus big eyes
श्यामावदातो झषराजकुण्डलत्विषोल्लसच्छ्रीवदनाम्बुज: पुमान् ।
श्रीवत्सवक्षा वलयाङ्गदोल्लसत्किरीटकाञ्चीगुणचारुनूपुर: ॥२॥
श्याम-अवदात: झषराज- dark complexioned, alligator
कुण्डल-त्विष-उल्लसत्- earrings brightly shining
श्री-वदन-अम्बुज: पुमान् beauty of the face lotus, The Supreme Person
श्रीवत्स-वक्षा: वलय- with Shree Vatsa mark on bosom, bangles,
अङ्गद:-उल्लसत्-किरीट- armlets, shining diadem
काञ्ची-गुण चारु-नूपुर: girdle strings, charming anklets
मधुव्रत व्रातविघुष्टया स्वया विराजित: श्रीवनमालया हरि: ।
प्रजापतेर्वेश्मतम: स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभ: ॥३॥
मधुव्रत व्रात-विघुष्टया by the black bees' swarms’ buzzing
स्वया विराजित: own adorned with
श्री-वन-मालया हरि: beautiful sylvan flowers' garland Lord Shree Hari
प्रजापते:-वेश्म-तम: created beings' lord (Kashyapa's) house darkness
स्व-रोचिषा विनाशयन् by Own lustre destroying
कण्ठ-निविष्ट-कौस्तुभ: in the neck placed the Kaustubha
दिश: प्रसेदु: सलिलाशयास्तदा प्रजा: प्रहृष्टा ऋतवो गुणान्विता: ।
द्यौरन्तरिक्षं क्षितिरग्निजिह्वा गावो द्विजा: संजहृषुनगाश्च ॥४॥
दिश: प्रसेदु: सलिल-आशया:- quarters rejoiced, the water bodies
तदा प्रजा: प्रहृष्टा: then the people were delighted
ऋतव: गुण-अन्विता: the seasons of their qualities were full
द्यौ:-अन्तरिक्षम् क्षिति:- the heavens, the Ariel regions, earth,
अग्नि-जिह्वा गाव: द्विजा: fire for tongues, (the gods) cows, Braahmanas
संजहृषु:-नगा:-च were joyful the mountains and
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभु: ।
सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥५॥
श्रोणायाम् श्रवण-द्वादश्याम् in the Shrona (moon), in Shraavana, the twelfth
मुहूर्ते-अभिजिति प्रभु: in the (auspicious hour) Abhijit, The Lord
सर्वे नक्षत्र-तारा-आद्या: all the lunar mansions, stars and others
चक्रु:-तत्-जन्म दक्षिणम् rendered His birth propitious
द्वादश्यां सवितातिष्ठन्मध्यंदिनगतो नृप ।
विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरे: ॥६॥
द्वादश्याम् सविता-तिष्ठन्- on the twelfth, the Sun placed
मध्यम्-दिन-गत: नृप in mid-day of birth, O King!
विजया नाम सा प्रोक्ता 'Vijayaa' name, that called by
विजया नाम सा प्रोक्ता
यस्याम् जन्म विदु:-हरे: in which the birth, the wise say of Lord Shree Hari
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानका: ।
चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥७॥
शङ्ख-दुन्दुभय: नेदु:- the conches, drums, sounded,
मृदङ्ग-पणव-आनका: the double drums, clay tom-toms and tabors
चित्र-वादित्र-तूर्याणाम् various flutes and trumpets
निर्घोष:-तुमुल:-अभवत् cacophony great became
प्रीताश्चाप्सरसोऽनृत्यन्गधर्वप्रवरा जगु: ।
तुष्टुवुर्मुनयो देवा मनव: पितरोऽग्नय: ॥८॥
प्रीता:-च-अप्सरस:-अनृत्यन्- delighted and the Apsaras danced
गन्धर्व-प्रवरा: जगु: the Gandharva chiefs sang,
तुष्टुवु:-मुनय: देवा: sang praises the sages, the gods,
मनव: पितर:-अग्नय: the Manus, the manes, the fires
सिद्धविद्याधरगणा: सकिंपुरुषकिन्नरा: ।
चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमा: ॥९॥
सिद्ध-विद्याधर गणा: of Siddhaas, Vidyaadharas, the hosts
स-किंपुरुष-किन्नरा: along with the Kimpurushas, the Kinnaras,
चारणा: यक्ष-रक्षांसि the Chaaranaas, the Yaksha, the Raakshasas
सुपर्णा: भुजग-उत्तमा: the birds, the Naagas foremost
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगा: ।
आदित्या आश्रमपदं कुसुमै: समवाकिरन् ॥१०॥
गायन्त:-अति-प्रशंसन्त: singing, very much appreciating,
नृत्यन्त: विबुध-अनुगा: dancing, gods' attendents
आदित्या: आश्रम-पदम् on Aditi's hermitage place
कुसुमै: समवाकिरन् with flowers scattered
दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता ।
गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मित: ॥११॥
दृष्ट्वा-अदिति:-तम् seeing Aditi Him
निज-गर्भ-सम्भवम् परम् पुमांसम् her own womb sprung, The Supreme Person
मुदाम्-आप विस्मिता much joy attained and was astonished
गृहीत-देहम् निज-योग-मायया taken up a body, by (His) Own Yoga Maayaa
प्रजापति:-च-आह Prajaapati (Kashyapa) and said
जय-इति विस्मित: 'Victory' thus, with wonder
जय-इति विस्मित:
यद् तद् वपुर्भाति विभूषणायुधैरव्यक्तचिद् व्यक्तमधारयद्-हरि: ।
बभूव तेनैव स वामनो वटु: संपश्यतोर्दिव्यगतिर्यथा नट: ॥१२॥
यद् तद् वपु:-भाति which that form is pleasant
विभूषण-आयुधै: with ornaments and weapons
अव्यक्त-चित् the unmanifest consciousness
व्यक्तम्-अधारयत्-हरि: the manifest took on Shree Hari
बभूव तेन-एव स: became by that (form) only, He
वामन: वटु: संपश्यत: the short Braahmana boy, as looked on
दिव्य-गति: यथा नट: the divine moving, as an actor
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षय: ।
कर्माणि कारयामासु: पुरस्कृत्य प्रजापतिम् ॥१३॥
तम् वटुम् वामनम् दृष्ट्वा him the Braahmana boy of short stature, seeing
मोदमाना महर्षय: delighted, the great sages
कर्माणि कारयामासु: rituals made to be carried out
पुरस्कृत्य प्रजापतिम् putting in front Prajaapati (Kashyapa)
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् ।
बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥१४॥
तस्य-उपनीयमानस्य his sacred thread being given
सावित्रीम् सविता-अब्रवीत् the Gaayatri Mantra, the Sun pronounced
बृहस्पति:-ब्रह्म-सूत्रम् Brihaspati, Brahma-sootra
मेखलाम् कश्यप:-अददात् Mekhalaa (a cord made of grass) Kashyapa gave
ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पति: ।
कौपीनाच्छादनं माता द्यौश्छत्रं जगत: पते: ॥१५॥
ददौ कृष्ण-अजिनम् भूमि:- gave deer skin, the earth
दण्डम् सोम: वनस्पति: the staff, Moon, the vegetation lord
कौपीन-आच्छादनम् माता the cloth strip and the cloth for waist, mother
द्यौ:-छत्रम् जगत: पते: sky, the umbrella, to the universe's Lord
कमण्डलुं वेदगर्भ: कुशान्सप्तर्षयो ददु: ।
अक्षमालां महाराज सरस्वत्यव्ययात्मन: ॥१६॥
कमण्डलुम् वेदगर्भ: Kamandalu, Brahmaa
कुशान्-सप्तर्षय: ददु: Kusha (grass) the Saptarshees gave
अक्षमालाम् महाराज Rudraaksha rosary, O Great King!
सरस्वती-अव्यय-आत्मन: Saraswati, to the immortal Lord
तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् ।
भिक्षां भगवती साक्षादुमादादम्बिका सती ॥१७॥
तस्मा इति-उपनीताय to Him, thus being consecrated
यक्षराट् पात्रिकाम्-अदात् Kubera, a vessel (for alms) gave
भिक्षाम् भगवती साक्षात्- alms, The Goddess herself
उमा-अदात्-अम्बिका सती Umaa gave, The Universal Mother virtuous
स ब्रह्मवर्चसेनैवं सभां संभावितो वटु: ।
ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिष: ॥१८॥
स: ब्रह्म-वर्चसेन-एवम् He, by Brahmanic glory, thus
सभाम् संभावित: वटु: in the assembly, honoured, the short celibate
ब्रह्मर्षि-गण सञ्जुष्टाम्- the Braahmana sages hosts consisting
अति-अरोचत मारिष: very much outshone, the worthy
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् ।
परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद् द्विज: ॥१९॥
समिद्धम्-आहितम् वह्निम् lighted, consecrated, the (sacred) fire,
कृत्वा परिसमूहनम् performing of sprinkling of water
परिस्तीर्य समभ्यर्च्य around it, well worshipped
समिद्भि:-अजुहोद् द्विज: with fuel and ghee, offered the Braahmana
श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगुणामुपकल्पितैस्तत: ।
जगाम तत्राखिलसारसंभृतो भारेण गां सन्नमयन्पदे पदे ॥२०॥
श्रुत्वा-अश्वमेधै:-यजमानम्- hearing, by Ashvamedha (Yagyas) conducting,
ऊर्जितम् बलिम् भृगुणाम्- The mighty Bali, by the Bhrigu's
उपकल्पितै:-तत: instigated there
जगाम तत्र-अखिल-सार- went there, with all the strength
संभृत: भारेण गाम् enriched, with (Own) weight the earth
सन्नमयन्-पदे पदे dis-balancing on every step
तं नर्मदायास्तट उत्तरे बलेर्य ऋत्विजस्ते भृगुकच्छसंज्ञके ।
प्रवर्तयन्तो भृगव: क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् ॥२१॥
तम् नर्मदाया:-तट उत्तरे Him, on Narmada (river's) bank, on the North
बले:-ये ऋत्विज:- of Bali those performing priests
ते भृगुकच्छ-संज्ञके they, on Bhrigukacha named
प्रवर्तयन्त: भृगव: were conducting the Bhrigus,
क्रतु-उत्तमम् व्यचक्षत-आरात्- the sacrifice of highest order, saw close by
उदितम् यथा रविम् arising alike the Sun
त ऋत्विजो यजमान: सदस्या हतत्विषो वामनतेजसा नृप ।
सूर्य: किलायात्युत वा विभावसु: सनत्कुमारोऽथ दिदृक्षया क्रतो: ॥२२॥
ते ऋत्विज: यजमान: they, the presiding priests, the sacrificer (Bali),
सदस्या: हत-त्विष: the members, robbed of brilliance
वामन-तेजसा नृप by the dwarf Brahmachari's lustre, O King!
सूर्य: किल-आयाति-उत वा Sun definitely is coming, indeed or
विभावसु: सनत्कुमार:-अथ the Fire, Sanatkumaar, then
दिदृक्षया क्रतो: to see the sacrifice
इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामन: ।
छत्रं सदण्डं सजलं कमण्डलुं विवेश विभ्रत्-हयमेधवाटम् ॥२३॥
इत्थम् स-शिष्येषु भृगुषु- like this, with the disciples, the Bhrigus
अनेकधा वितर्क्यमाण: in many ways conjecturing
भगवान्-स: वामन: The Lord, He, divine Dwarf
छत्रम् सदण्डम् umbrella, with the staff,
सजलम् कमण्डलुम् विवेश with water the Kamandalu, entered
विभ्रत् हयमेध-वाटम् carrying, the Ashvamedha enclosure
मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् ।
जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥२४॥
मौञ्ज्या मेखलया वीतम्- by the 'Munja' grass cord encircled,
उपवीत-अजिन-उत्तरम् like the sacred thread, deer-skin as upper garment
जटिलम् वामनम् विप्रम् mysterious dwarf (form), Braahmana
माया-माणवकम् हरिम् illusory Brahmchaari, The Lord Shree Hari
प्रविष्टं वीक्ष्य भृगव: सशिष्यास्ते सहाग्निभि: ।
प्रत्यगृह्णन्समुत्थाय संक्षिप्तास्तस्य तेजसा ॥२५॥
प्रविष्टम् वीक्ष्य भृगव: (Him) entered seeing, the Bhrigus,
स-शिष्या: सह-अग्निभि: along with the disciples, with the fires
प्रत्यगृह्यन्-समुत्थाय welcomed by arising
संक्षिप्ता:-तस्य तेजसा dwarfed by His splendour
यजमान: प्रमुदितो दर्शनीयं मनोरमम् ।
रूपानुरूपावयवं तस्मा आसनमाहरत् ॥२६॥
यजमान: प्रमुदित: the sacrificer, overjoyed
दर्शनीयम् मनोरमम् worth seeing the charming
रूप-अनुरूप-अवयवम् in looks proportionate limbs,
तस्मै आसनम्-आहरत् for Him, seat fetched
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलि: ।
अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥२७॥
स्वागतेन-अभिनन्द्य-अथ with welcoming, and felicitating, then
पादौ भगवत: बलि: in the feet of The Lord, Bali
अवनिज्य-अर्चयामास washed and worshipped
मुक्त-सङ्ग-मनोरमम् to the free of attachment, minds pleasing
तत्पादशौचं जनकल्मषापहं स धर्मविन्मूर्ध्न्यदधात् सुमङ्गलम् ।
यद् देवदेवो गिरिशश्चन्द्रमौलिर्दधार मूर्ध्ना परया च भक्त्या ॥२८॥
तत्-पाद-शौचम् that feet washed water
जन-कल्मष-आपहम् of the people sin dispelling
स: धर्म-वित्- he, the knower of righteousness (Bali)
मूर्ध्नि-अदधात् सुमङ्गलम् on head placed, most auspicious
यद् देव-देव: which the Lord of the gods
गिरिश:-चन्द्रमौलि:- Shiva, living in Kailaash, having the moon in his hair
दधार मूर्ध्ना placed on his (own) head
परया च भक्त्या with supreme devotion
बलि:-उवाच - Bali said -
स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते ।
ब्रह्मर्षीणां तप: साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम् ॥२९॥
स्वागतम् ते नम:-तुभ्यम् welcome to You, salutations to You
ब्रह्मन्-किम् करवाम ते O Holy Braahmana! What should I do for You
ब्रह्मर्षीणाम् तप:-साक्षात्- of the Braahmana sages austerity itself
मन्ये तु-आर्य वपु:-धरम् I consider indeed, O Noble One! has form taken
अद्य न: पितरस्तृप्ता अद्य न: पावितं कुलम् ।
अद्य स्विष्ट: क्रतुरयं यद् भवानागतो गृहान् ॥३०॥
अद्य न: पितर:-तृप्ता: today, our manes are sated
अद्य न: पावितम् कुलम् today, our purified is the race
अद्य स्विष्ट: क्रतु:-अयम् today, is successfully performed sacrifice this
यत् भवान्-आगत: गृहान् in that You have come to the house
अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनै: ।
हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभि: पदैस्तव ॥३१॥
अद्य-अग्नय: मे सुहुता: today, the fires my are well oblated
यथा-विधि द्विज-आत्मज with proper method, O Braahmana Son!
त्वत्-चरण-अवनेजनै: by Your feet washing
हत-अंहस: वार्भि:-इयम् च भू:- destroyed sins by the waters this and land,
अहो तथा पुनीता Oh! and is consecrated
तनुभि: पदै:-तव by tiny feet Yours
यद् यद् वटो वाञ्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये ।
गां काञ्चनं गुणवद् धाम मृष्टं तथान्नपेयमुत वा विप्र कन्याम् |
ग्रामान् समृद्धांस्तुरगान् गजान् वा रथांस्तथार्हत्तम सम्प्रतीच्छ ॥३२॥
यत् यत् वट: वाञ्छसि what-ever, O Brahmachari's ! Desire for
तत्-प्रतीच्छ मे त्वाम्-अर्थिनम् that ask of me, You the seeker
विप्रसुत! अनुतर्कये O Braahmana boy! I think
गाम् काञ्चनम् गुणवत् धाम cow, gold, nice house,
मृष्टम् तथा-अन्न-पेयम्- sweet, food and drink
उत वा विप्र-कन्याम् indeed or Braahmana girl
ग्रामान् समृद्धान्-तुरगान् villages prosperous, horse
गजान् वा रथान्-तथा- elephants or chariots and
अर्हत्तम सम्प्रतीच्छ the best, do ask for
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे
बलिवामनसंवादेऽष्टादशोऽध्याय: ॥18॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे
बलिवामनसंवादेऽष्टादशोऽध्याय: ॥18॥ Thus ends the eighteenth discourse, bearing on the descent of the divine
एकोन्विंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
इति वैरोचनेर्वाक्यं धर्मयुक्तं ससूनृतम् ।
निशम्य भगवान्प्रीत: प्रतिनन्द्येदमब्रवीत् ॥१॥
इति वैरोचने:-वाक्यम् this of Virochana's son (Bali's) speech,
धर्म-युक्तम् ससूनृतम् full of righteousness, with truthfulness
निशम्य भगवान्-प्रीत: hearing The Lord (Vaamana) was pleased
प्रतिनन्द्य-इदम्-अब्रवीत् answering, this said
श्री भगवान्-उवाच - The Lord said -
वचस्तवैतज्जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् ।
यस्य प्रमाणं भृगव: साम्पराये पितामह: कुलवृद्ध: प्रशान्त: ॥२॥
वच:-तव-एतत्-जन-देव speech your this, O Ruler of men!
सूनृतम् कुल-उचितम् Is truthful, of your race worthy
धर्म-युतम् यशस्करम् righteousness inclusive of, fame generating
यस्य प्रमाणम् भृगव: of which the authority, are the Bhrigus
साम्पराये पितामह: in the other world matters grandfather,
कुल-वृद्ध: प्रशान्त: the eldest of the race, most dispassionate
न ह्येतस्मिन्कुले कश्चिन्नि:सत्त्व: कृपण: पुमान् ।
प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥३॥
न हि-एतस्मिन्-कुले not certainly in this race
कश्चित्-नि:सत्त्व: anyone without conviction
कृपण: पुमान् miserly man
प्रत्याख्याता प्रतिश्रुत्य refused, having promised
य: वा-अदाता who or did not give
द्विजातये to the Braahmanas
न सन्ति तीर्थे युधि चार्थिनार्थिता: पराङ्मुखा ये त्वमनस्विनो नृपा: ।
युष्मत्कुले यद्यशसामलेन प्रह्लाद उद्भाति यथोडुप: खे ॥४॥
न सन्ति तीर्थे युधि there are not in the occasion of giving, or in battle
च-अर्थिन:-अर्थिता: पराङ्मुखा: and seekers, asking for, turning away their
च-अर्थिन:-अर्थिता: पराङ्मुखा: and seekers, asking for, turning away their face
ये तु-अमनस्विन: नृपा: who, indeed without self-respect kings
युष्मत्-कुले यत्-यशसा-अमलेन in your race, because by fame untarnished
प्रह्लाद उद्भाति Prahlaada shines
यथा-उडुप: खे just as the Moon in the sky
यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् ।
प्रतिवीरं दिग्विजये नाविन्दत गदायुध: ॥५॥
यत: जात: हिरण्याक्ष:- where was born Hiranyaaksha,
चरन्-एक इमाम् महीम् traversing alone this earth
प्रतिवीरम् दिग्विजये rival, for conquering of the quarters
न-अविन्दत गदा-आयुध: did not find, with the mace as his weapon
यं विनिर्जित्य कृच्छ्रेण विष्णु: क्ष्मोद्धार आगतम् ।
नात्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥६॥
यम् विनिर्जित्य कृच्छ्रेण whom, having conquered with difficulty
विष्णु: क्ष्मा-उद्धार आगतम् Vishnu, of earth's redeeming, having come
न-आत्मानम् जयिनम् मेने did not Himself victorious consider
तत्-वीर्यम् भूरि-अनुस्मरन् his valour again and again remembering
निशम्य तद्वधं भ्राता हिरण्यकशिपु: पुरा ।
हन्तुं भ्रातृहरणं क्रुद्धो जगाम निलयं हरे: ॥७॥
निशम्य तत्-वधम् भ्राता hearing of his killing, brother
हिरण्यकशिपु: पुरा Hiranyakashipu, in past,
हन्तुम् भ्रातृ-हरणम् क्रुद्ध: to kill the brother's killer, enraged
जगाम निलयम् हरे: went to the abode of Lord Shree Hari
तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् ।
चिन्तयामास कालज्ञो विष्णुर्मायाविनां वर: ॥८॥
तम्-आयान्तम् समालोक्य him having come, observing,
शूल-पाणिम् कृतान्त-वत् trident in hand, Death like
चिन्तयामास कालज्ञ: विष्णु:- thought, The Time Knower Vishnu
मायाविनाम् वर: of the tricks conjuring The Foremost
यतो यतोऽहं तत्रासौ मृत्यु: प्राणभृतामिव ।
अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृश: ॥९॥
यत: यत:-अहम् where ever I (go)
तत्र-असौ मृत्यु: there he, Death
प्राणभृताम्-इव for the created beings, like
अत:-अहम्-अस्य therefore, I in his
हृदयम् प्रवेक्ष्यामि heart will enter
पराक्-दृश: he looks (only) outside
एवं स निश्चित्य रिपो: शरीरमाधावतो निर्विविशेऽसुरेन्द्र ।
श्वासानिलान्तर्हितसूक्ष्मदेहस्तत्प्राणरन्ध्रेण विविग्नचेता: ॥१०॥
एवम् स: निश्चित्य thus, He deciding
रिपो: शरीरम्-आधावत: in the enemy's body, attacking
निर्विविशे-असुरेन्द्र entered, O Asura Ruler!
श्वास-अनिल-अन्तर्हित- in the breath air hidden
सूक्ष्म-देह:-तत्-प्राण- with a subtle body, through his breath
रन्ध्रेण विविग्न-चेता: nostril, agitated in mind
स तन्निकेतं परिमृश्य शून्यमपश्यमान: कुपितो ननाद ।
क्ष्मां द्यां दिश: खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीर: ॥११॥
स: तत्-निकेतम् परिमृश्य he, His abode searching
शून्यम्-अपश्यमान: vacant finding
कुपित: ननाद in anger roared
क्ष्माम् द्याम् दिश: खम् the earth, heaven, the quarters, sky,
विवरान्-समुद्रान् विष्णुम् in the nether regions, the oceans, Vishnu
विचिन्वन् न ददर्श वीर: searching for, did not see (Him) the mighty
अपश्यन्निति होवाच मयान्विष्टमिदं जगत् ।
भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥१२॥
अपश्यन्-इति ह-उवाच having looked for, this indeed said
मया-अन्विष्टम्-इदम् जगत् by me is searched this universe
भ्रातृहा मे गत: नूनम् brother's slayer my has gone definitely
यत: न-आवर्तते पुमान् from where does not return man
वैरानुबन्ध एतावनामृत्योरिह देहिनाम् ।
अज्ञानप्रभवो मन्युरहंमानोपबृंहित: ॥१३॥
वैर-अनुबन्ध: एतावन्- the enmity bondage until
आमृत्यो:-इह देहिनाम् not dead, in this world of the living beings
अज्ञान-प्रभव: मन्यु:- by ignorance generated, anger,
अहम्-मान-उपबृंहित: and ego oriented increases
पिता प्रह्लादपुत्रस्ते तद्विद्वान्द्विजवत्सल: ।
स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात् स याचित: ॥१४॥
पिता प्रह्लाद-पुत्र:-ते father, Prahalaada's son, yours (Virochana)
तत्-विद्वान्-द्विज-वत्सल: that celebrated, Braahmanas' fond of
स्वम्-आयु:-द्विज-लिङ्गेभ्य: own life, to Braahmanas in guise
देवेभ्य:-अदात् स: याचित: to the gods gave, he (when) asked for
भवानाचरितान्धर्मानास्थितो गृहमेधिभि: ।
ब्राह्मणै: पूर्वजै: शूरैरन्यैश्चोद्दामकीर्तिभि: ॥१५॥
भवान्-आचरितान्-धर्मान्- you, the followed righteousness
आस्थितो: गृह-मेधिभि: conducted by the householders,
ब्राह्मणै: पूर्वजै: शूरै:- the Braahmanas, the ancestors, the heroes
अन्यै:-च-उद्दाम-कीर्तिभि: others and of glorious renown
तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात् ।
पदानि त्रीणि दैत्येन्द्र संमितानि पदा मम ॥१६॥
तस्मात् त्वत्त: महीम्-ईषद् therefore, from you, earth a little
वृणे-अहम् वरदर्षभात् seek I, from the foremost of Bestower of boons
पदानि त्रीणि दैत्येन्द्र steps three, O Daitya King!
संमितानि पदा मम measured, by feet my
नान्यत् ते कामये राजन्वदान्याज्जगदीश्वरात् ।
नैन: प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रह: ॥१७॥
न-अन्यत् ते कामये राजन्- not else, of you ask, O King!
वदान्यात्-जगत्-ईश्वरात् the magnanimous ruler of the world
न-एन: प्राप्नोति वै विद्वान्- does not sin incur indeed, the wise
यावत्-अर्थ-प्रतिग्रह: up to required accepting
बलि:-उवाच - Bali said -
अहो ब्राह्मणदायाद वाचस्ते वृद्धसंमता: ।
त्वं बालो बालिशमति: स्वार्थं प्रत्यबुधो यथा ॥१८॥
अहो ब्राह्मण-दायाद O Braahmana boy!
वाच:-ते वृद्ध-संमता: words your, to elders agreeable
त्वम् बाल: बालिश-मति: you are young, with immature mind
स्वार्थम् प्रति-अबुध: यथा self interest towards unaware because
मां वचोभि: समाराध्य लोकानामेकमीश्वरम् ।
पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम् ॥१९॥
माम् वचोभि: समाराध्य me by words pleasing
लोकानाम्-एकम्-ईश्वरम् of all the worlds one ruler
पद-त्रयम् वृणीते य: feet three asks who
अबुद्धिमान् द्वीप-दाशुषम् unintelligent, continents, capable of gifting
न पुमान् मामुपव्रज्य भूयो याचितुमर्हति ।
तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥२०॥
न पुमान् माम्-उपव्रज्य not a person, me approaching
भूय: याचितुम्-अर्हति again to beg is capable
तस्मात् वृत्तिकरीम् भूमिम् therefore, livelihood providing land
वट: कामम् प्रतीच्छ मे O Brahmachari's! at will ask of me
श्रीभगवान्-उवाच - The Lord said -
यावन्तो विषया: प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् ।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥२१॥
यावन्त: विषया: प्रेष्ठा:- as many objects pleasing
त्रिलोक्याम्-अजितेन्द्रियम् in three worlds, to one of unconquered senses
न शक्नुवन्ति ते सर्वे cannot, those all
प्रतिपूरयितुम् नृप to satiate, O King!
त्रिभि: क्रमैरसंतुष्टो द्वीपेनापि न पूर्यते ।
नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥२२॥
त्रिभि: क्रमै:-असंतुष्ट: by three paces unsatisfied
द्वीपेन-अपि न पूर्यते by a continent also, is not fulfilled
नव-वर्ष-समेतेन nine sub-continents inclusive
सप्त-द्वीप-वर-इच्छया seven continents to get by wishing
सप्तद्वीपाधिपतयो नृपा वैन्यगयादय: ।
अर्थै: कामैर्गता नान्तं तृष्णाया इति न: श्रुतम् ॥२३॥
सप्त-द्वीप-अधिपतय: of the seven continents the sovereign
नृपा: वैन्य-गय-आदय: rulers, Vaina, (Prithu, son of Vena) Gaya and others
अर्थै: कामै:-गता: from the riches and objects of desires following
न-अन्तम् तृष्णाया: not the end of thirst (reach)
इति न: श्रुतम् this we have heard
यदृच्छयोपपन्नेन संतुष्टो वर्तते सुखम् ।
नासंतुष्टस्त्रिभिर्लोकैरजितात्मोपसादितै: ॥२४॥
यदृच्छया-उपपन्नेन by luck got,
संतुष्ट: वर्तते सुखम् contented, remains in happiness
न-असंतुष्ट:-त्रिभि:-लोकै:- not dis-satisfied by three worlds
अजितात्मा-उपसादितै: one with unconquered senses, by obtaining
पुंसोऽयं संसृतेर्हेतुरसंतोषोऽर्थकामयो: ।
यदृच्छयोपपन्नेन संतोषो मुक्तये स्मृत: ॥२५॥
पुंस:-अयम् संसृते:-हेतु:- a person, this, for the transmigration responsible
असंतोष:-अर्थ-कामयो: dis-satisfaction with wealth and sense objects
यदृच्छया-उपपन्नेन by way of luck obtained
संतोष: मुक्तये स्मृत: satisfaction, for liberation is said to be
यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
तत् प्रशाम्यत्यसंतोषादम्भसेवाशुशुक्षणि: ॥२६॥
यदृच्छा-लाभ-तुष्टस्य by chance obtained, contented with,
तेज: विप्रस्य वर्धते glory of the Braahmana increases
तत् प्रशाम्यति-असंतोषात्- that is extinguished by discontent,
अम्भसा-इव-आशु-शुक्षणि: by water like soon fire
तस्मात् त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् ।
एतावतैव सिद्धोहं वित्तं यावत्प्रयोजनम् ॥२७॥
तस्मात् त्रीणि पदानि-एव therefore, three paces only
वृणे त्वत् वरदर्षभात् seek, from you the foremost of gift givers
एतावत्-एव सिद्ध-अहम् this much only require I
वित्तम् यावत्-प्रयोजनम् wealth (should be) up to necessity
श्री शुक उवाच - Shree Shuka said -
इत्युक्त: स हसन्नाह वाञ्छात: प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जलभाजनम् ॥१८॥
इति-उक्त: स: हसन्-आह thus told, he laughingly said
वाञ्छात: प्रतिगृह्यताम् according to desire, do receive
वामनाय महीम् दातुम् to The Dwarf Brahmchaari, land to give
जग्राह जल-भाजनम् took hold of the water vessel
विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् ।
जानंश्चिकीर्षितं विष्णो: शिष्यं प्राह विदां वर: ॥२९॥
विष्णवे क्ष्माम् प्रदास्यन्तम्- to The Lord Vishnu, land giving
उशना असुर-ईश्वरम् Shukraachaaryaa, to the Asura's Ruler
जानन्-चिकीर्षितम् विष्णो: knowing the object of Vishnu
शिष्यम् प्राह विदाम्-वर: to disciple said, of knowledgeable the foremost
शुक्र उवाच - Shukra said -
एष वैरोचने साक्षाद् भगवान्विष्णुरव्यय: ।
कश्यपाददितेर्जातो देवानां कार्यसाधक: ॥३०॥
एष: वैरोचने साक्षात् this, O Virochana's son! Himself
भगवान्-विष्णु:-अव्यय: The Lord Vishnu, Immortal
कश्यपात्-अदिते: जात: from Kashyapa and Aditi born,
देवानाम् कार्य-साधक: of the gods purpose to accomplish
प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता ।
न साधु मन्ये दैत्यानां महानुपगतोऽनय: ॥३१॥
प्रतिश्रुतम् त्वया-एतस्मै promised by you, to Him
यत्-अनर्थम्-अजानता which blunder, unknowingly
न साधु मन्ये दैत्यानाम् not proper (I) consider, of the Daityas'
महान्-उपगत:-अनय: great has come harm
एष ते स्थानमैश्वर्यं श्रियं तेजो यश: श्रुतम् ।
दास्यत्याच्छिद्य शक्राय मायामाणवको हरि: ॥३२॥
एष: ते स्थानम्-ऐश्वर्यम् this, He, your throne, fortune,
श्रियम् तेज: यश: श्रुतम् splendour, glory, fame well-known
दास्यति-आच्छिद्य शक्राय will give, snatching to Indra
माया-माणवक: हरि: by Maayaa assumed Brahmachari's, Shree Hari
त्रिभि: क्रमैरिमाँल्लोकान्विश्वकाय: क्रमिष्यति ।
सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥३३॥
त्रिभि: क्रमै:-इमान्-लोकान्- by three paces these worlds
विश्व-काय: क्रमिष्यति with the universe like form will cover
सर्वस्वम् विष्णवे दत्त्वा every thing to Vishnu, having given
मूढ वर्तिष्यसे कथम् O Fool! will subsist how
क्रमतो गां पदैकेन द्वितीयेन दिवं विभो: ।
खं च कायेन महता तार्तीयस्य कुतो गति: ॥३४॥
क्रमत: गाम् पद-एकेन spanning the earth with foot one
द्वितीयेन दिवम् विभो: by second, heaven, the universe dimensioned Lord
खम् च कायेन महता the sky and by (His) person gigantic
तार्तीयस्य कुत: गति: for the third where is the place
निष्ठां ते नरके मन्ये ह्यप्रदातु: प्रतिश्रुतम् ।
प्रतिश्रुतस्य योऽनीश: प्रतिपादयितुं भवान् ॥३५॥
निष्ठाम् ते नरके मन्ये termination (end) your in hell I believe
हि-अप्रदातु: प्रतिश्रुतम् indeed of not giving the promised
प्रतिश्रुतस्य य:-अनीश: of the promised, who is incapable
प्रतिपादयितुम् भवान् to fulfil you
न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
दानं यज्ञस्तप: कर्म लोकेवृत्तिमतो यत: ॥३६॥
न तत्-दानम् प्रशंसन्ति not that gift is appreciated
येन वृत्ति:-विपद्यते by which livelihood is in trouble
दानम् यज्ञ:-तप: कर्म charity, sacrifice, austerity, ritual,
लोके वृत्ति-मत: यत: in the world, of livelihood having (person) because
धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
पञ्चधा विभजन्वित्तमिहामुत्र च मोदते ॥३७॥
धर्माय यशसे-अर्थाय for religious merits, celebrity, earning,
कामाय स्वजनाय च pleasures, own people, and
पञ्चधा विभजन्-वित्तम्- in five parts dividing wealth,
इह-अमुत्र च मोदते here beyond and rejoices
अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम ।
सत्यमोमिति यत् प्रोक्तं यन्नेत्याहामृतं हि तत् ॥३८॥
अत्र-अपि बह्वृचै:-गीतम् in this also by the Bahvrchas' verdict
शृणु मे-असुर-सत्तम hear from me, O Asura Chief!
सत्यम्-ओम्-इति यत् प्रोक्तम् the Truth is 'yes' thus, that is said,
यत्-न-इति-आह-अमृतम् हि तत् that which is 'no' thus said, is false indeed
यत्-न-इति-आह-अमृतम् हि तत् that which is 'no' thus said, is false indeed that
सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।
वृक्षेऽजीवति तन्न स्यादनृतं मूलमात्मन: ॥३९॥
सत्यम् पुष्प-फलम् विद्यात्- truth the flower and fruit should be known
आत्म-वृक्षस्य गीयते of the body tree's said to be
वृक्षे-जीवति तत्-न स्यात्- when the tree is alive, that does not exist
अनृतम् मूलम्-आत्मन: untruth the root of oneself
तद् यथा वृक्ष उन्मूल: शुष्यत्युद्वर्ततेऽचिरात् ।
एवं नष्टानृत: सद्य आत्मा शुष्येन्न संशय: ॥४०॥
तत् यथा वृक्ष: उन्मूल: that, just as, the tree uprooted
शुष्यति-उद्वर्तते-अचिरात् dries up, falls in no time
एवम् नष्ट-अनृत: सद्य: like that, having lost falsehood, soon,
आत्मा शुष्येत्-न संशय: the body dries up, without a doubt
पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति ।
यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् ।
भिक्षवे सर्वमोंकुर्वन्नालं कामेन चात्मने ॥४१॥
पराग् रिक्तम्-अपूर्णम् वा turned away, emptied, incomplete or
अक्षरम् यत् तत्-ओम्-इति the word which that 'Om' this
यत् किञ्चित्-ओम्-इति ब्रूयात् whatever, 'Om' if says
तेन रिच्येत वै पुमान् by that is emptied surely a person
भिक्षवे सर्वम्-ओम्-कुर्वन्- to the seeker everything 'Om' saying
अलम् कामेन च-आत्मने stops pleasures and of oneself
अथैतत् पूर्णमभ्यात्मं यच्च नेत्यनृतं वच: ।
सर्वं नेत्यनृतं ब्रूयात् स दुष्कीर्ति: श्वसन्मृत: ॥४२॥
अथ-एतत् पूर्णम्-अभ्यात्मम् so, this, full of wealth
यत्-च न-इति-अनृतम् वच: that and 'No' this false statement
सर्वम् न-इति-अनृतम् ब्रूयात् altogether 'No' this false (who) says
स: दुष्कीर्ति: श्वसन्-मृत: he is ill famed, and though breathing is dead
स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे ।
गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥४३॥
स्त्रीषु नर्म-विवाहे च to women, in jest, during wedding, and
वृत्ति-अर्थे प्राण-संकटे for the sake of livelihood, life in danger
गो-ब्राह्मण-अर्थे हिंसायाम् for cows and Braahmanas' sake, violence
न-अनृतम् स्यात्-जुगुप्सितम् not false may be, be impeachable
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे एकोनविंश:
अध्याय:॥19॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे एकोनविंश:
अध्याय:॥19॥ Thus ends the nineteenth discourse, in continuation of the story of the
विंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
बलिरेवं गृहपति: कुलाचार्येण भाषित: ।
तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥१॥
बलि:-एवम् गृहपति: Bali, thus, the householder,
कुल-आचार्येण भाषित: by the race's preceptor (Shukra), spoken
तूष्णीम् भूत्वा क्षणम् राजन्- silence keeping for a moment, O King!
उवाच-अवहित: गुरुम् said carefully, to the teacher
बलि:-उवाच - Bali said -
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् ।
अर्थं कामं यशो वृत्तिं यो न बाधते कर्हिचित् ॥२॥
सत्यम् भगवता प्रोक्तम् truly by your honourable self, is said,
धर्म:-अयम् गृहमेधिनाम् the duty this (is) of the householder
अर्थम् कामम् यश: वृत्तिम् wealth, enjoyment, fame and livelihood
य: न बाधते कर्हिचित् who, (must) not hamper ever
स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् ।
प्रतिश्रुत्य ददामीति प्राह्लादि: कितवो यथा ॥३॥
स: च-अह्म् वित्त-लोभेन that and I, for the wealth greed
प्रत्याचक्षे कथम् द्विजम् refuse how to the Braahmana
प्रतिश्रुत्य ददामि-इति having promised 'will give' thus
प्राह्लादि: कितव: यथा Prahlaada's grandson, cheat like
न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम् ।
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥४॥
न-हि-असत्यात् पर:-अधर्म: not indeed untruth other than is more unrighteous
इति ह-उवाच भू:-इयम् this, certainly said the earth this
सर्वम् सोढुम्-अलम् मन्ये all to bear am capable, I consider,
ऋते-अलीक-परम् नरम् except, falsehood given to, man
नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् ।
न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥५॥
न-अहम् बिभेमि निरयात्- not I am afraid of hell,
न-अधन्यात्-असुख-अर्णवात् not of poverty, of sorrow an ocean
न स्थान-च्यवनात्-मृत्यो:- not from position disposed, of death,
यथा विप्र-प्रलम्भनात् as of Braahmana deceiving
यद् यद्-हास्यति लोकेऽस्मिन्संपरेतं धनादिकम् ।
तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥६॥
यत् यत्-हास्यति लोके-अस्मिन्- what all is left, in this world
संपरेतम् धन-आदिकम् after death, wealth and others
तस्य त्यागे निमित्तम् किम् by its giving up, purpose is what
विप्र:-तुष्येत्-न तेन चेत् Braahmana is satisfied not by it, if
श्रेय: कुर्वन्ति भूतानां साधवो दुस्त्यजासुभि: ।
दध्यङ्शिबिप्रभृतय: को विकल्पो धरादिषु ॥७॥
श्रेय: कुर्वन्ति भूतानाम् benefits extend for the living beings,
साधव: दुस्त्यज-असुभि: the noble, by difficult to part with, life also
दध्यङ्-शिबि-प्रभृतय: (such as) Dadhichi and Shivi and others
क: विकल्प: धरा-आदिषु what option (in the case) of land and other things
यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभि: ।
तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि ॥८॥
यै:-इयम् बुभुजे ब्रह्मन्- by whom this was enjoyed, O Holy Braahmana!
दैत्य-इन्द्रै:-अनिवर्तिभि: by the Daitya Lords, who did not retreat
तेषाम् काल:-अग्रसीत्-लोकान् their Time, consumed the worlds
न यश:-अधिगतम् भुवि not the fame earned on this land
सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यज: ।
न तथा तीर्थ आयाते श्रद्धया ये धनत्यज: ॥९॥
सुलभा: युधि विप्रर्षे readily available are, in battle, O Braahmana sage!
हि-अनिवृत्ता: तनु-त्यज: indeed not retreating, (their) bodies giving up
न तथा तीर्थ आयाते not like that, worthy recipient having approached
श्रद्धया ये धन-त्यज: with reverence who, will wealth give away
मनस्विन: कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गति: ।
कुत: पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥१०॥
मनस्विन: कारुणिकस्य शोभनम् of the thoughtful and the compassionate befits
यत्-अर्थिकाम-उपनयेन दुर्गति: that for a petitioner's gratification (incurs)
यत्-अर्थिकाम-उपनयेन दुर्गति: that for a petitioner's gratification (incurs) misery
कुत: पुन:-ब्रह्म-विदाम् भवादृशाम् whence again, of Brahman knowers yourself
कुत: पुन:-ब्रह्म-विदाम् भवादृशाम् whence again, of Brahman knowers yourself like
तत: वटो:-अस्य ददामि वाञ्छितम् therefore to Brahmchaari this will give the
तत: वटो:-अस्य ददामि वाञ्छितम् therefore to Brahmchaari this will give the desired
यजन्ति यज्ञक्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदा: ।
स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥११॥
यजन्ति यज्ञ-क्रतुभि:- propitiate by sacrifices and by Kratus
यम्-आदृता: भवन्त: Whom with reverence you all
आम्नाय-विधान-कोविदा: by Vedic rituals, experts
स: एव विष्णु:-वरद:-अस्तु He alone Vishnu, Bestower of boons, may be
वा पर: दास्यामि-अमुष्मै or anyone else, will give to him
क्षितिम्-ईप्सिताम् मुने land desire, O Sage!
यदप्यसावधर्मेण मां बध्नीयादनागसम् ।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥१२॥
यदि-अपि-असौ-अधर्मेण if even this, by unrighteousness
माम् बध्नीयात्-अनागसम् me binds faultless
तथा-अपि-एनम् न हिंसिष्ये then even him not will harm
भीतम् ब्रह्म-तनुम् रिपुम् afraid (in) Braahmana form, (my) enemy
एष वा उत्तमश्लोको न जिहासति यद् यश: ।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥१३॥
एष: वा उत्तमश्लोक: This or, (if is) The excellent renowned, Vishnu
न जिहासति यत् यश: will not tarnish that fame
हत्वा मा-एनाम् हरेत् by killing me, her (the earth) will take
युद्धे शयीत निहत: मया in battle may lie, killed by me
श्री शुक उवाच - Shree Shuka said -
एवमश्रद्धितं शिष्यमनादेशकरं गुरु: ।
शशाप् दैवप्रहित: सत्यसन्धं मनस्विनम् ॥१४॥
एवम्-अश्रद्धितम् शिष्यम्- in this manner, the disrespectful disciple,
अनादेशकरम् गुरु: disobedient, the Preceptor (Shukraachaaryaa)
शशाप् दैव-प्रहित: cursed by Providence impelled
सत्य-सन्धम् मनस्विनम् the truth following, and the thoughtful
दृढं पण्डितमान्यज्ञ: स्तब्धोऽस्यस्मदुपेक्षया ।
मच्छासनातिगो यस्त्वमचिराद् भ्रश्यसे श्रिय: ॥१५॥
दृढम् पण्डितमानी-अज्ञ: highly arrogant, stupid,
स्तब्ध:-असि-अस्मत्-उपेक्षया conceited are, me disregarding
मत्-शासन-अतिग: य:-त्वम्- my command violating, that you
अचिरात् भ्रश्यसे श्रिय: soon, will loose all splendour
एवं शप्त: स्वगुरुणा सत्यान्न चलितो महान् ।
वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥१६॥
एवम् शप्त: स्व-गुरुणा thus cursed by own Preceptor
सत्यात्-न चलित: महान् from truth was not, dissuaded the Noble
वामनाय ददौ-एनाम्- to the Brahmchaari gave that land,
अर्चित्वा-उदक-पूर्वकम् worshipping with water first
विन्ध्यावलिस्तदाऽऽगत्य पत्नी जालकमालिनी ।
आनिन्ये कलशं हैममवनेजन्यमपां भृतम् ॥१७॥
विन्ध्यावलि:-तदा-आगत्य Vindhyaavalee, then, having come,
पत्नी जालक-मालिनी wife (of Bali), with pearl jewels adorned
आनिन्ये कलशम् हैमम्- brought the pitcher golden
अवनेजन्यम्-अपाम् भृतम् to wash the feet (of the Lord), with water full
यजमान: स्वयं तस्य श्रीमत् पादयुगं मुदा ।
अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनी: ॥१८॥
यजमान: स्वयम् तस्य the sacrificer, (Bali) himself, His
श्रीमत् पाद-युगम् मुदा the glorious feet pair with delight
अवनिज्-आवहत्-मूर्ध्नि washed and raised to the head,
तत्-अप: विश्व-पावनी: that water, world consecrating
तदासुरेन्द्रं दिवि देवतागणा: गन्धर्वविद्याधरसिद्धचारणा: ।
तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विता: ॥१९॥
तदा-असुरेन्द्रम् दिवि then, the Asura chief's, in the heaven
देवता-गणा: गन्धर्व- the gods hosts, the Gandharvas,
विद्याधर-सिद्ध-चारणा: Vidyaadharaas, Siddhas and Chaaranas
तत्-कर्म सर्वे-अपि गृणन्त that action all even praised
आर्जवम् प्रसून-वर्षै:- his simplicity, by flowers showers
ववृषु:-मुदा-अन्विता: raining with delight full
नेदुर्मुहुर्दुन्दुभय: सहस्रशो गन्धर्वकिंपूरुषकिन्नरा जगु: ।
मनस्विनानेन कृतं सुदुष्करं विद्वानदाद् यद् रिपवे जगत्त्रयम् ॥२०॥
नेदु:-मुहु:-दुन्दुभय: सहस्रश: sounded again and again, kettledrums in thousands
गन्धर्व-किंपूरुष-किन्नरा: जगु: Gandharvas Kimpurushas Kinnaras sang
मनस्विना-अनेन कृतम् सुदुष्करम् by generous this, is done a very difficult task
विद्वान्-अदात् यत् रिपवे जगत्-त्रयम् knowing gave, in that, to the enemy, worlds
विद्वान्-अदात् यत् रिपवे जगत्-त्रयम् knowing gave, in that, to the enemy, worlds three
तद् वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् ।
भू: खं दिशो द्यौर्विवरा: पयोधयस्तिर्यङ्नृदेवा ऋषयो यदासत ॥२१॥
तत् वामनम् रूपम्-अवर्धत- that Dwarf form, grew
अद्भुतम् हरे:-अनन्तस्य wonderful, of Lord Shree Hari Infinite
गुणत्रय-आत्मकम् of Gunas three comprising
भू: खम् दिश: द्यौ:- the earth, the sky, the four quarters, heavens,
विवरा: पयोधय:-तिर्यङ्- the subterranean regions, oceans, birds, animals,
नृ-देवा: ऋषय: यत्-आसत् human beings, gods, sages, in which included
काये बलिस्तस्य महाविभूते: सहर्त्विगाचार्यसदस्य एतत् ।
ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥२२॥
काये बलि:-तस्य महा-विभूते: in the body, Bali, His, of extraordinary powers
सह-ऋत्विक्-आचार्य सदस्य एतत् with the presiding priests, preceptors, of
सह-ऋत्विक्-आचार्य सदस्य एतत् with the presiding priests, preceptors, of members this
ददर्श विश्वम् त्रिगुणम् saw the world, the three Gunas
गुण-आत्मके भूत- in the three Gunas' ground, the (five) elements,
इन्द्रिय-अर्थ- the (ten) Indriyas, the objects
आशय-जीव-युक्तम् the mind and the embodied soul, inclusive
रसामचष्टाङ्घ्रितलेऽथ पादयोर्महीं महीध्रान्पुरुषस्य जङ्घयो: ।
पतत्त्रिणो जानुनि विश्वमूर्तेरूर्वोर्गणं मारुतमिन्द्रसेन: ॥२३॥
रसाम्-अचष्ट-अङ्घ्रि-तले- the subterranean regions, saw, in the soles' below,
अथ पादयो:-महीम् महीध्रान्- then, in the feet, the earth, the mountains
पुरुषस्य जङ्घयो: of The Supreme Person's shanks
पतत्त्रिण: जानुनि the birds (atmosphere) in the knees,
विश्वमूर्ते:-ऊर्वो:- in the Lord's cosmic form's thighs
गणम् मारुतम्-इन्द्रसेन: the hosts of air gods, Bali
संध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीञ्जघने आत्ममुख्यान् ।
नाभ्यां नभ: कुक्षिषु सप्तसिन्धूनुरुक्रमस्योरसि चर्क्षमालाम् ॥२४॥
संध्याम् विभो:-वाससि the twilight in The All Mighty's loin cloth,
गुह्य ऐक्षत प्रजापतीन्- in the anus, saw the Prajaapatis,
जघने आत्म-मुख्यान् in the buttocks, self and the leaders (of Asuras)
नाभ्याम् नभ: कुक्षिषु in the navel the firmament, in the belly
सप्त-सिन्धून्-उरुक्रमस्य- the seven oceans, of The Lord of big strides
उरसि च-ऋक्ष-मालाम् on the chest and the stars congregation
हृद्यङ्ग धर्मं स्तनयोर्मुरारेर्ऋतं च सत्यं च मनस्यथेन्दुम् ।
श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥२५॥
हृदि-अङ्ग धर्मम् in the heart, O Dear (Pareekshit), Dharma
स्तनयो:-मुरारे:-ऋतम् च in breasts of The Slayer of Mura, sweet speech and
सत्यम् च मनसि-अथ-इन्दुम् truthfulness, and in the mind, then, the moon,
श्रियम् च वक्षसि- Goddess Laxmi and in the bosom
अरविन्द-हस्ताम् with lotus in hand
कण्ठे च सामानि समस्त-रेफान् in the throat and the Saama Vedas, (and) all
कण्ठे च सामानि समस्त-रेफान् in the throat and the Saama Vedas, (and) all sounds
इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयो: ककुभो द्यौश्च मूर्ध्नि ।
केशेषु मेघाञ्छ्वसनं नासिकायामक्ष्णोश्च सूर्यं वदने च वह्निम् ॥२६॥
इन्द्र-प्रधानान्-अमरान्-भुजेषु Indra and the leading immortals in arms
तत्-कर्णयो: ककुभ: in His ears the quarters,
द्यौ:-च मूर्ध्नि heaven in crown,
केशेषु मेघान्- in hair the clouds
श्वसनम् नासिकायाम्- air in nostrils
अक्ष्णो:-च सूर्यम् in eyes and the Sun
वदने च वह्निम् in mouth and the fire
वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।
अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥२७॥
वाण्याम् च छन्दांसि in His speech and the Vedas,
रसे जलेशम् in His palate Varuna
भ्रुवो:-निषेधम् च in His eyebrows, prohibition and
विधिम् च पक्ष्मसु command, and in His eyelashes
अह:-च रात्रिम् च परस्य पुंस: day and night and of The Supreme Person
मन्युम् ललाटे- anger in His forehead,
अधर एव लोभम् in His lips alone greed
स्पर्शे च कामं नृप रेतसोऽम्भ: पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् ।
छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥२८॥
स्पर्शे च कामम् in touch and Love
नृप रेतस:-अम्भ: O King! In generative fluid water
पृष्ठे तु-अधर्मम् in His back indeed unrighteousness
क्रमणेषु यज्ञम् in (His) strides sacrifice
छायासु मृत्युम् in (His) shadow Death
हसिते च मायाम् in (His) laughter and Maayaa
तनू-रुहेषु-ओषधि-जातय:-च in the bodily hair, the herbs species and
नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषींश्च ।
प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीर: ॥२९॥
नदी:-च नाडीषु rivers in His arteries,
शिला नखेषु rocks in His nails,
बुद्धौ-अजम् in His intellect Brahmaa,
देव-गणान्-ऋषीन्-च the gods' hosts, the Rishis and
प्राणेषु गात्रे स्थिर-जङ्गमानि in His Indriyas and in His Body, immobile and
प्राणेषु गात्रे स्थिर-जङ्गमानि in His Indriyas and in His Body, immobile and mobile
सर्वाणि भूतानि ददर्श वीर: all beings saw the hero
सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुरा: कश्मलमापुरङ्ग।
सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्ग स्तनयित्नुघोषम् ॥३०॥
सर्व-आत्मनि-इदम् भुवनम् in The all-encompassing Soul, this universe
निरीक्ष्य सर्वे-असुरा: observing, all the Asuras
कश्मलम्-आपु:-अङ्ग with fear were seized, O Dear One!
सुदर्शनम् चक्रम्-असह्य-तेज: the Sudarshana discus, of unbearable lustre
धनु:-च शार्ङ्ग- bow and Shaaranga
स्तनयित्नु-घोषम् with thunder-like roaring sound
पर्जन्यघोषो जलज: पाञ्चजन्य: कौमोदकी विष्णुगदा तरस्विनी ।
विद्याधरोऽसि: शतचन्द्रयुक्तस्तूणोत्तमावक्षयसायकौ च ॥३१॥
पर्जन्य-घोष: जलज: पाञ्चजन्य: of clouds roar, conch Paanchajanya,
कौमोदकी विष्णु-गदा Kaumodaki Vishnu's mace
तरस्विनी the swift
विद्याधर:-असि: Vidyaadhara the sword
शत-चन्द्र-युक्त:- hundred moons having shield,
तूण-उत्तमौ-अक्षय-सायकौ च two quivers best, with inexhaustible arrows and
सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्या: सहलोकपाला: ।
स्फुरत्किरीटाङ्गदमीनकुण्डलश्रीवत्सरत्नोत्तममेखलाम्बरै: ॥३२॥
सुनन्द-मुख्या: Sunanda and the chief
उपतस्थु:-ईशम् were presented (themselves) to The Lord
पार्षद-मुख्या: the attendant chief
सह-लोकपाला: along with the guardians of the quarters
स्फुरत्-किरीट- (The Lord) with a shining diadem
अङ्गद-मीन-कुण्डल- armlets, fish-earrings,
श्रीवत्स-रत्न-उत्तम- Shree-Vatsa, the jewel foremost,
मेखला-अम्बरै: girdle and yellow clothing
मधुव्रतस्रग्वनमालया वृतो रराज राजन्भगवानुरुक्रम: ।
क्षितिं पदैकेन बलेर्विचक्रमे नभ: शरीरेण दिशश्च बाहुभि: ॥३३॥
मधुव्रत-स्रक्- by the black bees hovering garland
वन-मालया वृत: sylvan flowers' garland, decked with
रराज राजन्- shone, O King!
भगवान्-उरु-क्रम: The Lord of big strides
क्षितिम् पद-एकेन the earth by stride one
बले:-विचक्रमे of Bali covered
नभ: शरीरेण the sky with the trunk
दिश:-च बाहुभि: the quarters and with the arms
पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि ।
उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपस: परं गत: ॥३४॥
पदम् द्वितीयम् the stride second
क्रमत:-त्रिविष्टपम् covering the heaven
न वै तृतीयाय not indeed for the third
तदीयम्-अण्वपि his (Bali's) an atom also
उरुक्रमस्य-अङ्घ्रि:- of The big Stride Ones' foot
उपरि-उपरि-अथ: above and above then
महर्जनाभ्याम् Mahar-loka and Jana-loka
तपस: परम् गत: to Tapa-loka beyond went
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे विश्वरूपदर्शनं नाम विंश: अध्याय:
एकविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
सत्यं समीक्ष्याब्जभवो नखेन्दुभिर्हतस्वधामद्युतिरावृतोऽभ्यगात् ।
मरीचिमिश्रा ऋषयो बृहद्व्रता: सनन्दनाद्या नरदेव योगिन: ॥१॥
सत्यम् समीक्ष्य- (to) Satya-loka, observing (having reached)
अब्जभव: नख-इन्दुभि:- the Lotus-born, Brahmaa, by the nails' moon
हत-स्वधाम- marred own abode
द्युति:-आवृत:-अभ्यगात् by the lustre covered sank,
मरीचि-मिश्रा: ऋषय: Marichi and other sages,
बृहद्व्रता: सनन्दन-आद्या: life long celibates, Sananda and others
नरदेव योगिन: O god among men! The yogis
वेदोपवेदा नियमान्विता यमास्तर्केतिहासाङ्गपुराणसंहिता: ।
ये चापरे योगसमीरदीपितज्ञानाग्निना रन्धितकर्मकल्मषा: ।
ववन्दिरे यत्स्मरणानुभावत: स्वायम्भुवं धाम गता अकर्मकम् ॥२॥
वेद-उपवेदा: नियम-अन्विता: the Vedas, Upavedas, Neeyamas consisting of,
यमा:-तर्क-इतिहास-अङ्ग- Yama's, Tarkas, Itihaasas, Angas,
पुराण-संहिता: Puraanas, Samhitaa,
ये च-अपरे योग-समीर-दीपित- those and others, by Yoga's breeze enlightened
ज्ञान-अग्निना रन्धित-कर्म-कल्मषा: wisdom fire (who have) burnt Karma's sins
ववन्दिरे यत्- bowed (at the foot) that which
स्मरणा-अनुभावत: by remembering's effect
स्वायम्भुवम् धाम गता: to Brahmaa's realm had gone
अकर्मकम् non-rituals (reached by)
अथाङ्घ्रये प्रोन्नमिताय विष्णोरुपाहरत् पद्मभवोऽर्हणोदकम् ।
समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपङ्केरुहसंभव: स्वयम् ॥३॥
अथ-अङ्घ्रये प्रोन्नमिताय then, to the foot upraised
विष्णो:-उपाहरत् of Vishnu, offered
पद्मभव:-अर्हण-उदकम् the lotus-born, Brahmaa, to worship water
समर्च्य भक्त्या-अभ्यगृणात्- having worshipped with devotion, extolled,
शुचि-श्रवा यत्-नाभि-पङ्केरुह he, of untarnished fame, from Whose navel lotus
संभव: स्वयम् was born himself
धातु: कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र ।
स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्ति: ॥४॥
धातु: कमण्डलु-जलम् Brahma's water pot water
तत्-उरुक्रमस्य पाद- That Lord of big strides, (Vishnu's) feet
अवनेजन पवित्रतया नरेन्द्र by washing, by its purity, O King of men!
स्वर्धुनि-अभूत्-नभसि Ganga became in the heavens
सा पतती निमार्ष्टि लोकत्रयम् she as falls purifies, the worlds three
भगवत: विशदेव कीर्ति: of the Lord's untarnished alone fame
ब्रह्मादयो लोकनाथा: स्वनाथाय समादृता: ।
सानुगा बलिमाजह्रु: संक्षिप्तात्मविभूतये ॥५॥
ब्रह्मा-आदय: लोकनाथा: Brahmaa and others, guardians of the worlds
स्व-नाथाय समादृता: for their own Master, with great respect
सानुगा: बलिम्-आजह्रु: along with their attendents, offerings brought
संक्षिप्त-आत्म-विभूतये for contracted Self form
तोयै: समर्हणै: स्रग्भिर्दिव्यगन्धानुलेपनै: ।
धूपैर्दीपै: सुरभिभिर्लाजाक्षतफलाङ्कुरै: ॥६॥
तोयै: समर्हणै: स्रग्भि:- with waters to wash garlands,
दिव्य-गन्ध-अनुलेपनै: divine fragrances, pastes
धूपै:-दीपै: सुरभिभि:- incenses, lights,
लाजा-अक्षत-फल-अङ्कुरै: parched grains, unbroken rice, fruits, sprouts
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितै: ।
नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनि:स्वनै: ॥७॥
स्तवनै:-जय-शब्दै:-च songs of praises, victory shouts and
तत्-वीर्य-महिमा-अङ्कितै: His power and glory denoting
नृत्य-वादित्र-गीतै:-च dances, instrumental music, songs and
शङ्ख-दुन्दुभि-नि:स्वनै: conch, trumpets sounding
जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजव: ।
विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥८॥
जाम्बवान्-ऋक्ष-राज:-तु Jaambavaana, the bears' king, indeed
भेरी-शब्दै: मनोजव: with drum sounds, as thought swift
विजयम् दिक्षु: सर्वासु triumph in quarters all
महोत्सवम्-अघोषयत् festivities declared
महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया ।
ऊचु: स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिता: ॥९॥
महीम् सर्वाम् हृताम् दृष्ट्वा the earth all taken away seeing
त्रि-पद-व्याज-याच्ञया by three paces deceitful prayer
ऊचु: स्व-भर्तु:-असुरा: said to own master (Bali), the Asuras,
दीक्षितस्य-अति-अमर्षिता: who had solemn undertaking, very enraged
न वा अयं ब्रह्मबन्धुर्विष्णुर्मायाविनां वर: ।
द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥१०॥
न वा अयम् ब्रह्मबन्धु:- not or this is a Braahmana person,,
विष्णु:-मायाविनाम् वर: Vishnu, of the conjurers foremost
द्विज-रूप-प्रतिच्छन्न: Braahmana's form disguised in
देव-कार्यम् चिकीर्षति the gods' purpose wants to accomplish
अनेन याचमानेन शत्रुणा वटुरूपिणा ।
सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥११॥
अनेन याचमानेन by this begging
शत्रुणा वटु-रूपिणा enemy in Brahmchaari form
सर्वस्वम् न: हृतम् भर्तु:- everything of our snatched master's
न्यस्त-दण्डस्य बर्हिषि refraining from violence, in the sacrifice
सत्यव्रतस्य सततं दीक्षितस्य विशेषत: ।
नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावत: ॥१२॥
सत्य-व्रतस्य सततम् to truthfulness vowed, always,
दीक्षितस्य विशेषत: consecrated particularly,
न-अनृतम् भाषितुम् शक्यम् not false to speak is capable
ब्रह्मण्यस्य दयावत: to the Braahmanas, compassionate
तस्मादस्य वधो धर्मो भर्तु: शुश्रूषणं च न: ।
इत्यायुधानि जगृहुर्बलेरनुचरासुरा: ॥१३॥
तस्मात्-अस्य वध: धर्म: that is why, his killing is righteous
भर्तु: शुश्रूषणम् च न: master's service, and ours
इति-आयुधानि जगृहु:- thus weapons took on
बले:-अनुचर-असुरा: Bali's followers the Asuras
ते सर्वे वामनं हन्तुं शूलपट्टिशपाणय: ।
अनिच्छतो बले राजन् प्राद्रवञ्जातमन्यव: ॥१४॥
ते सर्वे वामनम् हन्तुम् they all, the Dwarf to kill
शूल-पट्टिश-पाणय: trident, spear in hand
अनिच्छत: बले: राजन् unwilling as Bali was, O King!
प्राद्रवत्-जात-मन्यव: ran forward with aroused anger
तानभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।
प्रहस्यानुचरा विष्णो: प्रत्यषेधन्नुदायुधा: ॥१५॥
तान्-अभिद्रवत: दृष्ट्वा them charging seeing
दितिज-अनीकपान् नृप the Asura generals, O King!
प्रहस्य-अनुचरा: विष्णो: laughingly, the attendents of Vishnu
प्रत्यषेधत्-उदायुधा: stopped them with raised weapons
नन्द: सुनन्दोऽथ जयो विजय: प्रबलो बल: ।
कुमुद: कुमुदाक्षश्च विष्वक्सेन: पतत्त्रिराट् ॥१६॥
नन्द: सुनन्द:-अथ Nanda Sunanda then,
जय: विजय: प्रबल: बल: Jaya, Vijaya, Prabala, Bala,
कुमुद: कुमुदाक्ष:-च Kumuda, Kumudaaksha,
विष्वक्सेन: पतत्त्रिराट् Vishvakasena, Garuda
जयन्त: श्रुतदेवश्च पुष्पदन्तोऽथ सात्वत: ।
सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥१७॥
जयन्त: श्रुतदेव:-च Jayanta, Shrutadeva and
पुष्पदन्त:-अथ सात्वत: Pushpadant, then, Saatvata
सर्वे नाग-अयुत-प्राणा:- all elephants ten thousand strength (having)
चमूम् ते जघ्नु:-आसुरीम् the army they exterminated of the Asuras
हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलि: ।
वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥१८॥
हन्यमानान् स्वकान् दृष्ट्वा being killed his own (people), seeing
पुरुष-अनुचरै:-बलि: by The Supreme Person's attendents, Bali
वारयामास संरब्धान् stopped them fighting
काव्य-शापम्-अनुस्मरन् Shukraachaarya's curse remembering
हे विप्रचित्ते हे राहो हे नेमे श्रुयतां वच: ।
मा युध्यत निवर्तध्वं न न: कालोऽयमर्थकृत् ॥१९॥
हे विप्रचित्ते हे राहो O Viprachitti! O Raahu!
हे नेमे श्रुयताम् वच: O Nemi! listen to my word
मा युध्यत निवर्तध्वम् do not fight, retreat
न न: काल:-अयम्-अर्थ-कृत् not our time this, purpose attaining
य: प्रभु: सर्वभूतानां सुखदु:खोपपत्तये ।
तं नातिवर्तितुं दैत्या: पौरुषेरीश्वर: पुमान् ॥२०॥
य: प्रभु: सर्व-भूतानाम् That Lord, of all the living beings
सुख-दु:ख-उपपत्तये joy and sorrow to bring
तम् न-अतिवर्तितुम् Him not prevail upon
दैत्या: पौरुष-ईश्वर: पुमान् O Daityas! by power or lordship, a man
यो नो भवाय प्रागासीदभवाय दिवौकसाम् ।
स एव भगवानद्य वर्तते तद्विपर्ययम् ॥२१॥
य: न: भवाय प्राक्-आसीत्- Who, our for growth, formerly was
अभवाय दिवौकसाम् decline for the divinities
स: एव भगवान्-अद्य That same Lord, today,
वर्तते तत्-विपर्ययम् behaves, in its opposite
बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभि: ।
सामादिभिरुपायैश्च कालं नात्येति वै जन: ॥२२॥
बलेन सचिवै:-बुद्ध्या by strength, by counsellors, by wisdom,
दुर्गै:-मन्त्र-औषध-आदिभि: fortifications, Mantras, medicines and others
सामादिभि:-उपायै:-च by conciliation, other means and
कालम् न-अत्येति-वै-जन: the Time cannot supersede, indeed man
भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरे: ।
दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति न: ॥२३॥
भवद्भि:-निर्जिता: हि-एते by you all won, indeed, these
बहुश:-अनुचरा: हरे: many times, attendents of Shree Hari
दैवेन-ऋद्धै:-ते एव-अद्य by providence nurtured, they alone today
युधि जित्वा नदन्ति न: in the battle, winning roaring, us
एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।
तस्मात् कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥२४॥
एतान् वयम् विजेष्याम: them, we will conquer
यदि दैवम् प्रसीदति if fate is favourable
तस्मात् कालम् प्रतीक्षध्वम् therefore Time await
य: न:-अर्थत्वाय कल्पते which for our interest is conducive
श्री शुक उवाच - Shree Shuka said -
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपा: ।
रसां निविविशू राजन् विष्णुपार्षदताडिता: ॥२५॥
पत्यु:-निगदितम् श्रुत्वा master's speech having heard
दैत्य-दानव-यूथपा: the Daitya Daanava generals
रसाम् निविविशु: राजन् to the nether worlds retired, O King!
विष्णु-पार्षद-ताडिता: by Vishnu's attendents beaten
अथ तार्क्ष्यसुतो ज्ञात्वा विराट् प्रभुचिकीर्षतम् ।
बबन्ध वारुणै: पाशै:र्बलिं सौत्येऽहनि क्रतौ ॥२६॥
अथ तार्क्ष्य-सुत: ज्ञात्वा then, Taarkshy's son, Garuda, knowing
विराट् प्रभु चिकीर्षतम् The Mighty Master's intention
बबन्ध वारुणै: पाशै: बलिम् tied by Varuna's ropes, Bali
सौत्ये-अहनि क्रतौ on Soma (extraction) day during the sacrifice
हाहाकारो महानासीद् रोदस्यो: सर्वतोदिशम् ।
गृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना ॥२७॥
हाहाकार: महान्-आसीद् hue and cry great was there
रोदस्यो: सर्वत:-दिशम् in earth and heaven, all around the quarters
गृह्यमाणे-असुरपतौ being captivated Asura's lord
विष्णुना प्रभविष्णुना by Vishnu The All- powerful
तं बद्धं वारुणै: पाशैर्भगवानाह वामन: ।
नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥२८॥
तम् बद्धम् वारुणै: पाशै:- to him, bound by Varuna's snares
भगवान्-आह वामन: The All-Mighty said, The Dwarf
नष्ट-श्रियम् स्थिर-प्रज्ञम्- who had lost his fortune, to the steady of mind
उदार-यशसम् नृप and free flowing fame, O King!
पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर ।
द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥२९॥
पदानि त्रीणि दत्तानि भूमे:- steps three were given of land
मह्यम् त्वया-असुर to me by you O Asura!
द्वाभ्याम् क्रान्ता मही सर्वा by two covered the land whole
तृतीयम्-उपकल्पय for third, arrange
यावद् तपत्यसौ गोभिर्यावदिन्दु: सहोडुभि: ।
यावद् वर्षति पर्जन्यस्तावती भूरियं तव ॥३०॥
यावद् तपति-असौ गोभि:- up till where this (earth) is warmed by (Sun's)
यावत्-इन्दु: सह-उडुभि: up till where the moon with the lunar mansions
यावद् वर्षति पर्जन्य:- up till where rains the Rain god
तावती भू:-इयम् तव till there earth this is yours
पदैकेन मया क्रान्तो भूर्लोक: खं दिशस्तनो: ।
स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना ॥३१॥
पद-एकेन मया क्रान्त: in foot one, by Me is covered
भू:-लोक: खम् दिश:-तनो: the earth region, sky, the quarters by the body
स्वर्लोक:-तु द्वितीयेन the celestial region indeed, by the second
पश्यत:-ते स्वम्-आत्मना as looked on by you yourself
प्रतिश्रुतमदातुस्ते निरये वास इष्यते ।
विश त्वं निरयं तस्मात् गुरुणा चानुमोदित: ॥३२॥
प्रतिश्रुतम्-अदातु:-ते promised, not giving, your
निरये वास: इष्यते in hell residing is ascertained
विश त्वम् निरयम् तस्मात् enter you hell, because
गुरुणा च-अनुमोदित: by preceptor and recommended
वृथा मनोरथस्तस्य दूरे स्वर्ग: पतत्यध: ।
प्रतिश्रुतस्यादानेन योर्थिनं विप्रलम्भते ॥३३॥
वृथा मनोरथ:-तस्य purposeless are the aspirations, his,
दूरे स्वर्ग: पतति-अध: far fetched is heaven, descends into hell
प्रतिश्रुतस्य-अदानेन for the promised by not giving
य:-अर्थिनम् विप्रलम्भते who, the petitioner cheats
विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।
तद् व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समा: ॥३४॥
विप्रलब्ध: ददामि-इति have cheated, 'will give' thus
त्वया-अहम् च आढ्यमानिना by you I and by the arrogant
तद् व्यलीक-फलम् भुङ्क्ष्व of that untruth result bear
निरयम् कतिचित् समा: in hell for some years
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे एकोनविंश:
अध्याय: ॥२१॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे एकोनविंश:
अध्याय: ॥२१॥ Thus ends the twenty-first discourse entitled 'Bali put in bonds',
द्वाविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
एवं विप्रकृतो राजन् बलिर्भगवतासुर: ।
भिद्यमानोऽप्यऽभिन्नात्मा प्रत्याहाविक्लवं वच: ॥१॥
एवम् विप्रकृत: राजन् thus insulted, O King!
बलि:-भगवता-असुर: Bali, by the Lord, the Asura,
भिद्यमान:-अपि-अभिन्नात्मा pierced though, the integrated soul
प्रत्याह-अविक्लवम् वच: answered in untarnished words
बलि:-उवाच - Bali said -
यद्युत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यते ।
करोम्यृतं तन्न भवेत् प्रलम्भनं पदं तृतीयं कुरु शिर्ष्णि मे निजम् ॥२॥
यत्-उत्तम-श्लोक भवान् in that, the high-famed Yourself,
मम-ईरितम् वच: my spoken words
व्यलीकम् सुरवर्य मन्यते untruthful, O Adorable of the gods! Consider
करोमि-ऋतम् तत्-न भवेत् will make truthful that, not may be
प्रलम्भनम् पदम् तृतीयम् deceitful, the step third
कुरु शिर्ष्णि मे निजम् place on head my own
विभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद् व्यसनाद् दुरत्ययात् ।
नैवार्थकृच्छ्राद् भवतो विनिग्रहादसाधुवादाद् भृशमुद्विजे यथा ॥३॥
विभेमि न-अहम् निरयात् fear not I of hell
पद-च्युत: न पाशबन्धात् from position fallen, not of being bound with cords
व्यसनाद् दुरत्ययात् of calamities, of sorrows
न-एव-अर्थ-कृच्छ्रात् not even of wealth meagre
भवत: विनिग्रहात्- of Your punishment
असाधु-वादात् of miscreant being called
भृशम्-उद्विजे यथा greatly disturbed as
पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् ।
यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥४॥
पुंसाम् श्लाघ्यतमम् मन्ये for the people most honourable, I consider
दण्डम्-अर्हत्तम्-अर्पितम् the punishment by the most worthy inflicted
यम् न माता पिता भ्राता which not mother, father, brother
सुहृद:-च-आदिशन्ति हि friend and mete indeed
त्वं नूनमसुराणां न: पारोक्ष्य: परमो गुरु: ।
यो नोऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥५॥
त्वम् नूनम्-असुराणाम् You, certainly, of Asuras
न: पारोक्ष्य: परम: गुरु: our indirect greatest benefactor
य: न:-अनेक-मद-अन्धानाम् Who, us of many arrogance caused blinded
विभ्रंशम् चक्षु:-आदिशत् deprived vision gave
यस्मिन् वैरानुबन्धेन रूढेन विबुधेतरा: ।
बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिन: ॥६॥
यस्मिन् वैर-अनुबन्धेन in Whom, by enmity bonding
रूढेन विबुध-इतरा: deep-rooted, gods' others (Asuras)
बहव: लेभिरे सिद्धिम् many have attained perfection
याम्-उ ह-एकान्त-योगिन: who it is said, indeed, exclusively devoted Yogis
तेनाहं निगृहीतोऽस्मि भवता भूरिकर्मणा ।
बद्धश्च वारुणै: पाशैर्नातिव्रीडे न च व्यथे ॥७॥
तेन-अहम् निगृहीत:-अस्मि by Him, (You), am captive taken, I
भवता भूरि-कर्मणा by You of multifarious deeds
बद्ध:-च वारुणै: पाशै:- bound and by Varuna's snares
न-अति-व्रीडे न च व्यथे not am very ashamed, nor and suffer
पितामहो मे भवदीयसंमत: प्रह्लाद आविष्कृतसाधुवाद: ।
भवद्विपक्षेण विचित्रवैशसं संप्रापितस्त्वत्परम: स्वपित्रा ॥८॥
पितामह: मे भवदीय-संमत: grandfather, mine, Your devotee
प्रह्लाद: आविष्कृत-साधुवाद: Prahlaada, well-known as pious soul
भवत्-विपक्षेण विचित्र वैशसम् by Your enemy, by various tortures
संप्रापित:-त्वत्-परम: स्व-पित्रा subjected, Your esteemed, by own father
किमात्मनानेन जहाति योऽन्तत: किं रिक्थहारै: स्वजनाख्यदस्युभि: ।
किं जायया संसृतिहेतुभूतया मर्तस्य गेहै: किमिहायुषो व्यय: ॥९॥
किम्-आत्मना-अनेन what of body this
जहाति य:-अन्तत: perishes which ultimately
किम्-रिक्थहारै: what of, emptying by taking away (the wealth)
स्व-जन-आख्य-दस्युभि: own people called robbers
किम् जायया what of the wife
संसृति-हेतु-भूतया transmigration cause serving
मर्तस्य गेहै: of the mortal of the houses
किम्-इह-आयुष: व्यय: what of, here lifetime wasting
इत्थं स निश्चित्य पितामहो महानगाधबोधो भवत: पादपद्मम् ।
ध्रुवं प्रपेदे ह्यकुतोभयं जनाद् भीत: स्वपक्षक्षपणस्य सत्तम: ॥१०॥
इत्थम् स: निश्चित्य in this manner, he decided
पितामह: महान्- grandfather the great
अगाध-बोध: of deep wisdom
भवत: पाद-पद्मम् Your feet lotus
ध्रुवम् प्रपेदे हि-अकुत:-भयम् eternal took shelter, indeed from no where afraid
जनात् भीत: from people afraid
स्व-पक्ष-क्षपणस्य सत्तम: own people to exterminate adapt
अथाहमप्यात्मरिपोस्तवान्तिकं दैवेन नीत: प्रसभं त्याजितश्री: ।
इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥११॥
अथ-अहम्-अपि-आत्म-रिपो:- then, I also, my own enemy,
तव-अन्तिकम् दैवेन नीत: Your near, by Providence, forcibly taken,
प्रसभम् त्याजित-श्री: robbed of wealth
इदम् कृतान्त-अन्तिकवर्ति this of Death close
जीवितम् यया ध्रुवम् life, by which certainly
स्तब्ध-मति:-न बुध्यते dumb minded does not understand
श्री शुक उवाच - Shree Shuka said -
तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रिय: ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थित: ॥१२॥
तस्य-इत्थम् भाषमाणस्य his thus saying
प्रह्लाद: भगवत्-प्रिय: Prahlaada, Lord's beloved
आजगाम कुरु-श्रेष्ठ came, O Foremost of the Kurus!
राकापति:-इव-उत्थित: moon like risen
तमिन्द्रसेन: स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् ।
प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं सुभगं समैक्षत ॥१३॥
तम्-इन्द्रसेन: स्व-पितामहम् him, Bali, own grandfather
श्रिया विराजमानम् by glory accompanied
नलिन-आयत-ईक्षणम् lotus wide eyed
प्रांशुम् पिशङ्ग-अम्बरम्- tall, yellow garment
अञ्जनत्विषम् प्रलम्ब-बाहुम् collyrium like dark, long armed
सुभगम् समैक्षत handsome saw
तस्मै बलिर्वारुणपाशयन्त्रित: समर्हणं नोपजहार पूर्ववत् ।
ननाम् मूर्ध्नाश्रुविलोललोचन: सव्रीडनीचीनमुखो बभूव ह ॥१४॥
तस्मै बलि:-वारुण-पाश-यन्त्रित: for him, Bali, by Varuna snares bound,
समर्हणम् न-उपजहार पूर्ववत् worship did not bring like before
ननाम् मूर्ध्ना-अश्रु-विलोल-लोचन: bowed down by head, tears brimming eyes
सव्रीड-नीचीन-मुख: बभूव ह with shame bent face became indeed
स तत्र हासीनमुदीक्ष्य सत्पतिं सुनन्दनन्दाद्यनुगैरुपासितम् ।
उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लव: ॥१५॥
स: तत्र ह-आसीनम्- he, there, indeed sitting
उदीक्ष्य सत्पतिम् seeing The Lord (Protector of the virtuous)
सुनन्द-नन्द-आदि- Sunanda, Nanda, and other
अनुगै:-उपासितम् attendents waited upon
उपेत्य भूमौ शिरसा nearing, on the ground with head
महामना ननाम मूर्ध्ना The great hearted (Prahlaada), bowed by head
पुलक-अश्रु-विक्लव: with horripilation and tears overwhelmed
प्रह्लाद उवाच - Prahlaada said -
त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् ।
मन्ये महानस्य कृतो ह्यनुग्रहो विभ्रंशितो यच्छ्रिय आत्ममोहनात् ॥१६॥
त्वया-एव दत्तम् by You alone was bestowed
पदम्-ऐन्द्रम्-ऊर्जितम् the position of Indra, the exalted
हृतम् तत्-एव-अद्य taken away that only today
तथा-एव शोभनम् that also (is) very enchanting
मन्ये महान्-अस्य-कृत: I consider it great, of this action
हि-अनुग्रह: विभ्रंशित: यत्- indeed favour, deported in that
श्रिय: आत्म-मोहनात् from fortune, from self infatuating
यया हि विद्वानपि मुह्यते यतस्तत् को विचष्टे गतिमात्मनो यथा ।
तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥१७॥
यया हि विद्वान्-अपि by whom the wise also
मुह्यते यत:-तत् क: is infatuated, by which, that who
विचष्टे गतिम्-आत्मन: यथा can fathom the true nature of self, so that,
तस्मै नमस्ते जगदीश्वराय वै to Him salutations, the universe's Ruler,
तस्मै नमस्ते जगदीश्वराय वै to Him salutations, the universe's Ruler, certainly,
नारायणाय-अखिल- Naaraayana, of the whole
लोक-साक्षिणे world The Witness
श्री शुक उवाच - Shree Shuka said -
तस्यानुशृण्वतो राजन् प्रह्लादस्य कृताञ्जले: ।
हिरण्यगर्भो भगवानुवाच मधुसूदनम् ॥१८॥
तस्य-अनुशृण्वत: राजन् in his hearing, O King!
प्रह्लादस्य कृत-अञ्जले: of Prahlaada, with folded hands
हिरण्यगर्भ: भगवान्-उवाच Brahmaa, the lord, said
मधुसूदनम् to Madhusoodana, (Vishnu)
बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला ।
प्राञ्जलि: प्रणतोपेन्द्रं बभाषेऽवाङ्मुखी नृप ॥१९॥
बद्धम् वीक्ष्य पतिम् bound seeing (her) husband
साध्वी तत्-पत्नी the pious his wife
भय-विह्वला with fear overwhelmed
प्राञ्जलि: प्रणत- with folded hands, bowing
उपेन्द्रम् भाषे- to The Lord, said,
बअवाङ्-मुखी नृप with down face, O King!
विन्ध्यावलि:-उवाच - Vindhyaavalee said -
क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते ।
स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्यु: ।
कर्तु: प्रभोस्तव किमस्यत आवहन्ति
त्यक्तह्रियस्त्वदवरोपितकर्तृवादा: ॥२०॥
क्रीडा-अर्थम्-आत्मन: for sporting purpose, Your
इदम् त्रि-जगत् कृतम् ते this, three fold universe created by You
स्वामि-अयम् तु तत्र oneself master of this, indeed where
कुधि:-अपर: ईश कुर्यु: pervert mind others, fortunate think
कर्तु: प्रभो:-तव किम्- ownership, O Lord! To You, what
अस्यत आवहन्ति त्यक्त-ह्रिय:- to Preserver and Destroyer, bring devoid of
त्वत्-अवरोपित-कर्तृ-वादा: by You imposed the (false notion of) doer-ship
ब्रह्मा-उवाच - Brahmaa said -
भूतभावन भूतेश देवदेव जगन्मय ।
मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥२१॥
भूत-भावन भूत-ईश O Of the beings The Creator! of beings The Lord!
देव-देव जगत्-मय God of gods! O Cosmic Being!
मुञ्च-एनम् हृत-सर्वस्वम् release him, stripped of everything
न-अयम्-अर्हति निग्रहम् not this deserves to be in bondage
कृत्स्ना तेऽनेन दत्ता भूर्लोका: कर्मार्जिताश्च ये ।
निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥२२॥
कृत्स्ना ते-अनेन the whole to You, by him
दत्ता भू:-लोका: is given the terrestrial regions
कर्म-अर्जिता:-च ये by noble deeds earned and those
निवेदितम् च सर्वस्वम्- offered and the entire (belongings)
आत्मा-अविक्लवया धिया and self, with unwavering mind
यत्पादयोरशठधी: सलिलं प्रदाय
दुर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।
अप्युत्तमां गतिमसौ भजते त्रिलोकीं
दाश्वानविक्लवमना: कथमार्तिमृच्छेत् ॥२३॥
यत्-पादयो:-अशठ-धी: who, the feet, undeceitful minded
सलिलम् प्रदाय water poured
दुर्वा-अङ्कुरै:-अपि विधाय with grass sprouts also carried out
सतीम् सपर्याम् proper worship
अपि-उत्तमाम् गतिम्- also the highest state
असौ भजते त्रिलोकीम् he attains the three worlds
दाश्वन्-अविक्लव-मना: giver with undeterred mind
कथम्-आर्तिम्-ऋच्छेत् how come suffering deserves
श्री भगवान्-उवाच - The glorious Lord said -
ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्यहम् ।
यन्मद: पुरुष: स्तब्धो लोकं मां चावमन्यते ॥२४॥
ब्रह्मन् यम्-अनुगृह्णामि O Brahmaa! to whom I bless
तत्-विश: विधुनोमि-अहम् his wealth take away I
तत्-मद: पुरुष: स्तब्ध: by its intoxications, man dumbed
लोकम् माम् च-अवमन्यते the world, Me and disregards
यदा कदाचिज्जीवात्मा संसरन् निजकर्मभि: ।
नानायोनिष्वनीशोऽयं पौरुषीं गतिमाव्रजेत् ॥२५॥
यदा कदाचित्-जीव-आत्मा when sometimes, the living soul,
संसरन् निज-कर्मभि: evaluating by own actions
नाना-योनिषु-अनीश:-अयम् (through) various wombs, helpless, he,
पौरुषीम् गतिम्-आव्रजेत् human state reaches
जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभि: ।
यद्यस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रह: ॥२६॥
जन्म-कर्म-वय:-रूप- by pedigree, actions, age, form,
विद्या-ऐश्वर्य-धन-आदिभि: learning, power, affluence etc.,
यदि-अस्य न भवेत् स्तम्भ:- if he does not become benumbed
तत्र-अयम् मत्-अनुग्रह: there, this (is) My grace
मानस्तम्भनिमित्तानां जन्मादीनां समन्तत: ।
सर्वश्रेय: प्रतीपानां हन्त मुह्येन्न मत्पर: ॥२७॥
मान-स्तम्भ निमित्तानाम् pride vanity causing
जन्म-आदीनाम् समन्तत: pedigree and others, all are reasons
सर्व-श्रेय: प्रतीपानाम् for all blessedness barring,
हन्त मुह्येत्-न मत्-पर: Alas! is dumbed not Me devoted to
एष दानवदैत्यानामग्रणी: कीर्तिवर्धन: ।
अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥२८॥
एष: दानव-दैत्यानाम्- this, he, of the Daityas and Daanavas,
अग्रणी: कीर्ति:-वर्धन: the leader, and fame enhancers
अजैषीत्-अजयाम् मायाम् has won the unconquerable Maayaa,
सीदन्-अपि न मुह्यति suffering also is not dumbed
क्षीणरिक्थश्च्युत: स्थानात् क्षिप्तो बद्धश्च शत्रुभि: ।
ज्ञातिभिश्च परित्यक्तो यातनामनुयापित: ॥२९॥
क्षीण-रिक्थ:-च्युत: स्थानात् depleted of wealth, deported from position
क्षिप्त: बद्ध:-च शत्रुभि: reproached and tied down by the enemies
ज्ञातिभि:-च परित्यक्त: by kins folk forsaken
यातनाम्-अनुयापित: to torture subjected
गुरुणा भर्त्सित: शप्तो जहौ सत्यं न सुव्रत: ।
छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥३०॥
गुरुणा भर्त्सित: शप्त: by the preceptor reprimanded, cursed,
जहौ सत्यम् न सुव्रत: gave up truth not, the firmly resolved
छलै:-उक्त: मया धर्म: by sly remarks spoken, by Me righteousness
न-अयम् त्यजति सत्यवाक् not this he, gives up truthfulness
एष मे प्रापित: स्थानं दुष्प्रापममरैरपि ।
सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रय: ॥३१॥
एष: मे प्रापित: स्थानम् this he, My, has attained the position
दुष्प्रापम्-अमरै:-अपि difficult to be attained by the gods also
सावर्णे:-अन्तरस्य-अयम् in Saavarna Manvantara, he will
भविता-इन्द्र: मत्-आश्रय: be Indra, by Me protected
तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् ।
यन्नाधयो व्याधयश्च क्लमस्तन्द्रा पराभव: ।
नोपसर्गा निवसतां संभवन्ति ममेक्षया ॥३२॥
तावत् सुतल-मध्य-आस्ताम् till then, Sutala inside may live
विश्वकर्म-विनिर्मितम् by Vishvakarmaa built
यत्-न-आधय: व्याधय:-च where, not agonies, ailments and
क्लम:-तन्द्रा पराभव: fatigue, drowsiness, mortification
न-उपसर्गा: निवसताम् not trouble to those living
संभवन्ति मम-ईक्षया will be, by My gracious sight
इन्द्रसेन महाराज याहि भो भद्रमस्तु ते ।
सुतलं स्वर्गिभि: प्रार्थ्यं ज्ञातिभि: परिवारित: ॥३३॥
इन्द्रसेन महाराज याहि भो 'Indrasena! O Great King! go O You!
इन्द्रसेन महाराज याहि भो
भद्रम्-अस्तु ते good be to you
सुतलम् स्वर्गिभि: प्रार्थ्यम् to Sutala, by the celestials coveted
ज्ञातिभि: परिवारित: with own folk accompanied
न त्वामभिभविष्यन्ति लोकेशा: किमुतापरे ।
त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥३४॥
न त्वाम्-अभिभविष्यन्ति not you will overpower
लोकेशा: किमुत-अपरे the quarters' guardians, what of others
त्वत्-शासन-अतिगान् your command not obeying
दैत्यान्-चक्रम् मे सूदयिष्यति the Daityas, discus My will kill
रक्षिष्ये सर्वतोऽहं त्वां सानुगं सपरिच्छदम् ।
सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥३५॥
रक्षिष्ये सर्वत:-अहम् will protect from all sides, I
त्वाम् सानुगम् सपरिच्छदम् you along with your people, with your possessions
सदा सन्निहितम् वीर always near by, O Brave One!
तत्र माम् द्रक्ष्यते भवान् there Me, will see you
तत्र दानवदैत्यानां सङ्गात् ते भाव आसुर: ।
दृष्ट्वा मदनुभावं वै सद्य: कुण्ठो विनङ्क्ष्यति ॥३६॥
तत्र दानव-दैत्यानाम् there, of the Daanava and the Daityas
सङ्गात् ते भाव आसुर: company your, tendency of Asuras'
दृष्ट्वा मद्-अनुभावम् वै by seeing my glory
सद्य: कुण्ठ: विनङ्क्ष्यति indeed soon checked
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे बलिवामन संवादो
नाम द्वाविंश: अध्याय: ॥२२॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामनप्रादुर्भावे बलिवामन संवादो
नाम द्वाविंश: अध्याय: ॥२२॥ Thus ends the twenty-second discourse entitled 'A dialogue between king
त्रयोविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसंमत: ।
बद्धाञ्जलिर्वाष्पकलाकुलेक्षणो भक्त्युद्गलो गद्गदया गिराब्रवीत् ॥१॥
इति-उक्तवन्तम् thus, to the so saying
पुरुषम् पुरातनम् Person Ancient
महानुभाव:- the magnanimous (Bali)
अखिल-साधु-संमत: by all the sages esteemed
बद्ध-अञ्जलि:- with folded hands
वाष्प-कला-आकुल-ईक्षण: teardrops overwhelmed eyes,
भक्ति-उद्गल: with devotion filled
गद्गदया गिरा-अब्रवीत् choked voice said
बलि:-उवाच - Bali said -
अहो प्रणामाय कृत: समुद्यम: प्रपन्नभक्तार्थविधौ समाहित: ।
यल्लोकपालैस्त्वदनुग्रहोऽमरैरलब्धपूर्वोऽपसदेऽसुरेऽर्पित: ॥२॥
अहो प्रणामाय Oh! For bowing
कृत: समुद्यम: making sincere effort
प्रपन्न-भक्ति-अर्थ- for the surrendered in devotion's result
विधौ समाहित: intent to secure (for me)
यत्-लोकपालै:- which by the quarters' guardians
त्वत्-अनुग्रह:-अमरै:- Your grace by the gods
अलब्ध-पूर्व:- unattained before
अपसदे-असुरे-अर्पित: to the undeserving Asura is vouchsafed
श्री शुक उवाच - Shree Shuka said -
इत्युक्त्वा हरिमानम्य ब्रह्माणं सभवं तत: ।
विवेश सुतलं प्रीतो बलिर्मुक्त: सहासुरै: ॥३॥
इति-उक्त्वा हरिम्-आनम्य thus saying, to Hari bowing
ब्रह्माणम् सभवम् तत: to Brahmaa with Shankara, then,
विवेश सुतलम् प्रीत: entered Sutala, delighted
बलि:-मुक्त: सह-असुरै: Bali, free, with the Asuras
एवमिन्द्राय भगवान् प्रत्यनीय त्रिविष्टपम् ।
पूरयित्वादिते: काममशासत् सकलं जगत् ॥४॥
एवम्-इन्द्राय भगवान् in this manner, to Indra, The Lord
प्रत्यनीय त्रिविष्टपम् restored the heaven
पूरयित्वा-अदिते: कामम्- fulfilling Aditi's desire
अशासत् सकलम् जगत् ruled on the whole universe
लब्ध प्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् ।
निशाम्य भक्तिप्रवण: प्रह्लाद इदमब्रवीत् ॥५॥
लब्ध-प्रसादम् निर्मुक्तम् receiving the grace, free of bondage,
पौत्रम् वंशधरम् बलिम् grandson, the forwarder of lineage, Bali,
निशाम्य भक्ति-प्रवण: seeing, in devotion the expert,
प्रह्लाद: इदम्-अब्रवीत् Prahlaada, this said
प्रह्लाद उवाच - Prahlaada said -
नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्व: किमुतापरे ते ।
यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरपि वन्दिताङ्घ्रि: ॥६॥
न-इमम् विरिञ्च: लभते not this, Brahmaa, receives
प्रसादम् न श्री:-न शर्व: grace, not Shree, not Shankara,
किम्-उत-अपरे ते what of others, Yours
यत्-न:-असुराणाम्-असि which to us Asuras (that) (You) are
दुर्गपाल: विश्व-अभिवन्द्यै:- the fort governor, by the universe adorable
अपि वन्दित-अङ्घ्रि: also, adored feet
यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादय: शरणदाश्नुवते विभूती: ।
कस्माद् वयं कुसृतय: खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवत: प्रणीता: ॥७॥
यत्-पाद-पद्म-मकरन्द- Whose feet lotuses' honey
निषेवणेन ब्रह्मा-आदय: by imbuing, Brahmaa and others
शरणद-अश्नुवते विभूती: O Shelter provider! (Lord), enjoy opulence (power)
कस्माद् वयम् कुसृतय: how then, we, of evil ways
खल-योनय:-ते दाक्षिण्य of wicked race, of Your gracious
चित्रं तवेहितमहोऽमितयोगमाया-लीलाविसृष्टभुवनस्य विशारदस्य ।
सर्वात्मन: समदृशो विषम: स्वभावो भक्तिप्रियो यदसि कल्पतरुस्वभाव: ॥८॥
चित्रम् तव-ईहितम्-अहो- strange, Your sportings, Oh!
अमित-योग-माया-लीला- By invincible creative energy, sportingly
विसृष्ट भुवनस्य विशारदस्य released of the worlds omniscient
सर्व-आत्मन: समदृश: of all the very Self, looking at all with the same eye
विषम: स्वभाव: भक्ति-प्रिय: contrary nature, (because) of devotees are fond
विषम: स्वभाव: भक्ति-प्रिय: contrary nature, (because) of devotees are fond of
यत्-असि कल्पतरु-स्वभाव: because Are of the Kalpataru nature
श्री भगवान्-उवाच - The Lord said -
वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम् ।
मोदमान: स्वपौत्रेण ज्ञातिनां सुखमावह ॥९॥
वत्स प्रह्लाद भद्रम् ते 'Son Prahlaada! good be to you
वत्स प्रह्लाद भद्रम् ते
प्रयाहि सुतल-आलयम् proceed to the Sutala abode
मोदमान: स्व-पौत्रेण rejoice with your grandson
ज्ञातिनाम् सुखम्-आवह the kinsfolk delight bring'
नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् ।
मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धन: ॥१०॥
नित्यम् द्रष्टासि माम् तत्र always will see Me there
गदा-पाणिम्-अवस्थितम् mace in hand stationed
मत्-दर्शन-महा-आह्लाद- by My sight great joy (inducing)
ध्वस्त-कर्म-निबन्धन: shattered all actions bondages
श्री शुक उवाच - Shree Shuka said -
आज्ञां भगवतो राजन् प्रह्लादो बलिना सह ।
बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलि: ॥११॥
आज्ञा भगवत: राजन्- order of The Lord, O King!
प्रह्लाद: बलिना सह Prahlaada Bali along with
बाढम्-इति-अमल-प्रज्ञ: 'Very well' thus of untainted intellect
बाढम्-इति-अमल-प्रज्ञ:
मूर्ध्नि-आधाय कृत-अञ्जलि: on head bearing, with folded hands
परिक्रम्यादिपुरुषं सर्वासुरचमूपति: ।
प्रणतस्तदनुज्ञात: प्रविवेश महाबिलम् ॥१२॥
परिक्रम्य-आदि-पुरुषम् circumambulating the Primary Person
सर्व-असुर-चमू-पति: of all the Asura armies, the general
प्रणत:-तद्-अनुज्ञात: bowing, by Him permitted
प्रविवेश महाबिलम् entered subterranean world
अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके ।
आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥१३॥
अथ-आह-उशनसम् राजन् then, said to Ushanas, (Shukraachaaryaa), O King!
हरि:-नारायण:-अन्तिके आसीनम्- Shree Hari, Naaraayana, to close by sitting
ऋत्विजाम् मध्ये in the priests midst
सदसि ब्रह्म-वादिनाम् in the assembly of the Veda exponents
ब्रह्मन् संतनु शिष्यस्य कर्मच्छिद्रं वितन्वत: ।
यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥१४॥
ब्रह्मन् संतनु शिष्यस्य 'O Holy Braahmana! Complete, of your disciple
ब्रह्मन् संतनु शिष्यस्य
कर्म-च्छिद्रम् वितन्वत: ritual lacking, while performing
यत् तत् कर्मसु वैषम्यम् because, that in the rituals, the mistakes
ब्रह्म-दृष्टम् समम् भवेत् by Braahmana's noticing, corrected becomes
श्री शुक्र उवाच - Shree Shukra said -
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् ।
यज्ञेशो यज्ञपुरुष: सर्वभावेन पूजित: ॥१५॥
कुत:-तत्-कर्म-वैषम्यम् where is his ritual's defect
यस्य कर्म-ईश्वर: भवान् whose of actions The Lord, You,
यज्ञेश: यज्ञ-पुरुष: of sacrifices The Lord, of sacrifices The deity
सर्व-भावेन पूजित: by all means and devotion is worshipped
मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुत: ।
सर्वं करोति निश्छिद्रं नामसंकीर्तनं तव ॥१६॥
मन्त्रत:-तन्त्रत:-छिद्रम् by way of the mantras, the procedure, defect
देश-काल-अर्ह-वस्तुत: सर्वम् of place, time, of the priests and material, all
करोति निश्छिद्रम् is made defect less
नाम संकीर्तनं तव by the names chanting Your
तथापि वदतो भूमन् करिष्याम्यनुशासनम् ।
एतच्छ्रेय: परं पुंसां यत् तवाज्ञानुपालनम् ॥१७॥
तथा-अपि वदत: भूमन् then even, as said by You, O Infinite Lord!
करिष्यामि-अनुशासनम् will do as directed (by You)
एतत्-श्रेय: परम् पुंसाम् यत् this is beneficial most, for people that
तव-आज्ञा-अनुपालनम् Your command to obey
श्री शुक उवाच - Shree Shuka said -
अभिनन्द्य हरेराज्ञामुशना भगवानिति ।
यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभि: सह ॥१८॥
अभिनन्द्य हरे:-आज्ञाम्- accepting Lord Hari's orders
उशना भगवान्-इति Ushanaa, the glorious, thus,
यज्ञ-च्छिद्रम् समाधत्त of the sacrifice the mistakes rectified
बले:-विप्र-ऋषिभि: सह of Bali, the Braahmana sages with
एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरि: ।
ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर्हृतम् ॥१९॥
एवम् बले:-महीम् राजन् thus, Bali's land, O King!
भिक्षित्वा वामन: हरि: by begging, the Dwarf Lord Shree Hari
ददौ भ्रात्रे महेन्द्राय gave to brother, the mighty Indra
त्रिदिवम् यत् परै:-हृतम् the heaven which the enemies had usurped
प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपै: ।
दक्षभृग्वङ्गिरोमुख्यै: कुमारेण भवेन च ॥२०॥
प्रजापति-पति:-ब्रह्मा of the Prajaapatis, the lord, Brahmaa
देवर्षि-पितृ-भूमिपै: the god sages, the manes, the Manus
दक्ष-भृगु-अङ्गिर:-मुख्यै: Daksha, Bhrigu, Angiraa, the leaders
कुमारेण भवेन च with the Sanat kumara, and Shiva
कश्यपस्यादिते: प्रीत्यै सर्वभूतभवाय च ।
लोकानां लोकपालानामकरोद् वामनं पतिम् ॥२१॥
कश्यपस्य-अदिते: प्रीत्यै for Kashyapa's and Aditi's pleasure
सर्व-भूत-भवाय च for all creations welfare
लोकानाम् लोक-पालानाम्- of the worlds, the quarters' guardians,
अकरोत्-वामनम् पतिम् made The Dwarf the Lord
वेदानां सर्वदेवानां धर्मस्य यशस: श्रिय: ।
मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयो: ॥२२॥
वेदानाम् सर्व-देवानाम् of the Vedas, of all the gods
धर्मस्य यशस: श्रिय: of righteousness, of fame, wealth
मङ्गलानाम् व्रतानाम् च blessings and sacred vows
कल्पम् स्वर्ग-अपवर्गयो: made, of heaven and of final beatitude
उपेन्द्रं कल्पयाञ्चक्रे पतिं सर्वविभूतये ।
तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥२३॥
उपेन्द्रम् कल्पयाम्-चक्रे younger brother of Indra, to the position, made
पतिम् सर्व-विभूतये the Lord of all powers
तदा सर्वाणि भूतानि then, all the created beings
भृशम् मुमुदिरे नृप very much rejoiced, O Ruler of men!
ततस्त्विन्द्र: पुरस्कृत्य देवयानेन वामनम् ।
लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदित: ॥२४॥
तत:-तु-इन्द्र: पुरस्कृत्य then, indeed, Indra, placing Him in front
देव-यानेन वामनम् by the celestial car, Vaamana
लोकपालै:-दिवम् निन्ये with the quarters' guardians to heaven took
ब्रह्मणा च-अनुमोदित: by Brahmaa and permitted
प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुज पालित: ।
श्रिया परमया जुष्टो मुमुदे गतसाध्वस: ॥२५॥
प्राप्य त्रिभुवनम् च-इन्द्र obtaining the three worlds', and Indra
उपेन्द्र भुज पालित: by Upendra (Vaamana) arms protected
श्रिया परमया जुष्ट: with glory supreme invested
मुमुदे गत-साध्वस: rejoiced devoid of fear
ब्रह्मा शर्व: कुमारश्च भृग्वाद्या मुनयो नृप ।
पितर: सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥२६॥
ब्रह्मा शर्व: कुमार:-च Brahmaa, Shiva, Sanatkumaaras,
भृगु-आद्या: मुनय: नृप and Bhrigu and others, the sages, O King!
पितर: सर्व-भूतानि the manes, all created beings
सिद्धा: वैमानिका:-च हि the Siddhas, in Ariel cars and indeed
सुमहत् कर्म तद् विष्णोर्गायन्त: परमाद्भुतम् ।
धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥२७॥
सुमहत् कर्म तत् विष्णो:- the great deed that of Vishnu,
गायन्त: परम-अद्भुतम् praising, highly wonderful
धिष्ण्यानि स्वानि ते जग्मु:- to realms own they went
अदितिम् च शशंसिरे Aditi and extolled
सर्वमेतन्मयाऽऽख्यातं भवत: कुलनन्दन ।
उरुक्रमस्य चरितम् श्रोतृणामघमोचनम् ॥२८॥
सर्वम्-एतत्-मया-आख्यातम् all this, by me is told
भवत: कुलनन्दन to you, O Delighter of your race!
उरुक्रमस्य चरितम् of the wide strides (Vishnu's) story
श्रोतृणाम्-अघ-मोचनम् of those hearing it, sins releasing
पारं महिम्न उरु विक्रमतो गृणानो य: पार्थिवानि विममे स रजांसि मर्त्य: ।
किं जायमान उत जात उपैति मर्त्य इत्याह मन्त्रदृगृषि: पुरुषस्य यस्य ॥२९॥
पारम् महिम्न: उरु विक्रमत: extent of the prowess of The wide strides'
गृणान: य: पार्थिवानि विममे estimate who of the earth to count
स: रजांसि मर्त्य: he the dust particles, mortal
किम् जायमान: उत जात: who will be born, or is born,
उपैति मर्त्य: इति-आह is capable a mortal, thus said
मन्त्र-दृक्-ऋषि: Mantra seer sage (Vashishtha)
पुरुषस्य यस्य of Person's Whose
य इदं देवदेवस्य हरेरद्भुतकर्मण: ।
अवतारानुचरितं शृण्वन् याति परां गतिम् ॥३०॥
य: इदम् देव-देवस्य who (so ever), this of The Lord of the gods
हरे:-अद्भुत-कर्मण: Shree Hari's wonderful deeds'
अवतार-अनुचरितम् descent accounts
शृण्वन् याति पराम् गतिम् hearing attains the highest state
क्रियमाणे कर्माणीदं दैवे पित्र्येऽथ मानुषे ।
यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदु: ॥३१॥
क्रियमाणे कर्माणि-इदम् दैवे while doing rituals this, for the gods,
पित्र्ये-अथ मानुषे for the manes, then for human beings
यत्र यत्र-अनुकीर्त्येत where all is repeatedly recited
तत् तेषाम् सुकृतम् विदु: that for them, good done will be, is declared
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामन-अवतार चरिते त्रयोविंश:
अध्याय: ॥२३॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमे स्कन्धे वामन-अवतार चरिते त्रयोविंश:
अध्याय: ॥२३॥ Thus ends the twenty-third discourse, comprised in the story of the
चतुर्विंश: अध्याय:
राजा-उवाच - The King said -
भगवञ्छ्रोतुमिच्छामि हरेरद्भुतकर्मण: ।
अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥१॥
भगवन्-श्रोतुम्-इच्छामि O Holy One! hear want to
हरे:-अद्भुत-कर्मण: Shree Hari's of strange deeds
अवतार-कथाम्-आद्याम् the descent story, the very first,
माया-मत्स्य विडम्बनम् by Maaya fish intriguing
यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् ।
तम:प्रकृति दुर्मर्षं कर्मग्रस्त इवेश्वर: ॥२॥
यत्-अर्थम्-अदधाद् रूपम् for what reason took on the form
मात्स्यम् लोक-जुगुप्सितम् of a fish, by the worlds detested
तम:-प्रकृति: दुर्मर्षम् Taamasic by nature, fierce,
कर्म-ग्रस्त इव-ईश्वर: by Karma subjected to, like, The All Powerful Lord
एतन्नो भगवन् सर्वं यथावद् वक्तुमर्हसि ।
उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥३॥
एतत्-न: भगवन् सर्वम् this, to us, O lord! all
यथा-वत् वक्तुम्-अर्हसि as it is, to tell be pleased
उत्तमश्लोक-चरितम् of The Highly Famed Lord's story
सर्व-लोक-सुख-आवहम् for all the people happiness bringing
सूत उवाच - Soota said -
इत्युक्तो विष्णुरातेन भगवान् बादरायणि: ।
उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥४॥
इति-उक्त: विष्णुरातेन thus being asked by Pareekshita
भगवान् बादरायणि: the lord Shukadeva
उवाच चरितम् विष्णो:- said the story of Vishnu
मत्स्य-रूपेण यत् कृतम् in fish form which was taken
श्री शुक उवाच - Shree Shuka said -
गोविप्रसुरसाधुनां छन्दसामपि चेश्वर: ।
रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥५॥
गो-विप्र-सुर-साधुनाम् for the cows, Braahmanas, gods, noble people,
छन्दसाम्-अपि च-ईश्वर: Vedas also and The All Powerful Lord
रक्षाम्-इच्छन्-तनू:-धत्ते protection desiring, form takes on
धर्मस्य-अर्थस्य च-एव हि for the righteousness purpose, and also indeed
उच्चावचेषु भूतेषु चरन् वायुरिवेश्वर: ।
नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणै: ॥६॥
उच्च-अवचेषु भूतेषु in high and low creatures,
चरन् वायु:-इव-ईश्वर: functioning, air like, The All Powerful Lord
न-उच्च-अवचत्वम् भजते not high or low status acquires
निर्गुणत्वात्-धिय: गुणै: because of being devoid of Gunas, by Gunas
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लय: ।
समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥७॥
आसीत्-अतीत-कल्प-अन्ते there was in the past, at the Kalpa's end
ब्राह्म:-नैमित्तिक: लय: Braahma named Naimitika dissolution
समुद्र-उपप्लुता:-तत्र (when) by the ocean were washed there
लोका भू:-आदय: नृप the worlds, the earth and others, O King!
कालेनागतनिद्रस्य धातु: शिशयिषोर्बली ।
मुखतो नि:सृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥८॥
कालेन-आगत निद्रस्य in time, overcome by sleep,
धातु: शिशयिषो:-बली Brahmaa's wanting to sleep, the powerful, (demon)
मुखत: नि:सृतान् वेदान् from the mouth, emanating Vedas
हयग्रीव:-अन्तिके-अहरत् Hayagreeva, close by, stole
ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।
दधार शफरीरूपं भगवान् हरिरीश्वर: ॥९॥
ज्ञात्वा तत् दानव-इन्द्रस्य knowing that, of the Daanava chief
हयग्रीवस्य चेष्टितम् Hayagreeva's action
दधार शफरी-रूपम् took on fish form
भगवान् हरि:-ईश्वर: The Lord Shree Hari, The All-powerful
तत्र राजऋषि: कश्चिन्नाम्ना सत्यव्रतो महान् ।
नारायणपरोऽतप्यत् तप: स सलिलाशन: ॥१०॥
तत्र राज-ऋषि: कश्चित्- there, a royal sage some,
नाम्ना सत्यव्रत: महान् by name of Satyavrata the great
नारायण-पर:-अतप्यत् to Naaraayana devoted, practiced
तप: स: सलिल-आशन: austerities, he on water subsisting
योऽसावस्मिन् महाकल्पे तनय: स विवस्वत: ।
श्राद्द्धदेव इति ख्यातो मनुत्वे हरिणार्पित: ॥११॥
य:-असौ-अस्मिन् महाकल्पे who this, in this great Kalpa
तनय: स: विवस्वत: son of Vivasvata, (The Sun)
श्राद्द्धदेव इति ख्यात: Shraaddhadeva, thus well known
मनुत्वे हरिणा-अर्पित: to Manu's position by Shree Hari was exalted
एकदा कृतमालायां कुर्वतो जलतर्पणम् ।
तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत ॥१२॥
एकदा कृतमालायाम् one day, in Kritamaalaa (river)
कुर्वत: जल-तर्पणम् (while) doing water oblation
तस्य-अञ्जलि-उदके in his hands' hollow's water
काचित्-शफरी-एका-अभ्यपद्यत some fish, one appeared
सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।
उत्ससर्ज नदीतोये शफरीं द्रविडेश्वर: ॥१३॥
सत्यव्रत:-अञ्जलि-गताम् Satyavrata, in the hollow of the palms appeared
सह तोयेन भारत with the water, O Scion of Bhaarata!
उत्ससर्ज नदी-तोये released in the river water
शफरीम् द्रविड-ईश्वर: the fish, Drawida's Ruler
तमाह सातिकरुणं महाकारुणिकं नृपम् ।
यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।
कथं विसृजसे राजन् भीतामस्मिन्सरिज्जले ॥१४॥
तम्-आह सा-अति-करुणम् to him said she, with most pity
महा-कारुणिकम् नृपम् to the very compassionate king
यादोभ्य: ज्ञाति-घातिभ्य: of water creatures, (own) species the killers
दीनाम् माम् दीनवत्सल the afflicted me, O to the afflicted kind!
कथम् विसृजसे राजन् how come throw O King!
भीताम्-अस्मिन् सरित्-जले afraid (that I am), in this river water
तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।
अजानन् रक्षणार्थाय शफर्या: स मनो दधे ॥१५॥
तम्-आत्मन:-अनुग्रह-अर्थम् Him, on self grace to shower,
प्रीत्या मत्स्य-वपु:-धरम् lovingly fish form taking
अजानन् रक्षण-अर्थाय not aware of, protect to
शफर्या: स: मन: दधे in the fish he, mind made up
तस्या दीनतरं वाक्यमाश्रुत्य स महीपति: ।
कलशाप्सु निधायैनां दयालुनिन्य आश्रमम् ॥१६॥
तस्या: दीनतरम् वाक्यम्- her very pitiful words
आश्रुत्य स: महीपति: having heard, that king
कलश-अप्सु निधाय-एनाम् in the pot water, putting her
दयालु:-निन्ये आश्रमम् the kind one took to the hermitage
सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।
अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥१७॥
सा तु तत्र-एक-रात्रेण she, indeed, there, in one night
वर्धमाना कमण्डलौ growing in the water pot
अलब्ध्वा-आत्म-अवकाशम् not having for herself space
वा इदम्-आह महीपतिम् or, this said to the king
नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।
कल्पयौक: सुविपुलं यत्राहं निवसे सुखम् ॥१८॥
न-अहम् कमण्डलौ-अस्मिन् not I in Kamandalu (water pot), this
कृच्छ्रम् वस्तुम्-इह-उत्सहे with difficulty, to live here want
कल्पय-ओक: सुविपुलम् arrange for a shelter, well extensive
यत्र-अहम् निवसे सुखम् where, I may live comfortably
स एनां तत आदाय न्यधादौदञ्चनोदके ।
तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥१९॥
स: एनाम् आदाय he, her brought
न्यधात्-औदञ्चन-उदके and put in pitcher water
तत्र क्षिप्ता मुहूर्तेन there thrown, within an hour
हस्त-त्रयम्-अवर्धत hands three became big
न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् ।
पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता ॥२०॥
न मे एतत्-अलम् राजन् not for me this is enough, O King!
सुखम् वस्तुम्-उदञ्चनम् for comfortable living, the pitcher
पृथु देहि पदम् मह्यम् extensive give space to me
यत् त्वा-अहम् शरणम् गता because in your I protection have sought
तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।
तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥२१॥
तत: आदाय सा राज्ञा from there bringing, she by the king
क्षिप्ता राजन् सरोवरे was thrown, O King! in a pond
तत्-आवृत्य-आत्मना that covering by own (body)
स:-अयम् महामीन:-अन्ववर्धत he that great fish, increased into
नैतन्मे स्वस्तये राजन्नुदकं सलिलौकस: ।
निधेहि रक्षायोगेन हृदे मामविदासिनि ॥२२॥
न-एतत्-मे स्वस्तये राजन् not this for my well being, O King!
उदकम् सलिल-ओकस: the water in the water body
निधेहि रक्षा-योगेन arrange by protection arrangements
हृदे माम्-अविदासिनि in lake me deep
इत्युक्त: सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।
जलाशये सम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥२३॥
इति-उक्त: स:-अनयत्-मत्स्यम् thus told, he took the fish
तत्र तत्र-अविदासिनि to this and that extensive
जलाशये सम्मितम् तम् water body, accordingly increasing her
समुद्रे प्राक्षिपत्-झषम् in the ocean threw the fish
क्षिप्यमाणस्तमाहेदमिह मां मकरादय: ।
अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥२४॥
क्षिप्यमाण:-तम्-आह-इदम्- when throwing him said this,
इह माम् मकर-आदय: here me alligators and others
अदन्ति-अतिबला वीर will eat very mighty, O Valliant King!
माम् न-इह-उत्स्रष्टुम्-अर्हसि me not here to leave should
एवं विमोहितस्तेन वदता वल्गुभारतीम् ।
तमाह को भवानस्मान् मत्स्यरूपेण मोहयन् ॥२५॥
एवम् विमोहित:-तेन thus, enchanted by its
वदता वल्गु-भारतीम् saying in sweet words
तम्-आह क: भवान्- to it said Who are you
अस्मान् मत्स्य-रूपेण मोहयन् us by fish form deluding
नैवं वीर्यो जलचरो दृष्टोऽस्माभि: श्रुतोऽपि ।
यो भवान् योजनशतमह्नाभिव्यानशे सर: ॥२६॥
न-एवम् वीर्य: जलचर: दृष्ट: not such powerful acquatic creature, seen
अस्माभि: श्रुत:-अपि by us, heard of also
य: भवान् योजन-शतम्- that you yojana hundred
अह्ना-अभिव्यानशे सर: spreading, have encircled the pond
नूनं त्वं भगवान् साक्षात्-हरिर्नारायणोऽव्यय: ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥२७॥
नूनम् त्वम् भगवान् साक्षात् definitely, You are The Lord Himself
हरि:-नारायण:-अव्यय: Shree Hari Naaraayana Infinite
अनुग्रहाय भूतानाम् धत्से to grace the beings have taken
रूपम् जल-ओकसाम् the form of water creature
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां न: प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥२८॥
नमस्ते पुरुष-श्रेष्ठ Salutations to Person Supreme
स्थिति-उत्पत्ति- maintenance, creation
अप्यय-ईश्वर dissolution The Controller
भक्तानाम् न: प्रपन्नानाम् of the devotee, us, seeking shelter,
मुख्य: हि-आत्मगति:-विभो the Truth, indeed of the Self the goal, O Infinite!
सर्वे लीलावतारास्ते भूतानां भूतिहेतवे ।
ज्ञातुमिच्छाम्यदो रूपम् यदर्थं भवता धृतम् ॥२९॥
सर्वे लीला-अवतारा:-ते all sportful descent Yours
भूतानाम् भूति-हेतवे are for the being's welfare conducive
ज्ञातुम्-इच्छामि-अद: रूपम् want to know of this form
यत्-अर्थम् भवता धृतम् for what reason by You is taken
न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत् सर्वसुहृत्प्रियात्मन: ।
यथेतरेषां पृथगात्मनां सतामदीदृशो यद् वपुरद्भुतं हि न: ॥३०॥
न ते-अरविन्दाक्ष not Your, O Lotus eyed One!
पद-उपसर्पणम् मृषा भवेत् feet approaching, meaningless become
सर्वसुहृत्-प्रिय-आत्मन: of all a friend, beloved of the Self
यथा-इतरेषाम् पृथक्-आत्मनाम् like of the others' different minded
सताम्-अदीदृश: यद् वपु: noble, have shown that form
अद्भुतम् हि न: most wonderful indeed to us
श्री शुक उवाच - Shree Shuka said -
इति ब्रुवाणं नृपतिं जगत्पति: सत्यव्रतं मत्स्यवपुर्युगक्षये ।
विहर्तुकाम: प्रलयार्णवेऽब्रवीत् चिकीर्षुरेकान्तजनप्रिय: प्रियम् ॥३१॥
इति ब्रुवाणम् नृपतिम् to the so saying king
जगत्पति: सत्यव्रतम् The Lord of the Universe, to Satyavrata
मत्स्य-वपु:-युग-क्षये the fish form, at the Kalpa's end
विहर्तु-काम: प्रलय-अर्णवे- to sport wanting, in the dissolution waters,
अब्रवीत् चिकीर्षु:-एकान्त said, wanting to do, for the intensive
जनप्रिय: प्रियम् person good
श्री भगवान्-उवाच - The Lord said -
सप्तमेऽद्यतनादूर्ध्वमहन्येतदरिन्दम ।
निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥३२॥
सप्तमे-अद्यतनात्-ऊर्ध्वम्- on the seventh from today, after
अहनि-एतत्-अरिन्दम the day this, O subduer of the foes!
निमङ्क्ष्यति-अप्यय-अम्भोधौ will be plunged in dissolution water ocean
त्रैलोक्यम् भू:-भुव-आदिकम् the three worlds, earth, Ariel region, and others
त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।
उपस्थास्यति नौ: काचिद् विशाला त्वां मयेरिता ॥३३॥
त्रिलोक्याम् लीयमानायाम् as the three worlds will be submerging
संवर्ताम्भसि वै तदा in the dissolution waters, indeed, then,
उपस्थास्यति नौ: काचिद् will come a boat some
विशाला त्वाम् मया-ईरिता huge, to you, by Me instigated
त्वं तावदोषधी: सर्वा बीजान्युच्चावचानि च ।
सप्तर्षिभि: परिवृत: सर्वसत्त्वोपबृंहित: ॥३४॥
त्वम् तावत्-ओषधी: सर्वा: you till then, the herbs all
बीजानि-उच्च-अवचानि च seeds big and small
सप्तर्षिभि: परिवृत: by the seven seers accompanied
सर्व-सत्त्व-उपबृंहित: all varieties of animals collected
आरुह्य बृहतीम् नावं विचरिष्यस्यविक्लव: ।
एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥३५॥
आरुह्य बृहतीम् नावम् boarding that huge boat
विचरिष्यसि-अविक्लव: sail about, undaunted
एक-अर्णवे निर्-आलोके in the one ocean without light
ऋषीणाम्-एव वर्चसा of the sages' only halo
दोधूयमानां तां नावं समीरेण बलीयसा ।
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥३६॥
दोधूयमानाम् ताम् नावम् to the rocking that boat
समीरेण बलीयसा by the wind powerful
उपस्थितस्य मे शृङ्गे arrived to My horn
निबध्नीहि महा-अहिना tie by the great serpent
अहं त्वामृषिभि: साकं सहनावमुदन्वति ।
विकर्षन् विचरिष्यामि यावद् ब्राह्मी निशा प्रभो ॥३७॥
अहम् त्वाम्-ऋषिभि: साकम् I, you the sages along with
सह-नावम्-उदन्वति and with the boat in the ocean
विकर्षन् विचरिष्यामि pulling will roam about
यावद् ब्राह्मी निशा प्रभो until Brahma's night, O Satyavrata
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्यनुगृहीतं मे संप्रश्नैर्विवृतं हृदि ॥३८॥
मत्-इयम् महिमानम् च My this glory and
परम् ब्रह्म-इति शब्दितम् the Param Brahma (Supreme Reality), named as
वेत्स्यसि-अनुगृहीतम् मे will realize by grace My
संप्रश्नै:-विवृतम् हृदि by questions revealed in the heart
इत्थमादिश्य राजानं हरिरन्तरधीयत ।
सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥३९॥
इत्थम्-आदिश्य राजानम् in this manner, instructing the king
हरि:-अन्तरधीयत Shree Hari disappeared
स:-अन्ववैक्षत तम् कालम् he awaited that time
यम् हृषीकेश: आदिशत् which Lord Vishnu had pointed out
आस्तीर्य दर्भान् प्राक्कूलान् राजर्षि: प्रागुदङ्मुख: ।
निषसाद हरे: पादौ चिन्तयन् मत्स्यरूपिण: ॥४०॥
आस्तीर्य दर्भान् प्राक्-कूलान् spreading the grass, to the east pointing
राजर्षि: प्राक्-उदङ्मुख: the royal sage, east towards facing
निषसाद हरे: पादौ चिन्तयन् sat, Shree Hari's feet contemplating on
मत्स्य-रूपिण: in the fish form
तत: समुद्र उद्वेल: सर्वत: प्लावयन् महीम् ।
वर्धमानो महामेघैर्वर्षद्भि: समदृश्यत ॥४१॥
तत: समुद्र: उद्वेल: then, the ocean rising high
सर्वत: प्लावयन् महीम् from all sides overflowing, the earth
वर्धमान: महा-मेघै:- increasing by the great clouds
वर्षद्भि: समदृश्यत raining (he) saw
ध्यायन् भगवदादेशं ददृशे नावमागताम् ।
तामारुरोह विप्रेन्द्रैरादायोषधिवीरुध: ॥४२॥
ध्यायन् भगवत्-आदेशम् meditating on The Lord's command
ददृशे नावम्-आगताम् saw the boat arrived
ताम्-आरुरोह विप्रेन्द्रै:- it boarded with the great Braahmin sages
आदाय-ओषधि-वीरुध: taking the herbs and seeds
तमूचुर्मुनय: प्रीता राजन् ध्यायस्व केशवम् ।
स वै न: संकटादस्मादविता शं विधास्यति ॥४३॥
तम्-ऊचु:-मुनय: प्रीता: to him said the sages lovingly
राजन् ध्यायस्व केशवम् O King! meditate on Keshava, (Lord Vishnu)
स: वै न: संकटात्-अस्मात्- He, indeed, us from calamity this
अविता शम् विधास्यति will save, happiness will bring
सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे ।
एकशृङ्गधरो मत्स्यो हैमो नियुतयोजन: ॥४४॥
स:-अनुध्यात:-तत: राज्ञा He, being meditated upon, by the king
प्रादु:-आसीत्-महा-अर्णवे appeared in the great ocean
एक-शृङ्ग-धर: मत्स्य: one horn bearing fish
हैम: नियुत-योजन: golden, of one lakh Yojanas
निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा ।
वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥४५॥
निबध्य नावम् तत्-शृङ्गे binding the boat to that horn
यथा-उक्त: हरिणा पुरा as was said by Lord Shree Hari before
वरत्रेण-अहिना तुष्ट:- by Vaasuki serpent, satisfied,
तुष्टाव मधुसूदनम् extolled Madhusoodana (Vishnu)
राजा-उवाच- The King said -
अनाद्यविद्योपहतात्मसंविदस्तन्मूलसंसारपरिश्रमातुरा: ।
यदृच्छयेहोपसृता यमाप्नुयुर्विमुक्तिदो न: परमो गुरुर्भवान् ॥४६॥
अनादि-अविद्या-उपहत- by the beginingless ignorance obscured
आत्म-संविद: तत्-मूल- Self Knowledge, in it rooted
संसार-परिश्रम-आतुरा: by the material (existence) toils exhausted
यदृच्छया-इह-उपसृता: by Your grace, here (in Your shelter) having come
यम्-आप्नुयु:-विमुक्तिद: Him attain The liberation Granter
न: परम: गुरु:-भवान् (is) our ultimate preceptor You
जनोऽबुधोऽयं निजकर्मबन्धन: सुखेच्छया कर्म समीहतेऽसुखम् ।
यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरु: ॥४७॥
जन:-अबुध:-अयम् human ignorant this
निज-कर्म-बन्धन: सुख-इच्छया by own actions bondage, by happiness desiring
कर्म समीहते-असुखम् by the action incurs unhappiness
यत्-सेवया ताम् विधुनोति- by Whose worship that (unhappiness) wrenches
असन्मतिम् ग्रन्थिम् ignorance knot
स भिन्द्यात् हृदयम् स: न: गुरु: may He snap of the heart, He is our Preceptor
यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान्मलमात्मनस्तम: ।
भजेत वर्णं निजमेष सोऽव्ययो भूयात् स ईश: परमो गुरोर्गुरु: ॥४८॥
यत्-सेवया-अग्ने:-इव by Whose worship, in the fire, just as
रुद्र-रोदनम् पुमान् gold silver, human being
विजह्यात्-मलम्-आत्मन:-तम: banishes impurity of Self the ignorance
भजेत वर्णम् निजम्-एष acquires purity own he
स:-अव्यय: भूयात् He Infinite may be
स: ईश: परम: गुरो:-गुरु: That Lord Supreme, of preceptors' The Preceptor
न यत्प्रसादायुतभागलेशमन्ये च देवा गुरवो जना: स्वयम् ।
कर्तुं समेता: प्रभवन्ति पुंसस्तमीश्वरं त्वां शरणं प्रपद्ये ॥४९॥
न यत्-प्रसाद-अयुत-भाग- not Whose grace's ten thousand part's
लेशम्-अन्ये च देवा: strand, and other gods,
गुरव: जना: स्वयम् teachers, people themselves
कर्तुम् समेता: प्रभवन्ति to confer, put together, are capable
पुंस:-तम्-ईवरम् त्वाम् on man, to That The Lord, You
शरणम् प्रपद्ये shelter I take
अचक्षुरन्धस्य यथाग्रणी: कृतस्तथा जनस्याविदुषोऽबुधो गुरु: ।
त्वमर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्न: स्वगतिं बुभुत्सताम् ॥५०॥
अचक्षु:-अन्धस्य यथा-अग्रणी: vision-less, a blind, just as guide
कृत:-तथा जनस्य- made, like that, of the people
अविदुष:-अबुध: गुरु: of ignorant, unenlightened soul the preceptor
त्वम्-अर्क-दृक् सर्व-दृशाम् You sun like self illumined, of all the senses
समीक्षण: वृत: गुरु:-न: the perceiving force, are chosen preceptor, ours
स्वगतिम् बुभुत्सताम् Self realization seeking
जनो जनस्यादिशतेऽसतीं मतिं यया प्रपद्येत दुरत्ययं तम: ।
त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥५१॥
जन: जनस्य-आदिशते- a man to (another) man gives
असतीम् मतिम् यया unwise counsel, by which
प्रपद्यते दुरत्ययम् तम: is established undecaying darkness
त्वम् तु-अव्ययम् ज्ञानम्- You, whereas, unfailing knowledge
अमोघम्-अञ्जसा प्रपद्यते definite, easily attains
येन जन: निजम् पदम् by which, man, own state (of Self Realization)
त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्ट सिद्धि: ।
तथापि लोको न भवन्तमन्धधीर्जानाति सन्तं हृदि बद्धकाम: ॥५२॥
त्वम् सर्व-लोकस्य सुहृत् You are, of the whole world the friend,
प्रिय-ईश्वर: हि-आत्मा गुरु:- beloved inner-Controller, very Self, teacher,
ज्ञानम्-अभीष्ट-सिद्धि: wisdom, of all desires the realization
तथा-अपि लोक: न भवन्तम्- even then, the world, does not You
अन्धधी: जानाति सन्तम् of blinded intellect know, present
हृदि बद्धकाम: in the heart, bound by actions
तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय ।
छिन्ध्यर्थदीपैर्भगवन् वचोभिर्ग्रन्थीन् हृदय्यान् विवृणु स्वमोक: ॥५३॥
तम् त्वाम्-अहम् That You, I
देववरम् वरेण्यम् प्रपद्ये by the best of the gods, adorable, approach
ईशम् प्रतिबोधनाय The Almighty Lord, for enlighten
छिन्धि-अर्थदीपै:-भगवन् cut asunder by meaningful lights, O Lord!
वचोभि:-ग्रन्थीन् हृदय्यान् words, the knots embedded in the heart
विवृणु स्वम्-ओक: reveal own Self
श्री शुक उवाच - Shree Shuka said -
इत्युक्तवन्तं नृपतिं भगवानादिपूरुष: ।
मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥५४॥
इति-उक्तवन्तम् नृपतिम् to him who thus saying, to the king,
भगवान्-आदिपूरुष: The Lord, The Primary Person
मत्स्य-रूपी महा-अम्भोधौ in fish form, in the vast water of the ocean
विहरन्-तत्त्वम्-अब्रवीत् sporting, The Truth taught
पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम् ।
सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषत: ॥५५॥
पुराण-संहिताम् दिव्याम् The Purana's collection divine
सांख्य-योग-क्रियावतीम् The Saankhya Yoga with rituals
सत्यव्रतस्य राजर्षे:- to Satyavrata the royal sage
आत्म-गुह्यम्-अशेषत: of His own Self the mystery, in full
अश्रौषीदृषिभि: साकमात्मतत्त्वमसंशयम् ।
नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥५६॥
अश्रौषीत्-ऋषिभि: साकम्- heard, along with the sages
आत्म-तत्त्वम्-असंशयम् The Truth of The Self, the doubt-less
नावि-आसीन: भगवता प्रोक्तम् on the boat seated, by The Almighty Lord said
ब्रह्म सनातनम् The Brahma eternal
अतीतप्रलयापाय उत्थिताय स वेधसे ।
हत्वासुरं हयग्रीवं वेदान् प्रत्याहरत् हरि: ॥५७॥
अतीत-प्रलय-आपाय after the dissolution last
उत्थिताय स: वेधसे and having awoken, that Brahmaa
हत्वा-असुरम् हयग्रीवम् having killed the demon Hayagreeva
वेदान् प्रति-आहरत् हरि: the Vedas restored Lord Shree Hari
स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुत: ।
विष्णो: प्रसादात् कल्पेऽस्मिन्नासीद् वैवस्वतो मनु: ॥५८॥
स: तु सत्यव्रत: राजा he indeed, Satyavrata the king
ज्ञान-विज्ञान-संयुत: with wisdom and knowledge endowed
विष्णो: प्रसादात् कल्पे-अस्मिन्न- by Vishnu's grace, in Kalpa this
आसीत्- वैवस्वत: मनु: was Vaivasvata Manu
सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिण: ।
संवादं महदाख्यानं श्रुत्वा मुच्यते किल्विषात् ॥५९॥
सत्यव्रतस्य राजर्षे:- of Satyavrata, the royal sage,
माया-मत्स्यस्य शार्ङ्गिण: and of the deluding fish, the Shaaranga bow wielder
संवादम् महत्-आख्यानम् dialogue, the great story
श्रुत्वा मुच्यते किल्विषात् having heard, is rid of sins
अवतारो हरेर्योऽयं कीर्तयेदन्वहं नर: ।
सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥६०॥
अवतार: हरे:-य:-अयम् descent of Lord Shree Hari, whoever,
कीर्तयेत्-अन्वहम् नर: recites, day to day man
सङ्कल्पा:-तस्य सिध्यन्ति desires his are accomplished
स: याति परमाम् गतिम् he attains the supreme state
प्रलयपयसि धातु: सुप्तशक्तेर्मुखेभ्य: श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।
दितिजमकथयद् यो ब्रह्म सत्यव्रतानां तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥६१॥
प्रलय-पयसि धातु: in deluge waters, of Brahmaa's
सुप्त-शक्ते:-मुखेभ्य: dormant energy, from the mouth
श्रुति-गणम्-अपनीतम् the Srutis texts collection stolen
प्रत्युपादत्त हत्वा restored by killing (Hayagreeva)
दितिजम्-अकथयद् to the seven sages taught
य: ब्रह्म सत्यव्रतानाम् Who the Brahma Puraana to Satyavrata
तम्-अहम्-अखिल-हेतुम् to Him I, the Eternal Cause
जिह्म-मीनम् नत:-अस्मि the disguised fish, bowed am I
श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायामष्टमे स्कन्धे
मत्स्यावतारचरित्रानुवर्णनं नाम चतुर्विंशोध्याय: ॥२४॥
श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायामष्टमे स्कन्धे
मत्स्यावतारचरित्रानुवर्णनं नाम चतुर्विंशोध्याय: ॥२४॥ Thus ends the twenty-fourth discourse entitled 'The story of the Descent