श्रीमद्भागवतमहापुराणम्
नवम: स्कन्ध:
प्रथम: अध्याय:
राजा-उवाच - The King said -
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।
वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥१॥
मन्वन्तराणि सर्वाणि of the Manvantaras all (six)
त्वया-उक्तानि श्रुतानि मे by you told, heard by me
वीर्याणि-अनन्त-वीर्यस्य heroic deeds of, of The Lord of endless prowess
हरे:-तत्र कृतानि च Shree Hari, in there done and
योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वर: ।
ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥२॥
य:-असौ सत्यव्रत: नाम that this Satyavrata named
राजर्षि:-द्रविड-ईश्वर: royal sage, Drawida's ruler
ज्ञानम् य:-अतीत-कल्प-अन्ते enlightenment who, in the last Kalpa's end
लेभे पुरुष-सेवया attained by The Supreme Person's devotion
स वै विवस्वत: पुत्रो मनुरासीदिति श्रुतम् ।
त्वत्तस्तस्य सुताश्चोक्ता इक्ष्वाकुप्रमुखा नृपा: ॥३॥
स: वै विवस्वत: पुत्र: he indeed, Vivasvata's son
मनु:-आसीत्-इति श्रुतम् Manu was, this is heard
त्वत्त:-तस्य सुता:-च-उक्ता: from you, his sons and is said
इक्ष्वाकु-प्रमुखा: नृपा: Ikshwaaku the leader of the other kings
तेषां वंशं पृथग् ब्रह्मन् वंश्यानुचरितानि च ।
कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि न: ॥४॥
तेषाम् वंशम् पृथग् ब्रह्मन् of their race, separately, O holy Braahmana!
वंश्य-अनुचरितानि च of the race members the doings and
कीर्तयस्व महाभाग do narrate, O Blessed One!
नित्यम् शुश्रूषताम् हि न: always to hear eager as we are
ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये ।
तेषां पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥५॥
ये भूता: ये भविष्या:-च of those gone by, those who in the future
भवन्ति-अद्यतना:-च ये will be, today and who are,
तेषाम् पुण्य-कीर्तीनाम् their, of the sacred renowned
सर्वेषाम् वद विक्रमान् of all, do say the deeds of valour
सूत उवाच - Soota said -
एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।
पृष्ट: प्रोवाच भगवाञ्छुक: परमधर्मवित् ॥६॥
एवम् परीक्षिता राज्ञा in this manner, by Pareekshita the king
सदसि ब्रह्म-वादिनाम् in the assembly of Vedas' exponents
पृष्ट: प्रोवाच asked, answered
भगवान्-शुक: परम-धर्म-वित् lord Shuka, of highest righteousness the knower
श्री शुक उवाच - Shree Shuka said -
श्रूयतां मानवो वंश: प्राचुर्येण परंतप ।
न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥७॥
श्रूयताम् मानव: वंश: hear of Manu's lineage
प्राचुर्येण परंतप in short, O Practiser of austerities!
न शक्यते विस्तरत: वक्तुम् not is possible in detail to be narrated
वर्ष-शतै:-अपि in years hundred also
परावरेषां भूतानामात्मा य: पुरुष: पर: ।
स: एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किंचन ॥८॥
पर-अवरेषाम् भूतानाम्- of high and low created beings,
आत्मा य: पुरुष: पर: the sustainer, That Person Supreme
स: एव-आसीत्-इदम् विश्वम् He alone was this world
कल्प-अन्ते-अन्य-न किंचन at Kalpa's end, other not anyone
तस्य नाभे: समभवत् पद्मकोशो हिरण्मय: ।
तस्मिञ्जज्ञे महाराज स्वयम्भूश्चतुरानन: ॥९॥
तस्य नाभे: समभवत् in His navel, there sprang
पद्म-कोश: हिरण्मय: a lotus calyx
तस्मिन्-जज्ञे महाराज in that appeared O great King!
स्वयम्भू:-चतुरानन: the self-born
मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यप: ।
दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुत: ॥१०॥
मरीचि:-मनस:-तस्य Mareechi, from mind his (Brahmaa)
जज्ञे तस्य-अपि कश्यप: was born, his also Kashyapa
दाक्षायण्याम् तत:-अदित्याम् by Daksha's daughter then, Aditi
विवस्वान्-अभवत् सुत: Vivasvaan was born the son
ततो मनु: श्राद्धदेव: संज्ञायामास भारत ।
श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥११॥
तत: मनु: श्राद्धदेव: then, Manu Shraaddhadeva
संज्ञायाम्-आस भारत from Sangyaa was born, O Scion of Bharata!
श्रद्धायाम् जनयामास from Shraddhaa gave birth to
दश पुत्रान् स: आत्मवान् ten sons, he, the high minded
इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् ।
नरिष्यन्तं पृषध्रं च नभगं च कविं विभु: ॥१२॥
इक्ष्वाकु-नृग-शर्याति- Ikshwaaku, Nriga, Sharyaatee,
दिष्ट-धृष्ट-करूषकान् Dishta, Dhrishta, Karooshaka,
नरिष्यन्तम् पृषध्रम् च Narishyanta, Prishadhra, and
नभगम् च कविम् विभु: Nabhaga and Kavi, to Manu
अप्रजस्य मनो: पूर्वं वसिष्ठो भगवान् किल ।
मित्रावरुणयोरिष्टिं प्रजार्थमकरोत् प्रभु: ॥१३॥
अप्रजस्य मनो: पूर्वम् for issueless Manu, in the beginning,
वसिष्ठ: भगवान् किल Vashishtha, the glorious (sage) it is said,
मित्रावरुणयो:-इष्टिम् of Mitra and Varuna, propitiation sacrifice,
प्रजा-अर्थम्-अकरोत् प्रभु: for a son's sake performed, the powerful
तत्र श्रद्धा मनो: पत्नी होतारं समयाचत ।
दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥१४॥
तत्र श्रद्धा मनो: पत्नी there, Shraddhaa, Manu's wife
होतारम् समयाचत to the presiding priest, begged
दुहितृ-अर्थम्-उपागम्य of a daughter's sake approaching,
प्रणिपत्य पयोव्रता bowing prostrate on the floor, subsisting on milk
प्रेषितोऽध्वर्युणा होता ध्यायंस्तत् सुसमाहित: ।
हविषि व्यचरत् तेन वषट्कारं गृणन्द्विज: ॥१५॥
प्रेषित:-अध्वर्युणा होता sent, by Adhvaryu , the propitiating priest,
ध्यायन्-तत् सुसमाहित: meditating on that with concentration
हविषि व्यचरत् तेन the oblation poured by him
वषट्कारम् गृणन्-द्विज: Vashat' muttering the Braahmana
होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् ।
तां विलोक्य मनु: प्राह नातिहृष्टमना गुरुम् ॥१६॥
होतु:-तत्-व्यभिचारेण of the presiding priest's that deviation
कन्या-इला नाम सा-अभवत् daughter Ilaa named, she was born
ताम् विलोक्य मनु: प्राह her seeing, Manu said
न-अति-हृष्टमना गुरुम् not very happy in mind, to his preceptor
भगवन् किमिदं जातं कर्म वो ब्रह्मवादिना ।
विपर्ययमहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥१७॥
भगवन् किम्-इदम् जातम् O holy sage! what has this happened
कर्म व: ब्रह्म-वादिना the ritual by you the exponent of the Vedas
विपर्ययम्-अहो मा-एवम् स्यात् the opposite, Alas! should not this be
ब्रह्म-विक्रिया of Vedic mantras' reversal
यूयं मन्त्रविदो युक्तास्तपसा दग्धकिल्विषा: ।
कुत: संकल्पवैषम्यमनृतं विबुधेष्विव ॥१८॥
यूयम् मन्त्र-विद: you all are in Mantras well versed
युक्ता:-तपसा दग्ध-किल्विषा: well equipped with austerities, have burnt all
युक्ता:-तपसा दग्ध-किल्विषा: well equipped with austerities, have burnt all sins
कुत: संकल्प-वैषम्यम्- how then, in your decision is disparity
अनृतम् विबुधेषु-इव untruth in the gods like
तन्निशम्य वचस्तस्य भगवान् प्रपितामह: ।
होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥१९॥
तत्-निशम्य वच:-तस्य that hearing, words his
भगवान् प्रपितामह: glorious sage, grandfather of my grandfather
होतु:-व्यतिक्रमम् of the presiding priest's deviation
ज्ञात्वा बभाषे रवि-नन्दनम् coming to know, said to the Sun-god's son
एतत् संकल्पवैषम्यं होतुस्ते व्यभिचारत: ।
तथापि साधयिष्ये ते सुप्रजास्त्वम् स्वतेजसा ॥२०॥
एतत् संकल्प-वैषम्यम् this, of the purpose distortion
होतु:-ते व्यभिचारत: by presiding priest, yours, by contrary execution
तथा-अपि साधयिष्ये ते then even will accomplish for you
सुप्रजा:-त्वम् स्व-तेजसा good progeny to you, by own glory
एवं व्यवसितो राजन् भगवान् स महायशा: ।
अस्तौषीदादिपुरुषमिलाया: पुंस्त्वकाम्यया ॥२१॥
एवम् व्यवसित: राजन् thus deciding, O King (Pareekshit)
भगवान् स: महायशा: glorious he, of great fame
अस्तौषीत्-आदि-पुरुषम्- extolled the Ancient Person (Vishnu)
इलाया: पुंस्त्व-काम्यया Ilaa's male-ness desiring
तस्मै कामवरं तुष्टो भगवान् हरिरीश्वर: ।
ददाविलाभवत् तेन सुद्युम्न: पुरुषर्षभ: ॥२२॥
तस्मै काम-वरम् तुष्ट: to him, the desired boon, pleased,
भगवान् हरि:-ईश्वर: Almighty Lord Shree Hari all-powerful
ददौ-इला-अभवत् तेन gave, Ila became by that
सुद्युम्न: पुरुष-ऋषभ: Sudyumna a man foremost
स एकदा महाराज विचरन् मृगयां वने ।
वृत: कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥२३॥
स: एकदा महाराज he one day, O Great King!
विचरन् मृगयाम् वने went for hunting in the forest
वृत: कतिपय-आमात्यै:- accompanied by a few ministers
अश्वम्-आरुह्य सैन्धवम् horse mounted on, of Sindhu breed
प्रगृह्य रुचिरम् चापम् शरांश्च परमाद्भुतान् ।
दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥२४॥
प्रगृह्य रुचिरम् चापम् getting hold of a charming bow
शरा:-च परम्-अद्भुतान् arrows and most wonderful
दंशित:-अनुमृगम् वीर: armoured, proceeded for a game, the hero
जगाम दिशम्-उत्तराम् went in the direction northern
स कुमारो वनं मेरोरधस्तात् प्रविवेश ह ।
यत्रास्ते भगवाञ्छर्वो रममाण: सहोमया ॥२५॥
स: कुमार: वनम् मेरो:- that prince, in the forest at Mt. Meru's
अधस्तात् प्रविवेश ह foot, entered indeed
यत्र-आस्ते भगवान्-शर्व: where there was Lord Shiva
रममाण: सह-उमया amorously sporting with Umaa
तस्मिन् प्रविष्ट एवासौ सुद्युम्न: परवीरहा ।
अपश्यत् स्त्रियमात्मानमश्वं च वडवां नृप ॥२६॥
तस्मिन् प्रविष्ट: एव-असौ in that entered as he
सुद्युम्न: परवीरहा Sudyumna, enemy warriors the killer
अपश्यत् स्त्रियम्-आत्मानम्- saw woman himself
अश्वम् च वडवाम् नृप horse and mare O King!
तथा तदनुगा: सर्वे आत्मलिङ्गविपर्ययम् ।
दृष्ट्वा विमनसोऽभूवन् वीक्षमाणा: परस्परम् ॥२७॥
तथा तत्-अनुगा: सर्वे also, his followers all
आत्म-लिङ्ग-विपर्ययम् own gender change
दृष्ट्वा विमनस:-अभूवन् seeing sad became
वीक्षमाणा: परस्परम् looking at each other
राजा-उवाच - The King (Pareekshit) said -
कथमेवंगुणो देश: केन वा भगवन् कृत: ।
प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि न: ॥२८॥
कथम्-एवम् गुण: देश: how, of such quality is the land
केन वा भगवन् कृत: by whom or, O Holy one! It is done
प्रश्नम्-एनम् समाचक्ष्व question this fully answer
परं कौतूहलं हि न: highly inquisitive indeed are we
श्री शुक- उवाच - Shree Shuka said -
एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रता: ।
दिशो वितिमिराभासा: कुर्वन्त: समुपागमन् ॥२९॥
एकदा गिरिशम् द्रष्टुम्- one day Lord Shiva to see
ऋषय:-तत्र सुव्रता: the sages there, of sacred vows
दिश: वितिमिर- the directions devoid of darkness
आभासा: कुर्वन्त: समुपागमन् and (other) lights, rendering, approached
तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् ।
भर्तुरङ्कात् समुत्थाय नीवीमाश्वथ पर्यधात् ॥३०॥
तान् विलोक्य-अम्बिका देवी them seeing, Ambika (Paarvati) goddess
विवासा व्रीडिता भृशम् unclothed, ashamed very much
भर्तु:-अङ्कात् समुत्थाय from husband's lap arising
नीवीम्-आशु-अथ पर्यधात् clothes soon then put on
ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयो: ।
निवृत्ता: प्रययुस्तस्मान्नरनारायणाश्रमम् ॥३१॥
ऋषय:-अपि तयो:-वीक्ष्य the sages also, both of them seeing
प्रसङ्गम् रममाणयो: engaged in amorous activity
निवृत्ता: प्रययु:-तस्मात्- retreated and went from there
नरनारायण-आश्रमम् to the Nara-Naaraayana hermitage
तदिदं भगवानाह प्रियाया: प्रियकाम्यया ।
स्थानं य: प्रविशेदेतत् स वै योषिद् भवेदिति ॥३२॥
तत्-इदम् भगवान्-आह then, this Lord (Shiva) said
प्रियाया: प्रिय-काम्यया of the beloved's desire to fulfil
स्थानम् य: प्रविशेत्-एतत् place who enters this
स: वै योषित् भवेत्-इति he certainly woman will become, this
तत् ऊर्ध्वं वनं तद् वै पुरुषा वर्जयन्ति हि ।
सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥३३॥
तत् ऊर्ध्वम् वनम् तद् वै there after, forest that indeed
पुरुषा: वर्जयन्ति हि men avoid surely
सा च-अनुचर-संयुक्ता she (Sudyumna) and the followers along with
विचचार वनात् वनम् roamed about from forest to forest
अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।
स्त्रीभि: परिवृतां वीक्ष्य चकमे भगवान् बुध: ॥३४॥
अथ ताम्-आश्रम-अभ्याशे then her, the hermitage near around
चरन्तीम् प्रमदा-उत्तमाम् roaming, the young woman excellent
स्त्रीभि: परिवृताम् वीक्ष्य by the women surrounded seeing
चकमे भगवान् बुध: desired the glorious Budha (planet Mercury)
सापि तम् चकमे सुभ्रु: सोमराजसुतं पतिम् ।
स तस्यां जनयामास पुरूरवसमात्मजम् ॥३५॥
सा-अपि तम् चकमे सुभ्रु: she also him desired the beautiful browed one
सोमराज-सुतम् पतिम् moon son as husband
स: तस्याम् जनयामास he from her begot
पुरूरवसम्-आत्मजम् Pururavaa as son
एवं स्त्रीत्वमनुप्राप्त: सुद्युम्नो मानवो नृप: ।
सस्मार स्वकुलाचार्यं वसिष्ठमिति शुश्रुम ॥३६॥
एवम् स्त्रीत्वम्-अनुप्राप्त: in this manner, womanhood having attained
सुद्युम्न: मानव: नृप: Sudyumna, Manu's son, the king
सस्मार स्व-कुल-आचार्यम् remembered own race's preceptor
वसिष्ठम्-इति शुश्रुम Vashishtha, we have heard
स तस्य तां दशां दृष्ट्वा कृपया भृशपीडित: ।
सुद्युम्नस्याशयन् पुंसत्वमुपाधावत शङ्करम् ॥३७॥
स: तस्य ताम् दशाम् दृष्ट्वा he, his that condition seeing
कृपया भृश-पीडित: with compassion was very troubled
सुद्युम्नस्य-आशयन् पुंसत्वम्- of Sudyumna desiring manhood
उपाधावत शङ्करम् mentally approached Shankara
तुष्टस्तस्मै स भगवानृषये प्रियमावहन् ।
स्वां च वाचमृतां कुर्वन्निदमाह विशांपते ॥३८॥
तुष्ट:-तस्मै स: भगवान्- pleased with him, He, Lord (Shankara)
ऋषये प्रियम्-आवहन् of the sage the desire to fulfil
स्वाम् च वाचम्-ऋताम् कुर्वन्- own and words true to do
इदम्-आह विशांपते this said, O Pareekshit!
मासं पुमान् स भविता मासं स्त्री तव गोत्रज: ।
इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥३९॥
मासम् पुमान् स: भविता for a month male he will be
मासम् स्त्री तव गोत्रज: for one month female, your protégé
इत्म् व्यवस्थया कामम् by this arrangement, as desired
सुद्युम्न:-अवतु मेदिनीम् Sudyumna may protect the earth
आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।
पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजा: ॥४०॥
आचार्य-अनुग्रहात् कामम् by the preceptor's grace, desire
लब्ध्वा पुंस्त्वम् व्यवस्थया being fulfilled, by the manhood arrangement
पालयामास जगतीम् ruled the earth
न-अभ्यनन्दन् स्म तम् प्रजा: did not approve of him the people
तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रय: ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सला: ॥४१॥
तस्य-उत्कल: गय: राजन् his, Utkala, Gaya, O King!
विमल:-च सुता:-त्रय: Vimala and sons three
दक्षिणा-पथ राजान: of the Southern region, the rulers
बभूवु:-धर्म-वत्सला: became, of righteousness lovers
तत: परिणते काले प्रतिष्ठानपति: प्रभु: ।
पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥४२॥
तत: परिणते काले after that, at the change of time (old age)
प्रतिष्ठान-पति: प्रभु: of Pratishthaana the ruler, the capable
पुरूरवसे उत्सृज्य गाम् to Pururavaa handing over the earth
पुत्राय गत: वनम् for the son, went away to the forest
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे इलोपाख्याने प्रथमोऽध्याय: ॥१॥ Thus ends the first discourse, forming part of the story of Ilaa, in
द्वितीय: अध्याय:
श्री शुक उवाच - Shree Shuka said -
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वत: सुते ।
पुत्रकामस्तपस्तेपे यमुनायां शतं समा: ॥१॥
एवम् गते-अथ सुद्युम्ने in this manner, having gone then Sudyumna
मनु:-वैवस्वत: सुते Manu Vaivasvata, of son
पुत्र-काम:-तप:-तेपे son desiring austerities practiced
यमुनायाम् शतम् समा: on Yamuna's (bank) for hundred years
ततोऽयजन्मनुर्देवमपत्यार्थं हरिं प्रभुम् ।
इक्ष्वाकुपूर्वजान् पुत्राँल्लेभे स्वसदृशान् दश ॥२॥
तत:-अयजत्-मनु:-देवम्- then worshipped, Manu, The Lord
अपत्य-अर्थम् हरिम् प्रभुम् for progeny sake, Shree Hari Almighty
इक्ष्वाकु-पूर्वजान् पुत्रान्- Ikshwaaku, the eldest sons
लेभे स्व-सदृशान् दश begot, self- like ten
पृषध्रस्तु मनो: पुत्रो गोपालो गुरुणा कृत: ।
पालयामास गा यत्तो रात्र्यां वीरासनव्रत: ॥३॥
पृषध्र:-तु मनो: पुत्र: Prishadhra, indeed, Manu's son,
गोपाल: गुरुणा कृत: a cowherd by the preceptor made
पालयामास गा यत्त: tended the cows vigilantly
रात्र्याम् वीरासन-व्रत: in the night in 'Veer asana' pose vowed
एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।
शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥४॥
एकदा प्राविशद् गोष्ठम् one day, entered the cow shed
शार्दूल: निशि वर्षति a tiger, in the night when it rained
शयाना: गाव: उत्थाय the sleeping cows were awakened
भीता:-ता: बभ्रमु:-व्रजे in fear they ran about in the cow shed
एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।
तस्यास्तत् क्रन्दितं श्रुत्वा पृषध्रोऽभिससार ह ॥५॥
एकाम् जग्राह बलवान् one (of them) seized the powerful
सा चुक्रोश भय-आतुरा she screamed, with fear overtaken
तस्या:-तत् क्रन्दितम् श्रुत्वा her that cry listening
पृषध्र:-अभिससार ह Prishadhra rushed forth
खड्गमादाय तरसा प्रलीनोडुगणे निशि ।
अजानन्नहनद् बभ्रो: शिर: शार्दूलशङ्कया ॥६॥
खड्गम्-आदाय तरसा sword taking quickly
प्रलीन-उडुगणे निशि (when) had disappeared the stars, in the night
अजानन्-अहनद् बभ्रो: शिर: unknowingly cut off the cow's head
शार्दूल-शङ्कया tiger's mistaking
व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्तत: ।
निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥७॥
व्याघ्र:-अपि वृक्ण-श्रवण: the tiger also with severed ear
निस्त्रिंश-अग्र-आहत:-तत: by the sword's end point hurt then,
निश्चक्राम भृशम् भीत: ran away very much afraid
रक्तम् पथि समुत्सृजन् blood on the way dropping
मन्यमानो हतं व्याघ्रं पृषध्र: परवीरहा ।
अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दु:खित: ॥८॥
मन्यमान: हतम् व्याघ्रम् believing to have killed the tiger
पृषध्र: परवीरहा Prishadhra the slayer of enemy warriors
अद्राक्षीत् स्व-हताम् बभ्रुम् saw, by himself killed the cow
व्युष्टायाम् निशि दु:खित: at the end of the night, very sorrowful
तं शशाप कुलाचार्य: कृतागसमकामत: ।
न क्षत्रबन्धु: शूद्रस्त्वं कर्मणा भवितामुना ॥९॥
तम् शशाप कुल-आचार्य: him cursed, the preceptor of the race
कृत्-आगसम्-अकामत: having committed a sin unintentionally
न क्षत्र-बन्धु: शूद्र:-त्वम् not of Kshatriya race, Shoodra you,
कर्मणा भविता-अमुना by deed will be by this
एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलि: ।
अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥१०॥
एवम् शप्त:-तु गुरुणा in this manner, cursed indeed by the preceptor
प्रत्यगृह्णात् कृत-अञ्जलि: accepted it with joined palms
अधारयत् व्रतम् वीर undertook the vow the hero
ऊर्ध्वरेता: मुनि-प्रियम् of celibacy, to the sages dear
वासुदेवे भगवति सर्वात्मनि परेऽमले ।
एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत्सम: ॥११॥
वासुदेवे भगवति in Vaasudeva, The Lord
सर्व-आत्मनि परे-अमले in of all The Soul, in (The One) beyond blemishes
एकान्तित्वम् गत: भक्त्या in solitude went with devotion
सर्व-भूत-सुहृत्-सम: to The One of all beings' friend like
विमुक्तसङ्ग: शान्तात्मा संयताक्षोऽपरिग्रह: ।
यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मन: ॥१२॥
विमुक्त-सङ्ग: शान्त-आत्मा without company, tranquil minded
संयत-अक्ष:-अपरिग्रह: of controlled senses, non-coveting
यदृच्छया-उपपन्नेन by chance obtained
कल्पयन् वृत्तिम्-आत्मन: maintaining the livelihood of himself
आत्मन्यात्मानमाधाय ज्ञानतृप्त: समाहित: ।
विचचार महीमेतां जडान्धबधिराकृति: ॥१३॥
आत्मनि-आत्मानम्-आधाय in The Self the mind fixing
ज्ञान-तृप्त: समाहित: by wisdom saturated, well composed
विचचार महीम्-एताम् roamed the earth this
जड-अन्ध-बधिर-आकृति: in a stupid, blind, deaf appearance
एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।
तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनि: ॥१४॥
एवम् वृत्त: वनम् गत्वा (he) of such conduct, to the forest going
दृष्ट्वा दावाग्निम्-उत्थितम् saw the forest fire blazing
तेन-उपयुक्त-करण: by that having consumed his senses
ब्रह्म प्राप परम् मुनि: Brahman attained, the Absolute, the sage (Prishadhra)
कवि: कनीयान् विषयेषु नि:स्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् ।
निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवया: परं गत: ॥१५॥
कवि: कनीयान् Kavi, the youngest
विषयेषु नि:स्पृह: in sense objects unattached,
विसृज्य राज्यम् giving up the kingdom,
सह बन्धुभि:-वनम् along with the brothers, in the forest
निवेश्य चित्ते पुरुषम् placing in the mind The Primary Person
स्व-रोचिषम् विवेश The Self-effulgent, entered
कैशोर-वया: परम् गत: in a young age, (to the) The Supreme went
करूषान्मानवादासन् कारूषा: क्षत्रजातय: ।
उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सला: ॥१६॥
करूषात्-मानवात्-आसन् from Karusha, Manu's son, came
कारूषा: क्षत्र-जातय: the Kaarushas, the Kshatriya race
उत्तरापथ-गोप्तार: of the northern regions, the rulers
ब्रह्मण्या: धर्म-वत्सला: devoted to Braahmanas, righteousness adhering to
धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।
नृगस्य वंश: सुमतिर्भूतज्योतिस्ततो वसु: ॥१७॥
धृष्टात् धार्ष्टम्-अभूत् क्षत्रम् from Dhrishta Dhaarshta was born Kshatriya
ब्रह्मभूयम् गतम् क्षितौ to Brahmanahood went on the earth
नृगस्य वंश: सुमति:- Nriga's race was Sumati,
भूतज्योति:-तत: वसु: from him Bhootajyoti, from him Vasu
वसो: प्रतीकस्तत्पुत्र ओघवानोघवत्पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥१८॥
वसो: प्रतीक:-तत्-पुत्र Vasu's (son) Prateeka, his son
ओघवान्-ओघवत्-पिता Oghavaan, (was) Oghavat's father
कन्या च-ओघवती नाम daughter and Oghavatee named
सुदर्शन: उवाह ताम् Sudarshana married her
चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतोभवत् ।
तस्य मीढ्वांस्तत: कूर्च इन्द्रसेनस्तु तत्सुत: ॥१९॥
चित्रसेन: नरिष्यन्तात्- Chitrasena was born from Narishyanta
ऋक्ष:-तस्य सुत:-अभवत् Riksha his son became
तस्य मीढ्वान्-तत: कूर्च: his son Meedhawaana, from him Koorcha
इन्द्रसेन:-तु तत्-सुत: Indrasena indeed was his son
वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवा: सुतस्तस्य देवदत्तस्ततोऽभवत् ॥२०॥
वीतिहोत्र:-तु-इन्द्रसेनात् Veetihotra indeed was (born) from Indrasena
तस्य सत्यश्रवा अभूत् his Satyashravaa (the son) became
उरुश्रवा: सुत:-तस्य Urushravaa was son his
देवदत्त:-तत:-अभवत् Devadattaa from him became
ततोऽग्निवेश्यो भगवानग्नि: स्वयमभूत् सुत: ।
कानीन इति विख्यातो जातूकर्ण्यो महानृषी: ॥२१॥
तत:-अग्निवेश्य: भगवान्- from him, Agniveshya the god
अग्नि: स्वयम्-अभूत् सुत: fire himself was born as son
कानीन इति विख्यात: Kaaneena thus the famous
जातूकर्ण्य: महान्-ऋषी: Jaatukarnya the great sage
ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप ।
नरिष्यन्तान्वय: प्रोक्तो दिष्टवंशमत: शृणु ॥२२॥
तत: ब्रह्म-कुलम् जातम्- from him The Braahmana's race, was born
अग्निवेश्यायनम् नृप Agniveshyaayana, O King!
नरिष्यन्त-अन्वय: प्रोक्त: of Narishyanta, the progeny is told,
दिष्ट-वंशम्-अत: शृणु of Dishta's race now hear
नाभागो दिष्टपुत्रोऽन्य: कर्मणा वैश्यतां गत: ।
भलन्दन: सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥२३॥
नाभाग: दिष्ट-पुत्र:-अन्य: Naabhaaga, Dishta's son, the other one,
कर्मणा वैश्यताम् गत: by activities Vaishya became
भलन्दन: सुत:-तस्य Bhalandan was son his
वत्सप्रीति:-भलन्दनात् Vatsapreeti was from Bhalandan
वत्सप्रीते: सुत: प्रांशुस्तत्सुतं प्रमतिं विदु: ।
खनित्र: प्रमतेस्तस्माच्चाक्षुषोऽथ विविंशति: ॥२४॥
वत्सप्रीत: सुत: प्रांशु:- Vatsapreeta was son of Praanshu
तत्-सुतम् प्रमतिम् विदु: his son Pramati was known as
खनित्र: प्रमते:-तस्मात्- Khanitra was Pramati's (son), from him
चाक्षुष: अथ विविंशति: Chaakshusha, then (from him) Vivinshati
विविंशतिसुतो रम्भ: खनिनेत्रोऽस्य धार्मिक: ।
करन्धमो महाराज तस्यासीदात्मजो नृप ॥२५॥
विविंशति-सुत: रम्भ: Vivinshati's son was Rambha
खनिनेत्र:-अस्य धार्मिक: Khaninetra his the pious
करन्धम: महाराज Karandhama, O Great king!
तस्य-आसीत्-आत्मज: नृप his was the son O King!
तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।
संवर्तोऽयाजयद् यं वै महायोग्यङ्गिर:सुत: ॥२६॥
तस्य-अवीक्षित् सुत: यस्य his Aveekshita the son, whose
मरुत्त:-चक्रवर्ती-अभूत् Marutta emperor became
संवर्त:-अयाजयद् यम् वै Samvarta made sacrifice by whom
महायोगी-अङ्गिर:सुत: the great Yogi, Angiraa's son
मरुत्तस्य यथा यज्ञो न तथान्यस्य कश्चन ।
सर्वं हिरण्मयं त्वासीद् यत् किञ्चिच्चास्य शोभनम् ॥२७॥
मरुत्तस्य यथा यज्ञ: of Marutta such as the sacrifice
न तथा-अन्यस्य कश्चन not like that of anyone else
सर्वम्-हिरण्मयम् everything was golden indeed was
यत् किञ्चित्-च-अस्य शोभनम् whatever else and was remarkable
अमाद्यदिन्द्र: सोमेन दक्षिणाभिर्द्विजातय: ।
मरुत: परिवेष्टारो विश्वेदेवा: सभासद: ॥२८॥
अमाद्यत्-इन्द्र: सोमेन intoxicated was Indra by Soma
दक्षिणाभि:-द्विजातय: by monetary gifts the Braahmanas
मरुत: परिवेष्टार: the Marutas were (food) service men
विश्वेदेवा: सभासद: the Vishvedevas were the assembly members
मरुत्तस्य दम: पुत्रस्तस्यासीद् राज्यवर्धन: ।
सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नर: सुत: ॥२९॥
मरुत्तस्य दम: पुत्र:- of Marutta Dama was the son
तस्य-आसीत् राज्यवर्धन: his was Raajyavardhana
सुधृति:-तत्-सुत: जज्ञे Sudhriti his son was born
सौधृतेय: नर: सुत: of Sudhriti Nara was the son
तत्सुत: केवलस्तस्माद् बन्धुमान् वेगवांतत: ।
बन्धुस्तस्याभवद् यस्य तृणबिन्दुर्महीपति: ॥३०॥
तत्-सुत: केवल:-तस्मात्- his son was Kevala, from him
बन्धुमान् वेगवान्-तत: Bandhumaana, Vegavaana from him
बन्धु:-तस्य-अभवद् Bandhu his was born
यस्य तृणबिन्दु:-महीपति: whose Trinabindu was the earth's ruler
तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् ।
वराप्सरा यत: पुत्रा: कन्या चेडविडाभवत् ॥३१॥
तम् भेजे-अलम्बुषा देवी him married, Alambushaa the heavenly
भजनीय-गुण-आलयम् worthy of praise qualities the repository
वरा-अप्सरा यत: पुत्रा: the foremost celestial nymph, from whom sons
कन्या च-इडविडा-अभवत् daughter and Idavidaa were born
तस्यामुत्पादयामास विश्रवा धनदं सुतम् ।
प्रादाय विद्यां परमामृषियोगेश्वरात् पितु: ॥३२॥
तस्याम्-उत्पादयामास from her produced
विश्रवा धनदम् सुतम् Vishravaa the riches Bestower (Kuber) the son
प्रादाय विद्याम् परमाम्- having attained the knowledge the highest,
ऋषि-योगेश्वरात् पितु: from the sage the foremost in yoga, the father
विशाल: शून्यबन्धुश्च धूम्रकेतुश्च तत्सुता: ।
विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥३३॥
विशाल:-शून्यबन्धु:-च Vishaalaa, Shoonyabandhu,
धूम्रकेतु:-च तत्-सुता: Dhoomraketu and were his sons
विशाल: वंशकृत् राजा Vishal was of the race the promoter, the king,
वैशालीम् निर्ममे पुरीम् Vaishalee built the city
हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।
तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥३४॥
हेमचन्द्र: सुत:-तस्य Hemachandra son his
धूम्राक्ष:-तस्य च-आत्मज: Dhumraaksha his and the son
तत्-पुत्रात् संयमात्-आसीत् from his son Samyama was
कृशाश्व: सह-देवज: Krishaashva along with Devaja
कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैरिडस्पतिम् ।
इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रित: ॥३५॥
कृशाश्वात् सोमदत्त:-अभूत्- from Krishaashva Somadutta was born
य:-अश्वमेधै:-इडस्पतिम् who by Ashvamedha, the lord of sacrifices
इष्ट्वा पुरुषम्-आप-अग्र्याम् worshipped The Person, attained the highest
गतिम् योगेश्वर-आश्रित: state, to the Lord of Yoga surrendering
सौमदत्तिस्तु सुमतिस्तत्सुतो जनमेजय: ।
एते वैशालभूपालास्तृणबिन्दोर्यशोधरा: ॥३६॥
सौमदत्ति:-तु सुमति:- of Somadutta indeed was Sumati
तत्-सुत: जनमेजय: his son Janamejaya
एते वैशाल-भूपाला:- these of Vaishaalee the kings
तृणबिन्दो:-यश:-धरा: of Trinabindu's glory preserved
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे द्वितीय: अध्याय: ॥२॥ Thus ends the second discourse in Book Nine of the great and glorious
तृतीय: अध्याय:
श्री शुक उवाच - Shree Shuka said -
शर्यातिर्मानवो राजा ब्रह्मिष्ठ: स बभूव ह ।
यो वा अङ्गिरसां सत्रे द्वितीयमह ऊचिवान् ॥१॥
शर्याति:-मानव: राजा Sharyaatee, Manu's son, the king
ब्रह्मिष्ठ: स: बभूव ह knower of Brahman, he became it is said
य: वा अङ्गिरसाम् सत्रे who indeed in the Angirasa's sacrifice,
द्वितीयम्-अह ऊचिवान् on the second day advised
सुकन्या नाम तस्यासीत् कन्या कमललोचना ।
तया सार्धं वनगतो ह्यगमच्च्यवनाश्रमम् ॥२॥
सुकन्या नाम तस्य-आसीत् Sukanyaa named his was
कन्या कमल-लोचना daughter lotus eyed
तया सार्धम् वन-गत: हि- her along with to the forest having gone indeed
अगमत्-च्यवन-आश्रमम् went to Chyavana's hermitage
सा सखीभि: परिवृता विचिन्वत्यङ्घ्रिपान् वने ।
वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥३॥
सा सखीभि: परिवृता she with girl friends surrounded
विचिन्वती-अङ्घ्रिपान् वने admiring the trees in the forest
वल्मीक-रन्ध्रे ददृशे in the ant-hill hole saw
खद्योते इव ज्योतिषी two fire flies like two lights
ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै ।
अविध्यन्मुग्धभावेन सुस्रावासृक् ततो बहु ॥४॥
ते दैवचोदिता बाला those, by the fate impelled young girl
ज्योतिषी कण्टकेन the lights by a thorn
वै अविध्यन्-मुग्ध-भावेन indeed pierced with childish innocence
सुस्राव-असृक् तत: बहु flowed blood a good deal
शकृन्मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् ।
राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥५॥
शकृत्-मूत्र-निरोध:-अभूत् of stool urine retention became
सैनिकानाम् च तत्-क्षणात् of the soldiers and from that moment
राजर्षि:-तम्-उपालक्ष्य the royal sage that noticing
पुरुषान् विस्मित:-अब्रवीत् to the people surprised said
अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् ।
व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥६॥
अपि-अभद्रम् न युष्माभि:- also evil is not by you all
भार्गवस्य विचेष्टितम् of the son of Bhrigu (Chyavana) done
व्यक्तम् केन-अपि न:-तस्य it is clear some one even of us his
कृतम्-आश्रम-दूषणम् has rendered the hermitage impure
सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया ।
द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥७॥
सुकन्या प्राह पितरम् भीता Sukanyaa said to the father with fear
किञ्चित् कृतम् मया something is done by me
द्वे ज्योतिषी अजानन्त्या two lights unknowingly
निर्भिन्ने कण्टकेन वै are pierced with a thorn indeed
दुहितुस्तद् वच: श्रुत्वा शर्यातिर्जातसाध्वस: ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं शनै: ॥८॥
दुहितु:-तत् वच: श्रुत्वा of the daughter those words hearing
शर्याति:-जात-साध्वस: Sharyaatee overcome with fear
मुनिम् प्रसादयामास the sage propitiated
वल्मीक-अन्तर्हितम् शनै: in the ant-hill covered gradually
तदभिप्रायमाज्ञाय प्रादाद् दुहितरं मुने: ।
कृच्छ्रान्मुक्तस्तमामन्त्र्य पुरं प्रायात् समाहित: ॥९॥
तत्-अभिप्रायम्-आज्ञाय his indication understanding,
प्रादाद् दुहितरम् मुने: gave the daughter to the sage
कृच्छ्रात्-मुक्त: तम्-आमन्त्र्य easily saved, by his permission
पुरम् प्रायात् समाहित: went to the city carefully
सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।
प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभि: ॥१०॥
सुकन्या च्यवनम् प्राप्य Sukanyaa, Chyavana having obtained
पतिम् परम-कोपनम् the husband short tempered
प्रीणयामास चित्तज्ञा pleased him, she, the knower of mind
अप्रमत्त-अनुवृत्तिभि: with unfaltering service
कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ ।
तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥११॥
कस्यचित् तु-अथ कालस्य some of its indeed after that of time
नासत्यौ-आश्रम-आगतौ the Ashwini Kumaaras to the hermitage came
तौ पूजयित्वा प्रोवाच them respectfully greeting said,
वय: मे दत्तम्-ईश्वरौ Youth to me to give, capable you are
ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपो: ।
क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥१२॥
ग्रहम् ग्रहीष्ये सोमस्य part will make to be given of the Soma (juice)
यज्ञे वाम्-अपि-असोमपो: in the sacrifice, to you two also, not entitled
क्रियताम् मे वय: रूपम् do such my age and looks
प्रमदानाम् यत्-ईप्सितम् by the young women which is coveted
बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ ।
निमज्जतां भवानस्मिन् ह्रदे सिद्धविनिर्मिते ॥१३॥
बाढम्-इति-ऊचतु:-विप्रम्- Alright, thus saying to the Braahmana
अभिनन्द्य भिषक्तमौ greeting, the foremost two physicians
निमज्जताम् भवान्-अस्मिन् plunge you in this
ह्रदे सिद्ध-विनिर्मिते pond, by the Siddhas created
इत्युक्त्वा जरया ग्रस्तदेहो धमनिसन्तत: ।
ह्रदं प्रवेशितोऽश्विभ्यां वलीपलितविप्रिय: ॥१४॥
इति-उक्त्वा जरया ग्रस्त- thus having said by old age overcome
देह: धमनि-सन्तत: body, veins prominent
ह्रदम् प्रवेशित:-अश्विभ्याम् in the pond was made to enter by the two Ashwinis
वली-पलित-विप्रिय: by wrinkle and white hair unappealing
पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रिया: ।
पद्मस्रज: कुण्डलिनस्तुल्यरूपा: सुवासस: ॥१५॥
पुरुषा:-त्रय: उत्तस्थु:- men three emerged
अपीच्या: वनिता-प्रिया: good looking to the women captivating
पद्म-स्रज: कुण्डलिन:- lotus garlanded with ear rings
तुल्य-रूपा: सुवासस: alike in appearance well dressed
तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चस: ।
अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥१६॥
तान् निरीक्ष्य वरारोहा them seeing, the beautiful limbed,
सरूपान् सूर्य-वर्चस: of same appearance, of sun like lustre
अजानती पतिम् साध्वी not knowing her husband, the pious woman
अश्विनौ शरणम् ययौ Ashwinis rescue sought
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ।
ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥१७॥
दर्शयित्वा पतिम् तस्यै pointing out husband to her
पातिव्रत्येन तोषितौ by her fidelity satisfied
ऋषिम्-आमन्त्र्य ययतु:- the sage taking leave of returned
विमानेन त्रिविष्टपम् by Ariel cars to the heaven
यक्ष्यमाणोऽथ शर्यातिश्च्यवनस्याश्रमं गत: ।
ददर्श दुहितु: पार्श्वे पुरुषं सूर्यवर्चसम् ॥१८॥
यक्ष्यमाण:-अथ शर्याति:- wanting to perform a sacrifice, then, Sharyaatee
च्यवनस्य-आश्रमम् गत: to Chyavana's hermitage went
ददर्श दुहितु: पार्श्वे saw his daughter near
पुरुषम् सूर्य-वर्चसम् a man of sun like effulgence
राजा दुहितरं प्राह कृतपादाभिवन्दनाम् ।
आशिषश्चाप्रयुञ्जानो नातिप्रीतमना इव ॥१९॥
राजा दुहितरम् प्राह the king to the daughter said
कृत-पाद-अभिवन्दनाम् who had in the feet bowed
आशिष:-च-अप्रयुञ्जान: blessings and not pronouncing
न-अतिप्रीतमना इव not very pleased like
चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनि: ।
यत् त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसेऽमुमध्वगम् ॥२०॥
चिकीर्षितम् ते किम्-इद्म् desire you what is this
पति:-त्वया प्रलम्म्भित: husband by you betrayed
लोक-नमस्कृत: मुनि: by the world adored the sage
यत् त्वम् जरा-ग्रस्तम्- that you by old age overcome
असत्य-सम्मतम् विहाय false considering abandoning,
जारम् भजसे-अमुम्-अध्वगम् other man serve this vagabond
कथं मतिस्तेऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तम: ॥२१॥
कथम् मति:-ते-अवगता- how reason yours has become lowly
अन्यथा सताम् कुल-प्रसूते otherwise, in noble race born
कुल-दूषणम् तु-इदम् family demeaning indeed this
बिभर्षि जारम् यत्-अत्रपा serves a paramour, in that, shamelessly
कुलम् पितु:-च-भर्तु:-च the family of father and of husband
नयसि-अध:-तम: hurl into dark hell
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनन्दन: ॥२२॥
एवम् ब्रुवाणम् पितरम् in this manner saying to the father
स्मयमाना शुचिस्मिता smilingly, she of a beautiful smile
उवाच तात जामाता said, 'father, son-in-law
तव-एष भृगुनन्दन: your this, the delight of sage Bhrigu
शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् ।
विस्मित: परमप्रीतस्तनयां परिषस्वजे ॥२३॥
शशंस पित्रे तत् सर्वम् related to the father that all
वय:-रूप-अभिलम्भनम् of age and appearance acquirement
विस्मित: परम-प्रीत:- surprised and very happy
तनयाम् परिषस्वजे daughter embraced
सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् ।
असोमपोरप्यश्विनोश्च्यवन: स्वेन तेजसा ॥२४॥
सोमेन याजयन् वीरम् the Soma (juice) getting by sacrifice, the hero king
ग्रहम् सोमस्य च-अग्रहीत् part of the Soma and made to be given
असोमप:-अपि-अश्विनो:- to the unentitled for Soma even the Ashwinis,
च्यवन: स्वेन तेजसा Chyavana, by his own power
हन्तुं तमाददे वज्रं ग्रहं सद्योमन्युरमर्षित: ।
सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गव: ॥२५॥
हन्तुम् तम्-आददे वज्रम् to kill him, took up the thunderbolt
सद्य:-मन्यु:-अमर्षित: short tempered intolerant
सवज्रम् स्तम्भयामास with the thunderbolt paralyzed
भुजम्-इन्द्रस्य भार्गव: the arm of Indra, the son of Bhrigu
अन्वजानंस्तत: सर्वे ग्रहं सोमस्य चाश्विनो: ।
भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥२६॥
अन्वजानन्-तत: सर्वे came to know then all
ग्रहम् सोमस्य च-अश्विनो: part of Soma and to the Ashwinis
भिषजौ-इति यत् पूर्वम् physicians, thus, which before
सोम-आहुत्या बहिष्कृतौ from Soma sacrifice were excluded
उत्तानबर्हिरानर्तो भूरिषेण इति त्रय: ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥२७॥
उत्तानबर्हि:-आनर्त: Uttaanabarhi, Aanarta,
भूरिषेण इति त्रय: Bhoorishena thus three
शर्याते:-अभवन् पुत्रा: of Sharyaatee were sons
आनर्ताद् रेवत:-अभवत् from Aanarta Rewata was born
सोऽन्त:समुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दम ॥२८॥
स:-अन्त:-समुद्रे नगरीम् he, in the middle of the ocean a city
विनिर्माय कुशस्थलीम् having built Kushasthali
आस्थित:-अभुङ्क्त विषयान्- residing there ruled the territory
आनर्त-आदीन्-अरिन्दम of Aanarta and others, O Subduer of foes!
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ।
ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गत: ॥२९॥
तस्य पुत्र-शतम् जज्ञे his sons hundred were born
ककुद्मि-ज्येष्ठम्-उत्तमम् Kakudmee the eldest excellent
ककुद्मी रेवतीम् कन्याम् Kakudmee, Revati the daughter
स्वाम्-आदाय विभुम् गत: his taking along, to Brahmaa went
कन्यावरं परिप्रष्टुं ब्रह्मलोकमपावृतम् ।
आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षण: क्षणम् ॥३०॥
कन्या-वरम् परिप्रष्टुम् for the daughter, a match to ask for
ब्रह्म-लोकम्-अपावृतम् to Brahma's realm uncovered (by Rajas and Tamas)
आवर्तमाने गान्धर्वे स्थित:- for the going on of music tarried,
अलब्ध-क्षण: क्षणम् not having got an opportune moment, a moment
तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् ।
तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥३१॥
तत्-अन्त आद्यम्-आनम्य (when) that ended, to The first born, bowing
स्व-अभिप्रायम् न्यवेदयत् his own intention presented
तत्-श्रुत्वा भगवान् ब्रह्मा that hearing the glorious Brahmaa
प्रहस्य तम्-उवाच ह laughingly to him said indeed
अहो राजन् निरुद्धास्ते कालेन हृदि ये कृता: ।
तत्पुत्रपौत्रनप्तृणां गोत्राणि च न शृण्महे ॥३२॥
अहो राजन् निरुद्धा:-ते O King! have been swept they
कालेन हृदि ये कृता: by Time, in heart who (you may have) thought of
तत्-पुत्र-पौत्र-नप्तृणाम् their sons, grand sons, great grand sons'
गोत्राणि च न शृण्महे race and do not hear
कालोऽभियातस्त्रिणवचतुर्युगविकल्पित: ।
तद् गच्छ देवदेवांशो बलदेवो महाबल: ॥३३॥
काल:-अभियात:-त्रि-नव- Time has passed, three nines (twenty seven)
चतुर्युग विकल्पित: in four Yugas comprising of
तत् गच्छ देव-देवांश: so go (to the earth), of Vishnu's part incarnation
बलदेव: महाबल: Baladeva the mighty
कन्यारत्नमिदं राजन् नररत्नाय देहि भो: ।
भुवो भारावताराय भगवान् भूतभावन: ॥३४॥
कन्या-रत्नम्-इदम् राजन् girl jewel this, O King! (Kakudmee)
नर-रत्नाय देहि भो: to the man jewel should give O!
भुव: भार-अवताराय for the earth's burden (to descent), has descended
भगवान् भूत-भावन: the Almighty, of the created beings' The Protector
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तन: ।
इत्यादिष्टोऽभिवन्द्याजं नृप: स्वपुरमागत: ॥३५॥
त्यक्तं पुण्यजनत्रासाद् भ्रातृभिर्दिक्ष्ववस्थितै: ॥35॥
अवतीर्ण: निज-अंशेन has descended with own part manifestation
पुण्य-श्रवण-कीर्तन: sanctifying is the hearing and chanting of His names
इति-आदिष्ट:-अभिवन्द्य-अजम् thus instructed, bowing to Brahmaa
नृप: स्व-पुरम्-आगत: the king to his own city returned
त्यक्तम् पुण्य-जन-त्रासादत् deserted for the Yakshas fear
भ्रातृभि:-दिक्षु-अवस्थितै: by the brothers, in directions staying
सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने ।
बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥३६॥
सुताम् दत्त्वा-अनवद्य-अङ्गीम् daughter giving away, her, of fault-less limbs
बलाय बलशालिने to Bala, the mighty
बदरी-आख्यम् गत: राजा to Badaree named went the king
तप्तुम् नारायण-आश्रमम् to practice austerities, to Naarayana's hermitage
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे तृतीय: अध्याय: ॥३॥ Thus ends the third discourse, in Book Nine of the great and glorious
चतुर्थ: अध्याय:
श्री शुक उवाच - Shree Shuka said -
नाभागो नभगापत्यं यं ततं भ्रातर: कविम् ।
यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥१॥
नाभाग: नभग-अपत्यम् Naabhaaga, Nabhaga's son
यम् ततम् भ्रातर: कविम् whom the father, the brothers to the learned
यविष्ठम् व्यभजन् दायम् youngest, in dividing ( the property) the share
ब्रह्मचारिणम्-आगतम् to the celibate who had come
भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव ।
त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथा: ॥२॥
भ्रातर:-अभाङ्क्त किम् मह्यम् ’Brothers! share what is for me'
भ्रातर:-अभाङ्क्त किम् मह्यम्
भजाम पितरम् तव 'shared father for you'
भजाम पितरम् तव
त्वाम् मम-आर्या:-तत-अभाङ्क्षु:- 'You for me the gentlemen, O father! have
मा पुत्रक तत्-आदृथा: 'Do not O dear son that give heed to'
मा पुत्रक तत्-आदृथा:
इमे अङ्गिरस: सत्रमासतेऽद्य सुमेधस: ।
षष्ठं षष्ठमुपेत्याह: कवे मुह्यन्ति कर्मणि ॥३॥
इमे अङ्गिरस: सत्रम्- these of Angira's clan
आसते-अद्य सुमेधस: sacrifice are performing now, the very intelligent
षष्ठम् षष्ठम्-उपेत्य-अह: every sixth approaching day
कवे मुह्यन्ति कर्मणि O learned one! they commit mistake in the rituals
तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मन: ।
ते स्वर्यन्तो धनं सत्रपरिशेषितमात्मन: ॥४॥
तान्-त्वम् शंसय सूक्ते द्वे them you teach Sooktas two
वैश्वदेवे महात्मन: of the Vishvedevas, the great souls
ते स्वर्यन्त: धनम् they when returning to heaven, the riches
सत्र-परिशेषितम्-आत्मन: of the sacrifice left over, theirs
दास्यन्ति तेऽथ तान् गच्छ तथा स कृतवान् यथा ।
तस्मै दत्त्वा ययु: स्वर्गं ते सत्रपरिशेषितम् ॥५॥
दास्यन्ति ते-अथ तान् गच्छ will give to you, then, to them go
तथा स: कृतवान् यथा like that he did, so that
तस्मै दत्त्वा ययु: स्वर्गम् to him gave, went to the heaven
ते सत्र-परिशेषितम् they, of the sacrifice the left over
तं कश्चित् स्वीकरिष्यन्तं पुरुष: कृष्णदर्शन: ।
उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥६॥
तम् कश्चित् स्वीकरिष्यन्तम् him, some, as he was accepting
पुरुष: कृष्ण-दर्शन: person of dark colour
उवाच-उत्तरत:-अभ्येत्य said from north coming
मम-इदम् वास्तुकम् वसु 'my this left over wealth (is)'
मम-इदम् वास्तुकम् वसु
ममेदमृषिभिर्दत्तमिति तर्हि स्म मानव: ।
स्यान्नौ ते पितरि प्रश्न: पृष्टवान् पितरं तथा ॥७॥
मम्-इदम्-ऋषिभि:-दत्तम्- 'my this, by the sages given'
इति तर्हि स्म मानव: thus, then that man
स्यात्-नौ ते पितरि प्रश्न: 'may be for both, to your father ask'
स्यात्-नौ ते पितरि प्रश्न:
पृष्टवान् पितरम् तथा asked the father then
यज्ञवास्तुगतं सर्वमुच्छिष्टमृषय: क्वचित् ।
चक्रुर्विभागं रुद्राय स देव: सर्वमर्हति ॥८॥
यज्ञ-वास्तु-गतम् सर्वम्- the sacrifice ground having all
उच्छिष्टम्-ऋषय: क्वचित् left-over the sages at some time
चक्रु:-विभागम् रुद्राय did the share for Rudra,
स: देव: सर्वम्-अर्हति He the god all deserves
नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् ।
इत्याह मे पिता ब्रह्मञ्छिरसा त्वां प्रसादये ॥९॥
नाभाग:-तम् प्रणम्य-आह Naabhaaga to him bowing down said -
तव-ईश किल वास्तुकम् 'Yours O lord! Undoubtedly, on sacrificial ground
तव-ईश किल वास्तुकम्
इति-आह मे पिता ब्रह्मन्- this (is) said my father, O Holy One!
शिरसा त्वाम् प्रसादये With my head (bowed) you I pray for grace'
यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे ।
ददामि ते मन्त्रदृशे ज्ञानं ब्रह्म सनातनम् ॥१०॥
यत् ते पिता-अवदद् धर्मम् 'What your father said is right
यत् ते पिता-अवदद् धर्मम्
त्वम् च सत्यम् प्रभाषसे you and truth speak
ददामि ते मन्त्रदृशे I give to you, O knower of the Mantras!
ज्ञानम् ब्रह्म सनातनम् the knowledge of Brahman the eternal'
गृहाण द्रविणं दत्तं मत्सत्रे परिशेषितम् ।
इत्युक्त्वान्तर्हितो रुद्रो भगवान् सत्यवत्सल: ॥११॥
गृहाण द्रविणम् दत्तम् accept the wealth, given
मत्-सत्रे परिशेषितम् to me in the sacrifice remaining
इति-उक्त्वा-अन्तर्हित: रुद्र: thus saying disappeared Rudra
भगवान् सत्यवत्सल: the lord fond of Truth
य एतत् संस्मरेत् प्रात: सायं च सुसमाहित: ।
कविर्भवति मन्त्रज्ञो गतिं चैव तथाऽऽत्मन: ॥१२॥
य: एतत् संस्मरेत् who ever this remembers
प्रात: सायम् च सुसमाहित: morning evening and with concentration
कवि:-भवति मन्त्रज्ञ: learned becomes, knower of Mantras
गतिम् च-एव तथा-आत्मन: state and also even of Self
नाभागादम्बरीषोऽभून्महाभागवत: कृती ।
नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहत: क्वचित् ॥१३॥
नाभागात्-अम्बरीष:-अभूत्- from Naabhaaga Ambareesha was born,
महाभागवत: कृती the great devotee, virtuous
न-अस्पृशत् ब्रह्म-शाप:-अपि did not effect Brahma's curse even
यम् न प्रतिहत: क्वचित् which is unblock able anywhere
राजा-उवाच - The King said -
भगवञ्छ्रोतुमिच्छामि राजर्षेस्तस्य धीमत: ।
न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्यय: ॥१४॥
भगवन्-श्रोतुम्-इच्छामि 'O lord! to hear want I
भगवन्-श्रोतुम्-इच्छामि
राजर्षे:-तस्य धीमत: of the royal sage his the wise
न प्राभूद् यत्र निर्मुक्त: did not effect, where discharged
ब्रह्म-दण्ड: दुरत्यय: Brahmaa's punishment irreversible'
श्री शुक उवाच - Shree Shuka said -
अम्बरीषो महाभाग: सप्तद्वीपवतीं महीं ।
अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥१५॥
अम्बरीष: महाभाग: Ambareesha the highly blessed
सप्त-द्वीप-वतीम् महीम् of seven islands consisting the earth
अव्ययाम् च श्रियम् लब्ध्वा inexhaustible and wealth, inheriting
विभवम् च-अतुलम् भुवि luxuries and incomparable, on the earth
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् ।
विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥१६॥
मेने-अति-दुर्लभम् पुंसाम् considered, very difficult to acquire for the people
सर्वम् तत् स्वप्न-संस्तुतम् all that dream equal to
विद्वान् विभव-निर्वाणम् the learned one by wealth infatuated
तम: विशति यत् पुमान् darkness (hell) enters by which a person
वासुदेवे भगवति तद्भक्तेषु च साधुषु ।
प्राप्तो भावं परं विश्वं येनेदं लोष्टवत् स्मृतम् ॥१७॥
वासुदेवे भगवति in Vaasudeva The Lord
तत्-भक्तेषु च साधुषु in His devotees and in the pious
प्राप्त: भावम् परम् विश्वम् had attained attachment supreme the world
येन-इदम् लोष्ट-वत् स्मृतम् by which this, mass of earth like felt
स वै मन: कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥१८॥
स: वै मन: कृष्ण- he indeed (his) mind in Krishna's
पद-अरविन्दयो:-वचांसि feet lotuses, speech
वैकुण्ठ-गुण-अनुवर्णने in Vaikuntha virtues recounting
करौ हरे:-मन्दिर-मार्जन- hands in Hari's temple cleaning
आदिषु श्रुतिम् चकार- and others, hearing employed
अच्युत-सत्-कथा-उदये in Achyuta's excellent stories hearing
मुकुन्द लिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् ।
घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते ॥१९॥
मुकुन्द लिङ्ग-आलय दर्शने of Shree Krishna's idol and temples in seeing,
दृशौ तत्-भृत्य-गात्र- the eyes, in His servants' limbs
स्पर्शे-अङ्ग-सङ्गमम् touching, the tactile sense
घ्राणम् च तत्-पाद सरोज- sense of smell in His feet lotus's
सौरभे श्रीमत्-तुलस्या: scent, in the blessed Tulasi
रसना तत्-अर्पिते the tongue to Him offered
पादौ हरे: क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रति: ॥२०॥
पादौ हरे: क्षेत्र-पद-अनुसर्पणे the feet in Lord Hari's lands by feet going to
शिर: हृषीकेश the head in The Controller of senses'
पद-अभिवन्दने feet bowing to
कामम् च दास्ये the coveted offerings and in service
न तु काम-काम्यया not indeed for sense gratification
यथा-उत्तम-श्लोक- so that The High Renowned's
जन-आश्रया रति: peoples surrendered attachment
एवं सदा कर्मकलापमात्मन: परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्राभिहित: शशास ह ॥२१॥
एवम् सदा कर्म-कलापम्- in this manner, always actions and duties
आत्मन: परे-अधियज्ञे his, in The Supreme, The Lord of sacrifices
भगवति-अधोक्षजे in The Lord beyond sense perception
सर्व-आत्म-भावम् विदधत्- with entire own being resigning,
महीम्-इमाम् तत्-निष्ठ-विप्र- the earth this, in Him devoted Braahmanas
अभिहित: शशास ह directions ruled indeed
ईजेऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणै: ।
ततैर्वसिष्ठासितगौतमादिभिर्धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥२२॥
ईजे-अश्वमेधै:- propitiated, by Ashvamedhas
अधियज्ञम्-ईश्वरम् The Almighty Lord of sacrifices
महा-विभूत्या- by abundant riches
अपचित-अङ्ग-दक्षिणै: inflated limbs and fees
ततै:-वसिष्ठ-असित extensive, by Vashishtha, Asita,
गौतम-आदिभि:- Gautama and others
धन्वनि-अभिस्रोतम्- in the desert in the front of the stream
असौ सरस्वतीम् he, of river Sarasvati
यस्य क्रतुषु गीर्वाणै: सदस्या ऋत्विजो जना: ।
तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवासस: ॥२३॥
यस्य क्रतुषु गीर्वाणै: in whose sacrifice, with the gods,
सदस्या: ऋत्विज: जना: the members, officiating priests, people
तुल्य-रूपा:-च-अनिमिषा: were of same looks and unwinking
व्यदृश्यन्त सुवासस: were seen well dressed
स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रिय: ।
शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥२४॥
स्वर्ग: न प्रार्थित: the heaven not prayed for
यस्य मनुजै:-अमर-प्रिय: by whose men, to the immortals so dear
शृण्वद्भि:-उपगायद्भि:- by the hearing to and by the singing
उत्तमश्लोक-चेष्टितम् of the highly Renowned's stories
समर्द्धयन्ति तान् कामा: स्वाराज्यपरिभाविता: ।
दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यत: ॥२५॥
समर्द्धयन्ति तान् कामा: delight them the pleasure
स्वाराज्य-परिभाविता: by self-realization defeated
दुर्लभा: न-अपि सिद्धानाम् difficult to attain not also by the Siddhaas
मुकुन्दम् हृदि पश्यत: Mukunda in the hearts perceiving
स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिव: ।
स्वधर्मेण हरिं प्रीणन् सङ्गान् सर्वाच्छनैर्जहौ ॥२६॥
स: इत्थम् भक्ति-योगेन he, in this manner, by devotion engaged
तप:-युक्तेन by austerities accompanied the king
स्व-धर्मेण हरिम् प्रीणन् by own duties conducting Lord Hari propitiated
सङ्गान् सर्वान्-शनै:-जहौ associations all gradually gave up
गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिपत्तिषु ।
अक्षय्यरत्नाभरणायुधादिष्वनन्तकोशेष्वकरोद्सन्मतिम् ॥२७॥
गृहेषु दारेषु सुतेषु बन्धुषु in the houses, wives, sons, relations,
द्विप-उत्तम स्यन्दन-वाजि-पत्तिषु elephants excellent, chariots, horses, army
अक्षय्य-रत्न-आभरण-आयुध-आदि- inexhaustible jewels, ornaments, weapons others
अनन्त-कोशेषु-अकरोत्-असत्-मतिम् endless treasuries made untrue opinion
तस्मा अदाद् हरिश्चक्रं प्रत्यनीकभयावहम् ।
एकान्तभक्तिभावेन प्रीतो भृत्याभिरक्षणम् ॥२८॥
तस्मै अदाद् हरि:-चक्रम् for him gave Lord Shree Hari the discus
प्रत्यनीक-भय-आवहम् of the enemies fear generating
एकान्त-भक्ति-भावेन with unwavering devotion love
प्रीत: भृत्य-अभिरक्षणम् delighted of the servants' protector
आरिराधयिषु: कृष्णं महिष्या तुल्यशीलया ।
युक्त: सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥२९॥
आरिराधयिषु: कृष्णम् to propitiate wanting to, Lord Krishna
महिष्या तुल्य-शीलया with the queen of same nature,
युक्त: सांवत्सरम् वीर: along with, for a year, the valorous
दधार द्वादशी-व्रतम् undertook the twelfth day fast
व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषित: ।
स्नात: कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥३०॥
व्रत-अन्ते कार्तिके मासि at the fast's end, in Kaartika month
त्रि-रात्रम् समुपोषित: three nights having fasted
स्नात: कदाचित् कालिन्द्याम् bathed one day in Kaalindee river
हरिम् मधुवने-अर्चयत् Shree Hari in Madhuvana worshipped
महाभिषेकविधिना सर्वोपस्करसम्पदा ।
अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभि: ॥३१॥
महाभिषेक-विधिना by the 'Mahaa-abhisheka' procedure
सर्व-उपस्कर-सम्पदा with all the materials and riches
अभिषिच्य-अम्बर-आकल्पै:- having bathed by raiments and ornaments
गन्ध-माल्य-अर्हण-आदिभि: scents and garlands honouring and others
तद्गतान्तरभावेन पूजयामास केशवम् ।
ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तित: ॥३२॥
तत्-गत-अन्तर-भावेन in Him fixed absorbed mind
पूजयामास केशवम् worshipped Lord Krishna
ब्राह्मणान्-च महा-भागान् the Braahmanas and the highly blessed
सिद्ध-अर्थान्-अपि भक्तित: of accomplished objects also with reverence
गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् ।
पय:शीलवयोरूपवत्सोपस्करसम्पदाम् ॥३३॥
गवाम् रुक्म-विषाणीनाम् cows with gold plated horns
रूप्य-अङ्घ्रीणाम् सुवाससाम् silver plated hoofs, with good cloth covered,
पय:शील-वय:-रूप-वत्स- with milk endowed, age, looks, calves
उपस्कर-सम्पदाम् appendages and materials
प्राहिणोत् साधु विप्रेभ्यो गृहेषु न्यर्बुदानि षट् ।
भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥३४॥
प्रहिणोत् साधु विप्रेभ्य: sent to the pious Braahmanas'
गृहेषु न्यर्बुदानि षट् houses crores sixty
भोजयित्वा द्विजान्-अग्रे feeding the Braahmanas first
स्वादु-अन्नम् गुणवत्तमम् tasty food wholesome
लब्धकामैरनुज्ञात: पारणायोपचक्रमे ।
तस्य तर्ह्यतिथि: साक्षाद् दुर्वासा भगवानभूत् ॥३५॥
लब्ध-कामै:-अनुज्ञात: by (them, who) had received the desired
पारणाय-उपचक्रमे for the fast ending meal started
तस्य तर्हि-अतिथि: साक्षाद् his, at that time, the guest, himself
दुर्वासा भगवान्-अभूत् Durvaasaa glorious became
तमानर्चातिथिं भूप: प्रत्युत्थानासनार्हणै: ।
ययाचेऽभ्यवहाराय पादमूलमुपागत: ॥३६॥
तम्-अनर्च-अतिथिम् भूप: him worshipping, the king
प्रत्युत्थान-आसन-अर्हणै: with rising from seat, offering a seat, articles of
प्रत्युत्थान-आसन-अर्हणै: with rising from seat, offering a seat, articles of worship
ययाचे-अभ्यवहाराय prayed for taking food
पाद-मूलम्-उपागत: in his feet bowing down
प्रतिनन्द्य स तद्याच्ञां कर्तुमावश्यकं गत: ।
निममज्ज वृहद् ध्यायन् कालिन्दीसलिले शुभे ॥३७॥
प्रतिनन्द्य स: तत्-याच्ञाम् accepting he, his offer
कर्तुम्-आवश्यकम् गत: to do the necessary, went
निममज्ज वृहद् ध्यायन् plunged, on the Infinite meditating
कालिन्दी-सलिले शुभे in the Kaalindee waters holy
मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति ।
चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ॥३८॥
मुहूर्त-अर्ध-अवशिष्टायाम् Muhurta (25 minitues) half was left
द्वादश्याम् पारणम् प्रति of the Dvaadashi fast ending towards
चिन्तयामास धर्मज्ञ: reasoned, the knower of right,
द्विजै:-तत्-धर्म-सङ्कटे with the Braahmanas, in that moral crisis
ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे ।
यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥३९॥
ब्राह्मण-अतिक्रमे दोष: in a Braahmana's disrespect is sin,
द्वादश्याम् यत्-अपारणे in Dvaadashi, just as not ending the fast
यत् कृत्वा साधु मे भूयात्- what by doing, good to me may come
अधर्म: वा न माम् स्पृशेत् and unrighteousness or may not me touch
अम्भसा केवलेनाथ करिष्ये व्रतपारणम् ।
प्राहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ॥४०॥
अम्भसा केवलेन-अथ by water alone, then
करिष्ये व्रत-पारणम् will do of the fast the end
प्राहु:-अप्-भक्षणम् विप्रा: हि- said that water drinking, the Braahmanas,
अशितम् न-अशितम् च तत् is eating, not eating and that
इत्यप: प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् ।
प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव स: ॥४१॥
इति-अप: प्राश्य राजर्षि:- so, water drinking, the royal sage
चिन्तयन् मनसा-अच्युतम् thinking mentally of The Immortal Lord
प्रत्यचष्ट कुरुश्रेष्ठ awaited, O scion of the Kurus!
द्विज-आगमनम्-एव स: the Braahmana's returning only he
दुर्वासा यमुनाकूलात् कृतावश्यक आगत: ।
राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥४२॥
दुर्वासा यमुना-कूलात् Durvaasaa, from Yamuna's bank
कृत-आवश्यक आगत: having done the necessary returned
राज्ञा-अभिनन्दित:-तस्य by the king welcomed,
बुबुधे चेष्टितम् धिया understood the actions intuitively
मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलानन: ।
बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥४३॥
मन्युना प्रचलत्-गात्र: with anger shivering body
भ्रुकुटी-कुटिल-आनन: with eyebrows crooked faced
बुभुक्षित:-च सुतराम् with hunger and very much
कृत-अञ्जलिम्- अभाषत to him with folded hands, said
अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत ।
धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिन: ॥४४॥
अहो अस्य नृशंसस्य Alas! His, cruel,
श्रिय:-उन्मत्तस्य पश्यत of wealth arrogant, look at
धर्म-व्यतिक्रमम् विष्णो:- of right conduct trespassing, to Lord Vishnu
अभक्तस्य-ईश-मानिन: not devoted, himself the all-powerful believing
यो मामतिथिमायातमातिथ्येन निमन्त्र्य च ।
अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ॥४५॥
य: माम्-अतिथिम्-आयातम्- who me, the guest having come
आतिथ्येन निमन्त्र्य च as a guest having invited and
अदत्त्वा भुक्तवान्-तस्य not having given (food) has eaten, of that
सद्य:-ते दर्शये फलम् soon, to you will show the result
एवं ब्रुवाण उत्कृत्य जटां रोषविदीपित: ।
तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥४६॥
एवम् ब्रुवाण: उत्कृत्य so saying, uprooting
जटाम् रोष-विदीपित: the matted hair, in anger burning
तया स: निर्ममे तस्मै by that he made for him
कृत्याम् काल-अनल-उपमाम् Krityaa, the dissolution fire like
तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् ।
वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृप: ॥४७॥
ताम्-आपतन्तीम् ज्वलतीम्- her descending enflamed
असि-हस्ताम् पदा भुवम् with sword in hand, by the feet the earth
वेपयन्तीम् समुद्वीक्ष्य making to shiver, watching
न चचाल पदात्-नृप: did not move, a bit the emperor
प्राग्दिष्टं भृत्यरक्षायां पुरुषेण महत्मना ।
ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावक: ॥४८॥
प्राक्-दिष्टम् भृत्य-रक्षायाम् previously employed, for the servant's protection
पुरुषेण महत्मना by The Person, The Universal Spirit
ददाह कृत्याम् ताम् burnt Krityaa that
चक्रम् क्रुद्ध-अहिम्-इव पावक: the discus enraged snake, like the fire
तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् ।
दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥४९॥
तत्-अभिद्रवत्-उद्वीक्ष्य that rushing seeing
स्व-प्रयासम् च निष्फलम् own effort and fruitless
दुर्वासा दुद्रवे भीत: Durvaasaa ran in fear
दिक्षु प्राण-परीप्सया in the directions, life to save anxious
तमन्वधावद् भगवद्रथाङ्गं दावाग्निरुद्धूतशिखो यथाहिम् ।
मुनिरीक्षमाणो गुहां विविक्षु: प्रससार मेरो: ॥५०॥
तम्-अन्वधावत् that, following after
भगवत्-रथाङ्गम् The Lord's discus
दावाग्नि:-उद्धूत- forest fire upwards,
शिख: यथा-अहिम् flames as a snake
तथा-अनुषक्तम् like that following
मुनि:-ईक्षमाण: the sage seeing
गुहाम् विविक्षु: in the cave to eager to enter
प्रससार मेरो: fled towards the Meru
दिशो नभ: क्ष्मां विवरान् समुदराँल्लोकान् सपालांस्त्रिदिवं गत: स: ।
यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥५१॥
दिश: नभ: क्ष्माम् in the directions, the sky,
विवरान् समुद्रान्- to the various regions, the oceans,
लोकान् सपालान् the terrestrial worlds, and their guardians,
दिवम् गत: स: to the heavens went he
यत: यत: धावति where he ran
तत्र तत्र सुदर्शनम् there the Sudarshana
दुष्प्रसहम् ददर्श the formidable saw
अलब्धनाथ: स यदा कुतश्चित् संत्रस्तचित्तोऽरणमेषमाण: ।
देवं विरिञ्चं समगाद् विधातस्त्राह्यात्मयोनेऽजिततेजसो माम् ॥५२॥
अलब्ध-नाथ: स: यदा कुतश्चित् finding no protector, he, when anywhere
संत्रस्त-चित्त:-अरणम्-एषमाण: perplexed in mind, shelter seeking
देवम् विरिञ्चम् समगाद् the god Brahmaa went to
विधात:-त्राहि-आत्मयोने- 'Brahmaa save me, O Self-born!
अजित-तेजस: माम् from the undiminishable power, me'
ब्रह्मा-उवाच - Brahmaa said -
स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे ।
भ्रूभङ्गमात्रेण हि संदिधक्षो: कालात्मनो यस्य तिरोभविष्यति ॥५३॥
स्थानम् मत्-इयम् place mine this
सह-विश्वम्-एतत् with the universe this
क्रीडा-अवसाने at the pastime end
द्विपरार्ध-संज्ञे Dviparaardha named
भ्रू-भङ्ग-मात्रेण हि by the eyebrows contraction alone
संदिधक्षो: eager to burn
कालात्मन: यस्य Time Spirit is Whose
तिरो-भविष्यति vanish will be
अहं भवो दक्षभृगुप्रधाना: प्रजेशभूतेशसुरेशमुख्या: ।
सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यर्पितं लोकहितं वहाम: ॥५४॥
अहम् भव: दक्ष भृगु-प्रधाना: myself, Lord Shiva, Daksha, Bhrigu, the leading
प्रजेश-भूतेश-सुरेश- the Prajaapatis, the Bhootapatis, Indra,
मुख्या: सर्वे वयम् the chief, all of us
यत्-नियमम् प्रपन्ना: Whose law obey
मूर्ध्नि-अर्पितम् on the head
लोक-हितम् वहाम: for the universe benefit, carry
प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापित: ।
दुर्वासा: शरणं यात: शर्वकैलासवासिनम् ॥५५॥
प्रत्याख्यात: विरिञ्चेन returned by Brahmaa
विष्णु-चक्र-उपतापित: by Vishnu's discus scorched
दुर्वासा: शरणम् यात: Durvaasaa in shelter went
शर्व-कैलास-वासिनम् to Lord Shiva on Kailaasha residing
श्री रुद्र उवाच - Shree Rudra said -
वयं न तात प्रभवाम भूम्नि यस्मिन् परेऽन्येऽप्यजजीवकोशा: ।
भवन्ति काले न भवन्ति हीदृशा: सहस्रशो यत्र वयं भ्रमाम: ॥५६॥
वयम् न तात प्रभवाम भूम्नि we, do not, O Son! have the capacity in The
वयम् न तात प्रभवाम भूम्नि we, do not, O Son! have the capacity in The Infinite
यस्मिन् परे-अन्ये-अपि- in Whom , The Supreme, others also
अज-जीव-कोशा: Brahmaa and living beings all together
भवन्ति काले न भवन्ति become, in Time, do not become
हि-ईदृशा: सहस्रश: indeed, such like thousands
यत्र वयम् भ्रमाम: where we are tossed about
अहं सनत्कुमारश्च नारदो भगवानज: ।
कपिलोऽपान्तरतमो देवलो धर्म आसुरि: ॥५७॥
अहम् सनत्कुमार:-च myself, the Sanatkumaaras, and
नारद: भगवान्-अज: Naarada, the glorious Brahmaa,
कपिल:-अपान्तरतम: Kapila, Apaantaraatmaa,
देवल: धर्म आसुरि: Devala, Dharma, Aasuri,
मरीचिप्रमुखाश्चान्ये सिद्धेशा: पारदर्शना: ।
विदाम न वयं सर्वे यन्मायां माययाऽऽवृता: ॥५८॥
मरीचि-प्रमुखा:-च-अन्ये Mareechi, the leaders, and others
सिद्धेशा: पार-दर्शना: the Siddha lords, of the beyond the knowers
विदाम न वयम् सर्वे do not know we all
यत्-मायाम् मायया-आवृता: Whose Maayaa, by Maayaa enveloped
तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि न: ।
तमेव शरणम् याहि हरिस्ते शं विधास्यति ॥५९॥
तस्य विश्वेश्वरस्य-इदम् of the universe The Lord's, this
शस्त्रम् दुर्विषहम् हि न: weapon unpredictable indeed by us
तम्-एव शरणम् याहि Him alone as shelter seek
हरि:-ते शम् विधास्यति Lord Shree Hari to you security will bring
ततो निराशो दुर्वासा: पदं भगवतो ययौ ।
वैकुण्ठाख्यं यदध्यास्ते श्रीनिवास: श्रिया सह ॥६०॥
तत: निराश: दुर्वासा: from there disappointed Durvaasaa
पदम् भगवत: ययौ to the realm of The Almighty went
वैकुण्ठ-आख्यम् यत्-अध्यास्ते Vaikuntha named where lives
श्रीनिवास: श्रिया सह Laxmi's consort, Laxmi with
संदह्यमानोऽजितशस्त्रवह्निना तत्पादमूले पतित: स वेपथु: ।
आहाच्युतानन्त सदीप्सित प्रभो कृतागसं माव हि विश्वभावन: ॥६१॥
संदह्यमान:-अजित-शस्त्र- being scorched, by The invincible weapon's
वह्निना तत्-पाद-मूले fire, in His feet soles
पतित: स: वेपथु: fell he shivering
आह-अच्युत-अनन्त- and said, 'O Immortal, Eternal!
सत्-ईप्सित प्रभो by the pious sought, O Almighty!
कृत-आगसम् मा-अव committed offence, me protect do,
हि विश्वभावन: indeed, O of the universe The Protector!'
अजानता ते परमानुभावं कृतं मयाघं भवत: प्रियाणाम् ।
विधेहि तस्यापचितिं विधातर्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥६२॥
अजानता ते परम-अनुभावम् not knowing Your Supreme glory
कृतम् मया-अघम् was done by me sin
भवत: प्रियाणाम् to Your beloveds
विधेहि तस्य-अपचितिम् make that sin ineffectual
विधात:-मुच्येत यत्-नाम्नि- O Director of universe, liberated, by Whose name
उदिते नारक:-अपि uttering, the denizens of hell also
श्री भगवान्-उवाच - The Lord said -
अहं भक्त पराधीनो ह्यस्वतन्त्र इव द्विज ।
साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रिय: ॥६३॥
अहम् भक्त पराधीन: I am of the devotees' subject
हि-अस्वतन्त्र इव द्विज indeed not independent, in that, O Braahmana!
साधुभि:-ग्रस्त-हृदय: by the pious (devotees) captivated heart
भक्तै:-भक्त-जन-प्रिय: by devotees, of the devotees the beloved
नाहमात्मानमाशासे मद्भक्तै: साधुभिर्विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥६४॥
न-अहम्-आत्मानम्-आशासे not I Myself covet
मत्-भक्तै: साधुभि:-विना by My devotees, the pious besides
श्रियम् च-आत्यन्तिकीम् ब्रह्मन् Shree and The Eternal, O Braahmana!
येषाम् गति:-अहम् परा of whom the goal I am ultimate
ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम् ।
हित्वा मां शरणं याता: कथं तांस्त्यक्तुमुत्सहे ॥६५॥
ये दार-आगार-पुत्र-आप्तान् those who, wife, house, son, relatives,
प्राणान् वित्तम्-इमम् परम् life, wealth, this heaven
हित्वा माम् शरणम् याता: abandoning, Me shelter seek
कथम् ताम् त्यक्तुम्-उत्सहे how them, to forsake dare (I)
मयि निर्बद्धहृदया: साधव: समदर्शना: ।
वशीकुर्वन्ति मां भक्या सत्स्त्रिय: सत्पतिं यथा ॥६६॥
मयि निर्बद्ध-हृदया: in Me bound at heart
साधव: सम-दर्शना: the pious looking at all with equal eye
वशी-कुर्वन्ति माम् भक्या in control take Me by devotion
सत्-स्त्रिय: सत्पतिम् यथा the virtuous women virtuous husbands just as
मत्सेवया प्रतीतं च सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णा: कुतोऽन्यत् कालविद्रुतम् ॥६७॥
मत्-सेवया प्रतीतम् च with My devotion sated and
सालोक्य-आदि चतुष्टयम् Saalokya and other four (liberation types)
न-इच्छन्ति सेवया पूर्णा: do not desire by service attained
कुत:-अन्यत् काल-विद्रुतम् what of others by Time ravaged
साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥६८॥
साधव: हृदयम् मह्यम् the pious are hearts Mine
साधूनाम् हृदयम् तु-अहम् of the pious the heart indeed I am
मत्-अन्यत् ते न जानन्ति Me other than, they do not know
न-अहम् तेभ्य: मनाक्-अपि not I other than them, any thing also
उपायं कथयिष्यामि तव विप्र शृणुष्व तत् ।
अयं ह्यात्माभिचारस्ते यतस्तं यातु वै भवान् ।
साधुषु प्रहितं तेज: प्रहर्तु: कुरुतेऽशिवम् ॥६९॥
उपायम् कथयिष्यामि the way out I will tell
तव विप्र शृणुष्व तत् to you O Braahmana! listen to that
अयम् हि-आत्म-अभिचार:-ते this indeed self demolishing yours
यत:-तम् यातु वै भवान् from whom, to him go, surely you
साधुषु प्रहितम् तेज: on the pious stricken force
प्रहर्तु: कुरुते-अशिवम् to the striker brings harm
तपो विद्या च विप्राणां नि: श्रेयसकरे उभे ।
ते एव दुर्वीनीतस्य कल्पेते कर्तुरन्यथा ॥७०॥
तप: विद्या च विप्राणाम् asceticism worship and for the Braahmanas
नि: श्रेयसकरे उभे are beneficial both
ते एव दुर्वीनीतस्य they alone for the arrogant
कल्पेते कर्तु:-अन्यथा creates for the applier otherwise
ब्रह्मंस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं तत: शान्तिर्भविष्यति ॥७१॥
ब्रह्मन्-तत् गच्छ भद्रम् ते O Braahmana! So go, well be with you!
नाभाग-तनयम् नृपम् to Naabhaaga's son the king
क्षमा-आपय महाभागम् pardon ask for from the greatly blessed
तत: शान्ति:-भविष्यति from that peace will be
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे अम्बरीषचरिते चतुर्थ: अध्याय:
पञ्चम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
एवं भगवताऽऽदिष्टो दुर्वासाश्चक्रतापित: ।
अम्बरीषमुपावृत्य तत्पादौ दु:खितोऽग्रहीत् ॥१॥
एवम् भगवता-आदिष्ट: thus by The Lord directed
दुर्वासा:-चक्र-तापित: Durvaasaa, by the discus tormented
अम्बरीषम्-उपावृत्य Ambareesha approaching
तत्-पादौ दु:खित:-अग्रहीत् his feet sorrowfully held to
तस्य सोद्यमनं वीक्ष्य पादस्पर्शविलज्जित: ।
अस्तावीत् तद् हरेरस्त्रं कृपया पीडितो भृशम् ॥२॥
तस्य स:-उद्यमनम् वीक्ष्य his, he, endeavour observing
पाद-स्पर्श-विलज्जित: by feet touching ashamed
अस्तावीत् तत्-हरे:-अस्त्रम् prayed to that Shree Hari's weapon
कृपया पीडित: भृशम् by compassion hurt much
अम्बरीष उवाच - Ambareesha said -
त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पति: ।
त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥३॥
त्वम्-अग्नि:-भगवान् you are Agni (fire), the glorious
सूर्य:-त्वम् सोम: Soorya (sun), you are the Soma (moon),
ज्योतिषाम् पति: of the luminaries the lord
त्वम्-आप:-त्वम् you are water, you are the
क्षिति:-व्योम वायु:- earth, the sky, the air,
मात्रा-इन्द्रियाणि च the objects of senses, the senses and
सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय ।
सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥४॥
सुदर्शन नम:-तुभ्यम् O Sudarshana! Hail to you!
सहस्र-अर-अच्युत-प्रिय of thousand spokes, to The Immortal Lord dear
सर्व-अस्त्र-घातिन् of all the weapons the destroyer
विप्राय स्वस्ति भूया for the Braahmana propitious be
इडस्पते O Protector of earth!
त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् ।
त्वं लोकपाल: सर्वात्मा त्वं तेज: पौरुषं परम् ॥५॥
त्वम् धर्म:-त्वम्-ऋतम् you are righteousness, you are sweetness,
सत्यम् त्वम् truth you are,
यज्ञ:-अखिल-यज्ञ-भुक् sacrifices all, of the sacrifices the Enjoyer
त्वम् लोक-पाल: you are the universe's protector
सर्वात्मा त्वम् of all the soul you are
तेज: पौरुषम् परम् the effulgence of The Person Supreme
नम: सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे ।
त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥६॥
नम: सुनाभ- Hail to the one with a beautiful navel
अखिल-धर्म-सेतवे of all righteousness the upholder
हि-अधर्म-शील- indeed of the unvirtuous
असुर-धूमकेतवे the demons fire like destroying
त्रैलोक्य-गोपाय for the three worlds the shelter
विशुद्ध-वर्चसे of purest effulgence
मनोजवाय-अद्भुत-कर्मणे गृणे with mind like speed, of marvellous deeds I pray
त्वत्तेजसा धर्ममयेन संहृतं तम: प्रकाशश्च धृतो महात्मनाम् ।
दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत् सदसत् परावरम् ॥७॥
त्वत्-तेजसा धर्म-मयेन by your lustre of righteousness full
संहृतम् तम: प्रकाश:-च is dispelled the darkness, light and
धृत: महा-आत्मनाम् is upheld of the great souls
दुरत्यय:-ते महिमा unfathomable is your glory
गिराम् पते त्वत्-रूपम्-एतत् O Veda's lord! your form this
सत्-असत् पर-अवरम् manifest, unmanifest, high, low is illumined
यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् ।
बाहूदरोर्वङ्घ्रिशिरोधराणि वृक्णन्नजस्रं प्रधने विराजसे ॥८॥
यदा विसृष्ट:-त्वम्- when discharged you
अनञ्जनेन वै बलम् प्रविष्ट:- by The All Knowing, indeed the army entering
अजित दैत्य-दानवम् O invincible One! Of the Daityas and Daanavas
बाहु-उदर-उरु-अङ्घ्रि- arms, trunks, thighs, feet
शिरोधराणि वृक्णन्-अजस्र necks, chopping off unceasingly
प्रधने विराजसे in the battle (you) shine brightly
स त्वं जगत्त्राण खलप्रहाणये निरूपित: सर्वसहो गदाभृता ।
विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि न: ॥९॥
स: त्वम् जगत्-त्राण that you, of the world The Shield
खल-प्रहाणये निरूपित: for the wicked extermination are directed
सर्व-सह: गदाभृता all-resisting, by the mace holder (Vishnu)
विप्रस्य च-अस्मत्-कुल-दैव- of the Braahmana and of our race fortune
हेतवे विधेहि भद्रम् for good, grant security
तत्-अनुग्रह: हि न: that request indeed is ours
यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठित: ।
कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वर: ॥१०॥
यदि-अस्ति दत्तम्-इष्टम् if it is that I have given the desired
वा स्वधर्म: वा सु-अनुष्ठित: or my own duty, or well performed
कुलम् न: विप्र-दैवम् चेत् race ours, the Braahmanas as god treat if
द्विज: भवतु विज्वर: the Braahmana may be relieved of distress
यदि नो भगवान् प्रीत एक: सर्वगुणाश्रय: ।
सर्वभूतात्मभावेन द्विजो भवतु विज्वर: ॥११॥
यदि न: भगवान् प्रीत: if on us, The Lord is pleased
एक: सर्व-गुण-आश्रय: The One repository of all virtues,
सर्व-भूत-आत्म-भावेन by our looking on all beings Self like
द्विज: भवतु विज्वर: the Braahmana may be relieved of pain
श्री शुक उवाच - Shree Shuka said -
इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।
अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाच्ञया ॥१२॥
इति संस्तुवत: राज्ञ: thus being prayed by the king
विष्णु-चक्रम् सुदर्शनम् Vishnu's discus, Sudarshana
अशाम्यत् सर्वत: विप्रम् stopped from all sides, the Braahmana
प्रदहत् राज-याच्ञया (which) had scorched by the king's request
स मुक्तोऽस्त्राग्नितापेन दुर्वासा: स्वस्तिमांस्तत: ।
प्रशशंस तमुर्वीशं युञ्जान: परमाशिष: ॥१३॥
स: मुक्त:-अस्त्र-अग्नि-तापेन he, rid of the weapon's fire heat
दुर्वासा: स्वस्तिमान्-तत: Durvaasaa relieved, then
प्रशशंस तम्-उर्वीशम् praised him the king
युञ्जान: परम-आशिष: giving the highest blessings
दुर्वासा उवाच - Durvaasaa said -
अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे ।
कृतागसोऽपि यद् राजन् मङ्गलानि समीहसे ॥१४॥
अहो अनन्त-दासानाम् 'Ah! Of Ananta's servants'
अहो अनन्त-दासानाम्
महत्त्वम् दृष्टम्-अद्य मे glory is seen today by me
कृत-आगस:-अपि यत् राजन् having committed sin also, in that, the King!
मङ्गलानि समीहसे well being wish
दुष्कर: को नु साधुनां दुस्त्यजो वा महात्मनाम् ।
यै: संगृहीतो भगवान् सात्वतामृषभो हरि: ॥१५॥
दुष्कर: क: नु साधुनाम् impossible what (is) indeed for the noble
दुस्त्यज: वा महात्मनाम् difficult to abandon or for the great souled
यै: संगृहीत: भगवान् by whom is installed The Lord (in the heart)
सात्वताम्-ऋषभ: हरि: of the devotee lover's the scion Shree Hari
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मल: ।
तस्य तीर्थपद: किं वा दासानामवशिष्यते ॥१६॥
यत्-नाम-श्रुति-मात्रेण Whose name hearing even
पुमान् भवति निर्मल: person becomes pure
तस्य तीर्थ-पद: किम् वा His holy feet's what or
दासानाम्-अवशिष्यते for the servants is wanting
राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना ।
मदघं पृष्ठत: कृत्वा प्राणा यन्मेऽभिरक्षिता: ॥१७॥
राजन्-अनुगृहीत:-अहम् O King! obliged am I
त्वया-अति-करुणा-आत्मना by you very compassionate self
मत्-अघम् पृष्ठत: कृत्वा my sin in the back keeping
प्राणा: यत्-मे-अभिरक्षिता: life that mine is saved
राजा तमकृताहार: प्रत्यागमनकाङ्क्षया ।
चरणावुपसंगृह्य प्रसाद्य समभोजयत् ॥१८॥
राजा तम्-अकृत-आहार: the king, him, having not eaten
प्रत्यागमन-काङ्क्षया of returning expecting
चरणौ-उपसंगृह्य feet clasping
प्रसाद्य समभोजयत् gratified and fed well
सोऽशित्वाऽऽदृतमानीतमातिथ्यं सार्वकामिकम् ।
तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥१९॥
स:-अशित्वा-आदृतम्-आनीतम्- he, having eaten, respectfully brought
आतिथ्यम् सार्वकामिकम् fit for a guest, all tastes satisfying
तृप्त-आत्मा नृपतिं प्राह sated at heart, to the king said
भुज्यताम्-इति सादरम् 'Do eat' thus with respect
भुज्यताम्-इति सादरम्
प्रीतोऽस्म्यनुगृहीतोस्मि तव भागवतस्य वै ।
दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥२०॥
प्रीत:-अस्मि-अनुगृहीत:-अस्मि delighted am I, obliged am I
तव भागवतस्य वै of you, the devotee of The Lord's
दर्शन-स्पर्शन-अलापै:- sight, touch, talk
आतिथ्येन-आत्म-मेधसा and hospitality, self uplifting
कर्मावदातमेतत् ते गायन्ति स्व: स्त्रियो मुहु: ।
कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥२१॥
कर्म-अवदातम्-एतत् ते deed glorious, this yours
गायन्ति स्व: स्त्रिय: मुहु: will sing of, the celestial women repeatedly
कीर्तिम् परम-पुण्याम् च fame highly pious and
कीर्तयिष्यति भू:-इयम् will proclaim the earth this
श्री शुक उवाच - Shree Shuka said -
एवं संकीर्त्य राजानं दुर्वासा: परितोषित: ।
ययौ विहायसाऽऽमन्त्र्य ब्रह्मलोकमहैतुकम् ॥२२॥
एवम् संकीर्त्य राजानम् thus applauding the king,
दुर्वासा: परितोषित: Durvaasaa gratified
ययौ विहायसा-आमन्त्र्य went through the heaven, taking permission
ब्रह्मलोकम्-अहैतुकम् to Brahmaloka, attainable by desire less actions
सम्वत्सरोऽत्यगात् तावद् यावता नागतो गत: ।
मुनिस्तद्दर्शनाकाङ्क्षो राजाऽब्भक्षो बभूव ह ॥23॥
सम्वत्सर:-अत्यगात् तावत् one year passed
यावता न-आगत: गत: till then, until did not come and go
मुनि:-तत्-दर्शन-आकाङ्क्ष: the sage, his sight seeking
राजा-अप्-भक्ष: बभूव ह the king water drinking became indeed
गते च दुर्वाससि सोऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् ।
ऋषेर्विमोक्षं व्यसनं च बुद्ध्वा मेने स्ववीर्यं च परानुभावम् ॥२४॥
गते च दुर्वाससि after having left, Durvaasaa
स:-अम्बरीष: द्विज-उपयोग- he, Ambareesha, by the Braahmana used
अति-पवित्रम्-आहरत् very pure (food) ate
ऋषे:-विमोक्षम् व्यसनम् च the sage's redemption, plight and
बुद्ध्वा मेने स्व-वीर्यम् understanding considered own endeavour
च पर-अनुभावम् and The Supreme's indication
एवं विधानेकगुण: स राजा परात्मनि ब्रह्मणि वासुदेवे ।
क्रियाकलापै: समुवाह भक्तिं ययाऽऽविरिञ्च्यान् निरयांश्चकार ॥२५॥
एवम् विध-अनेक-गुण: such like many virtues having
स राजा परात्मनि the king, in the Supreme Self
ब्रह्मणि वासुदेवे Brahman, Vaasudeva
क्रिया-कलापै: समुवाह by (his)activities increased
भक्तिम् यया विरिञ्च्यान् devotion by which, the Brahmaa's (position)
निरयान्-चकार meaningless like rendered
अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीर: ।
वनं विवेशात्मनि वासुदेवे मनो दधद् ध्वस्तगुणप्रवाह: ॥२६॥
अथ-अम्बरीष:-तनयेषु then, Ambareesha to the sons
राज्यम् समान-शीलेषु the kingdom, of same temperament
विसृज्य धीर: giving up, the wise
वनम् विवेश-आत्मनि to the forest retired, on his own self,
वासुदेवे मन: दधद् and Vaasudeva mind fixed
ध्वस्त-गुण-प्रवाह: ending the transcending course
इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते: ।
संकीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥२७॥
इति-एतत् पुण्यम्-आख्यानम्- thus this sacred story
अम्बरीषस्य भूपते: of Ambareesha, the king
संकीर्तयन्-अनुध्यायन् repeatedly recites and thinks of
भक्त: भगवत: भवेत् the devotee of The Lord becomes
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे अम्बरीष-चरित्रं नाम पञ्चम:
अध्याय: ॥५॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे अम्बरीष-चरित्रं नाम पञ्चम:
अध्याय: ॥५॥ Thus ends the fifth discourse entitled 'The story of Ambareesha', in
षष्ठ: अध्याय:
श्री शुक उवाच - Shree Shuka said -
विरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।
विरूपात् पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतर: ॥१॥
विरूप: केतुमान्-शम्भु:- Viroopa, Ketumaan, Shambhu
अम्बरीष-सुता:-त्रय: of Ambareesha the sons three
विरूपात् पृषदश्व:-अभूत् from Viroopa Prishadashva was born,
तत्-पुत्र:-तु रथीतर: his son indeed was Ratheetara
रथीतरस्याप्रजस्य भार्यायां तन्तवेर्थित: ।
अङ्गिरा जनयामास ब्रह्मवर्चस्विन: सुतान् ॥२॥
रथीतरस्य-अप्रजस्य Rathitara, the issueless,
भार्यायाम् तन्तवे-अर्थित: from his wife, for the line prayed for
अङ्गिरा: जनयामास Angiraa begot
ब्रह्म-वर्चस्विन: सुतान् celestial glory invested sons
एते क्षेत्रे प्रसूता वै पुनस्त्वाङ्गिरसा: स्मृता: ।
रथीतराणां प्रवरा: क्षत्रोपेता द्विजातय: ॥३॥
एते क्षेत्रे प्रसूता वै these, in this way born, indeed,
पुन:-तु-अङ्गिरसा: स्मृता: again, were surely Angeerasa were called
रथीतराणाम् प्रवरा: of the Ratheetara the leading
क्षत्र-उपेता: द्विजातय: from the Kshatriyas born, the Braahmanas
क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणत: सुत: ।
तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डका: ॥४॥
क्षुवतस्तु मनो:-जज्ञे when sneezing, of Manu was born
इक्ष्वाकु:-घ्राणत: सुत: Ikshwaaku, from the nostrils sons
तस्य पुत्र-शत-ज्येष्ठा: his sons a hundred, the eldest
विकुक्षि-निमि-दण्डका: Vikukshi, Nimi, Dandaka
तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप ।
पञ्चविंशति: पश्चाच्च त्रयो मध्ये परेऽन्यत: ॥५॥
तेषाम् पुरस्तात्-अभवन्- among them, in the east became
आर्यावर्ते नृपा: नृप in Aaryavarta kings, O Pareekshit!
पञ्चविंशति: पश्चात्-च twenty five in the west and,
त्रय: मध्ये परे-अन्यत: three in the middle, others in other directions
स एकदाष्टकाश्राद्धे इक्ष्वाकु: सुतमादिशत् ।
मांसमानीयतां मेध्यं विकुक्षे गच्छ माचिरम् ॥६॥
स: एकदा-अष्टका-श्राद्धे he, one day on the Ashtaka Shraadha
इक्ष्वाकु: सुतम्-आदिशत् Ikshwaaku to his son directed
मांसम्-आनीयताम् मेध्यम् 'flesh bring pure, fit to be offered to manes
मांसम्-आनीयताम् मेध्यम्
विकुक्षे गच्छ मा-चिरम् O Vikukshi! go do not delay
तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
श्रान्तो बुभुक्षितो वीर: शशं चाददपस्मृति: ॥७॥
तथा-इति स: वनम् गत्वा 'So be it' he to the forest went
तथा-इति स: वनम् गत्वा
मृगान् हत्वा क्रिया-अर्हणान् animals killed for the ritual appropriate
श्रान्त: बुभुक्षित: वीर: exhausted and hungry, the brave one,
शशम् च-अदत्-अपस्मृति: a hare and ate, thoughtlessly
शेषं निवेदयामास पित्रे तेन च तद्गुरु: ।
चोदित: प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥८॥
शेषम् निवेदयामास पित्रे the rest presented to the father
तेन च तत्-गुरु: by him and to his preceptor
चोदित: प्रोक्षणाय्-आह sent, to consecrate, said,
दुष्टम्-एतत्-अकर्मकम् 'contaminated this is, unfit for the ritual'
दुष्टम्-एतत्-अकर्मकम्
ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृप: ।
देशान्नि:सारयामास सुतं त्यक्तविधिं रुषा ॥९॥
ज्ञात्वा पुत्रस्य तत् कर्म knowing of the son's that act
गुरुणा-अभिहितम् नृप: by the preceptor told, the king
देशात्-नि:सारयामास from the country exiled
सुतम् त्यक्त-विधिम् रुषा the son, trespassed the system, in anger
स तु विप्रेण संवादं जापकेन समाचरन् ।
त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥१०॥
स: तु विप्रेण संवादम् he, indeed, with Braahmana, in conversation
जापकेन समाचरन् who practiced Japa-yoga, engaged
त्यक्त्वा कलेवरम् योगी giving up the body Yogi
स: तेन-अवाप यत् परम् he, by that attained, that which is Supreme
पितर्युपरतेऽभ्येत्य विकुक्षि: पृथिवीमिमाम् ।
शासदीजे हरिं यज्ञै: शशाद इति विश्रुत: ॥११॥
पितरि-उपरते-अभ्येत्य after father's having died, returned
विकुक्षि: पृथिवीम्-इमाम् Vikukshi, the earth this
शासत्-ईजे हरिम् यज्ञै: ruled, worshipped Lord Hari with sacrifices
शशाद इति विश्रुत: 'Shashaada' thus known as
शशाद इति विश्रुत:
पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरित: ।
ककुत्स्थ इति चाप्युक्त: शृणु नामानि कर्मभि: ॥१२॥
पुरञ्जय:-तस्य सुत: Puranjaya, his son,
इन्द्रवाह इति-ईरित: 'Indravaaha' thus called
इन्द्रवाह इति-ईरित:
ककुत्स्थ: इति च-अपि-युक्त: 'Kakuthstha' this and also called by
ककुत्स्थ: इति च-अपि-युक्त:
शृणु नामानि कर्मभि: listen to the names, and sources
कृतान्त आसीत् समरो देवानां सह दानवै: ।
पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितै: ॥१३॥
कृतान्ते आसीत् समर: at end of creation there was a battle
देवानाम् सह दानवै: of the gods with the Daanavas
पार्ष्णि-ग्राह: वृत: वीर: ally taken, engaged the brave
देवै:-दैत्य-पराजितै: by the gods by the Daityas vanquished
वचनाद् देवदेवस्य विष्णोर्विश्वात्मन: प्रभो: ।
वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृष: ॥१४॥
वचनात् देव-देवस्य by the request of the lord of the gods,
विष्णो:-विश्वात्मन: प्रभो: Vishnu, of the universe the Soul,
वाहनत्वे वृत:-तस्य as a mount engaged, his
बभूव-इन्द्र: महा-वृष: became Indra a gigantic bull
स संनद्धो धनुर्दिव्यमादाय विशिखाञ्छितान् ।
स्तूयमान: समारुह्य युयुत्सु: ककुदि स्थित: ॥१५॥
स: संनद्ध: धनु:-दिव्यम्- he, protected, a bow celestial
आदाय विशिखान्-शितान् taking arrows sharp
स्तूयमान: समारुह्य being praised, mounted
युयुत्सु: ककुदि स्थित: eager to fight, on the hump sat
तैजसाऽऽप्यायितो विष्णो: पुरुषस्य परात्मन: ।
प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशै: पुरम् ॥१६॥
तैजसा-आप्यायित: विष्णो: by the power well filled, of Vishnu
पुरुषस्य परात्मन: The Primary Person, The Supreme Spirit,
प्रतीच्याम् दिशि दैत्यानाम् in the western direction of the Daityas
न्यरुणत् त्रिदशै: पुरम् seized, with the gods, the city
तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् ।
यमाय भल्लैरनयद् दैत्यान् येऽभिययुर्मृधे ॥१७॥
तै:-तस्य च-अभूत् प्रधनम् with them his and took place fight
तुमुलम् लोम-हर्षणम् fierce thrilling
यमाय भल्लै:-अनयत् to Death by spear, sent
दैत्यान् ये-अभिययु:-मृधे the Daityas, who faced him in the battle
तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् ।
विसृज्य दुद्रुवुर्दैत्या हन्यमाना: स्वमालयम् ॥१८॥
तस्य-इषु-पात-अभिमुखम् his arrows discharged, in front
युग-अन्त-अग्निम्-इव-उल्बणम् the Yuga's end's fire like burning,
विसृज्य दुद्रुवु:-दैत्या: abandoning fled the Daityas
हन्यमाना: स्वम्-आलयम् being killed, to own home
जित्वा पुरं धनं सर्वं सश्रीकं वज्रपाणये ।
प्रत्ययच्छत् स राजर्षिरिति नामभिराहृत: ॥१९॥
जित्वा पुरम् धनम् सर्वम् having conquered the city, the wealth all
सश्रीकम् वज्रपाणये with splendour, to the thunderbolt in hand
प्रत्ययच्छत् स: राजर्षि:- gave, he, the royal sage
इति नामभि:-आहृत: thus, by the names called
पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुत: पृथु: ।
विश्वरन्धिस्ततश्चन्द्रो युवनाश्वश्च तत्सुत: ॥२०॥
पुरञ्जयस्य पुत्र:-अभूत्- Puranjaya son was born
अनेना:-तत्-सुत: पृथु: Anenaa, his son was Prithu,
विश्वरन्धि:-तत:-चन्द्र: Vishvarandhi, from him Chandra,
युवनाश्व:-च तत्-सुत: Yuvanaashva and was his son
शाबस्तस्तत्सुतो येन शाबस्ती निर्ममे पुरी ।
बृहदश्वस्तु शाबस्तिस्तत: कुबलयाश्वक: ॥२१॥
शाबस्त:-तत्-सुत: येन Shaabasta was his son, by whom
शाबस्ती निर्ममे पुरी Shaabastee was built the city
बृहदश्व:-तु शाबस्ति:- Brihadashwa indeed from Shaabasta,
तत: कुबलयाश्वक: from him Kubalayaashvaka
य: प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली ।
सुतानामेकविंशत्या सहस्रैरहनद् वृत: ॥२२॥
य: प्रिय-अर्थम्-उतङ्कस्य who, for the benefit of Utangaka (sage)
धुन्धु-नाम-असुरम् बली Dhundhu named demon, the brave
सुतानाम्-एकविंशत्या with sons one twenty
सहस्रै:-अहनत् वृत: thousand killed surrounded
धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलु: ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिता: ॥२३॥
धुन्धुमार इति ख्यात:- Dhundhumaara thus known as,
तत्-सुता:-ते च जज्वलु: his sons they and were burnt
धुन्धो:-मुख-अग्निना सर्वे by Dhundhu's mouth's fire all
त्रय एव-अवशेषिता: three only were left
दृढाश्व: कपिलाश्वश्च भद्राश्व इति भारत ।
दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुत: स्मृत: ॥२४॥
दृढाश्व: कपिलाश्व:-च Dhridhaashva, Kapilaashva and
भद्राश्व: इति भारत Bhadraashva, these, O Bhaarata!
दृढाश्व-पुत्र: हर्यश्व: Dhridhaashva's son was Haryashva,
निकुम्भ:-तत्-सुत: स्मृत: Nikumbha his son was known as
बर्हणाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गत: ॥२५॥
बर्हणाश्व: निकुम्भस्य Barhanaashva was Nikumbha's
कृशाश्व:-अथ-अस्य सेनजित् Krishaashva then, his Senajit
युवनाश्व:-अभवत् तस्य Yuvanaashva was born his (son)
स:-अनपत्य: वनम् गत: he issueless , to the forest went
भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालव: ।
इष्टिं स्म वर्तयाञ्चक्रुर्रैन्द्रीं ते सुसमाहिता: ॥२६॥
भार्या-शतेन निर्विण्ण: with wives hundred, depressed
ऋषय:-अस्य कृपालव: the sages his compassionate
इष्टिम् स्म वर्तयान्-चक्रु:- sacrifice did made to perform
ऐन्द्रीम् ते सुसमाहिता: Indra's they with concentration
राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षित: ।
दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥२७॥
राजा तत् यज्ञ-सदनम् the king, in that sacrifice chamber
प्रविष्ट: निशि तर्षित: entered in the night, thirsty
दृष्ट्वा शयानान् विप्रान्-तान् seeing sleeping the Braahmanas them,
पपौ मन्त्र-जलम् स्वयम् drank the Mantra consecrated water himself
उत्थितास्ते निशाम्याथ व्युदकं कलशं प्रभो ।
पप्रच्छु: कस्य कर्मेदं पीतं पुंसवनं जलम् ॥२८॥
उत्थिता:-ते निशाम्य-अथ having arisen they, noticing then
व्युदकम् कलशम् प्रभो water-less the pitcher, O Pareekshit!
पप्रच्छु: कस्य कर्म-इदम् asked, whose act was this,
पीतम् पुंसवनम् जलम् having drunk 'Punsavana' water
राज्ञा पीतं विदित्वाथ ईश्वरप्रहितेन ते ।
ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥२९॥
राज्ञा पीतम् विदित्वा-अथ by the king was drunk, knowing then
ईश्वर-प्रहितेन ते by The Lord impelled, they
ईश्वराय नम:-चक्रु:- to The Lord salutations performed
अहो दैव-बलम् बलम् 'O! The Lord's power is power'
अहो दैव-बलम् बलम्
तत: काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥३०॥
तत: काल उपावृत्ते then, when time came
कुक्षिम् निर्भिद्य दक्षिणम् the abdomen splitting the right
युवनाश्वस्य तनय:- of Yuvanaashva son
चक्रवर्ती जजान ह the emperor was born indeed
कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् ।
मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥३१॥
कम् धास्यति कुमार:-अयम् whom will suck prince this
स्तन्यम् रोरूयते भृशम् the breast, cries a lot
माम् धाता वत्स मा रोदी:- me suck O Child! do not cry,
इति-इन्द्र: देशिनीम्-अदात् thus Indra index finger gave
न ममार पिता तस्य विप्रदेवप्रसादत: ।
युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥३२॥
न ममार पिता तस्य did not die father his
विप्र-देव-प्रसादत: by the Braahmana's and gods' grace
युवनाश्व:-अथ तत्र-एव Yuvanaashva then, there only,
तपसा सिद्धिम्-अन्वगात् by asceticism liberation attained
त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम तस्य वै ।
यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादय: ॥३३॥
त्रसद्दस्यु:-इति-इन्द्र:-अङ्ग Trasaddasyu, this, Indra, O Dear!
विदधे नाम तस्य वै gave name to him indeed
यस्मात् त्रसन्ति हि-उद्विग्ना from whom were afraid, greatly agitated
दस्यव: रावण-आदय: the robbers Raavana and others
यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभु: ।
सप्तद्वीपवतीमेक: शशासाच्युततेजसा ॥३४॥
यौवनाश्व-अथ मान्धाता Yuvanaashva's son then, Maandhaataa
चक्रवर्ती-अवनीम् प्रभु: the emperor, the earth, O King!
सप्त-द्वीप-वतीम्- seven Dweepas consisting of
एक: शशास-अच्युत-तेजसा alone, ruled by Shree Krishna's might
ईजे च यज्ञं क्रतुभिरात्मविद् भूरिदक्षिणै: ।
सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥३५॥
ईजे च यज्ञम् क्रतुभि:- worshipped and The Yagya Person by sacrifices,
आत्मविद् भूरि-दक्षिणै: the knower of the Self, with good fee gifts
सर्व-देवमयम् देवम् of all god comprising, The Lord
सर्व-आत्मकम्-अतीन्द्रियम् of all The Soul, beyond the sense perception
द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विज: ।
धर्मो देशश्च कालश्च सर्वमेतद् यदात्मकम् ॥३६॥
द्रव्यम् मन्त्र: विधि:-यज्ञ: material, sacred texts, procedure, sacrifice,
यजमान:-तथा-ऋत्विज: the performer and the presiding priest
धर्म: देश:-च काल:-च the righteousness, the place and the Time,
सर्वम्-एतत् यत्-आत्मकम् all this is Whose Own Self
यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
सर्वं तद् यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते ॥३७॥
यावत् सूर्य: उदेति स्म from where the Sun arises,
यावत्-च प्रतितिष्ठति till where it sets,
सर्वम् तत् यौवनाश्वस्य all that of Yuvanaashva's son
मान्धातु: क्षेत्रम्-उच्यते Maandhaata's territory is called
शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृप: ।
पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् ।
तेषां स्वसार: पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥३८॥
शशबिन्दो:-दुहितरि from Shashabindu's daughter
बिन्दुमत्याम्-अधात्-नृप: in Bindumati begot the king
पुरुकुत्सम्-अम्बरीषम् Purukutsa, Ambareesha,
मुचुकुन्दम् च योगिनम् Muchukunda and the mystic,
तेषाम् स्वसार: पञ्चाशत् their sisters fifty,
सौभरिम् वव्रिरे पतिम् Saubhari chose as husband
यमुनान्तर्जले मग्नस्तप्यमान: परंतप: ।
निर्वृतिं मीनराजस्य वीक्ष्य मैथुनधर्मिण: ॥३९॥
यमुना-अन्त:-जले मग्न:- of Yamunaa, in the inside waters submerged
तप्यमान: परम्-तप: practicing asceticism, the great Yogi
निर्वृतिम् मीन-राजस्य the pleasure of the fish king
वीक्ष्य मैथुन-धर्मिण: saw in conjugal act
जातस्पृहो नृपं विप्र: कन्यामेकामयाचत ।
सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥४०॥
जात-स्पृह: नृपम् विप्र: developing a desire, to the king, Braahmana,
कन्याम्-एकाम्-अयाचत girl one asked for
स:-अपि-आह गृह्यताम् ब्रह्मन् he also said, 'do take O holy Braahmana!
कामम् कन्या स्वयंवरे a desired girl, in her choosing (you)
स विचिन्याप्रियं स्त्रीणां जरठोऽयमसंमत: ।
वलीपलित एजत्क: इत्यहं प्रत्युदाहृत: ॥४१॥
स: विचिन्य-अप्रियम् स्त्रीणाम् he thought, undesirable to the women
जर:-अयम्-असंमत: old, he will be disliked
वली-पलित: एजत्क: wrinkled, white haired, trembling
इति-अहम् प्रत्युदाहृत: so, I was, answered (thus)
साधयिष्ये तथाऽऽत्मानं सुरस्त्रीणामपीप्सितम् ।
किं पुनर्मनुजेन्द्राणामिति व्यवसित: प्रभु: ॥४२॥
साधयिष्ये तथा-आत्मानम् will make such myself
सुर-स्त्रीणाम्-अपि-ईप्सितम् for the celestial dames also desireable
किम् पुन:-मनुजेन्द्राणाम्- what again of the royal dames,
इति व्यवसित: प्रभु: thus decided the powerful
मुनि: प्रवेशित: क्षत्त्रा कन्यान्त: पुरमृद्धिमत् ।
वृतश्च राजकन्याभिरेक: पञ्चाशता वर: ॥४३॥
मुनि: प्रवेशित: क्षत्त्रा the sage was entered by the chamberlain
कन्या-अन्त: पुरम्-ऋद्धिमत् to the girls' inner chamber luxurious
वृत:-च राजकन्याभि:- was chosen and by the princesses
एक: पञ्चाशता वर: the one by fifty as husband
तासां कलिरभूद् भूयांस्तदर्थेऽपोह्य सौहृदम् ।
ममानुरूपो नायं व इति तद्गतचेतसाम् ॥४४॥
तासाम् कलि:-अभूत् among them quarrel arose
भूयान्-तत्-अर्थे- great for his sake
अपोह्य सौहृदम् giving up mutual love
मम-अनुरूप: 'For me, is proper,
मम-अनुरूप:
न-अयम् व: इति not he for you all,' thus
तत्-गत-चेतसाम् in him fixed the mind
स बह्वृचस्ताभिरपारणीयतप: श्रियानर्घ्यपरिच्छदेषु ।
गृहेषु नानोपवनामलाम्भ: सरस्सु सौगन्धिककाननेषु ॥४५॥
स: बह्वृच:-ताभि:- he, the student of Rig-Veda, with them
अपारणीय-तप: श्रिया- of unfathomable asceticism’s power
अनर्घ्य-परिच्छदेषु with wealthy appendages
गृहेषु नाना-उपवन- in the mansions, various gardens
अमल-अम्भ: सरस्सु pure water lakes
सौगन्धिक-काननेषु fragrant forests
महार्हशय्यासनवस्त्रभूषणस्नानानुलेपाभ्यवहारमाल्यकै: ।
स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद्द्विजभृङ्गवन्दिषु ॥४६॥
महार्ह-शय्या-आसन- valuable beds, seats,
वस्त्र-भूषण-स्नान-अनुलेप- clothes, ornaments, bathing, pigments,
अभ्यवहार-माल्यकै: eatables, garlands,
स्वलङ्कृत-स्त्री-पुरुषेषु well dressed women, men,
नित्यदा रेमे-अनुगायत्- every day revelled, with singing
द्विज-भृङ्ग-वन्दिषु of birds, bees and prisoners
यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपति: ।
विस्मित: स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥४७॥
यत्-गार्हस्थ्यम् तु संवीक्ष्य that householder's life indeed seeing
सप्तद्वीपवती-पति: the seven Dweepas inclusive earth's ruler
विस्मित: स्तम्भम्-जहात् surprised, pride gave up
सार्वभौम श्रिया-अन्वितम् of a monarch's fortune accompanying
एवं गृहेष्वभिरतो विषयान् विविधै: सुखै: ।
सेवमानो न चातुष्यदाज्यस्तोकैरिवानल: ॥४८॥
एवम् गृहेषु-अभिरत: thus, in the household involved
विषयान् विविधै: सुखै: in sense various pleasures
सेवमान: न च-अतुष्यत्- revelling, was not and sated
आज्य-स्तोकै:-इव-अनल: by ghee drops like the fire
स कदाचिदुपासीन आत्मापह्नवमात्मन: ।
ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥४९॥
स: कदाचित्-उपासीन he, once sitting
आत्म-अपह्नवम्-आत्मन: own fall of the Self
ददर्श बह्वृच-आचार्य: saw the Rig-Veda preceptor
मीन-सङ्ग-समुत्थितम् by the fish's association, sprung up
अहो इमं पश्यत मे विनाशं तपस्विन: सच्चरितव्रतस्य ।
अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥५०॥
अहो इमम् पश्यत 'Alas! This look at
अहो इमम् पश्यत
मे विनाशम् तपस्विन: my down-fall of the ascetic
सच्चरित-व्रतस्य saintly, holding vows
अन्तर्जले वारिचर-प्रसङ्गात् in the water by aquatic creatures' association
प्रच्यावितम् ब्रह्म was ruined the asceticism,
चिरम् धृतम् यत् for long was holding which
सङ्गं त्यजेत मिथुनव्रतिनां मुमुक्षु: सर्वात्मना न विसृजेद् बहिरिन्द्रियाणी ।
एकश्चरन् रहसि चित्तमनन्त ईशे युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्ग: ॥५१॥
सङ्गम् त्यजेत association should omit
मिथुन-व्रतिनाम् मुमुक्षु: of the married people, desirous of liberation,
सर्व-आत्मना न विसृजेत् whole heartedly, should not let loose
बहि:-इन्द्रियाणी outside the senses
एक:-चरन् रहसि in solitude remaining, secluded
चित्तम्-अनन्त-ईशे युञ्जीत the mind in The Infinite Lord should apply,
तत्-व्रतिषु साधुषु in His devotees, the noble
चेत् प्रसङ्ग: if in company
एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् पञ्चाशदासमुत पञ्चसहस्रसर्ग: ।
नान्तं व्रजाम्युभयकृत्यमनोरथानां मायागुणैर्हृतमतिर्विषयेऽर्थभाव: ॥५२॥
एक:-तपस्वी-अहम्-अथ- a single ascetic I, then,
अम्भसि मत्स्य-सङ्गात् in the water by a fish's company,
पञ्चाशद-आसम्- fifty became
उत पञ्चसहस्र-सर्ग: rather five thousand parts
न-अन्तम् व्रजामि- not the end can find
उभय-कृत्य-मनोरथानाम् of both (man and wife) pertaining desires
माया-गुणै:-हृत-मति:- by the Maayaa's gunas obscured judgement
विषये-अर्थ-भाव: in the sense objects value seek
एवं वसन् गृहे कालं विरक्तो न्यासमास्थित: ।
वनं जगामानुययुस्तत्पत्न्य: पतिदेवता: ॥५३॥
एवम् वसन् गृहे कालम् thus living in the house, in time
विरक्त: न्यासम्-आस्थित: was dispassioned, in relinquishing established
वनम् जगाम-अनुययु:- to the forest went followed
तत्-पत्न्य: पति-देवता: his wives, (to whom) husband was god
तत्र तप्त्वा तपस्तीक्ष्णमात्मकर्शनमात्मवान् ।
सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥५४॥
तत्र तप्त्वा तप:-तीक्ष्णम्- there practicing asceticism severe
आत्म-कर्शनम्-आत्मवान् self emaciating, The Self-knowing
सह-एव-अग्निभि:-आत्मानम् along with the fires, himself
युयोज परम-आत्मनि merged in The Supreme Self
ता: स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिष: ॥५५॥
ता: स्व-पत्यु:-महाराज they, own husband's, O Great King!
निरीक्ष्य-अध्यात्मिकीम् गतिम् observing the spiritual end
अन्वीयु:-तत्-प्रभावेण followed after, by his power
अग्निम् शान्तम्-इव-अर्चिष: into the fire, peaceful like the flames
श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां नवमे स्कन्धे सौभर्याख्याने षष्ठ: अध्याय: ॥६॥ Thus ends the sixth discourse, hinging on the story of Saubhari, in Book
सप्तम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
मान्धातु: पुत्रप्रवरो योऽम्बरीष: प्रकीर्तित: ।
पितामहेन प्रवृतो यौवनाश्वश्च तत्सुत: ।
हरीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ॥१॥
मान्धातु: पुत्र-प्रवर: Maandhaata's son the foremost
य:-अम्बरीष: प्रकीर्तित: who was Ambareesha, known as
पितामहेन प्रवृत: by the grandfather was adopted
यौवनाश्व:-च तत्-सुत: Yuvanaashva was his (Ambareesha's) son
हरीत:-तस्य पुत्र:-अभूत्- Hareeta, his son became
मान्धातृ-प्रवरा इमे of Maandhaata's line the foremost were these
नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगै: ।
तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥२॥
नर्मदा भ्रातृभि:-द्त्ता Narmadaa by the brothers was given
पुरुकुत्साय या-उरगै: to Purukutsa that by the serpents
तया रसातलम् नीत: by her to the subterranean region was taken
भुजगेन्द्र प्रयुक्तया by the serpent king (Vaasuki) directed
गन्धर्वानवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् ।
नागाल्लब्धवर: सर्पादभयं स्मरतामिदम् ॥३॥
गन्धर्वान्-अवधीत् तत्र वध्यान् the Gandharvas killed there, who deserved to be
गन्धर्वान्-अवधीत् तत्र वध्यान् the Gandharvas killed there, who deserved to be killed
वै विष्णु-शक्ति-धृक् indeed, by Vishnu's power infested
नागात्-लब्ध-वर: सर्पात्- by the Naagas obtained the boon, from serpents
अभयम् स्मरताम्-इदम् security, to those who remember this
त्रसद्दस्यु: पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
हर्यश्वस्तत्सुतस्तस्मादरुणोऽथ त्रिबन्धन: ॥४॥
त्रसद्दस्यु: पौरुकुत्स: Trasaddasyu was Purukutsa's (son)
य:-अनरण्यस्य देहकृत् who was Anaranya's father
हर्यश्व:-तत्-सुत:- Haryashva was his son
तस्मात्-अरुण:-अथ त्रिबन्धन: from him Aruna, then Tribandhana
तस्य सत्यव्रत: पुत्रस्त्रिशङ्कुरिति विश्रुत: ।
प्राप्तश्चाण्डालतां शापाद् गुरो: कौशिकतेजसा ॥५॥
तस्य सत्यव्रत: पुत्र:- his Satyavrata the son
त्रिशङ्कु:-इति विश्रुत: Trishanku thus well known
प्राप्त:-चाण्डालताम् attained Chaandaala-hood
शापात् गुरो: कौशिक-तेजसा by the curse of the preceptor Kaushika's power
सशरीरो गत: स्वर्गमद्यापि दिवि दृश्यते ।
पातितोऽवाक् शिरा देवैस्तेनैव स्तम्भितो बलात् ॥६॥
सशरीर: गत: स्वर्गम्- in body ascended to heaven
अद्य-अपि दिवि दृश्यते today also in the heaven is seen
पातित:-अवाक् शिरा देवै:- flung down headlong, by the gods
तेन-एव स्तम्भित: बलात् by him only suspended forcefully
त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयो: ।
यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ॥७॥
त्रैशङ्कव: हरिश्चन्द्र: Trishanku son was Harishchandra
विश्वामित्र-वसिष्ठयो: (among) Vishwaamitra and Vashishtha
यत्-निमित्तम्-अभूद् युद्धम् for which reason took place a war
पक्षिण:-बहु-वार्षिकम् as birds for many years
सोऽनपत्यो विषण्णात्मा नारदस्योपदेशत: ।
वरुणं शरणं यात: पुत्रो मे जायतां प्रभो ॥८॥
स:-अनपत्य: विषण्ण-आत्मा he, issue-less, disturbed in mind
नारदस्य-उपदेशत: by Naarada's advice
वरुणम् शरणम् यात: to Varuna's shelter went
पुत्र: मे जायताम् प्रभो son to me may be born, O lord!
यदि वीरो महाराज तेनैव त्वां यजे इति ।
तथेति वरुणेनास्य पुत्रो जातस्तु रोहित: ॥९॥
यदि वीर: महाराज 'if brave, O lord!
यदि वीर: महाराज
तेन-एव त्वाम् यजे इति By him, you will propitiate', thus
तथा-इति वरुणेन- 'Be it so,' by Varuna was said
अस्य पुत्र: जात:-तु रोहित: his son was born indeed Rohita
जात: सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् ।
यदा पशुर्निर्दश: स्यादथ मेध्यो भवेदिदि ॥१०॥
जात: सुत: हि-अनेन-अङ्ग 'born is a son, indeed by him, O Dear!
जात: सुत: हि-अनेन-अङ्ग
माम् यजस्व-इति स:-अब्रवीत् me propitiate,' thus, he said
यदा पशु:-निर्दश: स्यात्- 'When the animal ten days will be,
अथ मेध्य: भवेत्-इति then for sacrifice is fit ', thus
निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् ।
दन्ता: पशोर्यज्जायेरन्नथ मेध्यो भवेदिति ॥११॥
निर्दशे च स: आगत्य after ten days and he coming
यजस्व-इति-आह स:-अब्रवीत् 'propitiate' this said, he said,
यजस्व-इति-आह स:-अब्रवीत्
दन्ता: पशो:-यत्-जायेरन्- 'teeth of the animal when come up,
अथ मेध्य: भवेत्-इति then, fit for sacrifice will be', thus
जाता दन्ता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥१२॥
जाता: दन्ता: यजस्व-इति 'come up have teeth, propitiate,' this
जाता: दन्ता: यजस्व-इति
स: प्रत्याह-अथ स:-अब्रवीत् he answered, then he said,
यदा पतन्ति-अस्य दन्ता: 'when fall his teeth
यदा पतन्ति-अस्य दन्ता:
अथ मेध्य: भवेत्-इति then fit for sacrifice will be', thus
पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ।
यदा पशो: पुनर्दन्ता जायन्तेऽथ पशु शुचि ॥१३॥
पशो:-निपतिता: दन्ता: 'of the animal, the teeth have fallen,
पशो:-निपतिता: दन्ता:
यजस्व-इति-आह स:-अब्रवीत् propitiate,' thus said, he said,
यदा पशो: पुन:-दन्ता: 'when of the animal again teeth
यदा पशो: पुन:-दन्ता:
जायन्ते-अथ पशु: शुचि: come up, then, the animal is pure'
पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
सान्नाहिको यदा राजन् राजन्योऽथ पशु: शुचि: ॥१४॥
पुन:-जाता: यजस्व-इति 'again have come up, sacrifice,' thus
पुन:-जाता: यजस्व-इति
स: प्रत्याह-अथ स:-अब्रवीत् he answered, then, he said,
सान्नाहिक: यदा राजन् puts on his armour when O King!
राजन्य:-अथ पशु: शुचि: A Kshatriya, then the animal is pure
इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा ।
कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥१५॥
इति पुत्र-अनुरागेण thus, due to the son's affection
स्नेह-यन्त्रित-चेतसा by the affection propelled mind
कालम् वञ्चयता तम् the time avoided that,
तम्-उक्त: देव:-तम्-ऐक्षत to him told the god that awaited
रोहितस्तदभिज्ञाय पितु: कर्म चिकीर्षितम् ।
प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥१६॥
रोहित:-तत्-अभिज्ञाय Rohita that coming to know
पितु: कर्म चिकीर्षितम् father's work wanting to do
प्राण-प्रेप्सु-धनु:-पणि:- life wanting to protect, bow in hand
अरण्यम् प्रत्यपद्यत to the forest retired
पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्र: प्रत्यषेधत ॥१७॥
पितरम् वरुण-ग्रस्तम् father by Varuna tormented
श्रुत्वा जात-महोदरम् on hearing developed dropsy
रोहित: ग्रामम्-एयाय Rohita to house to return
तम्-इन्द्र: प्रत्यषेधत him Indra forbidded
भूमे: पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणै: ।
रोहितायादिशच्छक्र: सोऽप्यरण्येऽवसत् समाम् ॥१८॥
भूमे: पर्यटनम् पुण्यम् of the earth a tour holy
तीर्थ-क्षेत्र-निषेवणै: of sacred places to undertake
रोहिताय-आदिशत्-शक्र: to Rohita directed Indra
स:-अपि-अरण्ये-अवसत् समाम् he also, in the forest lived for a year
एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाऽऽह वृत्रहा ॥१९॥
एवम् द्वितीये तृतीये in this manner, in the second third
चतुर्थे पञ्चमे तथा fourth fifth and
अभ्येत्य-अभ्येत्य coming and coming
स्थविर: विप्र: भूत्वा-आह वृत्रहा an old Braahmana disguised said Indra
षष्ठं संवत्सरं तत्र चरित्वा रोहित: पुरीम् ।
उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् ॥२०॥
षष्ठम् संवत्सरम् तत्र sixth year there
चरित्वा रोहित: पुरीम् living, Rohita to the town
उपव्रजन्-अजीगर्तात्- returning, from Ajeegarta
अक्रीणात्-मध्यमम् सुतम् bought the middle son
शुन:शेपं पशुं पित्रे प्रदाय समवन्दत ।
तत: पुरुषमेधेन हरिश्चन्द्रो महायशा: ॥२१॥
शुन:शेपम् पशुम् Shunahshepa the animal
पित्रे प्रदाय समवन्दत to the father giving, bowed to him with respect
तत: पुरुषमेधेन then by human sacrifice
हरिश्चन्द्र: महायशा: Harishchandra the well known
मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथ: ।
विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥२२॥
मुक्त-उदर:-अयजत् देवान् relieved of dropsy, propitiated the gods
वरुण-आदीन् महत्-कथ: Varuna and others, of great stories
विश्वामित्र:-अभवत् तस्मिन् Vishwaamitra became, in that
होता च-अध्वर्यु:-आत्मवान् the Hota and the Adhvaryu the Self-knowing
जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्यसामग: ।
तस्मै तुष्टो ददाविन्द्र: शातकौम्भमयं रथम् ॥२३॥
जमदग्नि:-अभूत् ब्रह्मा (Adhvaryu) Jamadagni became Brahmaa
वसिष्ठ:-अयास्य-सामग: Vashishtha Ayaasya (Agastya) the Saamaveda chanter
तस्मै तुष्ट: ददौ-इन्द्र: with him pleased, gave Indra
शातकौम्भमयम् रथम् golden chariot
शुन:शेपस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते ।
सत्यसारां धृतिं दृष्ट्वा सभार्यस्य च भूपते ॥२४॥
शुन:शेपस्य माहात्म्यम्- of Shunahshepa the glory
उपरिष्टात् प्रचक्ष्यते later will be said
सत्य-साराम् धृतिम् दृष्ट्वा truth based firmness observing
सभार्यस्य च भूपते with the wife and of the king (Harishchandra)
विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् ।
मन: पृथिव्यां तामद्भिस्तेजसापोऽनिलेन तत् ॥२५॥
विश्वामित्र: भृशम् प्रीत: Vishwaamitra, highly delighted
ददौ-अविहताम् गतिम् gave unobstructed knowledge
मन: पृथिव्याम् ताम्-अद्भि:- the mind in earth, her in water,
तेजसा-अप:-अनिलेन तत् in fire water, in air that
खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि ।
तस्मिञ्ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥२६॥
खे वायुम् धारयन्-तत्-च in the ether the air establishing, that and
भूता-आदौ तम् महात्मनि in the Bhootas' first (Ego), that in the Mahat-tatva
तस्मिन्-ज्ञान-कलाम् ध्यात्वा in that the knowledge aspect contemplating
तया-अज्ञानम् विनिर्दहन् by that ignorance burning
हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।
अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धन: ॥२७॥
हित्वा ताम् स्वेन भावेन abandoning that (contemplation) by own consciousness
निर्वाण-सुख-संविदा and by beatitude bliss experience
अनिर्देश्य-अप्रतर्क्येण indescribable and not to be reasoned
तस्थौ विध्वस्त-बन्धन: stood shaken off of all bondages
श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां नवम स्कन्धे हरिश्चन्द्र उपाख्यानं नाम सप्तम:
अध्याय: ॥७॥
श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां नवम स्कन्धे हरिश्चन्द्र उपाख्यानं नाम सप्तम:
अध्याय: ॥७॥ Thus ends the seventh discourse, entitled 'Story of Harishchandra', in
अष्टम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
हरितो रोहितसुतश्चम्पस्तस्माद् विनिर्मिता ।
चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मज: ॥१॥
हरित: रोहित-सुत:-चम्प:- Harita, Rohita's son Champa,
तस्मात् विनिर्मिता चम्पापुरी by him, was built Champaa city
सुदेव:-अत: विजय: Sudeva, then Vijaya
यस्य च-आत्मज: whose and was the son
भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुक: ।
सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥२॥
भरुक:-तत्-सुत:-तस्मात् Bharuka, his son, from him
वृक:-तस्य-अपि बाहुक: Vrika,
स:-अरिभि:-हृत-भू: he, by the enemies usurped land
राजा स-भार्य: वनम्-आविशत् the king with wife to the forest entered
वृद्धं तं पञ्चतां प्राप्तं महिष्यनु मरिष्यती ।
और्वेण जानताऽऽत्मानं प्रजावन्तं निवारिता ॥३॥
वृद्धम् तम् पञ्चताम् प्राप्तम् the aged him died having
महिषी-अनु मरिष्यती the queen followed to die
और्वेण जानता-आत्मानम् by Aurva knowing herself
प्रजावन्तम् निवारिता to be pregnant was stopped
आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽन्धसा सह ।
सह तेनैव संजात: सगराख्यो महायशा: ॥४॥
आज्ञाय-अस्यै सपत्नीभि:- coming to know of her, by the co-wives
गर: दत्त:-अन्धसा सह poison was given, food with
सह तेन-एव संजात: with that only was born
सगर-आख्य: महा-यशा: Sagara named highly famed
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतै: कृत: ।
यस्तालजङ्घान् यवनाञ्छकान् हैहयबर्बरान् ॥५॥
सगर:-चक्रवर्ती-असीत् Sagara monarch was
सागर: यत्-सुतै: कृत: the ocean whose sons made
य:-तालजङ्घान् यवनान्- who, the Taalajanghas, Yavanas,
शकान् हैहय बर्बरान् Shakas, Haihaya and the Barbaras
नावधीद् गुरुवाक्येन चक्रे विकृतवेषिण: ।
मुण्डाञ्छमश्रुधरान् कांश्चिन्मुक्तकेशार्धमुण्डितान् ॥६॥
न-अवधीत् गुरु-वाक्येन did not kill by Guru's advice
चक्रे विकृत-वेषिण: rendered of disfigured appearance
मुण्डान्-श्मश्रु-धरान् कांश्चित्- fully shaved, moustaches having, some of them,
मुक्त-केश-अर्ध-मुण्डितान् open haired and half shaved
अनन्तर्वासस: कांश्चिदबहिर्वाससोऽपरान् ।
सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥७॥
अनन्त:-वासस: कांश्चित्- inner clothes some
अबहि:-वासस:-अपरान् without outer clothes the others
स:-अश्वमेधै:-अयजत he by Ashvamedhas propitiated
सर्व-वेद-सुर-आत्मकम् of all the Vedas, the gods Self, (The Lord)
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।
तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दर: ॥८॥
और्व-उपदिष्ट-योगेन by Aurva advised and pointed
हरिम्-आत्मानम्-ईश्वरम् Shree Hari, The Self, The Lord,
तस्य-उत्सृष्टम् पशुम् his released animal
यज्ञे जहार-अश्वम् पुरन्दर: in the sacrifice, stole the horse, Indra
सुमत्यास्तनया दृप्ता: पितुरादेशकारिण: ।
हयमन्वेषमाणास्ते समन्तान्न्यखनन् महीम् ॥९॥
सुमत्या:-तनया: दृप्ता: Sumati's sons arrogant
पितु:-आदेश-कारिण: father's orders obeying
हयम्-अन्वेषमाणा:-ते the horse searching for they
समन्तात्-न्यखनन् महीम् from all sides dug up the earth
प्रागुदीच्यां दिशि हयं ददृशु: कपिलान्तिके ।
एष वाजिहरश्चौर आस्ते मीलितलोचन: ॥१०॥
प्राक्-उदीच्याम् दिशि in the east northern direction
हयम् ददृशु: कपिल-अन्तिके the horse saw, Kapila near to
एष: वाजि-हर:-चौर: this is the horse stealer thief,
आस्ते मीलित-लोचन: sits with eyes closed
हन्यतां हन्यतां पाप इति षष्टिसहस्रिण: ।
उदायुधा अभिययुरुन्मिमेष तदा मुनि: ॥११॥
हन्यताम् हन्यताम् पाप 'kill him, kill him! The sinner'
हन्यताम् हन्यताम् पाप
इति षष्टि-सहस्रिण: thus sixty thousand
उद्-आयुधा: अभिययु:- mace flaunting ran (towards him)
उन्मिमेष तदा मुनि: opened eyelids, then the sage
स्वशरीराग्निना तावन्महेन्द्रहृतचेतस: ।
महद्व्यतिक्रमहता भस्मसादभवन् क्षणात् ॥१२॥
स्व-शरीर-अग्निना by their own bodies' fire
तावत्-महेन्द्र-हृत-चेतस: then, by Indra, deprived of sense
महत्-अव्यतिक्रम-हता: the exalted having wronged, were killed,
भस्मसात्-अभवन् क्षणात् to ashes were rendered in a moment
न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि ।
कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुव: ॥१३॥
न साधु-वाद: मुनि-कोप not proper to say, by the sage's rage
भर्जिता: नृपेन्द्र-पुत्रा: इति were burnt the king's sons, this
सत्त्व-धामनि of Sattva the reservoir
कथम् तम: रोष-मयम् how Tamas of anger consisting
विभाव्यते जगत्-पवित्र-आत्मनि be conceived, in the universe purifying Self
खे रज: भुव: in the sky the dust of earth (like)
यस्येरिता सांख्यमयी दृढेह नौर्यया मुमुक्षुस्तरते दुरत्ययम् ।
भवार्णवं मृत्युपथं विपश्चित: परात्मभूतस्य कथं पृथङ्मति: ॥१४॥
यस्य-ईरिता सांख्य-मयी by whom was propounded, Saankhya in the form of
दृढ-इह नौ:- यया मुमुक्षु:- a strong boat, by which liberation seeker
तरते दुरत्ययम्- sails through, difficult to be crossed
भव-अर्णवम्-मृत्यु-पथम् universe ocean, path way to death
विपश्चित: परात्म-भूतस्य the omniscient, The Supreme Spirit like
कथम् पृथक्-मति: how can there be a difference of sense
योऽसमञ्जस इत्युक्त: स केशिन्या नृपात्मज: ।
तस्य पुत्रोंऽशुमान् नाम पितामहहिते रत: ॥१५॥
य:-असमञ्जस: इति-उक्त: that Asamanjasa thus called,
स: केशिन्या: नृप-आत्मज: he from Keshinee was the prince
तस्य पुत्र:-अंशुमान् नाम his son, Anshumaan named
पितामह-हिते रत: in grandfather's interest was devoted
असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् ।
जातिस्मर: पुरा सङ्गाद् योगी योगाद् विचालित: ॥१६॥
असमञ्जस आत्मानम् Asamanjasa, himself
दर्शयन्-असमञ्जसम् presented as an idiot
जाति-स्मर: पुरा सङ्गात् past life remembered, in the past by company
योगी योगात् विचालित: the yogi, from yoga was deviated
आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।
सरव्यां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम् ॥१७॥
आचरन् गर्हितम् लोके behaving in reproachable manner amongst people
ज्ञातीनाम् कर्म विप्रियम् and with relatives acting unpleasantly
सरव्याम् क्रीडत: बालान् in the Sarayu (river) playing children
प्रास्यत्-उद्वेजयन्-जनम् hurled scaring the people
एवंवृत्त: परित्यक्त: पित्रा स्नेहमपोह्य वै ।
योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ ॥१८॥
एव-वृत्त: परित्यक्त: पित्रा thus behaving, abandoned by the father
स्नेह-अपोह्य वै affection severing indeed
योग-ऐश्वर्येण बालान्-तान् by Yoga power, the children those
दर्शयित्वा तत: ययौ showing, from there went away
अयोध्यावासिन: सर्वे बालकान् पुनरागतान् ।
दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत ॥१९॥
अयोध्या-वासिन: सर्वे Ayodhyaa residents all
बालकान् पुन:-आगतान् the children again having come
दृष्ट्वा विसिस्मिरे राजन् seeing, were amazed, O King!
राजा च-अपि-अन्वतप्यत the king and also was remorseful
अंशुमांश्चोदितो राज्ञा तुरङ्गान्वेषणे ययौ ।
पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥२०॥
अंशुमान्-चोदित: राज्ञा Anshumaan ordered by the king
तुरङ्ग-अन्वेषणे ययौ in the horse's search went
पितृव्य-खात-अनुपथम् by the uncles dug, following the path
भस्मान्ति ददृशे हयम् the ashes near by, saw the horse
तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् ।
अस्तौत् समाहितमना: प्राञ्जलि: प्रणतो महान् ॥२१॥
तत्र-आसीनम् मुनिम् वीक्ष्य there seated the sage seeing
कपिल-आख्यम्-अधोक्षजम् Kapila named Lord Vishnu
अस्तौत् समाहित-मना: prayed with concentrated mind
प्राञ्जलि: प्रणत: महान् joined palms, bowing, the noble
अंशुमान्-उवाच - Anshumaan said -
न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभि: ।
कुतोऽपरे तस्य मन:शरीरधी-विसर्गसृष्टा वयमप्रकाशा: ॥२२॥
न पश्यति त्वाम् does not perceive You
परम-आत्मनो:-अजन: The Higher, than himself, The unborn (Brahmaa)
न बुध्यते-अद्य-अपि does not comprehend to this day also
समाधि-युक्तिभि: by deep meditation, and various reasonings
कुत:-अपरे तस्य मन:- where then the others, from his mind
शरीर-धी-विसर्ग-सृष्टा- body and intellect, evolved and created
वयम्-अप्रकाशा: we the ignorant
ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च ।
यन्मायया मोहितचेतसस्ते विदु: स्वसंस्थं न बहि: प्रकाशा: ॥२३॥
ये देह-भाज:-त्रि-गुण-प्रधाना: they, body identified to, by three Gunas
ये देह-भाज:-त्रि-गुण-प्रधाना: they, body identified to, by three Gunas dominated
गुणान् विपश्यन्ति- the Gunas (only) perceive
उत वा तम:-च definitely or the darkness
यत्-मायया मोहित-चेतस:- in that, by Maayaa, duped minded
ते विदु: स्व-संस्थम् they know in themselves placed (You)
न बहि: प्रकाशा: not, of the outward knowledge
तं त्वामहं ज्ञानघनं स्वभावप्रध्वस्तमायागुणभेदमोहै: ।
सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं हि मूढ: परिभावयामि ॥२४॥
तम् त्वाम्-अहम् ज्ञान-घनम् That, You, I, the knowledge dense
स्वभाव-प्रध्वस्त- by nature shattering
माया-गुण-भेद-मोहै: the Maayaa's Guna differences and infatuation
सनन्दन-आद्यै:-मुनिभि:- (sages) Sanandana and others by the sages,
विभाव्यम् कथम् हि contemplated how indeed can
मूढ: परिभावयामि ignorant me investigate
प्रशान्तमायागुणकर्मलिङ्गमकर्मलिङ्गमनामरूपं सदसद्विमुक्तम् ।
ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥२५॥
प्रशान्त-माया-गुण- devoid of Maayaa's Gunas (generated)
कर्म-लिङ्गम्-अनाम-रूपम् actions, bodies, without name and form
सत्-असत्-विमुक्तम् merit and sin free of
ज्ञान-उपदेशाय गृहीत-देहम् for the wisdom's teaching, taken on a form
नमामहे त्वाम् पुरुषम् पुराणम् we bow to You The Person Primary
त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।
भ्रमन्ति कामलोभेर्ष्यामोहविभ्रान्तचेतस: ॥२६॥
त्वत्-माया रचिते लोके in Your Maayaa created world
वस्तु-बुद्ध्या गृह-आदिषु with a real sense in house and others
भ्रमन्ति काम-लोभ-ईर्ष्या- revolve with lust, greed, jealousy,
मोह-विभ्रान्त-चेतस: infatuation deluded minds
अद्य न: सर्वभूतात्मन् कामकर्मेन्द्रियाशय: ।
मोहपाशो दृढश्चिन्नो भगवंस्तव दर्शनात् ॥२७॥
अद्य न: सर्व-भूतात्मन् today, our, O of All created beings the Self
काम-कर्म-इन्द्रिय-आशय: of desires, actions, sense objects
मोह-पाश: दृढ:-छिन्न: of ignorance the cord strong, is shattered
भगवन्-तव दर्शनात् O Lord! By Your sight
श्री शुक उवाच - Shree Shuka said -
इत्थंगीतानुभावस्तं भगवान् कपिलो मुनि: ।
अंशुमन्तमुवाचेदमनुगृह्य धिया नृप ॥२८॥
इत्थम्-गीत-अनुभाव:- thus sung the power
तम् भगवान् कपिल: मुनि: to him, The Lord Kapila the sage
अंशुमन्तम्-उवाच-इदम्- to Anshumaan said this
अनुगृह्य धिया नृप blessing mentally, O King!
श्री भगवान्-उवाच - The glorious Lord said -
अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।
इमे च पितरो दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् ॥२९॥
अश्व:-अयम् नीयताम् वत्स horse this take away, O Son!
पितामह-पशु:-तव of grandfather, the animal yours
इमे च पितर: दग्धा: these and uncles burnt
गङ्गा-अम्भ:-अर्हन्ति न-इतरत् Ganga's water desire, not else
तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।
सगरस्तेन पशुना क्रतुशेषं समापयत् ॥३०॥
तम् परिक्रम्य शिरसा him circumambulating, by the head bowing
प्रसाद्य हयम्-आनयत् pleasing, the horse brought back
सगर:-तेन पशुना Sagara by that animal
क्रतु-शेषम् समापयत् the sacrifice's last completed
राज्यमंशुमति न्यस्य नि:स्पृहो मुक्तबन्धन: ।
और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥३१॥
राज्यम्-अंशुमति न्यस्य the kingdom to Anshumaan handing over
नि:स्पृह: मुक्त-बन्धन: desire less, freed of bondages
और्व-उपदिष्ट मार्गेण by Aurva advised course,
लेभे गतिम्-अनुत्तमाम् attained the state highest
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे सगरोपाख्याने अष्टम: अध्याय: ॥८॥ Thus ends the eighth discourse, hinging on the story of Sagara, in Book
नवम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया ।
कालं महान्तं नाशक्नोत् तत: कालेन संस्थित: ॥१॥
अंशुमान्-च तप:-तेपे Anshumaan and austerities practiced
गङ्गा-आनयन-काम्यया Ganga to bring desiring
कालम् महान्तम् न-अशक्नोत् for time great did not succeed
तत: कालेन संस्थित: then in Time was dead
दिलीपस्तत्सुतस्तद्वदशक्त: कालमेयिवान् ।
भगीरथस्तस्य पुत्रस्तेपे स सुमहत् तप: ॥२॥
दिलीप:-तत्-सुत:-तत्-वत्- Dileepa his son, him like
अशक्त: कालम्-एयिवान् incapable, in Time died
भगीरथ:-तस्य पुत्र:-तेपे Bhagiratha, his son practised
स: सुमहत् तप: he, severe austerities
दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।
इत्युक्त: स्वमभिप्रायं शशंसावनतो नृप: ॥३॥
दर्शयामास तम् देवी revealed to him, the goddess (Ganga)
प्रसन्ना वरदा-अस्मि ते pleased, 'to give a boon, I am, to you'
इति-उक्त: स्वम्-अभिप्रायम् thus said, own intention
शशंस-अवनत: नृप: presented bowing the king
कोऽपि धारयिता वेगं पतन्त्या मे महीतले ।
अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥४॥
क:-अपि धारयिता वेगम् 'who ever will sustain the force
क:-अपि धारयिता वेगम्
पतन्त्या मे महीतले as I fall, mine on the earth
अन्यथा भूतलम् भित्त्वा otherwise the surface of the earth piercing,
नृप यास्ये रसातलम् O King! will go to Rasaatala
किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् ।
मृजामि तदघं कुत्र राजंस्तत्र विचिन्त्यताम् ॥५॥
किम् च-अहम् न भुवम् यास्ये what and I, not on the earth will go
नरा: मयि-अमृजन्ति-अघम् the people in me, will wash the sins
मृजामि तत्-अघम् कुत्र will wash that sin where,
राजन्-तत्र विचिन्त्यताम् O King! That think of
भगीरथ उवाच - Bhagiratha said -
साधवो न्यासिन: शान्ता ब्रह्मिष्ठा लोकपावना: ।
हरन्त्यघं तेऽङ्गसङ्गात् तेष्वास्ते ह्यगभित्-हरि: ॥६॥
साधव: न्यासिन: शान्ता: the noble, the ascetics, the tranquil minded,
ब्रह्मिष्ठा: लोक-पावना: the knowers of Brahman, the world purifiers
हरन्ति-अघम् ते-अङ्ग-सङ्गात् will take away sins, yours, by (their) body's
हरन्ति-अघम् ते-अङ्ग-सङ्गात् will take away sins, yours, by (their) body's contact
तेषु-आस्ते हि-अघ-भित्-हरि: in them resides indeed the sin-destroyer Lord Hari
धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् ।
यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥७॥
धारयिष्यति ते वेगम् 'will hold your force
धारयिष्यति ते वेगम्
रुद्र:-तु-आत्मा शरीरिणाम् Rudra, indeed the soul of the embodied souls
यस्मिन्-ओतम्-इदम् प्रोतम् in Whom is inter woven this warp and woof
विश्वम् शाटी-इव तन्तुषु the universe, like a cloth in the threads
इत्युक्त्वा स नृपो देवं तपसातोषयच्छिवम् ।
कालेनाल्पीयसा राजंस्तस्येश: समतुष्यत ॥८॥
इति-उक्त्वा स: नृप: this saying, that king
देवम् तपसा-अतोषयत्-शिवम् the Lord by asceticism, propitiated Shiva
कालेन-अल्पीयसा राजन्- in time short, O King!
तस्य-ईश: समतुष्यत With him the Lord was very pleased
तथेति राज्ञाभिहितं सर्वलोकहित: शिव: ।
दधारावहितो गङ्गां पादपूतजलां हरे: ॥९॥
तथा-इति राज्ञा-अभिहितम् so be it, by the king, as told to Him
सर्व-लोक-हित: शिव: for all the worlds benefit, Lord Shiva
दधार-अवहित: गङ्गाम् held carefully Gangaa
पाद-पूत-जलाम् हरे: by the feet purified waters of Lord Shree Hari
भगीरथ: स राजर्षिर्निन्ये भुवनपावनीम् ।
यत्र स्वपितृणां देहा भस्मीभूता: स्म शेरते ॥१०॥
भगीरथ: स: राजर्षि:- Bhagiratha, that royal sage
निन्ये भुवन-पावनीम् led the world purifying (Gangaa)
यत्र स्व-पितृणाम् देहा: to where own grand-uncles' bodies
भस्मी-भूता: स्म शेरते ash becoming, were lying
रथेन वायुवेगेन प्रयान्तमनुधावती ।
देशान् पुनन्ती निर्दग्धानासिञ्चत् सगरात्मजान् ॥११॥
रथेन वायु-वेगेन with the chariot, with the wind speed
प्रयान्तम्-अनुधावती going following that
देशान् पुनन्ती निर्दग्धान्- the places purifying, and the burnt
असिञ्चत् सगर-आत्मजान् bathed the Sagara sons
यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि ।
सगरात्मजा दिवं जग्मु: केवलं देहभस्मभि: ॥१२॥
यत्-जल-स्पर्श-मात्रेण by which water's touch alone
ब्रह्म-दण्ड-हता: अपि by to the Braahmana wrong doing, punished even
सगर-आत्मजा: दिवम् जग्मु: Sagara's sons to heaven went
केवलम् देह-भस्मभि: only the body ashes with
भस्मीभूताङ्गसङ्गेन स्वर्याता: सगरात्मजा: ।
किं पुन: श्रद्धयादेवीं ये सेवन्ते धृतव्रता: ॥१३॥
भस्मीभूत-अङ्ग-सङ्गेन (with) to ashes reduced body's touch
स्वर्याता: सगर-आत्मजा: to heaven ascended Sagara's sons
किम् पुन: श्रद्धया-देवीम् what again of with reverence the Goddess
ये सेवन्ते धृत-व्रता: who serve observing vows
न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् ।
अनन्त चरणाम्भोजप्रसूताया भवच्छिद: ॥१४॥
न हि-एतत् परम-आश्चर्यम् not indeed this is very surprising
स्वर्धुन्या: यत्-इह-उदितम् about the heavenly river, that is said
अनन्त चरण-अम्भोज- from The Infinite's feet lotus
प्रसूताया भव-छिद: emanating, the universal bondage snapping
संनिवेश्य मनो यस्मिञ्छ्रद्धया मुनयोऽमला: ।
त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥१५॥
संनिवेश्य मन: यस्मिन्- placing the minds in which,
श्रद्धया मुनय:-अमला: with reverence, the sages, sinless
त्रैगुण्यम् दुस्त्यजम् the three Gunas consisting difficult to give up
हित्वा सद्य: याता:- shaking off, soon reach
तत्-आत्मताम् His Soul's one-ness
सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत् ॥१६॥
श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् । 9.9.2021
श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् ।
9.9.2021
श्रुत: भगीरथात्-जज्ञे Shruta from Bhagiratha was born
तस्य नाभो:-अपर:-अभवत् his Naabha, the other was born
सिन्धुद्वीप:-तत:- Sindhudveepa from him
तस्मात्-अयुतायु:-तत:-अभवत् from him Ayutaayu then was born
ऋतुपर्णो नलसखो योश्वविद्यामयान्नलात् ।
दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुत: ॥१७॥
ऋतुपर्ण: नलसख: य:- Rituparna, Nala's friend, who
अश्व-विद्याम्-अयात्-नलात् the horse knowledge learnt from Nala
दत्त्वा-अक्ष-हृदयम् च-अस्मै giving the dice secret and to him
सर्वकाम:-तु तत्-सुत: Sarvakaama indeed was his son
तत: सुदासस्तत्पुत्रो मदयन्तीपतिर्नृप ।
आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् ।
वसिष्ठशापाद् रक्षोऽभूदनपत्य: स्वकर्मणा ॥१८॥
तत: सुदास:-तत्-पुत्र: from him, Sudaasa, his son,
मदयन्ती-पति:-नृप Madayantee's husband, O King!
आहु:-मित्रसहम् यम् वै was called Mitrasaha whom or
कल्माष-अङ्घ्रिम्-उत क्वचित् Kalmaashapaada, indeed somewhere
वसिष्ठ-शापात् रक्ष:-अभूत्- By Vashishtha's curse Raakshasha became
अनपत्य: स्व-कर्मणा was issueless by own deeds
राजा-उवाच - The King said -
किं निमित्तो गुरो: शाप: सौदासस्य महात्मन: ।
एतद् वेदितुमिच्छाम: कथ्यतां न रहो यदि ॥१९॥
किम् निमित्त: गुरो: शाप: what caused the preceptors curse
सौदासस्य महात्मन: for Saudaasa, the high souled
एतद् वेदितुम्-इच्छाम: this we want to know
कथ्यताम् न रह: यदि do say, not a secret if
श्री शुक उवाच - Shree Shuka said -
सौदासो मृगयां किञ्चिच्चरन् रक्षो जघान ह ।
मुमोच भ्रातरं सोऽथ गत: प्रतिचिकीर्षया ॥२०॥
सौदास: मृगयाम् किञ्चित्- Saudaasa for hunting somewhere
चरन् रक्षो: जघान ह roaming, a Raakshasha killed indeed
मुमोच भ्रातरम् स:-अथ released the brother, he then
गत: प्रतिचिकीर्षया went revenge contemplating
स चिन्तयन्नघं राज्ञ: सूदरूपधरो गृहे ।
गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥२१॥
स: चिन्तयन्-अघम् राज्ञ: he thinking of a harm for the king
सूत्-रूप-धर: गृहे cook's guise taking in the house
गुरवे भोक्तु-कामाय for the preceptor intending to dine
पक्त्वा निन्ये नर-आमिषम् cooked and took human flesh
परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा ।
राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥२२॥
परिवेक्ष्यमाणम् भगवान् as was being served, the glorious (sage)
विलोक्य-अभक्ष्यम्-अञ्जसा saw the in-edible, quickly
राजानम्-अशपत् क्रुद्ध: to the king cursed in a rage
रक्ष: हि-एवम् भविष्यसि 'Raakshasha only indeed will be'
रक्ष: हि-एवम् भविष्यसि
रक्ष: कृतं तद् विदित्वा चक्रे द्वादशवार्षिकम् ।
सोऽप्यपोऽञ्जलिनाऽऽदाय गुरुं शप्तुं समुद्यत: ॥२३॥
रक्ष: कृतम् तत् विदित्वा Raakshasha's doing that knowing
चक्रे द्वादश-वार्षिकम् modified to twelve years
स:-अपि-अप:-अञ्जलिना-आदाय he also water in the palms taking
गुरुम् शप्तुम् समुद्यत: the Guru to curse embarked
वारितं मदन्त्यापो रुशती: पादयोर्जहौ ।
दिश: खमवनीं सर्वं पश्यञ्जीवमयं नृप: ॥२४॥
वारितम् मदन्त्या-अप: forbidden by Madayantee, the water
रुशती: पादयो:-जहौ consecrated on the feet dropped
दिश: खम्-अवनीम् सर्वम् the directions, sky, earth, all
पश्यन्-जीव-मयम् नृप: looking at by the beings pervaded, O King!
राक्षसं भावमापन्न: पादे कल्माषतां गत: ।
व्यवायकाले ददृशे वनौकोदम्पती द्विजौ ॥२५॥
राक्षसम् भावम्-आपन्न: Raakshasha's condition having fallen into
पादे कल्माषताम् गत: the feet blackened having become
व्यवाय-काले ददृशे at copulation time saw
वनौक: दम्पती द्विजौ living in the forest, a couple Braahmana
क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् ।
न भवान् राक्षस: साक्षादिक्ष्वाकूणां महारथ: ॥२६॥
क्षुधा-आर्त: जगृहे विप्रम् by hunger tormented, caught hold of Braahmana
तत्-पत्नी-आह-अकृत-अर्थवत् his wife said, not attained the purpose like
न भवान् राक्षस: साक्षात्- 'not are you a Raakshasha, directly
इक्ष्वाकूणाम् महारथ: of the Ikshvaaku's the great charioteer,'
मदयन्त्या: पतिर्वीर नाधर्मं कर्तुमर्हसि ।
देहि मेऽपत्यकामाया: अकृतार्थं पतिं द्विजम् ॥२७॥
मदयन्त्या: पति:-वीर Madayantee's husband, O Valiant One!
न-अधर्मम् कर्तुम्-अर्हसि Not unrighteousness to commit are worthy
देहि मे-अपत्य-कामाया: do give to me a son desiring
अकृतार्थम् पतिम् द्विजम् the unsatisfied husband, the Braahmana
देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थद: ।
तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥२८॥
देह:-अयम् मानुष: राजन् body this human, O King!
पुरुषस्य-अखिल-अर्थ-द: is of a person all objects fulfilling
तस्मात्-अस्य वध: वीर therefore its killing O Brave One!
सर्व-अर्थ-वध उच्यते of all objects destruction is said to be
एष हि ब्राह्मणो विद्वांस्तप:शीलगुणान्वित: ।
आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ।
सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणै: ॥२९॥
एष: हि ब्राह्मण: विद्वान्- this indeed is a Braahmana scholar,
तप:-शील-गुण-अन्वित: to asceticism given, amiable, virtues having
आरिराधयिषु:-ब्रह्म is eager to worship Brahman
महा-पुरुष संज्ञितम् The Supreme Person named (Lord Vishnu)
सर्व-भूत-आत्म-भावेन of all the living beings as Self
भूतेषु-अन्तर्हितम् गुणै: present, veiled by the Gunas
सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो ।
कथमर्हति धर्मज्ञ वधं पितुरिवात्मज: ॥३०॥
स:-अयम् ब्रह्मर्षि-वर्य:- that this, of the Braahmana sages the foremost
ते राजर्षि-प्रवरात् विभो you, of royal sages the leader, O Powerful One!
कथम्-अर्हति धर्मज्ञ how can deserve, O Knower of righteousness!
वधम् पितु:-इव-आत्मज: to be killed, from father a son (like)
तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिन: ।
कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥३१॥
तस्य साधो:-अपापस्य of his the pious, sinless
भ्रूणस्य ब्रह्मवादिन: unborn, the Vedas expounder
कथम् वधम् बभ्रो:- how come the killing of the cow
मन्यते सन्मत: भवान् understand to be proper you
यद्ययं क्रियते भक्षस्तर्हि मां खाद पूर्वत: ।
न जीविष्ये विना येन क्षणं च मृतकं यथा ॥३२॥
यदि-अयम् क्रियते भक्ष:- if this is eaten
तर्हि माम् खाद पूर्वत: then me, eat first
न जीविष्ये विना येन will not live without whom
क्षणम् मृतकम् यथा for a moment, dead like
एवं करुणभाषिण्या विलपन्त्या अनाथवत् ।
व्याघ्र: पशुमिवाखादत् सौदास: शापमोहित: ॥३३॥
एवम् करुण-भाषिण्या thus pitifully saying
विलपन्त्या अनाथ-वत् and crying like a helpless one
व्याघ्र: पशुम्-इव-अखादत् a tiger an animal like ate
सौदास: शाप-मोहित: Saudaasa by the curse impelled
ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् ।
शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती ॥३४॥
ब्राह्मणी वीक्ष्य दिधिषुम् the Braahmana woman, eager to copulate
पुरुषादेन भक्षितम् by the Raakshasha eaten
शोचन्ती-आत्मानम्-उर्वीशम्- worrying for herself, the king
अशपत् कुपिता सती cursed in rage the pious woman
यस्मान्मे भक्षित: पाप कामार्ताया: पतिस्त्वया ।
तवापि मृत्युराधानादकृतप्रज्ञ दर्शित: ॥३५॥
यस्मात्-मे भक्षित: पाप because my have eaten, O Sinful !(person)
काम-आर्ताया: पति:-त्वया of copulating eager husband by you
तव-अपि मृत्यु:-आधानात्- your also death (will be) by copulating,
अकृतप्रज्ञ दर्शित: O fool! it has been said
एवं मित्रसहं शप्त्वा पतिलोकपरायणा ।
तदस्थीनि समिद्धेग्नौ प्रास्य भर्तुर्गतिं गता ॥३६॥
एवम् मित्रसहम् शप्त्वा thus, Mitrasaha having cursed
पति-लोक-परायणा husband's region looking up to
तत्-अस्थीनि समिद्धि-अग्नौ his bones in the flaming fire
प्रास्य भर्तु:-गतिम् गता consigning, husband's state went to
विशापो द्वादशाब्दान्ते मैथुनाय समुद्यत: ।
विज्ञाय ब्राह्मणीशापं महिष्या स निवारित: ॥३७॥
विशाप: द्वादश-अब्द-अन्ते clear of the curse, at twelve years end
मैथुनाय समुद्यत: of copulating eager
विज्ञाय ब्राह्मणी शापम् knowing the Braahmana woman's curse,
महिष्या स: निवारित: by the queen he was stopped
तत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजा: ।
वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥३८॥
तत: ऊर्ध्वम् स: तत्याज then afterwards he gave up
स्त्री-सुखम् कर्मणा-अप्रजा: sex pleasure, by own action was issueless
वसिष्ठ:-तत्-अनुज्ञात: Vashishtha, by him requested
मदयन्त्याम् प्रजाम्-अधात् in Madayantee issue begot
सा वै सप्त समा गर्भमबिभ्रन्न व्यजायत ।
जघ्नेऽश्मनोदरं तस्या: सोऽश्मकस्तेन कथ्यते ॥३९॥
सा: वै सप्त समा: गर्भम्- she indeed for seven years the womb
अबिभ्रत्-न व्यजायत carried, was not born
जघ्ने-अश्मनना-उदरम् तस्या: hit by a stone the stomach her's,
स:-अश्मक:-तेन कथ्यते he, Ashmaka therefore is called
अश्मकान्मूलको जज्ञे य: स्त्रीभि: परिरक्षित: ।
नारीकवच इत्युक्तो नि:क्षत्रे मूलकोभवत् ॥४०॥
अश्मकात्-मूलक: जज्ञे from Ashmaka Moolaka was born,
य: स्त्रीभि: परिरक्षित: who by the women was protected
नारीकवच: इति-उक्त: Naareekavacha thus was called
नि:क्षत्रे मूलक:-अभवत् in the Kshatriya less land, only Moolaka was there
ततो दशरथस्तस्मात् पुत्र ऐडविडस्तत: ।
राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ॥४१॥
तत: दशरथ:- from him Dasharatha,
तस्मात् पुत्र ऐडविड:- from him the son Aidavida
तत: राजा विश्वसह: from him the king Vishvasaha
यस्य खट्वाङ्ग:-चक्रवर्ती-अभूत् whose Khatwaanga a monarch became
यो देवैरर्थितो दैत्यानवधीद् युधि दुर्जय: ।
मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं संदधे मन: ॥४२॥
य: देवै:-अर्थित: दैत्यान्- who by the gods was requested the Daityas
अवधीद् युधि दुर्जय: to kill, in the battle unconquerable
मुहूर्तम्-आयु:-ज्ञात्वा- an hour of life knowing
एत्य स्व-पुरम् संदधे मन: returned to own city and concentrated the mind
न मे ब्रह्मकुलात् प्राणा: कुलदैवान्न चात्मजा: ।
न श्रियो न मही राज्यं न दाराश्चातिवल्लभा: ॥४३॥
न मे ब्रह्म-कुलात् प्राणा: not to me, from Braahmana race is life
कुल-दैवात्-न च-आत्मजा: the family's gods, not and sons
न श्रिय: न मही राज्यम् not riches, nor land, kingdom
न दारा:-च-अति-वल्लभा: not wife and very dear
न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्वचित् ।
नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्वहम् ॥४४॥
न बाल्ये-अपि मति:-मह्यम्- not in childhood also mind my
अधर्मे रमते क्वचित् in unrighteousness delights ever
न-अपश्यम्-उत्तमश्लोकात्- do not see, the highly renowned
अन्यत् किञ्चन वस्तु-अहम् other than, any thing I
देवै: कामवरो दत्तो मह्यं त्रिभुवनेश्वरै: ।
न वृणे तमहं कामं भूतभावनभावन: ॥४५॥
देवै: काम-वर: दत्त: मह्यम् by the gods the desired boon was given for me
त्रि-भुवन-ईश्वरै: by the three worlds' lords
न वृणे तम्-अहम् did not accept that I,
कामम् भूत-भावन-भावन: desiring of all the beings the Maker Protector
ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् ।
न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे ॥४६॥
ये विक्षिप्त-इन्द्रिय-धिय: those with deluded senses, mind,
देवा:-ते स्व-हृदि स्थितम् gods they, in own heart dwelling
न विन्दन्ति प्रियम् do not know the Dear
शश्वत्-आत्मानम् Eternal Self
किम्-उत-अपरे what indeed others
अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु ।
रूढं प्रकृत्याऽऽत्मनि विश्वकर्तुर्भावेन हित्वा तमहं प्रपद्ये ॥४७॥
अथ-ईश-माया-रचितेषु now by The Lord's Maayaa created
सङ्गम् गुणेषु attached by the Gunas
गन्धर्व-पुर-उपमेषु the Gandharva city's comparable to
रूढम् प्रकृत्या-आत्मनि enhanced by Prakriti, in (my) self
विश्व-कर्तु:-भावेन हित्वा The World's Creator's devotion shaking off
तम्-अहम् प्रपद्ये Him I seek
इति व्यवसितो बुद्ध्या नारायणगृहीतया ।
हित्वान्यभावमज्ञानं तत: स्वं भावमाश्रित: ॥४८॥
इति व्यवसित: बुद्ध्या thus resolving by reason
नारायण-गृहीतया by Naaraayana drawn
हित्वा-अन्य-भावम्-अज्ञानम् giving up other thoughts and ignorance,
तत: स्वं भावम्-आश्रित: then, own essential state took shelter in
यत् तद् ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितं ।
भगवान् वासुदेवेति यं गृणन्ति हि सात्वता: ॥४९॥
यत् तद् ब्रह्म परम् Which is That Brahman Absolute
सूक्ष्मम्-अशून्यम् subtle, not unsubstantial
शून्य-कल्पितम् as intangible is conceived
भगवान् वासुदेव-इति The Lord Vaasudeva, thus
यम् गृणन्ति हि सात्वता: Whom refer to, indeed the devotees
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे सूर्यवंशानुवर्णने नवम: अध्याय: ॥९॥ Thus ends the ninth discourse, forming part of an account of the solar
दशम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
खट्वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: ।
अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥१॥
खट्वाङ्गाद् दीर्घबाहु:-च from Khatwaanga Deerghabaahu and
रघु:-तस्मात् पृथु-श्रवा: Raghu from him of great renown
अज:-तत: महाराज:- Aja then the great king
तस्मात् दशरथ:-अभवत् from him Dasharatha was born
तस्यापि भगवानेष साक्षाद् ब्रह्ममयो हरि: ।
अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थित: सुरै: ।
रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया ॥२॥
तस्य-अपि भगवान्-एष: his also, The Lord This
साक्षाद् ब्रह्ममय: हरि: Himself, The Brahman constituting, Lord Shree Hari
अंश-अंशेन चतुर्धा-अगात् with His part's part in four went
पुत्रत्वम् प्रार्थित: सुरै: as sons entreated by the gods
राम-लक्ष्मण-भरत- Raama, Lakshmana, Bharata,
शत्रुघ्न- इति संज्ञया Shatrughna thus named
तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभि: ।
श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहु: ॥३॥
तस्य-अनुचरितम् राजन्- His story, O King!
ऋषिभि:-तत्त्व-दर्शिभि: by the sages, the Truth realized
श्रुतम् हि वर्णितम् भूरि has been heard indeed, described in detail
त्वया सीता-पते:-मुहु: by you, of Sitaa's husbands many times
गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियाया:
पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् ।
त्रस्ताब्धिर्बद्धसेतु: खलदवदहन: कोसलेन्द्रोऽवतान्न: ॥४॥
गुरु-अर्थे त्यक्त-राज्य: for father's sake abandoning the kingdom
व्यचरत्-अनुवनम् roaming forest to forest
पद्म-पद्भ्याम् प्रियाया: with lotus feet, beloved's
पाणि-स्पर्श-अक्षमाभ्याम् hands touch not bearing
मृजित-पथ-रुज: य: relieved the path's fatigue, Who
हरीन्द्र-अनुजाभ्याम् by the monkey chief and younger brother
वैरूप्यात्-शूर्पणख्या: by distorting the look of Shoorpanakhaa
प्रिय-विरह-रुषा- for the beloved's separation, angered
आरोपित-भ्रू-विजृम्भ- placed the eyebrows knit
त्रस्त-अब्धि:-बद्ध-सेतु: tormented the ocean, built a bridge
खल-दव-दहन: of the wicked forest fire like consuming
कोसलेन्द्र:-अवतात्-न: Kosala' Lord may protect us
विश्वामित्राध्वरे येन मारीचाद्या निशाचरा: ।
पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवा: ॥५॥
विश्वामित्र-अध्वरे येन in Vishvaamitra's sacrifice, by Whom
मारीच-आद्या: निशाचरा: Mareechi and other night roaming demons
पश्यत: लक्ष्मणस्य- as looked on Lakshmana
एव हता: नैरृत-पुङ्गवा: only were killed the demon chiefs
यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् ।
आदाय बालगजलील इवेक्षुयष्टिं सज्जीकृतं नृप विकृष्य बभञ्ज मध्ये ॥६॥
यो लोक-वीर-समितौ Who, in the world's heroes assembly
धनु:-ईशम्-उग्रम् the bow of Lord Shiva, the formidable
सीता-स्वयंवर-गृहे in Sita's choice marriage hall
त्रि-शत-उपनीतम् by three hundred (men) brought
आदाय बाल-गज-लील taking like a child elephant's sport
इव-इक्षु-यष्टिम् सज्जीकृतम् like sugarcane staff, strung,
नृप विकृष्य बभञ्ज मध्ये O King! pulled and broke in the middle
जित्वानुरूपगुणशीलवयोऽङ्गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानाम् ।
मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥७॥
जित्वा-अनुरूप-गुण- having won, equal in virtues
शील-वयो:-अङ्ग-रूपाम् nature, age, limbs' beauty
सीता-अभिधाम् श्रियम्-उरसि- Sita called, Shree, on the bosom
अभिलब्ध-मानाम् acquired honour
मार्गे व्रजन् भृगुपते:- on the path going of the Bhrigus' the chief
व्यनयत् प्ररूढम् दर्पम् brought down the raised pride
महीम्-अकृत य:- the earth had rendered who
त्रि:-अराज-बीजाम् three into seven times Kshatriya seed less
य: सत्यपाशपरिवीतपितुर्निदेशं स्त्रैणस्य चापि शिरसा जगृहे सभार्य: ।
राज्यं श्रियं प्रणयिन: सुहृदो निवासं त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्ग: ॥८॥
य: सत्य-पाश-परिवीत- Who, in truth snare caught
पितु:-निदेशम् स्त्रेणस्य च-अपि father's orders uxorious and even
शिरसा जगृहे सभार्य: with bowed head accepted with His wife
राज्यम् श्रियम् प्रणयिन: the kingdom, the fortune, loving relatives
सुहृद: निवासम् त्यक्त्वा friends, residence, relinquished
ययौ वनम्- went to the forest
असून्-इव मुक्त-सङ्ग: life like one free of attachment
रक्ष:स्वसुर्व्यकृत रूपमशुद्धबुद्धेस्तस्या: खरत्रिशिरदूषणमुख्यबन्धून् ।
जघ्ने चतुर्दशसहस्रमपारणीयकोदण्डपाणिरटमान उवास कृच्छ्रम् ॥९॥
रक्ष:-स्वसु:-व्यकृत रूपम्- the Raakshasha sister's distorted looks,
अशुद्ध-बुद्धे:-तस्या: of deceitful mind, her
खर-त्रिशिर-दूषण-मुख्य-बन्धून् Khara, Trishiraa and Dooshana main brothers
जघ्ने चतुर्दशसहस्रम्- killed fourteen thousand
अपारणीय-कोदण्ड-पाणि:- with invincible bow carrying in hand
अटमान उवास कृच्छ्रम् roamed and lived in difficulty
सीताकथाश्रवणदीपितहृच्छयेन सृष्टं विलोक्य नृपते दशकन्धरेण ।
जघ्नेऽद्भुतैणवपुषाऽऽश्रमतोऽपकृष्टो-मारीचमाशु विशिखेन यथा कमुग्र: ॥१०॥
सीता-कथा-श्रवण- Sita's account having heard
दीपित-हृच्छयेन enkindled passion
सृष्टम् विलोक्य created, seeing
नृपते दशकन्धरेण O King! By Raavana
जघ्ने-अद्भुत-ऐण-वपुषा- killed the strange deer embodied
आश्रमत:-अपकृष्ट:- from His hermitage drawn
मारीचम्-आशु Mareechi soon
विशिखेन यथा कम्-उग्र: by arrow just as Daksha by Veerabhadra
रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् ।
भ्रात्रा वने कृपणवत् प्रियया वियुक्त: स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥११॥
रक्ष:-अधमेन वृक-वत् by the Raakshasha lowly, wolf like
विपिने-असमक्षम् in the forest, at his back,
वैदेहराज-दुहितरि-अपयापितायाम् on Videha king's daughter, forcefully taken
वैदेहराज-दुहितरि-अपयापितायाम् on Videha king's daughter, forcefully taken away
भ्रात्रा वने कृपण-वत् with the brother in the forest like a pitiable
प्रियया वियुक्त: from the beloved separated
स्त्री-सङ्गिनाम् गतिम्- of the women attached, state
इति प्रथयन्-चचार this exemplifying went about
दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं सख्यं विधाय कपिभिर्दयितागतिं तै: ।
बुद्ध्वाथ वालिनि हते प्लवगेन्द्र सैन्यैर्वेलामगात् स मनुजोऽजभवार्चिताङ्घ्रि: ॥१२॥
दग्ध्वा-आत्म-कृत्य- cremating (Jataayu) who by his own Karma
हत-कृत्यम्-अहन् कबन्धम् had wiped his Karmas, killing Kabandha
सख्यम् विधाय कपिभि:- friendship making with the monkeys,
दयिता-गतिम् तै: बुद्ध्वा- wife's state from them knowing
अथ वालिनि हते then Bali being killed
प्लवगेन्द्र सैन्यै:-वेलाम्-अगात् with monkeys' army to the sea shore went
स: मनुज:-अज-भव-अर्चित-अङ्घ्रि: That Man, by Brahmaa, Shiva, worshipped feet
यद्रोषविभ्रमविवृत्तकटाक्षपात-संभ्रान्तनक्रमकरो भयगीर्णघोष: ।
सिन्धु: शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत् ॥१३॥
यत्-रोष-विभ्रम- by Whose anger seeming
विवृत्त-कटाक्ष-पात- fierce glance cast
संभ्रान्त-नक्र-मकर: invested with crocodiles and alligators
भय-गीर्ण-घोष: सिन्धु: by fear silenced the roar, the ocean,
शिरसि-अर्हणम् on his head worshipping articles (carrying)
परिगृह्य रूपी taking on living form
पाद-अरविन्दम्-उपगम्य feet lotus approaching
बभाष एतत् said this
न त्वां वयं जडधियो नु विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् ।
यत्सत्त्वत: सुरगणा रजस: प्रजेशा मन्योश्च भूतपतय: स भवान् गुणेश: ॥१४॥
न त्वाम् वयम् जड-धिय: not You, we, dull minded
नु विदाम भूमन् कूटस्थम्- indeed know O Infinite Lord! The indwelling
आदि-पुरुषम् जगताम्-अधीशम् Primary Person, of the worlds The Ruler
यत्-सत्त्वत: सुर-गणा: from Whose Sattva the gods' hosts
रजस: प्रजेशा: Raja the lords of created beings
मन्यो:-च भूतपतय: Tamasa and the lords of ghosts
स: भवान् गुणेश: That You are The Lord of Prakriti
कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमनवाप्नुहि वीर पत्नीम् ।
बध्नीहि सेतुमिह ते यशसो वितत्ये गायन्ति दिग्विजयिनो यमुपेत्य भूपा: ॥१५॥
कामम् प्रयाहि जहि विश्रवस:- at will proceed, kill (the son of) Vishravaa
अवमेहम् त्रैलोक्य रावणम्- the cause of weeping of the three worlds, Raavana,
अनवाप्नुहि वीर पत्नीम् recover indeed, O Brave One, Your wife
बध्नीहि सेतुम्-इह construct a bridge here
ते यशस: वितत्ये your fame to expand
गायन्ति दिग्विजयिन: will sing the conquerors of the directions
यम्-उपेत्य भूपा: which reaching the kings
बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटै: सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गै: ।
सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्लङ्कां विभीषणदृशाऽऽविशदग्रदग्धाम् ॥१६॥
बद्ध्वा-उदधौ रघुपति:- constructed on the ocean Raghupati
विविध-अद्रि-कूटै: सेतुम् by various mountain rocks the bridge
कपीन्द्र-कर-कम्पित by the monkey chiefs pulled out
भूरुह-अङ्गै: trees with roots
सुग्रीव-नील-हनुमत्-प्रमुखै:-अनीकै:- Sugreeva, Neela, Hanumaan, the leading army,
लङ्काम् विभीषण-दृशा- in Lankaa by Vibhishana's advice
अविशत्-अग्र-दग्धाम् entered formerly burnt
सा वानरेन्द्रबलरुद्धविहारकोष्ठश्रीद्वारगोपुरसदोवलभीविटङ्का ।
निर्भज्यमानधिषणध्वजहेमकुम्भशृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥१७॥
सा वानर-इन्द्र-बल- she (Lankaa) by the monkey chief's army
रुद्ध-विहार-कोष्ठ- श्रीद्वार- was seized the gardens, granaries, doorways,
गोपुर-सदोवलभी-विटङ्का city gates, meeting halls, porticos,
निर्भज्यमान-धिषण-ध्वज- destroyed platforms, flags,
हेम-कुम्भ-शृङ्ग-अटका: pitchers of gold, the cross roads
गज-कुलै:-ह्रदिन-इव घूर्णा by elephants herds river like churned
रक्ष:पतिस्तदवलोक्य निकुम्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकादीन् ।
पुत्रं प्रहस्तमतिकायविकम्पनादीन् सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥१८॥
रक्ष:पति:-तत्-अवलोक्य the Raakshasha lord that perceiving
निकुम्भ-कुम्भ-धूम्राक्ष-दुर्मुख- Nikumbha, Kumbha, Dhoomraaksha, Durmukha,
सुरान्त-नरान्तक-आदीन् Suraanta, Naraantaka, and others
पुत्रम् प्रहस्तम्-अतिकाय- son, Prahasta, Atikaaya,
विकम्पन्-आदीन् सर्व-अनुगान् Vikampana, and others all followers
समहिनोत्-अथ-कुम्भकर्णम् sent then Kumbhakarna
तां यातुधानपृतनामसिशूलचापप्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम् ।
सुग्रीवलक्ष्मणमरुत्सुतगन्धमादनीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् ॥१९॥
ताम् यातुधान-पृतनाम्- that demon army, (armed with)
असि-शूल-चाप-प्रास-ऋष्टि- swords, tridents, bows, spears, double-edged
शक्ति-शर-तोमर-खड्ग-दुर्गाम् bolts, arrows, clubs, and axes, impenetrable
सुग्रीव-लक्ष्मण-मरुत्सुत- by Sugreeva, Lakshmana, Hanumaan,
गन्धमाद-नील-अङ्गद-ऋक्ष- Gandhamaadana, Neela, Angada, Riksha,
पनस-आदिभि:-अन्वित:-अगात् Panas and others, accompanied, met
तेऽनीकपा रघुपतेरभिपत्य सर्वे द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधै: ।
जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्या: सीताभिमर्शहतमङ्गलरावणेशान् ॥२०॥
ते-अनीकपा: रघुपते:-अभिपत्य they, the generals of Raghupati, entering into
सर्वे द्वन्द्वम् वरूथम्- all in duet combat the army,
इभ-पत्ति-रथ-अश्व-योधै: of elephants, foot soldiers, chariots, horses,
इभ-पत्ति-रथ-अश्व-योधै: of elephants, foot soldiers, chariots, horses, heroes
जघ्नु:-द्रुमै:-गिरि-गदा-इषुभि:- killed with trees, rocks, maces, arrows,
अङ्गद-आद्या: सीता-अभिमर्श-हत- Angada and others, by Sitaa's abduction hit
मङ्गल-रावण-ईशान् the good luck of Raavana their master
रक्ष:पति: स्वबलनष्टिमवेक्ष्य रुष्ट आरुह्य यानकमथाभिससार रामम् ।
स्व:स्यन्दने द्युमति मातलिनोपनीते विभ्राजमानमहनन्निशितै: क्षुरप्रै: ॥२१॥
रक्ष:पति: स्व-बल-नष्टिम्- the Raakshasha's lord own army destroyed
अवेक्ष्य रुष्ट: आरुह्य यानकम्- seeing angered, mounting a chariot
अथ-अभिससार रामम् then faced Raama
स्व:-स्यन्दने द्युमति in the heavenly chariot lustrous
मातलिना-उपनीते विभ्राजमानम्- by Maatali brought, shining brightly
अहनत्-निशितै: क्षुरप्रै: charged with sharp arrows
रामस्तमाह पुरुषादपुरीष यन्न: कान्तासमक्षमसतापहृता श्ववत् ते ।
त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य यच्छामि काल इव कर्तुरलङ्घ्यवीर्य: ॥२२॥
राम:-तम्-आह पुरुषाद-पुरीष Raama to him said, 'O human flesh eater! Unholy!
यत्-न: कान्ता-असमक्षम्- that our spouse, in absence,
असता-अपहृता श्व-वत् ते by you the wicked, stolen dog like, to you
त्यक्त-त्रपस्य फलम्-अद्य the shameless, will award the fruit
जुगुप्सितस्य यच्छामि of your detested action, will give,
काल इव कर्तु:-अलङ्घ्य-वीर्य: Time like does, can not be prevailed upon
काल इव कर्तु:-अलङ्घ्य-वीर्य: Time like does, can not be prevailed upon prowess
एवं क्षिपन् धनुषि संधितमुत्ससर्ज बाणं स वज्रमिव तद्धृदयं बिभेद ।
सोऽऽसृग् वमन् दशमुखैर्न्यपतद् विमानात् हाहेति जल्पति जने सुकृतीव रिक्त: ॥२३॥
एवम् क्षिपन् धनुषि संधितम्- thus reprimanding, on the bow placed
उत्ससर्ज बाणम् स: वज्रम्-इव charged the arrow, He thunderbolt like
तत्-हृदयम् बिभेद his heart piercing
स:-असृग् वमन् दश-मुखै:- he vomited blood from ten mouths
न्यपतद् विमानात् हा-हा-इति fell from the Ariel car, 'Oh my! Oh my!
जल्पति जने सुकृतीव रिक्त: saying the men, of merits exhausted
ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: ।
मन्दोदर्या समं तस्मिन् प्ररुदत्य उपाद्रवन् ॥२४॥
तत: निष्क्रम्य लङ्काया: then, coming out of Lankaa
यातुधान्य: सहस्रश: Raakshasha women in thousands
मन्दोदर्या: समम् Mandodari with
तस्मिन् प्ररुदत्य: उपाद्रवन् there weeping bitterly, rushed
स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।
रुरुदु: सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥२५॥
स्वान् स्वान् बन्धून् परिष्वज्य each one own dear ones embracing
लक्ष्मण-इषुभि:-अर्दितान् by Lakshmana's arrows killed
रुरुदु: सुस्वरम् दीना: wailed loudly helpless,
घ्नन्त्य: आत्मानम्-आत्मना beating themselves by themselves
हा हता: स्म वयं नाथ लोकरावण रावण ।
कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता ॥२६॥
हा हता: स्म वयम् नाथ ' Alas! Struck are we, O lord!
हा हता: स्म वयम् नाथ
लोक-रावण रावण the world tormentor Raavana
कम् यायात्-शरणम् who do we seek protection
लङ्का त्वत्-विहीना पर-अर्दिता Lankaa devoid of you, is by others trampled
नैवं वेद महाभाग भवान् कामवशंगत: ।
तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥२७॥
न-एवम् वेद महाभाग did not this know, O highly blessed one!
भवान् काम-वशम्-गत: You, by passion overcome
तेज:-अनुभावम् सीताया: the glory's power of Sita,
येन नीत: दशाम्-इमाम् by which fallen to this state
कृतैषा विधवा लङ्का वयं च कुलनन्दन ।
देह: कृतोऽन्नं गृध्राणामात्मा नरकहेतवे ॥२८॥
कृता-एषा विधवा लङ्का rendered this widow is Lankaa
वयम् च कुलनन्दन we and, O delighter of the race!
देह: कृत:-अन्नम् गृध्राणाम्- body is reduced to food for vultures
आत्मा नरक-हेतवे and the soul for hell fit
श्री शुक उवाच - Shree Shuka said -
स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदित: ।
पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥२९॥
स्वानाम् विभीषण:-चक्रे of his own people Vibheeshana conducted
कोसलेन्द्र-अनुमोदित: by Kosala's lord's command
पितृमेध-विधानेन the manes to propitiate, by the procedure
यत्-उक्तम् साम्परायिकम् what was stated of cremation rites
ततो ददर्श भगवानशोकवनिकाश्रमे ।
क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम् ॥३०॥
तत: ददर्श भगवान्- after that saw The Lord
अशोक-वनिका-आश्रमे in Ashoka forest hermitage
क्षामाम् स्व-विरह-व्याधिम् emaciated His separation disease
शिंशपा-मूलम्-आस्थिताम् in Shimshipa's foot seated
राम: प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत ।
आत्मसंदर्शनाह्लादविकसन्मुखपङ्कजाम् ॥३१॥
राम: प्रियतमाम् भार्याम् Raama, most beloved wife
दीनाम् वीक्ष्य-अन्वकम्पत emaciated seeing was compassionate
आत्म-संदर्शन-आह्लाद- by own self's vision joy
विकसत्-मुख-पङ्कजाम् blooming face lotus
आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युत: ।
विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥३२॥
आरोप्य-आरुरुहे यानम् (making her) alight, He alighted the vehicle
भ्रातृभ्याम् हनुमत्-युत: with the two brothers, Hanumaan along with
विभीषणाय भगवान् दत्त्वा for Vibheeshana The Lord gave
रक्षोगण-ईशताम् Of the Raakshasha's' hosts the ruler ship
लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रत: पुरीम् ।
अवकीर्यमाण: कुसुमैर्लोकपालार्पितै: पथि ॥३३॥
लङ्काम्-आयु:-च कल्प-अन्तम् Lanka and age of till the Kalpa's end
ययौ चीर्ण-व्रत: पुरीम् went completing the vow to the city
अवकीर्यमाण: कुसुमै:- showered by flowers
लोकपाल-अर्पितै: पथि by the guardians of the directions offered on the path
उपगीयमानचरित: शतधृत्यादिभिर्मुदा ।
गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥३४॥
उपगीयमान-चरित: being sung of, His stories
शतधृति-आदिभि:-मुदा by Brahmaa and others with joy
गो-मूत्र-यावकम् in cow urine (cooked) rice, hearing
भ्रातरम् वल्कल-अम्बरम् the brother and tree barks' clothing's
महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम् ।
भरत: प्राप्तमाकर्ण्य पौरामात्यपुरोहितै: ॥३५॥
महा-कारुणिक:-अतप्यत्- he, very pitiable, did penance
जटिलम् स्थण्डिले-शयम् sever, on the floor sleeping
भरत: प्राप्तम्-आकर्ण्य Bharata, (Raama) approaching, hearing
पौर-आमात्य-पुरोहितै: with the citizens, ministers and priests
पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ।
नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनि:स्वनै: ॥३६॥
पादुके शिरसि न्यस्य the wooden sandals on the head placed
रामम् प्रत्युद्यत:-अग्रजम् to Raama greet, the elder brother
नन्दिग्रामात् स्व-शिविरात् from Nandigraam, his own camp
गीत-वादित्र-नि:स्वनै: with songs, musical instruments' sounds
ब्रह्मघोषेण च मुहु: पठद्भिर्ब्रह्मवादिभि: ।
स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथै: ॥३७॥
ब्रह्म-घोषेण च मुहु: with the Vedas resounding, and again and again
पठद्भि:-ब्रह्म-वादिभि: recited by the Veda exponents
स्वर्ण-कक्ष-पताकाभि:- gold embroidered phastoons
हैमै:-चित्र-ध्वजै: रथै: and golden and various flags and chariots
सदश्वै रुक्मसन्नाहैर्भटै: पुरटवर्मभि: ।
श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगै: ॥३८॥
सत्-अश्वै: रुक्म-सन्नाहै:- with noble horses with gold trappings
भटै: पुरट-वर्मभि: warriors with gold armours,
श्रेणीभि:-वारमुख्याभि: merchants, courtesans,
भृत्यै:-च-एव पद-अनुगै: servants and also on foot followers
पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।
पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षण: ॥३९॥
पारमेष्ठ्यानि-उपादाय merchandise carrying
पण्यानि-उच्च-अवचानि च articles high and low
पादयो:-न्यपतत् प्रेम्णा on the feet fell with love
प्रक्लिन्न-हृदय-ईक्षण: melted heart and (moist) eyes
पादुके न्यस्त पुरत: प्राञ्जलिर्बाष्पलोचन: ।
तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलै: ॥४०॥
पादुके न्यस्त पुरत: wooden sandals placing in front
प्राञ्जलि:-बाष्प-लोचन: with joined palms, tear full eyes
तम्-आश्लिष्य चिरम् दोर्भ्यां him embraced for long with both arms
स्नापयन् नेत्रजै:-जलै: bathing with eyes flowing water
रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमा: ।
तेभ्य: स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृत: ॥४१॥
राम: लक्ष्मण-सीताभ्याम् Raama, with Lakshmana and Sitaa
विप्रेभ्य: ये-अर्हसत्तमा: to Braahmanas and honourable elderly
तेभ्य: स्वयम् नम:-चक्रे to them Himself Pranaam did
प्रजाभि:-च नमस्कृत: by the public and was greeted
धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् ।
उत्तरा: कोसला माल्यै: किरन्तो ननृतुर्मुदा ॥४२॥
धुन्वन्त: उत्तरा-सङ्गान् waving their upper garments
पतिम् वीक्ष्य चिर-आगतम् The Master seeing, after long having come
उत्तरा: कोसला: of Northern Kosala the people
माल्यै: किरन्त: ननृतु:-मुदा garlands showering, danced in joy
पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे ।
विभीषण: ससुग्रीव: शेवच्छत्रं मरुत्सुत: ॥४३॥
पादुके भरत:-अगृह्णात्- the wooden sandals Bharata carried
चामर-व्यजन-उत्तमे Chaamaras and the fan excellent
विभीषण: स-सुग्रीव: Vibheeshana with Sugreeva
शेवत्-छत्रम् मरुत्सुत: the white umbrella Hanumaan
धनुर्निषङ्गाञ्छत्रुघ्न: सीता तीर्थकमण्डलुम् ।
अबिभ्रदङ्गद: खड्गं हैमं चर्मर्क्षराण् नृप ॥४४॥
धनु:-निषङ्गान्-शत्रुघ्न: the bow and quivers Shatrughna
सीता तीर्थ-कमण्डलुम् Sitaa the holy waters' pitcher
अबिभ्रत्-अङ्गद: खड्गम् carried Angada the sword
हैमम् चर्म-ऋक्षराण् नृप the golden shield Jaambavaana, O King!
पुष्पकस्थोऽन्वित: स्त्रीभि: स्तूयमानश्च वन्दिभि: ।
विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदित: ॥४५॥
पुष्पक-स्थ:-अन्वित: स्त्रीभि: in the Pushpaka seated, surrounded by the women
स्तूयमान:-च वन्दिभि: being exalted by the bards
विरेजे भगवान् राजन् shone The Lord, O King!
ग्रहै:-चन्द्र इव-उदित: by the planets moon like rising
भ्रातृभिर्नन्दित: सोऽपि सोत्सवां प्राविशत् पुरीम् ।
प्रविश्य राजभवनं गुरुपत्नी: स्वमातरम् ॥४६॥
भ्रातृभि:-नन्दित: स:-अपि by the brothers welcomed and greeted, He also
स-उत्सवाम् प्राविशत् पुरीम् within the rejoicing entered the city
प्रविश्य राजभवनम् entering the royal palace
गुरु-पत्नी: स्व-मातरम् the preceptor's wife and own mother
गुरून् वयस्यावरजान् पूजित: प्रत्यपूजयत् ।
वैदेही लक्ष्मणश्चैव यथावत् समुपेयतु: ॥४७॥
गुरून् वयस्य-अवरजान् the preceptors, equals, and youngers
पूजित: प्रत्यपूजयत् greeted, and in return was greeted
वैदेही लक्ष्मण:-च-एव Sitaa Lakshmana and also
यथावत् समुपेयतु: as required, accordingly interacted
पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिता: ।
आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहु: शुच: ॥४८॥
पुत्रान् स्वमातर:-ता:-तु the sons own mothers (seeing), they and
प्राणान्-तन्व: इव-उत्थिता: life in the body like arising
आरोप्य-अङ्के-अभिषिञ्चन्त्य: placing (them) in the lap, bathed
बाष्प-औघै:-विजहु: शुच: with tears' streams, gave up grief
जटा निर्मुच्य विधिवत् कुलवृद्धै: समं गुरु: ।
अभिषिञ्चद् यथैवेन्द्रं चतु:सिन्धुजलादिभि: ॥४९॥
जटा निर्मुच्य विधिवत् matted hair unravelled, according to the system,
कुल-वृद्धै: समम् गुरु: with the family's elders the preceptor
अभिषिञ्चद् यथा-एव-इन्द्रम् bathed just like Indra
चतु:-सिन्धु जल-आदिभि: with four oceans waters and others
एवं कृतशिर: स्नान: सुवासा: स्रग्व्यलङ्कृत: ।
स्वलङ्कृतै: सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥५०॥
एवम् कृत-शिर: स्नान: in this manner, having with the head bathed
सुवासा: स्रग्वी-अलङ्कृत: well perfumed, garlanded, and adorned
सु-अलङ्कृतै: सुवासोभि:- with good ornaments, with good clothes,
भ्रातृभि:-भार्यया बभौ with the brothers, and the wife (He) shone
अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादित: ।
प्रजा: स्वधर्मनिरता वर्णाश्रमगुणान्विता: ।
जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥५१॥
अग्रहीत्-आसनम् भ्रात्रा accepted the throne, by brother's
प्रणिपत्य प्रसादित: prostration pleased
प्रजा: स्व-धर्म-निरता: the people in own duties engaged
वर्ण-आश्रम-गुण-अन्विता: Varna and Aashrama values adhering to
जुगोप पितृ-वत् राम: ruled father like Raama
मेनिरे पितरम् च तम् recognized as father and Him
त्रेतायां वर्तमानायां काल: कृतसमोऽभवत् ।
रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥५२॥
त्रेतायाम् वर्तमानायाम् Tretaa yuga being present,
काल: कृत-सम:-अभवत् time Krita yuga like became
रामे राजनि धर्मज्ञे as Raama being the king, knower of righteousness
सर्व-भूत-सुख-आवहे and for all beings happiness bringing
वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धव: ।
सर्वे कामदुधा आसन् प्रजानां भरतर्षभ ॥५३॥
वनानि नद्य: गिरय: the forests, rivers, mountains,
वर्षाणि द्वीप-सिन्धव: the Varshas, Dweepas, oceans,
सर्वे कामदुधा आसन् all desired yielded, were
प्रजानाम् भरतर्षभ for the people, O Scion of the Bharatas!
नाधिव्याधिजराग्लानिदु:खशोकभयक्लमा: ।
मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे ॥५४॥
न-आधि-व्याधि-जरा-ग्लानि- not mental or physical disease, old age, remorse,
दु:ख-शोक-भय-क्लमा: sorrow, grief, fear, tiredness,
मृत्यु:-च-अनिच्छताम् death and to the non-willing
न-आसीत् रामे राजनि- was not there in Ramaa's rule
अधोक्षजे Lord Vishnu
एकपत्नीव्रतधरो राजर्षिचरित: शुचि: ।
स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥५५॥
एक-पत्नी-व्रत-धर: one wife vow taking
राजर्षि-चरित: शुचि: royal sage character pure
स्व-धर्मम् गृह-मेधीयम् own duties, for householders
शिक्षयन् स्वयम्-आचरत् exemplifying, himself followed
प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
धिया ह्रिया च भावज्ञा भर्तु: सीताहरन्मन: ॥५६॥
प्रेम्णा-अनुवृत्त्या शीलेन with love, obeying, softness,
प्रश्रय-अवनता सती humbleness, amiable, the pious one
धिया ह्रिया च भावज्ञा by intelligence and bashfulness, knowing mind
भर्तु: सीता-अहरत्-मन: husband's, Sitaa stole the hearts
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे रामचरिते दशम: अध्याय: ॥१०॥ Thus ends the tenth discourse, forming part of the Narrative of Shree
एकादश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
भगवानात्मनाऽऽत्मानं राम उत्तमकल्पकै: ।
सर्वदेवमयं देवमीज आचार्यवान् मखै: ॥१॥
भगवान्-आत्मना-आत्मानम् The Lord by Himself, Himself
राम उत्तम-कल्पकै: Raama, by the best material
सर्व-देवमयम् देवम्- all gods inclusive The Lord
ईजे आचार्यवान् मखै: propitiated with officiating priests by sacrifices
होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभु: ।
अध्वर्यवे प्रतीचीं च उदीचीम् सामगाय स: ॥२॥
होत्रे-अददात् दिशम् प्राचीम् to Hotaa gave the direction east
ब्रह्मणे दक्षिणाम् प्रभु: to Brahmaa, south, The Lord
अध्वर्यवे प्रतीचीम् च to Adhvaryu the west and
उदीचीम् सामगाय स: north to the Saama singer, He
आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।
मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति नि:स्पृह: ॥३॥
आचार्याय ददौ शेषाम् to the preceptor gave the remaining
यावती भू:-तत्-अन्तरा whatever land of in between
मन्यमान: इदम् कृत्स्नम् considering that, this whole
ब्राह्मण:-अर्हति नि:स्पृह: The Braahmana deserves, desire less
इत्ययं तदलङ्कारवासोभ्यामवशेषित: ।
तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥४॥
इति-अयम् तत्-अलङ्कार thus, these His ornaments
वासोभ्याम्- अवशेषित: garments remained
तथा राज्ञी-अपि वैदेही and of the queen Vaidehee's also
सौमङ्गल्य-अवशेषिता: the Sumangala cord remained
ते तु ब्रह्मण्यदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।
प्रीता: क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥५॥
ते तु ब्रह्मण्य-देवस्य they then, (to Him) Braahmanas as gods
वात्सल्यम् वीक्ष्य संस्तुतम् fatherly love observing, praiseworthy
प्रीता: क्लिन्न-धिय:- delighted with melted hearts
तस्मै प्रत्यर्प्य-इदम् बभाषिरे to Him returned, this said
अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।
यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥६॥
अप्रत्तम् न:-त्वया किम् नु not given to us by You what not
भगवन् भुवनेश्वर O Lord! O Ruler of the Universe!
यत्-न:-अन्तर्हृदयम् विश्य in that, to us, in the inside of the heart entering
तम: हंसि स्व-रोचिषा darkness kill, by Your own lustre
नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये ॥७॥
नम: ब्रह्मण्य-देवाय Salutations to The votary of the Braahmanas
रामाय-अकुण्ठ-मेधसे Raama, of unobstructed intelligence,
उत्तम-श्लोक-धुर्याय of the highly renown's' epitome
न्यस्तदण्ड- to those who have given up violence
अर्पित-अङ्घ्रये presented the feet
कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यामलक्षित: ।
चरन् वाचोऽशृणोद् रामो भार्यामुद्दिश्य कस्यचित् ॥८॥
कदाचित्-लोक-जिज्ञासु:- One night, public opinion eager to know,
गूढ: रात्र्याम्-अलक्षित: incognito, in the night unperceived
चरन् वाच:-अशृणोत् राम: roaming, words heard Raama,
भार्याम्-उद्दिश्य कस्यचित् to wife concerning of someone
नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् ।
स्त्रीलोभी बिभृयात् सीतां रामो नाहं भजे पुन: ॥९॥
न-अहम् बिभर्मि त्वाम् दुष्टाम्- not I will have you wicked
असतीम् पर-वेश्म-गाम् unchaste, another's house living in
स्त्री-लोभी-बिभृयात् सीताम् wife fond of, may take Sitaa
राम: न-अहम् भजे पुन: Raama, not I, will accept again
इति लोकाद् बहुमुखाद् दुराराध्यादसंविद: ।
पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥१०॥
इति लोकात् बहु-मुखात् thus from the public, many mouthed
दुराराध्यात्-असंविद: difficult to be pleased, ignorant
पत्या भीतेन सा त्यक्ता by husband afraid, she forsaken
प्राप्ता प्राचेतस:-आश्रमम् reached Pracheta's son's hermitage
अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ ।
कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनि: ॥११॥
अन्तर्वत्न्या-आगते काले of the pregnant, having arrived the time
यमौ सा सुषुवे सुतौ twins she gave birth to two sons
कुश: लव: इति ख्यातौ Kusha Lava this known as
तयो:-चक्रे क्रिया मुनि: of them conducted the rites, the sage
अङ्गदश्चित्रकेतुश्च लक्षमणस्यात्मजौ स्मृतौ ।
तक्ष: पुष्कल इत्यास्तां भरतस्य महीपते ॥१२॥
अङ्गद:-चित्रकेतु:-च Angada Chitraketu and
लक्षमणस्य-आत्मजौ स्मृतौ Lakshmana's sons are remembered as
तक्ष: पुष्कल: इति- Taksha Pushkala thus
आस्ताम् भरतस्य महीपते were of Bharata, O King!
सुबाहु: श्रुतसेनश्च शत्रुघ्नस्य बभूवतु: ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥१३॥
सुबाहु: श्रुतसेन:-च Subaahu Shrutasena and
शत्रुघ्नस्य बभूवतु: of Shatrughna became
गन्धर्वान् कोटिश: जघ्ने Gandharvas in tens of millions killed
भरत: विजये दिशाम् Bharata, while winning the directions
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।
शत्रुघ्नश्च मधो: पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥१४॥
तदीयम् धनम्-आनीय their wealth brought
सर्वम् राज्ञे न्यवेदयत् all to the king presented
शत्रुघ्न:-च मधो: पुत्रम् Shatrughna and Madhu's son
लवणम् नाम राक्षसम् Lavana named Raakshasha
हत्वा मधुवने चक्रे killed, in Madhuvana built
मथुराम् नाम वै पुरीम् Mathuraa named indeed city
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥१५॥
मुनौ निक्षिप्य तनयौ on the sage entrusting the two sons,
सीता भर्त्रा विवासिता Sitaa, by her husband exiled
ध्यायन्ती राम-चरणौ contemplating on Raama's feet
विवरम् प्रविवेश ह in the hole (of the earth) entered indeed
तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुच: ।
स्मरंतस्या गुणांस्तांस्तान्नाशक्नोद् रोद्धुमीश्वर: ॥१६॥
तत्-श्रुत्वा भगवान् राम: that hearing, Lord Raama
रुन्धन्-अपि धिया शुच: restricting even by reason the grief
स्मरन्-तस्या: गुणान्- remembering her virtues
तान्-तान्-अशक्नोद् those many, was unable
रोद्धुम्-ईश्वर: to restrict, The Almighty
स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासमावह: ।
अपीश्वराणां किमुत ग्राम्यस्य गृहचेतस: ॥१७॥
स्त्री-पुं-प्रसङ्ग: एतादृक्- of woman and man, the story like this
सर्वत्र त्रासम्-आवह: (is) every where, sorrow entailing
अपि-ईश्वराणाम् किम्-उत even for mighty ones, what of
ग्राम्यस्य गृह-चेतस: the ordinary man, in household involved
तत ऊर्ध्वं ब्रह्मचर्यं धारयन्नजुहोत् प्रभु: ।
त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥१८॥
तत: ऊर्ध्वम् ब्रह्मचर्यम् after that, celibacy
धारयन्-अजुहोत् प्रभु: observing, poured, The Lord
त्रय:-दश-अब्द-साहस्रम्- of thirteen, years thousand
अग्निहोत्रम्-अखण्डितम् in the fire oblation, uninterrupted
स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकै: ।
स्वपादपल्लवं राम आत्मज्योतिरगात् तत: ॥१९॥
स्मरताम् हृदि विन्यस्य remembering in the hearts, placing
विद्धम् दण्डक-कण्टकै: pricked by Dandaka thorns
स्व-पाद-पल्लवम् own feet tender like new leaves
राम आत्मन्-ज्योति:- Raama, to The Self-Illumined
अगात् तत: left then
नेदं यशो रघुपते: सुरयाच्ञयाऽऽत्तलीलातनोरधिकसाम्यविमुक्तधाम्न: ।
रक्षोवधो जलधिबन्धनमस्त्रपूगै: किं तस्य शत्रुहनने कपय सहाया: ॥२०॥
न-इदम् यश: रघुपते: not this is the fame of Raghupati
सुर-याच्ञया-आत्त-लीला-तनो:- (Who) by gods' entreaty assumed sportingly a
सुर-याच्ञया-आत्त-लीला-तनो:- (Who) by gods' entreaty assumed sportingly a body
अधिक-साम्य-विमुक्त-धाम्न: for the more or same, defeating of prowess
रक्ष:-वध: जलधि-बन्धनम्- Raakshasha's slaying, on the ocean building a
अस्त्र-पूगै: किम् तस्य with weapons many, what of His
शत्रु-हनने कपय: सहाया: in the enemies' killing, the monkeys' help
यस्यामलं नृपसदस्सु यशोऽधुनापि गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ।
तं नाकपालवसुपालकिरीटजुष्टपादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥२१॥
यस्य-अमलम् नृप-सदस्सु Whose untainted, in the kings' assemblies
यश:-अधुना-अपि गायन्ति- fame today also is sung of
अघघ्नम्-ऋषय: sins destroying, by the sages
दिक्-इभेन्द्र-पट्टम् of the directions' elephants adornment
तम् नाकपाल-वसुपाल- Him the heaven's rulers, wealth custodians
किरीट-जुष्ट-पाद-अम्बुजम् crown is touched to the feet lotuses,
रघुपतिम् शरणम् प्रपद्ये Raghupati's shelter resort to
स यै: स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।
कोसलास्ते ययु: स्थानं यत्र गच्छन्ति योगिन: ॥२२॥
स: यै: स्पृष्ट:-अभिदृष्ट: वा He by those touched, well observed,
संविष्ट:-अनुगत:-अपि वा or seated with, followed also or
कोसला:-ते ययु: स्थानम् the (people) of Kosala, they went to the place
यत्र गच्छन्ति योगिन: where go the Yogis
पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥२३॥
पुरुष: राम-चरितम् a person, Raama's story
श्रवणै:-उपधारयन् by listening and treasuring
आनृशंस्य-पर: राजन् nonviolence given to, O King!
कर्म-बन्धै:-विमुच्यते from Karma's bondages is freed
राजा-उवाच - The King said -
कथं स भगवान् रामो भ्रातृन् वा स्वयमात्मन: ।
तस्मिन् वा तेऽन्ववर्तन्त प्रजा: पौराश्च ईश्वरे ॥२४॥
कथम् स: भगवान् राम: how He, Lord Raama
भ्रातृन् वा स्वयम्-आत्मन: with the brothers or of His own
तस्मिन् वा ते-अन्ववर्तन्त with them, or they behaved
प्रजा: पौरा:-च ईश्वरे the public and the citizens with The Lord
श्री शुक उवाच - Shree Shuka said -
अथादिशत् दिग्विजये भ्रातृंस्त्रिभुवनेश्वर: ।
आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुग: ॥२५॥
अथ-आदिशत् दिग्विजये then, instructed, the quarters to conquer
भ्रातृन्-त्रिभुवन-ईश्वर: the brothers, of the three worlds The Lord
आत्मानम् दर्शयन् स्वानाम् Himself letting to be seen, to own people
पुरीम्-ऐक्षत सानुग: city monitored with His followers
आसक्तिमार्गां गन्धोदै: करिणां मदशीकरै: ।
स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥२६॥
आसक्ति-मार्गाम् गन्ध-उदै: with watered paths, with perfumed waters
करिणाम् मद-शीकरै: of the elephants' temporal fluid drops
स्वामिनम् प्राप्तम्-आलोक्य her master having come seeing
मत्ताम् वा सुतराम्-इव intoxicated or very much like
प्रासादगोपुरसभाचैत्यदेवगृहादिषु ।
विन्यस्तहेमकलशै: पताकाभिश्च मण्डिताम् ॥२७॥
प्रासाद-गोपुर-सभा- on the palaces, city gates, meeting halls,
चैत्य-देवगृह-आदिषु sanctuary, temples and others
विन्यस्त-हेम-कलशै: placed with golden pitchers
पताकाभि:-च मण्डिताम् and with flags adorned
पूगै: सवृन्तै रम्भाभि: पट्टिकाभि सुवाससाम् ।
आदर्शैरंशुकै: स्रग्भि: कृतकौतुकतोरणाम् ॥२८॥
पूगै: सवृन्तै: रम्भाभि: with beetle nuts with the stalks, with banana trees
पट्टिकाभि: सुवाससाम् with strips of beautiful cloth
आदर्शै:-अंशुकै: स्रग्भि: by mirrors and cloth and garlands
कृत-कौतुक-तोरणाम् made wonderful the gates
तमुपेयुस्तत्र तत्र पौरा अर्हणपाणय: ।
आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम् ॥२९॥
तम्-उपेयु:-तत्र तत्र पौरा: Him approached here and there the citizens
अर्हण-पाणय: with worshipping articles in hands
आशिष: युयुजु:- and blessings added
देव पाहि-इमाम् "O Lord! Protect this (earth)
देव पाहि-इमाम्
प्राक् त्वया-उद्धृताम् formerly by You lifted up
तत: प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहा: स्त्रियो नरा: ।
आरुह्य हर्म्याण्यरविन्दलोचनमतृप्तनेत्रा: कुसुमैरवाकिरन् ॥३०॥
तत: प्रजा: वीक्ष्य पतिम् then, the public seeing their Lord
चिर-आगतम् दिदृक्षया- after long having come, eager to see,
उत्सृष्ट-गृहा: स्त्रिय: नरा: leaving their houses, women and men
आरुह्य हर्म्याणि- climbing the terraces
अरविन्द-लोचनम्- The Lotus-eyed Lord
अतृप्त-नेत्रा: with unsated eyes
कुसुमै:-अवाकिरन् flowers showered
अथ प्रविष्ट: स्वगृहं जुष्टं स्वै: पूर्वराजभि: ।
अनन्ताखिलकोशाढ्यमनर्घ्योरुपरिच्छदम् ॥३१॥
अथ प्रविष्ट: स्व-गृहम् then entered own palace,
जुष्टम् स्वै: पूर्व-राजभि: lived in by His own predecessors
अनन्त-अखिल-कोश-आढ्यम्- with unlimited endless treasures full of
अनर्घ्य-उरु-परिच्छदम् with invaluable many articles
विद्रुमोदुम्बरद्वारैर्वैदुर्यस्तम्भपङ्क्तिभि: ।
स्थलैर्मारकतै: स्वच्छैर्भातस्फटिकभित्तिभि: ॥३२॥
विद्रुम-उदुम्बर-द्वारै:- coral, cat's eye's doorways
र्वैदुर्य-स्तम्भ-पङ्क्तिभि: gems pillars rows of
स्थलै-मारकतै: स्वच्छै:- floor of emeralds clean
भात स्फटिक-भित्तिभि: and shining crystal walls
चित्रस्रग्भि: पट्टिकाभिर्वासोमणिगणांशुकै: ।
मुक्ताफलैश्चिदुल्लासै: कान्तकामोपपत्तिभि: ॥३३॥
चित्र-स्रग्भि: पट्टिकाभि:- various wreaths, flags,
वास:-मणि-गण-अंशुकै: cloth, gems many, canopies
मुक्ताफलै:-चित्-उल्लासै: pearls, consciousness like effulgent
कान्त-काम-उपपत्तिभि: beautiful enticing articles
धूपदीपै: सुरभिभिर्मण्डितं पुष्पमण्डनै: ।
स्त्रीपुम्भि: सुरसंकाशैर्जुष्टं भूषणभूषणै: ॥३४॥
धूप-दीपै: सुरभिभि:- with incenses, and lamp lights with fragrance
मण्डितम् पुष्प-मण्डनै: decorated with flowers ornaments
स्त्री-पुम्भि: सुर-संकाशै:- women and men gods like
जुष्टम् भूषण-भूषणै: attended by the ornaments of the ornaments
तस्मिन् स भगवान् राम: स्निग्धया प्रिययेष्टया ।
रेमे स्वारामधीराणामृषभ: सीतया किल ॥३५॥
तस्मिन् स: भगवान् राम: in that He, Lord Raama
स्निग्धया प्रियया-इष्टया with the beautiful affectionate and dear
रेमे स्वाराम धीराणाम्- enjoyed in Self revelling, of the Self controlled
ऋषभ: सीतया किल the foremost, with Sitaa indeed
बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।
वर्षपूगान् बहून् नृणामभिध्याताङ्घ्रिपल्लव: ॥३६॥
बुभुजे च यथा-कालम् enjoyed and from time to time
कामान् धर्मम्-अपीडयन् sense pleasures, righteousness observing
वर्ष-पूगान् बहून् नृणाम्- till very many years, by many people
अभिध्यात-अङ्घ्रि-पल्लव: contemplated on feet, soft as new leaves
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे श्रीरामोपाख्याने एकादश: अध्याय:
द्वादश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभ: ।
पुण्डरीकोऽथ तत्पुत्र: क्षेमधन्वाभवत्तत: ॥१॥
कुशस्य च-अतिथि:-तस्मात्- Kusha's and Atithi, from him
निषध:-तत्-सुत: नभ: Nishadha, his son Nabha
पुण्डरीक:-अथ तत्-पुत्र: Pundareeka then, his son
क्षेमधन्वा-अभवत्-तत: Kshemadhanvaa was born from him
देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: ।
ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसंभव: ॥२॥
देवानीक:-तत:-अनीह: Devaaneeka, from him Aneeha
पारियात्र:-अथ तत्-सुत: Paariyaatra then his son
तत: बलस्थल:-तस्मात् from him Balasthala, from him
वज्रनाभ:-अर्क-संभव: Vajranaabha, Sun like
खगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुत: ।
ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिने: ॥३॥
खगण:-तत्-सुत:-तस्मात् Khagana was his son, from him
विधृति:-च-अभवत् सुत: Vidhriti and was born the son
तत: हिरण्यनाभ:-अभूत् from him Hiranyanaabha was born
योगाचार्य:-तु जैमिने: Yoga's teacher, indeed of Jaimini the pupil
शिष्य: कौसल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यत: ।
योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् ॥४॥
शिष्य: कौसल्य: आध्यात्मम् the pupil from Kosala, the spiritual
याज्ञवल्क्य:-अध्यगात् यत: Yagyavalkya received from whom
योगम् महोदयम्-ऋषि:- the yoga of great elevation, the sage
हृदय-ग्रन्थि-भेदकम् the heart's knot (of ignorance) snapper
पुष्यो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥५॥
पुष्य: हिरण्यनाभस्य Pushya was Hiranynanabha's son
ध्रुवसन्धि:-तत:-अभवत् Dhruvasandhi was born of him
सुदर्शन:-अथ-अग्निवर्ण: Sudarshana then, Agnivarna,
शीघ्र:-तस्य मरु: सुत: Sheeghra his, Maru (his) son
योऽसावास्ते योगसिद्ध: कलापग्राममाश्रित: ।
कलेरन्ते सूर्यवंशं नष्टं भावयिता पुन: ॥६॥
य:-असौ-आस्ते योग-सिद्ध: who this (Maru) is present, in Yoga adept
कलाप-ग्रामम्-आश्रित: in Kalaapagraama staying
कले:-अन्ते सूर्यवंशम् in Kali's end, the Soorya Vansha
नष्टम् भावयिता पुन: extinct, will revive again
तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षण: ।
महस्वांस्तत्सुतस्तस्माद् विश्वसाह्वोऽन्वजायत ॥७॥
तस्मात् प्रसुश्रुत:-तस्य सन्धि:- from him was Prashruta, his was Sandhi
तस्य-अपि-अमर्षण: his also Amarshana
महस्वान्-तत्-सुत:- Mahaswaana his son
तस्मात् विश्वसाह:- अन्वजायत from him Vishvasaaha, afterwards was born
तत: प्रसेनजित् तस्मात् तक्षको भविता पुन: ।
ततो बृहद्बलो यस्तु पित्रा ते समरे हत: ॥८॥
तत: प्रसेनजित् तस्मात् from him Prasenjit, from him
तक्षक: भविता पुन: Takshaka was born again,
तत: बृहद्बल: य:-तु from him Brihadbala, who indeed
पित्रा ते समरे हत: by father your, in battle was killed
एते हीक्ष्वाकुभूपाला अतीता: शृण्वनागतान् ।
बृहद्बलस्य भविता पुत्रो नाम बृहद्रण: ॥९॥
एते हि-इक्ष्वाकु-भूपाला: these indeed of the Ikshvaaku's kings
अतीता: शृणु-अनागतान् the past, hear of those who have not come
बृहद्बलस्य भविता of Brihadbala will be
पुत्र: नाम बृहद्रण: the son named Brihadrana
उरुक्रियस्ततस्तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपति: ॥१०॥
उरुक्रिय:-तत:-तस्य Urukriya from him, his
वत्सवृद्ध: भविष्यति Vatsavriddha, then will be born
प्रतिव्योम:-तत: भानु:- Prativyoma, from him Bhaanu,
दिवाक: वाहिनी-पति: then Divaaka, the great army general
सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।
प्रतीकाश्वो भानुमत: सुप्रतीकोऽथ तत्सुत: ॥११॥
सहदेव:-तत: वीर: Sahadeva from him, the brave
बृहदश्व:-अथ भानुमान् Brihadashwa then, Bhaanumaan
प्रतीकाश्व: भानुमत: Prateekaashva of Bhaanumaan
सुप्रतीक:-अथ तत्-सुत: Suprateeka then his son
भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: ।
तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥१२॥
भविता मरुदेव:-अथ will be Maru deva, then
सुनक्षत्र:-अथ पुष्कर: Sunakshatra, then, Pushkara,
तस्य-अन्तरिक्ष:-तत्-पुत्र: his Antariksha, his son
सुतपा:-तत्-अमित्रजित् Sutapaa, his Amitrajit
बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जय: ।
रणञ्ज्यस्तस्य सुत: सञ्जयो भविता तत: ॥१३॥
बृहद्राज:-तु तस्य-अपि Brihadraaja indeed his also
बर्हि:-तस्मात् कृतञ्जय: Barhi from him, Kritanjaya,
रणञ्ज्य:-तस्य सुत: Rananjaya his son,
सञ्जय: भविता तत: Sanjaya will be from him
तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: ।
तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥१४॥
तस्मात्-शाक्य:-अथ शुद्धोद: from him Shaakya, then Shuddhoda,
लाङ्गल:-तत्-सुत: स्मृत: Laangala his son will be known
तत: प्रसेनजित् तस्मात् from him Prasenjit, from him
क्षुद्रक: भविता तत: Kshudraka will be born then
रणको भविता तस्मात् सुरथस्तनयस्तत: ।
सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वया: ॥१५॥
रणक: भविता तस्मात् Raakaa will be born of him
सुरथ:-तनय:-तत: Suratha son his,
सुमित्र: नाम निष्ठान्ते Sumitra named will be at the end of the race
एते बार्हद्बल-अन्वया: these will be Brihadbala's progeny
इक्ष्वाकूणामयं वंश: सुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥१६॥
इक्ष्वाकूणाम्-अयम् वंश: of the Ikshvaaku's this race
सुमित्र-अन्त: भविष्यति Sumitra the end will be
यत:-तम् प्राप्य राजानम् so that, him having as king
संस्थाम् प्राप्स्यति वै कलौ termination will attain indeed in Kali
श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायां नवमे स्कन्धे इक्ष्वाकुवंशवर्णनं नाम द्वादश:
अध्याय: ॥१२॥
श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायां नवमे स्कन्धे इक्ष्वाकुवंशवर्णनं नाम द्वादश:
अध्याय: ॥१२॥ Thus ends the twelfth discourse, 'A genealogy of (the remaining kings
त्रयोदश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
निमिरिक्ष्वाकुतनयो वशिष्ठमवृतर्त्विजम् ।
आरम्भ सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भो: ॥१॥
निमि:-इक्ष्वाकु-तनय: Nimi, Ikshvaaku's son
वशिष्ठम्-अवृत-ऋत्विजम् Vasishtha engaged as presiding priest
आरम्भ सत्रम् स:-अपि-आह before the sacrifice, he also said
शक्रेण प्राक्-वृत:-अस्मि भो: 'by Indra before am engaged, O Dear,'
शक्रेण प्राक्-वृत:-अस्मि भो:
तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय ।
तूष्णीमासीद् गृहपति: सोऽपीन्द्रस्याकरोन्मखम् ॥२॥
तम् निर्वर्त्य-आगमिष्यामि that completing, will come,
तावत्-माम् प्रतिपालय till then, me wait for
तूष्णीम्-आसीद् गृहपति: quiet became the householder
स:-अपि-इन्द्रस्य-अकरोत्-मखम् he also Indra's performed the sacrifice
निमिश्चलमिदं विद्वान् सत्रमारभतात्मवान् ।
ऋत्विग्भिरपरैस्तावन्नागमद् यावता गुरु: ॥३॥
निमि:-चलम्-इदम् विद्वान् Nimi, moving this, the wise
सत्रम्-आरभत-आत्मवान् the sacrifice started the Self-knower
ऋत्विग्भि:-अपरै: तावत्- by the presiding priests others, until
न-आगमत्-यावता गुरु: did not come till then the preceptor
शिष्यव्यतिक्रमं वीक्ष्य निर्वर्त्य गुरुरागत: ।
अशपत् पतताद् देहो निमे: पण्डितमानिन: ॥४॥
शिष्य-व्यतिक्रमम् वीक्ष्य of the disciple's disobedience seeing
निर्वर्त्य गुरु:-आगत: after returning the preceptor having come,
अशपत् देहो पतताद् cursed, the body may fall
निमे: पण्डित-मानिन: of Nimi learned regarding
निमि: प्रतिददौ शापं गुरवेऽधर्मवर्तिने ।
तवापि पतताद् देहो लोभात् धर्ममजानत: ॥५॥
निमि: प्रतिददौ शापम् Nimi counter cursed
गुरवे-अधर्म-वर्तिने the preceptor unrighteousness following
तव-अपि पततात् देह: 'Your also may fall body,
तव-अपि पततात् देह:
लोभात् धर्मम्-अजानत: by greed righteousness not knowing
इत्युससर्ज स्वं देहं निमिरध्यात्मकोविद: ।
मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामह: ॥६॥
इति-उत्ससर्ज स्वम् देहम् thus, gave up own body
निमि:-अध्यात्म-कोविद: Nimi, in spiritual knowledge adept
मित्रावरुणयो:-जज्ञे Mitraavaruna was born
उर्वश्याम् प्रपितामह: through Urvashi (the sage) my ancestor
गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमा: ।
समाप्ते सत्रयोगेऽथ देवानूचु: समागतान् ॥७॥
गन्ध-वस्तुषु तत्-देहम् in perfumed balms his body
निधाय मुनि-सत्तमा: placing, the sages foremost,
समाप्ते सत्रयोगे-अथ on conclusion of the session of sacrifice, then,
देवान्-ऊचु: समागतान् to the gods said, assembled
राज्ञो जीवतु देहोऽयं प्रसन्ना: प्रभवो यदि ।
तथेत्युक्ते निमि: प्राह मा भून्मे देहबन्धनम् ॥८॥
राज्ञ: जीवतु देह:-अयम् of the king, may live body this,
प्रसन्ना: प्रभव: यदि pleased you all are, if,
तथा-इति-उक्ते निमि: प्राह Amen' thus spoken, Nimi called,
मा भूत्-मे देह-बन्धनम् may not my be body bondage
यस्य योगं न वाञ्छन्ति वियोगभयकातरा: ।
भजन्ति चरणाम्भोजं मुनयो हरिमेधस: ॥९॥
यस्य योगम् न वाञ्छन्ति whose attachment do not desire
वियोग-भय-कातरा: by separation fear afraid of
भजन्ति चरण-अम्भोजम् worship the feet lotuses
मुनय: हरि-मेधस: the sages with Lord Shree Hari in mind
देहं नावरुरुत्सेऽहं दु:खशोकभयावहम् ।
सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥१०॥
देहम् न-अवरुरुत्से-अहम् body do not want to take on I
दु:ख-शोक-भय-आवहम् sorrow grief fear bringing
सर्वत्र-अस्य यत: मृत्यु:- everywhere of it is because death
मत्स्यानाम्-उदके यथा of the fish in water like
देवा ऊचु: - The gods said -
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।
उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थित: ॥११॥
विदेह उष्यताम् कामम् without body stay at will
लोचनेषु शरीरिणाम् in the eyes of the embodied beings
उन्मेषण-निमेषाभ्याम् by opening and closing (which)
लक्षित:-अध्यात्म-संस्थित: indicated own presence
अराजकभयं नृणां मन्यमाना महर्षय: ।
देहं ममन्थु: स्म निमे: कुमार: समजायत ॥१२॥
अराजक-भयम् नृणाम् anarchy afraid of among the people
मन्यमाना: महर्षय: considering, the great sages
देहम् ममन्थु: स्म निमे: the body churned of Nimi
कुमार: समजायत a son was born
जन्मना जनक: सोऽभूत् वैदेहस्तु विदेहज: ।
मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥१३॥
जन्मना जनक: स:-अभूत् by birth he was Janaka, he became
वैदेह:-तु विदेहज: Videha, indeed of body-less born
मिथिल: मथनात्-जात: Mithila by churning born
मिथिला येन निर्मिता Mithilaa by whom was built
तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धन: ।
तत: सुकेतुस्तस्यापि देवरातो महीपते ॥१४॥
तस्मात्-उदावसु:-तस्य from him Udaavasu, his
पुत्रो:-अभूत्-नन्दिवर्धन: son became Nandivardhana
तत: सुकेतु:-तस्य-अपि from him Suketu, his also
देवरात: महीपते Devaraata, O Ruler of the earth!
तस्माद् बृहद्रथस्तस्य महावीर्य: सुधृत्पिता ।
सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्तत: ॥१५॥
तस्मात् बृहद्रथ:-तस्य from him Brihadratha, his (son was)
महावीर्य: सुधृत्-पिता Mahaaveerya, Sudhrit's father
सुधृते:-धृष्टकेतु:-वै of Sudhrit Dhrishtaketu certainly
हर्यश्व:-अथ मरु:-तत: Haryashva then, Maru from him
मरो: प्रतीपकस्तस्माज्जात: कृतिरथो यत: ।
देवमीढस्तस्य सुतो विश्रुतोऽथ महाधृति: ॥१६॥
मरो: प्रतीपक:-तस्मात्- Maru's was Prateepaka, from him
जात: कृतिरथ: यत: was born Kritiratha, from whom
देवमीढ:-तस्य सुत: Devameedha, his son
विश्रुत:-अथ महाधृति: Vishruta, then Mahaadhriti
कृतिरातस्ततस्तस्मान्महारोमाथ तत्सुत: ।
स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥१७॥
कृतिरात:-तत:-तस्मात्- Kritiraata then, from him
महारोमा-अथ तत्-सुत: Mahaaromaa then his son
स्वर्णरोमा सुत:-तस्य Svarnaroma, the son, his
ह्रस्वरोमा व्यजायत Hrasvaromaa was born
तत: सीरध्वजो जज्ञे यज्ञार्थ कर्षतो महीम् ।
सीता सीराग्रतो जाता तस्मात् सीरध्वज: स्मृत: ॥१८॥
तत: सीरध्वज: जज्ञे from him Seeradhvaja was born
यज्ञ-अर्थ कर्षत: महीम् for sacrifice purpose tilling the land
सीता सीर-अग्रत: जाता Sita from the plough's end was born
तस्मात् सीरध्वज: स्मृत: therefore Seeradhvaja is called
कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृप: ।
धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥१९॥
कुशध्वज:-तस्य पुत्र:- Kritadhvaja his son
तत: धर्मध्वज: नृप: from him Dharmadhvaja, O King!
धर्मध्वजस्य द्वौ पुत्रौ of Dharmadhvaja, two sons
कृतध्वज-मितध्वजौ Kritadhvaja and Mitadhvaja
कृतध्वजात् केशिध्वज: खाण्डिक्यस्तु मितध्वजात् ।
कृतध्वजसुतो राजन्नात्मविद्याविशारद: ॥२०॥
कृतध्वजात् केशिध्वज: from Kritadhvaja Keshidhvaja was born
खाण्डिक्य:-तु मितध्वजात् Khaandikya indeed from Mitadhvaja
कृतध्वज-सुत: राजन्- Kritadhvaja's son, O King!
आत्म-विद्या-विशारद: in Self-knowledge was well versed
खाण्डिक्य: कर्मतत्त्वज्ञो भीत: केशिध्वजाद् द्रुत: ।
भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुत: ॥२१॥
खाण्डिक्य: कर्म-तत्त्वज्ञ: Khaandikya in rituals science had knowledge
भीत: केशिध्वजात् द्रुत: in fear of Keshidhvaja he fled
भानुमान्-तस्य पुत्र:-अभूत् Bhaanumaan his son became
शतद्युम्न:-तु तत्-सुत: Shatadyumna indeed his son
शुचिस्तत्तनयस्तस्मात् सनद्वाजस्ततोऽभवत् ।
ऊर्ध्वकेतु: सनद्वाजादजोऽथ पुरुजित्सुत: ॥२२॥
शुचि:-तत्-तनय:-तस्मात् Shuchi was his son, from him
सनद्वाज:-तत:-अभवत् Sanadvaaja, then was born
ऊर्ध्वकेतु: सनद्वाजात्- Oordhvaketu from Sandvaaja
अज:-अथ पुरुजित्-सुत: Aja then, Purujit was the son
अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वक: ।
ततश्चित्ररथो यस्य क्षेमधिर्मिथिलाधिप: ॥२३॥
अरिष्टनेमि:-तस्य-अपि Arishtanemee, his also
श्रुतायु:-तत्-सुपार्श्वक: Shrutaayu, his Supaarshvaka
तत:-चित्ररथ: यस्य from him Chitraratha, whose
क्षेमधि:-मिथिला-अधिप: Kshemadhi, Mithila's king
तस्मात् समरथस्तस्य सुत: सत्यरथस्तत: ।
आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसंभव: ॥२४॥
तस्मात् समरथ:-तस्य from him Samaratha, his son
सुत: सत्यरथ:-तत: Satyaratha, from him
आसीत्-उपगुरु:-तस्मात्- was Upaguru, from him
उपगुप्त:-अग्नि-संभव: Upagupta, Agni's part
वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषण: ।
श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृत: सुत: ॥२५॥
वस्वनन्त:-अथ तत्-पुत्र: Vasvananta, then, his son
युयुध: यत् सुभाषण: Yuyudha, whose Subhaashana
श्रुत:-तत: जय:-तस्मात् Shruta from him, Jaya from him
विजय:-अस्मात्-ऋत: सुत: Vijaya from him Rita the son
शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्तत: ।
बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥२६॥
शुनक:-तत्-सुत: जज्ञे Shunaka was his son was born
वीतहव्य: धृति:-तत: Veetahavya, Dhriti from him
बहुलाश्व: धृते:-तस्य Bahulaashva was Dhriti's son, his was
कृति:-अस्य महावशी Kriti, his Mahaavashee
एते वै मैथिला राजन्नात्मविद्याविशारदा: ।
योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥२७॥
एते वै मैथिला: राजन्- these indeed of Mithila, O King!
आत्म-विद्या-विशारदा: in Self-knowledge experts
योगेश्वर-प्रसादेन by Yogeshvara's grace
द्वन्द्वै:-मुक्ता: गृहेषु-अपि from dualities free, in the house also
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे निमिवंशवर्णनं नाम
त्रयोदशोऽध्याय: ॥१३॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे निमिवंशवर्णनं नाम
त्रयोदशोऽध्याय: ॥१३॥ Thus ends the thirteenth discourse entitled 'The posterity of Nimi
चतुर्दश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
अथात: श्रूयतां राजन् वंश: सोमस्य पावन: ।
यस्मिन्नैलादयो भूपा: कीर्त्यन्ते पुण्यकीर्तय: ॥१॥
अथात: श्रूयताम् राजन् and now listen, O King!
वंश: सोमस्य पावन: of the race of Soma the hallowed
यस्मिन्-एल-आदय: भूपा: in which Aila and other kings
कीर्त्यन्ते पुण्य-कीर्तय: are praised of pure renown
सहस्रशिरस: पुंसो नाभिहृदसरोरुहात् ।
जातस्यासीत् सुतो धातुरत्रि: पितृसमो गुणै: ॥२॥
सहस्र-शिरस: पुंस: of the thousand headed Person's
नाभि-हृद-सरोरुहात् navel pool (sprung) lotus
जातस्य-आसीत् सुत: born, was a son
धातु:-अत्रि: पितृ-सम: गुणै: of Brahmaa, Atree, father like in virtues
तस्य दृग्भ्योऽभवत् पुत्र: सोमोऽमृतमय: किल ।
विप्रौषध्युडुगणानां ब्रह्मणा कल्पित: पति: ॥३॥
तस्य दृग्भ्य:-अभवत् पुत्र: from his eyes was born a son
सोम:-अमृतमय: किल Soma, nectar embodied indeed
विप्र-औषधि-उडुगणानाम् of the Braahmanas, the herbs and the stars
ब्रह्मणा कल्पित: पति: by Brahmaa was appointed the lord
सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् ।
पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात् ॥४॥
स:-अयजत् राजसूयेन he worshipped (The Lord) by Raajasooya
विजित्य भुवन-त्रयम् conquering the worlds three
पत्नीम् बृहस्पते:-दर्पात् wife of Brihaspati, in arrogance
ताराम् नाम-अहरत् बलात् Taaraa by name, abducted forcefully
यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् ।
नात्यजत् तत्कृते जज्ञे सुरदानवविग्रह: ॥५॥
यदा स: देव-गुरुणा याचित:- when he by the gods' preceptor begged
अभीक्ष्णश: मदात् time and again, because of pride
न-अत्यजत् तत्-कृते did not leave her, that due to
जज्ञे सुर-दानव-विग्रह: started of gods' and Daanava's war
शुक्रो बृहस्पतेर्द्वेषादग्रहीत् सासुरोडुपम् ।
हरो गुरुसुतं स्नेहात् सर्वभूतगणावृत: ॥६॥
शुक्र: बृहस्पते:-द्वेषात्- Shukra, with Brihaspati being jealous
अग्रहीत् स-असुर-उडुपम् took with the Asuras the moon
हर: गुरु-सुतम् स्नेहात् Shiva preceptor's son out of affection
सर्व-भूत-गण-आवृत: with all ghosts' hosts combined
सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् ।
सुरासुरविनाशोऽभूत् समरस्तारकामय: ॥७॥
सर्व-देव-गण-उपेत: all gods' hosts comprising of
महेन्द्र: गुरुम्-अन्वयात् Indra, the preceptor followed
सुर-असुर-विनाश-अभूत् gods and demons destruction took place
समर:-तारकामय: by the war for Taaraa's sake
निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् ।
तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत् पति: ॥८॥
निवेदित:-अथ-अङ्गिरसा requested then by Angeerasa
सोमम् निर्भर्त्स्य विश्वकृत् Soma reprimanding Brahmaa
ताराम् स्वभर्त्रे प्रायच्छत्- Taaraa to own husband gave back
अन्तर्वत्नीम्-अवैत् पति: pregnant came to know the husband
त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परै: ।
नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिक: सति ॥९॥
त्यज त्यज-आशु दुष्प्रज्ञे cast away, cast away soon, O evil minded
मत्-क्षेत्रात्-अहितम् परै: from my place, sown by others
न-अहम् त्वाम् भस्मसात् कुर्याम् not I, you will burn to ashes
स्त्रियम् सान्तानिक: सति the woman progeny desiring, O good lady
तत्याज व्रीडिता तारा कुमारं कनकप्रभम् ।
स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ॥१०॥
तत्याज व्रीडिता तारा abandoned ashamed Taaraa,
कुमारम् कनक-प्रभम् the child, gold effulgent
स्पृहाम्-आङ्गिरस:-चक्रे desire Angeera's son (Brihaspati), made
कुमारे सोम: एव च for the child, Soma also and
ममायं न तवेत्युच्चैस्तस्मिन् विवदमानयो: ।
पप्रच्छुरृषयो देवा नैवोचे व्रीडिता तु सा ॥११॥
मम-अयम् न तव-इति-उच्चै:- ’My (he) is, not yours', thus loudly
तस्मिन् विवद-मानयो: for him, arguing they
पप्रच्छु:-ऋषय: देवा: asked the sages and gods
न-एव-ऊचे व्रीडिता तु सा did not anything say ashamed indeed she
कुमारो मातरं प्राह कुपितोऽलीकलज्जया ।
किं न वोचस्यसद्वृत्ते आत्मावद्यं वदाशु मे ॥१२॥
कुमार: मातरम् प्राह The boy to the mother said
कुपित:-अलीक-लज्जया in rage, in false shame
किम् न वोचसि-असद्वृत्ते why don’t you say, O Immoral woman!
आत्म-अवद्यम् वद-आशु मे self demeaning, say quickly to me
ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्त्वयन् ।
सोमस्येत्याह शनकै: सोमस्तं तावदग्रहीत् ॥१॥
ब्रह्मा ताम् रह: आहूय Brahmaa her in confidence taking
समप्राक्षीत्-च सान्त्वयन् asked and consoling
सोमस्य-इति-आह शनकै: of Soma, this said, slowly
सोम:-तम् तावत्-अग्रहीत् Soma him then took
तस्यात्मयोनिरकृत बुध इत्यभिधां नृप ।
बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण् मुदम् ॥१४॥
तस्य-आत्मयोनि:-अकृत his, Self-born (Brahmaa) gave
बुध: इति-अभिधाम् नृप Budha thus name O King!
बुद्ध्या गम्भीरया येन by intellect deep by which
पुत्रेण-आप-उडुराड् मुदम् son got the stars' king (Moon) great joy
तत: पुरूरवा जज्ञे इलायां य उदाहृत: ।
तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ॥१५॥
तत: पुरूरवा जज्ञे from him Pururavaa was born
इलायाम् य: उदाहृत: in Ilaa, of whom has been said
तस्य रूप-गुण-औदार्य- of his charm, virtues, liberality,
शील-द्रविण-विक्रमान् amiability wealth and valour
श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा ।
तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥१६॥
श्रुत्वा-उर्वशी-इन्द्र-भवने hearing, Urvashi, in Indra's court
गीयमानान् सुरर्षिणा being sung of by the divine sage (Naarada)
तत्-अन्तिकम्-उपेयाय in his presence came
देवी स्मर-शर-अर्दिता the celestial nymph, by cupid's arrows struck
मित्रावरुणयो: शापादापन्ना नरलोकताम् ।
निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् ।
धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥१७॥
मित्रावरुणयो: शापात्- by Mitra Varuna's curse,
आपन्ना नर-लोकताम् having descended to human realm
निशम्य पुरुष-श्रेष्ठम् hearing of among men the foremost
कन्दर्पम्-इव रूपिणम् Love-god like in appearance
धृतिम् विष्टभ्य ललना control holding, the young lady
उपतस्थे तत्-अन्तिके presented herself near him
स ताम् विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचन: ।
उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुह: ॥१८॥
स: ताम् विलोक्य नृपति:- he, her seeing, the king,
हर्षेण-उत्फुल्ल-लोचन: with joy blooming eyes
उवाच श्लक्ष्णया वाचा said in soft voice
देवीम् हृष्ट-तनू-रुह: to the lady, with horripilation on body hair
राजा-उवाच - The king said -
स्वागतं ते वरारोहे आस्यतां करवाम किम् ।
संरमस्व मया साकं रतिर्नौ शाश्वती: समा: ॥१९॥
स्वागतम् ते वरारोहे welcome to you, O charming One!
आस्यताम् करवाम किम् Come be seated, should be done what for you
संरमस्व मया साकम् revel me with
रति:-नौ शाश्वती: समा: enjoyment ours (may) be till endless times
उर्वशी-उवाच - Urvashi said -
कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर ।
यदङ्गान्तरमासाद्य च्यवते ह रिरंसया ॥२०॥
कस्या:-त्वयि न सज्जेत which (woman) in you, will not be held
मन: दृष्टि:-च सुन्दर by mind eyes and, O Handsome One!
यत्-अङ्गान्तरम्-आसाद्य in that, near you having come
च्यवते ह रिरंसया excited indeed for pleasure
एतावुरणकौ राजन् न्यासौ रक्षस्व मानद ।
संरंस्ये भवता साकं श्लाघ्य: स्त्रीणां वर: स्मृत: ॥२१॥
एतौ-उरणकौ राजन् these two rams, O king!
न्यासौ रक्षस्व मानद mortgages, protect, You having respect for others
संरंस्ये भवता साकम् will revel you with
श्लाघ्य: स्त्रीणाम् वर: स्मृत: is desireable to women, a good candidate, it is
श्लाघ्य: स्त्रीणाम् वर: स्मृत: is desireable to women, a good candidate, it is said
घृतं मे वीर भक्ष्यं स्यान्नेक्षे त्वान्यत्र मैथुनात् ।
विवासं तत् तथेति प्रतिपेदे महामना: ॥२२॥
घृतम् मे वीर भक्ष्यम् स्यात्- ghee, my, O valiant One! food will be
न-ईक्षे त्वा-अन्यत्र मैथुनात् will not see you anywhere, (except) during
न-ईक्षे त्वा-अन्यत्र मैथुनात् will not see you anywhere, (except) during coition,
विवासम् तत् तथा-इति unclothed, that like that, thus
प्रतिपेदे महामना: accepted the great minded
अहो रूपमहो भावो नरलोकविमोहनम् ।
को न सेवेत मनुजो देवीं त्वाम् स्वयमागताम् ॥२३॥
अहो रूपम्-अहो भाव: O What beauty! What demeanour!
नर-लोक-विमोहनम् for the men's world enchanting!
क: न सेवेत मनुज: Who will not entertain, a man
देवीम् त्वाम् स्वयम्-आगताम् O Celestial lady, you, of own will having come
तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हत: ।
रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥२४॥
तया स: पुरुष-श्रेष्ठ: with her he, of men the jewel
रमयन्त्या यथा-अर्हत: (she) revelled as befittingly
रेमे सुर-विहारेषु revelled in the gods' gardens
कामम् चैत्ररथ-आदिषु at will in Chaitraratha etc.
रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया ।
तन्मुखामोदमुषितो मुमुदेऽहर्गणान् बहून् ॥२५॥
रममाण:-तया देव्या revelling with that lady
पद्म-किञ्जल्क-गन्धया lotus pollen fragrant
तत्-मुख-आमोद-मुषित: her mouth scent intoxicated
मुमुदे-अहर्गणान् बहून् rejoiced years many
अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् ।
उर्वशीरहितं मह्यमास्थानं नातिशोभते ॥२६॥
अपश्यन्-उर्वशीम्-इन्द्र: not seeing Urvashi, Indra,
गन्धर्वान् समचोदयत् the Gandharvas sent
उर्वशी-रहितम् मह्यम्- 'Urvashi without to me
आस्थानम् न-अति-शोभते my heaven does not much appeal'
ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते ।
उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया ॥२७॥
ते उपेत्य महा-रात्रे they reaching in dead of night,
तमसि प्रत्युपस्थिते darkness prevailing
उर्वश्या उरणौ जह्रु:- of Urvashi the two rams stole
न्यस्तौ राजनि जायया pledged with the king, by the wife
निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयो: ।
हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥२८॥
निशम्य-आक्रन्दितम् देवी hearing the cry, the lady
पुत्रयो:-नीयमानयो: of the rams being taken away
हता-अस्मि-अहम् कुनाथेन hit am I by unworthy husband,
नपुंसा वीर-मानिना unmanly, brave considering
यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभि: ।
य: शेते निशि संत्रस्तो यथा नारी दिवा पुमान् ॥२९॥
यत्-विश्रम्भात्-अहम् नष्टा in whom relying, I am destroyed,
हृत-अपत्या च दस्युभि: snatched away are the kids, and by the robbers
य: शेते निशि संत्रस्त: who sleeps in the night in fear
यथा नारी दिवा पुमान् like a woman, in the day is a man
इति वाक्सायकैर्विद्ध: प्रतोत्त्रैरिव कुञ्जर: ।
निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥३०॥
इति वाक्-सायकै:-विद्ध: thus by word arrows pierced
प्रतोत्त्रै:-इव कुञ्जर: by the piercing instrument like an elephant
निशि निस्त्रिंशम्-आदाय in the night, sword taking,
विवस्त्र:-अभ्यद्रवत् रुषा without clothes rushed in anger
ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युत: ।
आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥३१॥
ते विसृज्य-उरणौ तत्र they leaving the rams there
व्यद्योतन्त स्म विद्युत: flashed lightening
आदाय मेषौ-आयान्तम् bringing the rams coming
नग्नम्-ऐक्षत सा पतिम् naked saw she the husband
ऐलोऽपि शयने जायामपश्यन् विमना इव ।
तच्चित्तो विह्वल: शोचन् बभ्रामोन्मत्तवन्महीम् ॥३२॥
ऐल:-अपि शयने जायाम्- Pururavaa also on the bed his wife
अपश्यन् विमना इव not seeing, mind-less like
तत्-चित्त: विह्वल: शोचन् in her the mind anxious and grieving
बभ्राम-उन्मत्त-वत्-महीम् roamed mad man like the earth
स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखी: ।
पञ्च प्रहृष्टवदना: प्राह सूक्तं पुरूरवा: ॥३३॥
स: ताम् वीक्ष्य कुरुक्षेत्रे he, her seeing in Kurukshetra,
सरस्वत्याम् च तत्-सखी: on Sarasvati banks and her friends
पञ्च प्रहृष्ट-वदना: five, delighted faced
प्राह सूक्तम् पुरूरवा: said the Sookta, Pururavaa
अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।
माम् त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै॥३४॥
अहो जाये तिष्ठ तिष्ठ घोरे 'O ! Dear One! stop, stop, in misery
अहो जाये तिष्ठ तिष्ठ घोरे
न त्यक्तुम्-अर्हसि not to leave you should
माम् त्वम्-अद्य-अनिर्वृत्य me you today ungratified,
वचांसि कृणवावहै talk we should to each other
सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।
खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् ॥३५॥
सुदेह:-अयम् पतति-अत्र good body this will fall here
देवि दूरम् हृत:-त्वया O Good lady! far flung from you
खादन्ति-एनम् वृका: गृध्रा:- will eat it wolves and vultures
त्वत्-प्रसादस्य न-आस्पदम् of your favour not granted
उर्वशी-उवाच - Urvashi said -
मा मृथा: पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे ।
क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥३६॥
मा मृथा: पुरुष:-असि त्वम् do not die, man are you
मा स्म त्वा-अद्यु:-वृका: इमे may not you be eaten by the wolves these
क्व-अपि सख्यम् न वै no where also friend not indeed
स्त्रीणाम् वृकाणाम् हृदयम् यथा of women, of wolves the heart is same
स्त्रियो ह्यकरुणा: क्रूरा दुर्मर्षा: प्रियसाहसा: ।
घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥३७॥
स्त्रिय: हि-अकरुणा: क्रूरा: women, indeed are merciless, cruel,
दुर्मर्षा: प्रिय-साहसा: unforgiving, fond of taking risks
घ्नन्ति-अल्प-अर्थे-अपि (they) kill for petty objects also
विश्रब्धम् पतिम् a faithful husband
भ्रातरम्-अपि-उत brother also certainly
विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदा: ।
नवं नवमभीप्सन्त्य: पुंश्चल्य: स्वैरवृत्तय: ॥३८॥
विधाय-अलीक-विश्रम्भम्- investing false faith
अज्ञेषु त्यक्त-सौहृदा: in ignorant (men), leaving all friends
नवम् नवम्-अभीप्सन्त्य: new and newer longing for
पुंश्चल्य: स्वैर-वृत्तय: wayward women at will conduct themselves
संवत्सरान्ते हि भवानेकरात्रं मयेश्वर ।
वत्स्यत्यपत्यानि च ते भविष्यन्त्यपराणि भो: ॥३९॥
संवत्सर-अन्ते हि भवान्- at the year's end certainly, you
एक-रात्रम् मया-ईश्वर for one night, with me O! lord
वत्स्यति-अपत्यानि च ते cohabit, children and your
भविष्यन्ति-अपराणि भो: will be others, O!
अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरम् ।
पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥४०॥
अन्तर्वत्नीम्-उपालक्ष्य देवीम् pregnant seeing the lady
स: प्रययौ पुरम् he returned to the city
पुन:-तत्र गत:-अब्द-अन्ते again there went, at year's end,
उर्वशीम् वीर-मातरम् to Urvashi, a son's mother
उपलभ्य मुदा युक्त: समुवास तया निशाम् ।
अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥४१॥
उपलभ्य मुदा युक्त: being delighted by cohabiting
समुवास तया निशाम् stayed with her the night
अथ-एनम्-उर्वशी प्राह then to him Urvashi said
कृपणम् विरह-आतुरम् sorry by separation impatience
गन्धर्वानुपधावेमांस्तुभ्यं दास्यन्ति मामिति ।
तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप ।
उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने ॥४२॥
गन्धर्वान्-उपधाव-इमान्- the Gandharvas propitiate these
तुभ्यम् दास्यन्ति माम्-इति to you will give me, thus
तस्य संस्तुवत:-तुष्टा: by his praises gratified,
अग्नि-स्थालीम् ददु:-नृप fire vassal gave, O King!
उर्वशीम् मन्यमान:-ताम् Urvashi understanding that to be her
स:-अबुध्यत चरन् वने he thinking roamed the forests
स्थलीं न्यस्य वने गत्वा गृहानाध्यायतो निशि ।
स्थालीम् न्यस्य वने गत्वा गृहानाध्यायतो निशि त्रेतायां संप्रवृत्तायां मनसि त्रय्यवर्तत ॥४३॥
स्थालीम् न्यस्य वने the vessel placing in the forest
गत्वा गृहान्-आध्यायत: निशि went home, contemplated at night
त्रेतायाम् संप्रवृत्तायाम् at Treta yuga's beginning
मनसि त्रयी-अवर्तत in the mind, the three (Vedas) dawned
स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य स: ।
तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥४४॥
स्थाली-स्थानम् गत:-अश्वत्थम् the vessel's spot going to Peepal tree in a Shami
स्थाली-स्थानम् गत:-अश्वत्थम् the vessel's spot going to Peepal tree in a Shami tree
शमी-गर्भम् विलक्ष्य स: in a Shami tree noticing he
तेन द्वे अरणी कृत्वा by that two Arani (fire producing sticks) made
उर्वशी-लोक-काम्यया with Urvashi's realm's desire
उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् ।
आत्मानमुभयोर्मध्ये तत् यत् प्रजननं प्रभु: ॥४५॥
उर्वशीम् मन्त्रत: ध्यायन्- Urvashi, with the mantra contemplating
अधर-अरणिम्-उत्तराम् the lower Arani, the upper
आत्मानम्-उभयो:-मध्ये himself of both in the middle
तत् यत् प्रजननम् प्रभु: that which was born, the lord
तस्य निर्मन्थनाज्जातो जातवेदा विभावसु: ।
त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥४६॥
तस्य निर्मन्थनात्-जात: by that churning were produced
जातवेदा: विभावसु: the Jaatavedas, the fires
त्रय्या: स: विद्यया राज्ञा by that knowledge, by the king
पुत्रत्वे कल्पित:-त्रि-वृत् as a son was adopted in three forms
तेनायजत यज्ञेशं भगवन्तमधोक्षजम् ।
उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् ॥४७॥
तेन-अयजत यज्ञेशम् by that, worshipped the Lord of the sacrifices,
भगवन्तम्-अधोक्षजम् The Lord, beyond sense perceptions,
उर्वशी-लोकम्-अन्विच्छन् Urvashi's realm desiring
सर्व-देवमयम् हरिम् all gods constituting Lord Shree Hari
एक एव पुरा वेद: प्रणव: सर्ववाङ्मय: ।
देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ॥४८॥
एक: एव पुरा वेद: one only formerly was Veda
प्रणव: सर्व-वाङ्मय: Pranava, all speech (encompassing)
देव: नारायण: न-अन्य: Deity Naaraayana, no other
एक:-अग्नि:-वर्ण: एव च one fire, caste also and
पुरुरवस एवासीत् त्रयी त्रेतामुखे नृप ।
अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥४९॥
पुरुरवस: एव-आसीत् from Pururavaa only came
त्रयी त्रेता-मुखे नृप the three Vedas in Treta's beginning, O King!
अग्निना प्रजया राजा by the fire as son, the king
लोकम् गान्धर्वम्-एयिवान् the realm of the Gandharvas' went to
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे ऐलोपाख्याने चतुर्दश: अध्याय:
पञ्चदश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप ।
आयु: श्रुतायु: सत्यायू रयोथ विजयो जय: ॥१॥
ऐलस्य च-उर्वशी-गर्भात् of Aila (Pururavaa) and from Urvashi's womb
षड्-आसन्-आत्मजा: नृप six were sons, O King!
आयु: श्रुतायु: सत्यायु: रय:- Aayu, Shrutaayu, Satyaayu, Raya,
अथ विजय: जय: then Vijaya and Jaya
श्रुतायोर्वसुमान् पुत्र: सत्यायोश्च श्रुतञ्जय: ।
रयस्य सुत एकश्च जयस्य तनयोऽमित: ॥२॥
श्रुतायो:-वसुमान् पुत्र: of Shrutaayu Vasumaan was the son,
सत्यायो:-च श्रुतञ्जय: of Satyaayu and Shrutanjaya,
रयस्य सुत एक:-च Raya's son Eka and
जयस्य तनय:-अमित: Jaya'a son Amita
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्तत: ।
तस्य जह्नु: सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ।
जह्नोस्तु पूरुस्तत्पुत्रो बलाकश्चात्मजोऽजक: ॥३॥
भीम:-तु विजयस्य-अथ Bheema indeed of Vijaya, then,
काञ्चन: होत्रक:-तत: Kaanchana, Hotraka from him,
तस्य-जह्नु: सुत: गङ्गाम् his Jahnu the son, Ganga,
गण्डूषी-कृत्य य:-अपिबत् palms hollow forming, who drank
जह्नो:-तु पूरु:-तत्-पुत्र: of Jahnu indeed Puru, his son
बलाक:-च-आत्मज:-अजक: Balaaka and son Ajaka
तत: कुश: कुशस्यापि कुशाम्बुस्तनयो वसु: ।
कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुज: ॥४॥
तत: कुश: कुशस्य-अपि from him Kusha, of Kusha also
कुशाम्बु:-तनयो: वसु: Kushaambu, Tanaya, Vasu,
कुशनाभ:-च चत्वार: Kushanaabha and four
गाधि:-आसीत् कुशाम्बुज: Gaadhi was of Kushaambu born
तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विज: ।
वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत ॥५॥
तस्य सत्यवतीम् कन्याम्- his Satyavati the daughter
ऋचीक:-अयाचत द्विज: Richika asked for the Braahmana
वरम् विसदृशम् मत्वा the match inappropriate considering
गाधि:-भार्गवम्-अब्रवीत Gaadhi to Bhaaragava (Richika) said
एकत: श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
सहस्रं दीयतां शुल्कं कन्याया: कुशिका वयम् ॥६॥
एकत: श्याम-कर्णानाम् on one side black eared
हयानाम् चन्द्र-वर्चसाम् horses, of moon like white
सहस्रम् दीयताम् शुल्कम् a thousand do give the price
कन्याया: कुशिका: वयम् for the girl, Kushikas we are
इत्युक्तस्तन्मतं ज्ञात्वा गत: स वरुणान्तिकम् ।
आनीय दत्त्वा तानश्वानुपयेमे वराननाम् ॥७॥
इति-उक्त: तत्-मतम् ज्ञात्वा thus told, his intention knowing
गत: स: वरुण-अन्तिकम् went he Varuna near to
आनीय दत्त्वा तान्-अश्वान्- bringing gave those horses
उपयेमे वराननाम् married the beautiful faced one
स ऋषि: प्रार्थित: पत्न्या श्वश्र्वा चापत्यकाम्यया ।
श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनि: ॥८॥
स: ऋषि: प्रार्थित: पत्न्या that sage, requested by the wife
श्वश्रुवा च-अपत्य-काम्यया by mother-in-law and by a son's desire
श्रपयित्वा-उभयै:-मन्त्रै:- having cooked by both the Mantras,
चरुम् स्नातुम् गत: मुनि: the Charu, to bathe went away the sage
तावत् सत्यवती मात्रा स्वचरुं याचिता सती ।
श्रेष्ठं मत्वा तयायच्छन्मात्रे मातुरदत् स्वयम् ॥९॥
तावत् सत्यवती मात्रा meanwhile, Satyavati, by the mother
स्व-चरुम् याचिता सती own Charu asked for
श्रेष्ठम् मत्वा तया-अयच्छत्- better considering, by her was given
मात्रे मातु:-अदत् स्वयम् to the mother, and mother's ate herself
तद् विज्ञाय मुनि: प्राह पत्नीं कष्टमकारषी: ।
घोरो दण्डधर: पुत्रो भ्राता ते ब्रह्मवित्तम: ॥१०॥
तत् विज्ञाय मुनि: प्राह that knowing, the sage said
पत्नीम् कष्टम्-अकारषी: to the wife, 'a blunder have committed
घोर: दण्डधर: पुत्र: a cruel punisher (your) son
भ्राता ते ब्रह्म-वित्तम: brother yours, of Brahman knowers the foremost
प्रसादित: सत्यवत्या मैवं भूदिति भार्गव: ।
अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥११॥
प्रसादित: सत्यवत्या pacified by Satyavati
मा-एवम् भूत्-इति भार्गव: ’Not so may it be', The Bhrigu scion (Richika)
मा-एवम् भूत्-इति भार्गव:
अथ तर्हि भवेत् पौत्र: 'Then, so will be,' grandson
अथ तर्हि भवेत् पौत्र:
जमदग्नि:-तत:-अभवत् Jamadagni, from him was born
सा चाभूत् सुमहापुण्या कौशिकी लोकपावनी ।
रेणो: सुतां रेणुकां वै जमदग्निरुवाह याम् ॥१२॥
सा च-अभूत् सुमहा-पुण्या she and became the most sacred
कौशिकी लोक-पावनी Kaushiki, the worlds sanctifying
रेणो: सुताम् रेणुकाम् वै of Renu, the daughter Renuka, indeed
जमदग्नि:-उवाह याम् Jamadagni had married whom
तस्यां वै भार्गवऋषे: सुता वसुमदादय: ।
यदीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुत: ॥१३॥
तस्याम् वै भार्गव-ऋषे: from her indeed, of the Bhaargava sage,
सुता: वसुमत्-आदय: sons Vasumat and others
यदीयान्-जज्ञे एतेषाम् the youngest was born, among them
राम इति-अभिविश्रुत: Raama thus was well known
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।
त्रि:सप्तकृत्वो य इमां चक्रे नि:क्षत्रियां महीम् ॥१४॥
यम्-आहु:-वासुदेव-अंशम् Who is said to be Vasudeva's part
हैहयानाम् कुल-अन्तकम् of the Haihaya race was the destroyer
त्रि:-सप्त-कृत्व: य: इमाम् three time seven doing, who this (earth)
चक्रे नि:क्षत्रियाम् महीम् made without Kshatriyas, the earth
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् ।
रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि ॥१५॥
दुष्टम् क्षत्रम् भुव: भारम्- the wicked Kshatriyas, of the earth the burden
अब्रह्मण्यम्-अनीनशत् anti-Braahmanas, destroyed
रज:-तम:-वृतम्-अहन् by Rajas and Tamas overshadowed, killed
फल्गुनि-अपि कृते-अंहसि slightest also having committed offence
राजा-उवाच - The King said -
किं तदंहो भगवतो राजन्यैरजितात्मभि: ।
कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णश: ॥१६॥
किम् तत्-अंह: भगवत: what was that offence towards the glorious sage
राजन्यै:-अजित-आत्मभि: by the Kshatriyas, of uncontrolled minds
कृतम् येन कुलम् नष्टम् committed, by which the race was destroyed
क्षत्रियाणाम्-अभीक्ष्णश: of the Kshatriyas, again and again
श्री शुक उवाच - Shree Shuka said -
हैहयानामधिपतिरर्जुन: क्षत्रियर्षभ: ।
दत्तं नारायणस्यांशमाराध्य परिकर्मभि: ॥१७॥
हैहयानाम्-अधिपति:- of the Haihayas the ruler
अर्जुन: क्षत्रिय-ऋषभ: Arjun, the foremost of the Kshatriyas,
दत्तम् नारायणस्य-अंशम्- Dattatreya, Naaraayana's part
आराध्य परिकर्मभि: worshipped by rituals
बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु ।
अव्याहतेन्द्रियौज: श्रीतेजोवीर्ययशोबलम् ॥१८॥
बाहून् दश-शतम् लेभे arms thousand got
दुर्धर्षत्वम्-अरातिषु unconquerable by the enemies
अव्याहत-इन्द्रिय-ओज: uninterrupted senses power
श्री-तेज:-वीर्य-यश:-बलम् affluence, glory, prowess, fame and strength
योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादय: ।
चचाराव्यहतगतिर्लोकेषु पवनो यथा ॥१९॥
योगेश्वरत्वम्-ऐश्वर्यम् Yoga's mastery, effluence
गुणा: यत्र-अणिम्-आदय: in the capacity, where of atomic power and others
चचार-अव्याहत-गति:- roamed with uninterrupted pace
लोकेषु पवन: यथा in the worlds wind like
स्त्रीरत्नैरावृत: क्रीडन् रेवाम्भसि मदोत्कट: ।
वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितम् भुजै: ॥२०॥
स्त्री-रत्नै:-आवृत: क्रीडन् by women jewels surrounded, sporting
रेवा-अम्भसि मद-उत्कट: in Reva's waters, with pride intoxicated
वैजयन्तीम् स्रजम् बिभ्रद् the precious stones necklace donning
रुरोध सरितम् भुजै: obstructed the river with arms
विप्लावितं स्वशिबिरं प्रतिस्रोत: सरिज्जलै: ।
नामृष्यत् तस्य तद् वीर्यं वीरमानी दशानन: ॥२१॥
विप्लावितम् स्व-शिबिरम् flooded own encampment
प्रतिस्रोत: सरित्-जलै: by the counter streams, of the river water
न-अमृष्यत् तस्य तद् वीर्यम् did not appreciate his that valour
वीरमानी दशानन: who took himself to be brave, Raavana
गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्विष: ।
माहिष्मत्यां संनिरुद्धो मुक्तो येन कपिर्यथा ॥२२॥
गृहीत: लीलया स्त्रीणाम् caught hold of as if in sport, in the women's
समक्षम् कृत-किल्विष: front, committed offence
माहिष्मत्याम् संनिरुद्ध: in Maahishmati detained
मुक्त: येन कपि:-यथा set free by whom monkey like
स एकदा तु मृगयां विचरन् विपिने वने ।
यदृच्छयऽऽश्रमपदं जमदग्नेरुपाविशत् ॥२३॥
स: एकदा तु मृगयाम् he one day, indeed, for hunting
विचरन् विपिने वने roaming in dense forest
यदृच्छया-आश्रम-पदम् by chance, the hermitage premises
जमदग्ने:-उपाविशत् of Jamadagni reached
तस्मै स नरदेवाय मुनिरर्हणमाहरत् ।
ससैन्यामात्यवाहाय हविष्मत्या तपोधन: ॥२४॥
तस्मै स: नर-देवाय for him, he, the men's god
मुनि:-अर्हणम्-आहरत् the sage welcome brought
ससैन्य-आमात्य-वाहाय along with the army, ministers, animals
हविष्मत्या तपोधन: by Kaamadhenu's glory, the rich in asceticism
स वीरस्तत्र तद् दृष्वा आत्मैश्वर्यातिशायनम् ।
तन्नाद्रियताग्निहोत्र्यां साभिलाष: स हैहय: ॥२५॥
स: वीर:-तत्र तत् दृष्वा that hero (Arjuna), there, that seeing
आत्म-ऐश्वर्य-अतिशायनम् own effluence surpassing
तत्-न-आद्रियत-अग्निहोत्र्याम् that did not admire, in the Agnihotra cow
साभिलाष: स: हैहय: having desire the Haihaya
हविर्धानीमृषेर्दर्पान्नरान् हर्तुमचोदयत् ।
ते च माहिश्मतीं निन्यु: सवत्सां क्रन्दतीं बलात् ॥२६॥
हविर्धानीम्-ऋषे:-दर्पात्- the Kaamadhenu of the sage, out of arrogance,
नरान् हर्तुम्-अचोदयत् the people to snatch away ordered
ते च माहिश्मतीम् निन्यु: they and to Maahishmati took
सवत्साम् क्रन्दतीम् बलात् with the calf, crying forcefully
अथ राजनि निर्याते राम आश्रम आगत: ।
श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहत: ॥२७॥
अथ राजनि निर्याते then, after the king had left
राम: आश्रमे आगत: Raama (Parashuraama) to the hermitage came
श्रुत्वा तत् तस्य दौरात्म्यम् and heard that his wickedness
चुक्रोध-अहि:-इव-आहत: was enraged, snake like hurt
घोरमादाय परशुं सतूणं चर्म कार्मुकम् ।
अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम् ॥२८॥
घोरम्-आदाय परशुम् ferocious taking axe
सतूणम् चर्म कार्मुकम् with the quiver, the shield, the bow,
अन्वधावत दुर्धर्ष: pursued the formidable
मृगेन्द्र: इव यूथपम् lion like an elephant
तमापतन्तं भृगुवर्यमोजसा धनुर्धरं वाणपरश्वधायुधम् ।
ऐणेयचर्माम्बरमर्कधामभिर्युतं जटाभिर्ददृशे पुरीं विशन् ॥२९॥
तम्-आपतन्तम् भृगुवर्यम्- him approaching, the Bhrigus' foremost,
ओजसा धनु:-धरम् with vehemence bow carrying,
वाण-परश्वध-आयुधम् arrows, axe the weapons
ऐणेय-चर्म-अम्बरम्- antelope skin wearing
अर्क-धामभि:-युतम् by the sun's rays donned
जटाभि:-ददृशे पुरीम् विशन् with matted hair, saw, in the city entering
अचोदयद्-हस्तिरथाश्वपत्तिभिर्गदासिबाणर्ष्टिशतघ्निशक्तिभि: ।
अक्षौहिणी: सप्तदशातिभीषणास्ता राम एको भगवानसूदयत् ॥३०॥
अचोदयत्-हस्ति-रथ-अश्व-पत्तिभि:- sent elephants, chariots, horse riding, foot
गदा-असि-बाण-ऋष्टि- (with) maces, swords, arrows, javelins,
शतघ्नि-शक्तिभि: Shataghnis and darts,
अक्षौहिणी: सप्त-दश- Akshauhinee armies, seven and ten,
अतिभीषणा: ता: राम: एक: very ferocious, those Parashuraam alone
भगवान्-असूदयत् the lord destroyed
यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजा: परचक्रसूदन: ।
ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहना: ॥३१॥
यत: यत:-असौ प्रहरत्-परश्वध: where ever, he, hit the axe wielder
मन:-अनिल-औजा: with mind and wind like speed
पर-चक्र-सूदन: the enemy army tormentor
तत:-तत:-छिन्न-भुज-उरु-कन्धरा: there all, severed arms thighs, necks,
निपेतु:-उर्व्याम् fell on the earth
हत-सूत-वाहना: killed the charioteers and the animals
दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकै: ।
विवृक्णचर्मध्वजचापविग्रहं निपातितं हैहय आपतद् रुषा ॥३२॥
दृष्ट्वा स्व-सैन्यम् seeing his own army
रुधिर-औघ-कर्दमे in blood flooded slush
रण-अजिरे राम-कुठार-सायकै: in the battle field, by Raama's axe and arrows
विवृक्ण-चर्म-ध्वज-चाप-विग्रहम् shattered shield, banners, bows and bodies
निपातितम् हैहय fallen, the Haihaya (Arjun)
आपतत् रुषा rushed in anger
अथार्जुन: पञ्चशतेषु बाहुभिर्धनु:षु बाणान् युगपत् स सन्दधे ।
रामाय रामोऽस्त्रभृतां समग्रणीस्तान्येकधन्वेषुभिराच्छिनत् समम् ॥३३॥
अथ-अर्जुन: पञ्च-शतेषु बाहुभि:- then, Arjun with five hundred arms
धनु:षु-बाणान् युगपत् from the bows the arrows, at once
स: सन्दधे रामाय he charged on Raama
राम:-अस्त्र-भृताम् समग्रणी: Raama, of the weapon wielders' the foremost
तानि-एक-धनु-इषुभि:- those by one bow and arrow
आच्छिनत् समम् cut off simultaneously
पुन: स्वहस्तैरचलान् मृधेऽङ्घ्रिपानुत्क्षिप्य वेगादभिधावतो युधि ।
भुजान् कुठारेण कठोरनेमिना चिच्छेद राम: प्रसभं त्वहेरिव ॥३४॥
पुन: स्व-हस्तै:- again by his own arms
अचलान् मृधे- mountains in the battle field
अङ्घ्रिपान्-उत्क्षिप्य and trees uprooting
वेगात्-अभिधावत: युधि in speed rushed in the battle
भुजान् कुठारेण the arms by the axe
कठोर-नेमिना by the sharp edge
चिच्छेद राम: cut off Raama
प्रसभम् तु-अहे:-इव in one strike, indeed of the serpent like
कृत्तबाहो: शिरस्तस्य गिरे: शृङ्गमिवाहरत् ।
हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥३५॥
कृत्त-बाहो: शिर:-तस्य of cut off arms, head his
गिरे: शृङ्गम्-इव-आहरत् mountain's peak like took off
हते पितरि तत्-पुत्रा: when killed was father, his sons
अयुतम् दुद्रुवु:-भयात् ten thousands, fled in fear
अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा ।
समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥३६॥
अग्निहोत्रीम्-उपावर्त्य the Kaamadhenu cow bringing back
सवत्साम् पर-वीर-हा with the calf, the enemy heroes' killer,
समुपेत्य-आश्रमम् पित्रे returned to the hermitage of the father
परिक्लिष्टाम् समर्पयत् the very distressed, gave back
स्वकर्म तत्कृतं राम: पित्रे भ्रातृभ्य एव च ।
वर्णयामास तंच्छ्रुत्वा जमदग्निरभाषत ॥३७॥
स्व-कर्म तत्-कृतम् राम: own deeds his actions, Raama
पित्रे भ्रातृभ्य: एव च to the father, to the brothers also and
वर्णयामास तत्-श्रुत्वा described, that hearing
जमदग्नि:-अभाषत Jamadagni said
राम राम महाबाहो भवान् पापमकारषीत् ।
अवधीन्नरदेवं यत् सर्वदेवमयं वृथा ॥३८॥
राम राम महाबाहो 'Raama! Raama! O mighty armed one!
राम राम महाबाहो
भवान् पापम्-अकारषीत् you sin have committed
अवधीत्-नर-देवम् killed the mens' god
यत् सर्व-देवमयम् वृथा that all gods inclusive, unpurposefully
वयं हि ब्राह्मणास्तात क्षमयार्हणतां गता: ।
यया लोकगुरुर्देव: पारमेष्ठ्यमगात् पदम् ॥३९॥
वयम् हि ब्राह्मणा:-तात we, indeed are Braahmanas, O Son!
क्षमया-अर्हणताम् गता: by forgiveness adoration have gained
यया लोक-गुरु:-देव: by which of the world's preceptor the deity
पारमेष्ठ्यम्-अगात् पदम् Brahmaa attained the position
क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा ।
क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वर: ॥४०॥
क्षमया रोचते लक्ष्मी:- by forgiveness shines the glory
ब्राह्मी सौरी यथा प्रभा of Brahmaa of the Sun, like the brilliance
क्षमिणाम्-आशु भगवान्- for the forgivers, soon The Lord
तुष्यते हरि:-ईश्वर: is pleased, Hari The All-mighty
राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरु: ।
तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतन: ॥४१॥
राज्ञ: मूर्धा-अभिषिक्तस्य of the king, on the head consecrated,
वध: ब्रह्म-वधात् गुरु: the slaying, Braahmana's killing is more big
तीर्थ-संसेवया च-अंह: by holy places pilgrimaging, and the sin
जहि-अङ्ग-अच्युत-चेतन: wash off, O Dear One! on Lord Vishnu mindful
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे पञ्चदशोऽध्याय: ॥१५॥ Thus ends the fifteenth discourse in Book Nine of the great and glorious
षोडश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन ।
संवत्सरं तीर्थयात्रां चरित्वाऽऽश्रममाव्रजत् ॥१॥
पित्रा-उपशिक्षित: राम:- by the father instructed Raama,
तथा-इति कुरुनन्दन 'so be it', O delighter of the Kurus!
तथा-इति कुरुनन्दन
संवत्सरम् तीर्थ-यात्राम् for one year pilgrimage
चरित्वा-आश्रमम्-आव्रजत् having completed, the hermitage returned to
कदाचिद् रेणुका याता गङ्गायां पद्ममालिनम् ।
गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत् ॥२॥
कदाचिद् रेणुका याता once, Renuka, (Parashuraama's mother), going,
गङ्गायाम् पद्म-मालिनम् in Ganga, lotus garland adorned
गन्धर्व-राजम् क्रीडन्तम्- the Gandharva king sporting
अप्सरोभि:-अपश्यत् with the celestial nymphs, saw
विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता ।
होमवेलां न सस्मार किञ्चिच्चित्ररथस्पृहा ॥३॥
विलोकयन्ती क्रीडन्तम्- watching, the sporting
उदक-अर्थम् नदीम् गता for water's sake, to the river having gone
होम-बेलाम् न सस्मार homa's time did not remember
किञ्चित्-चित्ररथ-स्पृहा somewhat for Chitraratha desired
कालात्ययं तं विलोक्य मुने: शापविशङ्किता ।
आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलि: ॥४॥
काल-अत्ययम् तम् विलोक्य time past that perceiving,
मुने: शाप-विशङ्किता the sage's curse presuming
आगत्य कलशम् तस्थौ coming back, the pitcher kept
पुरोधाय कृत-अञ्जलि: and in front with palms joined (stood)
व्यभिचारं मुनिर्ज्ञात्वा पत्न्या: प्रकुपितोऽब्रवीत् ।
घ्नतैनां पुत्रका: पापामित्युक्तास्ते न चक्रिरे ॥५॥
व्यभिचारम् मुनि:-ज्ञात्वा the unchaste (thought) the sage knowing
पत्न्या: प्रकुपित:-अब्रवीत् of the wife, enraged said,
घ्नत-एनाम् पुत्रका: पापाम्- 'kill her, O sons, this sinful,'
इति-उक्ता:-ते न चक्रिरे thus told, they did not do so
राम: सञ्चोदित: पित्रा भ्रातृन् मात्रा सहावधीत् ।
प्रभावज्ञो मुने: सम्यक् समाधेस्तपसश्च स: ॥६॥
राम: सञ्चोदित: पित्रा Raama, prodded by the father
भ्रातृन् मात्रा सह-अवधीत् the brothers with mother along killed
प्रभावज्ञ: मुने: सम्यक् the power knowing the sage well
समाधे:-तपस:-च स: of the Samaadhi austerities and he
वरेणच्छन्दयामास प्रीत: सत्यवतीसुत: ।
वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥७॥
वरेण-छन्दयामास by a boon adorned
प्रीत: सत्यवती-सुत: delighted Satyavati's son (Jamadagni)
वव्रे हतानाम् राम:-अपि asked to give the boon that the killed, Raama also,
जीवितम् च-अस्मृतिम् वधे restored to life, and forgetting of being killed
उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा ।
पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥८॥
उत्तस्थु:-ते कुशलिन: arose they, well
निद्रा-अपाय इव-अञ्जसा sleep giving up like easily
पितु:-विद्वान्-तप:-वीर्यम् of the father knowing, the austerities power
राम:-चक्रे सुहृद्-वधम् Raama conducted the dear ones killing
ये अर्जुनस्य सुता राजन् स्मरन्त: स्वपितुर्वधम् ।
रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥९॥
ये अर्जुनस्य सुता: राजन् those Arjuna's sons, O King!
स्मरन्त: स्व-पितु:-वधम् remembering their father being killed
राम-वीर्य-पराभूता Raama's prowess vanquished by
लेभिरे शर्म न क्वचित् attained peace no where
एकदाऽऽश्रमतो रामे सभ्रातरि वनं गते ।
वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन् ॥१०॥
एकदा-आश्रमत: रामे one day from the hermitage when Raama
सभ्रातरि वनम् गते with the brothers to the forest had gone
वैरम् सिसाधयिषव: revenge to take eager,
लब्ध-छिद्रा: उपागमन् finding opportunity came
दृष्ट्वाग्न्यगार आसीनमावेशितधियं मुनिम् ।
भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चया: ॥११॥
दृष्ट्वा-अग्नि-आगारे perceiving in the fire chamber
आसीनम्-आवेशित-धियम् मुनिम् seated fixed mind sage
भगवति-उत्तमश्लोके on The Lord of sacred renown
जघ्नु:-ते पाप-निश्चया: killed they, on committing sin bent
याच्यमाना: कृपणया राममात्रातिदारुणा: ।
प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धव: ॥१२॥
याच्यमाना: कृपणया begging helplessly
राम-मात्रा-अति-दारुणा: by Raama's mother, the very cruel
प्रसह्य शिर: उत्कृत्य forcefully the head cutting off
निन्यु:-ते क्षत्रबन्धव: took away they the Kshatriyas
रेणुका दु:खशोकार्ता विघ्नन्त्याऽऽत्मानमात्मना ।
राम रामेहि तातेति विचुकोशोच्चकै: सती ॥१३॥
रेणुका दु:ख-शोक-आर्ता Renuka with sorrow and grief tormented
विघ्नन्त्या-आत्मानम्-आत्मना hitting herself by herself
राम राम-एहि तात-इति 'Raama! Raama come! Son!' thus
राम राम-एहि तात-इति
विचुकोश-उच्चकै: सती plaintively cried, the noble
तदुपश्रुत्य दूरस्थो हा रामेत्यार्तवत्स्वनम् ।
त्वरयाऽऽश्रममासाद्य ददृशे पितरं हतम् ॥१४॥
तत्-उपश्रुत्य दूरस्थ: हा राम- that hearing from far, "Alas Raama!"
इति-आर्त-वत्-स्वनम् thus, distressed like voice
त्वरया-आश्रमम्-आसाद्य in haste to the hermitage reached
ददृशे पितरम् हतम् and saw father killed
तद् दु:खरोषामर्षार्तिशोकवेगविमोहित: ।
हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् ॥१५॥
तत् दु:ख-रोष-अमर्ष-आर्ति- by his agony, anger, indignation, affliction,
शोक-वेग-विमोहित: grief onslaught bewildered
हा तात साधो धर्मिष्ठ 'Ah father! Noble and virtuous
हा तात साधो धर्मिष्ठ
त्यक्त्वा-अस्मान् स्वर्गत: भवान् leaving us, to heaven have gone you'
विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् ।
प्रगृह्य परशुं राम: क्षत्रान्ताय मनो दधे ॥१६॥
विलप्य-एवम् पितु:-देहम् wailing thus, father's body
निधाय भ्रातृषु स्वयम् entrusting to the brothers, himself
प्रगृह्य परशुम् राम: getting hold of the battle-axe, Raama
क्षत्-अन्ताय मन: दधे for Kshatriya's extermination, mind made up
गत्वा माहिष्मतीं रामो ब्रह्मध्नविहतश्रियम् ।
तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥१७॥
गत्वा माहिष्मतीम् राम: going to Maahishmati, Raama
ब्रह्मध्न-विहत-श्रियम् by the Braahmana's killing, devoid of splendour
तेषाम् स: शीर्षभि: राजन् their, he by the heads, O King!
मध्ये चक्रे महा-गिरिम् in the middle formed a huge mountain
तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् ।
हेतुं कृत्वा पितृवधं क्षत्रेऽमङ्गलकारिणि ॥१८॥
तत्-रक्तेन नदीम् घोराम्- by that blood, river ghastly
अब्रह्मण्य-भय-आवहाम् for the anti Braahmanas terror inducing
हेतुम् कृत्वा पितृ-वधम् in the pretext of father's murder
क्षत्रे-अमङ्गल-कारिणि for the Kshatriyas of unrighteous ways
त्रि:सप्तकृत्व: पृथिवीं कृत्वा नि:क्षत्रियां प्रभु: ।
समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नृप ॥१९॥
त्रि:-सप्त-कृत्व: पृथिवीम् three seven times (twenty one), the earth
कृत्वा नि:क्षत्रियाम् प्रभु: rendering, without Kshatriyas, the lord
समन्तपञ्चके चक्रे in Samanta Panchaka made
शोणित-उदान् ह्रदान् नृप blood bodied ponds O King!
पितु: कायेन सन्धाय शिर आदाय बर्हिषि ।
सर्वदेवमयं देवमात्मानमयजन्मखै: ॥२०॥
पितु: कायेन सन्धाय with the father's body attaching
शिर: आदाय बर्हिषि the head placing it on Kusha grass,
सर्व-देव-मयम् देवम्- all the deities inclusive of, the Deity,
आत्मानम्-अयजत्-मखै: The Self propitiated by sacrifices
ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् ।
अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥२१॥
ददौ प्राचीम् दिशम् होत्रे gave away the east direction to the Hota,
ब्रह्मणे दक्षिणाम् दिशम् to Brahmaa, the south direction
अध्वर्यवे प्रतीचीम् वै to the Adhvaryu, the west indeed
उद्गात्रे उत्तराम् दिशम् to the Udgaataa the northern direction
अन्येभ्योऽवान्तरदिश: कश्यपाय च मध्यत: ।
आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्तत: परम् ॥२२॥
अन्येभ्य: अवान्तर-दिश: to the others, the intermediate directions
कश्यपाय च मध्यत: to Kashyapa and the central
आर्यावर्तम्-उपद्रष्ट्रे the Aaryavarta to Upadrashtra
सदस्येभ्य: तत: परम् and to the Sadasyas, from that beyond
ततश्चावभृथस्नानविधूताशेषकिल्विष: ।
सरस्वत्यां ब्रह्मनद्यां रेजे व्यभ्र इवांशुमान् ॥२३॥
तत:-च-अवभृथ-स्नान- after that, and after the sacrifice, bathing
विधूत-अशेष-किल्विष: washed off of all sins
सरस्वत्याम् ब्रह्म-नद्याम् in Sarasvati the Brahma river
रेजे व्यभ्र इव-अंशुमान् shone without clouds like the sun
स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् ।
ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजित: ॥२४॥
स्व-देहम् जमदग्नि:-तु own body, Jamadagni indeed
लब्ध्वा संज्ञान्-अलक्षणम् regained consciousness without description
ऋषीणाम् मण्डले स:-अभूत् in the sages' group he became
सप्तम: राम-पूजित: seventh, by Raama adored
जामदग्न्योऽपि भगवान् राम: कमललोचन: ।
आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥२५॥
जामदग्न्य:-अपि भगवान् Jamadagni's son also, the lord
राम: कमल-लोचन: Raama lotus eyed
आगामिनि-अन्तरे राजन् in the forth coming Manvantara, O King!
वर्तयिष्यति वै बृहत् will propagate, indeed the Vedas
आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्ड: प्रशान्तधी: ।
उपगीयमानचरित: सिद्धगन्धर्वचारणै: ॥२६॥
आस्ते-अद्य-अपि महेन्द्र-आद्रौ is present today also on Mahendra mountain
न्यस्त-दण्ड: प्रशान्त-धी: giving up violence, with a very peaceful mind
उपगीयमान-चरित: being sung his exploits
सिद्ध-गन्धर्व-चारणै: by the Siddhas, Gandharvas and Chaaranas
एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वर: ।
अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥२७॥
एवम् भृगुषु विश्वात्मा thus among the Bhrigus, The Soul of the universe,
भगवान् हरि:-ईश्वर: The Lord Hari Almighty,
अवतीर्य परम् भारम् भुव:- descending, the extreme burden of the earth
अहन् बहुश: नृपान् killed many times the kings
गाधेरभून्महातेजा: समिद्ध इव पावक: ।
तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥२८॥
गाधे:-अभूत्-महातेजा: of Gaadhi was born a very lustrous (son)
समिद्ध: इव पावक: blazing like fire
तपसा क्षात्रम्-उत्सृज्य by austerities Kshatriya-hood giving up,
य: लेभे ब्रह्म-वर्चसम् who acquired Brahmanic glory
विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥२९॥
विश्वामित्रस्य च-एव-आसन् of Vishwaamitra and also were
पुत्रा: एक-शतम् नृप sons one hundred and one, O King!
मध्यम:-तु मधुच्छन्दा the middle one indeed, was Madhuchanda
मधुच्छन्दस: एव ते Madhuchanda only they were
पुत्रं कृत्वा शुनाशेपं देवरातं च भार्गवम् ।
आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥३०॥
पुत्रम् कृत्वा शुनाशेम् son adopting Shunashepa,
देवरातम् च भार्गवम् known as Devaraata, and of the Bhrigu's
आजीगर्तम् सुतान्-आह Ajeegarta's son, to the sons said
ज्येष्ठ एष प्रकल्प्यताम् eldest this understand to be
यो वै हरिश्चन्द्रमखे विक्रीत: पुरुष: पशु: ।
स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥३१॥
य: वै हरिश्चन्द्र-मखे who indeed in Harishchandra's sacrifice
विक्रीत: पुरुष: पशु: sold person the beast (of sacrifice)
स्तुत्वा देवान् प्रजेश-आदीन् extolling the gods, lords of creation and others,
मुमुचे पाश-बन्धनात् was freed from the cord snares
यो रातो देवयजने देवैर्गाधिषु तापस: ।
देवरात इति ख्यात: शुन:शेप: स भार्गव: ॥३२॥
य: रात: देव-यजने who was given in the gods' sacrifice
देवै:-गाधिषु तापस: by the gods, among the Gaadhis, the ascetic
देवरात इति ख्यात: Devaraata thus famous
शुन:शेप: स: भार्गव: Shunashepa, he the Bhaargava
ये मधुच्छन्दसो ज्येष्ठा: कुशलं मेनिरे न तत् ।
अशपत् तान्मुनि: क्रुद्धो म्लेच्छा भवत दुर्जना: ॥३३॥
ये मधुच्छन्दस: ज्येष्ठा: those of the Madhuchandas elders,
कुशलम् मेनिरे न तत् proper thought not that
अशपत् तान्-मुनि: क्रुद्ध: cursed them the sage enraged
म्लेच्छा: भवत दुर्जना: 'Barbarians be, O evil ones!'
म्लेच्छा: भवत दुर्जना:
स होवाच मधुच्छन्दा: सार्धं पञ्चाशता तत: ।
यन्नो भवान् संजानीते तस्मिंस्तिष्ठामहे वयम् ॥३४॥
स: ह-उवाच मधुच्छन्दा: he, then said, Madhuchanda,
सार्धम् पञ्चाशता तत: with the fifty then
यत्-न: भवान् संजानीते what to us you order
तस्मिन्-तिष्ठामहे वयम् in that will abide we
ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि ।
विश्वामित्र: सुतानाह वीरवन्तो भविष्यथ ।
ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥३५॥
ज्येष्ठम् मन्त्र-दृशम् चक्रु:- the eldest of the Mantras the seer making
त्वाम्-अन्वञ्च: वयम् स्म हि you will follow we indeed
विश्वामित्र: सुतान्-आह Vishwaamitra to the sons said,
वीरवन्त: भविष्यथ 'with sons be blessed!'
वीरवन्त: भविष्यथ
ये मानम् मे-अनुगृह्णन्त: who honouring me obeyed
वीरवन्तम्-अकर्त माम् of sons a father rendered me
एष व: कुशिका वीरो देवरातस्तमन्वित ।
अन्ये चाष्टकहारीतजयक्रतुमदादय: ॥३६॥
एष: व: कुशिका: वीर: this of yours, O Kushikas! valiant
देवरात:-तम्-अन्वित Devaraata, him follow
अन्ये च-अष्टक-हारीत- others and Ashtaka, Haarita,
जय-क्रतुमत्-आदय: Jaya, Kratumat and others
एवं कौशिकगोत्रं तु विश्वामित्रै: पृथग्विधम् ।
प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥३७॥
एवम् कौशिक-गोत्रम् तु thus, the Kaushika line indeed
विश्वामित्रै: पृथक्-विधम् from Vishwaamitra of different kind
प्रवरान्तरम्-आपन्नम् Pravara different acquired
तद्धि च-एवम् प्रकल्पितम् that indeed and in this manner was made
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे षोडशोऽध्याय: समाप्त: ॥१६॥ Thus ends the sixteenth discourse in Book Nine of the great and glorious
सप्तदश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
य: पुरूरवस: पुत्र आयुस्तस्याभवन् सुता: ।
नहुष: क्षत्रवृद्धश्च रजी रम्भश्च वीर्यवान् ॥१॥
य: पुरूरवस: पुत्र: आयु:- that of Pururavaa, the son Aayu
तस्य-अभवन् सुता: his were sons
नहुष: क्षत्रवृद्ध:-च Nahusha, Kshatravriddha and
रजि: रम्भ:-च वीर्यवान् Raji and Rambha the valiant
अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् ।
क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रय: ॥२॥
अनेना इति राजेन्द्र शृणु and Anenaa, thus, O King of kings! Hear
क्षत्रवृध:-अन्वयम् of Kshatravridha's posterity
क्षत्रवृद्ध-सुतस्य-आसन् of Kshatravridha's son, were
सुहोत्रस्य-आत्मजा:-त्रय: Suhotra’s sons three
काश्य: कुशो गृत्समद इति गृत्समदादभूत् ।
शुनक: शौनको यस्य बह्वृचप्रवरो मुनि: ॥३॥
काश्य: कुश: गृत्समद इति Kaashya, Kusha, Gritsamada thus,
गृत्समदात्-अभूत् from Gritsamada was born
शुनक: शौनक: यस्य Shunaka, Shaunaka whose (son)
बह्वृच-प्रवर: मुनि: of Rig-Veda the foremost sage
काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतम:पिता ।
धन्वन्तरिर्दैर्घतम आयुर्वेदप्रवर्तक: ॥४॥
काश्यस्य काशि:-तत्-पुत्र: of Kaashya, Kaashi, his son
राष्ट्र: दीर्घतम:-पिता Raashtra, Deerghatama's father,
धन्वन्तरि:-दैर्घतम: Dhanvantaree, Deerghatama's son
आयुर्वेद-प्रवर्तक: of Aaayurveda the exponent
यज्ञभुग् वासुदेवांश: स्मृतमात्रार्तिनाशन: ।
तत्पुत्र: केतुमानस्य जज्ञे भीमरथस्तत: ॥५॥
यज्ञ-भुक् sacrificial offerings partaking,
वासुदेव-अंश: of Vaasudeva part manifestation,
स्मृत-मात्र-अर्ति-नाशन: on being remembered alone, sufferings reliever
तत्-पुत्र: केतुमानस्य his son Ketumaan's
जज्ञे भीमरथ:-तत: was born Bheemaratha from him
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृत: ।
स एव शत्रुजिद् वत्स ऋतध्वज इतीरित: ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्तत: ॥६॥
दिवोदास: then Divodaasa
द्युमान्-तस्मात् Dyumaan from him
प्रतर्दन इति स्मृत: (who) Pratardana thus was known
स: एव शत्रुजिद् he also is Shatrujit
वत्स: ऋतध्वज: Vatsa, Ritadhvaja
इति-इरित: thus is called
तथा कुवलयाश्व-इति प्रोक्त:- and Kubalayaashvaka thus called
अलर्क-आदय:-तत: Alarka and others from him (were born)
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
नालर्कादपरो राजन् मेदिनीं बुभुजे युवा ॥७॥
षष्टि-वर्ष-सहस्राणि sixty years thousands
षष्टि-वर्ष-शतानि च sixty years hundreds
न-अलर्कात्-अपर: राजन् not Alarka other than, O King!
मेदिनीम् बुभुजे युवा the earth ruled young
अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ सुकेतन: ।
धर्मकेतु: सुतस्तस्मात् सत्यकेतुरजायत ॥८॥
अलर्कात् सन्तति:- from Alarka Santatee,
तस्मात् सुनीथ:-अथ सुकेतन: from him Suneethaa, then Suketana
धर्मकेतु: सुत:- Dharmaketu (his) son
तस्मात् सत्यकेतु:-अजायत from him Satyaketu was born
धृष्टकेतु: सुतस्तस्मात् सुकुमार: क्षितीश्वर: ।
वीतिहोत्रस्य भर्गोऽतो भार्गभूमिरभून्नृप: ॥९॥
धृष्टकेतु: सुत:-तस्मात् Dhrishtaketu was the son, from him
सुकुमार: क्षिति-ईश्वर: Sukumaar, the earth's ruler,
वीतिहोत्रस्य भर्ग:-अत: Veetihotra's Bharga then
भार्गभूमि:-अभूत्-नृप: Bhaargabhoomi was born the king
इतीमे काशयो भूपा: क्षत्रवृद्धान्वयायिन: ।
रम्भस्य रभस: पुत्रो गम्भीरश्चाक्रियस्तत: ॥१०॥
इति-इमे काशय: भूपा: thus these of Kaashi the kings
क्षत्रवृद्ध-अन्वयायिन: of Kshatravruddha's lineage
रम्भस्य रभस: पुत्र: of Rambha, Rabhasa the son
गम्भीर:-च-अक्रिय:-तत: Gambheera and Akriya from him
तस्य क्षेत्रे ब्रह्म जज्ञे शृणु वंशमनेनस: ।
शुद्धस्तत: शुचिस्तस्मात् त्रिककुद् धर्मसारथि: ॥११॥
तस्य क्षेत्रे ब्रह्म जज्ञे from his wife, the Braahmanas were born
शृणु वंशम्-अनेनस: hear the lineage of Anena
शुद्ध:-तत: शुचि:-तस्मात् Shuddha from him, Shuchi from him
त्रिककुद् धर्मसारथि: Trikakud, Dharmasaarathi
तत: शान्तरयो जज्ञे कृतकृत्य: स आत्मवान् ।
रजे: पञ्चशतान्यासन् पुत्राणाममितौजसाम् ॥१२॥
तत: शान्तरय: जज्ञे from him Shaantaraya was born
कृतकृत्य: स: आत्मवान् had obtained the objective, he was enlightened
रजे: पञ्च-शतानि-आसन् of Raji five hundred were
आसन् अमित-औजसाम् sons of undiminished strength
देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् ।
इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजे: ॥१३॥
देवै:-अभ्यर्थित: दैत्यान् by the gods requested, the Daityas
हत्वा-इन्द्राय-अददाद् दिवम् killing, to Indra gave the heaven
इन्द्र:-तस्मै पुन:-दत्त्वा Indra to him again giving
गृहीत्वा चरणौ रजे: held the feet of Raji
आत्मानमर्पयामास प्रह्लादाद्यरिशङ्कित: ।
पितर्युपरते पुत्रा याचमानाय नो ददु: ॥१४॥
आत्मानम्-अर्पयामास himself surrendered
प्रह्लाद-आदि-अरि-शङ्कित: by Prahlaada and other enemies afraid of
पितरि-उपरते पुत्रा: father having died, the sons
याचमानाय न: ददु: even asked for, did not give (the heaven)
त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददु: ।
गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजे: ॥१५॥
त्रिविष्टपम् महेन्द्राय (did not give) the heaven to Indra
यज्ञ-भागान् समाददु: the sacrifice offerings took
गुरुणा हूयमाने-अग्नौ by the preceptor oblated into the fire
बलभित् तनयान् रजे: Indra (killed) the sons of Raji
अवधीद् भ्रंशितान् मार्गान्न कश्चिदवशेषित: ।
कुशात् प्रति: क्षात्रवृद्धात् सञ्जयस्तत्सुतो जय: ॥१६॥
अवधीद् भ्रंशितान् मार्गात्- killed deviated from path (of virtue)
न कश्चित्-अवशेषित: not any one remained
कुशात् प्रति: क्षात्रवृद्धात् from Kusha Prati, from Kshaatravriddha
सञ्जय:-तत्-सुत: जय: Sanjaya, his son Jaya
तत: कृत: कृतस्यापि जज्ञे हर्यवनो नृप: ।
सहदेवस्ततो हीनो जयसेनस्तु तत्सुत: ॥१७॥
तत: कृत: कृतस्य-अपि from him Krita, Krita's also was
जज्ञे हर्यवन: नृप: born Haryavana the king
सहदेव:-तत: हीन: Sahadeva from him, then Heena,
जयसेन:-तु तत्-सुत: Jayasena indeed was his son
सङ्कृतिस्तस्य च जय: क्षत्रधर्मा महारथ: ।
क्षत्रवृद्धान्वया भूपा: शृणु वंशं च नाहुषात् ॥१८॥
सङ्कृति:-तस्य च जय: Sankriti, his and Jaya
क्षत्र-धर्मा महारथ: adhering to Kshatriya's conduct, great charioteer
क्षत्रवृद्ध-अन्वया: भूपा: Kshatravridha's lineage the kings,
शृणु वंशम् च नाहुषात् hear of the line and from Nahusha
श्रीमद्भागवते महापुराणे पारमहंस्यां सम्हितायां नवम स्कन्धे चन्द्रवंशानुवर्णने सप्तदशोऽध्याय:
अष्टादश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
यतिर्ययाति: संयातिरायतिर्वियति: कृति: ।
षडिमे नहुषस्यासन्निन्द्रियाणीव देहिन: ॥१॥
यति:-ययाति: संयाति:- Yati, Yayaati, Sanyaati,
आयति:-वियति: कृति: Aayati, Viyati, Kriti
षडिमे नहुषस्य-आसन्- six these of Nahusha were (sons)
इन्द्रियाणि-इव देहिन: senses, like of embodied souls
राज्यं नैच्छद् यति: पित्रा दत्तं तत्परिणामवित् ।
यत्र प्रविष्ट: पुरुष आत्मानं नावबुध्यते ॥२॥
राज्यम् न-इच्छद् यति: kingdom did not want Yati
पित्रा दत्तम् तत्-परिणाम-वित् by the father given, its results knowing
यत्र प्रविष्ट: पुरुष: where after entering a man
आत्मानम् न-अवबुध्यते himself does not know
पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद् द्विजै: ।
प्रापितेऽजगरत्वं वै ययातिरभवन्नृप: ॥३॥
पितरि भ्रंशिते स्थानात्- father having been hurled from his place (heaven)
इन्द्राण्या धर्षणात् द्विजै: with Indra's wife misconduct, by the Braahmanas
प्रापिते-अजगरत्वम् and having attained to a python
वै ययाति:-अभवत्-नृप: indeed Yayaati became the king
चतसृष्वादिशद् दिक्षु भ्रातृन् भ्राता यवीयस: ।
कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वण: ॥४॥
चतसृषु-आदिशत् दिक्षु in the four appointed the directions,
भ्रातृन् भ्राता यवीयस: the brothers, the brother the younger ones
कृत-दार: जुगोप-ऊर्वीम् taken wife ruled the earth
काव्यस्य वृषपर्वण: of Shukraachaaryaa and Vrishaparva
राजा-उवाच - The King said -
ब्रह्मर्षिर्भगवान् काव्य: क्षत्रबन्धुश्च नाहुष: ।
राजन्यविप्रयो: कस्माद् विवाह: प्रतिलोमक: ॥५॥
ब्रह्मर्षि:-भगवान् काव्य: Brahmanic sage the lord, Shukraachaaryaa
क्षत्रबन्धु:-च नाहुष: Kshatriya and Nahusha's son
राजन्य-विप्रयो: कस्माद् of the royal and Braahmana, how
विवाह: प्रतिलोमक: was marriage of the opposite
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।
सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥६॥
एकदा दानव-इन्द्रस्य one day the Daanava chief's
शर्मिष्ठा नाम कन्यका Sharmishthaa named daughter,
सखी-सहस्र संयुक्ता with companions a thousand accompanied by
गुरु-पुत्र्या च भामिनी and the preceptor's daughter, and the proud
देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले ।
व्यचरत् कलगीतालिनलिनीपुलिनेऽबला ॥७॥
देवयान्या पुर-उद्याने with Devayanee, in the city garden
पुष्पित-द्रुम-सङ्कुले flowering trees clusters
व्यचरत् कल-गीत-अलि- roamed, resounding the humming of the bees
नलिनी-पुलिने-अबला with lotus ponds, the weak one
ता जलाशयमासाद्य कन्या: कमललोचना: ।
तीरे न्यस्य दुकूलानि विजह्रु: सिञ्चतीर्मिथ: ॥८॥
ता: जलाशयम्-आसाद्य they the pond reaching,
कन्या: कमल-लोचना: the girls, lotus eyed
तीरे न्यस्य दुकूलानि on the bank placing the clothes,
विजह्रु: सिञ्चती:-मिथ: sported, sprinkling one another (with water)
वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् ।
सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिता: स्त्रिय: ॥९॥
वीक्ष्य व्रजन्तम् गिरिशम् perceiving going Lord Shankara
सह देव्या वृष-स्थितम् with the Goddess (Paarvati), on the bull mounted
सहसा-उत्तीर्य वासांसि suddenly coming out, clothes
पर्यधु:-व्रीडिता: स्त्रिय: put on, ashamed the ladies
शर्मिष्ठाजानती वासो गुरुपुत्र्या: समव्ययत् ।
स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥१०॥
शर्मिष्ठा-अजानती वास: Sharmishthaa, unknowingly, the clothes
गुरु-पुत्र्या: समव्ययत् of the preceptor's daughter wore
स्वीयम् मत्वा प्रकुपिता own mistaking for, enraged
देवयानी इदम्-अब्रवीत् Devayaanee, this said
अहो निरीक्ष्यतामस्या दास्या: कर्मह्यसाम्प्रतम् ।
अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥११॥
अहो निरीक्ष्यताम्-अस्या: ’Oh! Look at this
अहो निरीक्ष्यताम्-अस्या:
दास्या: कर्म-हि-असाम्प्रतम् maid's act indeed imprudent
अस्मत्-धार्यम् धृतवती by us to be worn, has worn
शुनी-इव हवि:-अध्वरे bitch like oblation of a sacrifice'
यैरिदं तपसा सृष्टं मुखं पुंस: परस्य ये ।
धार्यते यैरिह ज्योति: शिव: पन्थाश्च दर्शित: ॥१२॥
यै:-इदम् तपसा सृष्टम् by whom this (world), by austerities created
मुखम् पुंस: परस्य ये the mouth of The Person Primary who are
धार्यते यै:-इह ज्योति: is upheld by whom, here the lustrous
शिव: पन्था:-च दर्शित: the blessed path and revealed
यान् वन्दन्त्युपतिष्ठन्ते लोकनाथा: सुरेश्वरा: ।
भगवानपि विश्वात्मा पावन: श्रीनिकेतन: ॥१३॥
यान् वन्दन्ति-उपतिष्ठन्ते whom pray, worship
लोकनाथा: सुर-ईश्वरा: the spheres' guardians, of the gods' the rulers,
भगवान्-अपि विश्वात्मा The Almighty Lord also, of the universe the Soul,
पावन: श्री-निकेतन: The Purifier, of Shree The Abode
वयं तत्रापि भृगव: शिष्योऽस्या न: पितासुर: ।
अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥१४॥
वयम् तत्र-अपि भृगव: we, moreover are Bhrigus
शिष्य:-अस्या न: पिता-असुर: disciple of her, our father the demon
अस्मत्-धार्यम् धृतवती by us to be worn, has worn
शूद्र: वेदम्-इव-असती Shudra the Vedas, like learns
एवं शपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत ।
रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा ॥१५॥
एवम् शपन्तीम् शर्मिष्ठा to the thus cursing, Sharmishthaa
गुरु-पुत्रीम्-अभाषत to the preceptor's daughter said
रुषा श्वसन्ति-उरङ्गी-इव धर्षिता in anger hissing, female serpent like hit
दष्ट-दच्छदा lips biting
आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि ।
किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥१६॥
आत्म-वृत्तम्-अविज्ञाय own status not knowing
कत्थसे बहु भिक्षुकि brag much, O Beggar!
किम् न प्रतीक्षसे-अस्माकम् don't you wait at our
गृहान् बलि-भुज: यथा houses, crows like
एवं विधै: सुपुरुषै: क्षिप्त्वाऽऽचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत कूपे वास आदाय मन्युना ॥१७॥
एवम् विधै: सुपुरुषै: क्षिप्त्वा- thus, with such harsh words, insulting
आचार्य-सुताम् सतीम् the preceptor's daughter, the noble
शर्मिष्ठा प्राक्षिपत कूपे Sharmishthaa pushed in the well
वास आदाय मन्युना clothes taking away in anger
तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् ।
प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥१८॥
तस्याम् गतायाम् स्व-गृहम् her having gone to her house
ययाति:-मृगयाम् चरन् Yayaati, for hunting roaming
प्राप्त: यदृच्छया कूपे reached by chance to the well
जल-अर्थी ताम् ददर्श ह water desiring, her saw indeed
दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवासे ।
गृहीत्वा पाणिना पाणिमुज्जहार दयापर: ॥१९॥
दत्त्वा स्वम्-उत्तरम् वास:- giving his own the upper cloth
तस्यै राजा विवासे to her, king, the naked
गृहीत्वा पाणिना पाणिम्- holding by hand, the hand
उज्जहार दया-पर: lifted out, the kind hearted
तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।
राजंस्त्वया गृहीतो मे पाणि: परपुरञ्जय ॥२०॥
तम् वीरम्-आह-औशनसी to him the hero, said Usana's daughter
प्रेम-निर्भरया गिरा with love filled voice
राजन्-त्वया गृहीत: मे 'O King! By you is held my
राजन्-त्वया गृहीत: मे
पाणि: परपुरञ्जय hand, of enemies cities' conqueror!'
हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे ।
एष ईशकृतो वीर सम्बन्धो नौ न पौरुष: ।
यदिदं कूपलग्नाया भवतो दर्शनं मम ॥२१॥
हस्त-ग्राह:-अपर: मा भूद् hand holding, by another may not be
गृहीताया:-त्वया हि मे having been held by you, indeed my
एष: ईश-कृत: वीर this is by The Lord ordained, O Valiant one!
सम्बन्ध: नौ न पौरुष: relation ours, not by mortal
यत्-इदम्-कूप-लग्नाया: that this in the well fallen
भवत: दर्शनम् मम your sight to me
न ब्राह्मणो मे भविता हस्तग्राहो महाभुज ।
कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥२२॥
न ब्राह्मण: मे भविता not a Braahmana, my will be
हस्त-ग्राह: महाभुज the hand holder (husband), O Long armed one!
कचस्य बार्हस्पत्यस्य by Kaccha, the son of Brihaspati
शापाद् यम्-अशपम् पुरा curse, whom I had cursed before
ययातिरनभिप्रेतं दैवोपहृतमात्मन: ।
मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वच: ॥२३॥
ययाति:-अनभिप्रेतम् to Yayaati was not desireable
दैव-उपहृतम्-आत्मन: by fate ordained to himself,
मन:-तु तत्-गतम् बुद्ध्वा (own) mind also, to her inclined understanding
प्रतिजग्राह तत्-वच: accepted her words
गते राजनि सा वीरे तत्र स्म रुदती पितु: ।
न्यवेदयत् तत: सर्वमुक्तं शर्मिष्ठया कृतम् ॥२४॥
गते राजनि सा वीरे having gone the king, she, the valiant,
तत्र स्म रुदती पितु: there, from crying to her father
न्यवेदयत् तत: सर्वम्-उक्तम् related then, all said
शर्मिष्ठया कृतम् by Sharmishthaa was done
दुर्मना भगवान् काव्य: पौरोहित्यं विगर्हयन् ।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥२५॥
दुर्मना भगवान् काव्य: disheartened, the glorious Kaavya
पौरोहित्यम् विगर्हयन् priesthood condemning
स्तुवन् वृत्तिम् च कापोतीम् praising the life and of a pigeon
दुहित्रा स: ययौ पुरात् with the daughter he went from the city
वृशपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् ।
गुरुं प्रसादयन् मूर्ध्ना पादयो: पतित: पथि ॥२६॥
वृशपर्वा तम्-आज्ञाय Vrishaparva, that knowing
प्रत्यनीक-विवक्षितम् of the enemy's conspiracy
गुरुम् प्रसादयन् the preceptor to pacify
मूर्ध्ना पादयो:पतित: पथि by the head in the feet, fell in the way
क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गव: ।
कामोऽस्या: क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥२७॥
क्षण-अर्ध-मन्यु:-भगवान् moment half of anger of the glorious
शिष्यम् व्याचष्ट भार्गव: to the disciple said the scion of the Bhrigus
काम:-अस्या: क्रियताम् राजन् desire her's be fulfilled, O king!
न-एनाम् त्यक्तुम्-इह-उत्सहे not her to leave here am able
तथेत्यवस्थिते प्राह देवयानी मनोगतम् ।
पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥२८॥
तथा-इति-अवस्थिते प्राह 'so be it', and standing, said
तथा-इति-अवस्थिते प्राह
देवयानी मनोगतम् Devayanee, here heart's desire
पित्रा दत्ता यत: यास्ये 'by father given, where (I) go
पित्रा दत्ता यत: यास्ये
सानुगा यातु माम्-अनु along with (the attendents) may go, me following
स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् ।
देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥२९॥
स्वानाम् तत् सङ्कटम् वीक्ष्य of own people that danger perceiving
तत्-अर्थस्य च गौरवम् of that purpose and the magnitude
देवयानीम् पर्यचरत् Devayanee served
स्त्री-सहस्रेण दास-वत् with women thousand, servant like
नाहुषाय सुताम् दत्त्वा सह शर्मिष्ठयोशना ।
तमाह राजञ्छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥३०॥
नाहुषाय सुताम् दत्त्वा to Nahusha's son (Yayaati), daughter giving,
सह शर्मिष्ठया-उशना with Sharmishthaa, Shukraachaaryaa
तम्-आह राजन्-शर्मिष्ठाम्- to him said, 'O King! Sharmishthaa
आधा:-तल्पे न कर्हिचित् bring to bed not ever'
विलोक्यौशनसीं राजञ्छर्मिष्ठा सप्रजां क्वचित् ।
तमेव बब्रे रहसि सख्या: पतिमृतौ सती ॥३१॥
विलोक्य-औशनसीम् राजन्- perceiving Shukraachaarya's daughter, O King!
शर्मिष्ठा सप्रजाम् क्वचित् Sharmishthaa, with a son, once
तम्-एव बब्रे रहसि to him only said in seclusion
सख्या: पतिम्-ऋतौ सती her friend's husband, in period when
राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।
स्मरञ्छुक्रवच: काले दिष्टमेवाभ्यपद्यत ॥३२॥
राजपुत्र्या-अर्थित:-अपत्ये by the princess requested for progeny,
धर्मम् च-अवेक्ष्य धर्मवित् righteousness considering, righteousness knower,
स्मरन्-शुक्र-वच: काले remembering Shukra's words in time,
दिष्टम्-एव-अभ्यपद्यत destiny only considered
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं पूरुं च शर्मिष्ठा वार्षपर्वणी ॥३३॥
यदुम् च तुर्वसुम् च-एव Yadu, and Turvasu and also
देवयानी व्यजायत Devayanee gave birth to
द्रह्युम् च-अनुम् पूरुम् च Drahyu and Anu, Pooru and
शर्मिष्ठा वार्षपर्वणी Sharmishthaa, Vrishparva's daughter
गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी ।
देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥३४॥
गर्भ-सम्भवम्-आसुर्या conceived of Asura's daughter
भर्तु:-विज्ञाय मानिनी by husband knowing, the haughty
देवयानी पितु:-गेहम् Devayanee father's house
ययौ क्रोध-विमूर्छिता went to, in anger overwhelmed
प्रियामनुगत: कामी वचोभिरुपमन्त्रयन् ।
न प्रसादयितुं शेके पादसंवाहनादिभि: ॥३५॥
प्रियाम्-अनुगत: कामी the beloved following, the uxorious
वचोभि:-उपमन्त्रयन् by words pleasing
न प्रसादयितुम् शेके did not to pacify was able
पाद-संवाहन-आदिभि: by feet kneading and such
शुक्रस्तमाह कुपित: स्त्रीकामानृतपूरुष ।
त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥३६॥
शुक्र:-तम्-आह कुपित: Shukra to him said enraged
स्त्री-कामा-अनृत-पूरुष 'Hankering after women, untruthful man
स्त्री-कामा-अनृत-पूरुष
त्वाम् जरा विशताम् to you old age may overtake
मन्द विरूपकरणी नृणाम् O Fool! which disfigures human beings'
ययाति:-उवाच - Yayaati said -
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते ।
व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥३७॥
अतृप्त:-अस्मि-अद्य unsated am I today
कामानाम् ब्रह्मन् of pleasures, O Holy Braahmana!
दुहितरि स्म ते with daughter of yours
व्यत्यस्यताम् यथा-कामम् 'interchange, at will,
व्यत्यस्यताम् यथा-कामम्
वयसा य:-अभिधास्यति with age who wants to give'
इति लब्धव्यवस्थान: पुत्रं ज्येष्ठमवोचत ।
यदो तात प्रतीच्छेमां जरां देहि निजं वय: ॥३८॥
इति लब्ध-व्यवस्थान: this having got the arrangement,
पुत्रम् ज्येष्ठम्-अवोचत to the son, eldest said
यदो तात प्रतीच्छ-इमाम् 'O Yadu, son! take this
यदो तात प्रतीच्छ-इमाम्
जराम् देहि निजम् वय: old age, give your youth'
मातामहकृतां वत्स न तृप्तो विषयेष्वहम् ।
वयसा भवदीयेन रंस्ये कतिपया: समा: ॥३९॥
मातामह-कृताम् वत्स by (your) maternal grandfather inflicted, O Son!
न तृप्त: विषयेषु-अहम् Not sated in sense pleasures, I,
वयसा भवदीयेन by age yours
रंस्ये कतिपया: समा: will enjoy for some years
यदु:-उवाच - Yadu said -
नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव ।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुष: ॥४०॥
न-उत्सहे जरसा स्थातुम्- am not interested in old age to be,
अन्तरा प्राप्तया तव in the middle, obtained by you
अविदित्वा सुखम् ग्राम्यम् not knowing the pleasures of the senses
वैतृष्ण्यम् न-एति पूरुष: dispassion does not achieve man
तुर्वसुश्चोदित: पित्रा द्रुह्युश्चानुश्च भारत ।
प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धय: ॥४१॥
तुर्वसु:-च-उदित: पित्रा Turvasu and told by the father,
द्रुह्यु:-च-अनु:-च भारत Druhyu and Anu and, O Scion of the Bharatas!
प्रत्याचख्यु:-अधर्मज्ञा: replied, (they) not knowers of righteousness
हि-अनित्ये नित्य-बुद्धय: indeed in the transient having the eternal's sense
अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।
न त्वमग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥४२॥
अपृच्छत् तनयम् पूरुम् asked the son Pooru,
वयसा-ऊनम् गुण-अधिकम् in age small, in virtues superior
न त्वम्-अग्रज-वद् वत्स 'not you, elder brothers like, O Son!
न त्वम्-अग्रज-वद् वत्स
माम् प्रत्याख्यातुम्-अर्हसि To me, to refuse are able'
पूरु:उवाच - Pooru said -
को नु लोके मनुष्येन्द्र पितुरात्मकृत: पुमान् ।
प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥४३॥
क: नु लोके मनुष्येन्द्र who indeed in this world, O Ruler of men!
पितु:-आत्मकृत: पुमान् of the father, self created man
प्रतिकर्तुम् क्षम: यस्य to repay is capable, by whose
प्रसादात् विन्दते परम् grace achieves the Supreme
उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यम: ।
अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितु: ॥४४॥
उत्तम:-चिन्तितम् कुर्यात् the best (son is), thought of may do
प्रोक्त-कारी तु मध्यम: told, and does indeed is mediocre
अधम:-अश्रद्धया कुर्यात्- the lowest with irreverence may do,
अकर्ता-उच्चरितम् पितु: does not do, is refuse of father
इति प्रमुदित: पूरु: प्रत्यगृह्णाज्जरां पितु: ।
सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥४५॥
इति प्रमुदित: पूरु: thus with delight Pooru
प्रत्यगृह्णात्-जराम् पितु: accepted old age of father
स:-अपि तत्-वयसा कामान् he also by that age, desires
यथा-वत्-जुजुषे नृप like before enjoyed O King!
सप्तद्वीपपति: सम्यक् पितृवत् पालयन् प्रजा: ।
यथोपजोषं विषयाञ्जुजुषेऽव्याहतेन्द्रिय: ॥४६॥
सप्त-द्वीप-पति: सम्यक् of the seven continents the ruler, very well,
पितृ-वत् पालयन् प्रजा: father like protecting the people
यथा-उपजोषम् विषयान्- as per pleasure, the sense objects
जुजुषे-अव्याहत-इन्द्रिय: enjoyed with undiminished senses
देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभि: ।
प्रेयस: परमां प्रीतिमुवाह प्रेयसी रह: ॥४७॥
देवयानी-अपि-अनुदिनम् Devayanee also, day after day,
मन:-वाक्-देह-वस्तुभि: by mind, speech, body and articles
प्रेयस: परमाम् प्रीतिम्- to the dear (husband) supreme delight
उवाह प्रेयसी रह: extended the beloved in private
अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणै: ।
सर्वदेवमयं देवं सर्वदेवमयं हरिम् ॥४८॥
अयजद् यज्ञ-पुरुषम् propitiated (Yayaati), the sacrifice presiding Lord,
क्रतुभि:-भूरि-दक्षिणै: by sacrifices of liberal gifts
सर्व-देवमयम् देवम् the all gods encompassing Deity
सर्व-देवमयम् हरिम् The All gods encompassing Lord Shree Hari
यस्मिन्निदं विरचितं व्योम्नीव जलदावलि: ।
नानेव भाति नाभाति स्वप्नमायामनोरथ: ॥४९॥
यस्मिन्-इदम् विरचितम् in Whom this created (world)
व्योम्नि-इव जलद-अवलि: in the sky, like of clouds a mass
नाना-इव भाति न-आभाति various like appears, does not appear
स्वप्न-माया-मनोरथ: dream, illusion, fancy
तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।
नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥५०॥
तम्-एव हृदि विन्यस्य Him alone in the heart placing
वासुदेवम् गुहाशयम् Vaasudeva in the core of the heart
नारायणम्-अणीयांसम् Naaraayana the subtler of the subtle
निराशी:-अयजत् प्रभुम् desire less worshipped The Lord
एवं वर्ष सहस्राणि मन:षष्ठैर्मन:सुखम् ।
विदधानोऽपि नातृप्यत् सार्वभौम: कदिन्द्रियै: ॥५१॥
एवम् वर्ष सहस्राणि thus for years a thousand
मन:-षष्ठै:-मन-:सुखम् by mind the sixth, heart's desires
विदधान:-अपि न-अतृप्यत् enjoying also was not sated
सार्वभौम: कदिन्द्रियै: the emperor by the wicked senses
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् नवमे स्कन्धे अष्टादशोऽध्याय: ॥१८॥ Thus ends the eighteenth discourse in Book Nine of the great and
एकोनविंश: अध्याय:
श्री शुक उवाच- Shree Shuka said -
स इत्थमाचरन् कामान् स्त्रैणोऽपह्नवमात्मन: ।
बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥१॥
स: इत्थम्-आचरन् कामान् he, in this way enjoying pleasures,
स्त्रैण:-अपह्नवम्-आत्मन: given to women, spiritual fall of himself
बुद्ध्वा प्रियायै निर्विण्ण: realizing, to the beloved, disgusted
गाथाम्-एताम्-अगायत story this narrated
शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि ।
धीरा यस्यानुशोचन्ति वने ग्रामनिवासिन: ॥२॥
शृणु भार्गवि-अमूम् गाथाम् 'Listen, O Bhaargavi! this story
शृणु भार्गवि-अमूम् गाथाम्
मत्-विध-आचरिताम् भुवि of my like conduct on the earth,
धीरा: यस्य-अनुशोचन्ति the wise, of whose grieve about,
वने ग्राम-निवासिन: in the forest, of those in the villages living
बस्त एको वने कश्चित् विचिन्वन् प्रियमात्मन: ।
ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥३॥
बस्त: एक: वने कश्चित् goat one in the forest some
विचिन्वन् प्रियम्-आत्मन: looking for something good for himself
ददर्श कूपे पतिताम् saw in the well fallen
स्व-कर्म-वश-गाम्-अजाम् by own actions prompted a she goat
तस्या उद्धरणोपायं बस्त: कामी विचिन्तयन् ।
व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी ॥४॥
तस्या: उद्धरण-उपायम् her to rescue means
बस्त: कामी विचिन्तयन् the goat passionate thinking
व्यधत्त तीर्थम्-उद्धृत्य made the earth digging
विषाण-अग्रेण रोधसी by the horn's end near the edge
सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल।
तया वृतं समुद्वीक्ष्य बह्व्योऽजा: कान्तकामिनी: ॥५॥
सा-उत्तीर्य कूपात् सुश्रोणी she climbing out from the well, the beautiful,
तम्-एव चकमे किल him alone loved indeed
तया वृतम् समुद्वीक्ष्य by her selected, observing
बह्व्य:-अजा: कान्त-कामिनी: many she goats, were for husband desirous
पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् ।
स एकोऽजवृषस्तासां बह्वीनां रतिवर्धन: ।
रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥६॥
पीवानम् श्मश्रुलम् प्रेष्ठम् stout, with beard and moustache, most lovable,
मीढ्वांसम् याभ-कोविदम् capable of giving pleasure, in love-making expert
स: एक:-अज: वृष:-तासाम् that one goat, bull like to them
बह्वीनाम् रति-वर्धन: to many passion enhancer
रेमे काम-ग्रह-ग्रस्त: sported by passion alligator caught
आत्मानम् न-अवबुध्यत the self did not know
तमेव प्रेष्ठतमया रममाणमजान्यया ।
विलोक्य कूपसंविग्ना नामृष्यद् बस्तकर्म तत् ॥७॥
तम्-एव प्रेष्ठतमया him thus with the loving
रममाणम्-अजा-अन्यया sporting, she goat with other
विलोक्य कूप-संविग्ना seeing, in the well fallen
न-अमृष्यत् बस्त-कर्म तत् did not appreciate goat's action that
तं दुर्हृदं सुहृद्रूपम् कामिनं क्षणसौहृदम् ।
इन्द्रियाराममुत्सृज्य स्वामिनं दु:खिता ययौ ॥८॥
तम् दुर्हृदम् सुहृत्-रूपम् him, the wicked hearted, friend in disguise,
कामिनम् क्षण-सौहृदम् lustful, for a moment loving
इन्द्रिय-आरामम्-उत्सृज्य sense gratifying deserting
स्वामिनम् दु:खिता ययौ the master, pained went away
सोऽपि चानुगत: स्त्रैण: कृपणस्तां प्रसादितुम् ।
कुर्वन्निडविडाकारं नाशक्नोत् पथि संधितुम् ॥९॥
स:-अपि च-अनुगत: स्त्रैण: he also and following, the fond of women,
कृपण:-ताम् प्रसादितुम् wretched, her to pacify
कुर्वन्-इडविडाकारम् uttering bleats
न-अशक्नोत् पथि संधितुम् was not able, in the way to please
तस्यास्तत्र द्विज: कश्चिदजास्वाम्यच्छिनद् रुषा ।
लम्बन्तं वृषणं भूय: सन्दधेऽर्थाय योगवित् ॥१०॥
तस्या:-तत्र द्विज: कश्चित्- her's there, Braahmana some
अजा-स्वामी-अच्छिनद् रुषा the she goat's master, cut off in rage
लम्बन्तम् वृषणम् भूय: the long testicles, again
सन्दधे-अर्थाय योग-वित् attached, for a purpose, the Yoga knower
सम्बद्धवृषण: सोऽपि ह्यजया कूपलब्धया ।
कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥११॥
सम्बद्ध-वृषण: स:-अपि with the attached testicles, he also
हि-अजया कूप-लब्धया indeed with the she goat from the well obtained
कालम् बहु-तिथम् भद्रे for time of many days, O Dear one!
कामै:-न-अद्य-अपि तुष्यति by sense pleasures, not today also is satiated
तथाहं कृपण: सुभ्रु भवत्या प्रेमयन्त्रित: ।
आत्मानं नाभिजानामि मोहितस्तव मायया ॥१२॥
तथा-अहम् कृपण: in the same way, I the wretched
सुभ्रु भवत्या प्रेम-यन्त्रित: O Beautiful one! By your love mechanized
आत्मानम् न-अभिजानामि the Self do not know
मोहित:-तव मायया by your charm deluded
यत् पृथिव्यां व्रीहियवं हिरण्यं पशव: स्त्रिय: ।
न दुह्यन्ति मन:प्रीतिं पुंस: कामहतस्य ते ॥१३॥
यत् पृथिव्याम् व्रीहि-यवम् all that on the earth, the rice barley,
हिरण्यम् पशव: स्त्रिय: gold, animals, women
न दुह्यन्ति मन:-प्रीतिम् do not yield mind's satisfaction
पुंस: काम-हतस्य ते to the person, by desires hit they
न जातु काम: कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥१४॥
न जातु काम: कामानाम्- not indeed desire by the pleasures
उपभोगेन शाम्यति enjoyed is ceased
हविषा कृष्णवर्त्मा- by ghee the fire
इव भूय: एव-अभिवर्धते like again only is increased
यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।
समदृष्टेस्तदा पुंस: सर्वा: सुखमया दिश:॥१५॥
यदा न कुरुते भावम् when does not have the feeling
सर्व-भूतेषु अमङ्गलम् in all beings of inauspiciousness
समदृष्टे:-तदा पुंस: to him of same eye then man
सर्वा: सुखमया: दिश: all blissful are the direction
या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते ।
तां तृष्णां दु:खनिवहां शर्मकामो द्रुतं त्यजेत् ॥१६॥
या दुस्त्यजा दुर्मतिभि:- that difficult to be given up, by the dim-witted,
जीर्यत: या न जीर्यते when getting old, which itself does not wear out
ताम् तृष्णाम् दु:ख-निवहाम् that thirst, sorrows producing
शर्म-काम: द्रुतम् त्यजेत् the peace desiring, soon should get rid of
मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥१७॥
मात्रा स्वस्रा दुहित्रा वा with mother, sister, daughter or
न-अविविक्त-आसन: भवेत् not in seclusion on a seat should be
बलवान्-इन्द्रिय-ग्राम: powerful are sense flocks
विद्वांसम्-अपि कर्षति the wise also are drawn astray
पूर्णं वर्षसहस्रं मे विषयान् सेवतोऽसकृत् ।
तथापि चानुसवनं तृष्णा तेषूपजायते ॥१८॥
पूर्णम् वर्ष-सहस्रम् मे completed years a thousand by me
विषयान् सेवत:-असकृत् the sense pleasures enjoying again and again
तथा-अपि च-अनुसवनम् then also, and, every minute,
तृष्णा तेषु-उपजायते the thirst in them is reborn
तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निरहंकारश्चरिष्यामि मृगै: सह ॥१९॥
तस्मात्-एताम्-अहम् त्यक्त्वा therefore this (thirst), I abandoning
ब्रह्मणि-आधाय मानसम् in Brahman fixing the mind
निर्द्वन्द्व: निरहंकार:- without dualities, without ego,
चरिष्यामि मृगै: सह will live the beasts with
दृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन्न संविशेत् ।
संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥२०॥
दृष्टम् श्रुतम्-असत्-बुद्ध्वा what is seen, heard, false knowing
न-अनुध्यायेत्-न संविशेत् should not think of, should not enjoy
संसृतिम् च-आत्म-नाशम् the transmigration and self destroying
च तत्र विद्वान् स: आत्मदृक् and that knowing, he is the self knower
इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वय: ।
दत्त्वा स्वां जरसं तस्मादाददे विगतस्पृह: ॥२१॥
इति-उक्त्वा नाहुष: जायाम् this having said, Nahusha's son (Yayaati) to the
इति-उक्त्वा नाहुष: जायाम् this having said, Nahusha's son (Yayaati) to the wife
तदीयम् पूरवे वय: दत्त्वा his Pooru's age giving
स्वाम् जरसम् तस्मात्- own old age from him
आददे विगत-स्पृह: took, free from cravings
दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् ।
प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥२२॥
दिशि दक्षिण-पूर्वस्याम् in the direction of south east
द्रुह्युम् दक्षिणत: यदुम् Druhyu, in south Yadu
प्रतीच्याम् तुर्वसुम् चक्र in west Turvasu, made
उदीच्याम्-अनुम्-ईश्वरम् in the north Anu the ruler
भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् ।
अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ ॥२३॥
भूमण्डलस्य सर्वस्य of the globe whole
पूरुम्-अर्हत्तमम् विशाम् Pooru the most worthy, of the wealth
अभिषिच्य-अग्रजान्-तस्य the master installed, the elder brothers in his
वशे स्थाप्य वनम् ययौ control placing, to the forest went
आसेवितं वर्षपूगान् षड्वर्गं विषयेषु स: ।
क्षणेन मुमुचे नीडं जातपक्ष इव द्विज: ॥२४॥
आसेवितम् वर्ष-पूगान् having experienced for years very many
षड्वर्गम् विषयेषु स: the six senses through their objects, he
क्षणेन मुमुचे नीडम् in a moment renounced the nest
जात-पक्ष इव द्विज: a fledged like bird
स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधूतत्रिलिङ्ग: ।
परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीत: ॥२५॥
स: तत्र निर्मुक्त:-समस्त- he there (in the forest) freed of all
सङ्ग आत्मा-अनुभूत्या attachments, by self realization
विधूत-त्रिलिङ्ग: dissociated from the three Gunas' (subtle body)
परे-अमले ब्रह्मणि in The Supreme untainted Brahman
वासुदेवे लेभे गतिम् Vaasudeva and attained the absorption
भागवतीम् प्रतीत: divine merged
श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मन: ।
स्त्रीपुंसो स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥२६॥
श्रुत्वा गाथाम् देवयानी hearing the story Devayaanee
मेने प्रस्तोभम्-आत्मन: took it as an insult to herself
स्त्री-पुंस: स्नेह-वैक्लव्यात् and of a woman and man's love induced agony
परिहासम्-इव-ईरितम् as a joke as if spoken
सा संनिवासं सुहृदां प्रपायामिव गच्छताम् ।
विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभो: ॥२७॥
सा संनिवासम् सुहृदाम् she, the association with dear ones
प्रपायाम्-इव गच्छताम् the water drinking stall like, going to
विज्ञाय-ईश्वर-तन्त्राणाम् understanding, by The Lord controlled
माया-विरचितम् प्रभो: by Maayaa created, of The Lord
सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी ।
कृष्णे मन: समावेश्य व्यधुनोल्लिङ्गमात्मन: ॥२८॥
सर्वत्र सङ्गम्-उत्सृज्य from everywhere association renounced
स्वप्न-औपम्येन भार्गवी dream like, Devayaanee
कृष्णे मन: समावेश्य in Krishna mind fixed
व्यधुनोत्-लिङ्गम्-आमात्मन: shed the subtle body of herself
नमस्तुभ्यम् भगवते वासुदेवाय वेधसे ।
सर्वभूताधिवासाय शान्ताय बृहते नम: ॥२९॥
नम:-तुभ्यम् भगवते Hail! To You! Lord
वासुदेवाय वेधसे Vaasudeva! The Creator
सर्व-भूत-अधिवासाय of all beings the Indweller
शान्ताय बृहते नम: the tranquil, all-pervading, salutations!
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकोनविंश: अध्याय: समाप्त: ॥१९॥ Thus ends the nineteenth discourse, in Book Nine of the great and
विंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
पुरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत ।
यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥१॥
पुरो:-वंशम् प्रवक्ष्यामि of Pooru's line will say about,
यत्र जात:-असि भारत where born are you, O Bhaarata!
यत्र राजर्षय: वंश्या: in which the royal sages
ब्रह्म-वंश्या:-च जज्ञिरे Braahmanas and were born
जनमेजयो ह्यभूत् पूरो: प्रचिन्वांस्तत्सुतस्तत: ।
प्रवीरोऽथ नमस्युर्वै तस्माच्चारुपदोऽभवत् ॥२॥
जनमेजय: हि-अभूत् पूरो: Janamejaya indeed was born to Pooru,
प्रचिन्वान्-तत्-सुत:-तत: Prachinvaan his son then
प्रवीर:-अथ नमस्यु:-वै Praveera, then Namasyu, indeed
तस्मात्-चारुपद:-अभवत् from him Chaarupada was born
तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्तत: ।
संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुत: स्मृत: ॥३॥
तस्य सुद्यु:-अभूत् पुत्र:- his Sadyu was born the son,
तस्मात् बहुगव:-तत: from him Bahugava, then
संयाति:-तस्य-अहंयाती Samyaati, his Ahamyaatee
रौद्राश्व:-तत्-सुत: स्मृत: Raudraashva his son are known to be
ऋतेयुस्तस्य कुक्षेयु: स्थण्डिलेयु: कृतेयुक: ।
जलेयु: सन्ततेयुश्च धर्मसत्यव्रतेयव: ॥४॥
ऋतेयु:-तस्य कुक्षेयु: Riteyu his, Kuksheyu,
स्थण्डिलेयु: कृतेयुक: Sthandileyu, Kriteyuka,
जलेयु: सन्ततेयु:-च Jaleyu, Santateyu, and
धर्म-सत्य-व्रतेयव: Dharmeyu, Satyeyu, Vrateyu
दशैतेऽप्सरस: पुत्रा वनेयुश्चावम: स्मृत: ।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मन: ॥५॥
दश-एते-अप्सरस: पुत्रा: ten these, Apsara's sons
वनेयु:-च-अवम: स्मृत: Vaneyu and the youngest known as
घृताच्याम्-इन्द्रियाणि-इव of Ghritaachee, the (ten) senses like
मुख्यस्य जगत्-आत्मन: of the chief (Praana) of The world's Soul
ऋतेयो रन्तिभारोऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवोऽप्रतिरथ: कण्वोऽप्रथिरथात्मज: ॥६॥
ऋतेयो: रन्तिभार:-अभूत् of Riteyu, Rantibhaara was born
त्रय:-तस्य-आत्मजा: नृप three his sons, O King!
सुमति:-ध्रुव: प्रतिरथ: Sumati, Dhruva, Pratiratha,
कण्व: प्रथिरथ-आत्मज: Kanva was Pratiratha's son
तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातय: ।
पुत्रोऽभूत् सुमते रैभ्यो दुष्यन्तस्तत्सुतो मत: ॥७॥
तस्य मेधातिथि:-तस्मात् his (son) was Medhaatithi, from him
प्रस्कण्व-आद्या: द्विजातय: Praskanva and other Braahmanas
पुत्र:-अभूत् सुमते: रैभ्य: son was born of Sumati was Raibhya
दुष्यन्त:-तत्-सुत: मत: Dushyanta his son is said to be
दुष्यन्तो मृगयां यात: कण्वाश्रमपदं गत: ।
तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥८॥
दुष्यन्त: मृगयाम् यात: Dushyanta, for hunting having gone
कण्व-आश्रम-पदम् गत: Kanva's hermitage area went to
तत्र-आसीनाम् स्वप्रभया there sitting, by own lustre
मण्डयन्तीम् रमाम्-इव illuminating Ramaa like
विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् ।
बभाषे तां वरारोहां भटै: कतिपयैर्वृत: ॥९॥
विलोक्य सद्य: मुमुहे seeing her, instantly was enamoured
देव-मायाम्-इव स्त्रियम् God's potency like woman
बभाषे ताम् वरारोहाम् spoke to her the charming one
भटै: कतिपयै:-वृत: by attendents a few surrounded
तद्दर्शनप्रमुदित: संनिवृत्तपरिश्रम: ।
पप्रच्छ कामसन्तप्त: प्रहसञ्श्लक्ष्णया गिरा ॥१०॥
तत्-दर्शन-प्रमुदित: by her sight, delighted
संनिवृत्त-परिश्रम: relieved of fatigue
पप्रच्छ काम-सन्तप्त: asked with love stricken
प्रहसन्-श्लक्ष्णया गिरा smiling in a graceful voice
का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे ।
किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने ॥११॥
का त्वम् कमल-पत्र-अक्षि 'Who are you, O lotus petal eyed
का त्वम् कमल-पत्र-अक्षि
कस्य-असि हृदयङ्गमे whose are daughter
किम् वा चिकीर्षितम् तु-अत्र what or is the purpose indeed here
भवत्या निर्जने वने for you, in unhabitated forest
व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे ।
न हि चेत: पौरवाणामधर्मे रमते क्वचित् ॥१२॥
व्यक्तम् राजन्य-तनयाम् it is obvious a royal girl
वेद्मि-अहम् त्वाम् सुमध्यमे know I, you to be, O Slender waisted One!
न हि चेत: पौरवाणाम्- not indeed the mind of the Pooru lineage
अधर्मे रमते क्वचित् in unrighteousness indulges ever
शकुन्तला-उवाच - Shakuntalaa said -
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥१३॥
विश्वामित्र-आत्मजा-एव-अहम् of Vishwaamitra the daughter only I am,
त्यक्ता मेनकया वने abandoned by Menaka in the forest
वेद-एतत् भगवान् कण्व: knows this the glorious Kanva
वीर किम् करवाम ते O Hero! what may I do for you
आस्यतां ह्यरविन्दाक्ष गृहतामर्हणं च न: ।
भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥१४॥
आस्यताम् हि-अरविन्द-अक्ष do sit, indeed, O Lotus eyed One!
गृहताम्-अर्हणम् च न: Accept hospitality and ours
भुज्यताम् सन्ति नीवारा may eat, there is rice
उष्यताम् यदि रोचते may stay if it please you
दुष्यन्त उवाच - Dushyanta said -
उपपन्नमिदं सुभ्रु जाताया: कुशिकान्वये ।
स्वयं हि वृणते राज्ञां कन्यका: सदृशं वरम् ॥१५॥
उपपन्नम्-इदम् सुभ्रु proper this is, O beautiful One!
जाताया: कुशिक-अन्वये born in Kushikas lineage
स्वयम् हि वृणते राज्ञाम् themselves indeed choose the royal
कन्यका: सदृशम् वरम् princesses suitable partner
ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् ।
गान्धर्वविधिना राजा देशकालविधानवित् ॥१६॥
ओम-इति-उक्ते यथा-धर्मम्- 'Alright' thus having said, according to ethical
उपयेमे शकुन्तलाम् married Shakuntalaa
गान्धर्व-विधिना राजा by Gandharva system, the king,
देश-काल-विधान-वित् place, time, and conduct knower
अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे ।
श्वोभूते स्वपुरं यात: कालेनासूत सा सुतम् ॥१७॥
अमोघ-वीर्य: राजर्षि:- of unfailing procreative energy, the royal sage
महिष्याम् वीर्यम्-आदधे in the queen seed placed
श्व:-भूते स्व-पुरम् यात: in the morning to own city returned
कालेन-असूत सा सुतम् in time gave birth she to a son
कण्व: कुमारस्य वने चक्रे समुचिता: क्रिया: ।
बद्ध्वा मृगेन्द्रांस्तरसा क्रीडति स्म स बालक: ॥१८॥
कण्व: कुमारस्य वने Kanva of the boy, in the forest
चक्रे समुचिता: क्रिया: performed all the proper rites
बद्ध्वा मृगेन्द्रान्-तरसा harnessing the lions with strength
क्रीडति स्म स: बालक: played the child
तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा ।
हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥१९॥
तम् दुरत्यय-विक्रान्तम्- him, of unsurpassable valour
आदाय प्रमद-उत्तमा taking along, of the women the foremost
हरे:-अंश-अंश-सम्भूतम् of Shree Hari's part's part born
भर्तु:-अन्तिकम्-आगमत् to husband's presence went
यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ ।
शृण्वतां सर्वभूतानां खे वागाहाशरीरिणी ॥२०॥
यदा न जगृहे राजा when did not accept the king
भार्या-पुत्रौ-अनिन्दितौ the wife and son both irreproachable
शृण्वताम् सर्व-भूतानाम् as were hearing all beings
खे वाक्-आह-अशरीरिणी in the sky a voice spoke ethereal
माता भस्त्रा पितु: पुत्रो येन जात: स एव स: ।
भरस्व पुत्रं दुष्यन्त मावमंस्था शकुन्तलाम् ॥२१॥
माता भस्त्रा पितु: पुत्र: mother is a leather bag, of father is the son
येन जात: स: एव स: from whom is born, he only is he
भरस्व पुत्रम् दुष्यन्त nurture the son, Dushyanta
मा-अवमंस्था: शकुन्तलाम् do not disregard Shakuntalaa
रेतोधा: पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥२२॥
रेतोधा: पुत्र: नयति the lineage carrier is the son takes
नरदेव यमक्षयात् O King! from Yama's abode
त्वम् च-अस्य धाता गर्भस्य you and are his procreator of the womb
सत्यम्-आह शकुन्तला truth said Shakuntalaa
पितुर्युपरते सोऽपि चक्रवर्ती महायशा: ।
महिमा गीयते तस्य हरेरंशभुवो भुवि ॥२३॥
पितु:-उपरते स:-अपि after father's death, he also
चक्रवर्ती महायशा: was the world's monarch of great fame
महिमा गीयते तस्य the glory is sung his
हरे:-अंश-भुव: भुवि of Shree Hari's part born on the earth
चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयो: ।
ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराट् विभु: ॥२४॥
चक्रम् दक्षिण-हस्ते-अस्य discus in right hand his,
पद्म-कोश:-अस्य पादयो: lotus bud in his both feet
ईजे महा-अभिषेकेण worshipped by consecrated bath
स:-अभिषिक्त:-अधिराट् विभु: he after being coroneted the emperor, O king
पञ्चपञ्चाशता मेधैर्गङ्गायामनु वाजिभि: ।
मामतेयम् पुरोधाय यमुनायामनु प्रभु: ॥२५॥
पञ्च-पञ्चाशता मेधै:- five fifty, by sacrifices on
गङ्गायाम्-अनु वाजिभि: Ganga's banks, consecutively with horses
मामतेयम् पुरोधाय Mamata's son (Deerghatamaa) as priest
यमुनायाम्-अनु प्रभु: on Yamuna's banks in sequence, the powerful one
अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु ।
भरतस्य हि दौष्यन्तेरग्नि: साचीगुणे चित: ।
सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥२६॥
अष्ट-सप्तति मेध्य-अश्वान् eight seventy holy horses
बबन्ध प्रददद् वसु: tied, gave wealth
भरतस्य हि दौष्यन्ते:- of Bharata indeed, Dushyanta's son's
अग्नि: साचीगुणे चित: fire on sacred ground set up
सहस्रम् बद्वश: यस्मिन् thousand, thirteen thousand, in which
ब्राह्मणा: गा: विभेजिरे the Braahmanas cows divided
त्रयस्त्रिंशच्छतं ह्यश्वान् बध्वा विस्मापयन् नृपान् ।
दौष्यन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥२७॥
त्रय:-त्रिंशत्-शतम् three thirty hundred (One hundred thirty three)
हि-अश्वान् बध्वा indeed, horses tying
विस्मापयन् नृपान् surprising the kings
दौष्यन्ति:-अत्यगात्-मायाम् Dushyanta's son overcame Maayaa,
देवानाम् गुरुम्-आययौ of the gods The Preceptor achieved
मृगाञ्छुक्लदत: कृष्णान् हिरण्येन परीवृतान् ।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥२८॥
मृगान्-शुक्ल-दत: कृष्णान् elephants with white tusks black
हिरण्येन परीवृतान् with gold plated
अदात् कर्मणि मष्णारे gave in the function Mashnaara
नियुतानि चतुर्दश lakhs fourteen
भरतस्य महत् कर्म न पूर्वे नापरे नृपा: ।
नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥२९॥
भरतस्य महत् कर्म Bharata's great deeds
न पूर्वे न-अपरे नृपा: not the former, nor the later kings
न-एव-आपु:-न-एव प्राप्स्यन्ति did not emulate not even will attain
बाहुभ्याम् त्रिदिवम् यथा by hands the heavens like (touched)
किरातहूणान् यवनानन्ध्रान् कङ्कान् खशाञ्छकान्
अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान् ॥३०॥
किरात-हूणान् यवनान्- the Kiraatas, Hoonas, Yavanas,
अन्ध्रान् कङ्कान् खशान्-शकान् Aandhraas, Kankaas, Khasas, Shakas,
अब्रह्मण्यान् नृपान्-च-अहन् the despisers of Braahmanas, and kings killed
म्लेच्छान् दिग्विजये-अखिलान् the Mlecchaas, when conquering quarters, in total
जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ।
देवस्त्रियो रसां नीता: प्राणिभि: पुनराहरत् ॥३१॥
जित्वा-पुरा-असुरा: देवान् having conquered in the past, demons, the gods,
ये रसौकांसि भेजिरे who in the subterranean regions lived in
देव-स्त्रिय: रसाम् नीता: the gods' women to Rasaatala were taken
प्राणिभि: पुन:-आहरत् by the demons again were recovered
सर्वकामान् दुदुहतु: प्रजानां तस्य रोदसी ।
समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥३२॥
सर्व-कामान् दुदुहतु: all desires yielded
प्रजानाम् तस्य रोदसी of the public, his earth and heaven
समा:-त्रि-नव-साहस्री:- for years three nine thousand
दिक्षु चक्रम्-अवर्तयत् in the directions rule held
स सम्राड् लोकपालाख्यमैश्वर्यमधिराट् श्रियम् ।
चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥३३॥
स: सम्राड् लोकपाल-आख्यम्- that emperor, in the directions the fame
ऐश्वर्यम्-अधिराट श्रियम् the authority and imperial fortune,
चक्रम् च-अस्खलितम् rule and unobstructed
प्राणान् मृषा-इति-उपरराम ह life to be unreal thus, withdrew
तस्यासन् नृप वैदर्भ्य: पत्न्यस्तिस्र: सुसम्मता: ।
जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥३४॥
तस्य-आसन् नृप वैदर्भ्य: his were, O King! Vidarbha king's daughters
पत्न्य:-तिस्र: सुसम्मता: as wives, three well respected
जघ्नु:-त्याग-भयात् पुत्रान् killed for abandoning fear of the sons,
न-अनुरूपा: इति-ईरिते not after (him) thus declared
तस्यैवं वितथे वंशे तदर्थं यजत: सुतम् ।
मरुत्स्तोमेन मरुतो भरद्वाजमुपाददु: ॥३५॥
तस्य-एवम् वितथे वंशे his, in this manner, disintegrating the race
तत्-अर्थम् यजत: सुतम् for that performing sacrifice, son
मरुत्-स्तोमेन मरुत: by Marutstoma, Maruta
भरद्वाजम्-उपाददु: Bharadvaja gave
अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पति: ।
प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमवासृजत् ॥३६॥
अन्तर्वत्न्याम् भ्रातृ-पत्न्याम् the pregnant brother's wife
मैथुनाय बृहस्पति: for copulation Brihaspati
प्रवृत्त: वारित: गर्भम् inclined, stopped by the foetus
शप्त्वा वीर्यम्-अवासृजत् cursing seed discharged
तं त्यक्तुकामां ममतां भर्तृत्यागविशङ्किताम् ।
नामनिर्वचनं तस्य श्लोकमेनं सुरा जगु: ॥३७॥
तम् त्यक्तु-कामाम् ममताम् him (the child) to give up wanting, Mamataa's
भर्तृ-त्याग-विशङ्किताम् by husband's forsaking apprehensive of
नाम-निर्वचनम् तस्य name selecting his,
श्लोकम्-एनम् सुरा: जगु: a couplet this the gods sang
मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥३८॥
मूढे भर द्वाजम्-इमम् 'O foolish one! Nurture double born this'
मूढे भर द्वाजम्-इमम्
भर द्वाजम् बृहस्पते 'Nourish double born, O Brihaspati'
भर द्वाजम् बृहस्पते
यातौ यत्-उक्त्वा पितरौ both went away, that saying, the parents,
भरद्वाज:-तत:-तु-अयम् Bharadwaaja, therefore indeed he is
चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् ।
व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेन्वये ॥३९॥
चोद्यमाना सुरै:-एवम् persuaded by the gods thus
मत्वा वितथम्-आत्मजम् taking to be illegal, the son
व्यसृजन् मरुत:-अबिभ्रन् abandoned, the Marutas brought him
दत्त:-अयम् वितथे-अन्वये was given he, to the disintegrating race (of Bharat)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे विंशोऽध्याय ॥२०॥ Thus ends the twentieth discourse in Book Nine of the great and glorious
एकविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
वितथस्य सुतो मन्युर्बृहत्क्षत्रो जयस्तत: ।
महावीर्यो नरो गर्ग: सङ्कृतिस्तु नरात्मज: ॥१॥
वितथस्य सुत: मन्यु:- of Vitatha, the son Manyu
बृहत्क्षत्र: जय:-तत: Brihatkshatra, Jaya, from him,
महावीर्य: नर: गर्ग: Mahaaveerya, Nara, Garga,
सङ्कृति:-तु नर-आत्मज: Sangkriti indeed Nara's son
गुरुश्च रन्तिदेवश्च सङ्कृते: पाण्डुनन्दन ।
रन्तिदेवस्य हि यश: इहामुत्र च गीयते ॥२॥
गुरु:-च रन्तिदेव:-च and Guru and Rantideva
सङ्कृते: पाण्डुनन्दन of Sangkriti (the sons), O Paandu's delight!
रन्तिदेवस्य हि यश: of Rantideva indeed fame
इह-अमुत्र च गीयते here and beyond is sung
वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षत: ।
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदत: ॥३॥
वियद्-वित्तस्य ददत: लब्धम् by chance wealth gave, got
लब्धम् बुभुक्षत: got, hungry
निष्किञ्चनस्य धीरस्य having nothing, peaceful
सकुटुम्बस्य सीदत: along with the family suffered
व्यतीयुरष्टचत्वारिंशदहान्यपिबत: किल ।
घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥४॥
व्यतीयु:-अष्ट-चत्वारिंशत्- passed, eight forty
अहानि-अपिबत: किल days, not having drunk at all
घृत-पायस-संयावम् ghee, milk porridge
तोयम् प्रात:-उपस्थितम् water in the morning appeared
कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथो: ।
अतिथिर्ब्राह्मण: काले भोक्तुकामस्य चागमत् ॥५॥
कृच्छ्र-प्राप्त-कुटुम्बस्य difficulties facing family
क्षुत्-तृड्भ्याम् जात-वेपथो: by hunger and thirst came trembling
अतिथि:-ब्राह्मण: काले guest a Braahmana, at the time
भोक्तु-कामस्य च-आगमत् to eat wanting and came
तस्मै संव्यभजत् सोऽन्नमादृत्य श्रद्धयान्वित: ।
हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विज: ॥६॥
तस्मै संव्यभजत् स:- for him a good portion, he,
अन्नम्-आदृत्य श्रद्धया-अन्वित: the food respectfully, with reverence combined
हरिम् सर्वत्र संपश्यन् The Lord Shree Hari every where perceiving
स: भुक्त्वा प्रययौ द्विज: he, after eating, went away the Braahmana
अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपते ।
विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥७॥
अथ-अन्य: भोक्ष्यमाणस्य then, another, as was about to eat
विभक्तस्य महीपते the divided, O King!
विभक्तम् व्यभजत् तस्मै the divided further divided for that
वृषलाय हरिम् स्मरन् Shudra, Shree Hari remembering
याते शूद्रे तमन्योऽगादतिथि: श्वभिरावृत: ।
राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥८॥
याते शूद्रे तम्-अन्य:- having gone the Shudra, to him, another
अगात्-अतिथि: श्वभि:-आवृत: came, guest by dogs following
राजन् मे दीयताम्-अन्नम् 'O king! to me give food
राजन् मे दीयताम्-अन्नम्
सगणाय बुभुक्षते along with the followers hungry'
स आदृत्यावशिष्टं यद् बहुमानपुरस्कृतम् ।
तच्च दत्त्वा नमश्चक्रे श्वभ्य: श्वपतये विभु: ॥९॥
स: आदृत्य-अवशिष्टम् यत् he with reverence, the left over that
बहुमान-पुरस्कृतम् with great honour presented
तत्-च दत्त्वा नम:-चक्रे that and having given, bowed
श्वभ्य: श्वपतये विभु: to the dogs and the dogs' master, the king
पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् ।
पास्यत: पुल्कसोऽभ्यागादपो देह्यशुभस्य मे ॥१०॥
पानीय-मात्रम्-उच्छेषम् water alone was left
तत्-च-एक-परितर्पणम् that and one satisfying
पास्यत: पुल्कस:-अभ्यागात्- as was about to drink, a Chaandaala, came,
अप: देहि-अशुभस्य मे 'Water give to unlucky me'
अप: देहि-अशुभस्य मे
तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् ।
कृपया भृशसन्तप्त इदमाहामृतं वच: ॥११॥
तस्य ताम् करुणाम् वाचम् his that pitiable words
निशम्य विपुल-श्रमाम् hearing with great effort
कृपया भृश-सन्तप्त with compassion very much overcome
इदम्-आह-अमृतम् वच: this said, nectar like words
न काम्येऽहं गतिमीश्वरात् परामष्टर्द्धियुक्तामपुनर्भवं वा ।
आर्तिं प्रपद्येऽखिलदेहभाजमन्त:स्थितो येन भवन्त्यदु:खा: ॥१२॥
न काम्ये-अहम् गतिम्- do not desire I the position
ईश्वरात् पराम्-अष्ट-ऋद्धि- from The Lord, highest of the eight Yogic power
युक्ताम्-अपुनर्भवम् वा including final beatitude or
आर्तिम् प्रपद्ये-अखिल- sufferings will endure of all
देह-भाजम्-अन्त:-स्थित: embodied souls, in the hearts dwelling
येन भवन्ति-अदु:खा: by which they become sorrow less
क्षुत्तृट्श्रमो गात्रपरिश्रमश्च दैन्यं क्लम: शोकविषादमोहा: ।
सर्वे निवृता: कृपणस्य जन्तोर्जिजीविषोर्जीवजलार्पणान्मे ॥१३॥
क्षुत्-तृट्-श्रम: गात्र-परिश्रम:- hunger, thirst, fatigue, physical weariness
च दैन्यम् क्लम: and low spirits, languor,
शोक-विषाद-मोहा: grief, sorrow, infatuation
सर्वे निवृता: कृपणस्य all have gone to this poor
जन्तो:-जिजीविषो:-जीव- fellow, wanting to live, life (like)
जल-अर्पणात्-मे water being given by me
इति प्रभाष्य पानीयं म्रियमाण: पिपासया ।
पुल्कसायाददाद्वीरो निसर्गकरुणो नृप: ॥१४॥
इति प्रभाष्य पानीयम् this having said, the drinking water,
म्रियमाण: पिपासया the dying by thirst
पुल्कसाय-ददात्- to the Chaandaala gave
वीर: निसर्ग-करुण: नृप: the noble by nature compassionate king
तस्य त्रिभुवनाधीशा: फलदा: फलमिच्छताम् ।
आत्मानं दर्शयाञ्चक्रुर्माया विष्णुविनिर्मिता: ॥१५॥
तस्य त्रिभुवन-अधीशा: for him, of the three spheres, The Lords,
फलदा: फलम्-इच्छताम् Bestower of rewards to the rewards seeking
आत्मानम् दर्शयान्-चक्रु:- Themselves revealed in person
माया विष्णु-विनिर्मिता: by Maaya of Vishnu who had appeared
स वै तेभ्यो नमस्कृत्य नि:सङ्गो विगतस्पृह: ।
वासुदेवे भगवति भक्त्या चक्रे मन: परम् ॥१६॥
स: वै तेभ्य: नमस्कृत्य he, indeed, to them greeted
नि:सङ्ग: विगत-स्पृह: unattached, free of desires
वासुदेवे भगवति भक्त्या in Vaasudeva The Lord with devotion
चक्रे मन: परम् engaged mind great
ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधस: ।
माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥१७॥
ईश्वर-अलम्बनम्-चित्तम् in God concentrated mind
कुर्वत:-अनन्य-राधस: fixing, by non other feeling (than devotion)
माया गुणमयी राजन् Maayaa, consisting of the Gunas, O King!
स्वप्नवत् प्रत्यलीयत dream like dissolved
तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिन: ।
अभवन् योगिन: सर्वे नारायणपरायणा: ॥१८॥
तत्-प्रङ्ग-अनुभावेन with his association and effect
रन्तिदेव-अनुवर्तिन: Rantidevas followers
अभवन् योगिन: सर्वे became Yogis all
नारायण-परायणा: Naaraayana devotees
गर्गाच्छिनिस्ततो गार्ग्य: क्षत्राद् ब्रह्म ह्यवर्तत ।
दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणि: कवि: ॥१९॥
गर्गात्-शिनि:-तत: गार्ग्य: from Garga Shini, from him Gaargya
क्षत्राद् ब्रह्म हि-अवर्तत from Kshatriyas, Braahmanas indeed, emerged
दुरितक्षय: महावीर्यात् Duratikshaya, from Mahaaveerya
तस्य त्रय्यारुणि: कवि: his Trayyaaruni and Kavi
पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गता: ।
बृहत्क्षत्रस्य पुत्रोऽभूद्हस्ती यद् हस्तिनापुरम् ॥२०॥
पुष्करारुणि:-इति-अत्र ये Pushkaraaruni this , here those
ब्राह्मण-गतिम् गता: Braahmana hood attained
बृहत्क्षत्रस्य पुत्र:-अभूत्-हस्ती Brihatkshatra's son was Hasti,
यत् हस्तिनापुरम् who Hastinaapura (built)
अजमीडो द्विमीढश्च पुरुमीढश्च हस्तिन: ।
अजमीढस्य वंश्या: स्यु: प्रियमेधादयो द्विजा: ॥२१॥
अजमीड: द्विमीढ:-च Ajaameedha, Devameedha and
पुरुमीढ:-च हस्तिन: Purumeedha and of Hastee
अजमीढस्य वंश्या: स्यु: of Alameda's race were,
प्रियमेध-आदय: द्विजा: Priyamedha and other Braahmanas
अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: ।
बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥२२॥
अजमीढात् बृहदिषु:- from Ajaameedha, Brihadishu,
तस्य पुत्र: बृहद्धनु: his son Brihaddhanu,
बृहत्काय:-तत:- Brihatkaaya, from him,
तस्य पुत्र: आसीत्-जयद्रथ: his son was Jayadratha
तत्सुतो विशदस्तस्य सेनजित् समजायत ।
रुचिराश्वो दृढहनु: काश्यो वत्सश्च तत्सुता: ॥२३॥
तत्-सुत: विशद:- his son was Vishada,
तस्य सेनजित् समजायत his Sainajit was born,
रुचिराश्व: दृढहनु: काश्य: Ruchiraashva, Dridhahanu, Kaashya
वत्स:-च तत्-सुत: Vatsa and were his sons
रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: ।
पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥२४॥
रुचिराश्व-सुत: पार: Ruchiraashva's son was Paara,
पृथुसेन:-तत्-आत्मज: Prithusena was his son
पारस्य तनय: नीप:- Paara's son was Neepa,
तस्य पुत्र-शतम् तु-अभूत् his sons, one hundred indeed were
स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।
स योगी गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥२५॥
स: कृत्व्याम् शुक-कन्यायाम् he, in Kritvi, Shuka's daughter
ब्रह्मदत्तम्-अजीजनत् Brahmadatta, gave birth to
स: योगी गवि भार्यायाम् he, a Yogi, in Gau the wife
विष्वक्सेनम्-अधात् सुतम् Vishvaksena begot as son
जैगीषव्योपदेशेन योगतन्त्रं चकार ह ।
उदक्स्वनस्ततस्तस्माद् भल्लादो बार्हदीषवा: ॥२६॥
जैगीषव्य-उपदेशेन by Jaigeeshavya's instructions
योग-तन्त्रम् चकार ह Yoga's study produced indeed
उदक्स्वन:-तत:-तस्मात् Udaksvana, then, from him
भल्लाद: बार्हदीषवा: Bhallaada, Brihadishu's descendents
यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: ।
नाम्ना सत्यधृतिर्यस्य दृढनेमि: सुपार्श्वकृत् ॥२७॥
यवीनर: द्विमीढस्य Yavaneera of Dvimeedha
कृतिमान्-तत्-सुत: स्मृत: Kritimaan his son is known to be
नाम्ना सत्यधृति:- by name Satyadhriti
यस्य दृढनेमि: सुपार्श्व-कृत् whose Dridhnemee (who) Supaarshva (begot)
सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: ।
कृतिर्हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥२८॥
सुपार्श्वात् सुमति:- from Supaarshva Sumati,
तस्य पुत्र: सन्नतिमान्- his son Sannatimaan
तत: कृति:-हिरण्यनाभाद् from him Kriti, from Hiranyagarbha
य: योगम् प्राप्य who Yoga (instruction) attained
जगौ स्म षट and taught the six (Samhitaa)
संहिता: प्राच्यसाम्नां वै नीपो ह्युग्रायुधस्तत: ।
तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥२९॥
संहिता: प्राच्यसाम्नाम् वै the Samhitaa known as Praachyasaamas, indeed
नीप: हि-उग्रायुध:-तत: Neepa (his son), surely Ugraayudha from him
तस्य क्षेम्य: सुवीर:-अथ his Kshemya, Suveera then,
सुवीरस्य रिपुञ्जय: of Suveera Ripunjaya
ततो बहुरथो नाम पुरमीढोऽप्रजोभवत् ।
नलिन्यामजमीढस्य नील: शान्ति: सुतस्तत: ॥३०॥
तत: बहुरथ: नाम from him Bahuratha named
पुरमीढ:-अप्रज:-अभवत् Purameedha issue-less was
नलिन्याम्-अजमीढस्य in Nalinee Ajameedhaa's
नील: शान्ति: सुत:-तत: Neela, Shaanti was son his
शान्ते: सुशान्तिस्तत्पुत्र: पुरुजोऽर्कस्ततोऽभवत् ।
भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादय: ॥३१॥
शान्ते: सुशान्ति:-तत्-पुत्र: of Shaanti, Sushaanti, his son
पुरुज:-अर्क:-तत:-अभवत् Puruja, Arka his son was,
भर्म्याश्व:-तनय:-तस्य Bharmyashva son his
पञ्च-आसन्-मुद्गल-आदय: five were Mudgala and others
यवीनरो बृहदिषु: काम्पिल्य: संजय: सुता: ।
भर्म्याश्व: प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥३२॥
यवीनर: बृहदिषु: काम्पिल्य: Yaveenara, Brihadishu, Kaampilya,
संजय: सुता: Sanjaya's sons
भर्म्याश्व: प्राह पुत्रा: मे Bharmyashva said, 'sons mine
पञ्चानाम् रक्षणाय हि of five lands to protect are enough'
विषयाणामलमिमे इति पञ्चालसंज्ञिता: ।
मुद्गलाद् ब्रह्म निर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥३३॥
विषयाणाम्-अलम्-इमे for the lands enough these
इति पञ्चाल-संज्ञिता: therefore Panchaala were named
मुद्गलात् ब्रह्म निर्वृत्तम् गोत्रम् from Mudgala, of Braahmana extending a line
मौद्गल्य-संज्ञितम् Maudgalya was named
मिथुनं मुद्गलाद् भार्म्याद् दिवोदास: पुमानभूत् ।
अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥३४॥
मिथुनम् मुद्गलात् भार्म्यात् twins from Mudgala, from Bhraamyaadashva,
दिवोदास: पुमान्-अभूत् Divodaasa the male was born
अहल्या कन्यका यस्याम् Ahalya the girl from whom
शतानन्द:-तु गौतमात् Shataananda, indeed from Gautama
तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: ।
शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ॥३५॥
तस्य सत्यधृति: पुत्र: his Satyadhriti the son
धनुर्वेद-विशारद: in archery an adept
शरद्वान्-तत्-सुत: Sharadvaana was his son
यस्मात्-उर्वशी दर्शनात् किल from whom by Urvashi's sight, it is said
शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ।
तद् दृष्ट्वा कृपयागृह्णाच्छन्तनुर्मृगयां चरन् ।
कृप: कुमार: कन्या च द्रोणपत्न्यभवत् कृपी ॥३६॥
शर:-तम्बे-अपतत् रेत: on a reeds' cluster, fell the seed
मिथुनम् तत्-अभूत्-शुभम् twins that became blessed
तद् दृष्ट्वा कृपया-अगृह्णात्- that seeing, with compassion took
शन्तनु:-मृगयाम् चरन् Shantanu, for hunting roaming
कृप: कुमार: कन्या च Kripa was the boy, the girl and
द्रोण-पत्नी-अभवत् कृपी Drona's wife became Kripi
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे एकविंशोऽध्याय: ॥२१॥ Thus ends the twenty-first discourse in Book Nine of the great and
श्री मद्भागवतमहापुराणम्
द्वाविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
मित्रेयुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप ।
सुदास: सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥१॥
मित्रेयु:-च दिवोदासात्- Mitreyu and from Divodaasa
च्यवन:-तत्-सुत: नृप Chyavana was his son, O King!
सुदास: सहदेव:-अथ Sudaasa, Sahadeva, then
सोमक: जन्तु-जन्म-कृत् Somaka, to Jantu the birth giver
तस्य पुत्रशतं तेषां यवीयान् पृषत: सुत: ।
द्रुपदो द्रौपदी तस्य धृष्टद्युम्नादय: सुता: ॥२॥
तस्य पुत्र-शतम् his sons were a hundred
तेषाम् यवीयान् पृषत: सुत: of them the youngest from Prishata the son
द्रुपद: द्रौपदी तस्य Drupada, Draupadee his
धृष्टद्युम्न-आदय: सुता: Dhristadyuman and others were the sons
धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्या: पञ्चालका इमे ।
योऽजीमीढसुतो ह्यन्य ऋक्ष: संवरणस्तत: ॥३॥
धृष्टद्युम्नाद् धृष्टकेतु:- from Dhristadyuman, Dhrishtaketu
भार्म्या: पञ्चालका: इमे of the Bhaarmya line, Panchaalakas are they
य:-अजीमीढ-सुत: हि-अन्य that which was Ajeemeedha's son, indeed second,
ऋक्ष: संवरण:-तत: Riksha, Samvarana was from him
तपत्यां सूर्यकन्यायां कुरुक्षेत्रपति: कुरु: ।
परीक्षित् सुधनुर्जह्नुर्निषधाश्व: कुरो: सुता: ॥४॥
तपत्याम् सूर्य-कन्यायाम् from Tapati, Surya's daughter,
कुरुक्षेत्र-पति: कुरु: Kurukshetra's lord Kuru (was born)
परीक्षित् सुधनु:-जह्नु:- Pareekshita, Sudhanu, Jahnu,
निषधाश्व: कुरो: सुता: Nishadhaashva (were) Kuru's sons
सुहोत्रोऽभूत् सुधनुषश्च्यवनोऽथ तत: कृती ।
वसुस्तस्योपरिचरो बृहद्रथमुखास्तत: ॥५॥
सुहोत्र:-अभूत् सुधनुष:- Suhotra was born of Sudhanusha,
च्यवन:-अथ तत: कृती Chyavana then, from him Kriti
वसु:-तस्य-उपरिचर: Vasu, his Uparichara
बृहद्रथ-मुखा:-तत: Brihadratha sons from him
कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च चेदिपा: ।
बृहद्रथात् कुशाग्रोऽभूदृषभस्तस्य तत्सुत: ॥६॥
कुशाम्ब-मत्स्य-प्रत्यग्र- Kushaamba, Matsya, Pratyagra,
चेदिप-आद्या:-च चेदिपा: Chedip, others and were kings of Chedi
बृहद्रथात् कुशाग्र:-अभूत्- from Brihadratha Kushaagra was born,
ऋषभ:-तस्य तत्-सुत: Rishabha his, the son
जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहु: ।
अन्यस्यां चापि भार्यायां शकले द्वे बृहद्रथात् ॥७॥
जज्ञे सत्यहित:-अपत्यम् was born to Satyahit the son
पुष्पवान्-तत्-सुत: जहु: Pushpavaan, his son Jahu
अन्यस्याम् च-अपि भार्यायाम् from another and also wife
शकले द्वे बृहद्रथात् pieces two, through Brihadratha
ते मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ।
जीव जीवेति कीडन्त्या जरासन्धोऽभवत् सुत: ॥८॥
ते मात्रा बहि:-उत्सृष्टे they by the mother, outside thrown
जरया च-अभिसन्धिते by Jaraa and joined
जीव जीव-इति कीडन्त्या 'live, live' thus, in play
जीव जीव-इति कीडन्त्या
जरासन्ध:-अभवत् सुत: Jaraasandha became the son
ततश्च सह्देवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: ।
परीक्षिदनपत्योऽभूत् सुरथो नाम जाह्नव: ॥९॥
तत:-च सह्देव:-अभूत् from him and Sahadeva was born
सोमापि:-यत्-श्रुतश्रवा: Somaapi, then Shrutashravaa
परीक्षित्-अनपत्य:-अभूत् Pareekshit was issue-less
सुरथ: नाम जाह्नव: Suratha was the name of Jahu's son
ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।
जयसेनस्तत्तनयॊ राधिकोऽतोऽयुतो ह्यभूत् ॥१०॥
तत: विदूरथ:-तस्मात् from him Viduratha, from him
सार्वभौम:-तत:-अभवत् Saarvabhauma, from him was born
जयसेन:-तत्-तनय: Jayasena, his son
राधिक:-अत:-अयुत: हि-अभूत् Raadhika, then, Ayuta indeed was born
ततश्च क्रोधनस्तस्माद् देवातिथिरमुष्य च ।
ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मज: ॥११॥
तत:-च क्रोधन:-तस्मात् from him Krodhana, from him,
देवातिथि:-अमुष्य च Devaatithi, his and
ऋष्य:-तस्य दिलीप:-अभूत् Rishya, his Dileepa became (the son)
प्रतीप:-तस्य च-आत्मज: Prateepa his and son
देवापि: शन्तनुस्तस्य बाह्लीक इति चात्मजा: ।
पितृराज्यं परित्यज्य देवापिस्तु वनं गत: ॥१२॥
देवापि: शन्तनु:-तस्य Devaapi, Shantanu, his
बाह्लीक इति च-आत्मजा: Baahleeka thus and the sons
पितृ-राज्यम् परित्यज्य father's kingdom renouncing
देवापि:-तु वनम् गत: Devaapi indeed to the forest went
अभवच्छन्तनू राजा प्राङ्महाभिषसंज्ञित: ।
यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति स: ॥१३॥
अभवत्-शन्तनू राजा became Shantanu the king
प्राक्-महाभिष-संज्ञित: formerly (in past life) Mahaabhisha named
यम् यम् कराभ्याम् स्पृशति whom so ever, by both hands touched
जीर्णम् यौवनम्-एति स: old aged, youth regained he
शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शन्तनु: ।
समा द्वादश तद्राज्ये न ववर्ष यदा विभु: ॥१४॥
शान्तिम्-आप्नोति च-एव- relief achieves and also
अग्र्याम् कर्मणा तेन शन्तनु: great, by act, by that Shantanu
समा: द्वादश तत्-राज्ये years twelve, in his kingdom
न ववर्ष यदा विभु: did not rain, when the mighty (Indra)
शन्तनुर्ब्राह्मणैरुक्त: परिवेत्तायमग्रभुक् ।
राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥१५॥
शन्तनु:-ब्राह्मणै:-उक्त: Shantanu, by the Braahmanas was told
परिवेत्ता-अयम्-अग्रभुक् ruling before the elder brother, this,
राज्यम् देहि-अग्रजाय-आशु the kingdom give to the elder brother soon
पुर-राष्ट्र-विवृद्धये for the city and the state's development
एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् ।
तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद् विभ्रंशितो गिरा ॥१६॥
एवम्-उक्त: द्विजै:-ज्येष्ठम् thus told by Braahmanas, elder brother
छन्दयामास स:-अब्रवीत् was requested, he said
तत्-मन्त्रि-प्रहितै:-विप्रै:- his ministers, sent by the Braahmanas
वेदात् विभ्रंशित: गिरा from the Vedas with distorted speech
वेदवादातिवादान् वै तदा देवो ववर्ष ह ।
देवापिर्योगमास्थाय कलापग्राममाश्रित: ॥१७॥
वेदवाद-अति- वादान् वै the sayings of Veda are very misleading thus,
तदा देव: ववर्ष ह then the gods rained indeed
देवापि:-योगम्-आस्थाय Devaapi in Yoga committed,
कलापग्रामम्-आश्रित: in Kalaapagraama lived
सोमवंशे कलौ नष्टे कृतादौ स्थापयिश्यति ।
बाह्लीकात् सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्तत: ॥१८॥
सोमवंशे कलौ नष्टे in Somavansha, Kali when extinct (will be)
कृत-आदौ स्थापयिश्यति in Krita's beginning, will re-establish it
बाह्लीकात् सोमदत्त:-अभूत् from Baahleeka Somadutta was born
भूरि:-भूरिश्रवा:-तत: from him, Bhoori and Bhoorishravaa
शलश्चशन्तनोरासीद् गङ्गायां भीष्म आत्मवान् ।
सर्वधर्मविदां श्रेष्ठो महाभागवत: कवि: ॥१९॥
शल:-च-शन्तनो:-आसीत् Shala and of Shantanoo's was
गङ्गायम् भीष्म आत्मवान् from Gangaa, Bheeshma the self-controlled
सर्व-धर्म-विदाम् श्रेष्ठ: of all those who knew righteousness, the best
महाभागवत: कवि: a great devotee and spiritually enlightened
वीरयूथाग्रणीर्येन रामोऽपि युधि तोषित: ।
शन्तनोर्दाशकन्यायां जज्ञे चित्राङ्गद: सुत: ॥२०॥
वीर-यूथ-अग्रणी: येन of the warriors troops the leader, by whom
राम:-अपि युधि तोषित: (Parashu) Raama even in battle was pleased
शन्तनो:-दाश-कन्यायाम् of Shantanu, from Daas's daughter
जज्ञे चित्राङ्गद: सुत: was born Chitraangada the son
विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हत: ।
यस्यां पराशरात् साक्षादवतीर्णो हरे: कला ॥२१॥
विचित्रवीर्य:-च-अवरज: Vaichitravirya and younger brother,
नाम्ना चित्राङ्गद: हत: by that name, Chitraangada was killed
यस्याम् पराशरात् साक्षात्- from whom through Paraashara, in person,
अवतीर्ण: हरे: कला descended of Lord Shree Hari a part
वेदगुप्तो मुनि: कृष्णो यतोऽहमिदमध्यगाम् ।
हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायण: ॥२२॥
वेदगुप्त: मुनि: कृष्ण: the Vedas preserver, sage Krishna
यत:-अहम्-इदम्-अध्यगाम् from whom I , this (Bhaagavata) studied
हित्वा स्व-शिष्यान् पैल-आदीन् disregarding his own pupils, Paila and others
भगवान् बादरायण: the divine Baadaraayana
मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ।
विचित्रवीर्योऽथोवाह काशिराजसुते बलात् ॥२३॥
मह्यम् पुत्राय शान्ताय to me, the son peaceful,
परम् गुह्यम्-इदम् जगौ the highly secretive this taught
विचित्रवीर्य-अथ-उवाह Vaichitravirya then married
काशि-राज-सुते बलात् Kaashi king's two daughters forcefully
स्वयंवरादुपानीते अम्बिकाम्बालिके उभे ।
तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृत: ॥२४॥
स्वयंवरात्-उपानीते from Swayamvara abducted
अम्बिका-अम्बालिके उभे Ambikaa and Ambaalikaa, both
तयो:-आसक्त हृदय: in them very much attached at heart,
गृहीत: यक्ष्मणा मृत: inflicted by phthisis, died
क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायण: ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥२५॥
क्षेत्रे-अप्रजस्य वै भ्रातु:- the wife issueless indeed of the brother
मात्रा-उक्त: बादरायण: by the mother's suggestion, Baadaraayana
धृतराष्ट्रम् च पाण्डुम् च Dhritraashtra, and, Paandu and
विदुरम् च-अपि-अजीजनत् Vidura and also begot
गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।
तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥२६॥
गान्धार्याम् धृतराष्ट्रस्य from Gaandhaari of Dhritaraashtra
जज्ञे पुत्र-शतम् नृप were born sons a hundred, O King!
तत्र दुर्योधन: ज्येष्ठ: there Duryodhana the eldest
दु:शला च-अपि कन्यका Duhshalaa and also the daughter
शापान्मैथुनरुद्धस्य पाण्डो: कुन्त्यां महारथा: ।
जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रय: ॥२७॥
शापात्-मैथुन रुद्धस्य due to curse copulation denied
पाण्डो: कुन्त्याम् महारथा: Paandu, from Kunti, great charioteers
जाता: धर्म-अनिल-इन्द्रेभ्य: were born, from Dharm, Anila, Indra
युधिष्ठिर-मुखा:-त्रय: Yudhishthira and the others, three
नकुल: सह्देवश्च माद्र्यां नासत्यदस्रयो: ।
द्रौपद्यां पञ्च पञ्चभ्य: पुत्रास्ते पितरोऽभवन् ॥२८॥
नकुल: सह्देव:-च Nakula Sahadeva and
माद्र्याम् नासत्य-दस्रयो: in Maadree, from Naastya Dasra (two
माद्र्याम् नासत्य-दस्रयो: in Maadree, from Naastya Dasra (two Ashvinikumaaras)
द्रौपद्याम् पञ्च पञ्चभ्य: in Draupadee five from the five
पुत्रा:-ते पितर:-अभवन् sons they, uncles (your's) were born
युधिष्ठिरात् प्रतिविन्ध्य: श्रुतसेनोवृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलि: ॥२९॥
युधिष्ठिरात् प्रतिविन्ध्य: from Yudhishthira, Prativindhya
श्रुतसेन:-वृकोदरात् Shrutasena from Bheema,
अर्जुनात्-श्रुतकीर्ति:-तु from Arjuna Shrutakeerti indeed,
शतानीक:-तु नाकुलि: Shataaneeka indeed Nakula's son
सहदेवसुतो राजञ्छ्रुतकर्मा तथापरे ।
युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कच: ॥३०॥
सहदेव-सुत: राजन्- Sahadeva's son, O King!
श्रुतकर्मा तथा-अपरे was Shrutakarmaa and others
युधिष्ठिरात् तु पौरव्याम् from Yudhishthira indeed in Pauravi
देवक:-अथ घटोत्कच: Devaka, then Ghatotkacha
भीमसेनाद् हिडिम्बायां काल्यां सर्वगतस्तत: ।
सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥३१॥
भीमसेनात् हिडिम्बायाम् from Bheemasena in Hidimbaa
काल्याम् सर्वगत:- in Kaalee, Sarvagata
तत: सहदेवात् सुहोत्रम् तु then from Sahadeva, Suhotra indeed
विजया-असूत पार्वती Vijayaa gave birth to, the mountain's daughter
विजया-असूत पार्वती Vijayaa gave birth to, the mountain's daughter (Ghatotkacha) from Bheemsena in Hidimbaa, in Kaalee Sarvagata was born,
करेणुमत्यां नकुलो निरमित्रं तथार्जुन: ।
इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् ।
मणिपूरपते: सोऽपि तत्पुत्र: पुत्रिकासुत: ॥३२॥
करेणुमत्याम् नकुल: in Karenumatee,
निरमित्रम् तथा-अर्जुन: (son) Niramitra and Arjuna
इरावन्तम्-उलूप्याम् वै Iraavanta in Uloopee, indeed
सुतायाम् बभ्रुवाहनम् in the daughter, Babhruvaahana
मणिपूरपते: स:-अपि of Manipur's lord, he also
तत्-पुत्र: पुत्रिका-सुत: his son, daughter's son
तव तात: सुभद्रायामभिमन्युरजायत ।
सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥३३॥
तव तात: सुभद्रायाम्- your father, in Subhadraa
अभिमन्यु:-अजायत Abhimanyu gave birth to
सर्व-अतिरथ-जित् वीर all the great charioteers' winner, the hero
उत्तरायाम् तत: भवान् in Uttaraa then, you
परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा ।
त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥३४॥
परिक्षीणेषु कुरुषु द्रौणे:- when perished the Kurus by Drona's
ब्रह्म-अस्त्र-तेजसा son's Brahma's missile's blaze,
त्वम् च कृष्ण-अनुभावेन you and by Krishna's might
सजीव: मोचित:-अन्तकात् alive rescued from death
तवेमे तनयास्तात जनमेजयपूर्वका: ।
श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥३५॥
तव-इमे तनया:-तात your these sons, O Dear One!
जनमेजय-पूर्वका: Janamejaya following
श्रुतसेन: भीमसेन: Shrutasena Bheemsena
उग्रसेन:-च वीर्यवान् Ugrasena and all very brave
जन्मेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् ।
सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वित: ॥३६॥
जन्मेजय:-त्वाम् विदित्वा Janamejaya, you knowing
तक्षकात्-निधनम् गतम् from Takshaka destined
सर्पान् वै सर्प-याग-अग्नौ the snakes indeed, in the snake sacrifice fire
स: होष्यति रुषा-अन्वित: he will offer as oblation, by rage overcome
कावषेयं पुरोधाय तुरं तुरगमेधयाट् ।
समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरै: ॥३७॥
कावषेयम् पुरोधाय तुरम् Kavasha's son, appointing as priest
तुरम् तुरग-मेधयाट् Tura, horse sacrifices performing
समन्तात् पृथिवीम् सर्वाम् from all about the globe, the whole
जित्वा यक्ष्यति च-अध्वरै: winning, will conduct sacrifices and by sacrifices
तस्य पुत्र: शतानीको याज्ञवल्क्यात् त्रयीं पठन् ।
अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥३८॥
तस्य पुत्र: शतानीक: his son, Shataaneeka
याज्ञवल्क्यात् त्रयीम् पठन् from Yaagyavalkya three Vedas will study
अस्त्र-ज्ञानम् क्रिया-ज्ञानम् the missiles' knowledge and Self knowledge
शौनकात् परम-एष्यति from Shaunaka the Ultimate will attain
सहस्रानीकस्तत्पुत्रस्ततस्चैवाश्वमेधज: ।
असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुत: ॥३९॥
सहस्रानीक:-तत्-पुत्र:-तत: Sahasraaneeka will be his son, from him
च-एव-अश्वमेधज: and also Ashvamedhaja
असीमकृष्ण:-तस्य-अपि Aseemakrishna will be his also
नेमिचक्र:-तु तत्-सुत: Nemichakra was indeed his son
गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति ।
उक्तस्ततश्चित्ररथस्तस्मात् कविरथ: सुत: ॥४०॥
गजाह्वये हृते नद्या Hastinaapura being washed away by river (Ganga),
कौशाम्ब्याम् साधु वत्स्यति in Kaushaambi, well will live
उक्त:-तत:-चित्ररथ:- is said to be from him Chitraratha,
तस्मात् कविरथ: सुत: from him Kaviratha the son
तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपति: ।
सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनल: ॥४१॥
तस्मात्-च वृष्टिमान्- from him and Vrishteemaan
तस्य सुषेण:-अथ महीपति: his Sushena, then Maheepati,
सुनीथ:-तस्य भविता Sunitha his, will be
नृचक्षु:-यत् सुखीनल: Nrichakshu, whose (will be) Sukheenala
परिप्लव: सुतस्तस्मान्मेधावी सुनयात्मज: ।
नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥४२॥
परिप्लव: सुत:-तस्मात्- (his) Pariplava the son, from him
मेधावी सुनय-आत्मज: Medhaavee, Sunaya's son,
नृपञ्जय:-तत: दूर्व:- Nripanjaya, from him Doorva,
तिमि:-तस्मात्-जनिष्यति Timi from him will be born
तिमेर्बृहद्रथस्तस्माच्छतानीक: सुदासज: ।
शतानीकाद् दुर्दमनस्तस्यापत्यं वहीनर: ॥४३॥
तिमे:-बृहद्रथ:-तस्मात्- of Timi, Brihadratha, from him,
शतानीक: सुदास-ज: Shataaneeka, Sudaasa's son
शतानीकाद् दुर्दमन:- from Shataaneeka Durdamana,
तस्य-अपत्यम् वहीनर: his son Vaheenara
दण्डपाणिर्निमिस्तस्य क्षेमको भविता नृप: ।
ब्रह्मक्षत्रस्य वै प्रोक्तो वंशो देवर्षिसत्कृत: ॥४४॥
दण्डपाणि:-निमि:-तस्य (his son) Dandapaani, (then) Nimi, his
क्षेमक: भविता नृप: (son) Kshemaka will be the king
ब्रह्म-क्षत्रस्य वै प्रोक्त: of Braahmanas and Kshatriyas' indeed, have told
वंश: देवर्षि-सत्कृत: of the race, by the gods esteemed
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
अथ मागधराजानो भवितारो वदामि ते ॥४५॥
क्षेमकम् प्राप्य राजानम् Kshemaka reaching to, of the kings
संस्थाम् प्राप्स्यति वै कलौ end will come to indeed in Kali,
अथ मागध-राजान: now of the Magadha kings
भवितार: वदामि ते to come, will enumerate for you
भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवा: ।
ततोऽयुतायुस्तस्यापि निरमित्रोऽथ तत्सुत: ॥४६॥
भविता सहदेवस्य will be of Sahadeva
मार्जारि:-यत्-श्रुतश्रवा: Maarjaari, from whom Shrutashravaa
तत:-अयुतायु:-तस्य-अपि from him Ayutaayu, his also
निरमित्र:-अथ तत्-सुत: Niramitra, then, that his son
सुनक्षत्र: सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।
तत: सृतञ्जयाद् विप्र: शुचिस्तस्य भविष्यति ॥४७॥
सुनक्षत्र: सुनक्षत्रात् Sunakshatra, from Sunakshatra
बृहत्सेन: अथ कर्मजित् Brihatsena, then, Karmajit
तत: सृतञ्जयात् विप्र: after that, Sritanjaya, from him Vipra
शुचि:-तस्य भविष्यति Shuchi his will be
क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्र: शमस्तत: ।
द्युमत्सेनोऽथ सुमति: सुबलो जनिता तत: ॥४८॥
क्षेम:-अथ सुव्रत:-तस्मात् Kshema, after that Suvrata, from him
धर्मसूत्र: शम:-तत: Dharmasootra, Shama from him,
द्युमत्सेन:-अथ सुमति: Dyumatsena after that Sumati,
सुबल: जनिता तत: Subala will be born from him
सुनीथ: सत्यजिदथ विश्वजिद् यद् रिपुञ्जय: ।
बार्हद्रथाश्च भूपाला भाव्या: साहस्रवत्सरम् ॥४९॥
सुनीथ: सत्यजित्-अथ (then) Suneetha, Satyajit
विश्वजित् यत् रिपुञ्जय: then Vishvajit, from whom Ripunjaya
बार्हद्रथा:-च भूपाला: Brihadratha and the kings
भाव्या: साहस्र वत्सरम् will be in a thousand years
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे द्वाविंशोऽध्याय: ॥२२॥ Thus ends the twenty-second discourse in Book Nine of the great and
श्रीमद्भागवत महापुराणम्
त्रयोविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
अनो: सभानरश्चक्षु: परोक्षश्च त्रय: सुता: ।
सभानरात् कालनर: सृञ्जयस्तत्सुतस्तत: ॥१॥
अनो: सभानर:-चक्षु: of Anu, Sabhaanara, Chakshu,
परोक्ष:-च त्रय: सुता: Paroksha and three sons
सभानरात् कालनर: from Sabhaanara Kaalanara
सृञ्जय:-तत्-सुत:-तत: Srinjaya his, son (Janmejaya) from him
जनमेजयस्तस्य पुत्रो महाशीलो महामना: ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥२॥
जनमेजय:-तस्य पुत्र: Janamejaya, his son
महाशील: महामना: Mahaasheela, his son Mahaamana,
उशीनर:-तितिक्षु:-च Ushinara Titikshu and
महामनस: आत्मजौ of Mahaamana's two sons
शिबिर्वन शमिर्दक्षश्चत्वारोशीनरात्मजा: ।
वृषादर्भ: सुवीरश्च मद्र: कैकेय आत्मजा: ॥३॥
शिबि:-वन: शमि:-दक्ष:- Shibi, Vana, Shami, Daksha,
चत्वार:-उशीनर-आत्मजा: four Usheenara's sons
वृषादर्भ: सुवीर:-च Vrishaadarbha, Suveera, and
मद्र: कैकेय: आत्मजा: Madra, Kaikeya, sons (of Shibi)
शिवेश्चत्वार एवासंस्तितिक्षोश्च रुशद्रथ: ।
ततो हेमोऽथ सुतपा बलि: सुतपसोऽभवत् ॥४॥
शिवे:-चत्वार एव-आसन्- of Shibi four only were
तितिक्षो:-च रुशद्रथ: of Titikshu and Rudraratha,
तत: हेम:-अथ सुतपा: from him Hema, then Sutapaa,
बलि: सुतपस:-अभवत् Bali from Sutapaa was (born)
अङ्गवङ्गकलिङ्गाद्या: सुह्मपुण्ड्रान्ध्रसंज्ञिता: ।
जज्ञिरे दीर्घतमसो बले: क्षेत्रे महीक्षित: ॥५॥
अङ्ग-वङ्ग-कलिङ्ग-आद्या: Anga, Vanga, Kalinga, the leading,
सुह्म-पुण्ड्र-अन्ध्र-संज्ञिता: Suhma, Pundra, Andhra by name
जज्ञिरे दीर्घतमसो were born of Deerghatamasa (sage)
बले: क्षेत्रे महीक्षित: through Bali's wife, the king
चक्रु: स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते ।
खनपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्तत: ॥६॥
चक्रु: स्व-नाम्ना विषयान् established on own names, principalities,
षड्-इमान् प्राच्यकान्-च ते six of them, eastwards and they
खनपान:-अङ्गत: जज्ञे Khanapaana from Anga was born
तस्माद् दिविरथ:-तत: from him Diviratha, then,
सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजा: ।
रोमपाद इति ख्यातस्तस्मै दशरथ: सखा ॥७॥
सुत: धर्मरथ: यस्य son Dharmaratha of whom
जज्ञे चित्ररथ:-अप्रजा: was born, Chitraratha, (who) was issueless
रोमपाद इति ख्यात:- Romapaada thus famous,
तस्मै दशरथ: सखा for him, Dasharatha was friend
शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह ताम् ।
देवेऽवर्षति यं रामा आनिन्युर्हरिणी सुतम् ॥८॥
शान्ताम् स्व-कन्याम् प्रायच्छत्- Shaantaa, his own daughter gave
ऋष्यशृङ्ग उवाह ताम् to Rishyashringa, (who) married her
देवे-अवर्षति यम् रामा: when gods did not shower rains, whom courtesans
आनिन्यु:-हरिणी सुतम् took, Harinee's son
नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणै: ।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वत: ॥९॥
नाट्य-सङ्गीत वादित्रै:- by dance, music, instrumental,
विभ्रम-आलिङ्गन-अर्हणै: coquetry, embraces and gifts,
स: तु राज्ञ:-अनपत्यस्य he indeed for the king issueless,
निरूप्य-इष्टिम् मरुत्वत: conducted sacrifice for Indra
प्रजामदाद् दशरथो येन लेभेऽप्रजा: प्रजा: ।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुत: ॥१०॥
प्रजाम्-अदाद् दशरथ: progeny gave, Dasharatha
येन लेभे-अप्रजा: प्रजा: by which, gained, the issueless, sons
चतुरङ्ग: रोमपादात् Chaturanga from Romapaada,
पृथुलाक्ष:-तु तत्-सुत: Prithulaaksha indeed was his son
बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुता: ।
आद्याद् बृहन्मनास्तस्माज्जयद्रथ उदाहृत: ॥११॥
बृहद्रथ: बृहत्कर्मा Brihadratha, Brihatkarmaa,
बृहद्भानु:-च तत्-सुता: Brihatbhaanu, and his sons
आद्यात् बृहन्मना:- from the first (Brihadratha), Brihadmanaa,
तस्मात्-जयद्रथ: उदाहृत: from him Jayadratha was said to be
विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।
ततो धृतव्रतस्तस्य सत्कर्माधिरथस्तत: ॥१२॥
विजय:-तस्य सम्भूत्याम् Vijaya, his (son) from Sambhootee,
तत: धृति:-अजायत from him Dhriti was born
तत: धृतव्रत:-तस्य from him Dhritavrata, his
सत्कर्मा-अधिरथ:-तत: Satkarmaa, Adhiratha from him
योऽसौ गङ्गातटे कीडन् मञ्जूषान्तर्गतं शिशुम् ।
कुन्त्यापविद्धं कानीनमनपत्योऽकरोत् सुतम् ॥१३॥
य:-असौ गङ्गा-तटे कीडन् he this, on Ganga's banks sporting,
मञ्जूषा-अन्तर्गतम् शिशुम् a basket inside placed a child,
कुन्त्या-अपविद्धम् कानीनम्- by Kunti abandoned, child of unwed mother,
अनपत्य:-अकरोत् सुतम् the issueless adopted as son
वृषसेन: सुतस्तस्य कर्णस्य जगतीपते: ।
द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥१४॥
वृषसेन: सुत:-तस्य Vrishasena, son his,
कर्णस्य जगतीपते: of Karna the king
द्रुह्यो:-च तनय: बभ्रु: of Druhyu and the son Babhroo,
सेतु:-तस्य-आत्मज:-तत: Setu his son after that
आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृत: ।
धृतस्य दुर्मनास्तस्मात् प्रचेता: प्राचेतसं शतम् ॥१५॥
आरब्ध:-तस्य गान्धार:- Aarabdha his Gaandhaara,
तस्य धर्म:-तत: धृत: his Dharma, from him Dhrita
धृतस्य दुर्मना:-तस्मात् of Dhrita Durmanaa, from him
प्रचेता: प्राचेतसम् शतम् Prachetaa, from Praachetaa a hundred
म्लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिता: ।
तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान् ॥१६॥
म्लेच्छ-अधिपतय:-अभूवन्- of the Mlechcha's rulers became
उदीचीम् दिशम्-अश्रिता: in the north direction settled
तुर्वसो:-च सुत: वह्नि:- of Turvasa and son Vahni,
वह्ने:-भर्ग:-अथ भानुमान् of Vahni, Bharga, then Bhaanumaan
त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधी: ।
मरुतस्तत्सुतोऽपुत्र: पुत्रं पौरवमन्वभूत् ॥१७॥
त्रिभानु:-तत्-सुत:-अस्य- Tribhaanu, his son, his
अपि करन्धम उदार-धी: also Karandhama the liberal minded
मरुत:-तत्-सुत:-अपुत्र: Maruta was his son, issueless,
पुत्रम् पौरवम्-अन्वभूत् as son Paurava (Dushyanta) adopted
दुष्यन्त: स पुनर्भेजे स्वं वंशं राज्यकामुक: ।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥१८॥
दुष्यन्त: स: पुन:-भेजे Dushyanta, he, again returned
स्वम् वंशम् राज्य-कामुक: to own race, of kingdom desiring
ययाते:-ज्येष्ठ-पुत्रस्य of Yayaati's elder son's
यदो:-वंशम् नरर्षभ Yadu's race, O jewel of men!
वर्णयामि महापुण्यं सर्वपापहरं नृणाम् ।
यदोर्वंशं नर: श्रुत्वा सर्वपापै: प्रमुच्यते ॥१९॥
वर्णयामि महा-पुण्यम् I will describe highly sacred
सर्व-पाप-हरम् नृणाम् all sins remover of the men
यदो:-वंशम् नर: श्रुत्वा of Yadu's race, man on hearing
सर्व-पापै: प्रमुच्यते from all sins is freed
यत्रावतीर्णो भगवान् परमात्मा नराकृति: ।
यदो: सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुता: ॥२०॥
यत्र-अवतीर्ण: भगवान् where descended The Almighty Lord,
परमात्मा नर-आकृति: The Supreme Spirit, in a man's form
यदो: सहस्रजित्-क्रोष्टा of Yadu were Sahasrajit, Kroshtaa,
नल: रिपु:-इति श्रुता: Nala, Ripu, these well known
चत्वार: सूनवस्तत्र शतजित् प्रथमात्मज: ।
महाहयो वेणुहयो हैहयश्चेति तत्सुता: ॥२१॥
चत्वार: सूनव:-तत्र four were his sons, there,
शतजित् प्रथम-आत्मज: Shatajit the first's son
महाहय: वेणुहय: हैहय:-च- Mahaahaya, Venuhaya,
इति तत्-सुता: Haihaya and thus his sons
धर्मस्तु हैहयसुतो नेत्र: कुन्ते: पिता तत: ।
सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनक: ॥२२॥
धर्म:-तु हैहय-सुत: Dharma indeed was Haihaya's son
नेत्र: कुन्ते: पिता तत: Netra, Kunti's father, (was his son), from him
सोहञ्जि:-अभवत् कुन्ते:- Sohanji was born of Kunti
महिष्मान् भद्रसेनक: Mahishmaana, Bhadrasenaka
दुर्मदो भद्रसेनस्य धनक: कृतवीर्यसू: ।
कृताग्नि: कृतवर्मा च कृतौजा धनकात्मजा: ॥२३॥
दुर्मद: भद्रसेनस्य Durmada was of Bhadrasena,
धनक: कृतवीर्य-सू: Dhanaka Kritaveerya gave birth to
कृताग्नि: कृतवर्मा च Kritaagni, Kritavarmaa,
कृतौजा धनक-आत्मजा: and Kritaujaa were Dhanak's sons
अर्जुन कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्-हरेरंशात् प्राप्तयोगमहागुण: ॥२४॥
अर्जुन कृतवीर्यस्य Arjuna of Kritaveerya
सप्त-द्वीप-ईश्वर:-अभवत् of the seven divisions (of earth) lord became
दत्तात्रेयाद्-हरे:-अंशात् from Dattaatreya, Lord Shree Hari's part
प्राप्त-योग-महा-गुण: attained, Yoga (and) great virtues
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवा:।
यज्ञदानतपोयोगश्रुतवीर्यजयादिभि: ॥२५॥
न नूनम् कार्तवीर्यस्य not surely Kaartaveerya's
गतिम् यास्यन्ति पार्थिवा: state will achieve the rulers
यज्ञ-दान-तप:-योग- in sacrifices conducting, charity, asceticism, Yoga,
श्रुत-वीर्य-जय-आदिभि: learning, valour, and victory and so on
पञ्चाशीतिसहस्राणि ह्यव्याहतबल: समा: ।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥२६॥
पञ्चाशीति-सहस्राणि for five and eighty thousand
हि-अव्याहत-बल: समा: indeed, with undiminished strength, years,
अनष्ट-वित्त-स्मरण: inexhaustible wealth, memory
बुभुजे-अक्षय्य-षड्-वसु enjoyed with unimpaired six senses
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वज: शूरसेनो वृषभो मधुरूजित: ॥२७॥
तस्य पुत्र-सहस्रेषु of his sons a thousand
पञ्च-एव-उर्वरिता मृधे five only remained in the war
जयध्वज: शूरसेन: Jayadhvaja, Shoorasena,
वृषभ: मधु:-ऊर्जित: Vrishabha, Madhu, Oorjita
जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ।
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥२८॥
जयध्वजात् तालजङ्घ:- from Jayadhvaja, Taalajanghas,
तस्य पुत्र-शतम् तु-अभूत् his sons a hundred indeed were born
क्षत्रम् यत् तालजङ्घ-आख्यम्- Kshatriyas which, Taalajanghas called
और्व-तेज-उपसंहृतम् by Aurva's glory exterminated
तेषाम् ज्येष्ठो वीतिहोत्रो वृष्णि: पुत्रो मधो: स्मृत: ।
तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यत: कुलम् ॥२९॥
तेषाम् ज्येष्ठ: वीतिहोत्र: of them the eldest was Veetihotra
वृष्णि: पुत्र: मधो: स्मृत: Vrishnees the son of Madhu is known to be
तस्य पुत्र-शतम् तु-आसीत् his sons hundred indeed were
वृष्णि-ज्येष्ठम् यत: कुलम् Vrishnees the eldest from whom the race
माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिता: ।
यदुपुत्रस्य च क्रोष्टो: पुत्रो वृजिनवांस्तत: ॥३०॥
माधवा: वृष्णय: राजन् Maadhava, Vrishnees, O King!
यादवा:-च-इति संज्ञिता: Yaadavaas and thus were named
यदु-पुत्रस्य च क्रोष्टो: of Yadu's son and Kroshtu's
पुत्र: वृजिनवान्-तत: son Vrijinvaan from him
श्वाहिस्ततो रुशेकुर्वै तस्य चित्ररथस्तत: ।
शशबिन्दुर्महायोगी महाभोजो महानभूत् ॥३१॥
श्वाहि:-तत: रुशेकु:-वै Shvaahi from him, Rusheku indeed,
तस्य चित्ररथ:-तत: his Chitraratha from him
शशबिन्दु:-महायोगी Shashabindu, the great mystic,
महाभोज: महान्-अभूत् of great enjoyments, and very virtuous was born
चतुर्दशमहारत्नश्चक्रवर्त्यपराजित: ।
तस्य पत्नीसहस्राणां दशानां सुमहायशा: ॥३२॥
चतुर्दश-महारत्न:- the fourteen excellent jewels
चक्रवर्ती-अपराजित: emperor of the whole world, invincible,
तस्य पत्नी-सहस्राणाम् his, wives thousand
दशानाम् सुमहायशा: ten renowned (sons)
दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ।
तेषां तु षट्प्रधानानां पृथुश्रवस आत्मज: ॥३३॥
दश-लक्ष-सहस्राणि ten lakh thousand
पुत्राणाम् तासु-अजीजनत् sons from them, begot,
तेषाम् तु षट्-प्रधानानाम् among them, indeed the six foremost were
पृथुश्रवस: आत्मज: the Prithusrava sons
धर्मो नामोशना तस्य हयमेधशतस्य याट् ।
तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजा: शृणु ॥३४॥
धर्म: नाम-उशना तस्य Dharma named, Ushanaa his,
हयमेध-शतस्य याट् horse sacrifices hundred
तत्-सुत: रुचक:-तस्य his son Ruchaka, his
पञ्च-आसन्-आत्मजा: शृणु five were sons, listen to
पुरुजिद्रुक्मरुक्मेषुपृथुज्यामघसंज्ञिता: ।
ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैव्यापतिर्भयात् ॥३५॥
पुरुजित्-रुक्म-रुक्मेषु- Purujit, Rukma, Rukmeshu,
पृथु-ज्यामघ-संज्ञिता: Prithu, Jyaamagha, named
ज्यामघ:-तु-अप्रज:-अपि- Jyaamagha, indeed issueless, even,
अन्याम् भार्याम् another wife
शैव्या-पति:-भयात् (he) Shaibya's husband, for fear
नाविन्दच्छत्रुभवनाद् भोज्यां कन्यामहार्षीत् ।
रथस्थां तां निरीक्ष्याह शैव्या पतिममर्षिता ॥३६॥
न-अविन्दत्-शत्रु-भवनात् did not get from the enemy's house
भोज्याम् कन्याम्-अहार्षीत् Bhojyaa, the girl, abducted (her)
रथ-स्थाम् ताम् निरीक्ष्-आह in the chariot seated her seeing, said
शैव्या पतिम्-अमर्षिता Shaivyaa, to the husband in anger
केयं कुहक मत्स्थानं रथमारोपितेति वै ।
स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥३७॥
का-इयम् कुहक मत्-स्थानम् 'who is she? O traitor! on my seat
का-इयम् कुहक मत्-स्थानम्
रथम्-आरोपिता-इति वै in the chariot placed thus indeed'
स्नुषा तव-इति-अभिहिते daughter-in-law, your's, this being told,
स्मयन्ती पतिम्-अब्रवीत् smilingly to the husband said
अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् ।
जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥३८॥
अहम् बन्ध्या-असपत्नी च 'I am barren, without a co-wife and
अहम् बन्ध्या-असपत्नी च
स्नुषा मे युज्यते कथम् daughter-in-law mine, is possible how'
जनयिष्यसि यम् राज्ञि 'Will give birth to whom, O Queen!
जनयिष्यसि यम् राज्ञि
तस्य-इयम्-उपयुज्यते his she will be a match.'
अन्वमोदत तद्विश्वेदेवा: पितर एव च ।
शैव्या गर्भमधात् काले कुमारं सुषुवे शुभम् ।
स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥३९॥
अन्वमोदत तत्- approved that
विश्वेदेवा: पितर: एव च the Vishvedevas the manes, also and
शैव्या गर्भम्-अधात् Shaivyaa conceived
काले कुमारम् सुषुवे शुभम् in time a boy gave birth to handsome
स: विदर्भ: इति प्रोक्त: he Vidarbha, thus called
उपयेमे स्नुषाम् सतीम् married the daughter-in-law, chaste
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमे स्कन्धे यदुवंशानुवर्णने त्रयोविंशोऽध्याय:
चतुर्विंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुशक्रथौ ।
तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥१॥
तस्याम् विदर्भ:-अजनयत् from her Vidarbha begot
पुत्रौ नाम्ना कुश-क्रथौ sons by name Kusha and Kratha
तृतीयम् रोमपादम् च third Romapaada and
विदर्भ-कुल-नन्दनम् was Vidarbha family's delight
रोमपादसुतो बभ्रुर्बभ्रो: कृतिरजायत ।
उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृप ॥२॥
रोमपाद-सुत: बभ्रु:- Romapaada's son Babhroo
बभ्रो: कृति:-अजायत of Babhroo Kriti was born
उशिक:-तत्-सुत:-तस्मात्- Ushika was his son, from him
चेदि:-चैद्य-आदय: नृप Chedi, the Chaidya and others O King!
क्रथस्य कुन्ति: पुत्रोऽभूद् धृष्टिस्तस्याथ निर्वृति: ।
ततो दशार्हो नाम्नाभूत् तस्य व्योम: सुतस्तत: ॥३॥
क्रथस्य कुन्ति: पुत्र:-अभूत् of Kratha Kunti the son was,
धृष्टि:-तस्य-अथ निर्वृति: Dhrishti his then Nirvriti
तत: दशार्ह: नाम्ना-अभूत् from him Dashaarha, named was (born)
तस्य व्योम: सुत:-तत: his Vyoma, the son from him
जीमूतो विकृतिस्तस्य यस्य भीमरथ: सुत: ।
ततो नवरथ: पुत्रो जातो दशरथस्तत: ॥४॥
जीमूत: विकृति:-तस्य (His) Jeemoota, Vikriti his
यस्य भीमरथ: सुत: whose Bheemaratha the son
तत: नवरथ: पुत्र: from him Navaratha the son
जात: दशरथ:-तत: was born, Dasharatha from him
करम्भि: शकुने: पुत्रो देवरातस्तदात्मज: ।
देवक्षत्रस्ततस्तस्य मधु: कुरुवशादनु: ॥५॥
करम्भि: शकुने: पुत्र: Karambhi was Shakuni's son
देवरात:-तत्-आत्मज: Devaraata was his son
देवक्षत्र:-तत:-तस्य Devakshatra from him, his
मधु: कुरुवशात्-अनु: Madhu from Kuruvasha Anu
पुरुहोत्रस्त्वनो: पुत्रस्तस्यायु: सात्वतस्तत: ।
भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धक: ॥६॥
पुरुहोत्र:-तु-अनो: पुत्र:- Putrahotra, indeed Anu's son,
तस्य-आयु: सात्वत:-तत: his Aayu, Saatvata from him
भजमान: भजि:-दिव्य:- Bhajamaana, Bhaji, Divya,
वृष्णि:-देवावृध:-अन्धक: Vrishni, Devaavridha, Andhaka
सात्वतस्य सुता: सप्त महाभोजश्च मारिष ।
भजमानस्य निम्लोचि: किङ्किणो धृष्टिरेव च ॥७॥
सात्वतस्य सुता: सप्त Saatvata sons were seven
महाभोज:-च मारिष Mahaabhoja and, O Pareekshit!
भजमानस्य निम्लोचि: of Bhajamaana Nimlochi,
किङ्किण: धृष्टि:-एव च Kinkina, Dhrishti also and
एकस्यामात्मजा: पत्न्यामन्यस्यां च त्रय: सुता: ।
शताजिच्च सहस्राजिदयुताजिदिति प्रभो ॥८॥
एकस्याम्-आत्मजा: पत्न्याम्- from one, sons, wife,
अन्यस्याम् च त्रय: सुता: from another and three sons
शताजित्-च सहस्राजित्- Shataajit, and Sahasraajit,
अयुताजित्-इति प्रभो Ayutaajit thus, O lord!
बभ्रुर्देवावृधसुतस्तयो: श्लोकौ पठन्त्यमू।
यथैव शृणुमो दूरात् सम्पश्यामस्तथान्तिकात् ॥९॥
बभ्रु:-देवावृध-सुत:- Babhroo, Devaavridha son
तयो: श्लोकौ पठन्ति-अमू of the two, couplets are recited these
यथा-एव शृणुम: दूरात् just as is heard from afar,
सम्पश्याम:-तथा-अन्तिकात् is seen like that from near
बभ्रु: श्रेष्ठो मनुष्याणां देवैर्देवावृध: सम: ।
पुरुषा: पञ्चषष्टिश्च षट् सहस्राणि चाष्ट च ॥१०॥
बभ्रु: श्रेष्ठ: मनुष्याणाम् Babhroo, eminent among men,
देवै:-देवावृध: सम: with the gods Devaavridha is equal
पुरुषा: पञ्चषष्टि:-च men, five six and (sixty five)
षट् सहस्राणि च-अष्ट च six thousand and eight and
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ।
महाभोजोऽपि धर्मात्मा भोजा आसंस्तदन्वये ॥११॥
ये-अमृतत्वम्-अनुप्राप्ता: those who salvation have attained
बभ्रो:-देवावृधात्-अपि from Babhroo and Devaavridha also
महाभोज:-अपि धर्मात्मा Mahaabhoja also was righteous minded,
भोजा: आसन्-तत्-अन्वये Bhojas became his in clan
वृष्णे: सुमित्र: पुत्रोऽभूद् युधाजिच्च परंतप ।
शिनिस्तस्यानमित्रश्च निम्नोऽभूदनमित्रत: ॥१२॥
वृष्णे: सुमित्र: पुत्र:-अभूत् of Vrishnee, Sumitra, the son was born
युधाजित्-च परंतप Yudhaajit and, O Pareekshit!
शिनि:-तस्य-अनमित्र:-च Shini his, Anamitra and
निम्न:-अभूत्-अनमित्रत: Nimna was born from Anamitra
सत्राजित: प्रसेनश्च निम्नस्याप्यासतु: सुतौ ।
अनमित्रसुतो योऽन्य: शिनिस्तस्याथ सत्यक: ॥१३॥
सत्राजित: प्रसेन:-च Satraajit Prasena and
निम्नस्य-अपि-आसतु: सुतौ Nimna's also were the sons
अनमित्र-सुत: य:-अन्य: Anamitra's son who was the other
शिनि:-तस्य-अथ सत्यक: Shini was his, then Satyaka
युयुधान: सात्यकिर्वै जयस्तस्य कुणिस्तत: ।
युगन्धरोऽनमित्रस्य वृष्णि: पुत्रोऽपरस्तत: ॥१४॥
युयुधान: सात्यकि:-वै Yuyudhaana Satyak's indeed
जय:-तस्य कुणि:-तत: Jaya his, Kuni from him
युगन्धर:-अनमित्रस्य Yugandhara of Anamitra
वृष्णि: पुत्र:-अपर:-तत: Vrishni the son other from him
श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कत: ।
अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुता: ॥१५॥
श्वफल्क:-चित्ररथ:-च Shvaphalka Chitraratha and
गान्दिन्याम् च श्वफल्कत: through Gaandinee and from Shvaphalka
अक्रूर-प्रमुखा: आसन् Akroora, the foremost were
पुत्रा: द्वादश विश्रुता: sons twelve well known
आसङ्ग: सारमेयश्च मृदुरो मृदुविद् गिरि: ।
धर्मवृद्ध: सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दन: ॥१६॥
आसङ्ग: सारमेय:-च Aasanga, Saarameya and
मृदुर: मृदुविद् गिरि: Mridura, Mriduvid, Giri,
धर्मवृद्ध: सुकर्मा च Dharmavriddha, Sukarmaa and
क्षेत्रोपेक्ष:-अरिमर्दन: Kshetropeksha Arimardana
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश ।
तेषां स्वसा सुचीराख्या द्वावक्रूरसुतावपि ॥१७॥
शत्रुघ्न: गन्धमाद:-च Shatrughna, Gandhamaada and
प्रतिबाहु:-च द्वादश Pratibaahu and the twelve
तेषाम् स्वसा सुचीरा-आख्या their sister Sucheeraa named
द्वौ-अक्रूर-सुतौ-अपि two Akroora's sons also
देववानुपदेवश्च तथा चित्ररथात्मजा: ।
पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दना: ॥१८॥
देववान्-उपदेव:-च Devavaan Upadeva and
तथा चित्ररथ-आत्मजा: and Chitraratha's sons,
पृथु:-विदूरथ-आद्या:-च Prithu, Vidooratha and others
बहव: वृष्णि-नन्दना: many of Vrishnees the delight
कुकुरो भजमानश्च शुचि: कम्बलबर्हिष: ।
कुकुरस्य सुतो वह्निर्विलोमा तनयस्तत: ॥१९॥
कुकुर: भजमान:-च Kukura, Bhajamaana and
शुचि: कम्बलबर्हिष: Shuchi, Kambalabarhisha
कुकुरस्य सुत: वह्नि:- Kukura's son Vahni,
विलोमा तनय:-तत: Viloma son from him
कपोतरोमा तस्यानु: सखा यस्य च तुम्बुरु: ।
अन्धकौ दुन्दुभिस्तस्मादरिद्योत: पुनर्वसु: ॥२०॥
कपोतरोमा तस्य-अनु: Kapotaroma (Viloma's), his Anu,
सखा यस्य च तुम्बुरु: the friend whose and Tumburu
अन्धकौ दुन्दुभि:-तस्मात्- of Andhaka Dundubhi from him
अरिद्योत: पुनर्वसु: Aridyota, then Punarvasu
तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ ।
देवकश्चोग्रसेनश्च चत्वारो देवकात्मजा: ॥२१॥
तस्य-आहुक:-च-आहुकी his Aahuka and Aahukee
च कन्या च-एव-आहुक-आत्मजौ and daughter, and also Aahuka's sons two
देवक:-च-उग्रसेन:-च Devaka and Ugrasena and
चत्वार: देवक-आत्मजा: four Devaka's sons
देववानुपदेवश्च सुदेवो देववर्धन: ।
तेषां स्वसार: सप्तासन् धृतदेवादयो नृप ॥२२॥
देववान्-उपदेव:-च Devavaan, Upadeva and
सुदेव: देववर्धन: Sudeva, Devavardhana
तेषाम् स्वसार: सप्त-आसन् their sisters seven were
धृतदेवा-आदय: नृप Dhritadevaa and others, O King!
शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता ।
सहदेवा देवकी च वसुदेव उवाह ता: ॥२३॥
शान्तिदेवा-उपदेवा च Shaantidevaa, Upadevaa and
श्रीदेवा देवरक्षिता Shreedevaa, Devarakshitaa,
सहदेवा देवकी च Sahadeva, Devakee and
वसुदेव उवाह ता: Vasudeva married them
कंस: सुनामा न्यग्रोध: कङ्क: शङ्कु: सुहूस्तथा ।
राष्ट्रपालोऽथ सृष्टिश्च तुष्टिमानौग्रसेनय: ॥२४॥
कंस: सुनामा न्यग्रोध: Kansa, Sunaamaa, Nyagrodha,
कङ्क: शङ्कु: सुहू:-तथा Kanka, Shanku, Suhoo and
राष्ट्रपाल:-अथ सृष्टि:-च Raashtrapaala , then Srishti and
तुष्टिमान्-औग्रसेनय: Tushtimaana, Ugrasena's
कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका ।
उग्रसेनदुहितरो वसुदेवानुजस्त्रिय: ॥२५॥
कंसा कंसवती कङ्का Kansaa, Kansavatee, Kankaa,
शूरभू राष्ट्रपालिका Shoorabhoo, Raashtrapaalikaa,
उग्रसेन-दुहितर: Ugrasena's daughters
वसुदेव-अनुज-स्त्रिय: Vasudeva's younger brother's wives
शूरो विदूरथादासीद् भजमान: सुतस्तत: ।
शिनिस्तस्मात् स्वयम्भोजो हृदीकस्तत्सुतो मत: ॥२६॥
शूर: विदूरथात्-आसीद् Shoora from Vidooratha was
भजमान: सुत:-तत: Bhajamaana son from him
शिनि:-तस्मात् Shini from him
स्वयम्भोज: Svayambhoja
हृदीक:-तत्-सुत: मत: Hrideeka his son was known to be
देवबाहु: शतधनु: कृतवर्मेति तत्सुता: ।
देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् ॥२७॥
देवबाहु: शतधनु: Devabaahu, Shatadhanu,
कृतवर्मा-इति तत्-सुता: Kritavarmaa these were his sons
देवमीढस्य शूरस्य Devameedha's Shoora's
मारिषा नाम पत्नी-अभूत् Maarishaa named wife became
तस्यां स जनयामास दश पुत्रानकल्मषान् ।
वसुदेवं देवभागं देवश्रवसमानकम् ॥२८॥
तस्याम् स: जनयामास from her he begot
दश पुत्रान्-अकल्मषान् ten sons sinless
वसुदेवम् देवभागम् Vasudeva, Devabhaaga,
देवश्रवसम्-आनकम् Devashravas, Aanaka,
सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् ।
देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥२९॥
सृञ्जयम् श्यामकम् कङ्कम् Srinjaya, Shyaamaka, Kanka,
शमीकम् वत्सकम् वृकम् Shameeka, Vatsaka, Vrika
देव-दुन्दुभय: नेदु:- of the gods the trumpets sounded and
आनका: यस्य जन्मनि drums, on whose birth
वसुदेवं हरे: स्थानं वदन्त्यानकदुन्दुभिम् ।
पृथा च श्रुतदेवा च श्रुतकीर्ति: श्रुतश्रवा: ॥३०॥
वसुदेवम् हरे: स्थानम् Vasudeva of Shree Hari's place (father)
वदन्ति-आनकदुन्दुभिम् (they) say, (also called) Aanakadundubhi
पृथा च श्रुतदेवा च Prithaa and Shrutadevaa and
श्रुतकीर्ति: श्रुतश्रवा: Shrutakeerti, Shrutashravaa
राजाधिदेवी चैतेषां भगिन्य: पञ्च कन्यका: ।
कुन्ते: सख्यु: पिता शूरो ह्यपुत्रस्य पृथामदात् ॥३१॥
राजाधिदेवी च-एतेषाम् Raajaadhidevee, and of these
भगिन्या पञ्च कन्यका: sisters, five daughters
कुन्ते: सख्यु: पिता शूर: to Kunti the friend, the father Shoora
हि-अपुत्रस्य पृथाम्-अदात् indeed the issueless, Prithaa gave
साऽऽप दुर्वाससो विद्यां देवहूतीं प्रतोषितात् ।
तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिम् ॥३२॥
सा-आप-दुर्वासस: विद्याम् she gained from Durvaasaa, the knowledge
देवहूतीम् प्रतोषितात् of the gods invoking, the highly pleased
तस्या: वीर्य-परीक्षा-अर्थम्- of that, the power to test the efficacy
आजुहाव रविम् शुचिम् invoked the Sun lustrous
तदैवोपागतं देवं वीक्ष्य विस्मितमानसा ।
प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥३३॥
तदा-एव-उपागतम् देवम् then only arrived the god
वीक्ष्य विस्मित-मानसा observing, bewildered minded
प्रत्यय-अर्थम् प्रयुक्ता मे for trial purpose employed by me
याहि देव क्षमस्व मे return, O lord! forgive me
अमोघं दर्शनं देवि आधित्से त्वयि चात्मजम् ।
योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ॥३४॥
अमोघम् दर्शनम् देवि fruitful the sight, O divine lady!
आधित्से त्वयि च-आत्मजम् Wish to beget in you and a son
योनि:-यथा न दुष्येत virginity so as may not be impaired
कर्ता-अहम् ते सुमध्यमे will do that I for you, O Beautiful one!
इति तस्यां स आधाय गर्भं सूर्योदिवं गत: ।
सद्य: कुमार: संजज्ञे द्वितीय इव भास्कर: ॥३५॥
इति तस्याम् स: आधाय thus in her he depositing
गर्भम् सूर्य:-दिवम् गत: the seed, the Sun to heaven went
सद्य: कुमार: संजज्ञे immediately a baby boy was born,
द्वितीय इव भास्कर: second as if the Sun
तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती ।
प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रम: ॥३६॥
तम् सा-अत्यजत्-नदी-तोये him she abandoned, in the river water,
कृच्छ्रात्-लोकस्य बिभ्यती of defame of the people afraid of
प्रपितामह:-ताम्-उवाह great-grand-father her married
पाण्डु:-वै सत्य-विक्रम: Paandu, indeed of genuine valour
श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् ।
यस्यामभूद् दन्तवक्त्र ऋषिशप्तो दिते: सुत: ॥३७॥
श्रुतदेवाम् तु कारूष: Shrutadevaa indeed of Kaaroosha (land)
वृद्धशर्मा समग्रहीत् Vridhasharmaa married
यस्याम्-अभूत् दन्तवक्त्र: from whom was (born) Dantavaktra
ऋषि-शप्त: दिते: सुत: by the sage cursed, Diti's son
कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत ।
सन्तर्दनादयस्तस्य पञ्चासन् कैकया: सुता: ॥३८॥
कैकेय: धृष्टकेतु:-च of Kaikeya (land) Dhrishtaketu and
श्रुतकीर्तिम्-अविन्दत Shrutakeerti married
सन्तर्दन-आदय:-तस्य Santardana and others, his
पञ्च-आसन् कैकया: सुता: five were Kaikeya princes
राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह ।
दमघोषश्चेदिराज: श्रुतश्रवसमग्रहीत् ॥३९॥
राजाधिदेव्याम्-आवन्त्यौ from Raajaadhidevi, of Avanti the two,
जयसेन: अजनिष्ट ह Jayasena begot indeed
दमघोष:-चेदिराज: Damaghosha, the Chedi king
श्रुतश्रवसम्-अग्रहीत् Shrutasavaa married
शिशुपाल: सुतस्तस्या: कथितस्तस्य सम्भव: ।
देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ॥४०॥
शिशुपाल: सुत:-तस्या: Shishupaala son her's
कथित:-तस्य सम्भव: is said (of) his birth
देवभागस्य कंसायाम् of Devabhaaga through Kansaa
चित्रकेतु:-बृहद्बलौ Chitraketu and Brihadbala (two sons)
कंसवत्यां देवश्रवस: सुवीर इषुमांस्तथा ।
कङ्कायामानकाज्जात: सत्यजित् पुरुजित् तथा ॥४१॥
कंसवत्याम् देवश्रवस: from Kamsavati of Devashrava
सुवीर इषुमान्-तथा Suveera Ishumaan and
कङ्कायाम्-आनकात्- through Kankaa from Aanaka
जात: सत्यजित् पुरुजित् तथा were born Satyajit Purujit and
सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान् ।
हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामक: ॥४२॥
सृञ्जय: राष्ट्रपाल्याम् च Srinjaya through Raashtrapaalee and
वृष-दुर्मर्षण-आदिकान् Vrisha, Durmarshana and others
हरिकेश-हिरण्याक्षौ Harikesha and Hiranyaaksha the two
शूरभूम्याम् च श्यामक: through Shoorabhoomi and Shyamaka
मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा ।
तक्षपुष्करशालादीन् दुर्वार्क्ष्यां वृक आदधे ॥४३॥
मिश्रकेश्याम्-अप्सरसि from Mishrakeshee, the celestial nymph
वृक-आदीन् वत्सक:-तथा Vrika and others, Vatsaka, and
तक्षपुष्कर-शाला-आदीन् Taksha, Pushkara, Shaala and others
दुर्वार्क्ष्याम् वृक आदधे through Durvaraakshee, Vrika begot
सुमित्रार्जुनपालादीञ्छमीकात्तु सुदामिनी ।
कङ्कश्च कर्णिकायां वै ऋतधामजयावपि ॥४४॥
सुमित्र-अर्जुनपाल-आदीन्- Sumitra, Arjunapaala and others
शमीकात्-तु सुदामिनी from Shameeka indeed Sudaamini
कङ्क:-च कर्णिकायाम् वै Kanka and through Karnikaa indeed
ऋतुधाम-जयौ-अपि Ritudhaama Jaya both also
पौरवी रोहिणी भद्रा मदिरा रोचना इला ।
देवकीप्रमुखा आसन् पत्न्या आनकदुन्दुभे: ॥४५॥
पौरवी रोहिणी भद्रा Pauravee, Rohinee, Bhadraa,
मदिरा रोचना इला Madiraa, Rochanaa, Ilaa
देवकी-प्रमुखा: आसन् Devaki the foremost, were
पत्न्या: आनकदुन्दुभे: the wives of Aanakadundubhi
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् ।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥४६॥
बलम् गदम् सारणम् च Bala, Gada, Saarana and
दुर्मदम् विपुलम् ध्रुवम् Durmada, Vipula, Dhruva,
वसुदेव:-तु रोहिण्याम् Vasudeva indeed through Rohinee,
कृतादीन्-उदपादयत् Krita and others begot
सुभद्रो भद्रवाहश्च दुर्मदो भद्र एव च ।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥४७॥
सुभद्र: भद्रवाह:-च Subhadra, Bhadravaaha, and
दुर्मद: भद्र: एव च Durmada, Bhadra also and
पौरव्या:-तनया: हि-एते Pauravee's sons indeed these
भूत-आद्या: द्वादश-अभवन् Bhoota and others twelve were born
नन्दोपनन्दकृतकशूराद्या मदिरात्मजा: ।
कौसल्या केशिनं त्वेकमसूत कुलनन्दनम् ॥४८॥
नन्द-उपनन्द-कृतक-शूर- Nanda, Upananda, Kritaka, Shoora
आद्या: मदिरा-आत्मजा: and others were Madira's sons
कौसल्या केशिनम् तु-एकम्- Kausalyaa, Keshee indeed, one
असूत कुल-नन्दनम् gave birth to the family's delight
रोचनायामतो जाता हस्तहेमाङ्गदादय: ।
इलायामुरुवल्कादीन् यदुमुख्यानजीजनत् ॥४९॥
रोचनायाम्-अत: जाता: through Rochanaa, then, (Keshee's), were born,
हस्त-हेमाङ्गद-आदय: Hasta, Hemaangada and others
इलायाम्-उरुवल्क-आदीन् through Ila, Uruvalka and others
यदु-मुख्यान्-अजीजनत् Yadu's foremost begot
विपृष्ठो धृतदेवायामेक आनकदुन्दुभे: ।
शान्तिदेवात्मजा राजञ्छ्रमप्रतिश्रुतादय: ॥५०॥
विपृष्ठ: धृतदेवायाम्- Viprishta through Dhritadevaa
एक: आनकदुन्दुभे: alone was Vasudeva's (son)
शान्तिदेव-आत्मजा: राजन्- Shaantideva's sons, O King!
श्रम-प्रतिश्रुत-आदय: Shrama, Pratishruta and others
राजान: कल्पवर्षाद्या उपदेवासुता दश ।
वसुहंससुवंशाद्या: श्रीदेवायास्तु षट् सुता: ॥५१॥
राजान: कल्पवर्ष-आद्या: kings Kalpavarsha and others
उपदेवा-सुता: दश Upadev's sons ten
वसु-हंस-सुवंश-आद्या: Vasu, Hansa, Suvansha and others
श्रीदेवाया:-तु षट् सुता: Shreedeva's indeed were six sons
देवरक्षितया लब्धा नव चात्र गदादय: ।
वसुदेव: सुतानष्टावादधे सहदेवया ॥५२॥
देवरक्षितया लब्धा: नव through Devarakshitaa begot nine
च-अत्र गद-आदय: and here Gada and others,
वसुदेव: सुतान्-अष्टौ- Vasudeva sons eight
आदधे सहदेवया begot through Sahadevaa
पुरुविश्रुतमुख्यांस्तु साक्षाद् धर्मो वसूनिव ।
वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ॥५३॥
पुरु-विश्रुत मुख्यान्-तु Puru, Vishruta, the leading indeed
साक्षात् धर्म: वसून्-इव themselves Dharma Vasus as
वसुदेवस्तु देवक्याम्- Vasudeva, indeed through Devakee
अष्ट पुत्रान्-अजीजनत् eight sons begot
कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधी: ।
ऋजुं सम्मर्दनं भद्रं संकर्षणमहीश्वरम् ॥५४॥
कीर्तिमन्तम् सुषेणम् च Keertimaan, Sushena, and
भद्रसेनम्-उदारधी: Bhadrasena, the high minded
ऋजुम् सम्मर्दनम् भद्रम् Riju, Sammardana, Bhadra,
संकर्षण-महीश्वरम् Sankarshana, the earth's lord
अष्टमस्तु तयोरासीत् स्वयमेव हरि: किल ।
सुभद्रा च महाभागा तव राजन् पितामही ॥५५॥
अष्टम:-तु तयो:-आसीत् the eighth indeed, of the two was
स्वयम्-एव हरि: किल Himself only Lord Shree Hari, definitely
सुभद्रा च महाभागा Subhadraa and the highly blessed
तव राजन् पितामही your's O King! the grandmother
यदा यदेह धर्मस्य क्षयो वृद्धिश्च पाप्मन: ।
तदा तु भगवानीश आत्मानं सृजते हरि: ॥५६॥
यदा यदा-इह धर्मस्य when ever, here, of virtues'
क्षय: वृद्धि:-च पाप्मन: decline, increase and of sins
तदा तु भगवान्-ईश then indeed, Lord Almighty
आत्मानम् सृजते हरि: Himself manifests Shree Hari
न ह्यस्य जन्मनो हेतु: कर्मणो वा महीपते ।
आत्ममायां विनेशस्य परस्य द्रष्टुरात्मन: ॥५७॥
न हि-अस्य जन्मन: हेतु: not certainly, His appearance's reason is
कर्मण: वा महीपते of actions or, O King!
आत्म-मायाम् विना-ईशस्य Own Maaya except, of The Lord
परस्य द्रष्टु:-आत्मन: Supreme, The Witness of the souls
यन्मायाचेष्टितं पुंस: स्थित्युत्पत्त्यप्ययाय हि ।
अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥५८॥
यत्-माया चेष्टितम् पुंस: Whose Maayaa's activity, for the people
स्थिति-उत्पत्ति-अप्ययाय हि birth, continuance, destruction only
अनुग्रह:-तत्-निवृत्ते:- grace His, for the cessation (of the same)
आत्म-लाभाय च-इष्यते Self Realization and conduces
अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनै: ।
भुव आक्रम्यमाणाया आभाराय कृतोद्यम: ॥५९॥
अक्षौहिणीनाम् पतिभि:- of the Akshauhini masters
असुरै:-नृप-लाञ्छनै: the demons, as kings posing
भुव: आक्रम्यमाणाया the earth over-running
आभाराय कृतोद्यम: burdenless to render, performed deeds
कर्माण्यपरिमेयाणि मनसापि सुरेश्वरै: ।
सहसंकर्षणश्चक्रे भगवान् मधुसूदन ॥६०॥
कर्माणि-अपरिमेयाणि deeds unfathomable
मनसा-अपि सुरेश्वरै: by the mind even of the gods' rulers
सह-संकर्षण:-चक्रे with Sankarshana, (Balaraama) performed
भगवान् मधुसूदन The Almighty Madhusoodana (Slayer of Madhu)
कलौ जनिष्यमाणानां दु:खशोकतमोनुदम् ।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यश: ॥६१॥
कलौ जनिष्यमाणानाम् in Kali (yuga), going to be born,
दु:ख-शोक-तम:-नुदम् sorrow, grief, ignorance capable of removing
अनुग्रहाय भक्तानाम् to grace the devotees
सुपुण्यम् व्यतनोत् यश: the sacred spread glory
यस्मिन् सत्कर्णपीयूषे यशस्तीर्थवरे सकृत् ।
श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ॥६२॥
यस्मिन् सत्-कर्ण-पीयूषे in that, in righteous ears the nectar
यश:-तीर्थ-वरे सकृत् glory of the holiest order, (just) once,
श्रोत्र-अञ्जलि उपस्पृश्य by ears, as hollow of palms put together, sipping
धुनुते कर्म-वासनाम् shakes off, of actions' the tendencies
भोजवृष्ण्यन्धकमधुशूरसेनदशार्हकै: ।
श्लाघनीयेहित: शश्वत् कुरुसृञ्जयपाण्डुभि: ॥६३॥
भोज-वृष्णि-अन्धक- by the Bhojas, Vrishnees, Andhakas,
मधु-शूरसेन-दशार्हकै: Madhus, Shoorasenas, Dashaarhakas,
श्लाघनीय-ईहित: शश्वत् the praiseworthy activities are praised consistently,
कुरु-सृञ्जय-पाण्डुभि: by the Kurus, Srinjayas, and the Paandus
स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया ।
नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ॥६४॥
स्निग्ध-स्मित- by loving smiles,
इक्षित-उदारै:-वाक्यै:- glances sweet and words
विक्रम-लीलया valorous deeds
नृ-लोकम् रमयामास the world of mankind bewitched
मूर्त्या सर्वाङ्ग-रम्यया personality in all limbs charming
भ्राजत्कपोलसुभगं सविलासहासम् ।
नित्योत्सवं न ततृपुर्दृशिभि: पिबन्त्यो
नार्यो नराश्च मुदिता: कुपिता निमेश्च ॥६५॥
यस्य-आननम् Whose face
मकर-कुण्डल- by alligator (shaped) ear-rings
चारु-कर्ण- lovely ears
भ्राजत्-कपोल-सुभगम् making to shine the cheeks charming,
सविलास-हासम् with a graceful smile
नित्य-उत्सवम् ever celebrating
न ततृपु:-दृशिभि: not sated with their eyes
पिबन्त्य: नार्य: drinking, the women,
नरा:-च मुदिता: men and full of joy
कुपिता: निमे:-च enraged with Nimi
जातो गत: पितृगृहाद् व्रजमेधितार्थो
हत्वारिपून् सुतशतानि कृतोरुदार: ।
उत्पाद्य तेषु पुरुष: ऋतुभि: समीजे
आत्मानमात्मनिगमं प्रथयञ्जनेषु ॥६६॥
जातो: गत: as He was born
पितृ-गृहाद् from father's house
व्रजम्-एधित-अर्थ: to Vraja was taken for a purpose
हत्वा-रिपून् killing the enemies,
सुत-शतानि sons, hundreds
कृत्-उरु-दार: taking many wives
उत्पाद्य तेषु bigoted through them
पुरुष: ऋतुभि: The Person, by sacrifices
समीजे आत्मानम्- propitiated Himself
आत्म-निगमम् Own (Vedic) path
प्रथयन्-जनेषु popularized among the people
मन्त: समुत्थकलिना युधि भूपचम्व: ।
दृष्ट्या विधूय विजये जयमुद्विघोष्य
प्रोच्योद्धवाय च परं समगात् स्वधाम ॥६७॥
पृथ्व्या: स: वै of the earth He indeed
गुरु-भरम् क्षपयन् the heavy burden reducing
कुरूणाम्-अन्त: समुत्थ the Kurus among (and Paandavas) arisen
कलिना युधि discord, in the battle
भूप-चम्व: the kings' armies
दृष्ट्या विधूय विजये by a glance swept away, of Vijaya's (Arjuna's)
जयम्-उद्विघोष्य victory proclaimed
प्रोच्य-उद्धवाय च परम् taught to Uddhava and the Supreme (knowledge)
समगात् स्वधाम returned to Own abode
श्रीमद्भागवते महापुराणे पारमहंस्यां
वैयासिक्यामष्टादशसाहस्र्यां संहितायां
नवमे स्कन्धे श्रीशूर्यसोमवंशानुकीर्तने
यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्याय: ॥२४॥