श्रीमद्भागवतम् पदच्छेद - स्कंध ९

९.१

श्रीराजोवाच
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।
वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥

श्री-राजा उवाच मन्वन्तराणि सर्वाणि त्वया उक्तानि श्रुतानि मे वीर्याणि अनन्त-वीर्यस्य हरेः तत्र कृतानि च

योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वर: ।
ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥
स वै विवस्वत: पुत्रो मनुरासीदिति श्रुतम् ।
त्वत्तस्तस्य सुता:प्रोक्ता इक्ष्वाकुप्रमुखा नृपा: ॥ ३ ॥

यः असौ सत्यव्रतः नाम राज-ऋषिः द्रविड-ईश्वरः ज्ञानम् यः अतीत-कल्प-अन्ते लेभे पुरुष-सेवया सः वै विवस्वतः पुत्रः मनुः आसीत् इति श्रुतम् त्वत्तः तस्य सुताः प्रोक्ताः इक्ष्वाकु-प्रमुखाः नृपाः

तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च ।
कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि न: ॥ ४ ॥

तेषाम् वंशम् पृथक् ब्रह्मन् वंश-अनुचरितानि च कीर्तयस्व महा-भाग नित्यम् शुश्रूषताम् हि नः

ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये ।
तेषां न: पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥

ये भूताः ये भविष्याः च भवन्ति अद्यतनाः च ये तेषाम् नः पुण्य-कीर्तीनाम् सर्वेषाम् वद विक्रमान्

श्रीसूत उवाच
एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।
पृष्ट: प्रोवाच भगवाञ्छुक: परमधर्मवित् ॥ ६ ॥

श्री-सूतः उवाच एवम् परीक्षिता राज्ञा सदसि ब्रह्म-वादिनाम् पृष्टः प्रोवाच भगवान् शुकः परम-धर्म-वित्

श्रीशुक उवाच
श्रूयतां मानवो वंश: प्राचुर्येण परन्तप ।
न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥

श्री-शुकः उवाच श्रूयताम् मानवः वंशः प्राचुर्येण परन्तप न शक्यते विस्तरतः वक्तुम् वर्ष-शतैः अपि

परावरेषां भूतानामात्मा य: पुरुष: पर: ।
स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन ॥ ८ ॥

पर-अवरेषाम् भूतानाम् आत्मा यः पुरुषः परः सः एव आसीत् इदम् विश्वम् कल्प-अन्ते अन्यत् न किञ्चन

तस्य नाभे: समभवत् पद्मकोषो हिरण्मय: ।
तस्मिञ्जज्ञे महाराज स्वयम्भूश्चतुरानन: ॥ ९ ॥

तस्य नाभेः समभवत् पद्म-कोषः हिरण्मयः तस्मिन् जज्ञे महाराज स्वयम्भूः चतुः-आननः

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यप: ।
दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुत: ॥ १० ॥

मरीचिः मनसः तस्य जज्ञे तस्य अपि कश्यपः दाक्षायण्याम् ततः अदित्याम् विवस्वान् अभवत् सुतः

ततो मनु: श्राद्धदेव: संज्ञायामास भारत ।
श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् ।
नरिष्यन्तं पृषध्रं च नभगं च कविं विभु: ॥ १२ ॥

ततः मनुः श्राद्धदेवः संज्ञायाम् आस भारत श्रद्धायाम् जनयाम् आस दश पुत्रान् सः आत्मवान् इक्ष्वाकु-नृग-शर्याति-दिष्ट-धृष्ट-करूषकान् नरिष्यन्तम् पृषध्रम् च नभगम् च कविम् विभुः

अप्रजस्य मनो: पूर्वं वसिष्ठो भगवान् किल ।
मित्रावरुणयोरिष्टिं प्रजार्थमकरोद् विभु: ॥ १३ ॥

अप्रजस्य मनोः पूर्वम् वसिष्ठः भगवान् किल मित्रा-वरुणयोः इष्टिम् प्रजा-अर्थम् अकरोत् विभुः

तत्र श्रद्धा मनो: पत्नी होतारं समयाचत ।
दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥

तत्र श्रद्धा मनोः पत्नी होतारम् समयाचत दुहितृ-अर्थम् उपागम्य प्रणिपत्य पयः-व्रता

प्रेषितोऽध्वर्युणा होता व्यचरत् तत् समाहित: ।
गृहीते हविषि वाचा वषट्कारं गृणन्द्विज: ॥ १५ ॥

प्रेषितः अध्वर्युणा होता व्यचरत् तत् समाहितः गृहीते हविषि वाचा वषट्-कारम् गृणन् द्विजः

होतुस्तद्‌व्यभिचारेण कन्येला नाम साभवत् ।
तां विलोक्य मनु: प्राह नातितुष्टमना गुरुम् ॥ १६ ॥

होतुः तत् व्यभिचारेण कन्या इला नाम सा अभवत् ताम् विलोक्य मनुः प्राह न अतितुष्टमनाः गुरुम्

भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् ।
विपर्ययमहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥

भगवन् किम् इदम् जातम् कर्म वः ब्रह्म-वादिनाम् विपर्ययम् अहो कष्टम् मा एवम् स्यात् ब्रह्म-विक्रिया

यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषा: ।
कुत: सङ्कल्पवैषम्यमनृतं विबुधेष्विव ॥ १८ ॥

यूयम् ब्रह्म-विदः युक्ताः तपसा दग्ध-किल्बिषाः कुतः सङ्कल्प-वैषम्यम् अनृतम् विबुधेषु इव

निशम्य तद् वचस्तस्य भगवान् प्रपितामह: ।
होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥

निशम्य तत् वचः तस्य भगवान् प्रपितामहः होतुः व्यतिक्रमम् ज्ञात्वा बभाषे रवि-नन्दनम्

एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारत: ।
तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥

एतत् सङ्कल्प-वैषम्यम् होतुः ते व्यभिचारतः तथा अपि साधयिष्ये ते सु-प्रजास्त्वम् स्व-तेजसा

एवं व्यवसितो राजन् भगवान् स महायशा: ।
अस्तौषीदादिपुरुषमिलाया: पुंस्त्वकाम्यया ॥ २१ ॥

एवम् व्यवसितः राजन् भगवान् सः महा-यशाः अस्तौषीत् आदि-पुरुषम् इलायाः पुंस्त्व-काम्यया

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वर: ।
ददाविलाभवत् तेन सुद्युम्न: पुरुषर्षभ: ॥ २२ ॥

तस्मै काम-वरम् तुष्टः भगवान् हरिः ईश्वरः ददौ इला अभवत् तेन सुद्युम्नः पुरुष-ऋषभः

स एकदा महाराज विचरन् मृगयां वने ।
वृत: कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥ २३ ॥
प्रगृह्य रुचिरं चापं शरांश्च परमाद्भ‍ुतान् ।
दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥

सः एकदा महाराज विचरन् मृगयाम् वने वृतः कतिपय अमात्यैः अश्वम् आरुह्य सैन्धवम् प्रगृह्य रुचिरम् चापम् शरान् च परम-अद्भुतान् दंशितः अनुमृगम् वीरः जगाम दिशम् उत्तराम्

सुकुमारवनं मेरोरधस्तात् प्रविवेश ह ।
यत्रास्ते भगवाञ्छर्वो रममाण: सहोमया ॥ २५ ॥

सुकुमार-वनम् मेरोः अधस्तात् प्रविवेश ह यत्र आस्ते भगवान् शर्वः रममाणः सह उमया

तस्मिन् प्रविष्ट एवासौ सुद्युम्न: परवीरहा ।
अपश्यत् स्रियमात्मानमश्वं च वडवां नृप ॥ २६ ॥

तस्मिन् प्रविष्टः एव असौ सुद्युम्नः पर-वीर-हा अपश्यत् स्त्रियम् आत्मानम् अश्वम् च वडवाम् नृप

तथा तदनुगा: सर्वे आत्मलिङ्गविपर्ययम् ।
दृष्ट्वा विमनसोऽभूवन् वीक्षमाणा: परस्परम् ॥ २७ ॥

तथा तत्-अनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम् दृष्ट्वा विमनसः अभूवन् वीक्षमाणाः परस्परम्

श्रीराजोवाच
कथमेवं गुणो देश: केन वा भगवन् कृत: ।
प्रश्न‍मेनं समाचक्ष्व परं कौतूहलं हि न: ॥ २८ ॥

श्री-राजा उवाच कथम् एवम् गुणः देशः केन वा भगवन् कृतः प्रश्नम् एनम् समाचक्ष्व परम् कौतूहलम् हि नः

श्रीशुक उवाच
एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रता: ।
दिशो वितिमिराभासा: कुर्वन्त: समुपागमन् ॥ २९ ॥

श्री-शुकः उवाच एकदा गिरिशम् द्रष्टुम् ऋषयः तत्र सु-व्रताः दिशः वितिमिर-आभासाः कुर्वन्तः समुपागमन्

तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् ।
भर्तुरङ्कात् समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥

तान् विलोक्य अम्बिका देवी विवासा व्रीडिता भृशम् भर्तुः अङ्कात् समुत्थाय नीवीम् आशु अथ पर्यधात्

ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयो: ।
निवृत्ता: प्रययुस्तस्मान्नरनारायणाश्रमम् ॥ ३१ ॥

ऋषयः अपि तयोः वीक्ष्य प्रसङ्गम् रममाणयोः निवृत्ताः प्रययुः तस्मात् नर-नारायण-आश्रमम्

तदिदं भगवानाह प्रियाया: प्रियकाम्यया ।
स्थानं य: प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥

तत् इदम् भगवान् आह प्रियायाः प्रिय-काम्यया स्थानम् यः प्रविशेत् एतत् सः वै योषित् भवेत् इति

तत ऊर्ध्वं वनं तद् वै पुरुषा वर्जयन्ति हि ।
सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥

ततः ऊर्ध्वम् वनम् तत् वै पुरुषाः वर्जयन्ति हि सा च अनुचर-संयुक्ता विचचार वनात् वनम्

अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।
स्रीभि: परिवृतां वीक्ष्य चकमे भगवान् बुध: ॥ ३४ ॥

अथ ताम् आश्रम-अभ्याशे चरन्तीम् प्रमदा-उत्तमाम् स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुधः

सापि तं चकमे सुभ्रू: सोमराजसुतं पतिम् ।
स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥

सा अपि तम् चकमे सु-भ्रूः सोमराज-सुतम् पतिम् सः तस्याम् जनयाम् आस पुरूरवसम् आत्म-जम्

एवं स्रीत्वमनुप्राप्त: सुद्युम्नो मानवो नृप: ।
सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥

एवम् स्त्रीत्वम् अनुप्राप्तः सुद्युम्नः मानवः नृपः सस्मार सः कुल-आचार्यम् वसिष्ठम् इति शुश्रुम

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडित: ।
सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ ३७ ॥

सः तस्य ताम् दशाम् दृष्ट्वा कृपया भृश-पीडितः सुद्युम्नस्य आशयन् पुंस्त्वम् उपाधावत शङ्करम्

तुष्टस्तस्मै स भगवानृषये प्रियमावहन् ।
स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ॥ ३८ ॥
मासं पुमान् स भविता मासं स्री तव गोत्रज: ।
इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥

तुष्टः तस्मै सः भगवान् ऋषये प्रियम् आवहन् स्वाम् च वाचम् ऋताम् कुर्वन् इदम् आह विशाम्पते मासम् पुमान् सः भविता मासम् स्त्री तव गोत्र-जः इत्थम् व्यवस्थया कामम् सुद्युम्नः अवतु मेदिनीम्

आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।
पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजा: ॥ ४० ॥

आचार्य-अनुग्रहात् कामम् लब्ध्वा पुंस्त्वम् व्यवस्थया पालयाम् आस जगतीम् न अभ्यनन्दन् स्म तम् प्रजाः

तस्योत्कलो गयो राजन् विमलश्च त्रय: सुता: ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सला: ॥ ४१ ॥

तस्य उत्कलः गयः राजन् विमलः च त्रयः सुताः दक्षिणा-पथ राजानः बभूवुः धर्म-वत्सलाः

तत: परिणते काले प्रतिष्ठानपति: प्रभु: ।
पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥

ततः परिणते काले प्रतिष्ठान-पतिः प्रभुः पुरूरवसे उत्सृज्य गाम् पुत्राय गतः वनम्

९.२

श्रीशुक उवाच
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वत: सुते ।
पुत्रकामस्तपस्तेपे यमुनायां शतं समा: ॥ १ ॥

श्री-शुकः उवाच एवम् गते अथ सुद्युम्ने मनुः वैवस्वतः सुते पुत्र-कामः तपः तेपे यमुनायाम् शतम् समाः

ततोऽयजन्मनुर्देवमपत्यार्थं हरिं प्रभुम् ।
इक्ष्वाकुपूर्वजान् पुत्रान्लेभे स्वसद‍ृशान् दश ॥ २ ॥

ततः अयजत् मनुः देवम् अपत्य-अर्थम् हरिम् प्रभुम् इक्ष्वाकु-पूर्व-जान् पुत्रान् लेभे स्व-सदृशान् दश

पृषध्रस्तु मनो: पुत्रो गोपालो गुरुणा कृत: ।
पालयामास गा यत्तो रात्र्यां वीरासनव्रत: ॥ ३ ॥

पृषध्रः तु मनोः पुत्रः गो-पालः गुरुणा कृतः पालयाम् आस गाः यत्तः रात्र्याम् वीरासन-व्रतः

एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।
शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ ४ ॥

एकदा प्राविशत् गोष्ठम् शार्दूलः निशि वर्षति शयानाः गावः उत्थाय भीताः ताः बभ्रमुः व्रजे

एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।
तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ॥ ५ ॥
खड्‌गमादाय तरसा प्रलीनोडुगणे निशि ।
अजानन्नच्छिनोद् बभ्रो: शिर: शार्दूलशङ्कया ॥ ६ ॥

एकाम् जग्राह बलवान् सा चुक्रोश भय-आतुरा तस्याः तु क्रन्दितम् श्रुत्वा पृषध्रः अनुससार ह खड्गम् आदाय तरसा प्रलीन-उडु-गणे निशि अजानन् अच्छिनोत् बभ्रोः शिरः शार्दूल-शङ्कया

व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्तत: ।
निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ ७ ॥

व्याघ्रः अपि वृक्ण-श्रवणः निस्त्रिंश-अग्र-आहतः ततः निश्चक्राम भृशम् भीतः रक्तम् पथि समुत्सृजन्

मन्यमानो हतं व्याघ्रं पृषध्र: परवीरहा ।
अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दु:खित: ॥ ८ ॥

मन्यमानः हतम् व्याघ्रम् पृषध्रः पर-वीर-हा अद्राक्षीत् स्व-हताम् बभ्रुम् व्युष्टायाम् निशि दुःखितः

तं शशाप कुलाचार्य: कृतागसमकामत: ।
न क्षत्रबन्धु: शूद्रस्त्वं कर्मणा भवितामुना ॥ ९ ॥

तम् शशाप कुल-आचार्यः कृत-आगसम् अकामतः न क्षत्र-बन्धुः शूद्रः त्वम् कर्मणा भविता अमुना

एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलि: ।
अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ १० ॥

एवम् शप्तः तु गुरुणा प्रत्यगृह्णात् कृत-अञ्जलिः अधारयत् व्रतम् वीरः ऊर्ध्व-रेताः मुनि-प्रियम्

वासुदेवे भगवति सर्वात्मनि परेऽमले ।
एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् सम: ॥ ११ ॥
विमुक्तसङ्ग: शान्तात्मा संयताक्षोऽपरिग्रह: ।
यद‍ृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मन: ॥ १२ ॥
आत्मन्यात्मानमाधाय ज्ञानतृप्त: समाहित: ।
विचचार महीमेतां जडान्धबधिराकृति: ॥ १३ ॥

वासुदेवे भगवति सर्व-आत्मनि परे अमले एकान्तित्वम् गतः भक्त्या सर्व-भूत-सुहृत् समः विमुक्त-सङ्गः शान्त-आत्मा संयत अक्षः अपरिग्रहः यत्-ऋच्छया उपपन्नेन कल्पयन् वृत्तिम् आत्मनः आत्मनि आत्मानम् आधाय ज्ञान-तृप्तः समाहितः विचचार महीम् एताम् जड अन्ध बधिर आकृतिः

एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।
तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनि: ॥ १४ ॥

एवम् वृत्तः वनम् गत्वा दृष्ट्वा दाव-अग्निम् उत्थितम् तेन उपयुक्त-करणः ब्रह्म प्राप परम् मुनिः

कवि: कनीयान् विषयेषु नि:स्पृहो
विसृज्य राज्यं सह बन्धुभिर्वनम् ।
निवेश्य चित्ते पुरुषं स्वरोचिषं
विवेश कैशोरवया: परं गत: ॥ १५ ॥

कविः कनीयान् विषयेषु निःस्पृहः विसृज्य राज्यम् सह बन्धुभिः वनम् निवेश्य चित्ते पुरुषम् स्व-रोचिषम् विवेश कैशोर-वयाः परम् गतः

करूषोन्मानवादासन् कारूषो: क्षत्रजातय: ।
उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सला: ॥ १६ ॥

करूषात् मानवात् आसन् कारूषाः क्षत्र-जातयः उत्तरा पथ गोप्तारः ब्रह्मण्याः धर्म-वत्सलाः

धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।
नृगस्य वंश: सुमतिर्भूतज्योतिस्ततो वसु: ॥ १७ ॥

धृष्टात् धार्ष्टम् अभूत् क्षत्रम् ब्रह्म-भूयम् गतम् क्षितौ नृगस्य वंशः सुमतिः भूतज्योतिः ततः वसुः

वसो: प्रतीकस्तत्पुत्र ओघवानोघवत्पिता ।
कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥

वसोः प्रतीकः तत्-पुत्रः ओघवान् ओघवत्-पिता कन्या च ओघवती नाम सुदर्शनः उवाह ताम्

चित्रसेनो नरिष्यन्ताद‍ृक्षस्तस्य सुतोऽभवत् ।
तस्य मीढ्‍वांस्तत: पूर्ण इन्द्रसेनस्तु तत्सुत: ॥ १९ ॥

चित्रसेनः नरिष्यन्तात् ऋक्षः तस्य सुतः अभवत् तस्य मीढ्वान् ततः पूर्णः इन्द्रसेनः तु तत्-सुतः

वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवा: सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥

वीतिहोत्रः तु इन्द्रसेनात् तस्य सत्यश्रवाः अभूत् उरुश्रवाः सुतः तस्य देवदत्तः ततः अभवत्

ततोऽग्निवेश्यो भगवानग्नि: स्वयमभूत् सुत: ।
कानीन इति विख्यातो जातूकर्ण्यो महानृषि: ॥ २१ ॥

ततः अग्निवेश्यः भगवान् अग्निः स्वयम् अभूत् सुतः कानीनः इति विख्यातः जातूकर्ण्यः महान् ऋषिः

ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप ।
नरिष्यन्तान्वय: प्रोक्तो दिष्टवंशमत: श‍ृणु ॥ २२ ॥

ततः ब्रह्म-कुलम् जातम् आग्निवेश्यायनम् नृप नरिष्यन्त अन्वयः प्रोक्तः दिष्ट-वंशम् अतः शृणु

नाभागो दिष्टपुत्रोऽन्य: कर्मणा वैश्यतां गत: ।
भलन्दन: सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ २३ ॥
वत्सप्रीते: सुत: प्रांशुस्तत्सुतं प्रमतिं विदु: ।
खनित्र: प्रमतेस्तस्माच्चाक्षुषोऽथ विविंशति: ॥ २४ ॥

नाभागः दिष्ट-पुत्रः अन्यः कर्मणा वैश्यताम् गतः भलन्दनः सुतः तस्य वत्सप्रीतिः भलन्दनात् वत्सप्रीतेः सुतः प्रांशुः तत्-सुतम् प्रमतिम् विदुः खनित्रः प्रमतेः तस्मात् चाक्षुषः अथ विविंशतिः

विविंशते: सुतो रम्भ: खनीनेत्रोऽस्य धार्मिक: ।
करन्धमो महाराज तस्यासीदात्मजो नृप ॥ २५ ॥

विविंशतेः सुतः रम्भः खनीनेत्रः अस्य धार्मिकः करन्धमः महाराज तस्य आसीत् आत्मजः नृप

तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् ।
संवर्तोऽयाजयद् यं वै महायोग्यङ्गिर:सुत: ॥ २६ ॥

तस्य अवीक्षित् सुतः यस्य मरुत्तः चक्रवर्ती अभूत् संवर्तः अयाजयत् यम् वै महा-योगी अङ्गिरः-सुतः

मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।
सर्वं हिरण्मयं त्वासीद् यत् किञ्चिच्चास्य शोभनम् ॥ २७ ॥

मरुत्तस्य यथा यज्ञः न तथा अन्यः अस्ति कश्चन सर्वम् हिरण्-मयम् तु आसीत् यत् किञ्चित् च अस्य शोभनम्

अमाद्यदिन्द्र: सोमेन दक्षिणाभिर्द्विजातय: ।
मरुत: परिवेष्टारो विश्वेदेवा: सभासद: ॥ २८ ॥

अमाद्यत् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः मरुतः परिवेष्टारः विश्वेदेवाः सभा-सदः

मरुत्तस्य दम: पुत्रस्तस्यासीद् राज्यवर्धन: ।
सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नर: सुत: ॥ २९ ॥

मरुत्तस्य दमः पुत्रः तस्य आसीत् राज्य-वर्धनः सुधृतिः तत्-सुतः जज्ञे सौधृतेयः नरः सुतः

तत्सुत: केवलस्तस्माद् धुन्धुमान्वेगवांस्तत: ।
बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपति: ॥ ३० ॥

तत्-सुतः केवलः तस्मात् धुन्धुमान् वेगवान् ततः बुधः तस्य अभवत् यस्य तृणबिन्दुः महीपतिः

तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् ।
वराप्सरा यत: पुत्रा: कन्या चेलविलाभवत् ॥ ३१ ॥

तम् भेजे अलम्बुषा देवी भजनीय गुण-आलयम् वर-अप्सराः यतः पुत्राः कन्या च इलविला अभवत्

यस्यामुत्पादयामास विश्रवा धनदं सुतम् ।
प्रादाय विद्यां परमामृषिर्योगेश्वर: पितु: ॥ ३२ ॥

यस्याम् उत्पादयाम् आस विश्रवाः धन-दम् सुतम् प्रादाय विद्याम् परमाम् ऋषिः योग-ईश्वरः पितुः

विशाल: शून्यबन्धुश्च धूम्रकेतुश्च तत्सुता: ।
विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥

विशालः शून्यबन्धुः च धूम्रकेतुः च तत्-सुताः विशालः वंश-कृत् राजा वैशालीम् निर्ममे पुरीम्

हेमचन्द्र: सुतस्तस्य धूम्राक्षस्तस्य चात्मज: ।
तत्पुत्रात् संयमादासीत् कृशाश्व: सहदेवज: ॥ ३४ ॥

हेमचन्द्रः सुतः तस्य धूम्राक्षः तस्य च आत्मजः तत्-पुत्रात् संयमात् आसीत् कृशाश्वः सह देवजः

कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैरिडस्पतिम् ।
इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ ३५ ॥
सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजय: ।
एते वैशालभूपालास्तृणबिन्दोर्यशोधरा: ॥ ३६ ॥

कृशाश्वात् सोमदत्तः अभूत् यः अश्वमेधैः इडस्पतिम् इष्ट्वा पुरुषम् आप अग्र्याम् गतिम् योगेश्वर-आश्रिताम् सौमदत्तिः तु सुमतिः तत्-पुत्रः जनमेजयः एते वैशाल-भूपालाः तृणबिन्दोः यशः-धराः

९.३

श्रीशुक उवाच
शर्यातिर्मानवो राजा ब्रह्मिष्ठ: सम्बभूव ह ।
यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् ॥ १ ॥

श्री-शुकः उवाच शर्यातिः मानवः राजा ब्रह्मिष्ठः सम्बभूव ह यः वा अङ्गिरसाम् सत्रे द्वितीयम् अहः ऊचिवान्

सुकन्या नाम तस्यासीत् कन्या कमललोचना ।
तया सार्धं वनगतो ह्यगमच्च्यवनाश्रमम् ॥ २ ॥

सुकन्या नाम तस्य आसीत् कन्या कमल-लोचना तया सार्धम् वन-गतः हि अगमत् च्यवन-आश्रमम्

सा सखीभि: परिवृता विचिन्वन्त्यङ्‌घ्रिपान् वने ।
वल्मीकरन्ध्रे दद‍ृशे खद्योते इव ज्योतिषी ॥ ३ ॥

सा सखीभिः परिवृता विचिन्वन्ती अङ्घ्रिपान् वने वल्मीक-रन्ध्रे ददृशे खद्योते इव ज्योतिषी

ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै ।
अविध्यन्मुग्धभावेन सुस्रावासृक् ततो बहि: ॥ ४ ॥

ते दैव-चोदिता बाला ज्योतिषी कण्टकेन वै अविध्यत् मुग्ध-भावेन सुस्राव असृक् ततः बहिः

शकृन्मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् ।
राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥ ५ ॥

शकृत् मूत्र निरोधः अभूत् सैनिकानाम् च तत्-क्षणात् राजर्षिः तम् उपालक्ष्य पुरुषान् विस्मितः अब्रवीत्

अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् ।
व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥ ६ ॥

अपि अभद्रम् नः युष्माभिः भार्गवस्य विचेष्टितम् व्यक्तम् केन अपि नः तस्य कृतम् आश्रम-दूषणम्

सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया ।
द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ ७ ॥

सुकन्या प्राह पितरम् भीता किञ्चित् कृतम् मया द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै

दुहितुस्तद् वच: श्रुत्वा शर्यातिर्जातसाध्वस: ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं शनै: ॥ ८ ॥

दुहितुः तत् वचः श्रुत्वा शर्यातिः जात-साध्वसः मुनिम् प्रसादयाम् आस वल्मीक-अन्तर्हितम् शनैः

तदभिप्रायमाज्ञाय प्रादाद् दुहितरं मुने: ।
कृच्छ्रान्मुक्तस्तमामन्‍त्र्य पुरं प्रायात् समाहित: ॥ ९ ॥

तत् अभिप्रायम् आज्ञाय प्रादात् दुहितरम् मुनेः कृच्छ्रात् मुक्तः तम् आमन्त्र्य पुरम् प्रायात् समाहितः

सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।
प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभि: ॥ १० ॥

सुकन्या च्यवनम् प्राप्य पतिम् परम-कोपनम् प्रीणयाम् आस चित्त-ज्ञा अप्रमत्ता अनुवृत्तिभिः

कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ ।
तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ ११ ॥

कस्यचित् तु अथ कालस्य नासत्यौ आश्रम आगतौ तौ पूजयित्वा प्रोवाच वयः मे दत्तम् ईश्वरौ

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपो: ।
क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥ १२ ॥

ग्रहम् ग्रहीष्ये सोमस्य यज्ञे वाम् अपि असोम-पोः क्रियताम् मे वयः रूपम् प्रमदानाम् यत् ईप्सितम्

बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ ।
निमज्जतां भवानस्मिन् ह्रदे सिद्धविनिर्मिते ॥ १३ ॥

बाढम् इति ऊचतुः विप्रम् अभिनन्द्य भिषक्-तमौ निमज्जताम् भवान् अस्मिन् ह्रदे सिद्ध-विनिर्मिते

इत्युक्तो जरया ग्रस्तदेहो धमनिसन्तत: ।
ह्रदं प्रवेशितोऽश्विभ्यां वलीपलितविग्रह: ॥ १४ ॥

इति उक्तः जरया ग्रस्त-देहः धमनि-सन्ततः ह्रदम् प्रवेशितः अश्विभ्याम् वली-पलित-विग्रहः

पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रिया: ।
पद्मस्रज: कुण्डलिनस्तुल्यरूपा: सुवासस: ॥ १५ ॥

पुरुषाः त्रयः उत्तस्थुः अपीव्याः वनिता-प्रियाः पद्म-स्रजः कुण्डलिनः तुल्य-रूपाः सु-वाससः

तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चस: ।
अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ १६ ॥

तान् निरीक्ष्य वर-आरोहा स-रूपान् सूर्य-वर्चसः अजानती पतिम् साध्वी अश्विनौ शरणम् ययौ

दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ।
ऋषिमामन्‍त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥ १७ ॥

दर्शयित्वा पतिम् तस्यै पाति-व्रत्येन तोषितौ ऋषिम् आमन्त्र्य ययतुः विमानेन त्रिविष्टपम्

यक्ष्यमाणोऽथ शर्यातिश्‍च्यवनस्याश्रमं गत: ।
ददर्श दुहितु: पार्श्वे पुरुषं सूर्यवर्चसम् ॥ १८ ॥

यक्ष्यमाणः अथ शर्यातिः च्यवनस्य आश्रमम् गतः ददर्श दुहितुः पार्श्वे पुरुषम् सूर्य-वर्चसम्

राजा दुहितरं प्राह कृतपादाभिवन्दनाम् ।
आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ १९ ॥

राजा दुहितरम् प्राह कृत-पाद-अभिवन्दनाम् आशिषः च अप्रयुञ्जानः न अतिप्रीति-मनाः इव

चिकीर्षितं ते किमिदं पतिस्त्वया
प्रलम्भितो लोकनमस्कृतो मुनि: ।
यत् त्वं जराग्रस्तमसत्यसम्मतं
विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥

चिकीर्षितम् ते किम् इदम् पतिः त्वया प्रलम्भितः लोक-नमस्कृतः मुनिः यत् त्वम् जरा-ग्रस्तम् असति असम्मतम् विहाय जारम् भजसे अमुम् अध्वगम्

कथं मतिस्तेऽवगतान्यथा सतां
कुलप्रसूते कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपा कुलं
पितुश्च भर्तुश्च नयस्यधस्तम: ॥ २१ ॥

कथम् मतिः ते अवगता अन्यथा सताम् कुल-प्रसूते कुल-दूषणम् तु इदम् बिभर्षि जारम् यत् अपत्रपा कुलम् पितुः च भर्तुः च नयसि अधः तमः

एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनन्दन: ॥ २२ ॥

एवम् ब्रुवाणम् पितरम् स्मयमाना शुचि-स्मिता उवाच तात जामाता तव एषः भृगु-नन्दनः

शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् ।
विस्मित: परमप्रीतस्तनयां परिषस्वजे ॥ २३ ॥

शशंस पित्रे तत् सर्वम् वयः रूप अभिलम्भनम् विस्मितः परम-प्रीतः तनयाम् परिषस्वजे

सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् ।
असोमपोरप्यश्विनोश्‍च्यवन: स्वेन तेजसा ॥ २४ ॥

सोमेन याजयन् वीरम् ग्रहम् सोमस्य च अग्रहीत् असोम-पोः अपि अश्विनोः च्यवनः स्वेन तेजसा

हन्तुं तमाददे वज्रं सद्योमन्युरमर्षित: ।
सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गव: ॥ २५ ॥

हन्तुम् तम् आददे वज्रम् सद्यः मन्युः अमर्षितः स-वज्रम् स्तम्भयाम् आस भुजम् इन्द्रस्य भार्गवः

अन्वजानंस्तत: सर्वे ग्रहं सोमस्य चाश्विनो: ।
भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ २६ ॥

अन्वजानन् ततः सर्वे ग्रहम् सोमस्य च अश्विनोः भिषजौ इति यत् पूर्वम् सोम-आहुत्या बहिः-कृतौ

उत्तानबर्हिरानर्तो भूरिषेण इति त्रय: ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥

उत्तानबर्हिः आनर्तः भूरिषेणः इति त्रयः शर्यातेः अभवन् पुत्राः आनर्तात् रेवतः अभवत्

सोऽन्त:समुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दम ।
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ॥ २८ ॥

सः अन्तः-समुद्रे नगरीम् विनिर्माय कुशस्थलीम् आस्थितः अभुङ्क्त विषयान् आनर्त-आदीन् अरिम्-दम तस्य पुत्र-शतम् जज्ञे ककुद्मि-ज्येष्ठम् उत्तमम्

ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गत: ।
पुत्र्यावरं परिप्रष्टुं ब्रह्मलोकमपावृतम् ॥ २९ ॥

ककुद्मी रेवतीम् कन्याम् स्वाम् आदाय विभुम् गतः पुत्र्याः वरम् परिप्रष्टुम् ब्रह्मलोकम् अपावृतम्

आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षण: क्षणम् ।
तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् ॥ ३० ॥

आवर्तमाने गान्धर्वे स्थितः अलब्ध-क्षणः क्षणम् तत्-अन्ते आद्यम् आनम्य स्व-अभिप्रायम् न्यवेदयत्

तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ।
अहो राजन् निरुद्धास्ते कालेन हृदि ये कृता: ॥ ३१ ॥

तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य तम् उवाच ह अहो राजन् निरुद्धाः ते कालेन हृदि ये कृताः

तत्पुत्रपौत्रनप्तृणां गोत्राणि च न श‍ृण्महे ।
कालोऽभियातस्त्रिणवचतुर्युगविकल्पित: ॥ ३२ ॥

तत् पुत्र पौत्र नप्तॄणाम् गोत्राणि च न शृण्महे कालः अभियातः त्रि नव चतुर्-युग विकल्पितः

तद् गच्छ देवदेवांशो बलदेवो महाबल: ।
कन्यारत्नमिदं राजन् नररत्नाय देहि भो: ॥ ३३ ॥

तत् गच्छ देव-देव-अंशः बलदेवः महा-बलः कन्या-रत्नम् इदम् राजन् नर-रत्नाय देहि भोः

भुवो भारावताराय भगवान् भूतभावन: ।
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तन: ॥ ३४ ॥

भुवः भार-अवताराय भगवान् भूत-भावनः अवतीर्णः निज-अंशेन पुण्य-श्रवण-कीर्तनः

इत्यादिष्टोऽभिवन्द्याजं नृप: स्वपुरमागत: ।
त्यक्तं पुण्यजनत्रासाद् भ्रातृभिर्दिक्ष्ववस्थितै: ॥ ३५ ॥

इति आदिष्टः अभिवन्द्य अजम् नृपः स्व-पुरम् आगतः त्यक्तम् पुण्य-जन त्रासात् भ्रातृभिः दिक्षु अवस्थितैः

सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने ।
बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ ३६ ॥

सुताम् दत्त्वा अनवद्य-अङ्गीम् बलाय बल-शालिने बदरी-आख्यम् गतः राजा तप्तुम् नारायण-आश्रमम्

९.४

श्रीशुक उवाच
नाभागो नभगापत्यं यं ततं भ्रातर: कविम् ।
यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ १ ॥

श्री-शुकः उवाच नाभागः नभग-अपत्यम् यम् ततम् भ्रातरः कविम् यविष्ठम् व्यभजन् दायम् ब्रह्मचारिणम् आगतम्

भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव ।
त्वां ममार्यास्तताभाङ्‍क्षुर्मा पुत्रक तदाद‍ृथा: ॥ २ ॥

भ्रातरः अभाङ्क्त किम् मह्यम् भजाम पितरम् तव त्वाम् मम आर्याः तत अभाङ्क्षुः मा पुत्रक तत् आदृथाः

इमे अङ्गिरस: सत्रमासतेऽद्य सुमेधस: ।
षष्ठं षष्ठमुपेत्याह: कवे मुह्यन्ति कर्मणि ॥ ३ ॥

इमे अङ्गिरसः सत्रम् आसते अद्य सुमेधसः षष्ठम् षष्ठम् उपेत्य अहः कवे मुह्यन्ति कर्मणि

तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मन: ।
ते स्वर्यन्तो धनं सत्रपरिशेषितमात्मन: ॥ ४ ॥
दास्यन्ति तेऽथ तान्गच्छ तथा स कृतवान् यथा ।
तस्मै दत्त्वा ययु: स्वर्गं ते सत्रपरिशेषणम् ॥ ५ ॥

तान् त्वम् शंसय सूक्ते द्वे वैश्वदेवे महात्मनः ते स्वः यन्तः धनम् सत्र-परिशेषितम् आत्मनः दास्यन्ति ते अथ तान् अर्च्छ तथा सः कृतवान् यथा तस्मै दत्त्वा ययुः स्वर्गम् ते सत्र-परिशेषणम्

तं कश्चित् स्वीकरिष्यन्तं पुरुष: कृष्णदर्शन: ।
उवाचोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥ ६ ॥

तम् कश्चित् स्वीकरिष्यन्तम् पुरुषः कृष्ण-दर्शनः उवाच उत्तरतः अभ्येत्य मम इदम् वास्तुकम् वसु

ममेदमृषिभिर्दत्तमिति तर्हि स्म मानव: ।
स्यान्नौ ते पितरि प्रश्न‍: पृष्टवान् पितरं यथा ॥ ७ ॥

मम इदम् ऋषिभिः दत्तम् इति तर्हि स्म मानवः स्यात् नौ ते पितरि प्रश्नः पृष्टवान् पितरम् यथा

यज्ञवास्तुगतं सर्वमुच्छिष्टमृषय: क्‍वचित् ।
चक्रुर्हि भागं रुद्राय स देव: सर्वमर्हति ॥ ८ ॥

यज्ञ-वास्तु-गतम् सर्वम् उच्छिष्टम् ऋषयः क्वचित् चक्रुः हि भागम् रुद्राय सः देवः सर्वम् अर्हति

नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् ।
इत्याह मे पिता ब्रह्मञ्छिरसा त्वां प्रसादये ॥ ९ ॥

नाभागः तम् प्रणम्य आह तव ईश किल वास्तुकम् इति आह मे पिता ब्रह्मन् शिरसा त्वाम् प्रसादये

यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे ।
ददामि ते मन्त्रद‍ृशो ज्ञानं ब्रह्म सनातनम् ॥ १० ॥

यत् ते पिता अवदत् धर्मम् त्वम् च सत्यम् प्रभाषसे ददामि ते मन्त्र-दृशः ज्ञानम् ब्रह्म सनातनम्

गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् ।
इत्युक्त्वान्तर्हितो रुद्रो भगवान् धर्मवत्सल: ॥ ११ ॥

गृहाण द्रविणम् दत्तम् मत्-सत्र-परिशेषितम् इति उक्त्वा अन्तर्हितः रुद्रः भगवान् धर्म-वत्सलः

य एतत् संस्मरेत् प्रात: सायं च सुसमाहित: ।
कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मन: ॥ १२ ॥

यः एतत् संस्मरेत् प्रातः सायम् च सुसमाहितः कविः भवति मन्त्र-ज्ञः गतिम् च एव तथा आत्मनः

नाभागादम्बरीषोऽभून्महाभागवत: कृती ।
नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहत: क्‍वचित् ॥ १३ ॥

नाभागात् अम्बरीषः अभूत् महा-भागवतः कृती न अस्पृशत् ब्रह्म-शापः अपि यम् न प्रतिहतः क्वचित्

श्रीराजोवाच
भगवञ्छ्रोतुमिच्छामि राजर्षेस्तस्य धीमत: ।
न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्यय: ॥ १४ ॥

श्री-राजा उवाच भगवन् श्रोतुम् इच्छामि राजर्षेः तस्य धीमतः न प्राभूत् यत्र निर्मुक्तः ब्रह्म-दण्डः दुरत्ययः

श्रीशुक उवाच
अम्बरीषो महाभाग: सप्तद्वीपवतीं महीम् ।
अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ १५ ॥
मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् ।
विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ १६ ॥

श्री-शुकः उवाच अम्बरीषः महा-भागः सप्त-द्वीपवतीम् महीम् अव्ययाम् च श्रियम् लब्ध्वा विभवम् च अतुलम् भुवि मेने अति-दुर्लभम् पुंसाम् सर्वम् तत् स्वप्न-संस्तुतम् विद्वान् विभव-निर्वाणम् तमः विशति यत् पुमान्

वासुदेवे भगवति तद्भक्तेषु च साधुषु ।
प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥ १७ ॥

वासुदेवे भगवति तत्-भक्तेषु च साधुषु प्राप्तः भावम् परम् विश्वम् येन इदम् लोष्ट्र-वत् स्मृतम्

स वै मन: कृष्णपदारविन्दयो-
र्वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥ १८ ॥
मुकुन्दलिङ्गालयदर्शने द‍ृशौ
तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् ।
घ्राणं च तत्पादसरोजसौरभे
श्रीमत्तुलस्या रसनां तदर्पिते ॥ १९ ॥
पादौ हरे: क्षेत्रपदानुसर्पणे
शिरो हृषीकेशपदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया
यथोत्तमश्लोकजनाश्रया रति: ॥ २० ॥

सः वै मनः कृष्ण-पद-अरविन्दयोः वचांसि वैकुण्ठ-गुण-अनुवर्णने करौ हरेः मन्दिर-मार्जन-आदिषु श्रुतिम् चकार अच्युत सत्-कथा-उदये मुकुन्द-लिङ्ग-आलय-दर्शने दृशौ तत्-भृत्य गात्र-स्पर्शे अङ्ग-सङ्गमम् घ्राणम् च तत्-पाद सरोज सौरभे श्रीमत्-तुलस्याः रसनाम् तत्-अर्पिते पादौ हरेः क्षेत्र पद-अनुसर्पणे शिरः हृषीकेश पद-अभिवन्दने कामम् च दास्ये न तु काम-काम्यया यथा उत्तमश्लोक-जन-आश्रया रतिः

एवं सदा कर्मकलापमात्मन:
परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां
तन्निष्ठविप्राभिहित: शशास ह ॥ २१ ॥

एवम् सदा कर्म-कलापम् आत्मनः परे अधियज्ञे भगवति अधोक्षजे सर्व-आत्म-भावम् विदधत् महीम् इमाम् तत्-निष्ठ विप्र अभिहितः शशास ह

ईजेऽश्वमेधैरधियज्ञमीश्वरं
महाविभूत्योपचिताङ्गदक्षिणै: ।
ततैर्वसिष्ठासितगौतमादिभि-
र्धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥

ईजे अश्वमेधैः अधियज्ञम् ईश्वरम् महा-विभूत्या उपचित-अङ्ग-दक्षिणैः ततैः वसिष्ठ-असित-गौतम-आदिभिः धन्वनि अभिस्रोतम् असौ सरस्वतीम्

यस्य क्रतुषु गीर्वाणै: सदस्या ऋत्विजो जना: ।
तुल्यरूपाश्चानिमिषा व्यद‍ृश्यन्त सुवासस: ॥ २३ ॥

यस्य क्रतुषु गीर्वाणैः सदस्याः ऋत्विजः जनाः तुल्य-रूपाः च अनिमिषाः व्यदृश्यन्त सु-वाससः

स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रिय: ।
श‍ृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥ २४ ॥

स्वर्गः न प्रार्थितः यस्य मनुजैः अमर-प्रियः शृण्वद्भिः उपगायद्भिः उत्तमश्लोक चेष्टितम्

संवर्धयन्ति यत् कामा: स्वाराज्यपरिभाविता: ।
दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यत: ॥ २५ ॥

संवर्धयन्ति यत् कामाः स्वा-राज्य परिभाविताः दुर्लभाः न अपि सिद्धानाम् मुकुन्दम् हृदि पश्यतः

स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिव: ।
स्वधर्मेण हरिं प्रीणन् सर्वान् कामान्शनैर्जहौ ॥ २६ ॥

सः इत्थम् भक्ति-योगेन तपः-युक्तेन पार्थिवः स्व-धर्मेण हरिम् प्रीणन् सर्वान् कामान् शनैः जहौ

गृहेषु दारेषु सुतेषु बन्धुषु
द्विपोत्तमस्यन्दनवाजिवस्तुषु ।
अक्षय्यरत्नाभरणाम्बरादि-
ष्वनन्तकोशेष्वकरोदसन्मतिम् ॥ २७ ॥

गृहेषु दारेषु सुतेषु बन्धुषु द्विप-उत्तम स्यन्दन वाजि वस्तुषु अक्षय्य रत्न आभरण अम्बर-आदिषु अनन्त-कोशेषु अकरोत् असत्-मतिम्

तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् ।
एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् ॥ २८ ॥

तस्मै अदात् हरिः चक्रम् प्रत्यनीक-भय-आवहम् एकान्त-भक्ति-भावेन प्रीतः भक्त-अभिरक्षणम्

आरिराधयिषु: कृष्णं महिष्या तुल्यशीलया ।
युक्त: सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ २९ ॥

आरिराधयिषुः कृष्णम् महिष्या तुल्य-शीलया युक्तः सांवत्सरम् वीरः दधार द्वादशी-व्रतम्

व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषित: ।
स्‍नात: कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ ३० ॥

व्रत-अन्ते कार्तिके मासि त्रि-रात्रम् समुपोषितः स्नातः कदाचित् कालिन्द्याम् हरिम् मधुवने अर्चयत्

महाभिषेकविधिना सर्वोपस्करसम्पदा ।
अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभि: ॥ ३१ ॥
तद्गतान्तरभावेन पूजयामास केशवम् ।
ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तित: ॥ ३२ ॥

महा-अभिषेक-विधिना सर्व-उपस्कर-सम्पदा अभिषिच्य अम्बर-आकल्पैः गन्ध-माल्य अर्हण-आदिभिः तत्-गत-अन्तर-भावेन पूजयाम् आस केशवम् ब्राह्मणान् च महा-भागान् सिद्ध-अर्थान् अपि भक्तितः

गवां रुक्‍मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् ।
पय:शीलवयोरूपवत्सोपस्करसम्पदाम् ॥ ३३ ॥
प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् ।
भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥ ३४ ॥
लब्धकामैरनुज्ञात: पारणायोपचक्रमे ।
तस्य तर्ह्यतिथि: साक्षाद् दुर्वास भगवानभूत् ॥ ३५ ॥

गवाम् रुक्म-विषाणीनाम् रूप्य-अङ्घ्रीणाम् सु-वाससाम् पयः-शील वयः रूप वत्स-उपस्कर-सम्पदाम् प्राहिणोत् साधु-विप्रेभ्यः गृहेषु न्यर्बुदानि षट् भोजयित्वा द्विजान् अग्रे स्वादु अन्नम् गुणवत्-तमम् लब्ध-कामैः अनुज्ञातः पारणाय उपचक्रमे तस्य तर्हि अतिथिः साक्षात् दुर्वासाः भगवान् अभूत्

तमानर्चातिथिं भूप: प्रत्युत्थानासनार्हणै: ।
ययाचेऽभ्यवहाराय पादमूलमुपागत: ॥ ३६ ॥

तम् आनर्च अतिथिम् भूपः प्रत्युत्थान आसन अर्हणैः ययाचे अभ्यवहाराय पाद-मूलम् उपागतः

प्रतिनन्द्य स तां याञ्चां कर्तुमावश्यकं गत: ।
निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे ॥ ३७ ॥

प्रतिनन्द्य सः ताम् याच्ञाम् कर्तुम् आवश्यकम् गतः निममज्ज बृहत् ध्यायन् कालिन्दी सलिले शुभे

मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति ।
चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ॥ ३८ ॥

मुहूर्त-अर्ध-अवशिष्टायाम् द्वादश्याम् पारणम् प्रति चिन्तयाम् आस धर्म-ज्ञः द्विजैः तत्-धर्म सङ्कटे

ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे ।
यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥ ३९ ॥
अम्भसा केवलेनाथ करिष्ये व्रतपारणम् ।
आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ॥ ४० ॥

ब्राह्मण-अतिक्रमे दोषः द्वादश्याम् यत् अपारणे यत् कृत्वा साधु मे भूयात् अधर्मः वा न माम् स्पृशेत् अम्भसा केवलेन अथ करिष्ये व्रत-पारणम् आहुः अप्-भक्षणम् विप्राः हि अशितम् न अशितम् च तत्

इत्यप: प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् ।
प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव स: ॥ ४१ ॥

इति अपः प्राश्य राजर्षिः चिन्तयन् मनसा अच्युतम् प्रत्यचष्ट कुरु-श्रेष्ठ द्विज-आगमनम् एव सः

दुर्वास यमुनाकूलात् कृतावश्यक आगत: ।
राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ४२ ॥

दुर्वासाः यमुना-कूलात् कृत आवश्यकः आगतः राज्ञा अभिनन्दितः तस्य बुबुधे चेष्टितम् धिया

मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलानन: ।
बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ४३ ॥

मन्युना प्रचलत्-गात्रः भ्रु-कुटी कुटिल आननः बुभुक्षितः च सुतराम् कृत-अञ्जलिम् अभाषत

अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत ।
धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिन: ॥ ४४ ॥

अहो अस्य नृ-शंसस्य श्रिया उन्मत्तस्य पश्यत धर्म-व्यतिक्रमम् विष्णोः अभक्तस्य ईश-मानिनः

यो मामतिथिमायातमातिथ्येन निमन्‍त्र्य च ।
अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ॥ ४५ ॥

यः माम् अतिथिम् आयातम् आतिथ्येन निमन्त्र्य च अदत्त्वा भुक्तवान् तस्य सद्यः ते दर्शये फलम्

एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपित: ।
तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ४६ ॥

एवम् ब्रुवाणः उत्कृत्य जटाम् रोष-प्रदीपितः तया सः निर्ममे तस्मै कृत्याम् काल-अनल-उपमाम्

तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् ।
वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृप: ॥ ४७ ॥

ताम् आपतन्तीम् ज्वलतीम् असि-हस्ताम् पदा भुवम् वेपयन्तीम् समुद्वीक्ष्य न चचाल पदात् नृपः

प्राग्दिष्टं भृत्यरक्षायां पुरुषेण महात्मना ।
ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावक: ॥ ४८ ॥

प्राक् दिष्टम् भृत्य-रक्षायाम् पुरुषेण महा-आत्मना ददाह कृत्याम् ताम् चक्रम् क्रुद्ध अहिम् इव पावकः

तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् ।
दुर्वास दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥

तत् अभिद्रवत् उद्वीक्ष्य स्व-प्रयासम् च निष्फलम् दुर्वासाः दुद्रुवे भीतः दिक्षु प्राण-परीप्सया

तमन्वधावद् भगवद्रथाङ्गं
दावाग्निरुद्धूतशिखो यथाहिम् ।
तथानुषक्तं मुनिरीक्षमाणो
गुहां विविक्षु: प्रससार मेरो: ॥ ५० ॥

तम् अन्वधावत् भगवत्-रथ-अङ्गम् दाव-अग्निः उद्धूत शिखः यथा अहिम् तथा अनुषक्तम् मुनिः ईक्षमाणः गुहाम् विविक्षुः प्रससार मेरोः

दिशो नभ: क्ष्मां विवरान्समुद्रान्
लोकान् सपालांस्त्रिदिवं गत: स: ।
यतो यतो धावति तत्र तत्र
सुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥

दिशः नभः क्ष्माम् विवरान् समुद्रान् लोकान् स-पालान् त्रिदिवम् गतः सः यतः यतः धावति तत्र तत्र सुदर्शनम् दुष्प्रसहम् ददर्श

अलब्धनाथ: स सदा कुतश्चित्
सन्त्रस्तचित्तोऽरणमेषमाण: ।
देवं विरिञ्चं समगाद्विधात-
स्त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ५२ ॥

अलब्ध-नाथः सः सदा कुतश्चित् सन्त्रस्त-चित्तः अरणम् एषमाणः देवम् विरिञ्चम् समगात् विधातः त्राहि आत्म-योने अजित-तेजसः माम्

श्रीब्रह्मोवाच
स्थानं मदीयं सहविश्वमेतत्
क्रीडावसाने द्विपरार्धसंज्ञे ।
भ्रूभङ्गमात्रेण हि सन्दिधक्षो:
कालात्मनो यस्य तिरोभविष्यति ॥ ५३ ॥
अहं भवो दक्षभृगुप्रधाना:
प्रजेशभूतेशसुरेशमुख्या: ।
सर्वे वयं यन्नियमं प्रपन्ना
मूर्ध्‍न्यार्पितं लोकहितं वहाम: ॥ ५४ ॥

श्री-ब्रह्मा उवाच स्थानम् मदीयम् सह विश्वम् एतत् क्रीडा-अवसाने द्वि-परार्ध-संज्ञे भ्रू-भङ्ग-मात्रेण हि सन्दिधक्षोः काल-आत्मनः यस्य तिरोभविष्यति अहम् भवः दक्ष भृगु प्रधानाः प्रजा-ईश भूत-ईश सुर-ईश मुख्याः सर्वे वयम् यत्-नियमम् प्रपन्नाः मूर्ध्न्या अर्पितम् लोक-हितम् वहामः

प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापित: ।
दुर्वास: शरणं यात: शर्वं कैलासवासिनम् ॥ ५५ ॥

प्रत्याख्यातः विरिञ्चेन विष्णु-चक्र-उपतापितः दुर्वासाः शरणम् यातः शर्वम् कैलास-वासिनम्

श्रीशङ्कर उवाच
वयं न तात प्रभवाम भूम्नि
यस्मिन् परेऽन्येऽप्यजजीवकोशा: ।
भवन्ति काले न भवन्ति हीद‍ृशा:
सहस्रशो यत्र वयं भ्रमाम: ॥ ५६ ॥

श्री-शङ्करः उवाच वयम् न तात प्रभवामः भूम्नि यस्मिन् परे अन्ये अपि अज जीव कोशाः भवन्ति काले न भवन्ति हि ईदृशाः सहस्रशः यत्र वयम् भ्रमामः

अहं सनत्कुमारश्च नारदो भगवानज: ।
कपिलोऽपान्तरतमो देवलो धर्म आसुरि: ॥ ५७ ॥
मरीचिप्रमुखाश्चान्ये सिद्धेशा: पारदर्शना: ।
विदाम न वयं सर्वे यन्मायां माययावृता: ॥ ५८ ॥
तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि न: ।
तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ ५९ ॥

अहम् सनत्-कुमारः च नारदः भगवान् अजः कपिलः अपान्तरतमः देवलः धर्मः आसुरिः मरीचि प्रमुखाः च अन्ये सिद्ध-ईशाः पार-दर्शनाः विदामः न वयम् सर्वे यत्-मायाम् मायया आवृताः तस्य विश्व-ईश्वरस्य इदम् शस्त्रम् दुर्विषहम् हि नः तम् एवम् शरणम् याहि हरिः ते शम् विधास्यति

ततो निराशो दुर्वास: पदं भगवतो ययौ ।
वैकुण्ठाख्यं यदध्यास्ते श्रीनिवास: श्रिया सह ॥ ६० ॥

ततः निराशः दुर्वासाः पदम् भगवतः ययौ वैकुण्ठ-आख्यम् यत् अध्यास्ते श्रीनिवासः श्रिया सह

सन्दह्यमानोऽजितशस्त्रवह्निना
तत्पादमूले पतित: सवेपथु: ।
आहाच्युतानन्त सदीप्सित प्रभो
कृतागसं माव हि विश्वभावन ॥ ६१ ॥

सन्दह्यमानः अजित-शस्त्र-वह्निना तत्-पाद-मूले पतितः स-वेपथुः आह अच्युत अनन्त सत्-ईप्सित प्रभो कृत-आगसम् मा अवहि विश्व-भावन

अजानता ते परमानुभावं
कृतं मयाघं भवत: प्रियाणाम् ।
विधेहि तस्यापचितिं विधात-
र्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ६२ ॥

अजानता ते परम-अनुभावम् कृतम् मया अघम् भवतः प्रियाणाम् विधेहि तस्य अपचितिम् विधातः मुच्येत यत् नाम्नि उदिते नारकः अपि

श्रीभगवानुवाच
अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ।
साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रिय: ॥ ६३ ॥

श्री-भगवान् उवाच अहम् भक्त-पराधीनः हि अस्वतन्त्रः इव द्विज साधुभिः ग्रस्त-हृदयः भक्तैः भक्त-जन-प्रियः

नाहमात्मानमाशासे मद्भक्तै: साधुभिर्विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ ६४ ॥

न अहम् आत्मानम् आशासे मत्-भक्तैः साधुभिः विना श्रियम् च आत्यन्तिकीम् ब्रह्मन् येषाम् गतिः अहम् परा

ये दारागारपुत्राप्तप्राणान् वित्तमिमं परम् ।
हित्वा मां शरणं याता: कथं तांस्त्यक्तुमुत्सहे ॥ ६५ ॥

ये दार अगार पुत्र आप्त प्राणान् वित्तम् इमम् परम् हित्वा माम् शरणम् याताः कथम् तान् त्यक्तुम् उत्सहे

मयि निर्बद्धहृदया: साधव: समदर्शना: ।
वशीकुर्वन्ति मां भक्त्या सत्स्त्रिय: सत्पतिं यथा ॥ ६६ ॥

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः वशे कुर्वन्ति माम् भक्त्या सत्-स्त्रियः सत्-पतिम् यथा

मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णा: कुतोऽन्यत् कालविप्लुतम् ॥ ६७ ॥

मत्-सेवया प्रतीतम् ते सालोक्य-आदि-चतुष्टयम् न इच्छन्ति सेवया पूर्णाः कुतः अन्यत् काल-विप्लुतम्

साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ६८ ॥

साधवः हृदयम् मह्यम् साधूनाम् हृदयम् तु अहम् मत्-अन्यत् ते न जानन्ति न अहम् तेभ्यः मनाक् अपि

उपायं कथयिष्यामि तव विप्र श‍ृणुष्व तत् ।
अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् ।
साधुषु प्रहितं तेज: प्रहर्तु: कुरुतेऽशिवम् ॥ ६९ ॥

उपायम् कथयिष्यामि तव विप्र शृणुष्व तत् अयम् हि आत्म-अभिचारः ते यतः तम् याहि मा चिरम् साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते अशिवम्

तपो विद्या च विप्राणां नि:श्रेयसकरे उभे ।
ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥

तपः विद्या च विप्राणाम् निःश्रेयस करे उभे ते एव दुर्विनीतस्य कल्पेते कर्तुः अन्यथा

ब्रह्मंस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् ।
क्षमापय महाभागं तत: शान्तिर्भविष्यति ॥ ७१ ॥

ब्रह्मन् तत् गच्छ भद्रम् ते नाभाग-तनयम् नृपम् क्षमापय महा-भागम् ततः शान्तिः भविष्यति

९.५

श्रीशुक उवाच
एवं भगवतादिष्टो दुर्वासश्चक्रतापित: ।
अम्बरीषमुपावृत्य तत्पादौ दु:खितोऽग्रहीत् ॥ १ ॥

श्री-शुकः उवाच एवम् भगवता आदिष्टः दुर्वासाः चक्र-तापितः अम्बरीषम् उपावृत्य तत्-पादौ दुःखितः अग्रहीत्

तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जित: ।
अस्तावीत् तद्धरेरस्त्रं कृपया पीडितो भृशम् ॥ २ ॥

तस्य सः उद्यमम् आवीक्ष्य पाद-स्पर्श-विलज्जितः अस्तावीत् तत् हरेः अस्त्रम् कृपया पीडितः भृशम्

अम्बरीष उवाच
त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पति: ।
त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ ३ ॥

अम्बरीषः उवाच त्वम् अग्निः भगवान् सूर्यः त्वम् सोमः ज्योतिषाम् पतिः त्वम् आपः त्वम् क्षितिः व्योम वायुः मात्र इन्द्रियाणि च

सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय ।
सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ ४ ॥

सुदर्शन नमः तुभ्यम् सहस्र-अर अच्युत-प्रिय सर्व-अस्त्र-घातिन् विप्राय स्वस्ति भूयाः इडस्पते

त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् ।
त्वं लोकपाल: सर्वात्मा त्वं तेज: पौरुषं परम् ॥ ५ ॥

त्वम् धर्मः त्वम् ऋतम् सत्यम् त्वम् यज्ञः अखिल यज्ञ-भुक् त्वम् लोक-पालः सर्व-आत्मा त्वम् तेजः पौरुषम् परम्

नम: सुनाभाखिलधर्मसेतवे
ह्यधर्मशीलासुरधूमकेतवे ।
त्रैलोक्यगोपाय विशुद्धवर्चसे
मनोजवायाद्भ‍ुतकर्मणे गृणे ॥ ६ ॥

नमः सु-नाभ अखिल-धर्म-सेतवे हि अधर्म-शील असुर धूम-केतवे त्रैलोक्य गोपाय विशुद्ध वर्चसे मनः-जवाय अद्भुत कर्मणे गृणे

त्वत्तेजसा धर्ममयेन संहृतं
तम: प्रकाशश्च द‍ृशो महात्मनाम् ।
दुरत्ययस्ते महिमा गिरां पते
त्वद्रूपमेतत् सदसत् परावरम् ॥ ७ ॥

त्वत्-तेजसा धर्म-मयेन संहृतम् तमः प्रकाशः च दृशः महा-आत्मनाम् दुरत्ययः ते महिमा गिराम् पते त्वत्-रूपम् एतत् सत्-असत् पर-अवरम्

यदा विसृष्टस्त्वमनञ्जनेन वै
बलं प्रविष्टोऽजित दैत्यदानवम् ।
बाहूदरोर्वङ्‌घ्रिशिरोधराणि
वृश्चन्नजस्रं प्रधने विराजसे ॥ ८ ॥

यदा विसृष्टः त्वम् अनञ्जनेन वै बलम् प्रविष्टः अजित दैत्य-दानवम् बाहु उदर ऊरु अङ्घ्रि शिरः-धराणि वृश्चन् अजस्रम् प्रधने विराजसे

स त्वं जगत् त्राण खलप्रहाणये
निरूपित: सर्वसहो गदाभृता ।
विप्रस्य चास्मत्कुलदैवहेतवे
विधेहि भद्रं तदनुग्रहो हि न: ॥ ९ ॥

सः त्वम् जगत्-त्राण खल-प्रहाणये निरूपितः सर्व-सहः गदा-भृता विप्रस्य च अस्मत् कुल-दैव-हेतवे विधेहि भद्रम् तत् अनुग्रहः हि नः

यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठित: ।
कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वर: ॥ १० ॥

यदि अस्ति दत्तम् इष्टम् वा स्व-धर्मः वा सु-अनुष्ठितः कुलम् नः विप्र-दैवम् चेत् द्विजः भवतु विज्वरः

यदि नो भगवान् प्रीत एक: सर्वगुणाश्रय: ।
सर्वभूतात्मभावेन द्विजो भवतु विज्वर: ॥ ११ ॥

यदि नः भगवान् प्रीतः एकः सर्व-गुण-आश्रयः सर्व-भूत-आत्म-भावेन द्विजः भवतु विज्वरः

श्रीशुक उवाच
इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।
अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाञ्चया ॥ १२ ॥

श्री-शुकः उवाच इति संस्तुवतः राज्ञः विष्णु-चक्रम् सुदर्शनम् अशाम्यत् सर्वतः विप्रम् प्रदहत् राज याच्ञया

स मुक्तोऽस्त्राग्नितापेन दुर्वास: स्वस्तिमांस्तत: ।
प्रशशंस तमुर्वीशं युञ्जान: परमाशिष: ॥ १३ ॥

सः मुक्तः अस्त्र-अग्नि-तापेन दुर्वासाः स्वस्तिमान् ततः प्रशशंस तम् उर्वी-ईशम् युञ्जानः परम-आशिषः

दुर्वासा उवाच
अहो अनन्तदासानां महत्त्वं द‍ृष्टमद्य मे ।
कृतागसोऽपि यद् राजन् मङ्गलानि समीहसे ॥ १४ ॥

दुर्वासाः उवाच अहो अनन्त-दासानाम् महत्त्वम् दृष्टम् अद्य मे कृत-आगसः अपि यत् राजन् मङ्गलानि समीहसे

दुष्कर: को नु साधूनां दुस्त्यजो वा महात्मनाम् ।
यै: संगृहीतो भगवान् सात्वतामृषभो हरि: ॥ १५ ॥

दुष्करः कः नु साधूनाम् दुस्त्यजः वा महा-आत्मनाम् यैः सङ्गृहीतः भगवान् सात्वताम् ऋषभः हरिः

यन्नामश्रुतिमात्रेण पुमान् भवति निर्मल: ।
तस्य तीर्थपद: किं वा दासानामवशिष्यते ॥ १६ ॥

यत्-नाम श्रुति-मात्रेण पुमान् भवति निर्मलः तस्य तीर्थ-पदः किम् वा दासानाम् अवशिष्यते

राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना ।
मदघं पृष्ठत: कृत्वा प्राणा यन्मेऽभिरक्षिता: ॥ १७ ॥

राजन् अनुगृहीतः अहम् त्वया अति-करुण-आत्मना मत्-अघम् पृष्ठतः कृत्वा प्राणाः यत् मे अभिरक्षिताः

राजा तमकृताहार: प्रत्यागमनकाङ्क्षउया ।
चरणावुपसङ्गृह्य प्रसाद्य समभोजयत् ॥ १८ ॥

राजा तम् अकृत-आहारः प्रत्यागमन काङ्क्षया चरणौ उपसङ्गृह्य प्रसाद्य समभोजयत्

सोऽशित्वाद‍ृतमानीतमातिथ्यं सार्वकामिकम् ।
तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥ १९ ॥

सः अशित्वा आदृतम् आनीतम् आतिथ्यम् सार्व-कामिकम् तृप्त-आत्मा नृपतिम् प्राह भुज्यताम् इति स-आदरम्

प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै ।
दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥ २० ॥

प्रीतः अस्मि अनुगृहीतः अस्मि तव भागवतस्य वै दर्शन स्पर्शन आलापैः आतिथ्येन आत्म-मेधसा

कर्मावदातमेतत् ते गायन्ति स्व:स्त्रियो मुहु: ।
कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ २१ ॥

कर्म अवदातम् एतत् ते गायन्ति स्वः-स्त्रियः मुहुः कीर्तिम् परम-पुण्याम् च कीर्तयिष्यति भूः इयम्

श्रीशुक उवाच
एवं सङ्कीर्त्य राजानं दुर्वास: परितोषित: ।
ययौ विहायसामन्‍त्र्य ब्रह्मलोकमहैतुकम् ॥ २२ ॥

श्री-शुकः उवाच एवम् सङ्कीर्त्य राजानम् दुर्वासाः परितोषितः ययौ विहायसा आमन्त्र्य ब्रह्मलोकम् अहैतुकम्

संवत्सरोऽत्यगात् तावद् यावता नागतो गत: ।
मुनिस्तद्दर्शनाकाङ्क्षोत राजाब्भक्षो बभूव ह ॥ २३ ॥

संवत्सरः अत्यगात् तावत् यावता न आगतः गतः मुनिः तत्-दर्शन-आकाङ्क्षः राजा अप्-भक्षः बभूव ह

गतेऽथ दुर्वाससि सोऽम्बरीषो
द्विजोपयोगातिपवित्रमाहरत् ।
ऋषेर्विमोक्षं व्यसनं च वीक्ष्य
मेने स्ववीर्यं च परानुभावम् ॥ २४ ॥

गते अथ दुर्वाससि सः अम्बरीषः द्विज-उपयोग अति-पवित्रम् आहरत् ऋषेः विमोक्षम् व्यसनम् च वीक्ष्य मेने स्व-वीर्यम् च पर-अनुभावम्

एवं विधानेकगुण: स राजा
परात्मनि ब्रह्मणि वासुदेवे ।
क्रियाकलापै: समुवाह भक्तिं
ययाविरिञ्‍च्यान् निरयांश्चकार ॥ २५ ॥

एवम् विधा-अनेक-गुणः सः राजा पर-आत्मनि ब्रह्मणि वासुदेवे क्रिया-कलापैः समुवाह भक्तिम् यया आविरिञ्च्यान् निरयान् चकार

श्रीशुक उवाच
अथाम्बरीषस्तनयेषु राज्यं
समानशीलेषु विसृज्य धीर: ।
वनं विवेशात्मनि वासुदेवे
मनो दधद् ध्वस्तगुणप्रवाह: ॥ २६ ॥

श्री-शुकः उवाच अथ अम्बरीषः तनयेषु राज्यम् समान-शीलेषु विसृज्य धीरः वनम् विवेश आत्मनि वासुदेवे मनः दधत् ध्वस्त गुण-प्रवाहः

इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते ।
सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥ २७ ॥

इति एतत् पुण्यम् आख्यानम् अम्बरीषस्य भूपते सङ्कीर्तयन् अनुध्यायन् भक्तः भगवतः भवेत्

अम्बरीषस्यचरितं येश‍ृण्वन्तिमहात्मन: ।
मुक्तिं प्रयान्तितेसर्वेभक्त्याविष्णो: प्रसादत: ॥ २८ ॥

अम्बरीषस्य चरितम् ये शृण्वन्ति महा-आत्मनः मुक्तिम् प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः

९.६

श्रीशुक उवाच
विरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।
विरूपात् पृषदश्वोऽभूत्तत् पुत्रस्तु रथीतर: ॥ १ ॥

श्री-शुकः उवाच विरूपः केतुमान् शम्भुः अम्बरीष सुताः त्रयः विरूपात् पृषदश्वः अभूत् तत्-पुत्रः तु रथीतरः

रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थित: ।
अङ्गिरा जनयामास ब्रह्मवर्चस्विन: सुतान् ॥ २ ॥

रथीतरस्य अप्रजस्य भार्यायाम् तन्तवे अर्थितः अङ्गिराः जनयाम् आस ब्रह्म-वर्चस्विनः सुतान्

एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसा: स्मृता: ।
रथीतराणां प्रवरा: क्षेत्रोपेता द्विजातय: ॥ ३ ॥

एते क्षेत्र-प्रसूताः वै पुनः तु आङ्गिरसाः स्मृताः रथीतराणाम् प्रवराः क्षेत्र-उपेताः द्वि-जातयः

क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणत: सुत: ।
तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डका: ॥ ४ ॥

क्षुवतः तु मनोः जज्ञे इक्ष्वाकुः घ्राणतः सुतः तस्य पुत्र-शत ज्येष्ठाः विकुक्षि निमि दण्डकाः

तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप ।
पञ्चविंशति: पश्चाच्च त्रयो मध्येऽपरेऽन्यत: ॥ ५ ॥

तेषाम् पुरस्तात् अभवन् आर्यावर्ते नृपाः नृप पञ्च-विंशतिः पश्चात् च त्रयः मध्ये अपरे अन्यतः

स एकदाष्टकाश्राद्धे इक्ष्वाकु: सुतमादिशत् ।
मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥

सः एकदा अष्टका-श्राद्धे इक्ष्वाकुः सुतम् आदिशत् मांसम् आनीयताम् मेध्यम् विकुक्षे गच्छ मा चिरम्

तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
श्रान्तो बुभुक्षितो वीर: शशं चाददपस्मृति: ॥ ७ ॥

तथा इति सः वनम् गत्वा मृगान् हत्वा क्रिया-अर्हणान् श्रान्तः बुभुक्षितः वीरः शशम् च आदत् अपस्मृतिः

शेषं निवेदयामास पित्रे तेन च तद्गुरु: ।
चोदित: प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥ ८ ॥

शेषम् निवेदयाम् आस पित्रे तेन च तत्-गुरुः चोदितः प्रोक्षणाय आह दुष्टम् एतत् अकर्मकम्

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृप: ।
देशान्नि:सारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणा अभिहितम् नृपः देशात् निःसारयाम् आस सुतम् त्यक्त-विधिम् रुषा

स तु विप्रेण संवादं ज्ञापकेन समाचरन् ।
त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ १० ॥

सः तु विप्रेण संवादम् ज्ञापकेन समाचरन् त्यक्त्वा कलेवरम् योगी सः तेन अवाप यत् परम्

पितर्युपरतेऽभ्येत्य विकुक्षि: पृथिवीमिमाम् ।
शासदीजे हरिं यज्ञै: शशाद इति विश्रुत: ॥ ११ ॥

पितरि उपरते अभ्येत्य विकुक्षिः पृथिवीम् इमाम् शासत् ईजे हरिम् यज्ञैः शश-अदः इति विश्रुतः

पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरित: ।
ककुत्स्थ इति चाप्युक्त: श‍ृणु नामानि कर्मभि: ॥ १२ ॥

पुरम्-जयः तस्य सुतः इन्द्र-वाहः इति ईरितः ककुत्स्थः इति च अपि उक्तः शृणु नामानि कर्मभिः

कृतान्त आसीत् समरो देवानां सह दानवै: ।
पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितै: ॥ १३ ॥

कृत-अन्तः आसीत् समरः देवानाम् सह दानवैः पार्ष्णिग्राहः वृतः वीरः देवैः दैत्य पराजितैः

वचनाद् देवदेवस्य विष्णोर्विश्वात्मन: प्रभो: ।
वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृष: ॥ १४ ॥

वचनात् देव-देवस्य विष्णोः विश्व-आत्मनः प्रभोः वाहनत्वे वृतः तस्य बभूव इन्द्रः महा-वृषः

स सन्नद्धो धनुर्दिव्यमादाय विशिखाञ्छितान् ।
स्तूयमानस्तमारुह्य युयुत्सु: ककुदि स्थित: ॥ १५ ॥
तेजसाप्यायितो विष्णो: पुरुषस्य महात्मन: ।
प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशै: पुरम् ॥ १६ ॥

सः सन्नद्धः धनुः दिव्यम् आदाय विशिखान् शितान् स्तूयमानः तम् आरुह्य युयुत्सुः ककुदि स्थितः तेजसा आप्यायितः विष्णोः पुरुषस्य महा-आत्मनः प्रतीच्याम् दिशि दैत्यानाम् न्यरुणत् त्रिदशैः पुरम्

तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम् ।
यमाय भल्लैरनयद् दैत्यान् अभिययुर्मृधे ॥ १७ ॥

तैः तस्य च अभूत् प्रधनम् तुमुलम् लोम-हर्षणम् यमाय भल्लैः अनयत् दैत्यान् अभिययुः मृधे

तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् ।
विसृज्य दुद्रुवुर्दैत्या हन्यमाना: स्वमालयम् ॥ १८ ॥

तस्य इषु-पात अभिमुखम् युग-अन्त अग्निम् इव उल्बणम् विसृज्य दुद्रुवुः दैत्याः हन्यमानाः स्वम् आलयम्

जित्वा पुरं धनं सर्वं सश्रीकं वज्रपाणये ।
प्रत्ययच्छत् स राजर्षिरिति नामभिराहृत: ॥ १९ ॥

जित्वा परम् धनम् सर्वम् स-स्त्रीकम् वज्र-पाणये प्रत्ययच्छत् सः राज-ऋषिः इति नामभिः आहृतः

पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुत: पृथु: ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुत: ॥ २० ॥

पुरञ्जयस्य पुत्रः अभूत् अनेनाः तत्-सुतः पृथुः विश्वगन्धिः ततः चन्द्रः युवनाश्वः तु तत्-सुतः

श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी ।
बृहदश्वस्तु श्रावस्तिस्तत: कुवलयाश्वक: ॥ २१ ॥

श्रावस्तः तत्-सुतः येन श्रावस्ती निर्ममे पुरी बृहदश्वः तु श्रावस्तिः ततः कुवलयाश्वकः

य: प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली ।
सुतानामेकविंशत्या सहस्रैरहनद् वृत: ॥ २२ ॥

यः प्रिय-अर्थम् उतङ्कस्य धुन्धु-नाम असुरम् बली सुतानाम् एक-विंशत्या सहस्रैः अहनत् वृतः

धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलु: ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिता: ॥ २३ ॥
द‍ृढाश्व: कपिलाश्वश्च भद्राश्व इति भारत ।
द‍ृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुत: स्मृत: ॥ २४ ॥

धुन्धु-मारः इति ख्यातः तत्-सुताः ते च जज्वलुः धुन्धोः मुख-अग्निना सर्वे त्रयः एव अवशेषिताः दृढाश्वः कपिलाश्वः च भद्राश्वः इति भारत दृढाश्व-पुत्रः हर्यश्वः निकुम्भः तत्-सुतः स्मृतः

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गत: ॥ २५ ॥

बहुलाश्वः निकुम्भस्य कृशाश्वः अथ अस्य सेनजित् युवनाश्वः अभवत् तस्य सः अनपत्यः वनम् गतः

भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालव: ।
इष्टिं स्म वर्तयांचक्रुरैन्द्रीं ते सुसमाहिता: ॥ २६ ॥

भार्या-शतेन निर्विण्णः ऋषयः अस्य कृपालवः इष्टिम् स्म वर्तयाम् चक्रुः ऐन्द्रीम् ते सु-समाहिताः

राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षित: ।
द‍ृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥ २७ ॥

राजा तत्-यज्ञ-सदनम् प्रविष्टः निशि तर्षितः दृष्ट्वा शयानान् विप्रान् तान् पपौ मन्त्र-जलम् स्वयम्

उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो ।
पप्रच्छु: कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥

उत्थिताः ते निशम्य अथ व्युदकम् कलशम् प्रभो पप्रच्छुः कस्य कर्म इदम् पीतम् पुंसवनम् जलम्

राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते ।
ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥ २९ ॥

राज्ञा पीतम् विदित्वा वै ईश्वर-प्रहितेन ते ईश्वराय नमः चक्रुः अहो दैव-बलम् बलम्

तत: काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ ३० ॥

ततः काले उपावृत्ते कुक्षिम् निर्भिद्य दक्षिणम् युवनाश्वस्य तनयः चक्रवर्ती जजान ह

कं धास्यति कुमारोऽयं स्तन्ये रोरूयते भृशम् ।
मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥ ३१ ॥

कम् धास्यति कुमारः अयम् स्तन्ये रोरूयते भृशम् माम् धाता वत्स मा रोदीः इति इन्द्रः देशिनीम् अदात्

न ममार पिता तस्य विप्रदेवप्रसादत: ।
युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥

न ममार पिता तस्य विप्र-देव-प्रसादतः युवनाश्वः अथ तत्र एव तपसा सिद्धिम् अन्वगात्

त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम यस्य वै ।
यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादय: ॥ ३३ ॥
यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभु: ।
सप्तद्वीपवतीमेक: शशासाच्युततेजसा ॥ ३४ ॥

त्रसत्-दस्युः इति इन्द्रः अङ्ग विदधे नाम यस्य वै यस्मात् त्रसन्ति हि उद्विग्नाः दस्यवः रावण-आदयः यौवनाश्वः अथ मान्धाता चक्रवर्ती अवनीम् प्रभुः सप्त-द्वीप-वतीम् एकः शशास अच्युत-तेजसा

ईजे च यज्ञं क्रतुभिरात्मविद् भूरिदक्षिणै: ।
सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥
द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विज: ।
धर्मो देशश्च कालश्च सर्वमेतद् यदात्मकम् ॥ ३६ ॥

ईजे च यज्ञम् क्रतुभिः आत्म-वित् भूरि-दक्षिणैः सर्व-देव-मयम् देवम् सर्व-आत्मकम् अति-इन्द्रियम् द्रव्यम् मन्त्रः विधिः यज्ञः यजमानः तथा ऋत्विजः धर्मः देशः च कालः च सर्वम् एतत् यत् आत्मकम्

यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
तत् सर्वं यौवनाश्वस्य मान्धातु: क्षेत्रमुच्यते ॥ ३७ ॥

यावत् सूर्यः उदेति स्म यावत् च प्रतितिष्ठति तत् सर्वम् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते

शशबिन्दोर्दुहितरि बिन्दुमत्यामधान्नृप: ।
पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् ।
तेषां स्वसार: पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ ३८ ॥

शशबिन्दोः दुहितरि बिन्दुमत्याम् अधात् नृपः पुरुकुत्सम् अम्बरीषम् मुचुकुन्दम् च योगिनम् तेषाम् स्वसारः पञ्चाशत् सौभरिम् वव्रिरे पतिम्

यमुनान्तर्जले मग्नस्तप्यमान: परन्तप: ।
निर्वृतिं मीनराजस्य द‍ृष्ट्वा मैथुनधर्मिण: ॥ ३९ ॥
जातस्पृहो नृपं विप्र: कन्यामेकामयाचत ।
सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ ४० ॥

यमुना-अन्तः-जले मग्नः तप्यमानः परम् तपः निर्वृतिम् मीन-राजस्य दृष्ट्वा मैथुन-धर्मिणः जात-स्पृहः नृपम् विप्रः कन्याम् एकाम् अयाचत सः अपि आह गृह्यताम् ब्रह्मन् कामम् कन्या स्वयंवरे

स विचिन्त्याप्रियं स्त्रीणां जरठोऽहमसन्मत: ।
वलीपलित एजत्क इत्यहं प्रत्युदाहृत: ॥ ४१ ॥
साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् ।
किं पुनर्मनुजेन्द्राणामिति व्यवसित: प्रभु: ॥ ४२ ॥

सः विचिन्त्य अप्रियम् स्त्रीणाम् जरठः अहम् असत्-मतः वली पलितः एजत्-कः इति अहम् प्रत्युदाहृतः साधयिष्ये तथा आत्मानम् सुर-स्त्रीणाम् अभीप्सितम् किम् पुनः मनुज-इन्द्राणाम् इति व्यवसितः प्रभुः

मुनि: प्रवेशित: क्षत्रा कन्यान्त:पुरमृद्धिमत् ।
वृत: स राजकन्याभिरेकं पञ्चाशता वर: ॥ ४३ ॥

मुनिः प्रवेशितः क्षत्रा कन्या-अन्तःपुरम् ऋद्धि-मत् वृतः सः राज-कन्याभिः एकम् पञ्चाशता वरः

तासां कलिरभूद् भूयांस्तदर्थेऽपोह्य सौहृदम् ।
ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ ४४ ॥

तासाम् कलिः अभूत् भूयान् तत्-अर्थे अपोह्य सौहृदम् मम अनुरूपः न अयम् वः इति तत्-गत-चेतसाम्

स बह्वऋचस्ताभिरपारणीय-
तप:श्रियानर्घ्यपरिच्छदेषु ।
गृहेषु नानोपवनामलाम्भ:-
सरस्सु सौगन्धिककाननेषु ॥ ४५ ॥
महार्हशय्यासनवस्त्रभूषण-
स्‍नानानुलेपाभ्यवहारमाल्यकै: ।
स्वलङ्‍कृत स्त्रीपुरुषेषु नित्यदा
रेमेऽनुगायद्द्विजभृङ्गवन्दिषु ॥ ४६ ॥

सः बहु-ऋचः ताभिः अपारणीय तपः श्रिया अनर्घ्य परिच्छदेषु गृहेषु नाना उपवन अमल अम्भः सरःसु सौगन्धिक काननेषु महा-अर्ह शय्या आसन वस्त्र भूषण स्नान अनुलेप अभ्यवहार माल्यकैः सु-अलङ्कृत स्त्री पुरुषेषु नित्यदा रेमे अनुगायत् द्विज भृङ्ग वन्दिषु

यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपति: ।
विस्मित: स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ ४७ ॥

यत् गार्हस्थ्यम् तु संवीक्ष्य सप्त-द्वीप-वती-पतिः विस्मितः स्तम्भम् अजहात् सार्व-भौम श्रिया-अन्वितम्

एवं गृहेष्वभिरतो विषयान् विविधै: सुखै: ।
सेवमानो न चातुष्यदाज्यस्तोकैरिवानल: ॥ ४८ ॥

एवम् गृहेषु अभिरतः विषयान् विविधैः सुखैः सेवमानः न च अतुष्यत् आज्य-स्तोकैः इव अनलः

स कदाचिदुपासीन आत्मापह्नवमात्मन: ।
ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ ४९ ॥

सः कदाचित् उपासीनः आत्म-अपह्नवम् आत्मनः ददर्श बहु-ऋच-आचार्यः मीन-सङ्ग समुत्थितम्

अहो इमं पश्यत मे विनाशं
तपस्विन: सच्चरितव्रतस्य ।
अन्तर्जले वारिचरप्रसङ्गात्
प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥

अहो इमम् पश्यत मे विनाशम् तपस्विनः सत्-चरित व्रतस्य अन्तः-जले वारि-चर-प्रसङ्गात् प्रच्यावितम् ब्रह्म चिरम् धृतम् यत्

सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षु:
सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ।
एकश्चरन् रहसि चित्तमनन्त ईशे
युञ्जीत तद्‍व्रतिषु साधुषु चेत् प्रसङ्ग: ॥ ५१ ॥

सङ्गम् त्यजेत मिथुन-व्रतीनाम् मुमुक्षुः सर्व-आत्मना न विसृजेत् बहिः-इन्द्रियाणि एकः चरन् रहसि चित्तम् अनन्ते ईशे युञ्जीत तत्-व्रतिषु साधुषु चेत् प्रसङ्गः

एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात्
पञ्चाशदासमुत पञ्चसहस्रसर्ग: ।
नान्तं व्रजाम्युभयकृत्यमनोरथानां
मायागुणैर्हृतमतिर्विषयेऽर्थभाव: ॥ ५२ ॥

एकः तपस्वी अहम् अथ अम्भसि मत्स्य-सङ्गात् पञ्चाशत् आसम् उत पञ्च-सहस्र-सर्गः न अन्तम् व्रजामि उभय-कृत्य मनोरथानाम् माया-गुणैः हृत मतिः विषये अर्थ-भावः

एवं वसन् गृहे कालं विरक्तो न्यासमास्थित: ।
वनं जगामानुययुस्तत्पत्‍न्य: पतिदेवता: ॥ ५३ ॥

एवम् वसन् गृहे कालम् विरक्तः न्यासम् आस्थितः वनम् जगाम अनुययुः तत्-पत्न्यः पति-देवताः

तत्र तप्‍त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् ।
सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥

तत्र तप्त्वा तपः तीक्ष्णम् आत्म-दर्शनम् आत्मवान् सह एव अग्निभिः आत्मानम् युयोज परम-आत्मनि

ता: स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिष: ॥ ५५ ॥

ताः स्व-पत्युः महाराज निरीक्ष्य अध्यात्मिकीम् गतिम् अन्वीयुः तत्-प्रभावेण अग्निम् शान्तम् इव अर्चिषः

९.७

श्रीशुक उवाच
मान्धातु: पुत्रप्रवरो योऽम्बरीष: प्रकीर्तित: ।
पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुत: ।
हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ॥ १ ॥

श्री-शुकः उवाच मान्धातुः पुत्र-प्रवरः यः अम्बरीषः प्रकीर्तितः पितामहेन प्रवृतः यौवनाश्वः तु तत्-सुतः हारीतः तस्य पुत्रः अभूत् मान्धातृ प्रवराः इमे

नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगै: ।
तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ २ ॥

नर्मदा भ्रातृभिः दत्ता पुरुकुत्साय या उरगैः तया रसातलम् नीतः भुजग-इन्द्र-प्रयुक्तया

गन्धर्वानवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् ।
नागाल्लब्धवर: सर्पादभयं स्मरतामिदम् ॥ ३ ॥

गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णु-शक्ति-धृक् नागात् लब्ध-वरः सर्पात् अभयम् स्मरताम् इदम्

त्रसद्दस्यु: पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
हर्यश्वस्तत्सुतस्तस्मात्प्रारुणोऽथ त्रिबन्धन: ॥ ४ ॥

त्रसद्दस्युः पौरुकुत्सः यः अनरण्यस्य देह-कृत् हर्यश्वः तत्-सुतः तस्मात् प्रारुणः अथ त्रिबन्धनः

तस्य सत्यव्रत: पुत्रस्त्रिशङ्कुरिति विश्रुत: ।
प्राप्तश्चाण्डालतां शापाद् गुरो: कौशिकतेजसा ॥ ५ ॥
सशरीरो गत: स्वर्गमद्यापि दिवि द‍ृश्यते ।
पातितोऽवाक् शिरा देवैस्तेनैव स्तम्भितो बलात् ॥ ६ ॥

तस्य सत्यव्रतः पुत्रः त्रिशङ्कुः इति विश्रुतः प्राप्तः चाण्डालताम् शापात् गुरोः कौशिक-तेजसा सशरीरः गतः स्वर्गम् अद्य अपि दिवि दृश्यते पातितः अवाक्-शिराः देवैः तेन एव स्तम्भितः बलात्

त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयो: ।
यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ॥ ७ ॥

त्रैशङ्कवः हरिश्चन्द्रः विश्वामित्र-वसिष्ठयोः यत्-निमित्तम् अभूत् युद्धम् पक्षिणोः बहु-वार्षिकम्

सोऽनपत्यो विषण्णात्मा नारदस्योपदेशत: ।
वरुणं शरणं यात: पुत्रो मे जायतां प्रभो ॥ ८ ॥

सः अनपत्यः विषण्ण-आत्मा नारदस्य उपदेशतः वरुणम् शरणम् यातः पुत्रः मे जायताम् प्रभो

यदि वीरो महाराज तेनैव त्वां यजे इति ।
तथेति वरुणेनास्य पुत्रो जातस्तु रोहित: ॥ ९ ॥

यदि वीरः महाराज तेन एव त्वाम् यजे इति तथा इति वरुणेन अस्य पुत्रः जातः तु रोहितः

जात: सुतो ह्यनेनाङ्ग मां यजस्वेति सोऽब्रवीत् ।
यदा पशुर्निर्दश: स्यादथ मेध्यो भवेदिति ॥ १० ॥

जातः सुतः हि अनेन अङ्ग माम् यजस्व इति सः अब्रवीत् यदा पशुः निर्दशः स्यात् अथ मेध्यः भवेत् इति

निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् ।
दन्ता: पशोर्यज्जायेरन्नथ मेध्यो भवेदिति ॥ ११ ॥

निर्दशे च सः आगत्य यजस्व इति आह सः अब्रवीत् दन्ताः पशोः यत् जायेरन् अथ मेध्यः भवेत् इति

दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ १२ ॥

दन्ताः जाताः यजस्व इति सः प्रत्याह अथ सः अब्रवीत् यदा पतन्ति अस्य दन्ताः अथ मेध्यः भवेत् इति

पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ।
यदा पशो: पुनर्दन्ता जायन्तेऽथ पशु: शुचि: ॥ १३ ॥

पशोः निपतिताः दन्ताः यजस्व इति आह सः अब्रवीत् यदा पशोः पुनः दन्ताः जायन्ते अथ पशुः शुचिः

पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
सान्नाहिको यदा राजन् राजन्योऽथ पशु: शुचि: ॥ १४ ॥

पुनः जाताः यजस्व इति सः प्रत्याह अथ सः अब्रवीत् सान्नाहिकः यदा राजन् राजन्यः अथ पशुः शुचिः

इति पुत्रानुरागेण स्‍नेहयन्त्रितचेतसा ।
कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ १५ ॥

इति पुत्र-अनुरागेण स्नेह-यन्त्रित-चेतसा कालम् वञ्चयता तम् तम् उक्तः देवः तम् ऐक्षत

रोहितस्तदभिज्ञाय पितु: कर्म चिकीर्षितम् ।
प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥ १६ ॥

रोहितः तत् अभिज्ञाय पितुः कर्म चिकीर्षितम् प्राण-प्रेप्सुः धनुः-पाणिः अरण्यम् प्रत्यपद्यत

पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
रोहितो ग्राममेयाय तमिन्द्र: प्रत्यषेधत ॥ १७ ॥

पितरम् वरुण-ग्रस्तम् श्रुत्वा जात महा-उदरम् रोहितः ग्रामम् एयाय तम् इन्द्रः प्रत्यषेधत

भूमे: पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणै: ।
रोहितायादिशच्छक्र: सोऽप्यरण्येऽवसत् समाम् ॥ १८ ॥

भूमेः पर्यटनम् पुण्यम् तीर्थ-क्षेत्र निषेवणैः रोहिताय आदिशत् शक्रः सः अपि अरण्ये अवसत् समाम्

एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥ १९ ॥

एवम् द्वितीये तृतीये चतुर्थे पञ्चमे तथा अभ्येत्य अभ्येत्य स्थविरः विप्रः भूत्वा आह वृत्र-हा

षष्ठं संवत्सरं तत्र चरित्वा रोहित: पुरीम् ।
उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् ।
शुन:शेफं पशुं पित्रे प्रदाय समवन्दत ॥ २० ॥

षष्ठम् संवत्सरम् तत्र चरित्वा रोहितः पुरीम् उपव्रजन् अजीगर्तात् अक्रीणात् मध्यमम् सुतम् शुनःशेफम् पशुम् पित्रे प्रदाय समवन्दत

तत: पुरुषमेधेन हरिश्चन्द्रो महायशा: ।
मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथ: ॥ २१ ॥

ततः पुरुष-मेधेन हरिश्चन्द्रः महा-यशाः मुक्त-उदरः अयजत् देवान् वरुण-आदीन् महत्-कथः

विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ।
जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्य: सामग: ॥ २२ ॥

विश्वामित्रः अभवत् तस्मिन् होता च अध्वर्युः आत्मवान् जमदग्निः अभूत् ब्रह्मा वसिष्ठः अयास्यः साम-गः

तस्मै तुष्टो ददाविन्द्र: शातकौम्भमयं रथम् ।
शुन:शेफस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते ॥ २३ ॥

तस्मै तुष्टः ददौ इन्द्रः शातकौम्भ-मयम् रथम् शुनःशेफस्य माहात्म्यम् उपरिष्टात् प्रचक्ष्यते

सत्यं सारं धृतिं द‍ृष्ट्वा सभार्यस्य च भूपते: ।
विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् ॥ २४ ॥

सत्यम् सारम् धृतिम् दृष्ट्वा स-भार्यस्य च भूपतेः विश्वामित्रः भृशम् प्रीतः ददौ अविहताम् गतिम्

मन: पृथिव्यां तामद्भ‍िस्तेजसापोऽनिलेन तत् ।
खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि ।
तस्मिञ्ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ २५ ॥
हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।
अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धन: ॥ २६ ॥

मनः पृथिव्याम् ताम् अद्भिः तेजसा अपः अनिलेन तत् खे वायुम् धारयन् तत् च भूत-आदौ तम् महा-आत्मनि तस्मिन् ज्ञान-कलाम् ध्यात्वा तया अज्ञानम् विनिर्दहन् हित्वा ताम् स्वेन भावेन निर्वाण-सुख-संविदा अनिर्देश्य अप्रतर्क्येण तस्थौ विध्वस्त बन्धनः

९.८

श्रीशुक उवाच
हरितो रोहितसुतश्चम्पस्तस्माद् विनिर्मिता ।
चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मज: ॥ १ ॥

श्री-शुकः उवाच हरितः रोहित-सुतः चम्पः तस्मात् विनिर्मिता चम्पा-पुरी सुदेवः अतः विजयः यस्य च आत्म-जः

भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुक: ।
सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ २ ॥

भरुकः तत्-सुतः तस्मात् वृकः तस्य अपि बाहुकः सः अरिभिः हृत-भूः राजा स-भार्यः वनम् आविशत्

वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती ।
और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ ३ ॥

वृद्धम् तम् पञ्चताम् प्राप्तम् महिषी अनुमरिष्यती और्वेण जानता आत्मानम् प्रजा-वन्तम् निवारिता

आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽन्धसा सह ।
सह तेनैव सञ्जात: सगराख्यो महायशा: ।
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतै: कृत: ॥ ४ ॥

आज्ञाय अस्यै सपत्नीभिः गरः दत्तः अन्धसा सह सह तेन एव सञ्जातः सगर-आख्यः महा-यशाः सगरः चक्रवर्ती आसीत् सागरः यत्-सुतैः कृतः

यस्तालजङ्घान् यवनाञ्छकान् हैहयबर्बरान् ।
नावधीद् गुरुवाक्येन चक्रे विकृतवेषिण: ॥ ५ ॥
मुण्डाञ्छ्मश्रुधरान् कांश्चिन्मुक्तकेशार्धमुण्डितान् ।
अनन्तर्वासस: कांश्चिदबहिर्वाससोऽपरान् ॥ ६ ॥

यः तालजङ्घान् यवनान् शकान् हैहय बर्बरान् न अवधीत् गुरु-वाक्येन चक्रे विकृत-वेषिणः मुण्डान् श्मश्रु-धरान् कांश्चित् मुक्त-केश अर्ध-मुण्डितान् अनन्तः-वाससः कांश्चित् अबहिः-वाससः अपरान्

सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ।
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।
तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दर: ॥ ७ ॥

सः अश्वमेधैः अयजत सर्व-वेद सुर आत्मकम् और्व-उपदिष्ट-योगेन हरिम् आत्मानम् ईश्वरम् तस्य उत्सृष्टम् पशुम् यज्ञे जहार अश्वम् पुरन्दरः

सुमत्यास्तनया द‍ृप्ता: पितुरादेशकारिण: ।
हयमन्वेषमाणास्ते समन्तान्न्यखनन् महीम् ॥ ८ ॥

सुमत्याः तनयाः दृप्ताः पितुः आदेश-कारिणः हयम् अन्वेषमाणाः ते समन्तात् न्यखनन् महीम्

प्रागुदीच्यां दिशि हयं दद‍ृशु: कपिलान्तिके ।
एष वाजिहरश्चौर आस्ते मीलितलोचन: ॥ ९ ॥
हन्यतां हन्यतां पाप इति षष्टिसहस्रिण: ।
उदायुधा अभिययुरुन्मिमेष तदा मुनि: ॥ १० ॥

प्राक्-उदीच्याम् दिशि हयम् ददृशुः कपिल-अन्तिके एषः वाजि-हरः चौरः आस्ते मीलित-लोचनः हन्यताम् हन्यताम् पापः इति षष्टि-सहस्रिणः उदायुधाः अभिययुः उन्मिमेष तदा मुनिः

स्वशरीराग्निना तावन्महेन्द्रहृतचेतस: ।
महद्‌व्य‌तिक्रमहता भस्मसादभवन् क्षणात् ॥ ११ ॥

स्व-शरीर-अग्निना तावत् महेन्द्र हृत-चेतसः महत् व्यतिक्रम-हताः भस्मसात् अभवन् क्षणात्

न साधुवादो मुनिकोपभर्जिता
नृपेन्द्रपुत्रा इति सत्त्वधामनि ।
कथं तमो रोषमयं विभाव्यते
जगत्पवित्रात्मनि खे रजो भुव: ॥ १२ ॥

न साधु-वादः मुनि-कोप भर्जिताः नृपेन्द्र-पुत्राः इति सत्त्व-धामनि कथम् तमः रोष-मयम् विभाव्यते जगत्-पवित्र-आत्मनि खे रजः भुवः

यस्येरिता साङ्ख्यमयी द‍ृढेह नौ-
र्यया मुमुक्षुस्तरते दुरत्ययम् ।
भवार्णवं मृत्युपथं विपश्चित:
परात्मभूतस्य कथं पृथङ्‌मति: ॥ १३ ॥

यस्य ईरिता साङ्ख्य-मयी दृढा इह नौः यया मुमुक्षुः तरते दुरत्ययम् भव-अर्णवम् मृत्यु-पथम् विपश्चितः परात्म-भूतस्य कथम् पृथक्-मतिः

योऽसमञ्जस इत्युक्त: स केशिन्या नृपात्मज: ।
तस्य पुत्रोशुमान् नाम पितामहहिते रत: ॥ १४ ॥

यः असमञ्जसः इति उक्तः सः केशिन्याः नृप-आत्मजः तस्य पुत्रः अंशुमान् नाम पितामह-हिते रतः

असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् ।
जातिस्मर: पुरा सङ्गाद् योगी योगाद् विचालित: ॥ १५ ॥
आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।
सरय्वां क्रीडतो बालान्प्रास्यदुद्वेजयञ्जनम् ॥ १६ ॥

असमञ्जसः आत्मानम् दर्शयन् असमञ्जसम् जाति-स्मरः पुरा सङ्गात् योगी योगात् विचालितः आचरन् गर्हितम् लोके ज्ञातीनाम् कर्म विप्रियम् सरय्वाम् क्रीडतः बालान् प्रास्यत् उद्वेजयन् जनम्

एवं वृत्त: परित्यक्त: पित्रा स्‍नेहमपोह्य वै ।
योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ ॥ १७ ॥

एवम् वृत्तः परित्यक्तः पित्रा स्नेहम् अपोह्य वै योग-ऐश्वर्येण बालान् तान् दर्शयित्वा ततः ययौ

अयोध्यावासिन: सर्वे बालकान् पुनरागतान् ।
द‍ृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत ॥ १८ ॥

अयोध्या-वासिनः सर्वे बालकान् पुनः आगतान् दृष्ट्वा विसिस्मिरे राजन् राजा च अपि अन्वतप्यत

अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ ।
पितृव्यखातानुपथं भस्मान्ति दद‍ृशे हयम् ॥ १९ ॥

अंशुमान् चोदितः राज्ञा तुरग अन्वेषणे ययौ पितृव्य-खात अनुपथम् भस्म-अन्ति ददृशे हयम्

तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् ।
अस्तौत् समाहितमना: प्राञ्जलि: प्रणतो महान् ॥ २० ॥

तत्र आसीनम् मुनिम् वीक्ष्य कपिल-आख्यम् अधोक्षजम् अस्तौत् समाहित-मनाः प्राञ्जलिः प्रणतः महान्

अंशुमानुवाच
न पश्यति त्वां परमात्मनोऽजनो
न बुध्यतेऽद्यापि समाधियुक्तिभि: ।
कुतोऽपरे तस्य मन:शरीरधी-
विसर्गसृष्टा वयमप्रकाशा: ॥ २१ ॥

अंशुमान् उवाच न पश्यति त्वाम् परम् आत्मनः अजनः न बुध्यते अद्य अपि समाधि युक्तिभिः कुतः अपरे तस्य मनः-शरीर-धी विसर्ग-सृष्टाः वयम् अप्रकाशाः

ये देहभाजस्त्रिगुणप्रधाना
गुणान् विपश्यन्त्युत वा तमश्च ।
यन्मायया मोहितचेतसस्त्वां
विदु: स्वसंस्थं न बहि:प्रकाशा: ॥ २२ ॥

ये देह-भाजः त्रि-गुण-प्रधानाः गुणान् विपश्यन्ति उत वा तमः च यत्-मायया मोहित चेतसः त्वाम् विदुः स्व-संस्थम् न बहिः-प्रकाशाः

तं त्वामहं ज्ञानघनं स्वभाव-
प्रध्वस्तमायागुणभेदमोहै: ।
सनन्दनाद्यैर्मुनिभिर्विभाव्यं
कथं विमूढ: परिभावयामि ॥ २३ ॥

तम् त्वाम् अहम् ज्ञान-घनम् स्वभाव प्रध्वस्त माया-गुण भेद-मोहैः सनन्दन-आद्यैः मुनिभिः विभाव्यम् कथम् विमूढः परिभावयामि

प्रशान्त मायागुणकर्मलिङ्ग-
मनामरूपं सदसद्विमुक्तम् ।
ज्ञानोपदेशाय गृहीतदेहं
नमामहे त्वां पुरुषं पुराणम् ॥ २४ ॥

प्रशान्त माया-गुण कर्म-लिङ्गम् अनाम-रूपम् सत्-असत्-विमुक्तम् ज्ञान-उपदेशाय गृहीत-देहम् नमामहे त्वाम् पुरुषम् पुराणम्

त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।
भ्रमन्ति कामलोभेर्ष्यामोहविभ्रान्तचेतस: ॥ २५ ॥

त्वत्-माया रचिते लोके वस्तु-बुद्ध्या गृह-आदिषु भ्रमन्ति काम लोभ ईर्ष्या मोह विभ्रान्त चेतसः

अद्य न: सर्वभूतात्मन् कामकर्मेन्द्रियाशय: ।
मोहपाशो द‍ृढश्छिन्नो भगवंस्तव दर्शनात् ॥ २६ ॥

अद्य नः सर्व-भूत-आत्मन् काम-कर्म-इन्द्रिय-आशयः मोह-पाशः दृढः छिन्नः भगवन् तव दर्शनात्

श्रीशुक उवाच
इत्थंगीतानुभावस्तं भगवान्कपिलो मुनि: ।
अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप ॥ २७ ॥

श्री-शुकः उवाच इत्थम् गीत-अनुभावः तम् भगवान् कपिलः मुनिः अंशुमन्तम् उवाच इदम् अनुग्राह्य धिया नृप

श्रीभगवानुवाच
अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।
इमे च पितरो दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् ॥ २८ ॥

श्री-भगवान् उवाच अश्वः अयम् नीयताम् वत्स पितामह पशुः तव इमे च पितरः दग्धाः गङ्गा-अम्भः अर्हन्ति न इतरत्

तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।
सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ २९ ॥

तम् परिक्रम्य शिरसा प्रसाद्य हयम् आनयत् सगरः तेन पशुना यज्ञ-शेषम् समापयत्

राज्यमंशुमते न्यस्य नि:स्पृहो मुक्तबन्धन: ।
और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ ३० ॥

राज्यम् अंशुमते न्यस्य निःस्पृहः मुक्त-बन्धनः और्व-उपदिष्ट मार्गेण लेभे गतिम् अनुत्तमाम्

९.९

श्रीशुक उवाच
अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया ।
कालं महान्तं नाशक्नोत् तत: कालेन संस्थित: ॥ १ ॥

श्री-शुकः उवाच अंशुमान् च तपः तेपे गङ्गा आनयन-काम्यया कालम् महान्तम् न अशक्नोत् ततः कालेन संस्थितः

दिलीपस्तत्सुतस्तद्वदशक्त: कालमेयिवान् ।
भगीरथस्तस्य सुतस्तेपे स सुमहत् तप: ॥ २ ॥

दिलीपः तत्-सुतः तत्-वत् अशक्तः कालम् एयिवान् भगीरथः तस्य सुतः तेपे सः सु-महत् तपः

दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।
इत्युक्त: स्वमभिप्रायं शशंसावनतो नृप: ॥ ३ ॥

दर्शयाम् आस तम् देवी प्रसन्ना वरदा अस्मि ते इति उक्तः स्वम् अभिप्रायम् शशंस अवनतः नृपः

कोऽपि धारयिता वेगं पतन्त्या मे महीतले ।
अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥

कः अपि धारयिता वेगम् पतन्त्याः मे मही-तले अन्यथा भू-तलम् भित्त्वा नृप यास्ये रसातलम्

किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् ।
मृजामि तदघं क्‍वाहं राजंस्तत्र विचिन्त्यताम् ॥ ५ ॥

किम् च अहम् न भुवम् यास्ये नराः मयि आमृजन्ति अघम् मृजामि तत् अघम् क्व अहम् राजन् तत्र विचिन्त्यताम्

श्रीभगीरथ उवाच
साधवो न्यासिन: शान्ता ब्रह्मिष्ठा लोकपावना: ।
हरन्त्यघं तेऽङ्गसङ्गात् तेष्वास्ते ह्यघभिद्धरि: ॥ ६ ॥

श्री-भगीरथः उवाच साधवः न्यासिनः शान्ताः ब्रह्मिष्ठाः लोक-पावनाः हरन्ति अघम् ते अङ्ग-सङ्गात् तेषु आस्ते हि अघ-भित् हरिः

धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् ।
यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥ ७ ॥

धारयिष्यति ते वेगम् रुद्रः तु आत्मा शरीरिणाम् यस्मिन् ओतम् इदम् प्रोतम् विश्वम् शाटी इव तन्तुषु

इत्युक्त्वा स नृपो देवं तपसातोषयच्छिवम् ।
कालेनाल्पीयसा राजंस्तस्येशश्चाश्वतुष्यत ॥ ८ ॥

इति उक्त्वा सः नृपः देवम् तपसा अतोषयत् शिवम् कालेन अल्पीयसा राजन् तस्य ईशः च आशु अतुष्यत

तथेति राज्ञाभिहितं सर्वलोकहित: शिव: ।
दधारावहितो गङ्गां पादपूतजलां हरे: ॥ ९ ॥

तथा इति राज्ञा अभिहितम् सर्व-लोक-हितः शिवः दधार अवहितः गङ्गाम् पाद-पूत-जलाम् हरेः

भगीरथ: स राजर्षिर्निन्ये भुवनपावनीम् ।
यत्र स्वपितृणां देहा भस्मीभूता: स्म शेरते ॥ १० ॥

भगीरथः सः राज-ऋषिः निन्ये भुवन-पावनीम् यत्र स्व-पितॄणाम् देहाः भस्मीभूताः स्म शेरते

रथेन वायुवेगेन प्रयान्तमनुधावती ।
देशान्पुनन्ती निर्दग्धानासिञ्चत्सगरात्मजान् ॥ ११ ॥

रथेन वायु-वेगेन प्रयान्तम् अनुधावती देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगर-आत्मजान्

यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि ।
सगरात्मजा दिवं जग्मु: केवलं देहभस्मभि: ॥ १२ ॥

यत्-जल स्पर्श-मात्रेण ब्रह्म-दण्ड-हताः अपि सगर-आत्मजाः दिवम् जग्मुः केवलम् देह-भस्मभिः

भस्मीभूताङ्गसङ्गेन स्वर्याता: सगरात्मजा: ।
किं पुन: श्रद्धया देवीं सेवन्ते ये धृतव्रता: ॥ १३ ॥

भस्मीभूत-अङ्ग सङ्गेन स्वः याताः सगर-आत्मजाः किम् पुनः श्रद्धया देवीम् सेवन्ते ये धृत-व्रताः

न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् ।
अनन्तचरणाम्भोजप्रसूताया भवच्छिद: ॥ १४ ॥

न हि एतत् परम् आश्चर्यम् स्वर्धुन्याः यत् इह उदितम् अनन्त चरण-अम्भोज प्रसूतायाः भव-छिदः

सन्निवेश्य मनो यस्मिञ्छ्रद्धया मुनयोऽमला: ।
त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ १५ ॥

सन्निवेश्य मनः यस्मिन् श्रद्धया मुनयः अमलाः त्रैगुण्यम् दुस्त्यजम् हित्वा सद्यः याताः तत्-आत्मताम्

श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् ।
सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत् ॥ १६ ॥
ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात् ।
दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ १७ ॥

श्रुतः भगीरथात् जज्ञे तस्य नाभः अपरः अभवत् सिन्धुद्वीपः ततः तस्मात् अयुतायुः ततः अभवत् ऋतूपर्णः नल-सखः यः अश्व-विद्याम् अयात् नलात् दत्त्वा अक्ष-हृदयम् च अस्मै सर्वकामः तु तत्-सुतम्

तत: सुदासस्तत्पुत्रो दमयन्तीपतिर्नृप: ।
आहुर्मित्रसहं यं वै कल्माषाङ्‌घ्रिमुत क्‍वचित् ।
वसिष्ठशापाद् रक्षोऽभूदनपत्य: स्वकर्मणा ॥ १८ ॥

ततः सुदासः तत्-पुत्रः दमयन्ती-पतिः नृपः आहुः मित्रसहम् यम् वै कल्माषाङ्घ्रिम् उत क्वचित् वसिष्ठ-शापात् रक्षः अभूत् अनपत्यः स्व-कर्मणा

श्रीराजोवाच
किं निमित्तो गुरो: शाप: सौदासस्य महात्मन: ।
एतद् वेदितुमिच्छाम: कथ्यतां न रहो यदि ॥ १९ ॥

श्री-राजा उवाच किम् निमित्तः गुरोः शापः सौदासस्य महा-आत्मनः एतत् वेदितुम् इच्छामः कथ्यताम् न रहः यदि

श्रीशुक उवाच
सौदासो मृगयां किञ्चिच्चरन् रक्षो जघान ह ।
मुमोच भ्रातरं सोऽथ गत: प्रतिचिकीर्षया ॥ २० ॥
सञ्चिन्तयन्नघं राज्ञ: सूदरूपधरो गृहे ।
गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ २१ ॥

श्री-शुकः उवाच सौदासः मृगयाम् किञ्चित् चरन् रक्षः जघान ह मुमोच भ्रातरम् सः अथ गतः प्रतिचिकीर्षया सञ्चिन्तयन् अघम् राज्ञः सूद-रूप-धरः गृहे गुरवे भोक्तु-कामाय पक्त्वा निन्ये नर-आमिषम्

परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा ।
राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ २२ ॥

परिवेक्ष्यमाणम् भगवान् विलोक्य अभक्ष्यम् अञ्जसा राजानम् अशपत् क्रुद्धः रक्षः हि एवम् भविष्यसि

रक्ष:कृतं तद् विदित्वा चक्रे द्वादशवार्षिकम् ।
सोऽप्यपोऽञ्जलिमादाय गुरुं शप्तुं समुद्यत: ॥ २३ ॥
वारितो मदयन्त्यापो रुशती: पादयोर्जहौ ।
दिश: खमवनीं सर्वं पश्यञ्जीवमयं नृप: ॥ २४ ॥

रक्षः-कृतम् तत् विदित्वा चक्रे द्वादश-वार्षिकम् सः अपि अपः-अञ्जलिम् आदाय गुरुम् शप्तुम् समुद्यतः वारितः मदयन्त्या अपः रुशतीः पादयोः जहौ दिशः खम् अवनीम् सर्वम् पश्यन् जीव-मयम् नृपः

राक्षसं भावमापन्न: पादे कल्माषतां गत: ।
व्यवायकाले दद‍ृशे वनौकोदम्पती द्विजौ ॥ २५ ॥

राक्षसम् भावम् आपन्नः पादे कल्माषताम् गतः व्यवाय-काले ददृशे वन-ओकः दम्-पती द्विजौ

क्षुधार्तो जगृहे विप्रं तत्पत्‍न्याहाकृतार्थवत् ।
न भवान् राक्षस: साक्षादिक्ष्वाकूणां महारथ: ॥ २६ ॥
मदयन्त्या: पतिर्वीर नाधर्मं कर्तुमर्हसि ।
देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ २७ ॥

क्षुधा-आर्तः जगृहे विप्रम् तत्-पत्नी आह अकृत-अर्थ-वत् न भवान् राक्षसः साक्षात् इक्ष्वाकूणाम् महा-रथः मदयन्त्याः पतिः वीर न अधर्मम् कर्तुम् अर्हसि देहि मे अपत्य-कामायाः अकृत-अर्थम् पतिम् द्विजम्

देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थद: ।
तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ २८ ॥

देहः अयम् मानुषः राजन् पुरुषस्य अखिल अर्थ-दः तस्मात् अस्य वधः वीर सर्व-अर्थ-वधः उच्यते

एष हि ब्राह्मणो विद्वांस्तप:शीलगुणान्वित: ।
आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ।
सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणै: ॥ २९ ॥

एषः हि ब्राह्मणः विद्वान् तपः शील गुण-अन्वितः आरिराधयिषुः ब्रह्म महा-पुरुष संज्ञितम् सर्व-भूत आत्म-भावेन भूतेषु अन्तर्हितम् गुणैः

सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो ।
कथमर्हति धर्मज्ञ वधं पितुरिवात्मज: ॥ ३० ॥

सः अयम् ब्रह्म-ऋषि-वर्यः ते राज-ऋषि-प्रवरात् विभो कथम् अर्हति धर्म-ज्ञ वधम् पितुः इव आत्मजः

तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिन: ।
कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥ ३१ ॥

तस्य साधोः अपापस्य भ्रूणस्य ब्रह्म-वादिनः कथम् वधम् यथा बभ्रोः मन्यते सत्-मतः भवान्

यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वत: ।
न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ ३२ ॥

यदि अयम् क्रियते भक्ष्यः तर्हि माम् खाद पूर्वतः न जीविष्ये विना येन क्षणम् च मृतकम् यथा

एवं करुणभाषिण्या विलपन्त्या अनाथवत् ।
व्याघ्र: पशुमिवाखादत् सौदास: शापमोहित: ॥ ३३ ॥

एवम् करुण-भाषिण्याः विलपन्त्याः अनाथ-वत् व्याघ्रः पशुम् इव अखादत् सौदासः शाप मोहितः

ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् ।
शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती ॥ ३४ ॥

ब्राह्मणी वीक्ष्य दिधिषुम् पुरुष-अदेन भक्षितम् शोचन्ती आत्मानम् उर्वीशम् अशपत् कुपिता सती

यस्मान्मे भक्षित: पाप कामार्ताया: पतिस्त्वया ।
तवापि मृत्युराधानादकृतप्रज्ञ दर्शित: ॥ ३५ ॥

यस्मात् मे भक्षितः पाप काम-आर्तायाः पतिः त्वया तव अपि मृत्युः आधानात् अकृत-प्रज्ञ दर्शितः

एवं मित्रसहं शप्‍त्वा पतिलोकपरायणा ।
तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ ३६ ॥

एवम् मित्रसहम् शप्त्वा पति-लोक-परायणा तत्-अस्थीनि समिद्धे अग्नौ प्रास्य भर्तुः गतिम् गता

विशापो द्वादशाब्दान्ते मैथुनाय समुद्यत: ।
विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारित: ॥ ३७ ॥

विशापः द्वादश-अब्द-अन्ते मैथुनाय समुद्यतः विज्ञाप्य ब्राह्मणी-शापम् महिष्या सः निवारितः

अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजा: ।
वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ ३८ ॥

अतः ऊर्ध्वम् सः तत्याज स्त्री-सुखम् कर्मणा अप्रजाः वसिष्ठः तत्-अनुज्ञातः मदयन्त्याम् प्रजाम् अधात्

सा वै सप्त समा गर्भमबिभ्रन्न व्यजायत ।
जघ्नेऽश्मनोदरं तस्या: सोऽश्मकस्तेन कथ्यते ॥ ३९ ॥

सा वै सप्त समाः गर्भम् अबिभ्रत् न व्यजायत जघ्ने अश्मना उदरम् तस्याः सः अश्मकः तेन कथ्यते

अश्मकाद्ब‍ालिको जज्ञे य: स्त्रीभि: परिरक्षित: ।
नारीकवच इत्युक्तो नि:क्षत्रे मूलकोऽभवत् ॥ ४० ॥

अश्मकात् बालिकः जज्ञे यः स्त्रीभिः परिरक्षितः नारी-कवचः इति उक्तः निःक्षत्रे मूलकः अभवत्

ततो दशरथस्तस्मात् पुत्र ऐडविडिस्तत: ।
राजा विश्वसहो यस्य खट्‍वाङ्गश्चक्रवर्त्यभूत् ॥ ४१ ॥

ततः दशरथः तस्मात् पुत्रः ऐडविडिः ततः राजा विश्वसहः यस्य खट्वाङ्गः चक्रवर्ती अभूत्

यो देवैरर्थितो दैत्यानवधीद् युधि दुर्जय: ।
मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मन: ॥ ४२ ॥

यः देवैः अर्थितः दैत्यान् अवधीत् युधि दुर्जयः मुहूर्तम् आयुः ज्ञात्वा एत्य स्व-पुरम् सन्दधे मनः

न मे ब्रह्मकुलात् प्राणा: कुलदैवान्न चात्मजा: ।
न श्रियो न मही राज्यं न दाराश्चातिवल्लभा: ॥ ४३ ॥

न मे ब्रह्म-कुलात् प्राणाः कुल-दैवात् न च आत्मजाः न श्रियः न मही राज्यम् न दाराः च अति-वल्लभाः

न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्‍वचित् ।
नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्वहम् ॥ ४४ ॥

न बाल्ये अपि मतिः मह्यम् अधर्मे रमते क्वचित् न अपश्यम् उत्तमश्लोकात् अन्यत् किञ्चन वस्तु अहम्

देवै: कामवरो दत्तो मह्यं त्रिभुवनेश्वरै: ।
न वृणे तमहं कामं भूतभावनभावन: ॥ ४५ ॥

देवैः काम-वरः दत्तः मह्यम् त्रि-भुवन-ईश्वरैः न वृणे तम् अहम् कामम् भूतभावन-भावनः

ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् ।
न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे ॥ ४६ ॥

ये विक्षिप्त-इन्द्रिय-धियः देवाः ते स्व-हृदि स्थितम् न विन्दन्ति प्रियम् शश्वत् आत्मानम् किम् उत अपरे

अथेशमायारचितेषु सङ्गं
गुणेषु गन्धर्वपुरोपमेषु ।
रूढं प्रकृत्यात्मनि विश्वकर्तु-
र्भावेन हित्वा तमहं प्रपद्ये ॥ ४७ ॥

अथ ईश-माया रचितेषु सङ्गम् गुणेषु गन्धर्व-पुर-उपमेषु रूढम् प्रकृत्या आत्मनि विश्व-कर्तुः भावेन हित्वा तम् अहम् प्रपद्ये

इति व्यवसितो बुद्ध्या नारायणगृहीतया ।
हित्वान्यभावमज्ञानं तत: स्वं भावमास्थित: ॥ ४८ ॥

इति व्यवसितः बुद्ध्या नारायण-गृहीतया हित्वा अन्य-भावम् अज्ञानम् ततः स्वम् भावम् आस्थितः

यत् तद् ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् ।
भगवान् वासुदेवेति यं गृणन्ति हि सात्वता: ॥ ४९ ॥

यत् तत् ब्रह्म परम् सूक्ष्मम् अशून्यम् शून्य-कल्पितम् भगवान् वासुदेव इति यम् गृणन्ति हि सात्वताः

९.१०

श्रीशुक उवाच
खट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: ।
अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥

श्री-शुकः उवाच खट्वाङ्गात् दीर्घबाहुः च रघुः तस्मात् पृथु-श्रवाः अजः ततः महा-राजः तस्मात् दशरथः अभवत्

तस्यापि भगवानेष साक्षाद् ब्रह्ममयो हरि: ।
अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थित: सुरै: ।
रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया ॥ २ ॥

तस्य अपि भगवान् एषः साक्षात् ब्रह्म-मयः हरिः अंश-अंशेन चतुर्धा अगात् पुत्रत्वम् प्रार्थितः सुरैः राम लक्ष्मण भरत शत्रुघ्नाः इति संज्ञया

तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभि: ।
श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहु: ॥ ३ ॥

तस्य अनुचरितम् राजन् ऋषिभिः तत्त्व-दर्शिभिः श्रुतम् हि वर्णितम् भूरि त्वया सीता-पतेः मुहुः

गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियाया:
पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् ।
वैरूप्याच्छूर्पणख्या: प्रियविरहरुषारोपितभ्रूविजृम्भ-
त्रस्ताब्धिर्बद्धसेतु: खलदवदहन: कोसलेन्द्रोऽवतान्न: ॥ ४ ॥

गुरु-अर्थे त्यक्त-राज्यः व्यचरत् अनुवनम् पद्म-पद्भ्याम् प्रियायाः पाणि-स्पर्श-अक्षमाभ्याम् मृजित-पथ-रुजः यः हरीन्द्र-अनुजाभ्याम् वैरूप्यात् शूर्पणख्याः प्रिय-विरह रुषा आरोपित-भ्रू-विजृम्भ त्रस्त अब्धिः बद्ध-सेतुः खल-दव-दहनः कोसल-इन्द्रः अवतात् नः

विश्वामित्राध्वरे येन मारीचाद्या निशाचरा: ।
पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुङ्गवा: ॥ ५ ॥

विश्वामित्र-अध्वरे येन मारीच-आद्याः निशा-चराः पश्यतः लक्ष्मणस्य एव हताः नैरृत-पुङ्गवाः

यो लोकवीरसमितौ धनुरैशमुग्रं
सीतास्वयंवरगृहे त्रिशतोपनीतम् ।
आदाय बालगजलील इवेक्षुयष्टिं
सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥
जित्वानुरूपगुणशीलवयोऽङ्गरूपां
सीताभिधां श्रियमुरस्यभिलब्धमानाम् ।
मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं
दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥

यः लोक-वीर-समितौ धनुः ऐशम् उग्रम् सीता-स्वयंवर-गृहे त्रिशत-उपनीतम् आदाय बाल-गज-लीलः इव इक्षु-यष्टिम् सज्ज्यी-कृतम् नृप विकृष्य बभञ्ज मध्ये जित्वा अनुरूप गुण शील वयः अङ्ग रूपाम् सीता-अभिधाम् श्रियम् उरसि अभिलब्धमानाम् मार्गे व्रजन् भृगुपतेः व्यनयत् प्ररूढम् दर्पम् महीम् अकृत यः त्रिः अराज बीजाम्

य: सत्यपाशपरिवीतपितुर्निदेशं
स्त्रैणस्य चापि शिरसा जगृहे सभार्य: ।
राज्यं श्रियं प्रणयिन: सुहृदो निवासं
त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्ग: ॥ ८ ॥

यः सत्य-पाश-परिवीत-पितुः निदेशम् स्त्रैणस्य च अपि शिरसा जगृहे स-भार्यः राज्यम् श्रियम् प्रणयिनः सुहृदः निवासम् त्यक्त्वा ययौ वनम् असून् इव मुक्त-सङ्गः

रक्ष:स्वसुर्व्यकृत रूपमशुद्धबुद्धे-
स्तस्या: खरत्रिशिरदूषणमुख्यबन्धून् ।
जघ्ने चतुर्दशसहस्रमपारणीय-
कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥

रक्षः-स्वसुः व्यकृत रूपम् अशुद्ध-बुद्धेः तस्याः खर-त्रिशिर-दूषण-मुख्य-बन्धून् जघ्ने चतुर्दश-सहस्रम् अपारणीय कोदण्ड पाणिः अटमानः उवास कृच्छ्रम्

सीताकथाश्रवणदीपितहृच्छयेन
सृष्टं विलोक्य नृपते दशकन्धरेण ।
जघ्नेऽद्भ‍ुतैणवपुषाश्रमतोऽपकृष्टो
मारीचमाशु विशिखेन यथा कमुग्र: ॥ १० ॥

सीता-कथा श्रवण दीपित हृत्-शयेन सृष्टम् विलोक्य नृपते दश-कन्धरेण जघ्ने अद्भुत-एण-वपुषा आश्रमतः अपकृष्टः मारीचम् आशु विशिखेन यथा कम् उग्रः

रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं
वैदेहराजदुहितर्यपयापितायाम् ।
भ्रात्रा वने कृपणवत् प्रियया वियुक्त:
स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥

रक्षः-अधमेन वृक-वत् विपिने असमक्षम् वैदेह-राज-दुहितरि अपयापितायाम् भ्रात्रा वने कृपण-वत् प्रियया वियुक्तः स्त्री-सङ्गिनाम् गतिम् इति प्रथयन् चचार

दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं
सख्यं विधाय कपिभिर्दयितागतिं तै: ।
बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यै-
र्वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि: ॥ १२ ॥

दग्ध्वा आत्म-कृत्य-हत-कृत्यम् अहन् कबन्धम् सख्यम् विधाय कपिभिः दयिता-गतिम् तैः बुद्ध्वा अथ वालिनि हते प्लवग-इन्द्र-सैन्यैः वेलाम् अगात् सः मनु-जः अज भव अर्चित-अङ्घ्रिः

यद्रोषविभ्रमविवृत्तकटाक्षपात-
सम्भ्रान्तनक्रमकरो भयगीर्णघोष: ।
सिन्धु: शिरस्यर्हणं परिगृह्य रूपी
पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥

यत्-रोष विभ्रम विवृत्त कटाक्ष-पात सम्भ्रान्त नक्र मकरः भय-गीर्ण-घोषः सिन्धुः शिरसि अर्हणम् परिगृह्य रूपी पाद-अरविन्दम् उपगम्य बभाष एतत्

न त्वां वयं जडधियो नु विदाम भूमन्
कूटस्थमादिपुरुषं जगतामधीशम् ।
यत्सत्त्वत: सुरगणा रजस: प्रजेशा
मन्योश्च भूतपतय: स भवान् गुणेश: ॥ १४ ॥

न त्वाम् वयम् जड-धियः नु विदामः भूमन् कूट-स्थम् आदि-पुरुषम् जगताम् अधीशम् यत् सत्त्वतः सुर-गणाः रजसः प्रजा-ईशाः मन्योः च भूत-पतयः सः भवान् गुण-ईशः

कामं प्रयाहि जहि विश्रवसोऽवमेहं
त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् ।
बध्नीहि सेतुमिह ते यशसो वितत्यै
गायन्ति दिग्विजयिनो यमुपेत्य भूपा: ॥ १५ ॥

कामम् प्रयाहि जहि विश्रवसः अवमेहम् त्रैलोक्य रावणम् अवाप्नुहि वीर पत्नीम् बध्नीहि सेतुम् इह ते यशसः वितत्यै गायन्ति दिक्-विजयिनः यम् उपेत्य भूपाः

बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटै:
सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गै: ।
सुग्रीवनीलहनुमत्प्रमुखैरनीकै-
र्लङ्कां विभीषणद‍ृशाविशदग्रदग्धाम् ॥ १६ ॥

बद्ध्वा उदधौ रघु-पतिः विविध अद्रि-कूटैः सेतुम् कपि-इन्द्र कर-कम्पित भूरुह-अङ्गैः सुग्रीव नील हनुमत् प्रमुखैः अनीकैः लङ्काम् विभीषण-दृशा आविशत् अग्र-दग्धाम्

सा वानरेन्द्रबलरुद्धविहारकोष्ठ-
श्रीद्वारगोपुरसदोवलभीविटङ्का ।
निर्भज्यमानधिषणध्वजहेमकुम्भ-
श‍ृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥

सा वानर-इन्द्र बल रुद्ध विहार कोष्ठ श्री द्वार गोपुर सदः वलभी विटङ्का निर्भज्यमान धिषण ध्वज हेम-कुम्भ शृङ्गाटका गज-कुलैः ह्रदिनी इव घूर्णा

रक्ष:पतिस्तदवलोक्य निकुम्भकुम्भ-
धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् ।
पुत्रं प्रहस्तमतिकायविकम्पनादीन्
सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥

रक्षः-पतिः तत् अवलोक्य निकुम्भ कुम्भ धूम्राक्ष दुर्मुख सुरान्तक नरान्तक आदीन् पुत्रम् प्रहस्तम् अतिकाय विकम्पन आदीन् सर्व-अनुगान् समहिनोत् अथ कुम्भकर्णम्

तां यातुधानपृतनामसिशूलचाप-
प्रासर्ष्टिशक्तिशरतोमरखड्‌गदुर्गाम् ।
सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद-
नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् ॥ १९ ॥

ताम् यातुधान-पृतनाम् असि शूल चाप प्रास-ऋष्टि शक्ति-शर तोमर खड्ग दुर्गाम् सुग्रीव लक्ष्मण मरुत्-सुत गन्धमाद नील अङ्गद ऋक्ष पनस आदिभिः अन्वितः अगात्

तेऽनीकपा रघुपतेरभिपत्य सर्वे
द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधै: ।
जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्या:
सीताभिमर्षहतमङ्गलरावणेशान् ॥ २० ॥

ते अनीक-पाः रघुपतेः अभिपत्य सर्वे द्वन्द्वम् वरूथम् इभ पत्ति रथ अश्व योधैः जघ्नुः द्रुमैः गिरि गदा इषुभिः अङ्गद-आद्याः सीता अभिमर्ष हत मङ्गल रावण-ईशान्

रक्ष:पति: स्वबलनष्टिमवेक्ष्य रुष्ट
आरुह्य यानकमथाभिससार रामम् ।
स्व:स्यन्दने द्युमति मातलिनोपनीते
विभ्राजमानमहनन्निशितै: क्षुरप्रै: ॥ २१ ॥

रक्षः-पतिः स्व-बल-नष्टिम् अवेक्ष्य रुष्टः आरुह्य यानकम् अथ अभिससार रामम् स्वः-स्यन्दने द्युमति मातलिना उपनीते विभ्राजमानम् अहनत् निशितैः क्षुरप्रैः

रामस्तमाह पुरुषादपुरीष यन्न:
कान्तासमक्षमसतापहृता श्ववत् ते ।
त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य
यच्छामि काल इव कर्तुरलङ्‍घ्यवीर्य: ॥ २२ ॥

रामः तम् आह पुरुष-अद-पुरीष यत् नः कान्ता असमक्षम् असता अपहृता श्व-वत् ते त्यक्त-त्रपस्य फलम् अद्य जुगुप्सितस्य यच्छामि कालः इव कर्तुः अलङ्घ्य-वीर्यः

एवं क्षिपन् धनुषि संधितमुत्ससर्ज
बाणं स वज्रमिव तद्‍धृदयं बिभेद ।
सोऽसृग् वमन् दशमुखैर्न्यपतद् विमाना-
द्धाहेति जल्पति जने सुकृतीव रिक्त: ॥ २३ ॥

एवम् क्षिपन् धनुषि सन्धितम् उत्ससर्ज बाणम् सः वज्रम् इव तत्-हृदयम् बिभेद सः असृक् वमन् दश-मुखैः न्यपतत् विमानात् हाहा इति जल्पति जने सुकृती इव रिक्तः

ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: ।
मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥

ततः निष्क्रम्य लङ्कायाः यातुधान्यः सहस्रशः मन्दोदर्या समम् तत्र प्ररुदन्त्यः उपाद्रवन्

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।
रुरुदु: सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मण-इषुभिः अर्दितान् रुरुदुः सु-स्वरम् दीनाः घ्नन्त्यः आत्मानम् आत्मना

हा हता: स्म वयं नाथ लोकरावण रावण ।
कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता ॥ २६ ॥

हा हताः स्म वयम् नाथ लोक-रावण रावण कम् यायात् शरणम् लङ्का त्वत्-विहीना पर-अर्दिता

न वै वेद महाभाग भवान् कामवशं गत: ।
तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥

न वै वेद महा-भाग भवान् काम-वशम् गतः तेजः अनुभावम् सीतायाः येन नीतः दशाम् इमाम्

कृतैषा विधवा लङ्का वयं च कुलनन्दन ।
देह: कृतोऽन्नं गृध्राणामात्मा नरकहेतवे ॥ २८ ॥

कृता एषा विधवा लङ्का वयम् च कुल-नन्दन देहः कृतः अन्नम् गृध्राणाम् आत्मा नरक-हेतवे

श्रीशुक उवाच
स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदित: ।
पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥ २९ ॥

श्री-शुकः उवाच स्वानाम् विभीषणः चक्रे कोसल-इन्द्र-अनुमोदितः पितृ-मेध-विधानेन यत् उक्तम् साम्परायिकम्

ततो ददर्श भगवानशोकवनिकाश्रमे ।
क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् ॥ ३० ॥

ततः ददर्श भगवान् अशोक-वनिक-आश्रमे क्षामाम् स्व-विरह-व्याधिम् शिंशपा मूलम् आश्रिताम्

राम: प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत ।
आत्मसन्दर्शनाह्लादविकसन्मुखपङ्कजाम् ॥ ३१ ॥

रामः प्रिय-तमाम् भार्याम् दीनाम् वीक्ष्य अन्वकम्पत आत्म-सन्दर्शन आह्लाद विकसत् मुख पङ्कजाम्

आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युत: ।
विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ।
लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रत: पुरीम् ॥ ३२ ॥

आरोप्य आरुरुहे यानम् भ्रातृभ्याम् हनुमत्-युतः विभीषणाय भगवान् दत्त्वा रक्षः-गण-ईशताम् लङ्काम् आयुः च कल्प-अन्तम् ययौ चीर्ण-व्रतः पुरीम्

अवकीर्यमाण: सुकुसुमैर्लोकपालार्पितै: पथि ।
उपगीयमानचरित: शतधृत्यादिभिर्मुदा ॥ ३३ ॥

अवकीर्यमाणः सु-कुसुमैः लोक-पाल-अर्पितैः पथि उपगीयमान-चरितः शतधृति-आदिभिः मुदा

गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ।
महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम् ॥ ३४ ॥

गो-मूत्र-यावकम् श्रुत्वा भ्रातरम् वल्कल-अम्बरम् महा-कारुणिकः अतप्यत् जटिलम् स्थण्डिले-शयम्

भरत: प्राप्तमाकर्ण्य पौरामात्यपुरोहितै: ।
पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ॥ ३५ ॥
नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनि:स्वनै: ।
ब्रह्मघोषेण च मुहु: पठद्भ‍िर्ब्रह्मवादिभि: ॥ ३६ ॥
स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथै: ।
सदश्वै रुक्‍मसन्नाहैर्भटै: पुरटवर्मभि: ॥ ३७ ॥
श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगै: ।
पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।
पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षण: ॥ ३८ ॥

भरतः प्राप्तम् आकर्ण्य पौर अमात्य पुरोहितैः पादुके शिरसि न्यस्य रामम् प्रत्युद्यतः अग्रजम् नन्दिग्रामात् स्व-शिबिरात् गीत-वादित्र निःस्वनैः ब्रह्म-घोषेण च मुहुः पठद्भिः ब्रह्म-वादिभिः स्वर्ण-कक्ष-पताकाभिः हैमैः चित्र-ध्वजैः रथैः सत्-अश्वैः रुक्म सन्नाहैः भटैः पुरट-वर्मभिः श्रेणीभिः वार-मुख्याभिः भृत्यैः च एव पद-अनुगैः पारमेष्ठ्यानि उपादाय पण्यानि उच्च-अवचानि च पादयोः न्यपतत् प्रेम्णा प्रक्लिन्न हृदय ईक्षणः

पादुके न्यस्य पुरत: प्राञ्जलिर्बाष्पलोचन: ।
तमाश्लिष्य चिरं दोर्भ्यां स्‍नापयन् नेत्रजैर्जलै: ॥ ३९ ॥
रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमा: ।
तेभ्य: स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृत: ॥ ४० ॥

पादुके न्यस्य पुरतः प्राञ्जलिः बाष्प-लोचनः तम् आश्लिष्य चिरम् दोर्भ्याम् स्नापयन् नेत्र-जैः जलैः रामः लक्ष्मण-सीताभ्याम् विप्रेभ्यः ये अर्ह-सत्तमाः तेभ्यः स्वयम् नमः-चक्रे प्रजाभिः च नमः-कृतः

धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् ।
उत्तरा: कोसला माल्यै: किरन्तो ननृतुर्मुदा ॥ ४१ ॥

धुन्वन्तः उत्तर-आसङ्गान् पतिम् वीक्ष्य चिर-आगतम् उत्तराः कोसलाः माल्यैः किरन्तः ननृतुः मुदा

पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे ।
विभीषण: ससुग्रीव: श्वेतच्छत्रं मरुत्सुत: ॥ ४२ ॥
धनुर्निषङ्गाञ्छत्रुघ्न: सीता तीर्थकमण्डलुम् ।
अबिभ्रदङ्गद: खड्‍गं हैमं चर्मर्क्षराण्नृप ॥ ४३ ॥

पादुके भरतः अगृह्णात् चामर व्यजन उत्तमे विभीषणः स-सुग्रीवः श्वेत-छत्रम् मरुत्-सुतः धनुः निषङ्गान् शत्रुघ्नः सीता तीर्थ-कमण्डलुम् अबिभ्रत् अङ्गदः खड्गम् हैमम् चर्म ऋक्ष-राट् नृप

पुष्पकस्थो नुत: स्त्रीभि: स्तूयमानश्च वन्दिभि: ।
विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदित: ॥ ४४ ॥

पुष्पक-स्थः नुतः स्त्रीभिः स्तूयमानः च वन्दिभिः विरेजे भगवान् राजन् ग्रहैः चन्द्रः इव उदितः

भ्रात्राभिनन्दित: सोऽथ सोत्सवां प्राविशत् पुरीम् ।
प्रविश्य राजभवनं गुरुपत्नी: स्वमातरम् ॥ ४५ ॥
गुरून् वयस्यावरजान् पूजित: प्रत्यपूजयत् ।
वैदेही लक्ष्मणश्चैव यथावत् समुपेयतु: ॥ ४६ ॥

भ्रात्रा अभिनन्दितः सः अथ स-उत्सवाम् प्राविशत् पुरीम् प्रविश्य राज-भवनम् गुरु-पत्नीः स्व-मातरम् गुरून् वयस्य अवर-जान् पूजितः प्रत्यपूजयत् वैदेही लक्ष्मणः च एव यथा-वत् समुपेयतुः

पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिता: ।
आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहु: शुच: ॥ ४७ ॥

पुत्रान् स्व-मातरः ताः तु प्राणान् तन्वः इव उत्थिताः आरोप्य अङ्के अभिषिञ्चन्त्यः बाष्प ओघैः विजहुः शुचः

जटा निर्मुच्य विधिवत् कुलवृद्धै: समं गुरु: ।
अभ्यषिञ्चद् यथैवेन्द्रं चतु:सिन्धुजलादिभि: ॥ ४८ ॥

जटाः निर्मुच्य विधि-वत् कुल-वृद्धैः समम् गुरुः अभ्यषिञ्चत् यथा एव इन्द्रम् चतुः-सिन्धु-जल आदिभिः

एवं कृतशिर:स्‍नान: सुवासा: स्रग्व्यलङ्‍कृत: ।
स्वलङ्‍कृतै: सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥ ४९ ॥

एवम् कृत-शिरः-स्नानः सु-वासाः स्रग्वि-अलङ्कृतः सु-अलङ्कृतैः सु-वासोभिः भ्रातृभिः भार्यया बभौ

अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादित: ।
प्रजा: स्वधर्मनिरता वर्णाश्रमगुणान्विता: ।
जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥ ५० ॥

अग्रहीत् आसनम् भ्रात्रा प्रणिपत्य प्रसादितः प्रजाः स्व-धर्म-निरताः वर्णाश्रम गुण-अन्विताः जुगोप पितृ-वत् रामः मेनिरे पितरम् च तम्

त्रेतायां वर्तमानायां काल: कृतसमोऽभवत् ।
रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५१ ॥

त्रेतायाम् वर्तमानायाम् कालः कृत समः अभवत् रामे राजनि धर्म-ज्ञे सर्व-भूत सुख-आवहे

वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धव: ।
सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५२ ॥

वनानि नद्यः गिरयः वर्षाणि द्वीप सिन्धवः सर्वे काम-दुघाः आसन् प्रजानाम् भरत-ऋषभ

नाधिव्याधिजराग्लानिदु:खशोकभयक्लमा: ।
मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५३ ॥

न आधि व्याधि जरा ग्लानि दुःख शोक भय क्लमाः मृत्युः च अनिच्छताम् न आसीत् रामे राजनि अधोक्षजे

एकपत्नीव्रतधरो राजर्षिचरित: शुचि: ।
स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५४ ॥

एक-पत्नी-व्रत-धरः राज-ऋषि चरितः शुचिः स्व-धर्मम् गृह-मेधीयम् शिक्षयन् स्वयम् आचरत्

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
भिया ह्रिया च भावज्ञा भर्तु: सीताहरन्मन: ॥ ५५ ॥

प्रेम्णा अनुवृत्त्या शीलेन प्रश्रय-अवनता सती भिया ह्रिया च भाव-ज्ञा भर्तुः सीता अहरत् मनः

९.११

श्रीशुक उवाच
भगवानात्मनात्मानं राम उत्तमकल्पकै: ।
सर्वदेवमयं देवमीजेऽथाचार्यवान् मखै: ॥ १ ॥

श्री-शुकः उवाच भगवान् आत्मना आत्मानम् रामः उत्तम-कल्पकैः सर्व-देव-मयम् देवम् ईजे अथ आचार्यवान् मखैः

होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभु: ।
अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय स: ॥ २ ॥

होत्रे अददात् दिशम् प्राचीम् ब्रह्मणे दक्षिणाम् प्रभुः अध्वर्यवे प्रतीचीम् वा उत्तराम् साम-गाय सः

आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।
मन्यमान इदं कृत्‍स्‍नं ब्राह्मणोऽर्हति नि:स्पृह: ॥ ३ ॥

आचार्याय ददौ शेषाम् यावती भूः तत्-अन्तरा मन्यमानः इदम् कृत्स्नम् ब्राह्मणः अर्हति निःस्पृहः

इत्ययं तदलङ्कारवासोभ्यामवशेषित: ।
तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥ ४ ॥

इति अयम् तत् अलङ्कार-वासोभ्याम् अवशेषितः तथा राज्ञी अपि वैदेही सौमङ्गल्या अवशेषिता

ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।
प्रीता: क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥

ते तु ब्राह्मण-देवस्य वात्सल्यम् वीक्ष्य संस्तुतम् प्रीताः क्लिन्न-धियः तस्मै प्रत्यर्प्य इदम् बभाषिरे

अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।
यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ ६ ॥

अप्रत्तम् नः त्वया किम् नु भगवन् भुवन-ईश्वर यत् नः अन्तः-हृदयम् विश्य तमः हंसि स्व-रोचिषा

नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्‌घ्रये ॥ ७ ॥

नमः ब्रह्मण्य-देवाय रामाय अकुण्ठ-मेधसे उत्तमश्लोक-धुर्याय न्यस्त-दण्ड-अर्पित-अङ्घ्रये

कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यामलक्षित: ।
चरन्वाचोऽश‍ृणोद् रामो भार्यामुद्दिश्य कस्यचित् ॥ ८ ॥

कदाचित् लोक-जिज्ञासुः गूढः रात्र्याम् अलक्षितः चरन् वाचः अशृणोत् रामः भार्याम् उद्दिश्य कस्यचित्

नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् ।
स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुन: ॥ ९ ॥

न अहम् बिभर्मि त्वाम् दुष्टाम् असतीम् पर-वेश्म-गाम् स्त्रैणः हि बिभृयात् सीताम् रामः न अहम् भजे पुनः

इति लोकाद् बहुमुखाद् दुराराध्यादसंविद: ।
पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ १० ॥

इति लोकात् बहु-मुखात् दुराराध्यात् असंविदः पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतस-आश्रमम्

अन्तर्वत्‍न्यागते काले यमौ सा सुषुवे सुतौ ।
कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनि: ॥ ११ ॥

अन्तर्वत्नी आगते काले यमौ सा सुषुवे सुतौ कुशः लवः इति ख्यातौ तयोः चक्रे क्रियाः मुनिः

अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्ष: पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥

अङ्गदः चित्रकेतुः च लक्ष्मणस्य आत्मजौ स्मृतौ तक्षः पुष्कलः इति आस्ताम् भरतस्य महीपते

सुबाहु: श्रुतसेनश्च शत्रुघ्नस्य बभूवतु: ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ १३ ॥
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।
शत्रुघ्नश्च मधो: पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ १४ ॥

सुबाहुः श्रुतसेनः च शत्रुघ्नस्य बभूवतुः गन्धर्वान् कोटिशः जघ्ने भरतः विजये दिशाम् तदीयम् धनम् आनीय सर्वम् राज्ञे न्यवेदयत् शत्रुघ्नः च मधोः पुत्रम् लवणम् नाम राक्षसम् हत्वा मधुवने चक्रे मथुराम् नाम वै पुरीम्

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ध्यायन्ती राम-चरणौ विवरम् प्रविवेश ह

तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुच: ।
स्मरंस्तस्या गुणांस्तांस्तान्नाशक्नोद् रोद्धुमीश्वर: ॥ १६ ॥

तत् श्रुत्वा भगवान् रामः रुन्धन् अपि धिया शुचः स्मरन् तस्याः गुणान् तान् तान् न अशक्नोत् रोद्धुम् ईश्वरः

स्त्रीपुंप्रसङ्ग एताद‍ृक्सर्वत्र त्रासमावह: ।
अपीश्वराणां किमुत ग्राम्यस्य गृहचेतस: ॥ १७ ॥

स्त्री-पुम्-प्रसङ्गः एतादृक् सर्वत्र त्रासम्-आवहः अपि ईश्वराणाम् किम् उत ग्राम्यस्य गृह-चेतसः

तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभु: ।
त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥ १८ ॥

ततः ऊर्ध्वम् ब्रह्मचर्यम् धारयन् अजुहोत् प्रभुः त्रयोदश-अब्द-साहस्रम् अग्निहोत्रम् अखण्डितम्

स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकै: ।
स्वपादपल्लवं राम आत्मज्योतिरगात् तत: ॥ १९ ॥

स्मरताम् हृदि विन्यस्य विद्धम् दण्डक-कण्टकैः स्व-पाद-पल्लवम् रामः आत्म-ज्योतिः अगात् ततः

नेदं यशो रघुपते: सुरयाच्ञयात्त-
लीलातनोरधिकसाम्यविमुक्तधाम्न: ।
रक्षोवधो जलधिबन्धनमस्त्रपूगै:
किं तस्य शत्रुहनने कपय: सहाया: ॥ २० ॥

न इदम् यशः रघु-पतेः सुर-याच्ञया आत्त-लीला-तनोः अधिक-साम्य-विमुक्त-धाम्नः रक्षः-वधः जलधि-बन्धनम् अस्त्र-पूगैः किम् तस्य शत्रु-हनने कपयः सहायाः

यस्यामलं नृपसद:सु यशोऽधुनापि
गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ।
तं नाकपालवसुपालकिरीटजुष्ट-
पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ २१ ॥

यस्य अमलम् नृप-सदःसु यशः अधुना अपि गायन्ति अघ-घ्नम् ऋषयः दिक्-इभ-इन्द्र-पट्टम् तम् नाक-पाल वसु-पाल किरीट जुष्ट पाद-अम्बुजम् रघु-पतिम् शरणम् प्रपद्ये

स यै: स्पृष्टोऽभिद‍ृष्टो वा संविष्टोऽनुगतोऽपि वा ।
कोसलास्ते ययु: स्थानं यत्र गच्छन्ति योगिन: ॥ २२ ॥

सः यैः स्पृष्टः अभिदृष्टः वा संविष्टः अनुगतः अपि वा कोसलाः ते ययुः स्थानम् यत्र गच्छन्ति योगिनः

पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥

पुरुषः राम-चरितम् श्रवणैः उपधारयन् आनृशंस्य-परः राजन् कर्म-बन्धैः विमुच्यते

श्रीराजोवाच
कथं स भगवान् रामो भ्रातृन् वा स्वयमात्मन: ।
तस्मिन् वा तेऽन्ववर्तन्त प्रजा: पौराश्च ईश्वरे ॥ २४ ॥

श्री-राजा उवाच कथम् सः भगवान् रामः भ्रातॄन् वा स्वयम् आत्मनः तस्मिन् वा ते अन्ववर्तन्त प्रजाः पौराः च ईश्वरे

श्रीबादरायणिरुवाच
अथादिशद् दिग्विजये भ्रातृंस्त्रिभुवनेश्वर: ।
आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुग: ॥ २५ ॥

श्री-बादरायणिः उवाच अथ आदिशत् दिक्-विजये भ्रातॄन् त्रि-भुवन-ईश्वरः आत्मानम् दर्शयन् स्वानाम् पुरीम् ऐक्षत स-अनुगः

आसिक्तमार्गां गन्धोदै: करिणां मदशीकरै: ।
स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ २६ ॥

आसिक्त-मार्गाम् गन्ध-उदैः करिणाम् मद-शीकरैः स्वामिनम् प्राप्तम् आलोक्य मत्ताम् वा सुतराम् इव

प्रासादगोपुरसभाचैत्यदेवगृहादिषु ।
विन्यस्तहेमकलशै: पताकाभिश्च मण्डिताम् ॥ २७ ॥

प्रासाद गोपुर सभा चैत्य देव-गृह आदिषु विन्यस्त हेम-कलशैः पताकाभिः च मण्डिताम्

पूगै: सवृन्तै रम्भाभि: पट्टिकाभि: सुवाससाम् ।
आदर्शैरंशुकै: स्रग्भि: कृतकौतुकतोरणाम् ॥ २८ ॥

पूगैः स-वृन्तैः रम्भाभिः पट्टिकाभिः सु-वाससाम् आदर्शैः अंशुकैः स्रग्भिः कृत-कौतुक तोरणाम्

तमुपेयुस्तत्र तत्र पौरा अर्हणपाणय: ।
आशिषो युयुजुर्देव पाहीमां प्राक्त्वयोद्‍धृताम् ॥ २९ ॥

तम् उपेयुः तत्र तत्र पौराः अर्हण-पाणयः आशिषः युयुजुः देव पाहि इमाम् प्राक् त्वया उद्धृताम्

तत: प्रजा वीक्ष्य पतिं चिरागतं
दिद‍ृक्षयोत्सृष्टगृहा: स्त्रियो नरा: ।
आरुह्य हर्म्याण्यरविन्दलोचन-
मतृप्तनेत्रा: कुसुमैरवाकिरन् ॥ ३० ॥

ततः प्रजाः वीक्ष्य पतिम् चिर-आगतम् दिदृक्षया उत्सृष्ट-गृहाः स्त्रियः नराः आरुह्य हर्म्याणि अरविन्द-लोचनम् अतृप्त-नेत्राः कुसुमैः अवाकिरन्

अथ प्रविष्ट: स्वगृहं जुष्टं स्वै: पूर्वराजभि: ।
अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् ॥ ३१ ॥
विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभि: ।
स्थलैर्मारकतै: स्वच्छैर्भ्राजत्स्फटिकभित्तिभि: ॥ ३२ ॥
चित्रस्रग्भि: पट्टिकाभिर्वासोमणिगणांशुकै: ।
मुक्ताफलैश्चिदुल्लासै: कान्तकामोपपत्तिभि: ॥ ३३ ॥
धूपदीपै: सुरभिभिर्मण्डितं पुष्पमण्डनै: ।
स्त्रीपुम्भि: सुरसङ्काशैर्जुष्टं भूषणभूषणै: ॥ ३४ ॥

अथ प्रविष्टः स्व-गृहम् जुष्टम् स्वैः पूर्व-राजभिः अनन्त अखिल कोष आढ्यम् अनर्घ्य उरु परिच्छदम् विद्रुम उदुम्बर-द्वारैः वैदूर्य-स्तम्भ पङ्क्तिभिः स्थलैः मारकतैः स्वच्छैः भ्राजत् स्फटिक भित्तिभिः चित्र-स्रग्भिः पट्टिकाभिः वासः मणि-गण-अंशुकैः मुक्ता-फलैः चित्-उल्लासैः कान्त-काम उपपत्तिभिः धूप-दीपैः सुरभिभिः मण्डितम् पुष्प-मण्डनैः स्त्री-पुम्भिः सुर-सङ्काशैः जुष्टम् भूषण-भूषणैः

तस्मिन्स भगवान् राम: स्‍निग्धया प्रिययेष्टया ।
रेमे स्वारामधीराणामृषभ: सीतया किल ॥ ३५ ॥

तस्मिन् सः भगवान् रामः स्निग्धया प्रियया इष्टया रेमे स्व-आराम धीराणाम् ऋषभः सीतया किल

बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।
वर्षपूगान् बहून् नृणामभिध्याताङ्‌घ्रिपल्लव: ॥ ३६ ॥

बुभुजे च यथा-कालम् कामान् धर्मम् अपीडयन् वर्ष-पूगान् बहून् नॄणाम् अभिध्यात अङ्घ्रि-पल्लवः

९.१२

श्रीशुक उवाच
कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभ: ।
पुण्डरीकोऽथ तत्पुत्र: क्षेमधन्वाभवत्तत: ॥ १ ॥

श्री-शुकः उवाच कुशस्य च अतिथिः तस्मात् निषधः तत्-सुतः नभः पुण्डरीकः अथ तत्-पुत्रः क्षेमधन्वा अभवत् ततः

देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: ।
ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भव: ॥ २ ॥

देवानीकः ततः अनीहः पारियात्रः अथ तत्-सुतः ततः बलस्थलः तस्मात् वज्रनाभः अर्क-सम्भवः

सगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुत: ।
ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिने: ॥ ३ ॥
शिष्य: कौशल्य आध्यात्मं याज्ञवल्‍क्योऽध्यगाद् यत: ।
योगं महोदयम् ऋषिर्हृदयग्रन्थिभेदकम् ॥ ४ ॥

सगणः तत् सुतः तस्मात् विधृतिः च अभवत् सुतः ततः हिरण्यनाभः अभूत् योग-आचार्यः तु जैमिनेः शिष्यः कौशल्यः आध्यात्मम् याज्ञवल्क्यः अध्यगात् यतः योगम् महा-उदयम् ऋषिः हृदय-ग्रन्थि-भेदकम्

पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥ ५ ॥

पुष्पः हिरण्यनाभस्य ध्रुवसन्धिः ततः अभवत् सुदर्शनः अथ अग्निवर्णः शीघ्रः तस्य मरुः सुतः

सोऽसावास्ते योगसिद्ध: कलापग्राममास्थित: ।
कलेरन्ते सूर्यवंशं नष्टं भावयिता पुन: ॥ ६ ॥

सः असौ आस्ते योग-सिद्धः कलाप-ग्रामम् आस्थितः कलेः अन्ते सूर्य-वंशम् नष्टम् भावयिता पुनः

तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षण: ।
महस्वांस्तत्सुतस्तस्माद् विश्वबाहुरजायत ॥ ७ ॥

तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्य अपि अमर्षणः महस्वान् तत् सुतः तस्मात् विश्वबाहुः अजायत

तत: प्रसेनजित् तस्मात् तक्षको भविता पुन: ।
ततो बृहद्ब‍लो यस्तु पित्रा ते समरे हत: ॥ ८ ॥

ततः प्रसेनजित् तस्मात् तक्षकः भविता पुनः ततः बृहद्बलः यः तु पित्रा ते समरे हतः

एते हीक्ष्वाकुभूपाला अतीता: श‍ृण्वनागतान् ।
बृहद्ब‍लस्य भविता पुत्रो नाम्ना बृहद्रण: ॥ ९ ॥

एते हि इक्ष्वाकु-भूपालाः अतीताः शृणु अनागतान् बृहद्बलस्य भविता पुत्रः नाम्ना बृहद्रणः

ऊरुक्रिय: सुतस्तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपति: ॥ १० ॥

ऊरुक्रियः सुतः तस्य वत्सवृद्धः भविष्यति प्रतिव्योमः ततः भानुः दिवाकः वाहिनी-पतिः

सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।
प्रतीकाश्वो भानुमत: सुप्रतीकोऽथ तत्सुत: ॥ ११ ॥

सहदेवः ततः वीरः बृहदश्वः अथ भानुमान् प्रतीकाश्वः भानुमतः सुप्रतीकः अथ तत्-सुतः

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: ।
तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥ १२ ॥

भविता मरुदेवः अथ सुनक्षत्रः अथ पुष्करः तस्य अन्तरिक्षः तत्-पुत्रः सुतपाः तत् अमित्रजित्

बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जय: ।
रणञ्जयस्तस्य सुत: सञ्जयो भविता तत: ॥ १३ ॥

बृहद्राजः तु तस्य अपि बर्हिः तस्मात् कृतञ्जयः रणञ्जयः तस्य सुतः सञ्जयः भविता ततः

तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: ।
तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥ १४ ॥

तस्मात् शाक्यः अथ शुद्धोदः लाङ्गलः तत्-सुतः स्मृतः ततः प्रसेनजित् तस्मात् क्षुद्रकः भविता ततः

रणको भविता तस्मात् सुरथस्तनयस्तत: ।
सुमित्रो नाम निष्ठान्त एते बार्हद्ब‍लान्वया: ॥ १५ ॥

रणकः भविता तस्मात् सुरथः तनयः ततः सुमित्रः नाम निष्ठा-अन्तः एते बार्हद्बल-अन्वयाः

इक्ष्वाकूणामयं वंश: सुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥

इक्ष्वाकूणाम् अयम् वंशः सुमित्र-अन्तः भविष्यति यतः तम् प्राप्य राजानम् संस्थाम् प्राप्स्यति वै कलौ

९.१३

श्रीशुक उवाच
निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् ।
आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भो: ॥ १ ॥

श्री-शुकः उवाच निमिः इक्ष्वाकु-तनयः वसिष्ठम् अवृत ऋत्विजम् आरभ्य सत्रम् सः अपि आह शक्रेण प्राक् वृतः अस्मि भोः

तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय ।
तूष्णीमासीद् गृहपति: सोऽपीन्द्रस्याकरोन्मखम् ॥ २ ॥

तम् निर्वर्त्य आगमिष्यामि तावत् माम् प्रतिपालय तूष्णीम् आसीत् गृह-पतिः सः अपि इन्द्रस्य अकरोत् मखम्

निमिश्चलमिदं विद्वान् सत्रमारभतात्मवान् ।
ऋत्विग्भिरपरैस्तावन्नागमद् यावता गुरु: ॥ ३ ॥

निमिः चलम् इदम् विद्वान् सत्रम् आरभत आत्मवान् ऋत्विग्भिः अपरैः तावत् न आगमत् यावता गुरुः

शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरु: ।
अशपत् पतताद् देहो निमे: पण्डितमानिन: ॥ ४ ॥

शिष्य-व्यतिक्रमम् वीक्ष्य तम् निर्वर्त्य आगतः गुरुः अशपत् पततात् देहः निमेः पण्डित-मानिनः

निमि: प्रतिददौ शापं गुरवेऽधर्मवर्तिने ।
तवापि पतताद् देहो लोभाद्धर्ममजानत: ॥ ५ ॥

निमिः प्रतिददौ शापम् गुरवे अधर्म-वर्तिने तव अपि पततात् देहः लोभात् धर्मम् अजानतः

इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविद: ।
मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामह: ॥ ६ ॥

इति उत्ससर्ज स्वम् देहम् निमिः अध्यात्म-कोविदः मित्रा-वरुणयोः जज्ञे उर्वश्याम् प्रपितामहः

गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमा: ।
समाप्ते सत्रयागे च देवानूचु: समागतान् ॥ ७ ॥

गन्ध-वस्तुषु तत्-देहम् निधाय मुनि-सत्तमाः समाप्ते सत्र-यागे च देवान् ऊचुः समागतान्

राज्ञो जीवतु देहोऽयं प्रसन्ना: प्रभवो यदि ।
तथेत्युक्ते निमि: प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥

राज्ञः जीवतु देहः अयम् प्रसन्नाः प्रभवः यदि तथा इति उक्ते निमिः प्राह मा भूत् मे देह-बन्धनम्

यस्य योगं न वाञ्छन्ति वियोगभयकातरा: ।
भजन्ति चरणाम्भोजं मुनयो हरिमेधस: ॥ ९ ॥

यस्य योगम् न वाञ्छन्ति वियोग-भय-कातराः भजन्ति चरण-अम्भोजम् मुनयः हरि-मेधसः

देहं नावरुरुत्सेऽहं दु:खशोकभयावहम् ।
सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ १० ॥

देहम् न अवरुरुत्से अहम् दुःख-शोक-भय-आवहम् सर्वत्र अस्य यतः मृत्युः मत्स्यानाम् उदके यथा

देवा ऊचु:
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।
उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थित: ॥ ११ ॥

देवाः ऊचुः विदेहः उष्यताम् कामम् लोचनेषु शरीरिणाम् उन्मेषण-निमेषाभ्याम् लक्षितः अध्यात्म-संस्थितः

अराजकभयं नृणां मन्यमाना महर्षय: ।
देहं ममन्थु: स्म निमे: कुमार: समजायत ॥ १२ ॥

अराजक-भयम् नॄणाम् मन्यमानाः महा-ऋषयः देहम् ममन्थुः स्म निमेः कुमारः समजायत

जन्मना जनक: सोऽभूद् वैदेहस्तु विदेहज: ।
मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ १३ ॥

जन्मना जनकः सः अभूत् वैदेहः तु विदेह-जः मिथिलः मथनात् जातः मिथिला येन निर्मिता

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धन: ।
तत: सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥

तस्मात् उदावसुः तस्य पुत्रः अभूत् नन्दिवर्धनः ततः सुकेतुः तस्य अपि देवरातः महीपते

तस्माद् बृहद्रथस्तस्य महावीर्य: सुधृत्पिता ।
सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्तत: ॥ १५ ॥

तस्मात् बृहद्रथः तस्य महावीर्यः सुधृत्-पिता सुधृतेः धृष्टकेतुः वै हर्यश्वः अथ मरुः ततः

मरो: प्रतीपकस्तस्माज्जात: कृतरथो यत: ।
देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृति: ॥ १६ ॥

मरोः प्रतीपकः तस्मात् जातः कृतरथः यतः देवमीढः तस्य पुत्रः विश्रुतः अथ महाधृतिः

कृतिरातस्ततस्तस्मान्महारोमा च तत्सुत: ।
स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥

कृतिरातः ततः तस्मात् महारोमा च तत्-सुतः स्वर्णरोमा सुतः तस्य ह्रस्वरोमा व्यजायत

तत: शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।
सीता शीराग्रतो जाता तस्मात् शीरध्वज: स्मृत: ॥ १८ ॥

ततः शीरध्वजः जज्ञे यज्ञ-अर्थम् कर्षतः महीम् सीता शीर-अग्रतः जाता तस्मात् शीरध्वजः स्मृतः

कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृप: ।
धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥

कुशध्वजः तस्य पुत्रः ततः धर्मध्वजः नृपः धर्मध्वजस्य द्वौ पुत्रौ कृतध्वज-मितध्वजौ

कृतध्वजात् केशिध्वज: खाण्डिक्यस्तु मितध्वजात् ।
कृतध्वजसुतो राजन्नात्मविद्याविशारद: ॥ २० ॥
खाण्डिक्य: कर्मतत्त्वज्ञो भीत: केशिध्वजाद्‍द्रुत: ।
भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुत: ॥ २१ ॥

कृतध्वजात् केशिध्वजः खाण्डिक्यः तु मितध्वजात् कृतध्वज-सुतः राजन् आत्म-विद्या-विशारदः खाण्डिक्यः कर्म-तत्त्व-ज्ञः भीतः केशिध्वजात् द्रुतः भानुमान् तस्य पुत्रः अभूत् शतद्युम्नः तु तत्-सुतः

शुचिस्तुतनयस्तस्मात् सनद्वाज: सुतोऽभवत् ।
ऊर्जकेतु: सनद्वाजादजोऽथ पुरुजित्सुत: ॥ २२ ॥

शुचिः तु तनयः तस्मात् सनद्वाजः सुतः अभवत् ऊर्जकेतुः सनद्वाजात् अजः अथ पुरुजित् सुतः

अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वक: ।
ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिप: ॥ २३ ॥

अरिष्टनेमिः तस्य अपि श्रुतायुः तत् सुपार्श्वकः ततः चित्ररथः यस्य क्षेमाधिः मिथिला-अधिपः

तस्मात् समरथस्तस्य सुत: सत्यरथस्तत: ।
आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भव: ॥ २४ ॥

तस्मात् समरथः तस्य सुतः सत्यरथः ततः आसीत् उपगुरुः तस्मात् उपगुप्तः अग्नि-सम्भवः

वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषण: ।
श्रुतस्ततो जयस्तस्माद् विजयोऽस्माद‍ृत: सुत: ॥ २५ ॥

वस्वनन्तः अथ तत्-पुत्रः युयुधः यत् सुभाषणः श्रुतः ततः जयः तस्मात् विजयः अस्मात् ऋतः सुतः

शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्तत: ।
बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥

शुनकः तत्-सुतः जज्ञे वीतहव्यः धृतिः ततः बहुलाश्वः धृतेः तस्य कृतिः अस्य महावशी

एते वै मैथिला राजन्नात्मविद्याविशारदा: ।
योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥

एते वै मैथिलाः राजन् आत्म-विद्या-विशारदाः योगेश्वर-प्रसादेन द्वन्द्वैः मुक्ताः गृहेषु अपि

९.१४

श्रीशुक उवाच
अथात: श्रुयतां राजन् वंश: सोमस्य पावन: ।
यस्मिन्नैलादयो भूपा: कीर्त्यन्ते पुण्यकीर्तय: ॥ १ ॥

श्री-शुकः उवाच अथ अतः श्रूयताम् राजन् वंशः सोमस्य पावनः यस्मिन् ऐल-आदयः भूपाः कीर्त्यन्ते पुण्य-कीर्तयः

सहस्रशिरस: पुंसो नाभिह्रदसरोरुहात् ।
जातस्यासीत् सुतो धातुरत्रि: पितृसमो गुणै: ॥ २ ॥

सहस्र-शिरसः पुंसः नाभि-ह्रद-सरोरुहात् जातस्य आसीत् सुतः धातुः अत्रिः पितृ-समः गुणैः

तस्य द‍ृग्भ्योऽभवत् पुत्र: सोमोऽमृतमय: किल ।
विप्रौषध्युडुगणानां ब्रह्मणा कल्पित: पति: ॥ ३ ॥

तस्य दृग्भ्यः अभवत् पुत्रः सोमः अमृत-मयः किल विप्र ओषधि उडु-गणानाम् ब्रह्मणा कल्पितः पतिः

सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् ।
पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात् ॥ ४ ॥

सः अयजत् राजसूयेन विजित्य भुवन-त्रयम् पत्नीम् बृहस्पतेः दर्पात् ताराम् नाम अहरत् बलात्

यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् ।
नात्यजत् तत्कृते जज्ञे सुरदानवविग्रह: ॥ ५ ॥

यदा सः देव-गुरुणा याचितः अभीक्ष्णशः मदात् न अत्यजत् तत्-कृते जज्ञे सुर-दानव विग्रहः

शुक्रो बृहस्पतेर्द्वेषादग्रहीत् सासुरोडुपम् ।
हरो गुरुसुतं स्‍नेहात् सर्वभूतगणावृत: ॥ ६ ॥

शुक्रः बृहस्पतेः द्वेषात् अग्रहीत् स-असुर उडुपम् हरः गुरु-सुतम् स्नेहात् सर्व-भूत-गण-आवृतः

सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् ।
सुरासुरविनाशोऽभूत् समरस्तारकामय: ॥ ७ ॥

सर्व-देव-गण उपेतः महेन्द्रः गुरुम् अन्वयात् सुर असुर विनाशः अभूत् समरः तारका-मयः

निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् ।
तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत् पति: ॥ ८ ॥

निवेदितः अथ अङ्गिरसा सोमम् निर्भर्त्स्य विश्व-कृत् ताराम् स्व-भर्त्रे प्रायच्छत् अन्तर्वत्नीम् अवैत् पतिः

त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परै: ।
नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिकेऽसति ॥ ९ ॥

त्यज त्यज आशु दुष्प्रज्ञे मत्-क्षेत्रात् आहितम् परैः न अहम् त्वाम् भस्मसात् कुर्याम् स्त्रियम् सान्तानिके असति

तत्याज व्रीडिता तारा कुमारं कनकप्रभम् ।
स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ॥ १० ॥

तत्याज व्रीडिता तारा कुमारम् कनक-प्रभम् स्पृहाम् आङ्गिरसः चक्रे कुमारे सोमः एव च

ममायं न तवेत्युच्चैस्तस्मिन् विवदमानयो: ।
पप्रच्छुऋर्षयो देवा नैवोचे व्रीडिता तु सा ॥ ११ ॥

मम अयम् न तव इति उच्चैः तस्मिन् विवदमानयोः पप्रच्छुः ऋषयः देवाः न एव उचे व्रीडिता तु सा

कुमारो मातरं प्राह कुपितोऽलीकलज्जया ।
किं न वचस्यसद् वृत्ते आत्मावद्यं वदाशु मे ॥ १२ ॥

कुमारः मातरम् प्राह कुपितः अलीक लज्जया किम् न वचसि असत्-वृत्ते आत्म-अवद्यम् वद आशु मे

ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्‍त्वयन् ।
सोमस्येत्याह शनकै: सोमस्तं तावदग्रहीत् ॥ १३ ॥

ब्रह्मा ताम् रहः आहूय समप्राक्षीत् च सान्त्वयन् सोमस्य इति आह शनकैः सोमः तम् तावत् अग्रहीत्

तस्यात्मयोनिरकृत बुध इत्यभिधां नृप ।
बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् ॥ १४ ॥

तस्य आत्म-योनिः अकृत बुधः इति अभिधाम् नृप बुद्ध्या गम्भीरया येन पुत्रेण आप उडुराट् मुदम्

तत: पुरूरवा जज्ञे इलायां य उदाहृत: ।
तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ॥ १५ ॥
श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा ।
तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥ १६ ॥

ततः पुरूरवाः जज्ञे इलायाम् यः उदाहृतः तस्य रूप गुण औदार्य शील द्रविण विक्रमान् श्रुत्वा उर्वशी इन्द्र-भवने गीयमानान् सुर-ऋषिणा तत्-अन्तिकम् उपेयाय देवी स्मर-शर अर्दिता

मित्रावरुणयो: शापादापन्ना नरलोकताम् ।
निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् ।
धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥ १७ ॥
स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचन: ।
उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुह: ॥ १८ ॥

मित्रा-वरुणयोः शापात् आपन्ना नर-लोकताम् निशम्य पुरुष-श्रेष्ठम् कन्दर्पम् इव रूपिणम् धृतिम् विष्टभ्य ललना उपतस्थे तत्-अन्तिके सः ताम् विलोक्य नृपतिः हर्षेण उत्फुल्ल-लोचनः उवाच श्लक्ष्णया वाचा देवीम् हृष्ट-तनूरुहः

श्रीराजोवाच
स्वागतं ते वरारोहे आस्यतां करवाम किम् ।
संरमस्व मया साकं रतिर्नौ शाश्वती: समा: ॥ १९ ॥

श्री-राजा उवाच स्वागतम् ते वरारोहे आस्यताम् करवाम किम् संरमस्व मया साकम् रतिः नौ शाश्वतीः समाः

उर्वश्युवाच
कस्यास्त्वयि न सज्जेत मनो द‍ृष्टिश्च सुन्दर ।
यदङ्गान्तरमासाद्य च्यवते ह रिरंसया ॥ २० ॥

उर्वशी उवाच कस्याः त्वयि न सज्जेत मनः दृष्टिः च सुन्दर यत्-अङ्गान्तरम् आसाद्य च्यवते ह रिरंसया

एतावुरणकौ राजन् न्यासौ रक्षस्व मानद ।
संरंस्ये भवता साकं श्लाघ्य: स्त्रीणां वर: स्मृत: ॥ २१ ॥

एतौ उरणकौ राजन् न्यासौ रक्षस्व मान-द संरंस्ये भवता साकम् श्लाघ्यः स्त्रीणाम् वरः स्मृतः

घृतं मे वीर भक्ष्यं स्यान्नेक्षे त्वान्यत्र मैथुनात् ।
विवाससं तत् तथेति प्रतिपेदे महामना: ॥ २२ ॥

घृतम् मे वीर भक्ष्यम् स्यात् न ईक्षे त्वा अन्यत्र मैथुनात् विवाससम् तत् तथा इति प्रतिपेदे महामनाः

अहो रूपमहो भावो नरलोकविमोहनम् ।
को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ २३ ॥

अहो रूपम् अहो भावः नर-लोक विमोहनम् कः न सेवेत मनुजः देवीम् त्वाम् स्वयम् आगताम्

तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हत: ।
रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ २४ ॥

तया सः पुरुष-श्रेष्ठः रमयन्त्या यथा-अर्हतः रेमे सुर-विहारेषु कामम् चैत्ररथ-आदिषु

रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया ।
तन्मुखामोदमुषितो मुमुदेऽहर्गणान् बहून् ॥ २५ ॥

रममाणः तया देव्या पद्म किञ्जल्क गन्धया तत्-मुख आमोद मुषितः मुमुदे अहः-गणान् बहून्

अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् ।
उर्वशीरहितं मह्यमास्थानं नातिशोभते ॥ २६ ॥

अपश्यन् उर्वशीम् इन्द्रः गन्धर्वान् समचोदयत् उर्वशी-रहितम् मह्यम् आस्थानम् न अतिशोभते

ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते ।
उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया ॥ २७ ॥

ते उपेत्य महा-रात्रे तमसि प्रत्युपस्थिते उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया

निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयो: ।
हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ २८ ॥

निशम्य आक्रन्दितम् देवी पुत्रयोः नीयमानयोः हता अस्मि अहम् कु-नाथेन न-पुंसा वीर-मानिना

यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभि: ।
य: शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥ २९ ॥

यत्-विश्रम्भात् अहम् नष्टा हृत-अपत्या च दस्युभिः यः शेते निशि सन्त्रस्तः यथा नारी दिवा पुमान्

इति वाक्सायकैर्बिद्ध: प्रतोत्त्रैरिव कुञ्जर: ।
निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥ ३० ॥

इति वाक्-सायकैः बिद्धः प्रतोत्त्रैः इव कुञ्जरः निशि निस्त्रिंशम् आदाय विवस्त्रः अभ्यद्रवत् रुषा

ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युत: ।
आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥ ३१ ॥

ते विसृज्य उरणौ तत्र व्यद्योतन्त स्म विद्युतः आदाय मेषौ आयान्तम् नग्नम् ऐक्षत सा पतिम्

ऐलोऽपि शयने जायामपश्यन् विमना इव ।
तच्चित्तो विह्वल: शोचन् बभ्रामोन्मत्तवन्महीम् ॥ ३२ ॥

ऐलः अपि शयने जायाम् अपश्यन् विमनाः इव तत्-चित्तः विह्वलः शोचन् बभ्राम उन्मत्त-वत् महीम्

स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखी: ।
पञ्च प्रहृष्टवदन: प्राह सूक्तं पुरूरवा: ॥ ३३ ॥

सः ताम् वीक्ष्य कुरुक्षेत्रे सरस्वत्याम् च तत्-सखीः पञ्च प्रहृष्ट-वदनः प्राह सूक्तम् पुरूरवाः

अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।
मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥

अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि माम् त्वम् अद्य अपि अनिर्वृत्य वचांसि कृणवावहै

सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।
खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् ॥ ३५ ॥

सु-देहः अयम् पतति अत्र देवि दूरम् हृतः त्वया खादन्ति एनम् वृकाः गृध्राः त्वत् प्रसादस्य न आस्पदम्

उर्वश्युवाच
मा मृथा: पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे ।
क्‍वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ ३६ ॥

उर्वशी उवाच मा मृथाः पुरुषः असि त्वम् मा स्म त्वा अद्युः वृकाः इमे क्व अपि सख्यम् न वै स्त्रीणाम् वृकाणाम् हृदयम् यथा

स्त्रियो ह्यकरुणा: क्रूरा दुर्मर्षा: प्रियसाहसा: ।
घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ ३७ ॥

स्त्रियः हि अकरुणाः क्रूराः दुर्मर्षाः प्रिय-साहसाः घ्नन्ति अल्प-अर्थे अपि विश्रब्धम् पतिम् भ्रातरम् अपि उत

विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदा: ।
नवं नवमभीप्सन्त्य: पुंश्चल्य: स्वैरवृत्तय: ॥ ३८ ॥

विधाय अलीक विश्रम्भम् अज्ञेषु त्यक्त-सौहृदाः नवम् नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर वृत्तयः

संवत्सरान्ते हि भवानेकरात्रं मयेश्वर: ।
रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भो: ॥ ३९ ॥

संवत्सर-अन्ते हि भवान् एक-रात्रम् मया ईश्वरः रंस्यति अपत्यानि च ते भविष्यन्ति अपराणि भोः

अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् ।
पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥ ४० ॥

अन्तर्वत्नीम् उपालक्ष्य देवीम् सः प्रययौ पुरीम् पुनः तत्र गतः अब्द-अन्ते उर्वशीम् वीर-मातरम्

उपलभ्य मुदा युक्त: समुवास तया निशाम् ।
अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ ४१ ॥

उपलभ्य मुदा युक्तः समुवास तया निशाम् अथ एनम् उर्वशी प्राह कृपणम् विरह-आतुरम्

गन्धर्वानुपधावेमांस्तुभ्यं दास्यन्ति मामिति ।
तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप ।
उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने ॥ ४२ ॥

गन्धर्वान् उपधाव इमान् तुभ्यम् दास्यन्ति माम् इति तस्य संस्तुवतः तुष्टाः अग्नि-स्थालीम् ददुः नृप उर्वशीम् मन्य-मानः ताम् सः अबुध्यत चरन् वने

स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि ।
त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ ४३ ॥

स्थालीम् न्यस्य वने गत्वा गृहान् आध्यायतः निशि त्रेतायाम् सम्प्रवृत्तायाम् मनसि त्रयी अवर्तत

स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य स: ।
तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ ४४ ॥
उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् ।
आत्मानमुभयोर्मध्ये यत् तत् प्रजननं प्रभु: ॥ ४५ ॥

स्थाली-स्थानम् गतः अश्वत्थम् शमी-गर्भम् विलक्ष्य सः तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया उर्वशीम् मन्त्रतः ध्यायन् अधर अरणिम् उत्तराम् आत्मानम् उभयोः मध्ये यत् तत् प्रजननम् प्रभुः

तस्य निर्मन्थनाज्जातो जातवेदा विभावसु: ।
त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ ४६ ॥

तस्य निर्मन्थनात् जातः जात-वेदाः विभावसुः त्रय्या सः विद्यया राज्ञा पुत्रत्वे कल्पितः त्रि-वृत्

तेनायजत यज्ञेशं भगवन्तमधोक्षजम् ।
उर्वशीलोकमन् विच्छन्सर्वदेवमयं हरिम् ॥ ४७ ॥

तेन अयजत यज्ञ-ईशम् भगवन्तम् अधोक्षजम् उर्वशी-लोकम् अन्विच्छन् सर्व-देव-मयम् हरिम्

एक एव पुरा वेद: प्रणव: सर्ववाङ्‌मय: ।
देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ॥ ४८ ॥

एकः एव पुरा वेदः प्रणवः सर्व-वाक्-मयः देवः नारायणः न अन्यः एकः अग्निः वर्णः एव च

पुरूरवस एवासीत् त्रयी त्रेतामुखे नृप ।
अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ ४९ ॥

पुरूरवसः एव आसीत् त्रयी त्रेता-मुखे नृप अग्निना प्रजया राजा लोकम् गान्धर्वम् एयिवान्

९.१५

श्रीबादरायणिरुवाच
ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप ।
आयु: श्रुतायु: सत्यायू रयोऽथ विजयो जय: ॥ १ ॥

श्री-बादरायणिः उवाच ऐलस्य च उर्वशी-गर्भात् षट् आसन् आत्मजाः नृप आयुः श्रुतायुः सत्यायुः रयः अथ विजयः जयः

श्रुतायोर्वसुमान् पुत्र: सत्यायोश्च श्रुतञ्जय: ।
रयस्य सुत एकश्च जयस्य तनयोऽमित: ॥ २ ॥
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्तत: ।
तस्य जह्नु: सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ॥ ३ ॥

श्रुतायोः वसुमान् पुत्रः सत्यायोः च श्रुतञ्जयः रयस्य सुतः एकः च जयस्य तनयः अमितः भीमः तु विजयस्य अथ काञ्चनः होत्रकः ततः तस्य जह्नुः सुतः गङ्गाम् गण्डूषी-कृत्य यः अपिबत्

जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजोऽजक: ।
तत: कुश: कुशस्यापि कुशाम्बुस्तनयो वसु: ।
कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुज: ॥ ४ ॥

जह्नोः तु पुरुः तस्य अथ बलाकः च आत्मजः अजकः ततः कुशः कुशस्य अपि कुशाम्बुः तनयः वसुः कुशनाभः च चत्वारः गाधिः आसीत् कुशाम्बुजः

तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विज: ।
वरं विसद‍ृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ५ ॥
एकत: श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
सहस्रं दीयतां शुल्कं कन्याया: कुशिका वयम् ॥ ६ ॥

तस्य सत्यवतीम् कन्याम् ऋचीकः अयाचत द्विजः वरम् विसदृशम् मत्वा गाधिः भार्गवम् अब्रवीत् एकतः श्याम-कर्णानाम् हयानाम् चन्द्र-वर्चसाम् सहस्रम् दीयताम् शुल्कम् कन्यायाः कुशिकाः वयम्

इत्युक्तस्तन्मतं ज्ञात्वा गत: स वरुणान्तिकम् ।
आनीय दत्त्वा तानश्वानुपयेमे वराननाम् ॥ ७ ॥

इति उक्तः तत्-मतम् ज्ञात्वा गतः सः वरुण-अन्तिकम् आनीय दत्त्वा तान् अश्वान् उपयेमे वर-आननाम्

स ऋषि: प्रार्थित: पत्‍न्या श्वश्र्वा चापत्यकाम्यया ।
श्रपयित्वोभयैर्मन्त्रैश्चरुं स्‍नातुं गतो मुनि: ॥ ८ ॥

सः ऋषिः प्रार्थितः पत्न्या श्वश्र्वा च अपत्य-काम्यया श्रपयित्वा उभयैः मन्त्रैः चरुम् स्नातुम् गतः मुनिः

तावत् सत्यवती मात्रा स्वचरुं याचिता सती ।
श्रेष्ठं मत्वा तयायच्छन्मात्रे मातुरदत् स्वयम् ॥ ९ ॥

तावत् सत्यवती मात्रा स्व-चरुम् याचिता सती श्रेष्ठम् मत्वा तया अयच्छत् मात्रे मातुः अदत् स्वयम्

तद् विदित्वा मुनि: प्राह पत्नीं कष्टमकारषी: ।
घोरो दण्डधर: पुत्रो भ्राता ते ब्रह्मवित्तम: ॥ १० ॥

तत् विदित्वा मुनिः प्राह पत्नीम् कष्टम् अकारषीः घोरः दण्ड-धरः पुत्रः भ्राता ते ब्रह्म-वित्तमः

प्रसादित: सत्यवत्या मैवं भूरिति भार्गव: ।
अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥

प्रसादितः सत्यवत्या मा एवम् भूः इति भार्गवः अथ तर्हि भवेत् पौत्रः जमदग्निः ततः अभवत्

सा चाभूत् सुमहत्पुण्या कौशिकी लोकपावनी ।
रेणो: सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥
तस्यां वै भार्गवऋषे: सुता वसुमदादय: ।
यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुत: ॥ १३ ॥

सा च अभूत् सुमहत्-पुण्या कौशिकी लोक-पावनी रेणोः सुताम् रेणुकाम् वै जमदग्निः उवाह याम् तस्याम् वै भार्गव-ऋषेः सुताः वसुमत्-आदयः यवीयान् जज्ञे एतेषाम् रामः इति अभिविश्रुतः

यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।
त्रि:सप्तकृत्वो य इमां चक्रे नि:क्षत्रियां महीम् ॥ १४ ॥

यम् आहुः वासुदेव-अंशम् हैहयानाम् कुल-अन्तकम् त्रिः-सप्त-कृत्वः यः इमाम् चक्रे निःक्षत्रियाम् महीम्

द‍ृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् ।
रजस्तमोवृतमहन् फल्गुन्यपि कृतेꣷहसि ॥ १५ ॥

दृप्तम् क्षत्रम् भुवः भारम् अब्रह्मण्यम् अनीनशत् रजः-तमः वृतम् अहन् फल्गुनि अपि कृते अंहसि

श्रीराजोवाच
किं तदंहो भगवतो राजन्यैरजितात्मभि: ।
कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णश: ॥ १६ ॥

श्री-राजा उवाच किम् तत् अंहः भगवतः राजन्यैः अजित-आत्मभिः कृतम् येन कुलम् नष्टम् क्षत्रियाणाम् अभीक्ष्णशः

श्रीबादरायणिरुवाच
हैहयानामधिपतिरर्जुन: क्षत्रियर्षभ: ।
दत्तं नारायणांशांशमाराध्य परिकर्मभि: ॥ १७ ॥
बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु ।
अव्याहतेन्द्रियौज:श्रीतेजोवीर्ययशोबलम् ॥ १८ ॥
योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादय: ।
चचाराव्याहतगतिर्लोकेषु पवनो यथा ॥ १९ ॥

श्री-बादरायणिः उवाच हैहयानाम् अधिपतिः अर्जुनः क्षत्रिय-ऋषभः दत्तम् नारायण-अंश-अंशम् आराध्य परिकर्मभिः बाहून् दश-शतम् लेभे दुर्धर्षत्वम् अरातिषु अव्याहत इन्द्रिय-ओजः श्री तेजः वीर्य यशः बलम् योग-ईश्वरत्वम् ऐश्वर्यम् गुणाः यत्र अणिमा-आदयः चचार अव्याहत-गतिः लोकेषु पवनः यथा

स्त्रीरत्नैरावृत: क्रीडन् रेवाम्भसि मदोत्कट: ।
वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजै: ॥ २० ॥

स्त्री-रत्नैः आवृतः क्रीडन् रेवा-अम्भसि मद-उत्कटः वैजयन्तीम् स्रजम् बिभ्रत् रुरोध सरितम् भुजैः

विप्लावितं स्वशिबिरं प्रतिस्रोत:सरिज्जलै: ।
नामृष्यत् तस्य तद् वीर्यं वीरमानी दशानन: ॥ २१ ॥

विप्लावितम् स्व-शिबिरम् प्रतिस्रोतः सरित्-जलैः न अमृष्यत् तस्य तत् वीर्यम् वीरमानी दश-आननः

गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिष: ।
माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २२ ॥

गृहीतः लीलया स्त्रीणाम् समक्षम् कृत-किल्बिषः माहिष्मत्याम् सन्निरुद्धः मुक्तः येन कपिः यथा

स एकदा तु मृगयां विचरन् विजने वने ।
यद‍ृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥ २३ ॥

सः एकदा तु मृगयाम् विचरन् विजने वने यदृच्छया आश्रम-पदम् जमदग्नेः उपाविशत्

तस्मै स नरदेवाय मुनिरर्हणमाहरत् ।
ससैन्यामात्यवाहाय हविष्मत्या तपोधन: ॥ २४ ॥

तस्मै सः नरदेवाय मुनिः अर्हणम् आहरत् स-सैन्य अमात्य वाहाय हविष्मत्या तपः-धनः

स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् ।
तन्नाद्रियताग्निहोत्र्यां साभिलाष: सहैहय: ॥ २५ ॥

सः वै रत्नम् तु तत् दृष्ट्वा आत्म-ऐश्वर्य अति-शायनम् तत् न आद्रियत अग्निहोत्र्याम् स-अभिलाषः स-हैहयः

हविर्धानीमृषेर्दर्पान्नरान् हर्तुमचोदयत् ।
ते च माहिष्मतीं निन्यु: सवत्सां क्रन्दतीं बलात् ॥ २६ ॥

हविः-धानीम् ऋषेः दर्पात् नरान् हर्तुम् अचोदयत् ते च माहिष्मतीम् निन्युः स-वत्साम् क्रन्दतीम् बलात्

अथ राजनि निर्याते राम आश्रम आगत: ।
श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहत: ॥ २७ ॥

अथ राजनि निर्याते रामः आश्रमे आगतः श्रुत्वा तत् तस्य दौरात्म्यम् चुक्रोध अहिः इव आहतः

घोरमादाय परशुं सतूणं वर्म कार्मुकम् ।
अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् ॥ २८ ॥

घोरम् आदाय परशुम् स-तूणम् वर्म कार्मुकम् अन्वधावत दुर्मर्षः मृगेन्द्रः इव यूथपम्

तमापतन्तं भृगुवर्यमोजसा
धनुर्धरं बाणपरश्वधायुधम् ।
ऐणेयचर्माम्बरमर्कधामभि-
र्युतं जटाभिर्दद‍ृशे पुरीं विशन् ॥ २९ ॥

तम् आपतन्तम् भृगु-वर्यम् ओजसा धनुः-धरम् बाण परश्वध आयुधम् ऐणेय-चर्म अम्बरम् अर्क-धामभिः युतम् जटाभिः ददृशे पुरीम् विशन्

अचोदयद्धस्तिरथाश्वपत्तिभि-
र्गदासिबाणर्ष्टिशतघ्निशक्तिभि: ।
अक्षौहिणी: सप्तदशातिभीषणा-
स्ता राम एको भगवानसूदयत् ॥ ३० ॥

अचोदयत् हस्ति रथ अश्व पत्तिभिः गदा असि बाण ऋष्टि शतघ्नि शक्तिभिः अक्षौहिणीः सप्त-दश अति-भीषणाः ताः रामः एकः भगवान् असूदयत्

यतो यतोऽसौ प्रहरत्परश्वधो
मनोऽनिलौजा: परचक्रसूदन: ।
ततस्ततश्छिन्नभुजोरुकन्धरा
निपेतुरुर्व्यां हतसूतवाहना: ॥ ३१ ॥

यतः यतः असौ प्रहरत् परश्वधः मनः अनिल ओजाः पर-चक्र सूदनः ततः ततः छिन्न भुज ऊरु कन्धराः निपेतुः उर्व्याम् हत सूत वाहनाः

द‍ृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे
रणाजिरे रामकुठारसायकै: ।
विवृक्णवर्मध्वजचापविग्रहं
निपातितं हैहय आपतद् रुषा ॥ ३२ ॥

दृष्ट्वा स्व-सैन्यम् रुधिर-ओघ-कर्दमे रण-अजिरे राम-कुठार सायकैः विवृक्ण वर्म ध्वज चाप विग्रहम् निपातितम् हैहयः आपतत् रुषा

अथार्जुन: पञ्चशतेषु बाहुभि-
र्धनु:षु बाणान् युगपत् स सन्दधे ।
रामाय रामोऽस्त्रभृतां समग्रणी-
स्तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥

अथ अर्जुनः पञ्च-शतेषु बाहुभिः धनुःषु बाणान् युगपत् सः सन्दधे रामाय रामः अस्त्र-भृताम् समग्रणीः तानि एक-धन्वा इषुभिः आच्छिनत् समम्

पुन: स्वहस्तैरचलान् मृधेऽङ्‌घ्रिपा-
नुत्क्षिप्य वेगादभिधावतो युधि ।
भुजान् कुठारेण कठोरनेमिना
चिच्छेद राम: प्रसभं त्वहेरिव ॥ ३४ ॥

पुनः स्व-हस्तैः अचलान् मृधे अङ्घ्रिपान् उत्क्षिप्य वेगात् अभिधावतः युधि भुजान् कुठारेण कठोर-नेमिना चिच्छेद रामः प्रसभम् तु अहेः इव

कृत्तबाहो: शिरस्तस्य गिरे: श‍ृङ्गमिवाहरत् ।
हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३५ ॥
अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा ।
समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ ३६ ॥

कृत्त-बाहोः शिरः तस्य गिरेः शृङ्गम् इव आहरत् हते पितरि तत्-पुत्राः अयुतम् दुद्रुवुः भयात् अग्निहोत्रीम् उपावर्त्य स-वत्साम् पर-वीर-हा समुपेत्य आश्रमम् पित्रे परिक्लिष्टाम् समर्पयत्

स्वकर्म तत्कृतं राम: पित्रे भ्रातृभ्य एव च ।
वर्णयामास तच्छ्रुत्वा जमदग्निरभाषत ॥ ३७ ॥

स्व-कर्म तत् कृतम् रामः पित्रे भ्रातृभ्यः एव च वर्णयाम् आस तत् श्रुत्वा जमदग्निः अभाषत

राम राम महाबाहो भवान् पापमकारषीत् ।
अवधीन्नरदेवं यत्सर्वदेवमयं वृथा ॥ ३८ ॥

राम राम महाबाहो भवान् पापम् अकारषीत् अवधीत् नरदेवम् यत् सर्व-देव-मयम् वृथा

वयं हि ब्राह्मणास्तात क्षमयार्हणतां गता: ।
यया लोकगुरुर्देव: पारमेष्ठ्यमगात् पदम् ॥ ३९ ॥

वयम् हि ब्राह्मणाः तात क्षमया अर्हणताम् गताः यया लोक-गुरुः देवः पारमेष्ठ्यम् अगात् पदम्

क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा ।
क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वर: ॥ ४० ॥

क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा क्षमिणाम् आशु भगवान् तुष्यते हरिः ईश्वरः

राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरु: ।
तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतन: ॥ ४१ ॥

राज्ञः मूर्ध-अभिषिक्तस्य वधः ब्रह्म-वधात् गुरुः तीर्थ-संसेवया च अंहः जहि अङ्ग अच्युत-चेतनः

९.१६

श्रीशुक उवाच
पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन ।
संवत्सरं तीर्थयात्रां चरित्वाश्रममाव्रजत् ॥ १ ॥

श्री-शुकः उवाच पित्रा उपशिक्षितः रामः तथा इति कुरु-नन्दन संवत्सरम् तीर्थ-यात्राम् चरित्वा आश्रमम् आव्रजत्

कदाचिद् रेणुका याता गङ्गायां पद्ममालिनम् ।
गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत ॥ २ ॥

कदाचित् रेणुका याता गङ्गायाम् पद्म-मालिनम् गन्धर्व-राजम् क्रीडन्तम् अप्सरोभिः अपश्यत

विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता ।
होमवेलां न सस्मार किञ्चिच्चित्ररथस्पृहा ॥ ३ ॥

विलोकयन्ती क्रीडन्तम् उदक-अर्थम् नदीम् गता होम-वेलाम् न सस्मार किञ्चित् चित्ररथ स्पृहा

कालात्ययं तं विलोक्य मुने: शापविशङ्किता ।
आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलि: ॥ ४ ॥

काल-अत्ययम् तम् विलोक्य मुनेः शाप-विशङ्किता आगत्य कलशम् तस्थौ पुरोधाय कृत-अञ्जलिः

व्यभिचारं मुनिर्ज्ञात्वा पत्‍न्या: प्रकुपितोऽब्रवीत् ।
घ्नतैनां पुत्रका: पापामित्युक्तास्ते न चक्रिरे ॥ ५ ॥

व्यभिचारम् मुनिः ज्ञात्वा पत्न्याः प्रकुपितः अब्रवीत् घ्नत एनाम् पुत्रकाः पापाम् इति उक्ताः ते न चक्रिरे

राम: सञ्चोदित: पित्रा भ्रातृन् मात्रा सहावधीत् ।
प्रभावज्ञो मुने: सम्यक् समाधेस्तपसश्च स: ॥ ६ ॥

रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सह अवधीत् प्रभाव-ज्ञः मुनेः सम्यक् समाधेः तपसः च सः

वरेणच्छन्दयामास प्रीत: सत्यवतीसुत: ।
वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥

वरेण च्छन्दयाम् आस प्रीतः सत्यवती-सुतः वव्रे हतानाम् रामः अपि जीवितम् च अस्मृतिम् वधे

उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा ।
पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ ८ ॥

उत्तस्थुः ते कुशलिनः निद्रा-अपाये इव अञ्जसा पितुः विद्वान् तपः वीर्यम् रामः चक्रे सुहृत्-वधम्

येऽर्जुनस्य सुता राजन् स्मरन्त: स्वपितुर्वधम् ।
रामवीर्यपराभूता लेभिरे शर्म न क्‍वचित् ॥ ९ ॥

ये अर्जुनस्य सुताः राजन् स्मरन्तः स्व-पितुः वधम् राम-वीर्य-पराभूताः लेभिरे शर्म न क्वचित्

एकदाश्रमतो रामे सभ्रातरि वनं गते ।
वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् ॥ १० ॥

एकदा आश्रमतः रामे स-भ्रातरि वनम् गते वैरम् सिषाधयिषवः लब्ध-छिद्राः उपागमन्

दृष्ट्वाग्‍न्यागार आसीनमावेशितधियं मुनिम् ।
भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चया: ॥ ११ ॥

दृष्ट्वा अग्नि-आगारे आसीनम् आवेशित धियम् मुनिम् भगवति उत्तम-श्लोके जघ्नुः ते पाप-निश्चयाः

याच्यमाना: कृपणया राममात्रातिदारुणा: ।
प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धव: ॥ १२ ॥

याच्यमानाः कृपणया राम-मात्रा अति-दारुणाः प्रसह्य शिरः उत्कृत्य निन्युः ते क्षत्र-बन्धवः

रेणुका दु:खशोकार्ता निघ्नन्त्यात्मानमात्मना ।
राम रामेति तातेति विचुक्रोशोच्चकै: सती ॥ १३ ॥

रेणुका दुःख-शोक-अर्ता निघ्नन्ती आत्मानम् आत्मना राम राम इति तात इति विचुक्रोश उच्चकैः सती

तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम् ।
त्वरयाश्रममासाद्य दद‍ृशु: पितरं हतम् ॥ १४ ॥

तत् उपश्रुत्य दूर-स्थाः हा राम इति आर्त-वत् स्वनम् त्वरया आश्रमम् आसाद्य ददृशुः पितरम् हतम्

ते दु:खरोषामर्षार्तिशोकवेगविमोहिता: ।
हा तात साधो धर्मिष्ठ त्यक्त्वास्मान्स्वर्गतो भवान् ॥ १५ ॥

ते दुःख रोष अमर्ष आर्ति शोक वेग विमोहिताः हा तात साधो धर्मिष्ठ त्यक्त्वा अस्मान् स्वः-गतः भवान्

विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् ।
प्रगृह्य परशुं राम: क्षत्रान्ताय मनो दधे ॥ १६ ॥

विलप्य एवम् पितुः देहम् निधाय भ्रातृषु स्वयम् प्रगृह्य परशुम् रामः क्षत्र-अन्ताय मनः दधे

गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् ।
तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ १७ ॥

गत्वा माहिष्मतीम् रामः ब्रह्म-घ्न विहत-श्रियम् तेषाम् सः शीर्षभिः राजन् मध्ये चक्रे महा-गिरिम्

तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् ।
हेतुं कृत्वा पितृवधं क्षत्रेऽमङ्गलकारिणि ॥ १८ ॥
त्रि:सप्तकृत्व: पृथिवीं कृत्वा नि:क्षत्रियां प्रभु: ।
समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥ १९ ॥

तत्-रक्तेन नदीम् घोराम् अब्रह्मण्य-भय-आवहाम् हेतुम् कृत्वा पितृ-वधम् क्षत्रे अमङ्गल-कारिणि त्रिः-सप्त-कृत्वः पृथिवीम् कृत्वा निःक्षत्रियाम् प्रभुः समन्त-पञ्चके चक्रे शोणित-उदान् ह्रदान् नव

पितु: कायेन सन्धाय शिर आदाय बर्हिषि ।
सर्वदेवमयं देवमात्मानमयजन्मखै: ॥ २० ॥

पितुः कायेन सन्धाय शिरः आदाय बर्हिषि सर्व-देव-मयम् देवम् आत्मानम् अयजत् मखैः

ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् ।
अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥ २१ ॥
अन्येभ्योऽवान्तरदिश: कश्यपाय च मध्यत: ।
आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्तत: परम् ॥ २२ ॥

ददौ प्राचीम् दिशम् होत्रे ब्रह्मणे दक्षिणाम् दिशम् अध्वर्यवे प्रतीचीम् वै उद्गात्रे उत्तराम् दिशम् अन्येभ्यः अवान्तर-दिशः कश्यपाय च मध्यतः आर्यावर्तम् उपद्रष्ट्रे सदस्येभ्यः ततः परम्

ततश्चावभृथस्‍नानविधूताशेषकिल्बिष: ।
सरस्वत्यां महानद्यां रेजे व्यब्भ्र इवांशुमान् ॥ २३ ॥

ततः च अवभृथ-स्नान विधूत अशेष किल्बिषः सरस्वत्याम् महा-नद्याम् रेजे व्यब्भ्रः इव अंशुमान्

स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् ।
ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजित: ॥ २४ ॥

स्व-देहम् जमदग्निः तु लब्ध्वा संज्ञान-लक्षणम् ऋषीणाम् मण्डले सः अभूत् सप्तमः राम-पूजितः

जामदग्‍न्योऽपि भगवान् राम: कमललोचन: ।
आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥

जामदग्न्यः अपि भगवान् रामः कमल-लोचनः आगामिनि अन्तरे राजन् वर्तयिष्यति वै बृहत्

आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्ड: प्रशान्तधी: ।
उपगीयमानचरित: सिद्धगन्धर्वचारणै: ॥ २६ ॥

आस्ते अद्य अपि महेन्द्र-अद्रौ न्यस्त-दण्डः प्रशान्त धीः उपगीयमान-चरितः सिद्ध-गन्धर्व-चारणैः

एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वर: ।
अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥ २७ ॥

एवम् भृगुषु विश्व-आत्मा भगवान् हरिः ईश्वरः अवतीर्य परम् भारम् भुवः अहन् बहुशः नृपान्

गाधेरभून्महातेजा: समिद्ध इव पावक: ।
तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ २८ ॥

गाधेः अभूत् महा-तेजाः समिद्धः इव पावकः तपसा क्षात्रम् उत्सृज्य यः लेभे ब्रह्म-वर्चसम्

विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥

विश्वामित्रस्य च एव आसन् पुत्राः एक-शतम् नृप मध्यमः तु मधुच्छन्दाः मधुच्छन्दसः एव ते

पुत्रं कृत्वा शुन:शेफं देवरातं च भार्गवम् ।
आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥ ३० ॥

पुत्रम् कृत्वा शुनःशेफम् देवरातम् च भार्गवम् आजीगर्तम् सुतान् आह ज्येष्ठः एषः प्रकल्प्यताम्

यो वै हरिश्चन्द्रमखे विक्रीत: पुरुष: पशु: ।
स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ ३१ ॥

यः वै हरिश्चन्द्र-मखे विक्रीतः पुरुषः पशुः स्तुत्वा देवान् प्रजा-ईश-आदीन् मुमुचे पाश-बन्धनात्

यो रातो देवयजने देवैर्गाधिषु तापस: ।
देवरात इति ख्यात: शुन:शेफस्तु भार्गव: ॥ ३२ ॥

यः रातः देव-यजने देवैः गाधिषु तापसः देव-रातः इति ख्यातः शुनःशेफः तु भार्गवः

ये मधुच्छन्दसो ज्येष्ठा: कुशलं मेनिरे न तत् ।
अशपत् तान्मुनि: क्रुद्धो म्‍लेच्छा भवत दुर्जना: ॥ ३३ ॥

ये मधुच्छन्दसः ज्येष्ठाः कुशलम् मेनिरे न तत् अशपत् तान् मुनिः क्रुद्धः म्लेच्छाः भवत दुर्जनाः

स होवाच मधुच्छन्दा: सार्धं पञ्चाशता तत: ।
यन्नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ ३४ ॥

सः ह उवाच मधुच्छन्दाः सार्धम् पञ्चाशता ततः यत् नः भवान् सञ्जानीते तस्मिन् तिष्ठामहे वयम्

ज्येष्ठं मन्त्रद‍ृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि ।
विश्वामित्र: सुतानाह वीरवन्तो भविष्यथ ।
ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ ३५ ॥

ज्येष्ठम् मन्त्र-दृशम् चक्रुः त्वाम् अन्वञ्चः वयम् स्म हि विश्वामित्रः सुतान् आह वीर-वन्तः भविष्यथ ये मानम् मे अनुगृह्णन्तः वीर-वन्तम् अकर्त माम्

एष व: कुशिका वीरो देवरातस्तमन्वित ।
अन्ये चाष्टकहारीतजयक्रतुमदादय: ॥ ३६ ॥

एषः वः कुशिकाः वीरः देवरातः तम् अन्वित अन्ये च अष्टक हारीत जय क्रतुमत् आदयः

एवं कौशिकगोत्रं तु विश्वामित्रै: पृथग्विधम् ।
प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ ३७ ॥

एवम् कौशिक-गोत्रम् तु विश्वामित्रैः पृथक्-विधम् प्रवर-अन्तरम् आपन्नम् तत् हि च एवम् प्रकल्पितम्

९.१७

श्रीबादरायणिरुवाच
य: पुरूरवस: पुत्र आयुस्तस्याभवन् सुता: ।
नहुष: क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् ॥ १ ॥
अनेना इति राजेन्द्र श‍ृणु क्षत्रवृधोऽन्वयम् ।
क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रय: ॥ २ ॥
काश्य: कुशो गृत्समद इति गृत्समदादभूत् ।
शुनक: शौनको यस्य बह्वृचप्रवरो मुनि: ॥ ३ ॥

श्री-बादरायणिः उवाच यः पुरूरवसः पुत्रः आयुः तस्य अभवन् सुताः नहुषः क्षत्रवृद्धः च रजी राभः च वीर्यवान् अनेनाः इति राज-इन्द्र शृणु क्षत्रवृधः अन्वयम् क्षत्रवृद्ध सुतस्य आसन् सुहोत्रस्य आत्मजाः त्रयः काश्यः कुशः गृत्समदः इति गृत्समदात् अभूत् शुनकः शौनकः यस्य बहु-ऋच-प्रवरः मुनिः

काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतम:पिता ।
धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तक: ।
यज्ञभुग् वासुदेवांश: स्मृतमात्रार्तिनाशन: ॥ ४ ॥

काश्यस्य काशिः तत्-पुत्रः राष्ट्रः दीर्घतमः-पिता धन्वन्तरिः दीर्घतमसः आयुः-वेद-प्रवर्तकः यज्ञ-भुक् वासुदेव-अंशः स्मृत-मात्र आर्ति-नाशनः

तत्पुत्र: केतुमानस्य जज्ञे भीमरथस्तत: ।
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृत: ॥ ५ ॥

तत्-पुत्रः केतुमान् अस्य जज्ञे भीमरथः ततः दिवोदासः द्युमान् तस्मात् प्रतर्दनः इति स्मृतः

स एव शत्रुजिद् वत्स ऋतध्वज इतीरित: ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्तत: ॥ ६ ॥

सः एव शत्रुजित् वत्सः ऋतध्वजः इति ईरितः तथा कुवलयाश्व इति प्रोक्तः अलर्क-आदयः ततः

षष्टिंवर्षसहस्राणि षष्टिंवर्षशतानि च ।
नालर्कादपरो राजन् बुभुजे मेदिनीं युवा ॥ ७ ॥

षष्टिम् वर्ष-सहस्राणि षष्टिम् वर्ष-शतानि च न अलर्कात् अपरः राजन् बुभुजे मेदिनीम् युवा

अलर्कात्सन्ततिस्तस्मात् सुनीथोऽथ निकेतन: ।
धर्मकेतु: सुतस्तस्मात् सत्यकेतुरजायत ॥ ८ ॥

अलर्कात् सन्ततिः तस्मात् सुनीथः अथ निकेतनः धर्मकेतुः सुतः तस्मात् सत्यकेतुः अजायत

धृष्टकेतुस्ततस्तस्मात् सुकुमार: क्षितीश्वर: ।
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥ ९ ॥

धृष्टकेतुः ततः तस्मात् सुकुमारः क्षिति-ईश्वरः वीतिहोत्रः अस्य भर्गः अतः भार्गभूमिः अभूत् नृप

इतीमे काशयो भूपा: क्षत्रवृद्धान्वयायिन: ।
राभस्य रभस: पुत्रो गम्भीरश्चाक्रियस्तत: ॥ १० ॥

इति इमे काशयः भूपाः क्षत्रवृद्ध-अन्वय-आयिनः राभस्य रभसः पुत्रः गम्भीरः च अक्रियः ततः

तद्गोत्रं ब्रह्मविज् जज्ञे श‍ृणु वंशमनेनस: ।
शुद्धस्तत: शुचिस्तस्माच्चित्रकृद् धर्मसारथि: ॥ ११ ॥

तत्-गोत्रम् ब्रह्मवित् जज्ञे शृणु वंशम् अनेनसः शुद्धः ततः शुचिः तस्मात् चित्रकृत् धर्म-सारथिः

तत: शान्तरजो जज्ञे कृतकृत्य: स आत्मवान् ।
रजे: पञ्चशतान्यासन् पुत्राणाममितौजसाम् ॥ १२ ॥

ततः शान्तरजः जज्ञे कृत-कृत्यः सः आत्मवान् रजेः पञ्च-शतानि आसन् पुत्राणाम् अमित-ओजसाम्

देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् ।
इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजे: ।
आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कित: ॥ १३ ॥

देवैः अभ्यर्थितः दैत्यान् हत्वा इन्द्राय अददात् दिवम् इन्द्रः तस्मै पुनः दत्त्वा गृहीत्वा चरणौ रजेः आत्मानम् अर्पयाम् आस प्रह्राद-आदि अरि-शङ्कितः

पितर्युपरते पुत्रा याचमानाय नो ददु: ।
त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददु: ॥ १४ ॥

पितरि उपरते पुत्राः याचमानाय नो ददुः त्रिविष्टपम् महेन्द्राय यज्ञ-भागान् समाददुः

गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजे: ।
अवधीद् भ्रंशितान् मार्गान्न कश्चिदवशेषित: ॥ १५ ॥

गुरुणा हूयमाने अग्नौ बलभित् तनयान् रजेः अवधीत् भ्रंशितान् मार्गात् न कश्चित् अवशेषितः

कुशात् प्रति: क्षात्रवृद्धात् सञ्जयस्तत्सुतो जय: ।
तत: कृत: कृतस्यापि जज्ञे हर्यबलो नृप: ॥ १६ ॥

कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयः तत्-सुतः जयः ततः कृतः कृतस्य अपि जज्ञे हर्यबलः नृपः

सहदेवस्ततो हीनो जयसेनस्तु तत्सुत: ।
सङ्‍कृतिस्तस्य च जय: क्षत्रधर्मा महारथ: ।
क्षत्रवृद्धान्वया भूपा इमेश‍ृण्वथनाहुषान् ॥ १७ ॥

सहदेवः ततः हीनः जयसेनः तु तत्-सुतः सङ्कृतिः तस्य च जयः क्षत्र-धर्मा महा-रथः क्षत्रवृद्ध-अन्वयाः भूपाः इमे शृणु अथ नाहुषान्

९.१८

श्रीशुक उवाच
यतिर्ययाति: संयातिरायतिर्वियति: कृति: ।
षडिमे नहुषस्यासन्निन्द्रियाणीव देहिन: ॥ १ ॥

श्री-शुकः उवाच यतिः ययातिः संयातिः आयतिः वियतिः कृतिः षट् इमे नहुषस्य आसन् इन्द्रियाणि इव देहिनः

राज्यं नैच्छद् यति: पित्रा दत्तं तत्परिणामवित् ।
यत्र प्रविष्ट: पुरुष आत्मानं नावबुध्यते ॥ २ ॥

राज्यम् न ऐच्छत् यतिः पित्रा दत्तम् तत्-परिणाम-वित् यत्र प्रविष्टः पुरुषः आत्मानम् न अवबुध्यते

पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजै: ।
प्रापितेऽजगरत्वं वै ययातिरभवन्नृप: ॥ ३ ॥

पितरि भ्रंशिते स्थानात् इन्द्राण्याः धर्षणात् द्विजैः प्रापिते अजगरत्वम् वै ययातिः अभवत् नृपः

चतसृष्वादिशद् दिक्षु भ्रातृन् भ्राता यवीयस: ।
कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वण: ॥ ४ ॥

चतसृषु आदिशत् दिक्षु भ्रातॄन् भ्राता यवीयसः कृत-दारः जुगोप ऊर्वीम् काव्यस्य वृषपर्वणः

श्रीराजोवाच
ब्रह्मर्षिर्भगवान् काव्य: क्षत्रबन्धुश्च नाहुष: ।
राजन्यविप्रयो: कस्माद् विवाह: प्रतिलोमक: ॥ ५ ॥

श्री-राजा उवाच ब्रह्म-ऋषिः भगवान् काव्यः क्षत्र-बन्धुः च नाहुषः राजन्य-विप्रयोः कस्मात् विवाहः प्रतिलोमकः

श्रीशुक उवाच
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।
सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥
देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले ।
व्यचरत्कलगीतालिनलिनीपुलिनेऽबला ॥ ७ ॥

श्री-शुकः उवाच एकदा दानव-इन्द्रस्य शर्मिष्ठा नाम कन्यका सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी देवयान्या पुर-उद्याने पुष्पित द्रुम सङ्कुले व्यचरत् कल-गीत अलि नलिनी पुलिने अबला

ता जलाशयमासाद्य कन्या: कमललोचना: ।
तीरे न्यस्य दुकूलानि विजह्रु: सिञ्चतीर्मिथ: ॥ ८ ॥

ताः जल-आशयम् आसाद्य कन्याः कमल-लोचनाः तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीः मिथः

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् ।
सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिता: स्त्रिय: ॥ ९ ॥

वीक्ष्य व्रजन्तम् गिरिशम् सह देव्या वृष-स्थितम् सहसा उत्तीर्य वासांसि पर्यधुः व्रीडिताः स्त्रियः

शर्मिष्ठाजानती वासो गुरुपुत्र्या: समव्ययत् ।
स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥ १० ॥

शर्मिष्ठा अजानती वासः गुरु-पुत्र्याः समव्ययत् स्वीयम् मत्वा प्रकुपिता देवयानी इदम् अब्रवीत्

अहो निरीक्ष्यतामस्या दास्या: कर्म ह्यसाम्प्रतम् ।
अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥

अहो निरीक्ष्यताम् अस्याः दास्याः कर्म हि असाम्प्रतम् अस्मत्-धार्यम् धृतवती शुनी इव हविः अध्वरे

यैरिदं तपसा सृष्टं मुखं पुंस: परस्य ये ।
धार्यते यैरिह ज्योति: शिव: पन्था: प्रदर्शित: ॥ १२ ॥
यान् वन्दन्त्युपतिष्ठन्ते लोकनाथा: सुरेश्वरा: ।
भगवानपि विश्वात्मा पावन: श्रीनिकेतन: ॥ १३ ॥
वयं तत्रापि भृगव: शिष्योऽस्या न: पितासुर: ।
अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥

यैः इदम् तपसा सृष्टम् मुखम् पुंसः परस्य ये धार्यते यैः इह ज्योतिः शिवः पन्थाः प्रदर्शितः यान् वन्दन्ति उपतिष्ठन्ते लोक-नाथाः सुर-ईश्वराः भगवान् अपि विश्व-आत्मा पावनः श्री-निकेतनः वयम् तत्र अपि भृगवः शिष्यः अस्याः नः पिता असुरः अस्मत्-धार्यम् धृतवती शूद्रः वेदम् इव असती

एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत ।
रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा ॥ १५ ॥

एवम् क्षिपन्तीम् शर्मिष्ठा गुरु-पुत्रीम् अभाषत रुषा श्वसन्ती उरङ्गी इव धर्षिता दष्ट-दत्-छदा

आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि ।
किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥

आत्म-वृत्तम् अविज्ञाय कत्थसे बहु भिक्षुकि किम् न प्रतीक्षसे अस्माकम् गृहान् बलिभुजः यथा

एवंविधै: सुपरुषै: क्षिप्‍त्वाचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ १७ ॥

एवम्-विधैः सु-परुषैः क्षिप्त्वा आचार्य-सुताम् सतीम् शर्मिष्ठा प्राक्षिपत् कूपे वासः च आदाय मन्युना

तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् ।
प्राप्तो यद‍ृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥

तस्याम् गतायाम् स्व-गृहम् ययातिः मृगयाम् चरन् प्राप्तः यदृच्छया कूपे जल-अर्थी ताम् ददर्श ह

दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे ।
गृहीत्वा पाणिना पाणिमुज्जहार दयापर: ॥ १९ ॥

दत्त्वा स्वम् उत्तरम् वासः तस्यै राजा विवाससे गृहीत्वा पाणिना पाणिम् उज्जहार दया-परः

तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।
राजंस्त्वया गृहीतो मे पाणि: परपुरञ्जय ॥ २० ॥
हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे ।
एष ईशकृतो वीर सम्बन्धो नौ न पौरुष: ॥ २१ ॥

तम् वीरम् आह औशनसी प्रेम-निर्भरया गिरा राजन् त्वया गृहीतः मे पाणिः पर-पुरञ्जय हस्त-ग्राहः अपरः मा भूत् गृहीतायाः त्वया हि मे एषः ईश-कृतः वीर सम्बन्धः नौ न पौरुषः

यदिदं कूपमग्नाया भवतो दर्शनं मम ।
न ब्राह्मणो मे भविता हस्तग्राहो महाभुज ।
कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥

यत् इदम् कूप-मग्नायाः भवतः दर्शनम् मम न ब्राह्मणः मे भविता हस्त-ग्राहः महा-भुज कचस्य बार्हस्पत्यस्य शापात् यम् अशपम् पुरा

ययातिरनभिप्रेतं दैवोपहृतमात्मन: ।
मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वच: ॥ २३ ॥

ययातिः अनभिप्रेतम् दैव-उपहृतम् आत्मनः मनः तु तत्-गतम् बुद्ध्वा प्रतिजग्राह तत्-वचः

गते राजनि सा धीरे तत्र स्म रुदती पितु: ।
न्यवेदयत्तत: सर्वमुक्तं शर्मिष्ठया कृतम् ॥ २४ ॥

गते राजनि सा धीरे तत्र स्म रुदती पितुः न्यवेदयत् ततः सर्वम् उक्तम् शर्मिष्ठया कृतम्

दुर्मना भगवान् काव्य: पौरोहित्यं विगर्हयन् ।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥

दुर्मनाः भगवान् काव्यः पौरोहित्यम् विगर्हयन् स्तुवन् वृत्तिम् च कापोतीम् दुहित्रा सः ययौ पुरात्

वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् ।
गुरुं प्रसादयन् मूर्ध्ना पादयो: पतित: पथि ॥ २६ ॥

वृषपर्वा तम् आज्ञाय प्रत्यनीक विवक्षितम् गुरुम् प्रसादयत् मूर्ध्ना पादयोः पतितः पथि

क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गव: ।
कामोऽस्या: क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥

क्षण-अर्ध मन्युः भगवान् शिष्यम् व्याचष्ट भार्गवः कामः अस्याः क्रियताम् राजन् न एनाम् त्यक्तुम् इह उत्सहे

तथेत्यवस्थिते प्राह देवयानी मनोगतम् ।
पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥

तथा इति अवस्थिते प्राह देवयानी मनोगतम् पित्रा दत्ता यतः यास्ये स-अनुगा यातु माम् अनु

पित्रादत्तादेवयान्यै शर्मिष्ठासानुगातदा ।
स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् ।
देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ २९ ॥

पित्रा दत्ता देवयान्यै शर्मिष्ठा स-अनुगा तदा स्वानाम् तत् सङ्कटम् वीक्ष्य तत् अर्थस्य च गौरवम् देवयानीम् पर्यचरत् स्त्री-सहस्रेण दास-वत्

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।
तमाह राजञ्छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥ ३० ॥

नाहुषाय सुताम् दत्त्वा सह शर्मिष्ठया उशना तम् आह राजन् शर्मिष्ठाम् आधाः तल्पे न कर्हिचित्

विलोक्यौशनसीं राजञ्छर्मिष्ठा सुप्रजां क्‍वचित् ।
तमेव वव्रे रहसि सख्या: पतिमृतौ सती ॥ ३१ ॥

विलोक्य औशनसीम् राजन् शर्मिष्ठा सु-प्रजाम् क्वचित् तम् एव वव्रे रहसि सख्याः पतिम् ऋतौ सती

राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।
स्मरञ्छुक्रवच: काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥

राज-पुत्र्या अर्थितः अपत्ये धर्मम् च अवेक्ष्य धर्म-वित् स्मरन् शुक्र-वचः काले दिष्टम् एव अभ्यपद्यत

यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥

यदुम् च तुर्वसुम् च एव देवयानी व्यजायत द्रुह्युम् च अनुम् च पूरुम् च शर्मिष्ठा वार्षपर्वणी

गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी ।
देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ ३४ ॥

गर्भ-सम्भवम् आसुर्याः भर्तुः विज्ञाय मानिनी देवयानी पितुः गेहम् ययौ क्रोध-विमूर्छिता

प्रियामनुगत: कामी वचोभिरुपमन्त्रयन् ।
न प्रसादयितुं शेके पादसंवाहनादिभि: ॥ ३५ ॥

प्रियाम् अनुगतः कामी वचोभिः उपमन्त्रयन् न प्रसादयितुम् शेके पाद-संवाहन-आदिभिः

शुक्रस्तमाह कुपित: स्त्रीकामानृतपूरुष ।
त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ ३६ ॥

शुक्रः तम् आह कुपितः स्त्री-काम अनृत-पूरुष त्वाम् जरा विशताम् मन्द विरूप-करणी नृणाम्

श्रीययातिरुवाच
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते ।
व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥ ३७ ॥

श्री-ययातिः उवाच अतृप्तः अस्मि अद्य कामानाम् ब्रह्मन् दुहितरि स्म ते व्यत्यस्यताम् यथा-कामम् वयसा यः अभिधास्यति

इति लब्धव्यवस्थान: पुत्रं ज्येष्ठमवोचत ।
यदो तात प्रतीच्छेमां जरां देहि निजं वय: ॥ ३८ ॥

इति लब्ध-व्यवस्थानः पुत्रम् ज्येष्ठम् अवोचत यदो तात प्रतीच्छ इमाम् जराम् देहि निजम् वयः

मातामहकृतां वत्स न तृप्तो विषयेष्वहम् ।
वयसा भवदीयेन रंस्ये कतिपया: समा: ॥ ३९ ॥

मातामह-कृताम् वत्स न तृप्तः विषयेषु अहम् वयसा भवदीयेन रंस्ये कतिपयाः समाः

श्रीयदुरुवाच
नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव ।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुष: ॥ ४० ॥

श्री-यदुः उवाच न उत्सहे जरसा स्थातुम् अन्तरा प्राप्तया तव अविदित्वा सुखम् ग्राम्यम् वैतृष्ण्यम् न एति पूरुषः

तुर्वसुश्चोदित: पित्रा द्रुह्युश्चानुश्च भारत ।
प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धय: ॥ ४१ ॥

तुर्वसुः चोदितः पित्रा द्रुह्युः च अनुः च भारत प्रत्याचख्युः अधर्म-ज्ञाः हि अ-नित्ये नित्य-बुद्धयः

अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।
न त्वमग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥

अपृच्छत् तनयम् पूरुम् वयसा ऊनम् गुण-अधिकम् न त्वम् अग्रज-वत् वत्स माम् प्रत्याख्यातुम् अर्हसि

श्रीपूरुरुवाच
को नु लोके मनुष्येन्द्र पितुरात्मकृत: पुमान् ।
प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥

श्री-पूरुः उवाच कः नु लोके मनुष्य-इन्द्र पितुः आत्म-कृतः पुमान् प्रतिकर्तुम् क्षमः यस्य प्रसादात् विन्दते परम्

उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यम: ।
अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितु: ॥ ४४ ॥

उत्तमः चिन्तितम् कुर्यात् प्रोक्त-कारी तु मध्यमः अधमः अश्रद्धया कुर्यात् अकर्ता उच्चरितम् पितुः

इति प्रमुदित: पूरु: प्रत्यगृह्णाज्जरां पितु: ।
सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥

इति प्रमुदितः पूरुः प्रत्यगृह्णात् जराम् पितुः सः अपि तत्-वयसा कामान् यथा-वत् जुजुषे नृप

सप्तद्वीपपति: सम्यक् पितृवत् पालयन् प्रजा: ।
यथोपजोषं विषयाञ्जुजुषेऽव्याहतेन्द्रिय: ॥ ४६ ॥

सप्त-द्वीप-पतिः संयक् पितृ-वत् पालयन् प्रजाः यथा-उपजोषम् विषयान् जुजुषे अव्याहत इन्द्रियः

देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभि: ।
प्रेयस: परमां प्रीतिमुवाह प्रेयसी रह: ॥ ४७ ॥

देवयानी अपि अनुदिनम् मनः-वाक् देह वस्तुभिः प्रेयसः परमाम् प्रीतिम् उवाह प्रेयसी रहः

अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणै: ।
सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥

अयजत् यज्ञ-पुरुषम् क्रतुभिः भूरि-दक्षिणैः सर्व-देव-मयम् देवम् सर्व-वेद-मयम् हरिम्

यस्मिन्निदं विरचितं व्योम्नीव जलदावलि: ।
नानेव भाति नाभाति स्वप्नमायामनोरथ: ॥ ४९ ॥

यस्मिन् इदम् विरचितम् व्योम्नि इव जलद-आवलिः नाना इव भाति न आभाति स्वप्न-माया मनः-रथः

तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।
नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ ५० ॥

तम् एव हृदि विन्यस्य वासुदेवम् गुह-आशयम् नारायणम् अणीयांसम् निराशीः अयजत् प्रभुम्

एवं वर्षसहस्राणि मन:षष्ठैर्मन:सुखम् ।
विदधानोऽपि नातृप्यत् सार्वभौम: कदिन्द्रियै: ॥ ५१ ॥

एवम् वर्ष-सहस्राणि मनः-षष्ठैः मनः-सुखम् विदधानः अपि न अतृप्यत् सार्व-भौमः कत्-इन्द्रियैः

९.१९

श्रीशुक उवाच
स इत्थमाचरन् कामान् स्त्रैणोऽपह्नवमात्मन: ।
बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ १ ॥

श्री-शुकः उवाच सः इत्थम् आचरन् कामान् स्त्रैणः अपह्नवम् आत्मनः बुद्ध्वा प्रियायै निर्विण्णः गाथाम् एताम् अगायत

श‍ृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि ।
धीरा यस्यानुशोचन्ति वने ग्रामनिवासिन: ॥ २ ॥

शृणु भार्गवि अमूम् गाथाम् मत्-विधा आचरिताम् भुवि धीराः यस्य अनुशोचन्ति वने ग्राम-निवासिनः

बस्त एको वने कश्चिद् विचिन्वन् प्रियमात्मन: ।
ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ ३ ॥

बस्तः एकः वने कश्चित् विचिन्वन् प्रियम् आत्मनः ददर्श कूपे पतिताम् स्व-कर्म-वश-गाम् अजाम्

तस्या उद्धरणोपायं बस्त: कामी विचिन्तयन् ।
व्यधत्त तीर्थमुद्‍धृत्य विषाणाग्रेण रोधसी ॥ ४ ॥

तस्याः उद्धरण-उपायम् बस्तः कामी विचिन्तयन् व्यधत्त तीर्थम् उद्धृत्य विषाण-अग्रेण रोधसी

सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल ।
तया वृतं समुद्वीक्ष्य बह्व्योऽजा: कान्तकामिनी: ॥ ५ ॥
पीवानं श्मश्रुलं प्रेष्ठं मीढ्‍वांसं याभकोविदम् ।
स एकोऽजवृषस्तासां बह्वीनां रतिवर्धन: ।
रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ ६ ॥

सा उत्तीर्य कूपात् सु-श्रोणी तम् एव चकमे किल तया वृतम् समुद्वीक्ष्य बह्व्यः अजाः कान्त-कामिनीः पीवानम् श्मश्रुलम् प्रेष्ठम् मीढ्वांसम् याभ-कोविदम् सः एकः अज-वृषः तासाम् बह्वीनाम् रति-वर्धनः रेमे काम-ग्रह-ग्रस्तः आत्मानम् न अवबुध्यत

तमेव प्रेष्ठतमया रममाणमजान्यया ।
विलोक्य कूपसंविग्ना नामृष्यद् बस्तकर्म तत् ॥ ७ ॥

तम् एव प्रेष्ठतमया रममाणम् अजा अन्यया विलोक्य कूप-संविग्ना न अमृष्यत् बस्त-कर्म तत्

तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् ।
इन्द्रियाराममुत्सृज्य स्वामिनं दु:खिता ययौ ॥ ८ ॥

तम् दुर्हृदम् सुहृत्-रूपम् कामिनम् क्षण-सौहृदम् इन्द्रिय-आरामम् उत्सृज्य स्वामिनम् दुःखिता ययौ

सोऽपि चानुगत: स्त्रैण: कृपणस्तां प्रसादितुम् ।
कुर्वन्निडविडाकारं नाशक्नोत् पथि सन्धितुम् ॥ ९ ॥

सः अपि च अनुगतः स्त्रैणः कृपणः ताम् प्रसादितुम् कुर्वन् इडविडा-कारम् न अशक्नोत् पथि सन्धितुम्

तस्यतत्र द्विज: कश्चिदजास्वाम्यच्छिनद् रुषा ।
लम्बन्तं वृषणं भूय: सन्दधेऽर्थाय योगवित् ॥ १० ॥

तस्य तत्र द्विजः कश्चित् अजा-स्वामी अच्छिनत् रुषा लम्बन्तम् वृषणम् भूयः सन्दधे अर्थाय योग-वित्

सम्बद्धवृषण: सोऽपि ह्यजया कूपलब्धया ।
कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ ११ ॥

सम्बद्ध-वृषणः सः अपि हि अजया कूप-लब्धया कालम् बहु-तिथम् भद्रे कामैः न अद्य अपि तुष्यति

तथाहं कृपण: सुभ्रु भवत्या: प्रेमयन्त्रित: ।
आत्मानं नाभिजानामि मोहितस्तव मायया ॥ १२ ॥

तथा अहम् कृपणः सु-भ्रु भवत्याः प्रेम-यन्त्रितः आत्मानम् न अभिजानामि मोहितः तव मायया

यत् पृथिव्यां व्रीहियवं हिरण्यं पशव: स्त्रिय: ।
न दुह्यन्ति मन:प्रीतिं पुंस: कामहतस्य ते ॥ १३ ॥

यत् पृथिव्याम् व्रीहि यवम् हिरण्यम् पशवः स्त्रियः न दुह्यन्ति मनः-प्रीतिम् पुंसः काम-हतस्य ते

न जातु काम: कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४ ॥

न जातु कामः कामानाम् उपभोगेन शांयति हविषा कृष्ण-वर्त्मा इव भूयः एव अभिवर्धते

यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।
समद‍ृष्टेस्तदा पुंस: सर्वा: सुखमया दिश: ॥ १५ ॥

यदा न कुरुते भावम् सर्व-भूतेषु अमङ्गलम् सम-दृष्टेः तदा पुंसः सर्वाः सुख-मयाः दिशः

या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते ।
तां तृष्णां दु:खनिवहां शर्मकामो द्रुतं त्यजेत् ॥ १६ ॥

या दुस्त्यजा दुर्मतिभिः जीर्यतः या न जीर्यते ताम् तृष्णाम् दुःख-निवहाम् शर्म-कामः द्रुतम् त्यजेत्

मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १७ ॥

मात्रा स्वस्रा दुहित्रा वा न अविविक्त-आसनः भवेत् बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपि कर्षति

पूर्णं वर्षसहस्रं मे विषयान् सेवतोऽसकृत् ।
तथापि चानुसवनं तृष्णा तेषूपजायते ॥ १८ ॥

पूर्णम् वर्ष-सहस्रम् मे विषयान् सेवतः असकृत् तथा अपि च अनुसवनम् तृष्णा तेषु उपजायते

तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् ।
निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगै: सह ॥ १९ ॥

तस्मात् एताम् अहम् त्यक्त्वा ब्रह्मणि अध्याय मानसम् निर्द्वन्द्वः निरहङ्कारः चरिष्यामि मृगैः सह

द‍ृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन्न सन्दिशेत् ।
संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मद‍ृक् ॥ २० ॥

दृष्टम् श्रुतम् असत् बुद्ध्वा न अनुध्यायेत् न सन्दिशेत् संसृतिम् च आत्म-नाशम् च तत्र विद्वान् सः आत्म-दृक्

इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वय: ।
दत्त्वा स्वजरसं तस्मादाददे विगतस्पृह: ॥ २१ ॥

इति उक्त्वा नाहुषः जायाम् तदीयम् पूरवे वयः दत्त्वा स्व-जरसम् तस्मात् आददे विगत-स्पृहः

दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् ।
प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ २२ ॥

दिशि दक्षिण-पूर्वस्याम् द्रुह्युम् दक्षिणतः यदुम् प्रतीच्याम् तुर्वसुम् चक्रे उदीच्याम् अनुम् ईश्वरम्

भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् ।
अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ ॥ २३ ॥

भू-मण्डलस्य सर्वस्य पूरुम् अर्हत्-तमम् विशाम् अभिषिच्य अग्रजान् तस्य वशे स्थाप्य वनम् ययौ

आसेवितं वर्षपूगान् षड्‍वर्गं विषयेषु स: ।
क्षणेन मुमुचे नीडं जातपक्ष इव द्विज: ॥ २४ ॥

आसेवितम् वर्ष-पूगान् षट्-वर्गम् विषयेषु सः क्षणेन मुमुचे नीडम् जात-पक्षः इव द्विजः

स तत्र निर्मुक्तसमस्तसङ्ग
आत्मानुभूत्या विधुतत्रिलिङ्ग: ।
परेऽमले ब्रह्मणि वासुदेवे
लेभे गतिं भागवतीं प्रतीत: ॥ २५ ॥

सः तत्र निर्मुक्त समस्त-सङ्गः आत्म-अनुभूत्या विधुत त्रि-लिङ्गः परे अमले ब्रह्मणि वासुदेवे लेभे गतिम् भागवतीम् प्रतीतः

श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मन: ।
स्त्रीपुंसो: स्‍नेहवैक्लव्यात् परिहासमिवेरितम् ॥ २६ ॥

श्रुत्वा गाथाम् देवयानी मेने प्रस्तोभम् आत्मनः स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इव ईरितम्

सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् ।
विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभो: ॥ २७ ॥
सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी ।
कृष्णे मन: समावेश्य व्यधुनोल्लिङ्गमात्मन: ॥ २८ ॥

सा सन्निवासम् सुहृदाम् प्रपायाम् इव गच्छताम् विज्ञाय ईश्वर-तन्त्राणाम् माया-विरचितम् प्रभोः सर्वत्र सङ्गम् उत्सृज्य स्वप्न-औपम्येन भार्गवी कृष्णे मनः समावेश्य व्यधुनोत् लिङ्गम् आत्मनः

नमस्तुभ्यं भगवते वासुदेवाय वेधसे ।
सर्वभूताधिवासाय शान्ताय बृहते नम: ॥ २९ ॥

नमः तुभ्यम् भगवते वासुदेवाय वेधसे सर्व-भूत-अधिवासाय शान्ताय बृहते नमः

९.२०

श्रीबादरायणिरुवाच
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत ।
यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥

श्री-बादरायणिः उवाच पूरोः वंशम् प्रवक्ष्यामि यत्र जातः असि भारत यत्र राज-ऋषयः वंश्याः ब्रह्म-वंश्याः च जज्ञिरे

जनमेजयो ह्यभूत् पूरो: प्रचिन्वांस्तत्सुतस्तत: ।
प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥

जनमेजयः हि अभूत् पूरोः प्रचिन्वान् तत् सुतः ततः प्रवीरः अथ मनुस्युः वै तस्मात् चारुपदः अभवत्

तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्तत: ।
संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुत: स्मृत: ॥ ३ ॥

तस्य सुद्युः अभूत् पुत्रः तस्मात् बहुगवः ततः संयातिः तस्य अहंयातिः रौद्राश्वः तत्-सुतः स्मृतः

ऋतेयुस्तस्य कक्षेयु: स्थण्डिलेयु: कृतेयुक: ।
जलेयु: सन्नतेयुश्च धर्मसत्यव्रतेयव: ॥ ४ ॥
दशैतेऽप्सरस: पुत्रा वनेयुश्चावम: स्मृत: ।
घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मन: ॥ ५ ॥

ऋतेयुः तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः जलेयुः सन्नतेयुः च धर्म सत्य व्रतेयवः दश एते अप्सरसः पुत्राः वनेयुः च अवमः स्मृतः घृताच्याम् इन्द्रियाणि इव मुख्यस्य जगत्-आत्मनः

ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप ।
सुमतिर्ध्रुवोऽप्रतिरथ: कण्वोऽप्रतिरथात्मज: ॥ ६ ॥

ऋतेयोः रन्तिनावः अभूत् त्रयः तस्य आत्मजाः नृप सुमतिः ध्रुवः अप्रतिरथः कण्वः अप्रतिरथ-आत्मजः

तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातय: ।
पुत्रोऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मत: ॥ ७ ॥

तस्य मेधातिथिः तस्मात् प्रस्कन्न-आद्याः द्विजातयः पुत्रः अभूत् सुमतेः रेभिः दुष्मन्तः तत्-सुतः मतः

दुष्मन्तो मृगयां यात: कण्वाश्रमपदं गत: ।
तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥
विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् ।
बभाषे तां वरारोहां भटै: कतिपयैर्वृत: ॥ ९ ॥

दुष्मन्तः मृगयाम् यातः कण्व-आश्रम-पदम् गतः तत्र आसीनाम् स्व-प्रभया मण्डयन्तीम् रमाम् इव विलोक्य सद्यः मुमुहे देव-मायाम् इव स्त्रियम् बभाषे ताम् वर-आरोहाम् भटैः कतिपयैः वृतः

तद्दर्शनप्रमुदित: सन्निवृत्तपरिश्रम: ।
पप्रच्छ कामसन्तप्त: प्रहसञ्श्लक्ष्णया गिरा ॥ १० ॥

तत्-दर्शन-प्रमुदितः सन्निवृत्त-परिश्रमः पप्रच्छ काम-सन्तप्तः प्रहसन् श्लक्ष्णया गिरा

का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे ।
किंस्विच्चिकीर्षितं तत्र भवत्या निर्जने वने ॥ ११ ॥

का त्वम् कमल-पत्र-अक्षि कस्य असि हृदयम्-गमे किम् स्वित् चिकीर्षितम् तत्र भवत्याः निर्जने वने

व्यक्तं राजन्यतनयां वेद्‍म्यहं त्वां सुमध्यमे ।
न हि चेत: पौरवाणामधर्मे रमते क्‍वचित् ॥ १२ ॥

व्यक्तम् राजन्य-तनयाम् वेद्मि अहम् त्वाम् सु-मध्यमे न हि चेतः पौरवाणाम् अधर्मे रमते क्वचित्

श्रीशकुन्तलोवाच
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने ।
वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥

श्री-शकुन्तला उवाच विश्वामित्र-आत्मजा एव अहम् त्यक्ता मेनकया वने वेद एतत् भगवान् कण्वः वीर किम् करवाम ते

आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च न: ।
भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥

आस्यताम् हि अरविन्द-अक्ष गृह्यताम् अर्हणम् च नः भुज्यताम् सन्ति नीवाराः उष्यताम् यदि रोचते

श्रीदुष्मन्त उवाच
उपपन्नमिदं सुभ्रु जाताया: कुशिकान्वये ।
स्वयं हि वृणुते राज्ञां कन्यका: सद‍ृशं वरम् ॥ १५ ॥

श्री-दुष्मन्तः उवाच उपपन्नम् इदम् सु-भ्रु जातायाः कुशिक-अन्वये स्वयम् हि वृणुते राज्ञाम् कन्यकाः सदृशम् वरम्

ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् ।
गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥

ओम् इति उक्ते यथा-धर्मम् उपयेमे शकुन्तलाम् गान्धर्व-विधिना राजा देश-काल-विधान-वित्

अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे ।
श्वोभूते स्वपुरं यात: कालेनासूत सा सुतम् ॥ १७ ॥

अमोघ-वीर्यः राज-ऋषिः महिष्याम् वीर्यम् आदधे श्वः-भूते स्व-पुरम् यातः कालेन असूत सा सुतम्

कण्व: कुमारस्य वने चक्रे समुचिता: क्रिया: ।
बद्ध्वा मृगेन्द्रंतरसा क्रीडति स्म स बालक: ॥ १८ ॥

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः बद्ध्वा मृग-इन्द्रम् तरसा क्रीडति स्म सः बालकः

तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा ।
हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥ १९ ॥

तम् दुरत्यय-विक्रान्तम् आदाय प्रमदा-उत्तमा हरेः अंश-अंश-सम्भूतम् भर्तुः अन्तिकम् आगमत्

यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ ।
श‍ृण्वतां सर्वभूतानां खे वागाहाशरीरिणी ॥ २० ॥

यदा न जगृहे राजा भार्या-पुत्रौ अनिन्दितौ शृण्वताम् सर्व-भूतानाम् खे वाक् आह अशरीरिणी

माता भस्त्रा पितु: पुत्रो येन जात: स एव स: ।
भरस्व पुत्रं दुष्मन्त मावमंस्था: शकुन्तलाम् ॥ २१ ॥

माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः भरस्व पुत्रम् दुष्मन्त मा अवमंस्थाः शकुन्तलाम्

रेतोधा: पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥

रेतः-धाः पुत्रः नयति नर-देव यम-क्षयात् त्वम् च अस्य धाता गर्भस्य सत्यम् आह शकुन्तला

पितर्युपरते सोऽपि चक्रवर्ती
महायशा: ।
महिमा
गीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥

पितरि उपरते सः अपि चक्रवर्ती महा-यशाः महिमा गीयते तस्य हरेः अंश-भुवः भुवि

चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयो: ।
ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभु: ॥ २४ ॥
पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभि: ।
मामतेयं पुरोधाय यमुनामनु च प्रभु: ॥ २५ ॥
अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु ।
भरतस्य हि दौष्मन्तेरग्नि: साचीगुणे चित: ।
सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥

चक्रम् दक्षिण-हस्ते अस्य पद्म-कोशः अस्य पादयोः ईजे महा-अभिषेकेण सः अभिषिक्तः अधिराट् विभुः पञ्च-पञ्चाशता मेध्यैः गङ्गायाम् अनु वाजिभिः मामतेयम् पुरोधाय यमुनाम् अनु च प्रभुः अष्ट-सप्तति मेध्य-अश्वान् बबन्ध प्रददत् वसु भरतस्य हि दौष्मन्तेः अग्निः साची-गुणे चितः सहस्रम् बद्वशः यस्मिन् ब्राह्मणाः गाः विभेजिरे

त्रयस्त्रिंशच्छतं ह्यश्वान्बद्ध्वा विस्मापयन् नृपान् ।
दौष्मन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥ २७ ॥

त्रयः त्रिंशत् शतम् हि अश्वान् बद्ध्वा विस्मापयन् नृपान् दौष्मन्तिः अत्यगात् मायाम् देवानाम् गुरुम् आययौ

मृगाञ्छुक्लदत: कृष्णान् हिरण्येन परीवृतान् ।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥

मृगान् शुक्ल-दतः कृष्णान् हिरण्येन परीवृतान् अदात् कर्मणि मष्णारे नियुतानि चतुर्दश

भरतस्य महत् कर्म न पूर्वे नापरे नृपा: ।
नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥

भरतस्य महत् कर्म न पूर्वे न अपरे नृपाः न एव आपुः न एव प्राप्स्यन्ति बाहुभ्याम् त्रि-दिवम् यथा

किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशाञ्छकान् ।
अब्रह्मण्यनृपांश्चाहन् म्‍लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥

किरात हूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् शकान् अब्रह्मण्य नृपान् च अहन् म्लेच्छान् दिक्-विजये अखिलान्

जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे ।
देवस्त्रियो रसां नीता: प्राणिभि: पुनराहरत् ॥ ३१ ॥

जित्वा पुरा असुराः देवान् ये रस-ओकांसि भेजिरे देव-स्त्रियः रसाम् नीताः प्राणिभिः पुनः आहरत्

सर्वान्कामान् दुदुहतु: प्रजानां तस्य रोदसी ।
समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥ ३२ ॥

सर्वान् कामान् दुदुहतुः प्रजानाम् तस्य रोदसी समाः त्रि-नव-साहस्रीः दिक्षु चक्रम् अवर्तयत्

स संराड्‍लोकपालाख्यमैश्वर्यमधिराट् श्रियम् ।
चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥ ३३ ॥

सः संराट् लोक-पाल-आख्यम् ऐश्वर्यम् अधिराट् श्रियम् चक्रम् च अस्खलितम् प्राणान् मृषा इति उपरराम ह

तस्यासन् नृप वैदर्भ्य: पत्‍न्यस्तिस्र: सुसम्मता: ।
जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ ३४ ॥

तस्य आसन् नृप वैदर्भ्यः पत्न्यः तिस्रः सु-सम्मताः जघ्नुः त्याग-भयात् पुत्रान् न अनुरूपाः इति ईरिते

तस्यैवं वितथे वंशे तदर्थं यजत: सुतम् ।
मरुत्स्तोमेन मरुतो भरद्वाजमुपाददु: ॥ ३५ ॥

तस्य एवम् वितथे वंशे तत्-अर्थम् यजतः सुतम् मरुत्-स्तोमेन मरुतः भरद्वाजम् उपाददुः

अन्तर्वत्‍न्यां भ्रातृपत्‍न्यां मैथुनाय बृहस्पति: ।
प्रवृत्तो वारितो गर्भं शप्‍त्वा वीर्यमुपासृजत् ॥ ३६ ॥

अन्तः-वत्न्याम् भ्रातृ-पत्न्याम् मैथुनाय बृहस्पतिः प्रवृत्तः वारितः गर्भम् शप्त्वा वीर्यम् उपासृजत्

तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् ।
नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगु: ॥ ३७ ॥

तम् त्यक्तु-कामाम् ममताम् भर्तुः त्याग-विशङ्किताम् नाम-निर्वाचनम् तस्य श्लोकम् एनम् सुराः जगुः

मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥

मूढे भर द्वाजम् इमम् भर द्वाजम् बृहस्पते यातौ यत् उक्त्वा पितरौ भरद्वाजः ततः तु अयम्

चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् ।
व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥

चोद्यमाना सुरैः एवम् मत्वा वितथम् आत्मजम् व्यसृजत् मरुतः अबिभ्रन् दत्तः अयम् वितथे अन्वये

९.२१

श्रीशुक उवाच
वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्तत: ।
महावीर्यो नरो गर्ग: सङ्‍कृतिस्तु नरात्मज: ॥ १ ॥

श्री-शुकः उवाच वितथस्य सुतात् मन्योः बृहत्क्षत्रः जयः ततः महावीर्यः नरः गर्गः सङ्कृतिः तु नर-आत्मजः

गुरुश्च रन्तिदेवश्च सङ्‍कृते: पाण्डुनन्दन ।
रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥

गुरुः च रन्तिदेवः च सङ्कृतेः पाण्डु-नन्दन रन्तिदेवस्य महिमा इह अमुत्र च गीयते

वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षत: ।
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदत: ॥ ३ ॥
व्यतीयुरष्टचत्वारिंशदहान्यपिबत: किल ।
घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥
कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथो: ।
अतिथिर्ब्राह्मण: काले भोक्तुकामस्य चागमत् ॥ ५ ॥

वियत्-वित्तस्य ददतः लब्धम् लब्धम् बुभुक्षतः निष्किञ्चनस्य धीरस्य स-कुटुम्बस्य सीदतः व्यतीयुः अष्ट-चत्वारिंशत् अहानि अपिबतः किल घृत-पायस संयावम् तोयम् प्रातः उपस्थितम् कृच्छ्र-प्राप्त कुटुम्बस्य क्षुत्-तृड्भ्याम् जात वेपथोः अतिथिः ब्राह्मणः काले भोक्तु-कामस्य च आगमत्

तस्मै संव्यभजत् सोऽन्नमाद‍ृत्य श्रद्धयान्वित: ।
हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विज: ॥ ६ ॥

तस्मै संव्यभजत् सः अन्नम् आदृत्य श्रद्धया अन्वितः हरिम् सर्वत्र संपश्यन् सः भुक्त्वा प्रययौ द्विजः

अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपते: ।
विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥

अथ अन्यः भोक्ष्यमाणस्य विभक्तस्य महीपतेः विभक्तम् व्यभजत् तस्मै वृषलाय हरिम् स्मरन्

याते शूद्रे तमन्योऽगादतिथि: श्वभिरावृत: ।
राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ ८ ॥

याते शूद्रे तम् अन्यः अगात् अतिथिः श्वभिः आवृतः राजन् मे दीयताम् अन्नम् स-गणाय बुभुक्षते

स आद‍ृत्यावशिष्टं यद्म बहुमानपुरस्कृतम् ।
तच्च दत्त्वा नमश्चक्रे श्वभ्य: श्वपतये विभु: ॥ ९ ॥

सः आदृत्य अवशिष्टम् यत् बहु-मान-पुरस्कृतम् तत् च दत्त्वा नमः-चक्रे श्वभ्यः श्व-पतये विभुः

पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् ।
पास्यत: पुल्कसोऽभ्यागादपो देह्यशुभाय मे ॥ १० ॥

पानीय-मात्रम् उच्छेषम् तत् च एक परितर्पणम् पास्यतः पुल्कसः अभ्यागात् अपः देहि अशुभाय मे

तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् ।
कृपया भृशसन्तप्त इदमाहामृतं वच: ॥ ११ ॥

तस्य ताम् करुणाम् वाचम् निशम्य विपुल श्रमाम् कृपया भृश-सन्तप्तः इदम् आह अमृतम् वचः

न कामयेऽहं गतिमीश्वरात् परा-
मष्टर्द्धियुक्तामपुनर्भवं वा ।
आर्तिं प्रपद्येऽखिलदेहभाजा-
मन्त:स्थितो येन भवन्त्यदु:खा: ॥ १२ ॥

न कामये अहम् गतिम् ईश्वरात् पराम् अष्ट-ऋद्धि-युक्ताम् अपुनः-भवम् वा आर्तिम् प्रपद्ये अखिल-देह-भाजाम् अन्तः-स्थितः येन भवन्ति अदुःखाः

क्षुत्तृट्‍श्रमो गात्रपरिभ्रमश्च
दैन्यं क्लम: शोकविषादमोहा: ।
सर्वे निवृत्ता: कृपणस्य जन्तो-
र्जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥

क्षुत् तृट् श्रमः गात्र-परिभ्रमः च दैन्यम् क्लमः शोक विषाद मोहाः सर्वे निवृत्ताः कृपणस्य जन्तोः जिजीविषोः जीव जल अर्पणात् मे

इति प्रभाष्य पानीयं म्रियमाण: पिपासया ।
पुल्कसायाददाद्धीरो निसर्गकरुणो नृप: ॥ १४ ॥

इति प्रभाष्य पानीयम् म्रियमाणः पिपासया पुल्कसाय अददात् धीरः निसर्ग-करुणः नृपः

तस्य त्रिभुवनाधीशा: फलदा: फलमिच्छताम् ।
आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिता: ॥ १५ ॥

तस्य त्रि-भुवन-अधीशाः फलदाः फलम् इच्छताम् आत्मानम् दर्शयाम् चक्रुः मायाः विष्णु विनिर्मिताः

स वै तेभ्यो नमस्कृत्य नि:सङ्गो विगतस्पृह: ।
वासुदेवे भगवति भक्त्या चक्रे मन: परम् ॥ १६ ॥

सः वै तेभ्यः नमः-कृत्य निःसङ्गः विगत-स्पृहः वासुदेवे भगवति भक्त्या चक्रे मनः परम्

ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधस: ।
माया गुणमयी राजन्स्वप्नवत् प्रत्यलीयत ॥ १७ ॥

ईश्वर-आलम्बनम् चित्तम् कुर्वतः अनन्य-राधसः माया गुण-मयी राजन् स्वप्न-वत् प्रत्यलीयत

तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिन: ।
अभवन् योगिन: सर्वे नारायणपरायणा: ॥ १८ ॥

तत्-प्रसङ्ग-अनुभावेन रन्तिदेव-अनुवर्तिनः अभवन् योगिनः सर्वे नारायण-परायणाः

गर्गाच्छिनिस्ततो गार्ग्य: क्षत्राद् ब्रह्म ह्यवर्तत ।
दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणि: कवि: ॥ १९ ॥
पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गता: ।
बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् ॥ २० ॥

गर्गात् शिनिः ततः गार्ग्यः क्षत्रात् ब्रह्म हि अवर्तत दुरितक्षयः महावीर्यात् तस्य त्रय्यारुणिः कविः पुष्करारुणिः इति अत्र ये ब्राह्मण-गतिम् गताः बृहत्क्षत्रस्य पुत्रः अभूत् हस्ती यत् हस्तिनापुरम्

अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिन: ।
अजमीढस्य वंश्या: स्यु: प्रियमेधादयो द्विजा: ॥ २१ ॥

अजमीढः द्विमीढः च पुरुमीढः च हस्तिनः अजमीढस्य वंश्याः स्युः प्रियमेध-आदयः द्विजाः

अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: ।
बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥ २२ ॥

अजमीढात् बृहदिषुः तस्य पुत्रः बृहद्धनुः बृहत्कायः ततः तस्य पुत्रः आसीत् जयद्रथः

तत्सुतो विशदस्तस्य स्येनजित् समजायत ।
रुचिराश्वो द‍ृढहनु: काश्यो वत्सश्च तत्सुता: ॥ २३ ॥

तत्-सुतः विशदः तस्य स्येनजित् समजायत रुचिराश्वः दृढहनुः काश्यः वत्सः च तत्-सुताः

रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: ।
पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥

रुचिराश्व-सुतः पारः पृथुसेनः तत् आत्मजः पारस्य तनयः नीपः तस्य पुत्र-शतम् तु अभूत्

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।
योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ २५ ॥

सः कृत्व्याम् शुक-कन्यायाम् ब्रह्मदत्तम् अजीजनत् योगी सः गवि भार्यायाम् विष्वक्सेनम् अधात् सुतम्

जैगीषव्योपदेशेन योगतन्त्रं चकार ह ।
उदक्सेनस्ततस्तस्माद् भल्लाटो बार्हदीषवा: ॥ २६ ॥

जैगीषव्य उपदेशेन योग-तन्त्रम् चकार ह उदक्सेनः ततः तस्मात् भल्लाटः बार्हदीषवाः

यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: ।
नाम्ना सत्यधृतिस्तस्य द‍ृढनेमि: सुपार्श्वकृत् ॥ २७ ॥

यवीनरः द्विमीढस्य कृतिमान् तत्-सुतः स्मृतः नाम्ना सत्यधृतिः तस्य दृढनेमिः सुपार्श्व-कृत्

सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: ।
कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥
संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: ।
तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥

सुपार्श्वात् सुमतिः तस्य पुत्रः सन्नतिमान् ततः कृती हिरण्यनाभात् यः योगम् प्राप्य जगौ स्म षट् संहिताः प्राच्यसाम्नाम् वै नीपः हि उद्ग्रायुधः ततः तस्य क्षेम्यः सुवीरः अथ सुवीरस्य रिपुञ्जयः

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् ।
नलिन्यामजमीढस्य नील: शान्तिस्तु तत्सुत: ॥ ३० ॥

ततः बहुरथः नाम पुरुमीढः अप्रजः अभवत् नलिन्याम् अजमीढस्य नीलः शान्तिः तु तत्-सुतः

शान्ते: सुशान्तिस्तत्पुत्र: पुरुजोऽर्कस्ततोऽभवत् ।
भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादय: ॥ ३१ ॥
यवीनरो बृहद्विश्व: काम्पिल्ल: सञ्जय: सुता: ।
भर्म्याश्व: प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥
विषयाणामलमिमे इति पञ्चालसंज्ञिता: ।
मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥

शान्तेः सुशान्तिः तत्-पुत्रः पुरुजः अर्कः ततः अभवत् भर्म्याश्वः तनयः तस्य पञ्च आसन् मुद्गल-आदयः यवीनरः बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः भर्म्याश्वः प्राह पुत्राः मे पञ्चानाम् रक्षणाय हि विषयाणाम् अलम् इमे इति पञ्चाल संज्ञिताः मुद्गलात् ब्रह्म-निर्वृत्तम् गोत्रम् मौद्गल्य संज्ञितम्

मिथुनं मुद्गलाद् भार्म्याद् दिवोदास: पुमानभूत् ।
अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥

मिथुनम् मुद्गलात् भार्म्यात् दिवोदासः पुमान् अभूत् अहल्या कन्यका यस्याम् शतानन्दः तु गौतमात्

तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: ।
शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ।
शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३५ ॥

तस्य सत्यधृतिः पुत्रः धनुः-वेद-विशारदः शरद्वान् तत्-सुतः यस्मात् उर्वशी-दर्शनात् किल शर-स्तम्बे अपतत् रेतः मिथुनम् तत् अभूत् शुभम्

तद् दृष्ट्वा कृपयागृह्णाच्छान्तनुर्मृगयां चरन् ।
कृप: कुमार: कन्या च द्रोणपत्‍न्यभवत्कृपी ॥ ३६ ॥

तत् दृष्ट्वा कृपया अगृह्णात् शान्तनुः मृगयाम् चरन् कृपः कुमारः कन्या च द्रोण-पत्नी अभवत् कृपी

९.२२

श्रीशुक उवाच
मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप ।
सुदास: सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥

श्री-शुकः उवाच मित्रायुः च दिवोदासात् च्यवनः तत्-सुतः नृप सुदासः सहदेवः अथ सोमकः जन्तु-जन्म-कृत्

तस्य पुत्रशतं तेषां यवीयान् पृषत: सुत: ।
स तस्माद् द्रुपदो जज्ञे सर्वसम्पत्समन्वित: ॥ २ ॥

तस्य पुत्र-शतम् तेषाम् यवीयान् पृषतः सुतः सः तस्मात् द्रुपदः जज्ञे सर्व-सम्पत् समन्वितः

द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादय: सुता: ।
धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्या: पाञ्चालका इमे ॥ ३ ॥

द्रुपदात् द्रौपदी तस्य धृष्टद्युम्न-आदयः सुताः धृष्टद्युम्नात् धृष्टकेतुः भार्म्याः पाञ्चालकाः इमे

योऽजमीढसुतो ह्यन्य ऋक्ष: संवरणस्तत: ।
तपत्यां सूर्यकन्यायां कुरुक्षेत्रपति: कुरु: ॥ ४ ॥
परीक्षि: सुधनुर्जह्नुर्निषधश्च कुरो: सुता: ।
सुहोत्रोऽभूत् सुधनुषश्‍च्यवनोऽथ तत: कृती ॥ ५ ॥

यः अजमीढ-सुतः हि अन्यः ऋक्षः संवरणः ततः तपत्याम् सूर्य-कन्यायाम् कुरुक्षेत्र-पतिः कुरुः परीक्षिः सुधनुः जह्नुः निषधः च कुरोः सुताः सुहोत्रः अभूत् सुधनुषः च्यवनः अथ ततः कृती

वसुस्तस्योपरिचरो बृहद्रथमुखास्तत: ।
कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च चेदिपा: ॥ ६ ॥

वसुः तस्य उपरिचरः बृहद्रथ-मुखाः ततः कुशाम्ब मत्स्य प्रत्यग्र चेदिप-आद्याः च चेदि-पाः

बृहद्रथात् कुशाग्रोऽभूद‍ृषभस्तस्य तत्सुत: ।
जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहु: ॥ ७ ॥

बृहद्रथात् कुशाग्रः अभूत् ऋषभः तस्य तत्-सुतः जज्ञे सत्यहितः अपत्यम् पुष्पवान् तत्-सुतः जहुः

अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ।
ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते ।
जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुत: ॥ ८ ॥

अन्यस्याम् अपि भार्यायाम् शकले द्वे बृहद्रथात् ये मात्रा बहिः उत्सृष्टे जरया च अभिसन्धिते जीव जीव इति क्रीडन्त्या जरासन्धः अभवत् सुतः

ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: ।
परीक्षिरनपत्योऽभूत् सुरथो नाम जाह्नव: ॥ ९ ॥

ततः च सहदेवः अभूत् सोमापिः यत् श्रुतश्रवाः परीक्षिः अनपत्यः अभूत् सुरथः नाम जाह्नवः

ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।
जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥

ततः विदूरथः तस्मात् सार्वभौमः ततः अभवत् जयसेनः तत्-तनयः राधिकः अतः अयुतायुः अभूत्

ततश्चाक्रोधनस्तस्माद् देवातिथिरमुष्य च ।
ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मज: ॥ ११ ॥

ततः च अक्रोधनः तस्मात् देवातिथिः अमुष्य च ऋक्षः तस्य दिलीपः अभूत् प्रतीपः तस्य च आत्म-जः

देवापि: शान्तनुस्तस्य बाह्लीक इति चात्मजा: ।
पितृराज्यं परित्यज्य देवापिस्तु वनं गत: ॥ १२ ॥
अभवच्छान्तनू राजा प्राङ्‌महाभिषसंज्ञित: ।
यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति स: ॥ १३ ॥

देवापिः शान्तनुः तस्य बाह्लीकः इति च आत्म-जाः पितृ-राज्यम् परित्यज्य देवापिः तु वनम् गतः अभवत् शान्तनुः राजा प्राक् महाभिष संज्ञितः यम् यम् कराभ्याम् स्पृशति जीर्णम् यौवनम् एति सः

शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनु: ।
समा द्वादश तद्राज्ये न ववर्ष यदा विभु: ॥ १४ ॥
शान्तनुर्ब्राह्मणैरुक्त: परिवेत्तायमग्रभुक् ।
राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ १५ ॥

शान्तिम् आप्नोति च एव अग्र्याम् कर्मणा तेन शान्तनुः समाः द्वादश तत्-राज्ये न ववर्ष यदा विभुः शान्तनुः ब्राह्मणैः उक्तः परिवेत्ता अयम् अग्र-भुक् राज्यम् देहि अग्रजाय आशु पुर-राष्ट्र विवृद्धये

एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् ।
तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद् विभ्रंशितो गिरा ॥ १६ ॥
वेदवादातिवादान् वै तदा देवो ववर्ष ह ।
देवापिर्योगमास्थाय कलापग्राममाश्रित: ॥ १७ ॥

एवम् उक्तः द्विजैः ज्येष्ठम् छन्दयाम् आस सः अब्रवीत् तत्-मन्त्रि प्रहितैः विप्रैः वेदात् विभ्रंशितः गिरा वेद-वाद-अतिवादान् वै तदा देवः ववर्ष ह देवापिः योगम् आस्थाय कलाप-ग्रामम् आश्रितः

सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ।
बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्तत: ॥ १८ ॥
शलश्च शान्तनोरासीद् गङ्गायां भीष्म आत्मवान् ।
सर्वधर्मविदां श्रेष्ठो महाभागवत: कवि: ॥ १९ ॥

सोम-वंशे कलौ नष्टे कृत-आदौ स्थापयिष्यति बाह्लीकात् सोमदत्तः अभूत् भूरिः भूरि-श्रवाः ततः शलः च शान्तनोः आसीत् गङ्गायाम् भीष्मः आत्मवान् सर्व-धर्म-विदाम् श्रेष्ठः महा-भागवतः कविः

वीरयूथाग्रणीर्येन रामोऽपि युधि तोषित: ।
शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गद: सुत: ॥ २० ॥

वीर-यूथ-अग्रणीः येन रामः अपि युधि तोषितः शान्तनोः दास-कन्यायाम् जज्ञे चित्राङ्गदः सुतः

विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हत: ।
यस्यां पराशरात् साक्षादवतीर्णो हरे: कला ॥ २१ ॥
वेदगुप्तो मुनि: कृष्णो यतोऽहमिदमध्यगाम् ।
हित्वा स्वशिष्यान् पैलादीन्भगवान् बादरायण: ॥ २२ ॥
मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ ।
विचित्रवीर्योऽथोवाह काशीराजसुते बलात् ॥ २३ ॥
स्वयंवरादुपानीते अम्बिकाम्बालिके उभे ।
तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृत: ॥ २४ ॥

विचित्रवीर्यः च अवरजः नाम्ना चित्राङ्गदः हतः यस्याम् पराशरात् साक्षात् अवतीर्णः हरेः कला वेद-गुप्तः मुनिः कृष्णः यतः अहम् इदम् अध्यगाम् हित्वा स्व-शिष्यान् पैल-आदीन् भगवान् बादरायणः मह्यम् पुत्राय शान्ताय परम् गुह्यम् इदम् जगौ विचित्रवीर्यः अथ उवाह काशीराज-सुते बलात् स्वयंवरात् उपानीते अम्बिका-अम्बालिके उभे तयोः आसक्त हृदयः गृहीतः यक्ष्मणा मृतः

क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायण: ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥

क्षेत्रे अप्रजस्य वै भ्रातुः मात्रा उक्तः बादरायणः धृतराष्ट्रम् च पाण्डुम् च विदुरम् च अपि अजीजनत्

गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप ।
तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥ २६ ॥

गान्धार्याम् धृतराष्ट्रस्य जज्ञे पुत्र-शतम् नृप तत्र दुर्योधनः ज्येष्ठः दुःशला च अपि कन्यका

शापान्मैथुनरुद्धस्य पाण्डो: कुन्त्यां महारथा: ।
जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रय: ॥ २७ ॥
नकुल: सहदेवश्च माद्रय‍ां नासत्यदस्रयो: ।
द्रौपद्यां पञ्च पञ्चभ्य: पुत्रास्ते पितरोऽभवन् ॥ २८ ॥

शापात् मैथुन-रुद्धस्य पाण्डोः कुन्त्याम् महा-रथाः जाताः धर्म अनिल इन्द्रेभ्यः युधिष्ठिर मुखाः त्रयः नकुलः सहदेवः च माद्र्याम् नासत्य-दस्रयोः द्रौपद्याम् पञ्च पञ्चभ्यः पुत्राः ते पितरः अभवन्

युधिष्ठिरात् प्रतिविन्ध्य: श्रुतसेनो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलि: ॥ २९ ॥

युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनः वृकोदरात् अर्जुनात् श्रुतकीर्तिः तु शतानीकः तु नाकुलिः

सहदेवसुतो राजञ्छ्रुतकर्मा तथापरे ।
युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कच: ॥ ३० ॥
भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्तत: ।
सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥

सहदेव-सुतः राजन् श्रुतकर्मा तथा अपरे युधिष्ठिरात् तु पौरव्याम् देवकः अथ घटोत्कचः भीमसेनात् हिडिम्बायाम् काल्याम् सर्वगतः ततः सहदेवात् सुहोत्रम् तु विजया असूत पार्वती

करेणुमत्यां नकुलो नरमित्रं तथार्जुन: ।
इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् ।
मणिपुरपते: सोऽपि तत्पुत्र: पुत्रिकासुत: ॥ ३२ ॥

करेणुमत्याम् नकुलः नरमित्रम् तथा अर्जुनः इरावन्तम् उलुप्याम् वै सुतायाम् बभ्रुवाहनम् मणिपुर-पतेः सः अपि तत्-पुत्रः पुत्रिका-सुतः

तव तात: सुभद्रायामभिमन्युरजायत ।
सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥

तव तातः सुभद्रायाम् अभिमन्युः अजायत सर्व-अतिरथ-जित् वीरः उत्तरायाम् ततः भवान्

परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा ।
त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥ ३४ ॥

परिक्षीणेषु कुरुषु द्रौणेः ब्रह्मास्त्र-तेजसा त्वम् च कृष्ण-अनुभावेन सजीवः मोचितः अन्तकात्

तवेमे तनयास्तात जनमेजयपूर्वका: ।
श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ ३५ ॥

तव इमे तनयाः तात जनमेजय पूर्वकाः श्रुतसेनः भीमसेनः उग्रसेनः च वीर्यवान्

जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् ।
सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वित: ॥ ३६ ॥

जनमेजयः त्वाम् विदित्वा तक्षकात् निधनम् गतम् सर्पान् वै सर्प-याग-अग्नौ सः होष्यति रुषा-अन्वितः

कालषेयं पुरोधाय तुरं तुरगमेधषाट् ।
समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरै: ॥ ३७ ॥

कालषेयम् पुरोधाय तुरम् तुरग-मेधषाट् समन्तात् पृथिवीम् सर्वाम् जित्वा यक्ष्यति च अध्वरैः

तस्य पुत्र: शतानीको याज्ञवल्‍क्यात् त्रयीं पठन् ।
अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ ३८ ॥

तस्य पुत्रः शतानीकः याज्ञवल्क्यात् त्रयीम् पठन् अस्त्र-ज्ञानम् क्रिया-ज्ञानम् शौनकात् परम् एष्यति

सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधज: ।
असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुत: ॥ ३९ ॥

सहस्रानीकः तत्-पुत्रः ततः च एव अश्वमेधजः असीमकृष्णः तस्य अपि नेमिचक्रः तु तत्-सुतः

गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति ।
उक्तस्ततश्चित्ररथस्तस्माच्छुचिरथ: सुत: ॥ ४० ॥

गजाह्वये हृते नद्या कौशाम्ब्याम् साधु वत्स्यति उक्तः ततः चित्ररथः तस्मात् शुचिरथः सुतः

तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपति: ।
सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनल: ॥ ४१ ॥

तस्मात् च वृष्टिमान् तस्य सुषेणः अथ मही-पतिः सुनीथः तस्य भविता नृचक्षुः यत् सुखीनलः

परिप्लव: सुतस्तस्मान्मेधावी सुनयात्मज: ।
नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥ ४२ ॥

परिप्लवः सुतः तस्मात् मेधावी सुनय-आत्मजः नृपञ्जयः ततः दूर्वः तिमिः तस्मात् जनिष्यति

तिमेर्बृहद्रथस्तस्माच्छतानीक: सुदासज: ।
शतानीकाद् दुर्दमनस्तस्यापत्यं महीनर: ॥ ४३ ॥

तिमेः बृहद्रथः तस्मात् शतानीकः सुदास-जः शतानीकात् दुर्दमनः तस्य अपत्यम् महीनरः

दण्डपाणिर्निमिस्तस्य क्षेमको भविता यत: ।
ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृत: ॥ ४४ ॥
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ।
अथ मागधराजानो भाविनो ये वदामि ते ॥ ४५ ॥

दण्डपाणिः निमिः तस्य क्षेमकः भविता यतः ब्रह्म-क्षत्रस्य वै योनिः वंशः देव-ऋषि-सत्कृतः क्षेमकम् प्राप्य राजानम् संस्थाम् प्राप्स्यति वै कलौ अथ मागध-राजानः भाविनः ये वदामि ते

भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवा: ।
ततो युतायुस्तस्यापि निरमित्रोऽथ तत्सुत: ॥ ४६ ॥
सुनक्षत्र: सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।
तत: सुतञ्जयाद् विप्र: शुचिस्तस्य भविष्यति ॥ ४७ ॥
क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्र: समस्तत: ।
द्युमत्सेनोऽथ सुमति: सुबलो जनिता तत: ॥ ४८ ॥

भविता सहदेवस्य मार्जारिः यत् श्रुतश्रवाः ततः युतायुः तस्य अपि निरमित्रः अथ तत्-सुतः सुनक्षत्रः सुनक्षत्रात् बृहत्सेनः अथ कर्मजित् ततः सुतञ्जयात् विप्रः शुचिः तस्य भविष्यति क्षेमः अथ सुव्रतः तस्मात् धर्मसूत्रः समः ततः द्युमत्सेनः अथ सुमतिः सुबलः जनिता ततः

सुनीथ: सत्यजिदथ विश्वजिद् यद् रिपुञ्जय: ।
बार्हद्रथाश्च भूपाला भाव्या: साहस्रवत्सरम् ॥ ४९ ॥

सुनीथः सत्यजित् अथ विश्वजित् यत् रिपुञ्जयः बार्हद्रथाः च भूपालाः भाव्याः साहस्र-वत्सरम्

९.२३

श्रीशुक उवाच
अनो: सभानरश्चक्षु: परेष्णुश्च त्रय: सुता: ।
सभानरात् कालनर: सृञ्जयस्तत्सुतस्तत: ॥ १ ॥

श्री-शुकः उवाच अनोः सभानरः चक्षुः परेष्णुः च त्रयः सुताः सभानरात् कालनरः सृञ्जयः तत्-सुतः ततः

जनमेजयस्तस्य पुत्रो महाशालो महामना: ।
उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥

जनमेजयः तस्य पुत्रः महाशालः महामनाः उशीनरः तितिक्षुः च महामनसः आत्मजौ

शिबिर्वर: कृमिर्दक्षश्चत्वारोशीनरात्मजा: ।
वृषादर्भ: सुधीरश्च मद्र: केकय आत्मवान् ॥ ३ ॥
शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथ: ।
ततो होमोऽथ सुतपा बलि: सुतपसोऽभवत् ॥ ४ ॥

शिबिः वरः कृमिः दक्षः चत्वारः उशीनर-आत्मजाः वृषादर्भः सुधीरः च मद्रः केकयः आत्मवान् शिबेः चत्वारः एव आसन् तितिक्षोः च रुषद्रथः ततः होमः अथ सुतपाः बलिः सुतपसः अभवत्

अङ्गवङ्गकलिङ्गाद्या: सुह्मपुण्ड्रौड्रसंज्ञिता: ।
जज्ञिरे दीर्घतमसो बले: क्षेत्रे महीक्षित: ॥ ५ ॥

अङ्ग वङ्ग कलिङ्ग आद्याः सुह्म पुण्ड्र ओड्र संज्ञिताः जज्ञिरे दीर्घतमसः बलेः क्षेत्रे मही-क्षितः

चक्रु: स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते ।
खलपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्तत: ॥ ६ ॥

चक्रुः स्व-नाम्ना विषयान् षट् इमान् प्राच्यकान् च ते खलपानः अङ्गतः जज्ञे तस्मात् दिविरथः ततः

सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजा: ।
रोमपाद इति ख्यातस्तस्मै दशरथ: सखा ॥ ७ ॥
शान्तां स्वकन्यां प्रायच्छद‍ृष्यश‍ृङ्ग उवाह याम् ।
देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥
नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणै: ।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ ९ ॥
प्रजामदाद् दशरथो येन लेभेऽप्रजा: प्रजा: ।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुत: ॥ १० ॥

सुतः धर्मरथः यस्य जज्ञे चित्ररथः अप्रजाः रोमपादः इति ख्यातः तस्मै दशरथः सखा शान्ताम् स्व-कन्याम् प्रायच्छत् ऋष्यशृङ्गः उवाह याम् देवे अवर्षति यम् रामाः आनिन्युः हरिणी-सुतम् नाट्य-सङ्गीत-वादित्रैः विभ्रम आलिङ्गन अर्हणैः सः तु राज्ञः अनपत्यस्य निरूप्य इष्टिम् मरुत्वते प्रजाम् अदात् दशरथः येन लेभे अप्रजाः प्रजाः चतुरङ्गः रोमपादात् पृथुलाक्षः तु तत्-सुतः

बृहद्रथो बृहत्कर्मा बृहद्भ‍ानुश्च तत्सुता: ।
आद्याद् बृहन्मनास्तस्माज्जयद्रथ उदाहृत: ॥ ११ ॥

बृहद्रथः बृहत्कर्मा बृहद्भानुः च तत्-सुताः आद्यात् बृहन्मनाः तस्मात् जयद्रथः उदाहृतः

विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।
ततो धृतव्रतस्तस्य सत्कर्माधिरथस्तत: ॥ १२ ॥

विजयः तस्य सम्भूत्याम् ततः धृतिः अजायत ततः धृतव्रतः तस्य सत्कर्मा अधिरथः ततः

योऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् ।
कुन्त्यापविद्धं कानीनमनपत्योऽकरोत् सुतम् ॥ १३ ॥

यः असौ गङ्गा-तटे क्रीडन् मञ्जूष-अन्तःगतम् शिशुम् कुन्त्या अपविद्धम् कानीनम् अनपत्यः अकरोत् सुतम्

वृषसेन: सुतस्तस्य कर्णस्य जगतीपते ।
द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥

वृषसेनः सुतः तस्य कर्णस्य जगती पते द्रुह्योः च तनयः बभ्रुः सेतुः तस्य आत्मजः ततः

आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृत: ।
धृतस्य दुर्मदस्तस्मात् प्रचेता: प्राचेतस: शतम् ॥ १५ ॥

आरब्धः तस्य गान्धारः तस्य धर्मः ततः धृतः धृतस्य दुर्मदः तस्मात् प्रचेताः प्राचेतसः शतम्

म्‍लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिता: ।
तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥

म्लेच्छ अधिपतयः अभूवन् उदीचीम् दिशम् आश्रिताः तुर्वसोः च सुतः वह्निः वह्नेः भर्गः अथ भानुमान्

त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधी: ।
मरुतस्तत्सुतोऽपुत्र: पुत्रं पौरवमन्वभूत् ॥ १७ ॥

त्रिभानुः तत्-सुतः अस्य अपि करन्धमः उदार-धीः मरुतः तत्-सुतः अपुत्रः पुत्रम् पौरवम् अन्वभूत्

दुष्मन्त: स पुनर्भेजे स्ववंशं राज्यकामुक: ।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥
वर्णयामि महापुण्यं सर्वपापहरं नृणाम् ।
यदोर्वंशं नर: श्रुत्वा सर्वपापै: प्रमुच्यते ॥ १९ ॥

दुष्मन्तः सः पुनः भेजे स्व-वंशम् राज्य-कामुकः ययातेः ज्येष्ठ-पुत्रस्य यदोः वंशम् नर-ऋषभ वर्णयामि महा-पुण्यम् सर्व-पाप-हरम् नृणाम् यदोः वंशम् नरः श्रुत्वा सर्व-पापैः प्रमुच्यते

यत्रावतीर्णो भगवान् परमात्मा नराकृति: ।
यदो: सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुता: ॥ २० ॥
चत्वार: सूनवस्तत्र शतजित् प्रथमात्मज: ।
महाहयो रेणुहयो हैहयश्चेति तत्सुता: ॥ २१ ॥

यत्र अवतीर्णः भगवान् परमात्मा नर-आकृतिः यदोः सहस्रजित् क्रोष्टा नलः रिपुः इति श्रुताः चत्वारः सूनवः तत्र शतजित् प्रथम-आत्मजः महाहयः रेणुहयः हैहयः च इति तत्-सुताः

धर्मस्तु हैहयसुतो नेत्र: कुन्ते: पिता तत: ।
सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनक: ॥ २२ ॥

धर्मः तु हैहय-सुतः नेत्रः कुन्तेः पिता ततः सोहञ्जिः अभवत् कुन्तेः महिष्मान् भद्रसेनकः

दुर्मदो भद्रसेनस्य धनक: कृतवीर्यसू: ।
कृताग्नि: कृतवर्मा च कृतौजा धनकात्मजा: ॥ २३ ॥

दुर्मदः भद्रसेनस्य धनकः कृतवीर्य-सूः कृताग्निः कृतवर्मा च कृतौजाः धनक-आत्मजाः

अर्जुन: कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुण: ॥ २४ ॥

अर्जुनः कृतवीर्यस्य सप्त-द्वीप ईश्वरः अभवत् दत्तात्रेयात् हरेः अंशात् प्राप्त योग-महागुणः

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवा: ।
यज्ञदानतपोयोगै: श्रुतवीर्यदयादिभि: ॥ २५ ॥

न नूनम् कार्तवीर्यस्य गतिम् यास्यन्ति पार्थिवाः यज्ञ दान तपः योगैः श्रुत वीर्य दया आदिभिः

पञ्चाशीतिसहस्राणि ह्यव्याहतबल: समा: ।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्‍वसु ॥ २६ ॥

पञ्चाशीति सहस्राणि हि अव्याहत बलः समाः अनष्ट वित्त स्मरणः बुभुजे अक्षय्य षट्-वसु

तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वज: शूरसेनो वृषभो मधुरूर्जित: ॥ २७ ॥

तस्य पुत्र-सहस्रेषु पञ्च एव उर्वरिताः मृधे जयध्वजः शूरसेनः वृषभः मधुः ऊर्जितः

जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ।
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥

जयध्वजात् तालजङ्घः तस्य पुत्र-शतम् तु अभूत् क्षत्रम् यत् तालजङ्घ-आख्यम् और्व-तेजः उपसंहृतम्

तेषां ज्येष्ठो वीतिहोत्रो वृष्णि: पुत्रो मधो: स्मृत: ।
तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यत: कुलम् ॥ २९ ॥

तेषाम् ज्येष्ठः वीतिहोत्रः वृष्णिः पुत्रः मधोः स्मृतः तस्य पुत्र-शतम् तु आसीत् वृष्णि ज्येष्ठम् यतः कुलम्

माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिता: ।
यदुपुत्रस्य च क्रोष्टो: पुत्रो वृजिनवांस्तत: ।
स्वाहितोऽतो विषद्गुर्वै तस्य चित्ररथस्तत: ॥ ३० ॥
शशबिन्दुर्महायोगी महाभागो महानभूत् ।
चतुर्दशमहारत्नश्चक्रवर्त्यपराजित: ॥ ३१ ॥

माधवाः वृष्णयः राजन् यादवाः च इति संज्ञिताः यदु-पुत्रस्य च क्रोष्टोः पुत्रः वृजिनवान् ततः स्वाहितः अतः विषद्गुः वै तस्य चित्ररथः ततः शशबिन्दुः महा-योगी महा-भागः महान् अभूत् चतुर्दश-महारत्नः चक्रवर्ती अपराजितः

तस्य पत्नीसहस्राणां दशानां सुमहायशा: ।
दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ॥ ३२ ॥

तस्य पत्नी सहस्राणाम् दशानाम् सु-महा-यशाः दश लक्ष सहस्राणि पुत्राणाम् तासु अजीजनत्

तेषां तु षट्‍प्रधानानां पृथुश्रवस आत्मज: ।
धर्मो नामोशना तस्य हयमेधशतस्य याट् ॥ ३३ ॥

तेषाम् तु षट् प्रधानानाम् पृथुश्रवसः आत्मजः धर्मः नाम उशना तस्य हयमेध-शतस्य याट्

तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजा: श‍ृणु ।
पूरुजिद्रुक्‍मरुक्‍मेषुपृथुज्यामघसंज्ञिता: ॥ ३४ ॥

तत्-सुतः रुचकः तस्य पञ्च आसन् आत्मजाः शृणु पुरुजित् रुक्म रुक्मेषु पृथु ज्यामघ संज्ञिताः

ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् ।
नाविन्दच्छत्रुभवनाद् भोज्यां कन्यामहारषीत् ।
रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३५ ॥
केयं कुहक मत्स्थानं रथमारोपितेति वै ।
स्‍नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३६ ॥

ज्यामघः तु अप्रजः अपि अन्याम् भार्याम् शैब्या-पतिः भयात् न अविन्दत् शत्रु-भवनात् भोज्याम् कन्याम् अहारषीत् रथ-स्थाम् ताम् निरीक्ष्य आह शैब्या पतिम् अमर्षिता का इयम् कुहक मत्-स्थानम् रथम् आरोपिता इति वै स्नुषा तव इति अभिहिते स्मयन्ती पतिम् अब्रवीत्

अहं बन्ध्यासपत्नी च स्‍नुषा मे युज्यते कथम् ।
जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३७ ॥

अहम् बन्ध्या अस-पत्नी च स्नुषा मे युज्यते कथम् जनयिष्यसि यम् राज्ञि तस्य इयम् उपयुज्यते

अन्वमोदन्त तद्विश्वेदेवा: पितर एव च ।
शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् ।
स विदर्भ इति प्रोक्त उपयेमे स्‍नुषां सतीम् ॥ ३८ ॥

अन्वमोदन्त तत् विश्वेदेवाः पितरः एव च शैब्या गर्भम् अधात् काले कुमारम् सुषुवे शुभम् सः विदर्भः इति प्रोक्तः उपयेमे स्नुषाम् सतीम्

९.२४

श्रीशुक उवाच
तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुशक्रथौ ।
तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥ १ ॥

श्री-शुकः उवाच तस्याम् विदर्भः अजनयत् पुत्रौ नाम्ना कुश-क्रथौ तृतीयम् रोमपादम् च विदर्भ-कुल-नन्दनम्

रोमपादसुतो बभ्रुर्बभ्रो: कृतिरजायत ।
उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपा: ॥ २ ॥

रोमपाद-सुतः बभ्रुः बभ्रोः कृतिः अजायत उशिकः तत्-सुतः तस्मात् चेदिः चैद्य आदयः नृपाः

क्रथस्य कुन्ति: पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृति: ।
ततो दशार्हो नाम्नाभूत् तस्य व्योम: सुतस्तत: ॥ ३ ॥
जीमूतो विकृतिस्तस्य यस्य भीमरथ: सुत: ।
ततो नवरथ: पुत्रो जातो दशरथस्तत: ॥ ४ ॥

क्रथस्य कुन्तिः पुत्रः अभूत् वृष्णिः तस्य अथ निर्वृतिः ततः दशार्हः नाम्ना अभूत् तस्य व्योमः सुतः ततः जीमूतः विकृतिः तस्य यस्य भीमरथः सुतः ततः नवरथः पुत्रः जातः दशरथः ततः

करम्भि: शकुने: पुत्रो देवरातस्तदात्मज: ।
देवक्षत्रस्ततस्तस्य मधु: कुरुवशादनु: ॥ ५ ॥

करम्भिः शकुनेः पुत्रः देवरातः तत्-आत्मजः देवक्षत्रः ततः तस्य मधुः कुरुवशात् अनुः

पुरुहोत्रस्त्वनो: पुत्रस्तस्यायु: सात्वतस्तत: ।
भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धक: ॥ ६ ॥
सात्वतस्य सुता: सप्त महाभोजश्च मारिष ।
भजमानस्य निम्‍लोचि: किङ्कणो धृष्टिरेव च ॥ ७ ॥
एकस्यामात्मजा: पत्‍न्यामन्यस्यां च त्रय: सुता: ।
शताजिच्च सहस्राजिदयुताजिदिति प्रभो ॥ ८ ॥

पुरुहोत्रः तु अनोः पुत्रः तस्य अयुः सात्वतः ततः भजमानः भजिः दिव्यः वृष्णिः देवावृधः अन्धकः सात्वतस्य सुताः सप्त महाभोजः च मारिष भजमानस्य निम्लोचिः किङ्कणः धृष्टिः एव च एकस्याम् आत्मजाः पत्न्याम् अन्यस्याम् च त्रयः सुताः शताजित् च सहस्राजित् अयुताजित् इति प्रभो

बभ्रुर्देवावृधसुतस्तयो: श्लोकौ पठन्त्यमू ।
यथैव श‍ृणुमो दूरात् सम्पश्यामस्तथान्तिकात् ॥ ९ ॥

बभ्रुः देवावृध सुतः तयोः श्लोकौ पठन्ति अमू यथा एव शृणुमः दूरात् सम्पश्यामः तथा अन्तिकात्

बभ्रु: श्रेष्ठो मनुष्याणां देवैर्देवावृध: सम: ।
पुरुषा: पञ्चषष्टिश्च षट् सहस्राणि चाष्ट च ॥ १० ॥
येऽमृतत्त्वमनुप्राप्ता बभ्रोर्देवावृधादपि ।
महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये ॥ ११ ॥

बभ्रुः श्रेष्ठः मनुष्याणाम् देवैः देवावृधः समः पुरुषाः पञ्च-षष्टिः च षट्-सहस्राणि च अष्ट च ये अमृतत्वम् अनुप्राप्ताः बभ्रोः देवावृधात् अपि महाभोजः अति-धर्म-आत्मा भोजाः आसन् तत्-अन्वये

वृष्णे: सुमित्र: पुत्रोऽभूद् युधाजिच्च परन्तप ।
शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रत: ॥ १२ ॥

वृष्णेः सुमित्रः पुत्रः अभूत् युधाजित् च परम्-तप शिनिः तस्य अनमित्रः च निघ्नः अभूत् अनमित्रतः

सत्राजित: प्रसेनश्च निघ्नस्याथासतु: सुतौ ।
अनमित्रसुतो योऽन्य: शिनिस्तस्य च सत्यक: ॥ १३ ॥

सत्राजितः प्रसेनः च निघ्नस्य अथ असतुः सुतौ अनमित्र-सुतः यः अन्यः शिनिः तस्य च सत्यकः

युयुधान: सात्यकिर्वै जयस्तस्य कुणिस्तत: ।
युगन्धरोऽनमित्रस्य वृष्णि: पुत्रोऽपरस्तत: ॥ १४ ॥

युयुधानः सात्यकिः वै जयः तस्य कुणिः ततः युगन्धरः अनमित्रस्य वृष्णिः पुत्रः अपरः ततः

श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कत: ।
अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुता: ॥ १५ ॥

श्वफल्कः चित्ररथः च गान्दिन्याम् च श्वफल्कतः अक्रूर प्रमुखाः आसन् पुत्राः द्वादश विश्रुताः

आसङ्ग: सारमेयश्च मृदुरो मृदुविद् गिरि: ।
धर्मवृद्ध: सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दन: ॥ १६ ॥
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश ।
तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि ॥ १७ ॥
देववानुपदेवश्च तथा चित्ररथात्मजा: ।
पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दना: ॥ १८ ॥

आसङ्गः सारमेयः च मृदुरः मृदुवित् गिरिः धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षः अरिमर्दनः शत्रुघ्नः गन्धमादः च प्रतिबाहुः च द्वादश तेषाम् स्वसा सुचारा आख्या द्वौ अक्रूर सुतौ अपि देववान् उपदेवः च तथा चित्ररथ-आत्मजाः पृथुः विदूरथ आद्याः च बहवः वृष्णि-नन्दनाः

कुकुरो भजमानश्च शुचि: कम्बलबर्हिष: ।
कुकुरस्य सुतो वह्निर्विलोमा तनयस्तत: ॥ १९ ॥

कुकुरः भजमानः च शुचिः कम्बलबर्हिषः कुकुरस्य सुतः वह्निः विलोमा तनयः ततः

कपोतरोमा तस्यानु: सखा यस्य च तुम्बुरु: ।
अन्धकाद् दुन्दुभिस्तस्मादविद्योत: पुनर्वसु: ॥ २०


कपोतरोमा तस्य अनुः सखा यस्य च तुम्बुरुः अन्धकात् दुन्दुभिः तस्मात् अविद्योतः पुनर्वसुः

तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ ।
देवकश्चोग्रसेनश्च चत्वारो देवकात्मजा: ॥ २१ ॥
देववानुपदेवश्च सुदेवो देववर्धन: ।
तेषां स्वसार: सप्तासन् धृतदेवादयो नृप ॥ २२ ॥
शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता ।
सहदेवा देवकी च वसुदेव उवाह ता: ॥ २३ ॥

तस्य आहुकः च आहुकी च कन्या च एव आहुक आत्मजौ देवकः च उग्रसेनः च चत्वारः देवक-आत्मजाः देववान् उपदेवः च सुदेवः देववर्धनः तेषाम् स्वसारः सप्त आसन् धृतदेवा-आदयः नृप शान्तिदेवा उपदेवा च श्रीदेवा देवरक्षिता सहदेवा देवकी च वसुदेवः उवाह ताः

कंस: सुनामा न्यग्रोध: कङ्क: शङ्कु: सुहूस्तथा ।
राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनय: ॥
२४ ॥

कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूः तथा राष्ट्रपालः अथ धृष्टिः च तुष्टिमान् औग्रसेनयः

कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका ।
उग्रसेनदुहितरो वसुदेवानुजस्त्रिय: ॥ २५ ॥

कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका उग्रसेन-दुहितरः वसुदेव-अनुज स्त्रियः

शूरो विदूरथादासीद् भजमानस्तु तत्सुत: ।
शिनिस्तस्मात् स्वयंभोजो हृदिकस्तत्सुतो मत: ॥ २६ ॥

शूरः विदूरथात् आसीत् भजमानः तु तत्-सुतः शिनिः तस्मात् स्वयम् भोजः हृदिकः तत्-सुतः मतः

देवमीढ: शतधनु: कृतवर्मेति तत्सुता: ।
देवमीढस्य शूरस्य मारिषा नाम पत्‍न्यभूत् ॥ २७ ॥

देवमीढः शतधनुः कृतवर्मा इति तत्-सुताः देवमीढस्य शूरस्य मारिषा नाम पत्नी अभूत्

तस्यां स जनयामास दश पुत्रानकल्मषान् ।
वसुदेवं देवभागं देवश्रवसमानकम् ॥ २८ ॥ सृञ्जयं श्यामकं
कङ्कं शमीकं वत्सकं वृकम् ।
देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥ २९ ॥ वसुदेवं हरे: स्थानं
वदन्त्यानकदुन्दुभिम् ।
पृथा च श्रुतदेवा च श्रुतकीर्ति: श्रुतश्रवा: ॥ ३० ॥ राजाधिदेवी चैतेषां
भगिन्य: पञ्च कन्यका: ।
कुन्ते: सख्यु: पिता शूरो ह्यपुत्रस्य पृथामदात् ॥ ३१ ॥

तस्याम् सः जनयाम् आस दश पुत्रान् अकल्मषान् वसुदेवम् देवभागम् देवश्रवसम् आनकम् सृञ्जयम् श्यामकम् कङ्कम् शमीकम् वत्सकम् वृकम् देव-दुन्दुभयः नेदुः आनकाः यस्य जन्मनि वसुदेवम् हरेः स्थानम् वदन्ति आनकदुन्दुभिम् पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः राजाधिदेवी च एतेषाम् भगिन्यः पञ्च कन्यकाः कुन्तेः सख्युः पिता शूरः हि अपुत्रस्य पृथाम् अदात्

साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात् ।
तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचि: ॥
३२ ॥

सा आप दुर्वाससः विद्याम् देव-हूतीम् प्रतोषितात् तस्याः वीर्य परीक्ष-अर्थम् आजुहाव रविम् शुचिः

तदैवोपागतं देवं वीक्ष्य विस्मितमानसा ।
प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥ ३३ ॥

तदा एव उपागतम् देवम् वीक्ष्य विस्मित-मानसा प्रत्यय-अर्थम् प्रयुक्ता मे याहि देव क्षमस्व मे

अमोघं देवसन्दर्शमादधे त्वयि चात्मजम् ।
योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ॥ ३४ ॥

अमोघम् देव-सन्दर्शम् आदधे त्वयि च आत्मजम् योनिः यथा न दुष्येत कर्ता अहम् ते सुमध्यमे

इति तस्यां स आधाय गर्भं सूर्यो दिवं गत: ।
सद्य: कुमार: सञ्जज्ञे द्वितीय इव भास्कर: ॥
३५ ॥

इति तस्याम् सः आधाय गर्भम् सूर्यः दिवम् गतः सद्यः कुमारः सञ्जज्ञे द्वितीयः इव भास्करः

तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती ।
प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रम: ॥
३६ ॥

तम् सा अत्यजत् नदी-तोये कृच्छ्रात् लोकस्य बिभ्यती प्रपितामहः ताम् उवाह पाण्डुः वै सत्य-विक्रमः

श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् ।
यस्यामभूद् दन्तवक्र ऋषिशप्तो दिते: सुत: ॥ ३७ ॥

श्रुतदेवाम् तु कारूषः वृद्धशर्मा समग्रहीत् यस्याम् अभूत् दन्तवक्रः ऋषि-शप्तः दितेः सुतः

कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत ।
सन्तर्दनादयस्तस्यां पञ्चासन्कैकया: सुता: ॥ ३८ ॥

कैकेयः धृष्टकेतुः च श्रुतकीर्तिम् अविन्दत सन्तर्दन-आदयः तस्याम् पञ्च आसन् कैकयाः सुताः

राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह ।
दमघोषश्चेदिराज: श्रुतश्रवसमग्रहीत् ॥ ३९ ॥

राजाधिदेव्याम् आवन्त्यौ जयसेनः अजनिष्ट ह दमघोषः चेदि-राजः श्रुतश्रवसम् अग्रहीत्

शिशुपाळ: सुतस्तस्या: कथितस्तस्य सम्भव: ।
देवभागस्य कंसायां चित्रकेतुबृहद्ब‍लौ ॥ ४० ॥

शिशुपालः सुतः तस्याः कथितः तस्य सम्भवः देवभागस्य कंसायाम् चित्रकेतु बृहद्बलौ

कंसवत्यां देवश्रवस: सुवीर इषुमांस्तथा ।
बक: कङ्कात् तु कङ्कायां सत्यजित्पुरुजित् तथा ॥ ४१ ॥

कंसवत्याम् देवश्रवसः सुवीरः इषुमान् तथा बकः कङ्कात् तु कङ्कायाम् सत्यजित् पुरुजित् तथा

सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान् ।
हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामक: ॥ ४२ ॥

सृञ्जयः राष्ट्रपाल्याम् च वृष-दुर्मर्षण-आदिकान् हरिकेश हिरण्याक्षौ शूरभूम्याम् च श्यामकः

मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा ।
तक्षपुष्करशालादीन् दुर्वाक्ष्यां वृक आदधे ॥ ४३ ॥

मिश्रकेश्याम् अप्सरसि वृक-आदीन् वत्सकः तथा तक्ष-पुष्कर-शाल-आदीन् दुर्वाक्ष्याम् वृकः आदधे

सुमित्रार्जुनपालादीन् समीकात्तु सुदामनी ।
आनक: कर्णिकायां वै ऋतधामाजयावपि ॥ ४४ ॥

सुमित्र अर्जुनपाल आदीन् समीकात् तु सुदामनी आनकः कर्णिकायाम् वै ऋतधामा जयौ अपि

पौरवी रोहिणी भद्रा मदिरा रोचना इला ।
देवकीप्रमुखाश्चासन् पत्‍न्य आनकदुन्दुभे: ॥ ४५ ॥

पौरवी रोहिणी भद्रा मदिरा रोचना इला देवकी प्रमुखाः च आसन् पत्न्यः आनकदुन्दुभेः

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् ।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥ ४६ ॥

बलम् गदम् सारणम् च दुर्मदम् विपुलम् ध्रुवम् वसुदेवः तु रोहिण्याम् कृत-आदीन् उदपादयत्

सुभद्रो भद्रबाहुश्च दुर्मदो भद्र एव च ।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥ ४७ ॥
नन्दोपनन्दकृतकशूराद्या मदिरात्मजा: ।
कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् ॥ ४८ ॥

सुभद्रः भद्रबाहुः च दुर्मदः भद्रः एव च पौरव्याः तनयाः हि एते भूत-आद्याः द्वादश अभवन् नन्द-उपनन्द-कृतक-शूर-आद्याः मदिरा-आत्मजाः कौशल्या केशिनम् तु एकम् असूत कुल-नन्दनम्

रोचनायामतो जाता हस्तहेमाङ्गदादय: ।
इलायामुरुवल्कादीन् यदुमुख्यानजीजनत् ॥ ४९ ॥

रोचनायाम् अतः जाताः हस्त हेमाङ्गद आदयः इलायाम् उरुवल्क-आदीन् यदु-मुख्यान् अजीजनत्

विपृष्ठो धृतदेवायामेक आनकदुन्दुभे: ।
शान्तिदेवात्मजा राजन् प्रशमप्रसितादय: ॥ ५० ॥

विपृष्ठः धृतदेवायाम् एकः आनकदुन्दुभेः शान्तिदेवा-आत्मजाः राजन् प्रशम-प्रसित-आदयः

राजन्यकल्पवर्षाद्या उपदेवासुता दश ।
वसुहंससुवंशाद्या: श्रीदेवायास्तु षट् सुता: ॥ ५१ ॥

राजन्य कल्प वर्ष-आद्याः उपदेवा-सुताः दश वसु हंस सुवंश आद्याः श्रीदेवायाः तु षट् सुताः

देवरक्षितया लब्धा नव चात्र गदादय: ।
वसुदेव: सुतानष्टावादधे सहदेवया ॥ ५२ ॥

देवरक्षितया लब्धाः नव च अत्र गदा-आदयः वसुदेवः सुतान् अष्टौ आदधे सहदेवया

प्रवरश्रुतमुख्यांश्च साक्षाद् धर्मो वसूनिव ।
वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ॥ ५३ ॥
कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधी: ।
ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ॥ ५४ ॥ अष्टमस्तु
तयोरासीत् स्वयमेव हरि: किल ।
सुभद्रा च महाभागा तव राजन् पितामही ॥ ५५ ॥

प्रवर श्रुत मुख्यान् च साक्षात् धर्मः वसून् इव वसुदेवः तु देवक्याम् अष्ट पुत्रान् अजीजनत् कीर्तिमन्तम् सुषेणम् च भद्रसेनम् उदार-धीः ऋजुम् सम्मर्दनम् भद्रम् सङ्कर्षणम् अहि-ईश्वरम् अष्टमः तु तयोः आसीत् स्वयम् एव हरिः किल सुभद्रा च महाभागा तव राजन् पितामही

यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मन: ।
तदा तु भगवानीश आत्मानं सृजते हरि: ॥ ५६


यदा यदा हि धर्मस्य क्षयः वृद्धिः च पाप्मनः तदा तु भगवान् ईशः आत्मानम् सृजते हरिः

न ह्यस्य जन्मनो हेतु: कर्मणो वा महीपते ।
आत्ममायां विनेशस्य परस्य द्रष्टुरात्मन: ॥ ५७ ॥

न हि अस्य जन्मनः हेतुः कर्मणः वा महीपते आत्म-मायाम् विना ईशस्य परस्य द्रष्टुः आत्मनः

यन्मायाचेष्टितं पुंस: स्थित्युत्पत्त्यप्ययाय हि ।
अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥ ५८ ॥

यत् माया-चेष्टितम् पुंसः स्थिति उत्पत्ति अप्ययाय हि अनुग्रहः तत्-निवृत्तेः आत्म-लाभाय च इष्यते

अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनै: ।
भुव आक्रम्यमाणाया अभाराय कृतोद्यम: ॥ ५९ ॥

अक्षौहिणीनाम् पतिभिः असुरैः नृप-लाञ्छनैः भुवः आक्रम्यमाणायाः अभाराय कृत-उद्यमः

कर्माण्यपरिमेयाणि मनसापि सुरेश्वरै: ।
सहसङ्कर्षणश्चक्रे भगवान् मधुसूदन: ॥ ६० ॥

कर्माणि अपरिमेयाणि मनसा अपि सुर-ईश्वरैः सह-सङ्कर्षणः चक्रे भगवान् मधु-सूदनः

कलौ जनिष्यमाणानां दु:खशोकतमोनुदम् ।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यश: ॥ ६१ ॥

कलौ जनिष्यमाणानाम् दुःख-शोक-तमः-नुदम् अनुग्रहाय भक्तानाम् सु-पुण्यम् व्यतनोत् यशः

यस्मिन् सत्कर्णपीयुषे यशस्तीर्थवरे सकृत् ।
श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ॥ ६२ ॥

यस्मिन् सत्-कर्ण-पीयुषे यशः-तीर्थ-वरे सकृत् श्रोत्र-अञ्जलिः उपस्पृश्य धुनुते कर्म-वासनाम्

भोजवृष्ण्यन्धकमधुशूरसेनदशार्हकै: ।
श्लाघनीयेहित: शश्वत् कुरुसृञ्जयपाण्डुभि: ॥ ६३ ॥
स्‍निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया ।
नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ॥ ६४


भोज वृष्णि अन्धक मधु शूरसेन दशार्हकैः श्लाघनीय ईहितः शश्वत् कुरु-सृञ्जय-पाण्डुभिः स्निग्ध स्मित ईक्षित उदारैः वाक्यैः विक्रम-लीलया नृ-लोकम् रमयाम् आस मूर्त्या सर्व-अङ्ग-रम्यया

यस्याननं मकरकुण्डलचारुकर्ण-भ्राजत्कपोलसुभगं सविलासहासम् ।
नित्योत्सवं न ततृपुर्दृशिभि:
पिबन्त्योनार्यो नराश्च मुदिता: कुपिता निमेश्च ॥ ६५ ॥

यस्य आननम् मकर-कुण्डल-चारु-कर्ण भ्राजत् कपोल सुभगम् स-विलास-हासम् नित्य-उत्सवम् न ततृपुः दृशिभिः पिबन्त्यः नार्यः नराः च मुदिताः कुपिताः निमेः च

जातो गत: पितृगृहाद् व्रजमेधितार्थोहत्वा रिपून् सुतशतानि कृतोरुदार: ।
उत्पाद्य तेषु पुरुष:
क्रतुभि: समीजेआत्मानमात्मनिगमं प्रथयञ्जनेषु ॥ ६६ ॥

जातः गतः पितृ-गृहात् व्रजम् एधित-अर्थः हत्वा रिपून् सुत-शतानि कृत-उरुदारः उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानम् आत्म-निगमम् प्रथयन् जनेषु

पृथ्व्या: स वै गुरुभरं क्षपयन् कुरूणा-मन्त:समुत्थकलिना युधि भूपचम्व: ।
द‍ृष्टय‍ा विधूय विजये
जयमुद्विघोष्यप्रोच्योद्धवाय च परं समगात् स्वधाम ॥ ६७ ॥
येऽन्येऽरविन्दाक्ष विमुक्तमानिन-स्त्वय्यस्तभावादविशुद्धबुद्धय: ।
आरुह्य कृच्छ्रेण परं पदं
तत:पतन्त्यधोऽनाद‍ृतयुष्मदङ्‌घ्रय: ॥

पृथ्व्याः सः वै गुरु-भरम् क्षपयन् कुरूणाम् अन्तः-समुत्थ-कलिना युधि भूप-चम्वः दृष्ट्या विधूय विजये जयम् उद्विघोष्य प्रोच्य उद्धवाय च परम् समगात् स्व-धाम