श्रीमद्भागवतम् पदच्छेद - स्कंध १०

१०.१

श्रीराजोवाच
कथितो वंशविस्तारो भवता सोमसूर्ययो: ।
राज्ञां चोभयवंश्यानां चरितं परमाद्भ‍ुतम् ॥ १ ॥

श्री-राजा उवाच कथितः वंश-विस्तारः भवता सोम-सूर्ययोः राज्ञाम् च उभय वंश्यानाम् चरितम् परम अद्भुतम्

यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ।
तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस न: ॥ २ ॥

यदोः च धर्म-शीलस्य नितराम् मुनि-सत्तम तत्र अंशेन अवतीर्णस्य विष्णोः वीर्याणि शंस नः

अवतीर्य यदोर्वंशे भगवान् भूतभावन: ।
कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३


अवतीर्य यदोः वंशे भगवान् भूत-भावनः कृतवान् यानि विश्व-आत्मा तानि नः वद विस्तरात्

निवृत्ततर्षैरुपगीयमानाद्भवौषधाच्छ्रोत्रमनोऽभिरामात् ।
क उत्तमश्लोकगुणानुवादात्पुमान्
विरज्येत विना पशुघ्नात् ॥ ४ ॥

निवृत्त तर्षैः उपगीयमानात् भव-औषधात् श्रोत्र मनः अभिरामात् कः उत्तमश्लोक गुण-अनुवादात् पुमान् विरज्येत विना पशु-घ्नात्

पितामहा मे समरेऽमरञ्जयै-र्देवव्रताद्यातिरथैस्तिमिङ्गिलै: ।
दूरत्ययं कौरवसैन्यसागरंकृत्वातरन्
वत्सपदं स्म यत्‍प्लवा: ॥ ५ ॥ द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गंसन्तानबीजं कुरुपाण्डवानाम् ।
जुगोप
कुक्षिं गत आत्तचक्रोमातुश्च मे य: शरणं गताया: ॥ ६ ॥ वीर्याणि
तस्याखिलदेहभाजा-मन्तर्बहि: पूरुषकालरूपै: ।
प्रयच्छतो मृत्युमुतामृतं चमायामनुष्यस्य वदस्व
विद्वन् ॥ ७ ॥

पितामहाः मे समरे अमरम् जयैः देवव्रत-आद्य अतिरथैः तिमिङ्गिलैः दुरत्ययम् कौरव-सैन्य-सागरम् कृत्वा अतरन् वत्स-पदम् स्म यत्-प्लवाः द्रौणि अस्त्र विप्लुष्टम् इदम् मत्-अङ्गम् सन्तान-बीजम् कुरु-पाण्डवानाम् जुगोप कुक्षिम् गतः आत्त-चक्रः मातुः च मे यः शरणम् गतायाः वीर्याणि तस्य अखिल-देह-भाजाम् अन्तः बहिः पूरुष काल-रूपैः प्रयच्छतः मृत्युम् उत अमृतम् च माया-मनुष्यस्य वदस्व विद्वन्

रोहिण्यास्तनय: प्रोक्तो राम: सङ्कर्षणस्त्वया ।
देवक्या गर्भसम्बन्ध: कुतो देहान्तरं विना ॥
८ ॥

रोहिण्याः तनयः प्रोक्तः रामः सङ्कर्षणः त्वया देवक्याः गर्भ-सम्बन्धः कुतः देह-अन्तरम् विना

कस्मान्मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गत: ।
क्‍व वासं ज्ञातिभि: सार्धं कृतवान्
सात्वतांपति: ॥ ९ ॥

कस्मात् मुकुन्दः भगवान् पितुः गेहात् व्रजम् गतः क्व वासम् ज्ञातिभिः सार्धम् कृतवान् सात्वताम् पतिः

व्रजे वसन् किमकरोन्मधुपुर्यां च केशव: ।
भ्रातरं चावधीत् कंसं मातुरद्धातदर्हणम् ॥ १० ॥

व्रजे वसन् किम् अकरोत् मधुपुर्याम् च केशवः भ्रातरम् च अवधीत् कंसम् मातुः अद्धा अ-तत्-अर्हणम्

देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभि: ।
यदुपुर्यां सहावात्सीत् पत्न्‍य: कत्यभवन् प्रभो:
॥ ११ ॥

देहम् मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः यदु-पुर्याम् सह अवात्सीत् पत्न्यः कति अभवन् प्रभोः

एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् ।
वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२ ॥

एतत् अन्यत् च सर्वम् मे मुने कृष्ण-विचेष्टितम् वक्तुम् अर्हसि सर्व-ज्ञ श्रद्दधानाय विस्तृतम्

नैषातिदु:सहा क्षुन्मां त्यक्तोदमपि बाधते ।
पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ॥ १३ ॥

न एषा अति-दुःसहा क्षुत् माम् त्यक्त-उदम् अपि बाधते पिबन्तम् त्वत्-मुख-अम्भोज-च्युतम् हरि-कथा-अमृतम्

सूत उवाच
एवं निशम्य भृगुनन्दन साधुवादंवैयासकि: स भगवानथ विष्णुरातम् ।
प्रत्यर्च्य कृष्णचरितं
कलिकल्मषघ्नंव्याहर्तुमारभत भागवतप्रधान: ॥ १४ ॥

सूतः उवाच एवम् निशम्य भृगु-नन्दन साधु-वादम् वैयासकिः सः भगवान् अथ विष्णु-रातम् प्रत्यर्च्य कृष्ण-चरितम् कलि-कल्मष-घ्नम् व्याहर्तुम् आरभत भागवत-प्रधानः

श्रीशुक उवाच
सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ।
वासुदेवकथायां ते यज्जाता नैष्ठिकी रति: ॥ १५ ॥

श्री-शुकः उवाच सम्यक् व्यवसिता बुद्धिः तव राज-ऋषि-सत्तम वासुदेव-कथायाम् ते यत् जाता नैष्ठिकी रतिः

वासुदेवकथाप्रश्न: पुरुषांस्त्रीन् पुनाति हि ।
वक्तारं प्रच्छकं श्रोतृंस्तत्पादसलिलं यथा ॥ १६ ॥

वासुदेव-कथा-प्रश्नः पुरुषान् त्रीन् पुनाति हि वक्तारम् प्रच्छकम् श्रोतॄन् तत्-पाद-सलिलम् यथा

भूमिर्द‍ृप्तनृपव्याजदैत्यानीकशतायुतै: ।
आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७ ॥

भूमिः दृप्त नृप-व्याज दैत्य अनीक शत-अयुतैः आक्रान्ता भूरि-भारेण ब्रह्माणम् शरणम् ययौ

गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभो: ।
उपस्थितान्तिके तस्मै व्यसनं समवोचत ॥ १८


गौः भूत्वा अश्रु-मुखी खिन्ना क्रन्दन्ती करुणम् विभोः उपस्थिता अन्तिके तस्मै व्यसनम् समवोचत

ब्रह्मा तदुपधार्याथ सह देवैस्तया सह ।
जगाम सत्रिनयनस्तीरं क्षीरपयोनिधे: ॥ १९ ॥

ब्रह्मा तत्-उपधार्य अथ सह देवैः तया सह जगाम स-त्रि-नयनः तीरम् क्षीर-पयः-निधेः

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।
पुरुषं पुरुषसूक्तेन उपतस्थे समाहित: ॥ २० ॥

तत्र गत्वा जगन्नाथम् देव-देवम् वृषाकपिम् पुरुषम् पुरुष-सूक्तेन उपतस्थे समाहितः

गिरं समाधौ गगने समीरितांनिशम्य वेधास्त्रिदशानुवाच ह ।
गां पौरुषीं मे श‍ृणुतामरा:
पुन-र्विधीयतामाशु तथैव मा चिरम् ॥ २१ ॥

गिरम् समाधौ गगने समीरिताम् निशम्य वेधाः त्रिदशान् उवाच ह गाम् पौरुषीम् मे शृणुत अमराः पुनः विधीयताम् आशु तथा एव मा चिरम्

पुरैव पुंसावधृतो धराज्वरोभवद्भ‍िरंशैर्यदुषूपजन्यताम् ।
स यावदुर्व्या भरमीश्वरेश्वर:स्वकालशक्त्या
क्षपयंश्चरेद् भुवि ॥ २२ ॥

पुरा एव पुंसा अवधृतः धरा-ज्वरः भवद्भिः अंशैः यदुषु उपजन्यताम् सः यावत् उर्व्याः भरम् ईश्वर-ईश्वरः स्व-काल-शक्त्या क्षपयन् चरेत् भुवि

वसुदेवगृहे साक्षाद् भगवान्पुरुष: पर: ।
जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रिय: ॥ २३ ॥

वसुदेव-गृहे साक्षात् भगवान् पुरुषः परः जनिष्यते तत्-प्रिय-अर्थम् सम्भवन्तु सुर-स्त्रियः

वासुदेवकलानन्त: सहस्रवदन: स्वराट् ।
अग्रतो भविता देवो हरे: प्रियचिकीर्षया ॥ २४ ॥

वासुदेव-कला अनन्तः सहस्र-वदनः स्वराट् अग्रतः भविता देवः हरेः प्रिय-चिकीर्षया

विष्णोर्माया भगवती यया सम्मोहितं जगत् ।
आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥ २५


विष्णोः माया भगवती यया सम्मोहितम् जगत् आदिष्टा प्रभुणा अंशेन कार्य-अर्थे सम्भविष्यति

श्रीशुक उवाच
इत्यादिश्यामरगणान् प्रजापतिपतिर्विभु: ।
आश्वास्य च महीं गीर्भि: स्वधाम परमं ययौ ॥ २६


श्री-शुकः उवाच इति आदिश्य अमर-गणान् प्रजापति-पतिः विभुः आश्वास्य च महीम् गीर्भिः स्व-धाम परमम् ययौ

शूरसेनो यदुपतिर्मथुरामावसन् पुरीम् ।
माथुराञ्छूरसेनांश्च विषयान् बुभुजे पुरा ॥ २७ ॥

शूरसेनः यदु-पतिः मथुराम् आवसन् पुरीम् माथुरान् शूरसेनान् च विषयान् बुभुजे पुरा

राजधानी तत: साभूत्सर्वयादवभूभुजाम् ।
मथुरा भगवान् यत्र नित्यं सन्निहितो हरि: ॥ २८ ॥

राजधानी ततः सा अभूत् सर्व-यादव-भूभुजाम् मथुरा भगवान् यत्र नित्यम् सन्निहितः हरिः

तस्यां तु कर्हिचिच्छौरिर्वसुदेव: कृतोद्वह: ।
देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९ ॥

तस्याम् तु कर्हिचित् शौरिः वसुदेवः कृत-उद्वहः देवक्या सूर्यया सार्धम् प्रयाणे रथम् आरुहत्

उग्रसेनसुत: कंस: स्वसु: प्रियचिकीर्षया ।
रश्मीन् हयानां जग्राह रौक्‍मै रथशतैर्वृत: ॥ ३० ॥

उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया रश्मीन् हयानाम् जग्राह रौक्मैः रथ-शतैः वृतः

चतु:शतं पारिबर्हं गजानां हेममालिनाम् ।
अश्वानामयुतं सार्धं रथानां च त्रिषट्‌शतम् ॥ ३१ ॥
दासीनां सुकुमारीणां द्वे शते समलङ्कृते ।
दुहित्रे देवक: प्रादाद् याने दुहितृवत्सल: ॥ ३२ ॥

चतुः-शतम् पारिबर्हम् गजानाम् हेम-मालिनाम् अश्वानाम् अयुतम् सार्धम् रथानाम् च त्रि-षट्-शतम् दासीनाम् सु-कुमारीणाम् द्वे शते समलङ्कृते दुहित्रे देवकः प्रादात् याने दुहितृ-वत्सलः

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभय: समम् ।
प्रयाणप्रक्रमे तात वरवध्वो: सुमङ्गलम् ॥ ३३ ॥

शङ्ख तूर्य मृदङ्गाः च नेदुः दुन्दुभयः समम् प्रयाण-प्रक्रमे तात वर-वध्वोः सु-मङ्गलम्

पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् ।
अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध ॥ ३४


पथि प्रग्रहिणम् कंसम् आभाष्य आह अ-शरीर-वाक् अस्याः त्वाम् अष्टमः गर्भः हन्ता याम् वहसे अबुध

इत्युक्त: स खल: पापो भोजानां कुलपांसन: ।
भगिनीं हन्तुमारब्धं खड्‍गपाणि: कचेऽग्रहीत् ॥ ३५


इति उक्तः सः खलः पापः भोजानाम् कुल-पांसनः भगिनीम् हन्तुम् आरब्धम् खड्ग-पाणिः कचे अग्रहीत्

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् ।
वसुदेवो महाभाग उवाच परिसान्‍त्वयन् ॥ ३६ ॥

तम् जुगुप्सित-कर्माणम् नृशंसम् निरपत्रपम् वसुदेवः महा-भागः उवाच परिसान्त्वयन्

श्रीवसुदेव उवाच
श्लाघनीयगुण: शूरैर्भवान् भोजयशस्कर: ।
स कथं भगिनीं हन्यात् स्त्रियमुद्वाहपर्वणि ॥ ३७ ॥

श्री-वसुदेवः उवाच श्लाघनीय-गुणः शूरैः भवान् भोज-यशः-करः सः कथम् भगिनीम् हन्यात् स्त्रियम् उद्वाह-पर्वणि

मृत्युर्जन्मवतां वीर देहेन सह जायते ।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुव: ॥ ३८ ॥

मृत्युः जन्म-वताम् वीर देहेन सह जायते अद्य वा अब्द-शत अन्ते वा मृत्युः वै प्राणिनाम् ध्रुवः

देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवश: ।
देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपु: ॥ ३९ ॥

देहे पञ्चत्वम् आपन्ने देही कर्म-अनुगः अवशः देह-अन्तरम् अनुप्राप्य प्राक्तनम् त्यजते वपुः

व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति ।
यथा तृणजलौकैवं देही कर्मगतिं गत: ॥ ४० ॥

व्रजन् तिष्ठन् पदा एकेन यथा एव एकेन गच्छति यथा तृण-जलौका एवम् देही कर्म-गतिम् गतः

स्वप्ने यथा पश्यति देहमीद‍ृशंमनोरथेनाभिनिविष्टचेतन: ।
द‍ृष्टश्रुताभ्यां मनसानुचिन्तयन्प्रपद्यते
तत् किमपि ह्यपस्मृति: ॥ ४१ ॥

स्वप्ने यथा पश्यति देहम् ईदृशम् मनोरथेन अभिनिविष्ट चेतनः दृष्ट श्रुताभ्याम् मनसा अनुचिन्तयन् प्रपद्यते तत् किम् अपि हि अपस्मृतिः

यतो यतो धावति दैवचोदितंमनो विकारात्मकमाप पञ्चसु ।
गुणेषु मायारचितेषु
देह्यसौप्रपद्यमान: सह तेन जायते ॥ ४२ ॥

यतः यतः धावति दैव-चोदितम् मनः विकार-आत्मकम् आप पञ्चसु गुणेषु माया-रचितेषु देही असौ प्रपद्यमानः सह तेन जायते

ज्योतिर्यथैवोदकपार्थिवेष्वद:समीरवेगानुगतं विभाव्यते ।
एवं स्वमायारचितेष्वसौ पुमान्गुणेषु
रागानुगतो विमुह्यति ॥ ४३ ॥

ज्योतिः यथा एव उदक पार्थिवेषु अदः समीर-वेग-अनुगतम् विभाव्यते एवम् स्व-माया-रचितेषु असौ पुमान् गुणेषु राग-अनुगतः विमुह्यति

तस्मान् कस्यचिद्‌‌द्रोहमाचरेत् स तथाविध: ।
आत्मन: क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४


तस्मात् न कस्यचित् द्रोहम् आचरेत् सः तथा-विधः आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुः वै परतः भयम्

एषा तवानुजा बाला कृपणा पुत्रिकोपमा ।
हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सल: ॥ ४५


एषा तव अनुजा बाला कृपणा पुत्रिका-उपमा हन्तुम् न अर्हसि कल्याणीम् इमाम् त्वम् दीन-वत्सलः

श्रीशुक उवाच
एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुण: ।
न न्यवर्तत कौरव्य पुरुषादाननुव्रत: ॥ ४६ ॥

श्री-शुकः उवाच एवम् सः सामभिः भेदैः बोध्यमानः अपि दारुणः न न्यवर्तत कौरव्य पुरुष-अदान् अनुव्रतः

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभि: ।
प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत
॥ ४७ ॥

निर्बन्धम् तस्य तम् ज्ञात्वा विचिन्त्य आनकदुन्दुभिः प्राप्तम् कालम् प्रतिव्योढुम् इदम् तत्र अन्वपद्यत

मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम् ।
यद्यसौ न निवर्तेत नापराधोऽस्ति देहिन: ॥ ४८


मृत्युः बुद्धि-मता अपोह्यः यावत् बुद्धि-बल-उदयम् यदि असौ न निवर्तेत न अपराधः अस्ति देहिनः

प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम् ।
सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९
॥ विपर्ययो वा किं न स्याद् गतिर्धातुर्दुरत्यया ।
उपस्थितो निवर्तेत निवृत्त: पुनरापतेत् ॥
५० ॥

प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् सुताः मे यदि जायेरन् मृत्युः वा न म्रियेत चेत् विपर्ययः वा किम् न स्यात् गतिः धातुः दुरत्यया उपस्थितः निवर्तेत निवृत्तः पुनः आपतेत्

अग्नेर्यथा दारुवियोगयोगयो-रदृष्टतोऽन्यन्न निमित्तमस्ति ।
एवं हि जन्तोरपि
दुर्विभाव्य:शरीरसंयोगवियोगहेतु: ॥ ५१ ॥

अग्नेः यथा दारु वियोग-योगयोः अदृष्टतः अन्यत् न निमित्तम् अस्ति एवम् हि जन्तोः अपि दुर्विभाव्यः शरीर संयोग वियोग हेतुः

एवं विमृश्य तं पापं यावदात्मनिदर्शनम् ।
पूजयामास वै शौरिर्बहुमानपुर:सरम् ॥ ५२ ॥

एवम् विमृश्य तम् पापम् यावत् आत्मनि-दर्शनम् पूजयाम् आस वै शौरिः बहु-मान पुरःसरम्

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम् ।
मनसा दूयमानेन विहसन्निदमब्रवीत् ॥ ५३ ॥

प्रसन्न-वदन-अम्भोजः नृशंसम् निरपत्रपम् मनसा दूयमानेन विहसन् इदम् अब्रवीत्

श्रीवसुदेव उवाच
न ह्यस्यास्ते भयं सौम्य यद् वैसाहाशरीरवाक् ।
पुत्रान् समर्पयिष्येऽस्या
यतस्ते भयमुत्थितम् ॥ ५४ ॥

श्री-वसुदेवः उवाच न हि अस्याः ते भयम् सौम्य यत् वै सा आह अ-शरीर-वाक् पुत्रान् समर्पयिष्ये अस्याः यतः ते भयम् उत्थितम्

श्रीशुक उवाच
स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् ।
वसुदेवोऽपि तं प्रीत: प्रशस्य
प्राविशद् गृहम् ॥ ५५ ॥

श्री-शुकः उवाच स्वसुः वधात् निववृते कंसः तत्-वाक्य सार-वित् वसुदेवः अपि तम् प्रीतः प्रशस्य प्राविशत् गृहम्

अथ काल उपावृत्ते देवकी सर्वदेवता ।
पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ ५६ ॥

अथ काले उपावृत्ते देवकी सर्व-देवता पुत्रान् प्रसुषुवे च अष्टौ कन्यां च एव अनुवत्सरम्

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभि: ।
अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वल: ॥ ५७ ॥

कीर्तिमन्तम् प्रथम-जम् कंसाय आनकदुन्दुभिः अर्पयाम् आस कृच्छ्रेण सः अनृतात् अति-विह्वलः

किं दु:सहं नु साधूनां विदुषां किमपेक्षितम् ।
किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ ५८


किम् दुःसहम् नु साधूनाम् विदुषाम् किम् अपेक्षितम् किम् अकार्यम् कदर्याणाम् दुस्त्यजम् किम् धृत-आत्मनाम्

द‍ृष्ट्वा समत्वं तच्छौरे: सत्ये चैव व्यवस्थितिम् ।
कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत् ॥ ५९


दृष्ट्वा समत्वम् तत् शौरेः सत्ये च एव व्यवस्थितिम् कंसः तुष्ट-मनाः राजन् प्रहसन् इदम् अब्रवीत्

प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् ।
अष्टमाद् युवयोर्गर्भान्मृत्युर्मे विहित: किल ॥
६० ॥

प्रतियातु कुमारः अयम् न हि अस्मात् अस्ति मे भयम् अष्टमात् युवयोः गर्भात् मृत्युः मे विहितः किल

तथेति सुतमादाय ययावानकदुन्दुभि: ।
नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मन: ॥ ६१ ॥

तथा इति सुतम् आदाय ययौ आनकदुन्दुभिः न अभ्यनन्दत तत्-वाक्यम् असतः अविजित-आत्मनः

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषित: ।
वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रिय:
॥ ६२ ॥ सर्वे वै देवताप्राया उभयोरपि भारत ।
ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रता: ॥ ६३


नन्द-आद्याः ये व्रजे गोपाः याः च अमीषाम् च योषितः वृष्णयः वसुदेव-आद्याः देवकी-आद्याः यदु-स्त्रियः सर्वे वै देवता-प्रायाः उभयोः अपि भारत ज्ञातयः बन्धु सुहृदः ये च कंसम् अनुव्रताः

एतत् कंसाय भगवाञ्छशंसाभ्येत्य नारद: ।
भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥ ६४ ॥

एतत् कंसाय भगवान् शशंस अभ्येत्य नारदः भूमेः भारायमाणानाम् दैत्यानाम् च वध-उद्यमम्

ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति ।
देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ॥ ६५ ॥
देवकीं वसुदेवं च निगृह्य निगडैर्गृहे ।
जातं जातमहन् पुत्रं तयोरजनशङ्कया ॥ ६६ ॥

ऋषेः विनिर्गमे कंसः यदून् मत्वा सुरान् इति देवक्याः गर्भ-सम्भूतम् विष्णुम् च स्व-वधम् प्रति देवकीम् वसुदेवम् च निगृह्य निगडैः गृहे जातम् जातम् अहन् पुत्रम् तयोः अजन-शङ्कया

मातरं पितरं भ्रातृन् सर्वांश्च सुहृदस्तथा ।
घ्नन्ति ह्यसुतृपो लुब्धा राजान: प्रायशो भुवि ॥
६७ ॥

मातरम् पितरम् भ्रातॄन् सर्वान् च सुहृदः तथा घ्नन्ति हि असु-तृपः लुब्धाः राजानः प्रायशः भुवि

आत्मानमिह सञ्जातं जानन्प्राग् विष्णुना हतम् ।
महासुरं कालनेमिं यदुभि: स व्यरुध्यत ॥ ६८ ॥

आत्मानम् इह सञ्जातम् जानन् प्राक् विष्णुना हतम् महा-असुरम् कालनेमिम् यदुभिः सः व्यरुध्यत

उग्रसेनं च पितरं यदुभोजान्धकाधिपम् ।
स्वयं निगृह्य बुभुजे शूरसेनान् महाबल: ॥ ६९ ॥

उग्रसेनम् च पितरम् यदु भोज अन्धक अधिपम् स्वयम् निगृह्य बुभुजे शूरसेनान् महा-बलः

१०.२

श्रीशुक उवाच
प्रलम्बबकचाणूरतृणावर्तमहाशनै: ।
मुष्टिकारिष्टद्विविदपूतनाकेशीधेनुकै: ॥ १ ॥
अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युत: ।
यदूनां कदनं चक्रे बली मागधसंश्रय: ॥ २ ॥

श्री-शुकः उवाच प्रलम्ब बक चाणूर तृणावर्त महाशनैः मुष्टिक अरिष्ट द्विविद पूतना केशी धेनुकैः अन्यैः च असुर-भूपालैः बाण भौम आदिभिः युतः यदूनाम् कदनम् चक्रे बली मागध-संश्रयः

ते पीडिता निविविशु: कुरुपञ्चालकेकयान् ।
शाल्वान् विदर्भान् निषधान् विदेहान् कोशलानपि ॥
३ ॥

ते पीडिताः निविविशुः कुरु-पञ्चाल केकयान् शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि

एके तमनुरुन्धाना ज्ञातय: पर्युपासते ।
हतेषु षट्‌सु बालेषु देवक्या औग्रसेनिना ॥ ४ ॥ सप्तमो
वैष्णवं धाम यमनन्तं प्रचक्षते ।
गर्भो बभूव देवक्या हर्षशोकविवर्धन: ॥ ५ ॥

एके तम् अनुरुन्धानाः ज्ञातयः पर्युपासते हतेषु षट्सु बालेषु देवक्याः औग्रसेनिना सप्तमः वैष्णवम् धाम यम् अनन्तम् प्रचक्षते गर्भः बभूव देवक्याः हर्ष-शोक-विवर्धनः

भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ।
यदूनां निजनाथानां योगमायां समादिशत् ॥ ६ ॥

भगवान् अपि विश्वात्मा विदित्वा कंस-जम् भयम् यदूनाम् निज-नाथानाम् योग-मायाम् समादिशत्

गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् ।
रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले ।
अन्याश्च
कंससंविग्ना विवरेषु वसन्ति हि ॥ ७ ॥

गच्छ देवि व्रजम् भद्रे गोप-गोभिः अलङ्कृतम् रोहिणी वसुदेवस्य भार्या आस्ते नन्द-गोकुले अन्याः च कंस-संविग्नाः विवरेषु वसन्ति हि

देवक्या जठरे गभन शेषाख्यं धाम मामकम् ।
तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ ८ ॥

देवक्याः जठरे गर्भम् शेष-आख्यम् धाम मामकम् तत् सन्निकृष्य रोहिण्याः उदरे सन्निवेशय

अथाहमंशभागेन देवक्या: पुत्रतां शुभे ।
प्राप्स्यामि त्वं यशोदायां नन्दपत्न्‍यां भविष्यसि ॥ ९ ॥

अथ अहम् अंश-भागेन देवक्याः पुत्रताम् शुभे प्राप्स्यामि त्वम् यशोदायाम् नन्द-पत्न्याम् भविष्यसि

अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् ।
धूपोपहारबलिभि: सर्वकामवरप्रदाम् ॥ १० ॥

अर्चिष्यन्ति मनुष्याः त्वाम् सर्व-काम-वर-ईश्वरीम् धूप उपहार बलिभिः सर्व-काम वर प्रदाम्

नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि ।
दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ ११
॥ कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।
माया नारायणीशानी शारदेत्यम्बिकेति च ॥ १२


नामधेयानि कुर्वन्ति स्थानानि च नराः भुवि दुर्गा इति भद्रकाली इति विजया वैष्णवी इति च कुमुदा चण्डिका कृष्णा माधवी कन्यका इति च माया नारायणी ईशानी शारदा इति अम्बिका इति च

गर्भसङ्कर्षणात् तं वै प्राहु: सङ्कर्षणं भुवि ।
रामेति लोकरमणाद् बलभद्रं बलोच्छ्रयात् ॥ १३ ॥

गर्भ-सङ्कर्षणात् तम् वै प्राहुः सङ्कर्षणम् भुवि राम इति लोक-रमणात् बलभद्रम् बल-उच्छ्रयात्

सन्दिष्टैवं भगवता तथेत्योमिति तद्वच: ।
प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥ १४ ॥

सन्दिष्टा एवम् भगवता तथा इति ओम् इति तत्-वचः प्रतिगृह्य परिक्रम्य गाम् गता तत् तथा अकरोत्

गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया ।
अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशु: ॥
१५ ॥

गर्भे प्रणीते देवक्याः रोहिणीम् योग-निद्रया अहो विस्रंसितः गर्भः इति पौराः विचुक्रुशुः

भगवानपि विश्वात्मा भक्तानामभयङ्कर: ।
आविवेशांशभागेन मन आनकदुन्दुभे: ॥ १६ ॥

भगवान् अपि विश्वात्मा भक्तानाम् अभयम्-करः आविवेश अंश-भागेन मनः आनकदुन्दुभेः

स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रवि: ।
दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ १७


सः बिभ्रत् पौरुषम् धाम भ्राजमानः यथा रविः दुरासदः अति-दुर्धर्षः भूतानाम् सम्बभूव ह

ततो जगन्मङ्गलमच्युतांशंसमाहितं शूरसुतेन देवी ।
दधार सर्वात्मकमात्मभूतंकाष्ठा यथानन्दकरं
मनस्त: ॥ १८ ॥

ततः जगत्-मङ्गलम् अच्युत-अंशम् समाहितम् शूर-सुतेन देवी दधार सर्व-आत्मकम् आत्म-भूतम् काष्ठा यथा आनन्द-करम् मनस्तः

सा देवकी सर्वजगन्निवास-निवासभूता नितरां न रेजे ।
भोजेन्द्रगेहेऽग्निशिखेव रुद्धासरस्वती
ज्ञानखले यथा सती ॥ १९ ॥

सा देवकी सर्व-जगत्-निवास निवास-भूता नितराम् न रेजे भोजेन्द्र-गेहे अग्नि-शिखा इव रुद्धा सरस्वती ज्ञान-खले यथा सती

तां वीक्ष्य कंस: प्रभयाजितान्तरांविरोचयन्तीं भवनं शुचिस्मिताम् ।
आहैष मे प्राणहरो
हरिर्गुहांध्रुवं श्रितो यन्न पुरेयमीद‍ृशी ॥ २० ॥

ताम् वीक्ष्य कंसः प्रभया अजित-अन्तराम् विरोचयन्तीम् भवनम् शुचि-स्मिताम् आह एषः मे प्राण-हरः हरिः गुहाम् ध्रुवम् श्रितः यत् न पुरा इयम् ईदृशी

किमद्य तस्मिन् करणीयमाशु मेयदर्थतन्त्रो न विहन्ति विक्रमम् ।
स्त्रिया: स्वसुर्गुरुमत्या
वधोऽयंयश: श्रियं हन्त्यनुकालमायु: ॥ २१ ॥

किम् अद्य तस्मिन् करणीयम् आशु मे यत् अर्थ-तन्त्रः न विहन्ति विक्रमम् स्त्रियाः स्वसुः गुरु-मत्याः वधः अयम् यशः श्रियम् हन्ति अनुकालम् आयुः

स एष जीवन् खलु सम्परेतोवर्तेत योऽत्यन्तनृशंसितेन ।
देहे मृते तं मनुजा: शपन्तिगन्ता तमोऽन्धं
तनुमानिनो ध्रुवम् ॥ २२ ॥

सः एषः जीवन् खलु सम्परेतः वर्तेत यः अत्यन्त नृशंसितेन देहे मृते तम् मनुजाः शपन्ति गन्ता तमः अन्धम् तनु-मानिनः ध्रुवम्

इति घोरतमाद् भावात् सन्निवृत्त: स्वयं प्रभु: ।
आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् ॥ २३


इति घोर-तमात् भावात् सन्निवृत्तः स्वयम् प्रभुः आस्ते प्रतीक्षन् तत्-जन्म हरेः वैर-अनुबन्ध-कृत्

आसीन: संविशंस्तिष्ठन् भुञ्जान: पर्यटन् महीम् ।
चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत् ॥ २४ ॥

आसीनः संविशन् तिष्ठन् भुञ्जानः पर्यटन् महीम् चिन्तयानः हृषीकेशम् अपश्यत् तत्-मयम् जगत्

ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभि: ।
देवै: सानुचरै: साकं गीर्भिर्वृषणमैडयन् ॥ २५ ॥

ब्रह्मा भवः च तत्र एत्य मुनिभिः नारद-आदिभिः देवैः स-अनुचरैः साकम् गीर्भिः वृषणम् ऐडयन्

सत्यव्रतं सत्यपरं त्रिसत्यंसत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यमृतसत्यनेत्रंसत्यात्मकं त्वां
शरणं प्रपन्ना: ॥ २६ ॥

सत्य-व्रतम् सत्य-परम् त्रि-सत्यम् सत्यस्य योनिम् निहितम् च सत्ये सत्यस्य सत्यम् ऋत-सत्य-नेत्रम् सत्य-आत्मकम् त्वाम् शरणम् प्रपन्नाः

एकायनोऽसौ द्विफलस्त्रिमूल-श्चतूरस: पञ्चविध: षडात्मा ।
सप्तत्वगष्टविटपो नवाक्षोदशच्छदी
द्विखगो ह्यादिवृक्ष: ॥ २७ ॥

एक-अयनः असौ द्वि-फलः त्रि-मूलः चतुः-रसः पञ्च-विधः षट्-आत्मा सप्त-त्वक् अष्ट-विटपः नव-अक्षः दश-छदी द्वि-खगः हि आदि-वृक्षः

त्वमेक एवास्य सत: प्रसूति-स्त्वं सन्निधानं त्वमनुग्रहश्च ।
त्वन्मायया संवृतचेतसस्त्वांपश्यन्ति
नाना न विपश्चितो ये ॥ २८ ॥

त्वम् एकः एव अस्य सतः प्रसूतिः त्वम् सन्निधानम् त्वम् अनुग्रहः च त्वत्-मायया संवृत-चेतसः त्वाम् पश्यन्ति नाना न विपश्चितः ये

बिभर्षि रूपाण्यवबोध आत्माक्षेमाय लोकस्य चराचरस्य ।
सत्त्वोपपन्नानि
सुखावहानिसतामभद्राणि मुहु: खलानाम् ॥ २९ ॥

बिभर्षि रूपाणि अवबोधः आत्मा क्षेमाय लोकस्य चर-अचरस्य सत्त्व-उपपन्नानि सुख-अवहानि सताम् अभद्राणि मुहुः खलानाम्

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्निसमाधिनावेशितचेतसैके ।
त्वत्पादपोतेन महत्कृतेनकुर्वन्ति गोवत्सपदं
भवाब्धिम् ॥ ३० ॥

त्वयि अम्बुज-अक्ष अखिल-सत्त्व-धाम्नि समाधिना आवेशित चेतसा एके त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदम् भव-अब्धिम्

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीममदभ्रसौहृदा: ।
भवत्पदाम्भोरुहनावमत्र ते
निधाय याता: सदनुग्रहो भवान् ॥ ३१ ॥

स्वयम् समुत्तीर्य सु-दुस्तरम् द्युमन् भव-अर्णवम् भीमम् अदभ्र-सौहृदाः भवत्-पद-अम्भोरुह नावम् अत्र ते निधाय याताः सत्-अनुग्रहः भवान्

येऽन्येऽरविन्दाक्ष विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धय: ।
आरुह्य कृच्छ्रेण परं पदं तत:
पतन्त्यधोऽनाद‍ृतयुष्मदङ्‌घ्रय: ॥ ३२ ॥

ये अन्ये अरविन्द-अक्ष विमुक्त-मानिनः त्वयि अस्त-भावात् अविशुद्ध-बुद्धयः आरुह्य कृच्छ्रेण परम् पदम् ततः पतन्ति अधः अनादृत युष्मत् अङ्घ्रयः

तथा न ते माधव तावका: क्‍वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदा: ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो ॥ ३३ ॥

तथा न ते माधव तावकाः क्वचित् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः त्वया अभिगुप्ताः विचरन्ति निर्भयाः विनायक-अनीकप मूर्धसु प्रभो

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयउपायनं वपु: ।
वेदक्रियायोगतप:समाधिभि-
स्तवार्हणं येन जन: समीहते ॥ ३४ ॥

सत्त्वम् विशुद्धम् श्रयते भवान् स्थितौ शरीरिणाम् श्रेयः उपायनम् वपुः वेद-क्रिया योग तपः समाधिभिः तव अर्हणम् येन जनः समीहते

सत्त्वं न चेद्धातरिदं निजं भवेद्
विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान्
प्रकाशते यस्य च येन वा गुण: ॥ ३५ ॥

सत्त्वम् न चेत् धातः इदम् निजम् भवेत् विज्ञानम् अज्ञान-भिदा अपमार्जनम् गुण-प्रकाशैः अनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः

न नामरूपे गुणजन्मकर्मभि-
र्निरूपितव्ये तव तस्य साक्षिण: ।
मनोवचोभ्यामनुमेयवर्त्मनो
देव क्रियायां प्रतियन्त्यथापि हि ॥ ३६ ॥

न नाम-रूपे गुण जन्म कर्मभिः निरूपितव्ये तव तस्य साक्षिणः मनः वचोभ्याम् अनुमेय वर्त्मनः देव क्रियायाम् प्रतियन्ति अथ अपि हि

श‍ृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते ।
क्रियासु यस्त्वच्चरणारविन्दयो-
राविष्टचेता न भवाय कल्पते ॥ ३७ ॥

शृण्वन् गृणन् संस्मरयन् च चिन्तयन् नामानि रूपाणि च मङ्गलानि ते क्रियासु यः त्वत्-चरण-अरविन्दयोः आविष्ट-चेताः न भवाय कल्पते

दिष्टय‍ा हरेऽस्या भवत: पदो भुवो
भारोऽपनीतस्तव जन्मनेशितु: ।
दिष्टय‍ाङ्कितां त्वत्पदकै: सुशोभनै-
र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३८ ॥

दिष्ट्या हरे अस्याः भवतः पदः भुवः भारः अपनीतः तव जन्मना ईशितुः दिष्ट्या अङ्किताम् त्वत्-पदकैः सु-शोभनैः द्रक्ष्याम गाम् द्याम् च तव अनुकम्पिताम्

न तेऽभवस्येश भवस्य कारणं
विना विनोदं बत तर्कयामहे ।
भवो निरोध: स्थितिरप्यविद्यया
कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३९ ॥

न ते अभवस्य ईश भवस्य कारणम् विना विनोदम् बत तर्कयामहे भवः निरोधः स्थितिः अपि अविद्यया कृताः यतः त्वयि अभय-आश्रय आत्मनि

मत्स्याश्वकच्छपनृसिंहवराहहंस-
राजन्यविप्रविबुधेषु कृतावतार: ।
त्वं पासि नस्त्रिभुवनं च यथाधुनेश
भारं भुवो हर यदूत्तम वन्दनं ते ॥ ४० ॥

मत्स्य अश्व कच्छप नृसिंह वराह हंस राजन्य विप्र विबुधेषु कृत-अवतारः त्वम् पासि नः त्रि-भुवनम् च यथा अधुना ईश भारम् भुवः हर यदु-उत्तम वन्दनम् ते

दिष्टय‍ाम्ब ते कुक्षिगत: पर: पुमा-
नंशेन साक्षाद् भगवान् भवाय न: ।
माभूद् भयं भोजपतेर्मुमूर्षो-
र्गोप्ता यदूनां भविता तवात्मज: ॥ ४१ ॥

दिष्ट्या अम्ब ते कुक्षि-गतः परः पुमान् अंशेन साक्षात् भगवान् भवाय नः मा अभूत् भयम् भोज-पतेः मुमूर्षोः गोप्ता यदूनाम् भविता तव आत्मजः

श्रीशुक उवाच
इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा ।
ब्रह्मेशानौ पुरोधाय देवा: प्रतिययुर्दिवम् ॥ ४२ ॥

श्री-शुकः उवाच इति अभिष्टूय पुरुषम् यत्-रूपम् अनिदम् यथा ब्रह्म ईशानौ पुरोधाय देवाः प्रतिययुः दिवम्

१०.३

श्रीशुक उवाच
अथ सर्वगुणोपेत: काल: परमशोभन: ।
यर्ह्येवाजनजन्मक्षन शान्तर्क्षग्रहतारकम् ॥ १ ॥
दिश: प्रसेदुर्गगनं निर्मलोडुगणोदयम् ।
मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥ २ ॥
नद्य: प्रसन्नसलिला ह्रदा जलरुहश्रिय: ।
द्विजालिकुलसन्नादस्तवका वनराजय: ॥ ३ ॥
ववौ वायु: सुखस्पर्श: पुण्यगन्धवह: शुचि: ।
अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥
मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम् ।
जायमानेऽजने तस्मिन् नेदुर्दुन्दुभय: समम् ॥ ५ ॥

श्री-शुकः उवाच अथ सर्व गुण-उपेतः कालः परम-शोभनः यर्हि एव अजन जन्म-ऋक्षम् शान्त-ऋक्ष ग्रह-तारकम् दिशः प्रसेदुः गगनम् निर्मल-उडु-गण-उदयम् मही मङ्गल-भूयिष्ठ-पुर-ग्राम-व्रज-आकराः नद्यः प्रसन्न-सलिलाः ह्रदाः जलरुह-श्रियः द्विज-अलि-कुल-सन्नाद-स्तवकाः वन-राजयः ववौ वायुः सुख-स्पर्शः पुण्य-गन्ध-वहः शुचिः अग्नयः च द्विजातीनाम् शान्ताः तत्र समिन्धत मनांसि आसन् प्रसन्नानि साधूनाम् असुर-द्रुहाम् जायमाने अजने तस्मिन् नेदुः दुन्दुभयः समम्

जगु: किन्नरगन्धर्वास्तुष्टुवु: सिद्धचारणा: ।
विद्याधर्यश्च ननृतुरप्सरोभि: समं मुदा ॥ ६ ॥

जगुः किन्नर-गन्धर्वाः तुष्टुवुः सिद्ध-चारणाः विद्याधर्यः च ननृतुः अप्सरोभिः समम् मुदा

मुमुचुर्मुनयो देवा: सुमनांसि मुदान्विता: ।
मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ॥ ७ ॥
निशीथे तमउद्भ‍ूते जायमाने जनार्दने ।
देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय: ।
आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कल: ॥ ८ ॥

मुमुचुः मुनयः देवाः सुमनांसि मुदा अन्विताः मन्दम् मन्दम् जल-धराः जगर्जुः अनुसागरम् निशीथे तमः-उद्भूते जायमाने जनार्दने देवक्याम् देव-रूपिण्याम् विष्णुः सर्व-गुहा-शयः आविरासीत् यथा प्राच्याम् दिशि इन्दुः इव पुष्कलः

तमद्भ‍ुतं बालकमम्बुजेक्षणं
चतुर्भुजं शङ्खगदाद्युदायुधम् ।
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं
पीताम्बरं सान्द्रपयोदसौभगम् ॥ ९ ॥
महार्हवैदूर्यकिरीटकुण्डल-
त्विषा परिष्वक्तसहस्रकुन्तलम् ।
उद्दामकाञ्‍च्यङ्गदकङ्कणादिभि-
र्विरोचमानं वसुदेव ऐक्षत ॥ १० ॥

तम् अद्भुतम् बालकम् अम्बुज-ईक्षणम् चतुः-भुजम् शङ्ख-गदा-आदि उदायुधम् श्रीवत्स-लक्ष्मम् गल-शोभि-कौस्तुभम् पीत-अम्बरम् सान्द्र-पयोद-सौभगम् महा-अर्ह-वैदूर्य-किरीट-कुण्डल त्विषा परिष्वक्त-सहस्र-कुन्तलम् उद्दाम-काञ्ची-अङ्गद-कङ्कण-आदिभिः विरोचमानम् वसुदेवः ऐक्षत

स विस्मयोत्फुल्लविलोचनो हरिं
सुतं विलोक्यानकदुन्दुभिस्तदा ।
कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्
मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११ ॥

सः विस्मय-उत्फुल्ल-विलोचनः हरिम् सुतम् विलोक्य आनकदुन्दुभिः तदा कृष्ण-अवतार-उत्सव सम्भ्रमः अस्पृशत् मुदा द्विजेभ्यः अयुतम् आप्लुतः गवाम्

अथैनमस्तौदवधार्य पूरुषं
परं नताङ्ग: कृतधी: कृताञ्जलि: ।
स्वरोचिषा भारत सूतिकागृहं
विरोचयन्तं गतभी: प्रभाववित् ॥ १२ ॥

अथ एनम् अस्तौत् अवधार्य पूरुषम् परम् नत-अङ्गः कृत-धीः कृत-अञ्जलिः स्व-रोचिषा भारत सूतिका-गृहम् विरोचयन्तम् गत-भीः प्रभाव-वित्

श्रीवसुदेव उवाच
विदितोऽसि भवान् साक्षात्पुरुष: प्रकृते: पर: ।
केवलानुभवानन्दस्वरूप: सर्वबुद्धिद‍ृक् ॥ १३ ॥

श्री-वसुदेवः उवाच विदितः असि भवान् साक्षात् पुरुषः प्रकृतेः परः केवल-अनुभव-आनन्द-स्वरूपः सर्व-बुद्धि-दृक्

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।
तदनु त्वं ह्यप्रविष्ट: प्रविष्ट इव भाव्यसे ॥ १४ ॥

सः एव स्व-प्रकृत्या इदम् सृष्ट्वा अग्रे त्रि-गुण-आत्मकम् तत् अनु त्वम् हि अप्रविष्टः प्रविष्टः इव भाव्यसे

यथेमेऽविकृता भावास्तथा ते विकृतै: सह ।
नानावीर्या: पृथग्भूता विराजं जनयन्ति हि ॥ १५ ॥
सन्निपत्य समुत्पाद्य द‍ृश्यन्तेऽनुगता इव ।
प्रागेव विद्यमानत्वान्न तेषामिह सम्भव: ॥ १६ ॥
एवं भवान् बुद्ध्यनुमेयलक्षणै-
र्ग्राह्यैर्गुणै: सन्नपि तद्गुणाग्रह: ।
अनावृतत्वाद् बहिरन्तरं न ते
सर्वस्य सर्वात्मन आत्मवस्तुन: ॥ १७ ॥

यथा इमे अविकृताः भावाः तथा ते विकृतैः सह नाना-वीर्याः पृथक् भूताः विराजम् जनयन्ति हि सन्निपत्य समुत्पाद्य दृश्यन्ते अनुगताः इव प्राक् एव विद्यमानत्वात् न तेषाम् इह सम्भवः एवम् भवान् बुद्धि-अनुमेय-लक्षणैः ग्राह्यैः गुणैः सन् अपि तत्-गुण-अग्रहः अनावृतत्वात् बहिः अन्तरम् न ते सर्वस्य सर्व-आत्मनः आत्म-वस्तुनः

य आत्मनो द‍ृश्यगुणेषु सन्निति
व्यवस्यते स्वव्यतिरेकतोऽबुध: ।
विनानुवादं न च तन्मनीषितं
सम्यग् यतस्त्यक्तमुपाददत् पुमान् ॥ १८ ॥

यः आत्मनः दृश्य-गुणेषु सन् इति व्यवस्यते स्व-व्यतिरेकतः अबुधः विना अनुवादम् न च तत् मनीषितम् सम्यक् यतः त्यक्तम् उपाददत् पुमान्

त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो
वदन्त्यनीहादगुणादविक्रियात् ।
त्वयीश्वरे ब्रह्मणि नो विरुध्यते
त्वदाश्रयत्वादुपचर्यते गुणै: ॥ १९ ॥

त्वत्तः अस्य जन्म स्थिति संयमान् विभो वदन्ति अनीहात् अगुणात् अविक्रियात् त्वयि ईश्वरे ब्रह्मणि नो विरुध्यते त्वत्-आश्रयत्वात् उपचर्यते गुणैः

स त्वं त्रिलोकस्थितये स्वमायया
बिभर्षि शुक्लं खलु वर्णमात्मन: ।
सर्गाय रक्तं रजसोपबृंहितं
कृष्णं च वणन तमसा जनात्यये ॥ २० ॥

सः त्वम् त्रि-लोक-स्थितये स्व-मायया बिभर्षि शुक्लम् खलु वर्णम् आत्मनः सर्गाय रक्तम् रजसा उपबृंहितम् कृष्णम् च वर्णम् तमसा जन-अत्यये

त्वमस्य लोकस्य विभो रिरक्षिषु-
र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।
राजन्यसंज्ञासुरकोटियूथपै-
र्निर्व्यूह्यमाना निहनिष्यसे चमू: ॥ २१ ॥

त्वम् अस्य लोकस्य विभो रिरक्षिषुः गृहे अवतीर्णः असि मम अखिल-ईश्वर राजन्य-संज्ञ-असुर-कोटि-यूथ-पैः निर्व्यूह्यमानाः निहनिष्यसे चमूः

अयं त्वसभ्यस्तव जन्म नौ गृहे
श्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर ।
स तेऽवतारं पुरुषै: समर्पितं
श्रुत्वाधुनैवाभिसरत्युदायुध: ॥ २२ ॥

अयम् तु असभ्यः तव जन्म नौ गृहे श्रुत्वा अग्रजान् ते न्यवधीत् सुर-ईश्वर सः ते अवतारम् पुरुषैः समर्पितम् श्रुत्वा अधुना एव अभिसरति उदायुधः

श्रीशुक उवाच
अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् ।
देवकी तमुपाधावत् कंसाद् भीता सुविस्मिता ॥ २३ ॥

श्री-शुकः उवाच अथ एनम् आत्मजम् वीक्ष्य महा-पुरुष-लक्षणम् देवकी तम् उपाधावत् कंसात् भीता सु-विस्मिता

श्रीदेवक्युवाच
रूपं यत् तत् प्राहुरव्यक्तमाद्यं
ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं
स त्वं साक्षाद् विष्णुरध्यात्मदीप: ॥ २४ ॥

श्री-देवकी उवाच रूपम् यत् तत् प्राहुः अव्यक्तम् आद्यम् ब्रह्म ज्योतिः निर्गुणम् निर्विकारम् सत्ता-मात्रम् निर्विशेषम् निरीहम् सः त्वम् साक्षात् विष्णुः अध्यात्म-दीपः

नष्टे लोके द्विपरार्धावसाने
महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते
भवानेक: शिष्यतेऽशेषसंज्ञ: ॥ २५ ॥

नष्टे लोके द्वि-परार्ध-अवसाने महा-भूतेषु आदि-भूतम् गतेषु व्यक्ते अव्यक्तम् काल-वेगेन याते भवान् एकः शिष्यते अशेष-संज्ञः

योऽयं कालस्तस्य तेऽव्यक्तबन्धो
चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयां-
स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥

यः अयम् कालः तस्य ते अव्यक्त-बन्धो चेष्टाम् आहुः चेष्टते येन विश्वम् निमेष-आदिः वत्सर-अन्तः महीयान् तम् त्वा ईशानम् क्षेम-धाम प्रपद्ये

मर्त्यो मृत्युव्यालभीत: पलायन्‌
लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यद‍ृच्छयाद्य
सुस्थ: शेते मृत्युरस्मादपैति ॥ २७ ॥

मर्त्यः मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयम् न अध्यगच्छत् त्वत्-पाद-अब्जम् प्राप्य यदृच्छया अद्य सु-स्थः शेते मृत्युः अस्मात् अपैति

स त्वं घोरादुग्रसेनात्मजान्न-
स्त्राहि त्रस्तान् भृत्यवित्रासहासि ।
रूपं चेदं पौरुषं ध्यानधिष्ण्यं
मा प्रत्यक्षं मांसद‍ृशां कृषीष्ठा: ॥ २८ ॥

सः त्वम् घोरात् उग्रसेन-आत्मजात् नः त्राहि त्रस्तान् भृत्य-वित्रास-हा असि रूपम् च इदम् पौरुषम् ध्यान-धिष्ण्यम् मा प्रत्यक्षम् मांस-दृशाम् कृषीष्ठाः

जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।
समुद्विजे भवद्धेतो: कंसादहमधीरधी: ॥ २९ ॥

जन्म ते मयि असौ पापः मा विद्यात् मधुसूदन समुद्विजे भवत्-हेतोः कंसात् अहम् अधीर-धीः

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।
शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥

उपसंहर विश्वात्मन् अदः रूपम् अलौकिकम् शङ्ख-चक्र-गदा-पद्म श्रिया जुष्टम् चतुः-भुजम्

विश्वं यदेतत् स्वतनौ निशान्ते
यथावकाशं पुरुष: परो भवान् ।
बिभर्ति सोऽयं मम गर्भगोऽभू-
दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१ ॥

विश्वम् यत् एतत् स्व-तनौ निशा-अन्ते यथा-अवकाशम् पुरुषः परः भवान् बिभर्ति सः अयम् मम गर्भ-गः अभूत् अहो नृ-लोकस्य विडम्बनम् हि तत्

श्रीभगवानुवाच
त्वमेव पूर्वसर्गेऽभू: पृश्न‍ि: स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिरकल्मष: ॥ ३२ ॥

श्री-भगवान् उवाच त्वम् एव पूर्व-सर्गे अभूः पृश्निः स्वायम्भुवे सति तदा अयम् सुतपा नाम प्रजापतिः अकल्मषः

युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा तत:

सन्नियम्येन्द्रियग्रामं तेपाथे परमं तप: ॥ ३३ ॥

युवाम् वै ब्रह्मणा आदिष्टौ प्रजा-सर्गे यदा ततः सन्नियम्य इन्द्रिय-ग्रामम् तेपाथे परमम् तपः

वर्षवातातपहिमघर्मकालगुणाननु ।
सहमानौ श्वासरोधविनिर्धूतमनोमलौ ॥ ३४ ॥
शीर्णपर्णानिलाहारावुपशान्तेन चेतसा ।
मत्त: कामानभीप्सन्तौ मदाराधनमीहतु: ॥ ३५ ॥

वर्ष वात आतप हिम घर्म काल-गुणान् अनु सहमानौ श्वास-रोध विनिर्धूत मनः-मलौ शीर्ण पर्ण अनिल आहारौ उपशान्तेन चेतसा मत्तः कामान् अभीप्सन्तौ मत् आराधनम् ईहतुः

एवं वां तप्यतोस्तीव्रं तप: परमदुष्करम् ।
दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनो: ॥ ३६ ॥

एवम् वाम् तप्यतोः तीव्रम् तपः परम-दुष्करम् दिव्य-वर्ष सहस्राणि द्वादश ईयुः मत्-आत्मनोः

तदा वां परितुष्टोऽहममुना वपुषानघे ।
तपसा श्रद्धया नित्यं भक्त्या च हृदि भावित: ॥ ३७ ॥
प्रादुरासं वरदराड् युवयो: कामदित्सया ।
व्रियतां वर इत्युक्ते माद‍ृशो वां वृत: सुत: ॥ ३८ ॥

तदा वाम् परितुष्टः अहम् अमुना वपुषा अनघे तपसा श्रद्धया नित्यम् भक्त्या च हृदि भावितः प्रादुरासम् वर-द-राट् युवयोः काम-दित्सया व्रियताम् वरः इति उक्ते मादृशः वाम् वृतः सुतः

अजुष्टग्राम्यविषयावनपत्यौ च दम्पती ।
न वव्राथेऽपवगन मे मोहितौ देवमायया ॥ ३९ ॥

अजुष्ट-ग्राम्य-विषयौ अनपत्यौ च दम्-पती न वव्राथे अपवर्गम् मे मोहितौ देव-मायया

गते मयि युवां लब्ध्वा वरं मत्सद‍ृशं सुतम् ।
ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४० ॥

गते मयि युवाम् लब्ध्वा वरम् मत्-सदृशम् सुतम् ग्राम्यान् भोगान् अभुञ्जाथाम् युवाम् प्राप्त मनोरथौ

अद‍ृष्ट्वान्यतमं लोके शीलौदार्यगुणै: समम् ।
अहं सुतो वामभवं पृश्न‍िगर्भ इति श्रुत: ॥ ४१ ॥

अदृष्ट्वा अन्यतमम् लोके शील-औदार्य-गुणैः समम् अहम् सुतः वाम् अभवम् पृश्नि-गर्भः इति श्रुतः

तयोवान पुनरेवाहमदित्यामास कश्यपात् ।
उपेन्द्र इति विख्यातो वामनत्वाच्च वामन: ॥ ४२ ॥

तयोः वाम् पुनः एव अहम् अदित्याम् आस कश्यपात् उपेन्द्रः इति विख्यातः वामनत्वात् च वामनः

तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् ।
जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३ ॥

तृतीये अस्मिन् भवे अहम् वै तेन एव वपुषा अथ वाम् जातः भूयः तयोः एव सत्यम् मे व्याहृतम् सति

एतद् वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे ।
नान्यथा मद्भ‍वं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४ ॥

एतत् वाम् दर्शितम् रूपम् प्राक्-जन्म स्मरणाय मे न अन्यथा मत्-भवम् ज्ञानम् मर्त्य-लिङ्गेन जायते

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् ।
चिन्तयन्तौ कृतस्‍नेहौ यास्येथे मद्गतिं पराम् ॥ ४५ ॥

युवाम् माम् पुत्र-भावेन ब्रह्म-भावेन च असकृत् चिन्तयन्तौ कृत-स्नेहौ यास्येथे मत्-गतिम् पराम्

श्रीशुक उवाच
इत्युक्त्वासीद्धरिस्तूष्णीं भगवानात्ममायया ।
पित्रो: सम्पश्यतो: सद्यो बभूव प्राकृत: शिशु: ॥ ४६ ॥

श्री-शुकः उवाच इति उक्त्वा आसीत् हरिः तूष्णीम् भगवान् आत्म-मायया पित्रोः सम्पश्यतोः सद्यः बभूव प्राकृतः शिशुः

ततश्च शौरिर्भगवत्प्रचोदित:
सुतं समादाय स सूतिकागृहात् ।
यदा बहिर्गन्तुमियेष तर्ह्यजा
या योगमायाजनि नन्दजायया ॥ ४७ ॥

ततः च शौरिः भगवत्-प्रचोदितः सुतम् समादाय सः सूतिका-गृहात् यदा बहिः गन्तुम् इयेष तर्हि अजा या योग-माया अजनि नन्द-जायया

तया हृतप्रत्ययसर्ववृत्तिषु
द्वा:स्थेषु पौरेष्वपि शायितेष्वथ ।
द्वारश्च सर्वा: पिहिता दुरत्यया
बृहत्कपाटायसकीलश‍ृङ्खलै: ॥ ४८ ॥
ता: कृष्णवाहे वसुदेव आगते
स्वयं व्यवर्यन्त यथा तमो रवे: ।
ववर्ष पर्जन्य उपांशुगर्जित:
शेषोऽन्वगाद् वारि निवारयन्‌ फणै: ॥ ४९ ॥

तया हृत-प्रत्यय सर्व-वृत्तिषु द्वाः-स्थेषु पौरेषु अपि शायितेषु अथ द्वारः च सर्वाः पिहिताः दुरत्यया बृहत्-कपाट आयस-कील-शृङ्खलैः ताः कृष्ण-वाहे वसुदेवे आगते स्वयम् व्यवर्यन्त यथा तमः रवेः ववर्ष पर्जन्यः उपांशु-गर्जितः शेषः अन्वगात् वारि निवारयन् फणैः

मघोनि वर्षत्यसकृद् यमानुजा
गम्भीरतोयौघजवोर्मिफेनिला ।
भयानकावर्तशताकुला नदी
मागन ददौ सिन्धुरिव श्रिय: पते: ॥ ५० ॥

मघोनि वर्षति असकृत् यम-अनुजा गम्भीर-तोय-ओघ जव ऊर्मि फेनिला भयानक आवर्त-शत आकुला नदी मार्गम् ददौ सिन्धुः इव श्रियः पतेः

नन्दव्रजं शौरिरुपेत्य तत्र तान्
गोपान् प्रसुप्तानुपलभ्य निद्रया ।
सुतं यशोदाशयने निधाय त-
त्सुतामुपादाय पुनर्गृहानगात् ॥ ५१ ॥

नन्द-व्रजम् शौरिः उपेत्य तत्र तान् गोपान् प्रसुप्तान् उपलभ्य निद्रया सुतम् यशोदा-शयने निधाय तत्-सुताम् उपादाय पुनः गृहान् अगात्

देवक्या: शयने न्यस्य वसुदेवोऽथ दारिकाम् ।
प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृत: ॥ ५२ ॥

देवक्याः शयने न्यस्य वसुदेवः अथ दारिकाम् प्रतिमुच्य पदोः लोहम् आस्ते पूर्व-वत् आवृतः

यशोदा नन्दपत्नी च जातं परमबुध्यत ।
न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृति: ॥ ५३ ॥

यशोदा नन्द-पत्नी च जातम् परम् अबुध्यत न तत्-लिङ्गम् परिश्रान्ता निद्रया अपगत-स्मृतिः

१०.४

श्रीशुक उवाच
बहिरन्त:पुरद्वार: सर्वा: पूर्ववदावृता: ।
ततो बालध्वनिं श्रुत्वा गृहपाला: समुत्थिता: ॥ १ ॥

श्री-शुकः उवाच बहिः-अन्तः-पुर-द्वारः सर्वाः पूर्व-वत् आवृताः ततः बाल-ध्वनिम् श्रुत्वा गृह-पालाः समुत्थिताः

ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् ।
आचख्युर्भोजराजाय यदुद्विग्न: प्रतीक्षते ॥ २ ॥

ते तु तूर्णम् उपव्रज्य देवक्याः गर्भ-जन्म तत् आचख्युः भोज-राजाय यत् उद्विग्नः प्रतीक्षते

स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वल: ।
सूतीगृहमगात् तूर्णं प्रस्खलन् मुक्तमूर्धज: ॥ ३ ॥

सः तल्पात् तूर्णम् उत्थाय कालः अयम् इति विह्वलः सूती-गृहम् अगात् तूर्णम् प्रस्खलन् मुक्त मूर्ध-जः

तमाह भ्रातरं देवी कृपणा करुणं सती ।
स्‍नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥

तम् आह भ्रातरम् देवी कृपणा करुणम् सती स्नुषा इयम् तव कल्याण स्त्रियम् मा हन्तुम् अर्हसि

बहवो हिंसिता भ्रात: शिशव: पावकोपमा: ।
त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥

बहवः हिंसिताः भ्रातः शिशवः पावक-उपमाः त्वया दैव-निसृष्टेन पुत्रिका एका प्रदीयताम्

नन्वहं ते ह्यवरजा दीना हतसुता प्रभो ।
दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ ६ ॥

ननु अहम् ते हि अवरजा दीना हत-सुता प्रभो दातुम् अर्हसि मन्दायाः अङ्ग इमाम् चरमाम् प्रजाम्

श्रीशुक उवाच
उपगुह्यात्मजामेवं रुदत्या दीनदीनवत् ।
याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खल: ॥ ७ ॥

श्री-शुकः उवाच उपगुह्य आत्मजाम् एवम् रुदत्या दीन-दीन-वत् याचितः ताम् विनिर्भर्त्स्य हस्तात् आचिच्छिदे खलः

तां गृहीत्वा चरणयोर्जातमात्रां स्वसु: सुताम् ।
अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृद: ॥ ८ ॥

ताम् गृहीत्वा चरणयोः जात-मात्राम् स्वसुः सुताम् अपोथयत् शिला-पृष्ठे स्व-अर्थ-उन्मूलित सौहृदः

सा तद्धस्तात् समुत्पत्य सद्यो देव्यम्बरं गता ।
अद‍ृश्यतानुजा विष्णो: सायुधाष्टमहाभुजा ॥ ९ ॥

सा तत्-हस्तात् सम्-उत्पत्य सद्यः देवी अम्बरम् गता अदृश्यत अनुजा विष्णोः स-आयुधा अष्ट महा-भुजा

दिव्यस्रगम्बरालेपरत्नाभरणभूषिता ।
धनु:शूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ १० ॥
सिद्धचारणगन्धर्वैरप्सर:किन्नरोरगै: ।
उपाहृतोरुबलिभि: स्तूयमानेदमब्रवीत् ॥ ११ ॥

दिव्य-स्रक्-अम्बर-आलेप रत्न-आभरण-भूषिता धनुः-शूल-इषु-चर्म-असि शङ्ख-चक्र-गदा-धरा सिद्ध-चारण-गन्धर्वैः अप्सरः-किन्नर-उरगैः उपाहृत-उरु-बलिभिः स्तूयमाना इदम् अब्रवीत्

किं मया हतया मन्द जात: खलु तवान्तकृत् ।
यत्र क्‍व वा पूर्वशत्रुर्मा हिंसी: कृपणान् वृथा ॥ १२ ॥

किम् मया हतया मन्द जातः खलु तव अन्त-कृत् यत्र क्व वा पूर्व-शत्रुः मा हिंसीः कृपणान् वृथा

इति प्रभाष्य तं देवी माया भगवती भुवि ।
बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥

इति प्रभाष्य तम् देवी माया भगवती भुवि बहु-नाम निकेतेषु बहु-नामा बभूव ह

तयाभिहितमाकर्ण्य कंस: परमविस्मित: ।
देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥

तया अभिहितम् आकर्ण्य कंसः परम-विस्मितः देवकीम् वसुदेवम् च विमुच्य प्रश्रितः अब्रवीत्

अहो भगिन्यहो भाम मया वां बत पाप्मना ।
पुरुषाद इवापत्यं बहवो हिंसिता: सुता: ॥ १५ ॥

अहो भगिनि अहो भाम मया वाम् बत पाप्मना पुरुष-अदः इव अपत्यम् बहवः हिंसिताः सुताः

स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खल: ।
कान्लोकान् वै गमिष्यामि ब्रह्महेव मृत: श्वसन् ॥
१६ ॥

सः तु अहम् त्यक्त-कारुण्यः त्यक्त-ज्ञाति-सुहृत् खलः कान् लोकान् वै गमिष्यामि ब्रह्म-हा इव मृतः श्वसन्

दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् ।
यद्विश्रम्भादहं पाप: स्वसुर्निहतवाञ्छिशून् ॥ १७ ॥

दैवम् अपि अनृतम् वक्ति न मर्त्याः एव केवलम् यत्-विश्रम्भात् अहम् पापः स्वसुः निहतवान् शिशून्

मा शोचतं महाभागावात्मजान् स्वकृतंभुज: ।
जान्तवो न सदैकत्र दैवाधीनास्तदासते ॥ १८ ॥

मा शोचतम् महा-भागौ आत्मजान् स्व-कृतम् भुजः जान्तवः न सदा एकत्र दैव-अधीनाः तदा आसते

भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च ।
नायमात्मा तथैतेषु विपर्येति यथैव भू: ॥ १९ ॥

भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च न अयम् आत्मा तथा एतेषु विपर्येति यथा एव भूः

यथानेवंविदो भेदो यत आत्मविपर्यय: ।
देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥

यथा अन्-एवम्-विदः भेदः यतः आत्म-विपर्ययः देह-योग-वियोगौ च संसृतिः न निवर्तते

तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि ।
मानुशोच यत: सर्व: स्वकृतं विन्दतेऽवश: ॥ २१ ॥

तस्मात् भद्रे स्व-तनयान् मया व्यापादितान् अपि मा अनुशोच यतः सर्वः स्व-कृतम् विन्दते अवशः

यावद्धतोऽस्मि हन्तास्मीत्यात्मानं मन्यतेऽस्वद‍ृक् ।
तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥

यावत् हतः अस्मि हन्ता अस्मि इति आत्मानम् मन्यते अ-स्व-दृक् तावत् तत्-अभिमानी अज्ञः बाध्य-बाधकताम् इयात्

क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सला: ।
इत्युक्त्वाश्रुमुख: पादौ श्याल: स्वस्रोरथाग्रहीत् ॥ २३ ॥

क्षमध्वम् मम दौरात्म्यम् साधवः दीन-वत्सलाः इति उक्त्वा अश्रु-मुखः पादौ श्यालः स्वस्रः अथ अग्रहीत्

मोचयामास निगडाद् विश्रब्ध: कन्यकागिरा ।
देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥ २४ ॥

मोचयाम् आस निगडात् विश्रब्धः कन्यका-गिरा देवकीम् वसुदेवम् च दर्शयन् आत्म-सौहृदम्

भ्रातु: समनुतप्तस्य क्षान्तरोषा च देवकी ।
व्यसृजद् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥

भ्रातुः समनुतप्तस्य क्षान्त-रोषा च देवकी व्यसृजत् वसुदेवः च प्रहस्य तम् उवाच ह

एवमेतन्महाभाग यथा वदसि देहिनाम् ।
अज्ञानप्रभवाहंधी: स्वपरेति भिदा यत: ॥ २६ ॥

एवम् एतत् महा-भाग यथा वदसि देहिनाम् अज्ञान-प्रभवा अहम्-धीः स्व-परा इति भिदा यतः

शोकहर्षभयद्वेषलोभमोहमदान्विता: ।
मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्द‍ृश: ॥ २७ ॥

शोक हर्ष भय द्वेष लोभ मोह मद अन्विताः मिथः घ्नन्तम् न पश्यन्ति भावैः भावम् पृथक्-दृशः

श्रीशुक उवाच
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषित: ।
देवकीवसुदेवाभ्यामनुज्ञातोऽविशद् गृहम् ॥ २८ ॥

श्री-शुकः उवाच कंसः एवम् प्रसन्नाभ्याम् विशुद्धम् प्रतिभाषितः देवकी-वसुदेवाभ्याम् अनुज्ञातः अविशत् गृहम्

तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिण: ।
तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥

तस्याम् रात्र्याम् व्यतीतायाम् कंसः आहूय मन्त्रिणः तेभ्यः आचष्ट तत् सर्वम् यत् उक्तम् योग-निद्रया

आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रव: ।
देवान् प्रति कृतामर्षा दैतेया नातिकोविदा: ॥ ३० ॥

आकर्ण्य भर्तुः गदितम् तम् ऊचुः देव-शत्रवः देवान् प्रति कृत-अमर्षाः दैतेयाः न अति-कोविदाः

एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु ।
अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥

एवम् चेत् तर्हि भोज-इन्द्र पुर-ग्राम-व्रज-आदिषु अनिर्दशान् निर्दशान् च हनिष्यामः अद्य वै शिशून्

किमुद्यमै: करिष्यन्ति देवा: समरभीरव: ।
नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥

किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः नित्यम् उद्विग्न-मनसः ज्या-घोषैः धनुषः तव

अस्यतस्ते शरव्रातैर्हन्यमाना: समन्तत: ।
जिजीविषव उत्सृज्य पलायनपरा ययु: ॥ ३३ ॥

अस्यतः ते शर-व्रातैः हन्यमानाः समन्ततः जिजीविषवः उत्सृज्य पलायन-पराः ययुः

केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकस: ।
मुक्तकच्छशिखा: केचिद् भीता: स्म इति वादिन: ॥ ३४ ॥

केचित् प्राञ्जलयः दीनाः न्यस्त-शस्त्राः दिवौकसः मुक्त-कच्छ-शिखाः केचित् भीताः स्म इति वादिनः

न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् ।
हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यत: ॥ ३५ ॥

न त्वम् विस्मृत-शस्त्र-अस्त्रान् विरथान् भय-संवृतान् हंसि अन्य-आसक्त-विमुखान् भग्न-चापान् अयुध्यतः

किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनै: ।
रहोजुषा किं हरिणा शम्भुना वा वनौकसा ।
किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥

किम् क्षेम शूरैः विबुधैः असंयुग-विकत्थनैः रहः-जुषा किम् हरिणा शम्भुना वा वन-ओकसा किम् इन्द्रेण अल्प-वीर्येण ब्रह्मणा वा तपस्यता

तथापि देवा: सापत्न्‍यान्नोपेक्ष्या इति मन्महे ।
ततस्तन्मूलखनने नियुङ्‌क्ष्वास्माननुव्रतान् ॥ ३७ ॥

तथा अपि देवाः सापत्न्यात् न उपेक्ष्याः इति मन्महे ततः तत्-मूल-खनने नियुङ्क्ष्व अस्मान् अनुव्रतान्

यथामयोऽङ्गे समुपेक्षितो नृभि-
र्न शक्यते रूढपदश्चिकित्सितुम् ।
यथेन्द्रियग्राम उपेक्षितस्तथा
रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥

यथा आमयः अङ्गे समुपेक्षितः नृभिः न शक्यते रूढ-पदः चिकित्सितुम् यथा इन्द्रिय-ग्रामः उपेक्षितः तथा रिपुः महान् बद्ध-बलः न चाल्यते

मूलं हि विष्णुर्देवानां यत्र धर्म: सनातन: ।
तस्य च ब्रह्म गोविप्रास्तपो यज्ञा: सदक्षिणा: ॥ ३९ ॥

मूलम् हि विष्णुः देवानाम् यत्र धर्मः सनातनः तस्य च ब्रह्म गो विप्राः तपः यज्ञाः स-दक्षिणाः

तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिन: ।
तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघा: ॥ ४० ॥

तस्मात् सर्व-आत्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः तपस्विनः यज्ञ-शीलान् गाः च हन्मः हविः-दुघाः

विप्रा गावश्च वेदाश्च तप: सत्यं दम: शम: ।
श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनू: ॥ ४१ ॥

विप्राः गावः च वेदाः च तपः सत्यम् दमः शमः श्रद्धा दया तितिक्षा च क्रतवः च हरेः तनूः

स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशय: ।
तन्मूला देवता: सर्वा: सेश्वरा: सचतुर्मुखा: ।
अयं वै तद्वधोपायो यद‍ृषीणां विहिंसनम् ॥ ४२ ॥

सः हि सर्व-सुर-अध्यक्षः हि असुर-द्विट् गुहा-शयः तत्-मूलाः देवताः सर्वाः स-ईश्वराः स-चतुः-मुखाः अयम् वै तत्-वध-उपायः यत् ऋषीणाम् विहिंसनम्

श्रीशुक उवाच
एवं दुर्मन्त्रिभि: कंस: सह सम्मन्‍त्र्य दुर्मति: ।
ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुर: ॥ ४३ ॥

श्री-शुकः उवाच एवम् दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ब्रह्म-हिंसाम् हितम् मेने काल-पाश-आवृतः असुरः

सन्दिश्य साधुलोकस्य कदने कदनप्रियान् ।
कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥

सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत्

ते वै रज:प्रकृतयस्तमसा मूढचेतस: ।
सतां विद्वेषमाचेरुरारादागतमृत्यव: ॥ ४५ ॥

ते वै रजः-प्रकृतयः तमसा मूढ-चेतसः सताम् विद्वेषम् आचेरुः आरात् आगत-मृत्य-वः

आयु: श्रियं यशो धर्मं लोकानाशिष एव च ।
हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रम: ॥ ४६ ॥

आयुः श्रियम् यशः धर्मम् लोकान् आशिषः एव च हन्ति श्रेयांसि सर्वाणि पुंसः महत्-अतिक्रमः

१०.५

श्रीशुक उवाच
नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामना: ।
आहूय विप्रान् वेदज्ञान्‍स्‍नात: शुचिरलङ्कृत: ॥ १ ॥
वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै ।
कारयामास विधिवत् पितृदेवार्चनं तथा ॥ २ ॥

श्री-शुकः उवाच नन्दः तु आत्मजे उत्पन्ने जात आह्लादः महा-मनाः आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिः अलङ्कृतः वाचयित्वा स्वस्ति-अयनम् जात-कर्म आत्मजस्य वै कारयाम् आस विधि-वत् पितृ-देव-अर्चनम् तथा

धेनूनां नियुते प्रादाद् विप्रेभ्य: समलङ्कृते ।
तिलाद्रीन्सप्त रत्नौघशातकौम्भाम्बरावृतान् ॥ ३ ॥

धेनूनाम् नियुते प्रादात् विप्रेभ्यः समलङ्कृते तिल-अद्रीन् सप्त रत्न-ओघ-शात-कौम्भ-अम्बर-आवृतान्

कालेन स्‍नानशौचाभ्यां संस्कारैस्तपसेज्यया ।
शुध्यन्ति दानै: सन्तुष्टय‍ा द्रव्याण्यात्मात्मविद्यया ॥ ४ ॥

कालेन स्नान-शौचाभ्याम् संस्कारैः तपसा इज्यया शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याणि आत्मा आत्म-विद्यया

सौमङ्गल्यगिरो विप्रा: सूतमागधवन्दिन: ।
गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहु: ॥ ५ ॥

सौमङ्गल्य-गिरः विप्राः सूत मागध वन्दिनः गायकाः च जगुः नेदुः भेर्यः दुन्दुभयः मुहुः

व्रज: सम्मृष्टसंसिक्तद्वाराजिरगृहान्तर: ।
चित्रध्वजपताकास्रक्‍चैलपल्लवतोरणै: ॥ ६ ॥

व्रजः सम्मृष्ट संसिक्त द्वार अजिर गृह-अन्तरः चित्र ध्वज पताका स्रक् चैल पल्लव तोरणैः

गावो वृषा वत्सतरा हरिद्रातैलरूषिता: ।
विचित्रधातुबर्हस्रग्वस्‍त्रकाञ्चनमालिन: ॥ ७ ॥

गावः वृषाः वत्सतराः हरिद्रा तैल रूषिताः विचित्र धातु बर्ह-स्रक् वस्त्र काञ्चन मालिनः

महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिता: ।
गोपा: समाययू राजन् नानोपायनपाणय: ॥ ८ ॥

महा-अर्ह वस्त्र-आभरण कञ्चुक उष्णीष भूषिताः गोपाः समाययुः राजन् नाना उपायन पाणयः

गोप्यश्चाकर्ण्य मुदिता यशोदाया: सुतोद्भ‍वम् ।
आत्मानं भूषयांचक्रुर्वस्त्राकल्पाञ्जनादिभि: ॥ ९ ॥

गोप्यः च आकर्ण्य मुदिताः यशोदायाः सुत-उद्भवम् आत्मानम् भूषयाम् चक्रुः वस्त्र-आकल्प-अञ्जन-आदिभिः

नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतय: ।
बलिभिस्त्वरितं जग्मु: पृथुश्रोण्यश्चलत्कुचा: ॥ १० ॥

नव-कुङ्कुम-किञ्जल्क मुख-पङ्कज-भूतयः बलिभिः त्वरितम् जग्मुः पृथु-श्रोण्यः चलत्-कुचाः

गोप्य: सुमृष्टमणिकुण्डलनिष्ककण्ठ्य-
श्चित्राम्बरा: पथि शिखाच्युतमाल्यवर्षा: ।
नन्दालयं सवलया व्रजतीर्विरेजु-
र्व्यालोलकुण्डलपयोधरहारशोभा: ॥ ११ ॥

गोप्यः सु-मृष्ट मणि कुण्डल निष्क-कण्ठ्यः चित्र-अम्बराः पथि शिखा-च्युत माल्य-वर्षाः नन्द-आलयम् स-वलयाः व्रजतीः विरेजुः व्यालोल कुण्डल पयोधर हार शोभाः

ता आशिष: प्रयुञ्जानाश्चिरं पाहीति बालके ।
हरिद्राचूर्णतैलाद्भ‍ि: सिञ्चन्त्योऽजनमुज्जगु: ॥ १२ ॥

ताः आशिषः प्रयुञ्जानाः चिरम् पाहि इति बालके हरिद्रा-चूर्ण तैल-अद्भिः सिञ्चन्त्यः अजनम् उज्जगुः

अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे ।
कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते ॥ १३ ॥

अवाद्यन्त विचित्राणि वादित्राणि महा-उत्सवे कृष्णे विश्व-ईश्वरे अनन्ते नन्दस्य व्रजम् आगते

गोपा: परस्परं हृष्टा दधिक्षीरघृताम्बुभि: ।
आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपु: ॥ १४ ॥

गोपाः परस्परम् हृष्टाः दधि क्षीर घृत-अम्बुभिः आसिञ्चन्तः विलिम्पन्तः नवनीतैः च चिक्षिपुः

नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम् ।
सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविन: ॥ १५ ॥
तैस्तै: कामैरदीनात्मा यथोचितमपूजयत् ।
विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६ ॥

नन्दः महा-मनाः तेभ्यः वासः अलङ्कार गो-धनम् सूत-मागध-वन्दिभ्यः ये अन्ये विद्या-उपजीविनः तैः तैः कामैः अदीन-आत्मा यथा-उचितम् अपूजयत् विष्णोः आराधन-अर्थाय स्व-पुत्रस्य उदयाय च

रोहिणी च महाभागा नन्दगोपाभिनन्दिता ।
व्यचरद् दिव्यवासस्रक्कण्ठाभरणभूषिता ॥ १७ ॥

रोहिणी च महा-भागा नन्द-गोपा-अभिनन्दिता व्यचरत् दिव्य वास स्रक् कण्ठ-आभरण भूषिता

तत आरभ्य नन्दस्य व्रज: सर्वसमृद्धिमान् ।
हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ॥ १८ ॥

ततः आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् हरेः निवास आत्म-गुणैः रमा-आक्रीडम् अभूत् नृप

गोपान् गोकुलरक्षायां निरूप्य मथुरां गत: ।
नन्द: कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९ ॥

गोपान् गोकुल-रक्षायाम् निरूप्य मथुराम् गतः नन्दः कंसस्य वार्षिक्यम् करम् दातुम् कुरु-उद्वह

वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम् ।
ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम् ॥ २० ॥

वसुदेवः उपश्रुत्य भ्रातरम् नन्दम् आगतम् ज्ञात्वा दत्त-करम् राज्ञे ययौ तत्-अवमोचनम्

तं द‍ृष्ट्वा सहसोत्थाय देह: प्राणमिवागतम् ।
प्रीत: प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वल: ॥ २१ ॥

तम् दृष्ट्वा सहसा उत्थाय देहः प्राणम् इव आगतम् प्रीतः प्रिय-तमम् दोर्भ्याम् सस्वजे प्रेम-विह्वलः

पूजित: सुखमासीन: पृष्ट्वानामयमाद‍ृत: ।
प्रसक्तधी: स्वात्मजयोरिदमाह विशाम्पते ॥ २२ ॥

पूजितः सुखम् आसीनः पृष्ट्वा अनामयम् आदृतः प्रसक्त-धीः स्व-आत्मजयोः इदम् आह विशाम्-पते

दिष्टय‍ा भ्रात: प्रवयस इदानीमप्रजस्य ते ।
प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ २३ ॥

दिष्ट्या भ्रातः प्रवयसः इदानीम् अप्रजस्य ते प्रजा-आशायाः निवृत्तस्य प्रजा यत् समपद्यत

दिष्टय‍ा संसारचक्रेऽस्मिन् वर्तमान: पुनर्भव: ।
उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४ ॥

दिष्ट्या संसार-चक्रे अस्मिन् वर्तमानः पुनः-भवः उपलब्धः भवान् अद्य दुर्लभम् प्रिय-दर्शनम्

नैकत्र प्रियसंवास: सुहृदां चित्रकर्मणाम् ।
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५ ॥

न एकत्र प्रिय-संवासः सुहृदाम् चित्र-कर्मणाम् ओघेन व्यूह्यमानानाम् प्लवानाम् स्रोतसः यथा

कच्चित् पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् ।
बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्‌वृत: ॥ २६ ॥

कच्चित् पशव्यम् निरुजम् भूरि अम्बु तृण वीरुधम् बृहत् वनम् तत् अधुना यत्र आस्से त्वम् सुहृत्-वृतः

भ्रातर्मम सुत: कच्चिन्मात्रा सह भवद्‌व्रजे ।
तातं भवन्तं मन्वानो भवद्‌भ्यामुपलालित: ॥ २७ ॥

भ्रातः मम सुतः कच्चित् मात्रा सह भवत्-व्रजे तातम् भवन्तम् मन्वानः भवद्भ्याम् उपलालितः

पुंसस्त्रिवर्गो विहित: सुहृदो ह्यनुभावित: ।
न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८ ॥

पुंसः त्रि-वर्गः विहितः सुहृदः हि अनुभावितः न तेषु क्लिश्यमानेषु त्रि-वर्गः अर्थाय कल्पते

श्रीनन्द उवाच
अहो ते देवकीपुत्रा: कंसेन बहवो हता: ।
एकावशिष्टावरजा कन्या सापि दिवं गता ॥ २९ ॥

श्री-नन्दः उवाच अहो ते देवकी-पुत्राः कंसेन बहवः हताः एका अवशिष्टा अवरजा कन्या सा अपि दिवम् गता

नूनं ह्यद‍ृष्टनिष्ठोऽयमद‍ृष्टपरमो जन: ।
अद‍ृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३० ॥

नूनम् हि अदृष्ट निष्ठः अयम् अदृष्ट परमः जनः अदृष्टम् आत्मनः तत्त्वम् यः वेद न सः मुह्यति

श्रीवसुदेव उवाच
करो वै वार्षिको दत्तो राज्ञे द‍ृष्टा वयं च व: ।
नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥ ३१ ॥

श्री-वसुदेवः उवाच करः वै वार्षिकः दत्तः राज्ञे दृष्टाः वयम् च वः न इह स्थेयम् बहु-तिथम् सन्ति उत्पाताः च गोकुले

श्रीशुक उवाच
इति नन्दादयो गोपा: प्रोक्तास्ते शौरिणा ययु: ।
अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम् ॥ ३२ ॥

श्री-शुकः उवाच इति नन्द-आदयः गोपाः प्रोक्ताः ते शौरिणा ययुः अनोभिः अनडुत्-युक्तैः तम् अनुज्ञाप्य गोकुलम्

१०.६

श्रीशुक उवाच
नन्द: पथि वच: शौरेर्न मृषेति विचिन्तयन् ।
हरिं जगाम शरणमुत्पातागमशङ्कित: ॥ १ ॥

श्री-शुकः उवाच नन्दः पथि वचः शौरेः न मृषा इति विचिन्तयन् हरिम् जगाम शरणम् उत्पात आगम शङ्कितः

कंसेन प्रहिता घोरा पूतना बालघातिनी ।
शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥

कंसेन प्रहिता घोरा पूतना बाल-घातिनी शिशून् चचार निघ्नन्ती पुर-ग्राम-व्रज-आदिषु

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु ।
कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ ३ ॥

न यत्र श्रवण-आदीनि रक्षः-घ्नानि स्व-कर्मसु कुर्वन्ति सात्वताम् भर्तुः यातुधान्यः च तत्र हि

सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् ।
योषित्वा माययात्मानं प्राविशत् कामचारिणी ॥ ४ ॥

सा खे-चरी एकदा उत्पत्य पूतना नन्द-गोकुलम् योषित्वा मायया आत्मानम् प्राविशत् काम-चारिणी

तां केशबन्धव्यतिषक्तमल्लिकां
बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् ।
सुवाससं कल्पितकर्णभूषण-
त्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५ ॥
वल्गुस्मितापाङ्गविसर्गवीक्षितै-
र्मनो हरन्तीं वनितां व्रजौकसाम् ।
अमंसताम्भोजकरेण रूपिणीं
गोप्य: श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥

ताम् केश-बन्ध-व्यतिषक्त-मल्लिकाम् बृहत् नितम्ब-स्तन कृच्छ्र-मध्यमाम् सु-वाससम् कल्पित-कर्ण-भूषण त्विषा उल्लसत् कुन्तल-मण्डित-आननाम् वल्गु-स्मित-अपाङ्ग-विसर्ग-वीक्षितैः मनः हरन्तीम् वनिताम् व्रज-ओकसाम् अमंसत अम्भोज करेण रूपिणीम् गोप्यः श्रियम् द्रष्टुम् इव आगताम् पतिम्

बालग्रहस्तत्र विचिन्वती शिशून्
यद‍ृच्छया नन्दगृहेऽसदन्तकम् ।
बालं प्रतिच्छन्ननिजोरुतेजसं
ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥

बाल-ग्रहः तत्र विचिन्वती शिशून् यदृच्छया नन्द-गृहे असत्-अन्तकम् बालम् प्रतिच्छन्न निज-उरु-तेजसम् ददर्श तल्पे अग्निम् इव आहितम् भसि

विबुध्य तां बालकमारिकाग्रहं
चराचरात्मा स निमीलितेक्षण: ।
अनन्तमारोपयदङ्कमन्तकं
यथोरगं सुप्तमबुद्धिरज्जुधी: ॥ ८ ॥

विबुध्य ताम् बालक-मारिका-ग्रहम् चर-अचर-आत्मा सः निमीलित-ईक्षणः अनन्तम् आरोपयत् अङ्कम् अन्तकम् यथा उरगम् सुप्तम् अबुद्धि रज्जु-धीः

तां तीक्ष्णचित्तामतिवामचेष्टितां
वीक्ष्यान्तरा कोषपरिच्छदासिवत् ।
वरस्त्रियं तत्प्रभया च धर्षिते
निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥

ताम् तीक्ष्ण-चित्ताम् अति-वाम-चेष्टिताम् वीक्ष्य अन्तरा कोष-परिच्छद-असि-वत् वर-स्त्रियम् तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी हि अतिष्ठताम्

तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं
घोराङ्कमादाय शिशोर्ददावथ ।
गाढं कराभ्यां भगवान् प्रपीड्य तत्-
प्राणै: समं रोषसमन्वितोऽपिबत् ॥ १० ॥

तस्मिन् स्तनम् दुर्जर-वीर्यम् उल्बणम् घोरा अङ्कम् आदाय शिशोः ददौ अथ गाढम् कराभ्याम् भगवान् प्रपीड्य तत्-प्राणैः समम् रोष-समन्वितः अपिबत्

सा मुञ्च मुञ्चालमिति प्रभाषिणी
निष्पीड्यमानाखिलजीवमर्मणि ।
विवृत्य नेत्रे चरणौ भुजौ मुहु:
प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥

सा मुञ्च मुञ्च अलम् इति प्रभाषिणी निष्पीड्यमाना अखिल-जीव-मर्मणि विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्न-गात्रा क्षिपती रुरोद ह

तस्या: स्वनेनातिगभीररंहसा
साद्रिर्मही द्यौश्च चचाल सग्रहा ।
रसा दिशश्च प्रतिनेदिरे जना:
पेतु: क्षितौ वज्रनिपातशङ्कया ॥ १२ ॥

तस्याः स्वनेन अति गभीर रंहसा स-अद्रिः मही द्यौः च चचाल स-ग्रहा रसा दिशः च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्र-निपात-शङ्कया

निशाचरीत्थं व्यथितस्तना व्यसु-
र्व्यादाय केशांश्चरणौ भुजावपि ।
प्रसार्य गोष्ठे निजरूपमास्थिता
वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥

निशा-चरी इत्थम् व्यथित-स्तना व्यसुः व्यादाय केशान् चरणौ भुजौ अपि प्रसार्य गोष्ठे निज-रूपम् आस्थिता वज्र-आहतः वृत्रः इव अपतत् नृप

पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान् ।
चूर्णयामास राजेन्द्र महदासीत्तदद्भ‍ुतम् ॥ १४ ॥

पतमानः अपि तत्-देहः त्रि-गव्यूति-अन्तर द्रुमान् चूर्णयाम् आस राजेन्द्र महत् आसीत् तत् अद्भुतम्

ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् ।
गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥
अन्धकूपगभीराक्षं पुलिनारोहभीषणम् ।
बद्धसेतुभुजोर्वङ्‍‍घ्रि शून्यतोयह्रदोदरम् ॥ १६ ॥
सन्तत्रसु: स्म तद्वीक्ष्य गोपा गोप्य: कलेवरम् ।
पूर्वं तु तन्नि:स्वनितभिन्नहृत्कर्णमस्तका: ॥ १७ ॥

ईषा-मात्र उग्र दंष्ट्र आस्यम् गिरि-कन्दर नासिकम् गण्ड-शैल स्तनम् रौद्रम् प्रकीर्ण अरुण-मूर्ध-जम् अन्ध-कूप गभीर अक्षम् पुलिन-आरोह-भीषणम् बद्ध-सेतु-भुज-उरु-अङ्घ्रि शून्य-तोय-ह्रद-उदरम् सन्तत्रसुः स्म तत् वीक्ष्य गोपाः गोप्यः कलेवरम् पूर्वम् तु तत्-निःस्वनित भिन्न हृत् कर्ण मस्तकाः

बालं च तस्या उरसि क्रीडन्तमकुतोभयम् ।
गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमा: ॥ १८ ॥

बालम् च तस्याः उरसि क्रीडन्तम् अकुतोभयम् गोप्यः तूर्णम् समभ्येत्य जगृहुः जात-सम्भ्रमाः

यशोदारोहिणीभ्यां ता: समं बालस्य सर्वत: ।
रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभि: ॥ १९ ॥

यशोदा-रोहिणीभ्याम् ताः समम् बालस्य सर्वतः रक्षाम् विदधिरे सम्यक् गो-पुच्छ-भ्रमण-आदिभिः

गोमूत्रेण स्‍नापयित्वा पुनर्गोरजसार्भकम् ।
रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभि: ॥ २० ॥

गो-मूत्रेण स्नापयित्वा पुनः गो-रजसा अर्भकम् रक्षाम् चक्रुः च शकृता द्वादश-अङ्गेषु नामभीः

गोप्य: संस्पृष्टसलिला अङ्गेषु करयो: पृथक् ।
न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥

गोप्यः संस्पृष्ट-सलिलाः अङ्गेषु करयोः पृथक् न्यस्य आत्मनि अथ बालस्य बीज-न्यासम् अकुर्वत

अव्यादजोऽङ्‍‍घ्रि मणिमांस्तव जान्वथोरू
यज्ञोऽच्युत: कटितटं जठरं हयास्य: ।
हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वर: कम् ॥ २२ ॥
चक्रय‍ग्रत: सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र-
स्तार्क्ष्य: क्षितौ हलधर: पुरुष: समन्तात् ॥ २३ ॥

अव्यात् अजः अङ्घ्रि मणिमान् तव जानु अथ उरू यज्ञः अच्युतः कटि-तटम् जठरम् हयास्यः हृत् केशवः त्वत् उरः ईशः इनः तु कण्ठम् विष्णुः भुजम् मुखम् उरुक्रमः ईश्वरः कम् चक्री अग्रतः सह-गदः हरिः अस्तु पश्चात् त्वत्-पार्श्वयोः धनुः-असी मधु-हा अजनः च कोणेषु शङ्खः उरुगायः उपरि उपेन्द्रः तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात्

इन्द्रियाणि हृषीकेश: प्राणान् नारायणोऽवतु ।
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥

इन्द्रियाणि हृषीकेशः प्राणान् नारायणः अवतु श्वेतद्वीप-पतिः चित्तम् मनः योगेश्वरः अवतु

पृश्न‍िगर्भस्तु ते बुद्धिमात्मानं भगवान् पर: ।
क्रीडन्तं पातु गोविन्द: शयानं पातु माधव: ॥ २५ ॥
व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रिय: पति: ।
भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्कर: ॥ २६ ॥

पृश्निगर्भः तु ते बुद्धिम् आत्मानम् भगवान् परः क्रीडन्तम् पातु गोविन्दः शयानम् पातु माधवः व्रजन्तम् अव्यात् वैकुण्ठः आसीनम् त्वाम् श्रियः पतिः भुञ्जानम् यज्ञभुक् पातु सर्व-ग्रह-भयम्-करः

डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहा: ।
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायका: ॥ २७ ॥
कोटरा रेवती ज्येष्ठा पूतना मातृकादय: ।
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: ॥ २८ ॥
स्वप्नद‍ृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये ।
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरव: ॥ २९ ॥

डाकिन्यः यातुधान्यः च कुष्माण्डाः ये अर्भक-ग्रहाः भूत प्रेत पिशाचाः च यक्ष रक्षः विनायकाः कोटरा रेवती ज्येष्ठा पूतना मातृका-आदयः उन्मादाः ये हि अपस्माराः देह-प्राण-इन्द्रिय द्रुहः स्वप्न-दृष्टाः महा-उत्पाताः वृद्धाः बाल-ग्रहाः च ये सर्वे नश्यन्तु ते विष्णोः नाम-ग्रहण भीरवः

श्रीशुक उवाच
इति प्रणयबद्धाभिर्गोपीभि: कृतरक्षणम् ।
पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् ॥ ३० ॥

श्री-शुकः उवाच इति प्रणय-बद्धाभिः गोपीभिः कृत-रक्षणम् पाययित्वा स्तनम् माता सन्न्यवेशयत् आत्मजम्

तावन्नन्दादयो गोपा मथुराया व्रजं गता: ।
विलोक्य पूतनादेहं बभूवुरतिविस्मिता: ॥ ३१ ॥

तावत् नन्द-आदयः गोपाः मथुरायाः व्रजम् गताः विलोक्य पूतना-देहम् बभूवुः अति विस्मिताः

नूनं बतर्षि: सञ्जातो योगेशो वा समास स: ।
स एव द‍ृष्टो ह्युत्पातो यदाहानकदुन्दुभि: ॥ ३२ ॥

नूनम् बत ऋषिः सञ्जातः योग-ईशः वा समास सः सः एव दृष्टः हि उत्पातः यत् आह आनकदुन्दुभिः

कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकस: ।
दूरे क्षिप्‍त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥

कलेवरम् परशुभिः छित्त्वा तत् ते व्रज-ओकसः दूरे क्षिप्त्वा अवयवशः न्यदहन् काष्ठ-वेष्टितम्

दह्यमानस्य देहस्य धूमश्चागुरुसौरभ: ।
उत्थित: कृष्णनिर्भुक्तसपद्याहतपाप्मन: ॥ ३४ ॥

दह्यमानस्य देहस्य धूमः च अगुरु-सौरभः उत्थितः कृष्ण-निर्भुक्त सपदि आहत-पाप्मनः

पूतना लोकबालघ्नी राक्षसी रुधिराशना ।
जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ ३५ ॥
किं पुन: श्रद्धया भक्त्या कृष्णाय परमात्मने ।
यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥

पूतना लोक-बाल-घ्नी राक्षसी रुधिर-अशना जिघांसया अपि हरये स्तनम् दत्त्वा आप सत्-गतिम् किम् पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने यच्छन् प्रिय-तमम् किम् नु रक्ताः तत्-मातरः यथा

पद्‌भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितै: ।
अङ्गं यस्या: समाक्रम्य भगवानपितत् स्तनम् ॥ ३७ ॥
यातुधान्यपि सा स्वर्गमवाप जननीगतिम् ।
कृष्णभुक्तस्तनक्षीरा: किमु गावोऽनुमातर: ॥ ३८ ॥

पद्भ्याम् भक्त-हृदि-स्थाभ्याम् वन्द्याभ्याम् लोक-वन्दितैः अङ्गम् यस्याः समाक्रम्य भगवान् अपि तत्-स्तनम् यातुधानी अपि सा स्वर्गम् अवाप जननी-गतिम् कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावः अनुमातरः

पयांसि यासामपिबत् पुत्रस्‍नेहस्‍नुतान्यलम् ।
भगवान् देवकीपुत्र: कैवल्याद्यखिलप्रद: ॥ ३९ ॥
तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।
न पुन: कल्पते राजन् संसारोऽज्ञानसम्भव: ॥ ४० ॥

पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतानि अलम् भगवान् देवकी-पुत्रः कैवल्य-आदि अखिल-प्रदः तासाम् अविरतम् कृष्णे कुर्वतीनाम् सुत-ईक्षणम् न पुनः कल्पते राजन् संसारः अज्ञान-सम्भवः

कटधूमस्य सौरभ्यमवघ्राय व्रजौकस: ।
किमिदं कुत एवेति वदन्तो व्रजमाययु: ॥ ४१ ॥

कट-धूमस्य सौरभ्यम् अवघ्राय व्रज-ओकसः किम् इदम् कुतः एव इति वदन्तः व्रजम् आययुः

ते तत्र वर्णितं गोपै: पूतनागमनादिकम् ।
श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिता: ॥ ४२ ॥

ते तत्र वर्णितम् गोपैः पूतना-आगमन-आदिकम् श्रुत्वा तत्-निधनम् स्वस्ति शिशोः च आसन् सु-विस्मिताः

नन्द: स्वपुत्रमादाय प्रेत्यागतमुदारधी: ।
मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥

नन्दः स्व-पुत्रम् आदाय प्रेत्य-आगतम् उदार-धीः मूर्ध्नि उपाघ्राय परमाम् मुदम् लेभे कुरु-उद्वह

य एतत् पूतनामोक्षं कृष्णस्यार्भकमद्भ‍ुतम् ।
श‍ृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥

यः एतत् पूतना-मोक्षम् कृष्णस्य आर्भकम् अद्भुतम् शृणुयात् श्रद्धया मर्त्यः गोविन्दे लभते रतिम्

१०.७

श्रीराजोवाच
येन येनावतारेण भगवान् हरिरीश्वर: ।
करोति कर्णरम्याणि मनोज्ञानि च न: प्रभो ॥ १ ॥
यच्छृण्वतोऽपैत्यरतिर्वितृष्णा
सत्त्वं च शुद्ध्यत्यचिरेण पुंस: ।
भक्तिर्हरौ तत्पुरुषे च सख्यं
तदेव हारं वद मन्यसे चेत् ॥ २ ॥

श्री-राजा उवाच येन येन अवतारेण भगवान् हरिः ईश्वरः करोति कर्ण-रम्याणि मनः-ज्ञानि च नः प्रभो यत्-शृण्वतः अपैति अरतिः वितृष्णा सत्त्वम् च शुद्ध्यति अचिरेण पुंसः भक्तिः हरौ तत्-पुरुषे च सख्यम् तत् एव हारम् वद मन्यसे चेत्

अथान्यदपि कृष्णस्य तोकाचरितमद्भ‍ुतम् ।
मानुषं लोकमासाद्य तज्जातिमनुरुन्धत: ॥ ३ ॥

अथ अन्यत् अपि कृष्णस्य तोक-आचरितम् अद्भुतम् मानुषम् लोकम् आसाद्य तत्-जातिम् अनुरुन्धतः

श्रीशुक उवाच
कदाचिदौत्थानिककौतुकाप्लवे
जन्मर्क्षयोगे समवेतयोषिताम् ।
वादित्रगीतद्विजमन्त्रवाचकै-
श्चकार सूनोरभिषेचनं सती ॥ ४ ॥

श्री-शुकः उवाच कदाचित् औत्थानिक-कौतुक-आप्लवे जन्म-ऋक्ष-योगे समवेत-योषिताम् वादित्र-गीत द्विज-मन्त्र-वाचकैः चकार सूनोः अभिषेचनम् सती

नन्दस्य पत्नी कृतमज्जनादिकं
विप्रै: कृतस्वस्त्ययनं सुपूजितै: ।
अन्नाद्यवास:स्रगभीष्टधेनुभि:
सञ्जातनिद्राक्षमशीशयच्छनै: ॥ ५ ॥

नन्दस्य पत्नी कृत-मज्जन-आदिकम् विप्रैः कृत-स्वस्त्ययनम् सु-पूजितैः अन्न-आद्य वासः स्रक्-अभीष्ट-धेनुभिः सञ्जात-निद्रा अक्षम् अशीशयत् शनैः

औत्थानिकौत्सुक्यमना मनस्विनी
समागतान् पूजयती व्रजौकस: ।
नैवाश‍ृणोद् वै रुदितं सुतस्य सा
रुदन् स्तनार्थी चरणावुदक्षिपत् ॥ ६ ॥

औत्थानिक-औत्सुक्य-मनाः मनस्विनी समागतान् पूजयती व्रज-ओकसः न एव अशृणोत् वै रुदितम् सुतस्य सा रुदन् स्तन-अर्थी चरणौ उदक्षिपत्

अध:शयानस्य शिशोरनोऽल्पक-
प्रवालमृद्वङ्‍‍घ्रिहतं व्यवर्तत ।
विध्वस्तनानारसकुप्यभाजनं
व्यत्यस्तचक्राक्षविभिन्नकूबरम् ॥ ७ ॥

अधः-शयानस्य शिशोः अनः अल्पक प्रवाल मृदु-अङ्घ्रि-हतम् व्यवर्तत विध्वस्त नाना-रस-कुप्य-भाजनम् व्यत्यस्त चक्र-अक्ष विभिन्न कूबरम्

द‍ृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय
औत्थानिके कर्मणि या: समागता: ।
नन्दादयश्चाद्भ‍ुतदर्शनाकुला:
कथं स्वयं वै शकटं विपर्यगात् ॥ ८ ॥

दृष्ट्वा यशोदा-प्रमुखाः व्रज-स्त्रियः औत्थानिके कर्मणि याः समागताः नन्द-आदयः च अद्भुत-दर्शन आकुलाः कथम् स्वयम् वै शकटम् विपर्यगात्

ऊचुरव्यवसितमतीन् गोपान्गोपीश्च बालका: ।
रुदतानेन पादेन क्षिप्तमेतन्न संशय: ॥ ९ ॥

ऊचुः अव्यवसित-मतीन् गोपान् गोपीः च बालकाः रुदता अनेन पादेन क्षिप्तम् एतत् न संशयः

न ते श्रद्दधिरे गोपा बालभाषितमित्युत ।
अप्रमेयं बलं तस्य बालकस्य न ते विदु: ॥ १० ॥

न ते श्रद्दधिरे गोपाः बाल-भाषितम् इति उत अप्रमेयम् बलम् तस्य बालकस्य न ते विदुः

रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता ।
कृतस्वस्त्ययनं विप्रै: सूक्तै: स्तनमपाययत् ॥ ११ ॥

रुदन्तम् सुतम् आदाय यशोदा ग्रह-शङ्किता कृत-स्वस्त्ययनम् विप्रैः सूक्तैः स्तनम् अपाययत्

पूर्ववत् स्थापितं गोपैर्बलिभि: सपरिच्छदम् ।
विप्रा हुत्वार्चयांचक्रुर्दध्यक्षतकुशाम्बुभि: ॥ १२ ॥

पूर्व-वत् स्थापितम् गोपैः बलिभिः स-परिच्छदम् विप्राः हुत्वा अर्चयाम् चक्रुः दधि अक्षत कुश अम्बुभिः

येऽसूयानृतदम्भेर्षाहिंसामानविवर्जिता: ।
न तेषां सत्यशीलानामाशिषो विफला: कृता: ॥ १३ ॥
इति बालकमादाय सामर्ग्यजुरुपाकृतै: ।
जलै: पवित्रौषधिभिरभिषिच्य द्विजोत्तमै: ॥ १४ ॥
वाचयित्वा स्वस्त्ययनं नन्दगोप: समाहित: ।
हुत्वा चाग्निं द्विजातिभ्य: प्रादादन्नं महागुणम् ॥ १५ ॥

ये असूय अनृत दम्भ ईर्षा हिंसा मान विवर्जिताः न तेषाम् सत्य-शीलानाम् आशिषः विफलाः कृताः इति बालकम् आदाय साम ऋक् यजुः उपाकृतैः जलैः पवित्र-औषधिभिः अभिषिच्य द्विज-उत्तमैः वाचयित्वा स्वस्ति-अयनम् नन्द-गोपः समाहितः हुत्वा च अग्निम् द्विजातिभ्यः प्रादात् अन्नम् महा-गुणम्

गाव: सर्वगुणोपेता वास:स्रग्रुक्‍ममालिनी: ।
आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत ॥ १६


गावः सर्व-गुण-उपेताः वासः स्रक् रुक्म-मालिनीः आत्मज-अभ्युदय-अर्थाय प्रादात् ते च अन्वयुञ्जत

विप्रा मन्त्रविदो युक्तास्तैर्या: प्रोक्तास्तथाशिष: ।
ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् ॥ १७ ॥

विप्राः मन्त्र-विदः युक्ताः तैः याः प्रोक्ताः तथा आशिषः ताः निष्फलाः भविष्यन्ति न कदाचित् अपि स्फुटम्

एकदारोहमारूढं लालयन्ती सुतं सती ।
गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ॥ १८ ॥

एकदा आरोहम् आरूढम् लालयन्ती सुतम् सती गरिमाणम् शिशोः वोढुम् न सेहे गिरि-कूट-वत्

भूमौ निधाय तं गोपी विस्मिता भारपीडिता ।
महापुरुषमादध्यौ जगतामास कर्मसु ॥ १९ ॥

भूमौ निधाय तम् गोपी विस्मिता भार-पीडिता महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु

दैत्यो नाम्ना तृणावर्त: कंसभृत्य: प्रणोदित: ।
चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥ २० ॥

दैत्यः नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः चक्रवात-स्वरूपेण जहार आसीनम् अर्भकम्

गोकुलं सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभि: ।
ईरयन् सुमहाघोरशब्देन प्रदिशो दिश: ॥ २१ ॥

गोकुलम् सर्वम् आवृण्वन् मुष्णन् चक्षूंषि रेणुभिः ईरयन् सु-महा-घोर शब्देन प्रदिशः दिशः

मुहूर्तमभवद् गोष्ठं रजसा तमसावृतम् ।
सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यत: ॥ २२ ॥

मुहूर्तम् अभवत् गोष्ठम् रजसा तमसा आवृतम् सुतम् यशोदा न अपश्यत् तस्मिन् न्यस्तवती यतः

नापश्यत्कश्चनात्मानं परं चापि विमोहित: ।
तृणावर्तनिसृष्टाभि: शर्कराभिरुपद्रुत: ॥ २३ ॥

न अपश्यत् कश्चन आत्मानम् परम् च अपि विमोहितः तृणावर्त-निसृष्टाभिः शर्कराभिः उपद्रुतः

इति खरपवनचक्रपांशुवर्षे
सुतपदवीमबलाविलक्ष्य माता ।
अतिकरुणमनुस्मरन्त्यशोचद्
भुवि पतिता मृतवत्सका यथा गौ: ॥ २४ ॥

इति खर पवन-चक्र पांशु-वर्षे सुत-पदवीम् अबला अविलक्ष्य माता अति-करुणम् अनुस्मरन्ती अशोचत् भुवि पतिता मृत-वत्सका यथा गौः

रुदितमनुनिशम्य तत्र गोप्यो
भृशमनुतप्तधियोऽश्रुपूर्णमुख्य: ।
रुरुदुरनुपलभ्य नन्दसूनुं
पवन उपारतपांशुवर्षवेगे ॥ २५ ॥

रुदितम् अनुनिशम्य तत्र गोप्यः भृशम् अनुतप्त धियः अश्रु-पूर्ण-मुख्यः रुरुदुः अनुपलभ्य नन्द-सूनुम् पवने उपारत पांशु-वर्ष-वेगे

तृणावर्त: शान्तरयो वात्यारूपधरो हरन् ।
कृष्णं नभोगतो गन्तुं नाशक्नोद् भूरिभारभृत् ॥ २६ ॥

तृणावर्तः शान्त-रयः वात्या-रूप-धरः हरन् कृष्णम् नभः-गतः गन्तुम् न अशक्नोत् भूरि-भार-भृत्

तमश्मानं मन्यमान आत्मनो गुरुमत्तया ।
गले गृहीत उत्स्रष्टुं नाशक्नोदद्भ‍ुतार्भकम् ॥ २७ ॥

तम् अश्मानम् मन्यमानः आत्मनः गुरु-मत्तया गले गृहीते उत्स्रष्टुम् न अशक्नोत् अद्भुत-अर्भकम्

गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचन: ।
अव्यक्तरावो न्यपतत्सहबालो व्यसुर्व्रजे ॥ २८ ॥

गल-ग्रहण-निश्चेष्टः दैत्यः निर्गत-लोचनः अव्यक्त-रावः न्यपतत् सह-बालः व्यसुः व्रजे

तमन्तरिक्षात् पतितं शिलायां
विशीर्णसर्वावयवं करालम् ।
पुरं यथा रुद्रशरेण विद्धं
स्त्रियो रुदत्यो दद‍ृशु: समेता: ॥ २९ ॥

तम् अन्तरिक्षात् पतितम् शिलायाम् विशीर्ण सर्व-अवयवम् करालम् पुरम् यथा रुद्र-शरेण विद्धम् स्त्रियः रुदत्यः ददृशुः समेताः

प्रादाय मात्रे प्रतिहृत्य विस्मिता:
कृष्णं च तस्योरसि लम्बमानम् ।
तं स्वस्तिमन्तं पुरुषादनीतं
विहायसा मृत्युमुखात् प्रमुक्तम् ।
गोप्यश्च गोपा: किल नन्दमुख्या
लब्ध्वा पुन: प्रापुरतीव मोदम् ॥ ३० ॥

प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णम् च तस्य उरसि लम्बमानम् तम् स्वस्तिमन्तम् पुरुषाद-नीतम् विहायसा मृत्यु-मुखात् प्रमुक्तम् गोप्यः च गोपाः किल नन्द-मुख्याः लब्ध्वा पुनः प्रापुः अतीव मोदम्

अहो बतात्यद्भ‍ुतमेष रक्षसा
बालो
निवृत्तिं गमितोऽभ्यगात् पुन: ।
हिंस्र: स्वपापेन विहिंसित:
खल:
साधु: समत्वेन भयाद् विमुच्यते ॥ ३१ ॥

अहो बत अति अद्भुतम् एषः रक्षसा बालः निवृत्तिम् गमितः अभ्यगात् पुनः हिंस्रः स्व-पापेन विहिंसितः खलः साधुः समत्वेन भयात् विमुच्यते

किं नस्तपश्चीर्णमधोक्षजार्चनं
पूर्तेष्टदत्तमुत भूतसौहृदम् ।
यत्सम्परेत: पुनरेव बालको
दिष्टय‍ा स्वबन्धून् प्रणयन्नुपस्थित: ॥ ३२ ॥

किम् नः तपः चीर्णम् अधोक्षज अर्चनम् पूर्त इष्ट दत्तम् उत भूत-सौहृदम् यत् सम्परेतः पुनः एव बालकः दिष्ट्या स्व-बन्धून् प्रणयन् उपस्थितः

द‍ृष्ट्वाद्भ‍ुतानि बहुशो नन्दगोपो बृहद्वने ।
वसुदेववचो भूयो मानयामास विस्मित: ॥ ३३ ॥

दृष्ट्वा अद्भुतानि बहुशः नन्द-गोपः बृहद्वने वसुदेव-वचः भूयः मानयाम् आस विस्मितः

एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी ।
प्रस्‍नुतं पाययामास स्तनं स्‍नेहपरिप्लुता ॥ ३४ ॥

एकदा अर्भकम् आदाय स्व-अङ्कम् आरोप्य भामिनी प्रस्नुतम् पाययाम् आस स्तनम् स्नेह-परिप्लुता

पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् ।
मुखं लालयती राजञ्जृम्भतो दद‍ृशे इदम् ॥ ३५ ॥
खं रोदसी ज्योतिरनीकमाशा:
सूर्येन्दुवह्निश्वसनाम्बुधींश्च ।
द्वीपान् नगांस्तद्दुहितृर्वनानि
भूतानि यानि स्थिरजङ्गमानि? ॥ ३६ ॥

पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् मुखम् लालयती राजन् जृम्भतः ददृशे इदम् खम् रोदसी ज्योतिः-अनीकम् आशाः सूर्य इन्दु वह्नि श्वसन अम्बुधीन् च द्वीपान् नगान् तत्-दुहितॄः वनानि भूतानि यानि स्थिर-जङ्गमानि

सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथु: ।
सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ॥ ३७ ॥

सा वीक्ष्य विश्वम् सहसा राजन् सञ्जात-वेपथुः सम्मील्य मृगशाव-अक्षी नेत्रे आसीत् सु-विस्मिता

१०.८

श्रीशुक उवाच
गर्ग: पुरोहितो राजन् यदूनां सुमहातपा: ।
व्रजं जगाम नन्दस्य वसुदेवप्रचोदित: ॥ १ ॥

श्री-शुकः उवाच गर्गः पुरोहितः राजन् यदूनाम् सु-महा-तपाः व्रजम् जगाम नन्दस्य वसुदेव-प्रचोदितः

तं द‍ृष्ट्वा परमप्रीत: प्रत्युत्थाय कृताञ्जलि: ।
आनर्चाधोक्षजधिया प्रणिपातपुर:सरम् ॥ २ ॥

तम् दृष्ट्वा परम-प्रीतः प्रत्युत्थाय कृत-अञ्जलिः आनर्च अधोक्षज-धिया प्रणिपात-पुरःसरम्

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।
नन्दयित्वाब्रवीद् ब्रह्मन्पूर्णस्य करवाम किम् ॥ ३ ॥

सु-उपविष्टम् कृत-आतिथ्यम् गिरा सूनृतया मुनिम् नन्दयित्वा अब्रवीत् ब्रह्मन् पूर्णस्य करवाम किम्

महद्विचलनं नृणां गृहिणां दीनचेतसाम् ।
नि:श्रेयसाय भगवन्कल्पते नान्यथा क्‍वचित् ॥ ४ ॥

महत्-विचलनम् नॄणाम् गृहिणाम् दीन-चेतसाम् निःश्रेयसाय भगवन् कल्पते न अन्यथा क्वचित्

ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानमतीन्द्रियम् ।
प्रणीतं भवता येन पुमान् वेद परावरम् ॥ ५ ॥

ज्योतिषाम् अयनम् साक्षात् यत् तत् ज्ञानम् अति-इन्द्रियम् प्रणीतम् भवता येन पुमान् वेद पर-अवरम्

त्वं हि ब्रह्मविदां श्रेष्ठ: संस्कारान्कर्तुमर्हसि ।
बालयोरनयोर्नृणां जन्मना ब्राह्मणो गुरु: ॥ ६ ॥

त्वम् हि ब्रह्म-विदाम् श्रेष्ठः संस्कारान् कर्तुम् अर्हसि बालयोः अनयोः नॄणाम् जन्मना ब्राह्मणः गुरुः

श्रीगर्ग उवाच
यदूनामहमाचार्य: ख्यातश्च भुवि सर्वदा ।
सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥

श्री-गर्गः उवाच यदूनाम् अहम् आचार्यः ख्यातः च भुवि सर्वदा सुतम् मया संस्कृतम् ते मन्यते देवकी-सुतम्

कंस: पापमति: सख्यं तव चानकदुन्दुभे: ।
देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८ ॥
इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावच: ।
अपि हन्ता गताशङ्कस्तर्हि तन्नोऽनयो भवेत् ॥ ९ ॥

कंसः पाप-मतिः सख्यम् तव च आनक-दुन्दुभेः देवक्याः अष्टमः गर्भः न स्त्री भवितुम् अर्हति इति सञ्चिन्तयन् श्रुत्वा देवक्याः दारिका-वचः अपि हन्ता गत-आशङ्कः तर्हि तत् नः अनयः भवेत्

श्रीनन्द उवाच
अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे ।
कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥

श्री-नन्दः उवाच अलक्षितः अस्मिन् रहसि मामकैः अपि गो-व्रजे कुरु द्विजाति-संस्कारम् स्वस्ति-वाचन-पूर्वकम्

श्रीशुक उवाच
एवं सम्प्रार्थितो विप्र: स्वचिकीर्षितमेव तत् ।
चकार नामकरणं गूढो रहसि बालयो: ॥ ११ ॥

श्री-शुकः उवाच एवम् सम्प्रार्थितः विप्रः स्व-चिकीर्षितम् एव तत् चकार नाम-करणम् गूढः रहसि बालयोः

श्रीगर्ग उवाच
अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणै: ।
आख्यास्यते राम इति बलाधिक्याद्बलं विदु: ।
यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्यपि ॥ १२ ॥

श्री-गर्गः उवाच अयम् हि रोहिणी-पुत्रः रमयन् सुहृदः गुणैः आख्यास्यते रामः इति बल-आधिक्यात् बलम् विदुः यदूनाम् अपृथक्-भावात् सङ्कर्षणम् उशन्ति अपि

आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनू: ।
शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गत: ॥ १३ ॥

आसन् वर्णाः त्रयः हि अस्य गृह्णतः अनुयुगम् तनूः शुक्लः रक्तः तथा पीतः इदानीम् कृष्णताम् गतः

प्रागयं वसुदेवस्य क्‍वचिज्जातस्तवात्मज: ।
वासुदेव इति श्रीमानभिज्ञा: सम्प्रचक्षते ॥ १४ ॥

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः वासुदेवः इति श्रीमान् अभिज्ञाः सम्प्रचक्षते

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुणकर्मानुरूपाणि तान्यहं वेद नो जना: ॥ १५ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते गुण-कर्म-अनु-रूपाणि तानि अहम् वेद नो जनाः

एष व: श्रेय आधास्यद् गोपगोकुलनन्दन: ।
अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १६ ॥

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः अनेन सर्व-दुर्गाणि यूयम् अञ्जः तरिष्यथ

पुरानेन व्रजपते साधवो दस्युपीडिता: ।
अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिता: ॥ १७ ॥

पुरा अनेन व्रज-पते साधवः दस्यु-पीडिताः अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः

य एतस्मिन् महाभागा: प्रीतिं कुर्वन्ति मानवा: ।
नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुरा: ॥ १८ ॥

ये एतस्मिन् महा-भागाः प्रीतिम् कुर्वन्ति मानवाः न अरयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः

तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणै: ।
श्रिया कीर्त्यानुभावेन गोपायस्व समाहित: ॥ १९ ॥

तस्मात् नन्द आत्मजः अयम् ते नारायण-समः गुणैः श्रिया कीर्त्या अनुभावेन गोपायस्व समाहितः

श्रीशुक उवाच
इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते ।
नन्द: प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २० ॥

श्री-शुकः उवाच इति आत्मानम् समादिश्य गर्गे च स्व-गृहम् गते नन्दः प्रमुदितः मेने आत्मानम् पूर्णम् आशिषाम्

कालेन व्रजताल्पेन गोकुले रामकेशवौ ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतु: ॥ २१ ॥

कालेन व्रजता अल्पेन गोकुले राम-केशवौ जानुभ्याम् सह पाणिभ्याम् रिङ्गमाणौ विजह्रतुः

तावङ्‍‍घ्रियुग्ममनुकृष्य सरीसृपन्तौ
घोषप्रघोषरुचिरं व्रजकर्दमेषु ।
तन्नादहृष्टमनसावनुसृत्य लोकं
मुग्धप्रभीतवदुपेयतुरन्ति मात्रो: ॥ २२ ॥

तौ अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ घोष-प्रघोष-रुचिरम् व्रज-कर्दमेषु तत्-नाद हृष्ट-मनसौ अनुसृत्य लोकम् मुग्ध प्रभीत-वत् उपेयतुः अन्ति मात्रोः

तन्मातरौ निजसुतौ घृणया स्‍नुवन्त्यौ
पङ्काङ्गरागरुचिरावुपगृह्य दोर्भ्याम् ।
दत्त्वा स्तनं प्रपिबतो: स्म मुखं निरीक्ष्य
मुग्धस्मिताल्पदशनं ययतु: प्रमोदम् ॥ २३ ॥

तत्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ पङ्क-अङ्ग-राग-रुचिरौ उपगृह्य दोर्भ्याम् दत्त्वा स्तनम् प्रपिबतोः स्म मुखम् निरीक्ष्य मुग्ध-स्मित-अल्प-दशनम् ययतुः प्रमोदम्

यर्ह्यङ्गनादर्शनीयकुमारलीला-
वन्तर्व्रजे तदबला: प्रगृहीतपुच्छै: ।
वत्सैरितस्तत उभावनुकृष्यमाणौ
प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्य: ॥ २४ ॥

यर्हि अङ्गना-दर्शनीय कुमार-लीलौ अन्तः-व्रजे तत् अबलाः प्रगृहीत-पुच्छैः वत्सैः इतः ततः उभौ अनुकृष्यमाणौ प्रेक्षन्त्यः उज्झित गृहाः जहृषुः हसन्त्यः

श‍ृङ्‌ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्य:
क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् ।
गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ
शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५ ॥

शृङ्गी अग्नि दंष्ट्री असि जल द्विज कण्टकेभ्यः क्रीडा-परौ अति-चलौ स्व-सुतौ निषेद्धुम् गृह्याणि कर्तुम् अपि यत्र न तत्-जनन्यौ शेकाते आपतुः अलम् मनसः अनवस्थाम्

कालेनाल्पेन राजर्षे राम: कृष्णश्च गोकुले ।
अघृष्टजानुभि: पद्भ‍िर्विचक्रमतुरञ्जसा ॥ २६ ॥

कालेन अल्पेन राजर्षे रामः कृष्णः च गोकुले अघृष्ट-जानुभिः पद्भिः विचक्रमतुः अञ्जसा

ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकै: ।
सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७ ॥

ततः तु भगवान् कृष्णः वयस्यैः व्रज-बालकैः सह-रामः व्रज-स्त्रीणाम् चिक्रीडे जनयन् मुदम्

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् ।
श‍ृण्वन्त्या: किल तन्मातुरिति होचु: समागता: ॥ २८ ॥

कृष्णस्य गोप्यः रुचिरम् वीक्ष्य कौमार-चापलम् शृण्वन्त्याः किल तत्-मातुः इति ह ऊचुः समागताः

वत्सान् मुञ्चन् क्‍वचिदसमये क्रोशसञ्जातहास:
स्तेयं स्वाद्वत्त्यथ दधिपय: कल्पितै: स्तेययोगै: ।
मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति
द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९ ॥

वत्सान् मुञ्चन् क्वचित् असमये क्रोश-सञ्जात-हासः स्तेयम् स्वादु अत्ति अथ दधि-पयः कल्पितैः स्तेय-योगैः मर्कान् भोक्ष्यन् विभजति सः चेत् न अत्ति भाण्डम् भिन्नत्ति द्रव्य-अलाभे स-गृह-कुपितः याति उपक्रोश्य तोकान्

हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यै-
श्छिद्रं ह्यन्तर्निहितवयुन: शिक्यभाण्डेषु तद्वित् ।
ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं
काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ता: ॥ ३० ॥

हस्त-अग्राह्ये रचयति विधिम् पीठक उलूखल-आद्यैः छिद्रम् हि अन्तः-निहित वयुनः शिक्य भाण्डेषु तत्-वित् ध्वान्त-आगारे धृत-मणि-गणम् स्व-अङ्गम् अर्थ-प्रदीपम् काले गोप्यः यर्हि गृह-कृत्येषु सु-व्यग्र-चित्ताः

एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ
स्तेयोपायैर्विरचितकृति: सुप्रतीको यथास्ते ।
इत्थं स्त्रीभि: सभयनयनश्रीमुखालोकिनीभि-
र्व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥

एवम् धार्ष्ट्यानि उशति कुरुते मेहन-आदीनि वास्तौ स्तेय-उपायैः विरचित-कृतिः सु-प्रतीकः यथा आस्ते इत्थम् स्त्रीभिः स-भय-नयन श्री-मुख आलोकिनीभिः व्याख्यात-अर्था प्रहसित-मुखी न हि उपालब्धुम् ऐच्छत्

एकदा क्रीडमानास्ते रामाद्या गोपदारका: ।
कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ ३२ ॥

एकदा क्रीडमानाः ते राम-आद्याः गोप-दारकाः कृष्णः मृदम् भक्षितवान् इति मात्रे न्यवेदयन्

सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी ।
यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥ ३३ ॥

सा गृहीत्वा करे कृष्णम् उपालभ्य हित-एषिणी यशोदा भय-सम्भ्रान्त-प्रेक्षण-अक्षम् अभाषत

कस्मान्मृदमदान्तात्मन् भवान्भक्षितवान्‌ रह: ।
वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४ ॥

कस्मात् मृदम् अदान्त-आत्मन् भवान् भक्षितवान् रहः वदन्ति तावकाः हि एते कुमाराः ते अग्रजः अपि अयम्

नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिन: ।
यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५ ॥

न अहम् भक्षितवान् अम्ब सर्वे मिथ्य-अभिशंसिनः यदि सत्य-गिरः तर्हि समक्षम् पश्य मे मुखम्

यद्येवं तर्हि व्यादेहीत्युक्त: स भगवान्हरि: ।
व्यादत्ताव्याहतैश्वर्य: क्रीडामनुजबालक: ॥ ३६ ॥

यदि एवम् तर्हि व्यादेहि इति उक्तः सः भगवान् हरिः व्यादत्त अव्याहत-ऐश्वर्यः क्रीडा मनुज-बालकः

सा तत्र दद‍ृशे विश्वं जगत्स्थास्‍नु च खं दिश: ।
साद्रिद्वीपाब्धिभूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥
ज्योतिश्चक्रं जलं तेजो नभस्वान्वियदेव च ।
वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रय: ॥ ३८ ॥
एतद् विचित्रं सहजीवकाल-
स्वभावकर्माशयलिङ्गभेदम् ।
सूनोस्तनौ वीक्ष्य विदारितास्ये
व्रजं सहात्मानमवाप शङ्काम्? ॥ ३९ ॥

सा तत्र ददृशे विश्वम् जगत् स्थास्नु च खम् दिशः स-अद्रि द्वीप अब्धि भू-गोलम् स-वायु अग्नि इन्दु तारकम् ज्योतिः-चक्रम् जलम् तेजः नभस्वान् वियत् एव च वैकारिकाणि इन्द्रियाणि मनः मात्राः गुणाः त्रयः एतत् विचित्रम् सह जीव-काल स्वभाव कर्म-आशय लिङ्ग-भेदम् सूनोः तनौ वीक्ष्य विदारित-आस्ये व्रजम् सह-आत्मानम् अवाप शङ्काम्

किं स्वप्न एतदुत देवमाया
किं वा मदीयो बत बुद्धिमोह: ।
अथो अमुष्यैव ममार्भकस्य
य: कश्चनौत्पत्तिक आत्मयोग: ॥ ४० ॥

किम् स्वप्नः एतत् उत देव-माया किम् वा मदीयः बत बुद्धि-मोहः अथो अमुष्य एव मम अर्भकस्य यः कश्चन औत्पत्तिकः आत्म-योगः

अथो यथावन्न वितर्कगोचरं
चेतोमन:कर्मवचोभिरञ्जसा ।
यदाश्रयं येन यत: प्रतीयते
सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१ ॥

अथो यथा-वत् न वितर्क-गोचरम् चेतः मनः कर्म वचोभिः अञ्जसा यत्-आश्रयम् येन यतः प्रतीयते सु-दुर्विभाव्यम् प्रणता अस्मि तत्-पदम्

अहं ममासौ पतिरेष मे सुतो
व्रजेश्वरस्याखिलवित्तपा सती ।
गोप्यश्च गोपा: सहगोधनाश्च मे
यन्माययेत्थं कुमति: स मे गति: ॥ ४२ ॥

अहम् मम असौ पतिः एषः मे सुतः व्रज-ईश्वरस्य अखिल-वित्त-पा सती गोप्यः च गोपाः सह-गोधनाः च मे यत्-मायया इत्थम् कुमतिः सः मे गतिः

इत्थं विदिततत्त्वायां गोपिकायां स ईश्वर: ।
वैष्णवीं व्यतनोन्मायां पुत्रस्‍नेहमयीं विभु: ॥ ४३ ॥

इत्थम् विदित-तत्त्वायाम् गोपिकायाम् सः ईश्वरः वैष्णवीम् व्यतनोत् मायाम् पुत्र-स्नेह-मयीम् विभुः

सद्योनष्टस्मृतिर्गोपी सारोप्यारोहमात्मजम् ।
प्रवृद्धस्‍नेहकलिलहृदयासीद् यथा पुरा ॥ ४४ ॥

सद्यः नष्ट-स्मृतिः गोपी सा आरोप्य आरोहम् आत्मजम् प्रवृद्ध स्नेह कलिल हृदया आसीत् यथा पुरा

त्रय्या चोपनिषद्भ‍िश्च साङ्ख्ययोगैश्च सात्वतै: ।
उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥

त्रय्या च उपनिषद्भिः च साङ्ख्य-योगैः च सात्वतैः उपगीयमान-माहात्म्यम् हरिम् सा अमन्यत आत्मजम्

श्रीराजोवाच
नन्द: किमकरोद् ब्रह्मन्श्रेय एवं महोदयम् ।
यशोदा च महाभागा पपौ यस्या: स्तनं हरि: ॥ ४६ ॥

श्री-राजा उवाच नन्दः किम् अकरोत् ब्रह्मन् श्रेयः एवम् महा-उदयम् यशोदा च महा-भागा पपौ यस्याः स्तनम् हरिः

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७ ॥

पितरौ न अन्वविन्देताम् कृष्ण उदार अर्भक-ईहितम् गायन्ति अद्य अपि कवयः यत् लोक-शमल-अपहम्

श्रीशुक उवाच
द्रोणो वसूनां प्रवरो धरया भार्यया सह ।
करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८ ॥

श्री-शुकः उवाच द्रोणः वसूनाम् प्रवरः धरया भार्यया सह करिष्यमाणः आदेशान् ब्रह्मणः तम् उवाच ह

जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्ति: स्यत्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥

जातयोः नौ महादेवे भुवि विश्व-ईश्वरे हरौ भक्तिः स्यात् परमा लोके यया अञ्जः दुर्गतिम् तरेत्

अस्त्वित्युक्त: स भगवान्व्रजे द्रोणो महायशा: ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥

अस्तु इति उक्तः सः भगवान् व्रजे द्रोणः महा-यशाः जज्ञे नन्दः इति ख्यातः यशोदा सा धरा अभवत्

ततो भक्तिर्भगवति पुत्रीभूते जनार्दने ।
दम्पत्योर्नितरामासीद् गोपगोपीषु भारत ॥ ५१ ॥

ततः भक्तिः भगवति पुत्री-भूते जनार्दने दम्-पत्योः नितराम् आसीत् गोप-गोपीषु भारत

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभु: ।
सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥

कृष्णः ब्रह्मणः आदेशम् सत्यम् कर्तुम् व्रजे विभुः सह-रामः वसन् चक्रे तेषाम् प्रीतिम् स्व-लीलया

१०.९

श्रीशुक उवाच
एकदा गृहदासीषु यशोदा नन्दगेहिनी ।
कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥
यानि यानीह गीतानि तद्बालचरितानि च ।
दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २ ॥

श्री-शुकः उवाच एकदा गृह-दासीषु यशोदा नन्द-गेहिनी कर्म-अन्तर नियुक्तासु निर्ममन्थ स्वयम् दधि यानि यानि इह गीतानि तत्-बाल-चरितानि च दधि-निर्मन्थने काले स्मरन्ती तानि अगायत

क्षौमं वास: पृथुकटितटे बिभ्रती सूत्रनद्धं
पुत्रस्‍नेहस्‍नुतकुचयुगं जातकम्पं च सुभ्रू: ।
रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३ ॥

क्षौमम् वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धम् पुत्र-स्नेह-स्नुत कुच-युगम् जात-कम्पम् च सु-भ्रूः रज्जु-आकर्ष श्रम भुज चलत्-कङ्कणौ कुण्डले च स्विन्नम् वक्त्रम् कबर-विगलत्-मालती निर्ममन्थ

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरि: ।
गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन् ॥ ४ ॥

ताम् स्तन्य-कामः आसाद्य मथ्नन्तीम् जननीम् हरिः गृहीत्वा दधि-मन्थानम् न्यषेधत् प्रीतिम् आवहन्

तमङ्कमारूढमपाययत् स्तनं
स्‍नेहस्‍नुतं सस्मितमीक्षती मुखम् ।
अतृप्तमुत्सृज्य जवेन सा यया-
वुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५ ॥

तम् अङ्कम् आरूढम् अपाययत् स्तनम् स्नेह-स्नुतम् स-स्मितम् ईक्षती मुखम् अतृप्तम् उत्सृज्य जवेन सा ययौ उत्सिच्यमाने पयसि तु अधिश्रिते

सञ्जातकोप: स्फुरितारुणाधरं
सन्दश्य दद्भ‍िर्दधिमन्थभाजनम् ।
भित्त्वा मृषाश्रुर्द‍ृषदश्मना रहो
जघास हैयङ्गवमन्तरं गत: ॥ ६ ॥

सञ्जात-कोपः स्फुरित-अरुण-अधरम् सन्दश्य दद्भिः दधि-मन्थ-भाजनम् भित्त्वा मृषा-अश्रुः दृषत्-अश्मना रहः जघास हैयङ्गवम् अन्तरम् गतः

उत्तार्य गोपी सुश‍ृतं पय: पुन:
प्रविश्य संद‍ृश्य च दध्यमत्रकम् ।
भग्नं विलोक्य स्वसुतस्य कर्म त-
ज्जहास तं चापि न तत्र पश्यती ॥ ७ ॥

उत्तार्य गोपी सु-शृतम् पयः पुनः प्रविश्य संदृश्य च दधि-अमत्रकम् भग्नम् विलोक्य स्व-सुतस्य कर्म तत् जहास तम् च अपि न तत्र पश्यती

उलूखलाङ्‌घ्रेरुपरि व्यवस्थितं
मर्काय कामं ददतं शिचि स्थितम् ।
हैयङ्गवं चौर्यविशङ्कितेक्षणं
निरीक्ष्य पश्चात् सुतमागमच्छनै: ॥ ८ ॥

उलूखल-अङ्घ्रेः उपरि व्यवस्थितम् मर्काय कामम् ददतम् शिचि स्थितम् हैयङ्गवम् चौर्य-विशङ्कित ईक्षणम् निरीक्ष्य पश्चात् सुतम् आगमत् शनैः

तामात्तयष्टिं प्रसमीक्ष्य सत्वर-
स्ततोऽवरुह्यापससार भीतवत् ।
गोप्यन्वधावन्न यमाप योगिनां
क्षमं प्रवेष्टुं तपसेरितं मन: ॥ ९ ॥

ताम् आत्त-यष्टिम् प्रसमीक्ष्य सत्वरः ततः अवरुह्य अपससार भीत-वत् गोपी अन्वधावत् न यम् आप योगिनाम् क्षमम् प्रवेष्टुम् तपसा ईरितम् मनः

अन्वञ्चमाना जननी बृहच्चल-
च्छ्रोणीभराक्रान्तगति: सुमध्यमा ।
जवेन विस्रंसितकेशबन्धन-
च्युतप्रसूनानुगति: परामृशत् ॥ १० ॥

अन्वञ्चमाना जननी बृहत्-चलत्-श्रोणी-भर-आक्रान्त-गतिः सु-मध्यमा जवेन विस्रंसित-केश-बन्धन च्युत-प्रसून-अनुगतिः परामृशत्

कृतागसं तं प्ररुदन्तमक्षिणी
कषन्तमञ्जन्मषिणी स्वपाणिना ।
उद्वीक्षमाणं भयविह्वलेक्षणं
हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥

कृत-आगसम् तम् प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जत्-मषिणी स्व-पाणिना उद्वीक्षमाणम् भय-विह्वल-ईक्षणम् हस्ते गृहीत्वा भिषयन्ती अवागुरत्

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।
इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ १२ ॥

त्यक्त्वा यष्टिम् सुतम् भीतम् विज्ञाय अर्भक-वत्सला इयेष किल तम् बद्धुम् दाम्ना अ-तत्-वीर्य-कोविदा

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च य: ॥ १३ ॥
तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

न च अन्तः न बहिः यस्य न पूर्वम् न अपि च अपरम् पूर्व-अपरम् बहिः च अन्तः जगतः यः जगत् च यः तम् मत्वा आत्मजम् अव्यक्तम् मर्त्य-लिङ्गम् अधोक्षजम् गोपिका उलूखले दाम्ना बबन्ध प्राकृतम् यथा

तद् दाम बध्यमानस्य स्वार्भकस्य कृतागस: ।
द्‌व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५ ॥

तत् दाम बध्यमानस्य स्व-अर्भकस्य कृत-आगसः द्वि-अङ्गुल ऊनम् अभूत् तेन सन्दधे अन्यत् च गोपिका

यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे ।
तदपि द्‌व्यङ्गुलं न्यूनं यद् यदादत्त बन्धनम् ॥ १६ ॥

यदा आसीत् तत् अपि न्यूनम् तेन अन्यत् अपि सन्दधे तत् अपि द्वि-अङ्गुलम् न्यूनम् यत् यत् आदत्त बन्धनम्

एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥

एवम् स्व-गेह-दामानि यशोदा सन्दधति अपि गोपीनाम् सु-स्मयन्तीनाम् स्मयन्ती विस्मिता अभवत्

स्वमातु: स्विन्नगात्राया विस्रस्तकबरस्रज: ।
द‍ृष्ट्वा परिश्रमं कृष्ण: कृपयासीत् स्वबन्धने ॥ १८ ॥

स्व-मातुः स्विन्न-गात्रायाः विस्रस्त कबर स्रजः दृष्ट्वा परिश्रमम् कृष्णः कृपया आसीत् स्व-बन्धने

एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता ।
स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥

एवम् सन्दर्शिता हि अङ्ग हरिणा भृत्य-वश्यता स्व-वशेन अपि कृष्णेन यस्य इदम् स-ईश्वरम् वशे

नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया ।
प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥ २० ॥

न इमम् विरिञ्चः न भवः न श्रीः अपि अङ्ग-संश्रया प्रसादम् लेभिरे गोपी यत् तत् प्राप विमुक्ति-दात्

नायं सुखापो भगवान्देहिनां गोपिकासुत: ।
ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ २१ ॥

न अयम् सुख-आपः भगवान् देहिनाम् गोपिका-सुतः ज्ञानिनाम् च आत्म-भूतानाम् यथा भक्ति-मताम् इह

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभु: ।
अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२ ॥

कृष्णः तु गृह-कृत्येषु व्यग्रायाम् मातरि प्रभुः अद्राक्षीत् अर्जुनौ पूर्वम् गुह्यकौ धनद-आत्मजौ

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।
नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ ॥ २३ ॥

पुरा नारद-शापेन वृक्षताम् प्रापितौ मदात् नलकूवर मणिग्रीवौ इति ख्यातौ श्रिया अन्वितौ

१०.१०

श्रीराजोवाच
कथ्यतां भगवन्नेतत्तयो: शापस्य कारणम् ।
यत्तद् विगर्हितं कर्म येन वा देवर्षेस्तम: ॥ १ ॥

श्री-राजा उवाच कथ्यताम् भगवन् एतत् तयोः शापस्य कारणम् यत् तत् विगर्हितम् कर्म येन वा देवर्षेः तमः

श्रीशुक उवाच
रुद्रस्यानुचरौ भूत्वा सुद‍ृप्तौ धनदात्मजौ ।
कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥
वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ ।
स्त्रीजनैरनुगायद्भ‍िश्चेरतु: पुष्पिते वने ॥ ३ ॥

श्री-शुकः उवाच रुद्रस्य अनुचरौ भूत्वा सु-दृप्तौ धनद-आत्मजौ कैलास-उपवने रम्ये मन्दाकिन्याम् मद-उत्कटौ वारुणीम् मदिराम् पीत्वा मद-आघूर्णित-लोचनौ स्त्री-जनैः अनुगायद्भिः चेरतुः पुष्पिते वने

अन्त: प्रविश्य गङ्गायामम्भोजवनराजिनि ।
चिक्रीडतुर्युवतिभिर्गजाविव करेणुभि: ॥ ४ ॥

अन्तः प्रविश्य गङ्गायाम् अम्भोज वन-राजिनि चिक्रीडतुः युवतिभिः गजौ इव करेणुभिः

यद‍ृच्छया च देवर्षिर्भगवांस्तत्र कौरव ।
अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥

यदृच्छया च देव-ऋषिः भगवान् तत्र कौरव अपश्यत् नारदः देवौ क्षीबाणौ समबुध्यत

तं द‍ृष्ट्वा व्रीडिता देव्यो विवस्त्रा: शापशङ्किता: ।
वासांसि पर्यधु: शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

तम् दृष्ट्वा व्रीडिताः देव्यः विवस्त्राः शाप-शङ्किताः वासांसि पर्यधुः शीघ्रम् विवस्त्रौ न एव गुह्यकौ

तौ द‍ृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ ।
तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥ ७ ॥

तौ दृष्ट्वा मदिरा-मत्तौ श्री-मद-अन्धौ सुर-आत्मजौ तयोः अनुग्रह-अर्थाय शापम् दास्यन् इदम् जगौ

श्रीनारद उवाच
न ह्यन्यो जुषतो जोष्यान्बुद्धिभ्रंशो रजोगुण: ।
श्रीमदादाभिजात्यादिर्यत्र स्त्री द्यूतमासव: ॥ ८ ॥

श्री-नारदः उवाच न हि अन्यः जुषतः जोष्यान् बुद्धि-भ्रंशः रजः-गुणः श्री-मदात् आभिजात्य-आदिः यत्र स्त्री द्यूतम् आसवः

हन्यन्ते पशवो यत्र निर्दयैरजितात्मभि: ।
मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ॥ ९ ॥

हन्यन्ते पशवः यत्र निर्दयैः अजित-आत्मभिः मन्यमानैः इमम् देहम् अजर अमृत्यु नश्वरम्

देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम् ।
भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यत: ॥ १० ॥

देव-संज्ञितम् अपि अन्ते कृमि विट् भस्म-संज्ञितम् भूत-ध्रुक् तत्-कृते स्व-अर्थम् किम् वेद निरयः यतः

देह: किमन्नदातु: स्वं निषेक्तुर्मातुरेव च ।
मातु: पितुर्वा बलिन: क्रेतुरग्ने: शुनोऽपि वा ॥ ११ ॥

देहः किम् अन्न-दातुः स्वम् निषेक्तुः मातुः एव च मातुः पितुः वा बलिनः क्रेतुः अग्नेः शुनः अपि वा

एवं साधारणं देहमव्यक्तप्रभवाप्ययम् ।
को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसत: ॥ १२ ॥

एवम् साधारणम् देहम् अव्यक्त प्रभव अप्ययम् कः विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते असतः

असत: श्रीमदान्धस्य दारिद्रय‍ं परमञ्जनम् ।
आत्मौपम्येन भूतानि दरिद्र: परमीक्षते ॥ १३ ॥

असतः श्री-मद-अन्धस्य दारिद्र्यम् परम् अञ्जनम् आत्म-औपम्येन भूतानि दरिद्रः परम् ईक्षते

यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् ।
जीवसाम्यं गतो लिङ्गैर्न तथाविद्धकण्टक: ॥ १४ ॥

यथा कण्टक-विद्ध-अङ्गः जन्तोः न इच्छति ताम् व्यथाम् जीव-साम्यम् गतः लिङ्गैः न तथा अविद्ध-कण्टकः

दरिद्रो निरहंस्तम्भो मुक्त: सर्वमदैरिह ।
कृच्छ्रं यद‍ृच्छयाप्नोति तद्धि तस्य परं तप: ॥ १५ ॥

दरिद्रः निर्-अहम्-स्तम्भः मुक्तः सर्व मदैः इह कृच्छ्रम् यदृच्छया आप्नोति तत् हि तस्य परम् तपः

नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिण: ।
इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥

नित्यम् क्षुत् क्षाम देहस्य दरिद्रस्य अन्न-काङ्क्षिणः इन्द्रियाणि अनुशुष्यन्ति हिंसा अपि विनिवर्तते

दरिद्रस्यैव युज्यन्ते साधव: समदर्शिन: ।
सद्भ‍ि: क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥

दरिद्रस्य एव युज्यन्ते साधवः सम-दर्शिनः सद्भिः क्षिणोति तम् तर्षम् ततः आरात् विशुद्ध्यति

साधूनां समचित्तानां मुकुन्दचरणैषिणाम् ।
उपेक्ष्यै: किं धनस्तम्भैरसद्भ‍िरसदाश्रयै: ॥ १८ ॥

साधूनाम् सम-चित्तानाम् मुकुन्द-चरण-एषिणाम् उपेक्ष्यैः किम् धन-स्तम्भैः असद्भिः असत्-आश्रयैः

तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयो: ।
तमोमदं हरिष्यामि स्त्रैणयोरजितात्मनो: ॥ १९ ॥

तत् अहम् मत्तयोः माध्व्या वारुण्या श्री-मद-अन्धयोः तमः-मदम् हरिष्यामि स्त्रैणयोः अजित-आत्मनोः

यदिमौ लोकपालस्य पुत्रौ भूत्वा तम:प्लुतौ ।
न विवाससमात्मानं विजानीत: सुदुर्मदौ ॥ २० ॥
अतोऽर्हत: स्थावरतां स्यातां नैवं यथा पुन: ।
स्मृति: स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।
वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यत: ॥ २२ ॥

यत् इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ न विवाससम् आत्मानम् विजानीतः सु-दुर्मदौ अतः अर्हतः स्थावरताम् स्याताम् न एवम् यथा पुनः स्मृतिः स्यात् मत्-प्रसादेन तत्र अपि मत्-अनुग्रहात् वासुदेवस्य सान्निध्यम् लब्ध्वा दिव्य-शरत्-शते वृत्ते स्वर्लोकताम् भूयः लब्ध-भक्ती भविष्यतः

श्रीशुक उवाच
एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् ।
नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ ॥ २३ ॥

श्री-शुकः उवाच एवम् उक्त्वा सः देवर्षिः गतः नारायण-आश्रमम् नलकूवर मणिग्रीवौ आसतुः यमल-अर्जुनौ

ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरि: ।
जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥

ऋषेः भागवत-मुख्यस्य सत्यम् कर्तुम् वचः हरिः जगाम शनकैः तत्र यत्र आस्ताम् यमल-अर्जुनौ

देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।
तत्तथा साधयिष्यामि यद् गीतं तन्महात्मना ॥ २५ ॥

देवर्षिः मे प्रिय-तमः यत् इमौ धनद-आत्मजौ तत् तथा साधयिष्यामि यत् गीतम् तत् महात्मना

इत्यन्तरेणार्जुनयो: कृष्णस्तु यमयोर्ययौ ।
आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ॥ २६ ॥

इति अन्तरेण अर्जुनयोः कृष्णः तु यमयोः ययौ आत्म-निर्वेश-मात्रेण तिर्यक् गतम् उलूखलम्

बालेन निष्कर्षयतान्वगुलूखलं तद्
दामोदरेण तरसोत्कलिताङ्‍‍घ्रिबन्धौ ।
निष्पेततु: परमविक्रमितातिवेप-
स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥

बालेन निष्कर्षयता अन्वक् उलूखलम् तत् दाम-उदरेण तरसा उत्कलित अङ्घ्रि-बन्धौ निष्पेततुः परम-विक्रमित अति-वेप स्कन्ध प्रवाल विटपौ कृत चण्ड-शब्दौ

तत्र श्रिया परमया ककुभ: स्फुरन्तौ
सिद्धावुपेत्य कुजयोरिव जातवेदा: ।
कृष्णं प्रणम्य
शिरसाखिललोकनाथं
बद्धाञ्जली विरजसाविदमूचतु: स्म ॥ २८ ॥

तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धौ उपेत्य कुजयोः इव जात-वेदाः कृष्णम् प्रणम्य शिरसा अखिल-लोक-नाथम् बद्ध-अञ्जली विरजसौ इदम् ऊचतुः स्म

कृष्ण कृष्ण महायोगिंस्त्वमाद्य: पुरुष: पर: ।
व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा
विदु:
॥ २९ ॥

कृष्ण कृष्ण महा-योगिन् त्वम् आद्यः पुरुषः परः व्यक्त-अव्यक्तम् इदम् विश्वम् रूपम् ते ब्राह्मणाः विदुः

त्वमेक: सर्वभूतानां देहास्वात्मेन्द्रियेश्वर: ।
त्वमेव कालो भगवान् विष्णुरव्यय ईश्वर: ॥ ३० ॥
त्वं महान् प्रकृति: सूक्ष्मा रज:सत्त्वतमोमयी ।
त्वमेव पुरुषोऽध्यक्ष: सर्वक्षेत्रविकारवित् ॥ ३१ ॥

त्वम् एकः सर्व-भूतानाम् देह असु आत्म इन्द्रिय ईश्वरः त्वम् एव कालः भगवान् विष्णुः अव्ययः ईश्वरः त्वम् महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमः-मयी त्वम् एव पुरुषः अध्यक्षः सर्व-क्षेत्र विकार-वित्

गृह्यमाणैस्त्वमग्राह्यो विकारै: प्राकृतैर्गुणै: ।
को न्विहार्हति विज्ञातुं प्राक्‌सिद्धं गुणसंवृत: ॥ ३२ ॥

गृह्यमाणैः त्वम् अग्राह्यः विकारैः प्राकृतैः गुणैः कः नु इह अर्हति विज्ञातुम् प्राक् सिद्धम् गुण-संवृतः

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।
आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नम: ॥ ३३ ॥

तस्मै तुभ्यम् भगवते वासुदेवाय वेधसे आत्म-द्योत-गुणैः छन्न-महिम्ने ब्रह्मणे नमः

यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिण: ।
तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतै: ॥ ३४ ॥
स भवान्सर्वलोकस्य भवाय विभवाय च ।
अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥

यस्य अवताराः ज्ञायन्ते शरीरेषु अशरीरिणः तैः तैः अतुल्य अति-शयैः वीर्यैः देहिषु असङ्गतैः सः भवान् सर्व-लोकस्य भवाय विभवाय च अवतीर्णः अंश-भागेन साम्प्रतम् पतिः आशिषाम्

नम: परमकल्याण नम: परममङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नम: ॥ ३६ ॥

नमः परम-कल्याण नमः परम-मङ्गल वासुदेवाय शान्ताय यदूनाम् पतये नमः

अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ ।
दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥

अनुजानीहि नौ भूमन् तव अनुचर-किङ्करौ दर्शनम् नौ भगवतः ऋषेः आसीत् अनुग्रहात्

वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्मसु मनस्तव पादयोर्न: ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे
द‍ृष्टि: सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥

वाणी गुण-अनुकथने श्रवणौ कथायाम् हस्तौ च कर्मसु मनः तव पादयोः नः स्मृत्याम् शिरः तव निवास-जगत्-प्रणामे दृष्टिः सताम् दर्शने अस्तु भवत्-तनूनाम्

श्रीशुक उवाच
इत्थं सङ्कीर्तितस्ताभ्यां भगवान्गोकुलेश्वर: ।
दाम्ना चोलूखले बद्ध: प्रहसन्नाह गुह्यकौ ॥ ३९ ॥

श्री-शुकः उवाच इत्थम् सङ्कीर्तितः ताभ्याम् भगवान् गोकुल-ईश्वरः दाम्ना च उलूखले बद्धः प्रहसन् आह गुह्यकौ

श्रीभगवानुवाच
ज्ञातं मम पुरैवैतद‍ृषिणा करुणात्मना ।
यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रह: कृत: ॥ ४० ॥

श्री-भगवान् उवाच ज्ञातम् मम पुरा एव एतत् ऋषिणा करुणा-आत्मना यत् श्री-मद-अन्धयोः वाग्भिः विभ्रंशः अनुग्रहः कृतः

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।
दर्शनान्नो भवेद् बन्ध: पुंसोऽक्ष्णो: सवितुर्यथा ॥ ४१ ॥

साधूनाम् सम-चित्तानाम् सुतराम् मत्-कृत-आत्मनाम् दर्शनात् नो भवेत् बन्धः पुंसः अक्ष्णोः सवितुः यथा

तद्गच्छतं मत्परमौ नलकूवर सादनम् ।
सञ्जातो मयि भावो वामीप्सित: परमोऽभव: ॥ ४२ ॥

तत् गच्छतम् मत्-परमौ नलकूवर सादनम् सञ्जातः मयि भावः वाम् ईप्सितः परमः अभवः

श्रीशुक उवाच
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुन: पुन: ।
बद्धोलूखलमामन्‍त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥

श्री-शुकः उवाच इति उक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः बद्ध-उलूखलम् आमन्त्र्य जग्मतुः दिशम् उत्तराम्

१०.११

श्रीशुक उवाच
गोपा नन्दादय: श्रुत्वा द्रुमयो: पततोरवम् ।
तत्राजग्मु: कुरुश्रेष्ठ निर्घातभयशङ्किता: ॥ १ ॥

श्री-शुकः उवाच गोपाः नन्द-आदयः श्रुत्वा द्रुमयोः पततोः रवम् तत्र आजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः

भूम्यां निपतितौ तत्र दद‍ृशुर्यमलार्जुनौ ।
बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥

भूम्याम् निपतितौ तत्र ददृशुः यमल-अर्जुनौ बभ्रमुः तत् अविज्ञाय लक्ष्यम् पतन-कारणम्

उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।
कस्येदं कुत आश्चर्यमुत्पात इति कातरा: ॥ ३ ॥

उलूखलम् विकर्षन्तम् दाम्ना बद्धम् च बालकम् कस्य इदम् कुतः आश्चर्यम् उत्पातः इति कातराः

बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम् ।
विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥ ४ ॥

बालाः ऊचुः अनेन इति तिर्यक् गतम् उलूखलम् विकर्षता मध्य-गेन पुरुषौ अपि अचक्ष्महि

न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् ।
बालस्योत्पाटनं तर्वो: केचित्सन्दिग्धचेतस: ॥ ५ ॥

न ते तत्-उक्तम् जगृहुः न घटेत इति तस्य तत् बालस्य उत्पाटनम् तर्वोः केचित् सन्दिग्ध-चेतसः

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् ।
विलोक्य नन्द: प्रहसद्वदनो विमुमोच ह ॥ ६ ॥

उलूखलम् विकर्षन्तम् दाम्ना बद्धम् स्वम् आत्मजम् विलोक्य नन्दः प्रहसत्-वदनः विमुमोच ह

गोपीभि: स्तोभितोऽनृत्यद् भगवान्बालवत्‍क्‍वचित् ।
उद्गायति क्‍वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ ७ ॥

गोपीभिः स्तोभितः अनृत्यत् भगवान् बाल-वत् क्वचित् उद्गायति क्वचित् मुग्धः तत्-वशः दारु-यन्त्र-वत्

बिभर्ति क्‍वचिदाज्ञप्त: पीठकोन्मानपादुकम् ।
बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥

बिभर्ति क्वचित् आज्ञप्तः पीठक-उन्मान पादुकम् बाहु-क्षेपम् च कुरुते स्वानाम् च प्रीतिम् आवहन्

दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् ।
व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितै: ॥ ९ ॥

दर्शयन् तत्-विदाम् लोके आत्मनः भृत्य-वश्यताम् व्रजस्य उवाह वै हर्षम् भगवान् बाल-चेष्टितैः

क्रीणीहि भो: फलानीति श्रुत्वा सत्वरमच्युत: ।
फलार्थी धान्यमादाय ययौ सर्वफलप्रद: ॥ १० ॥

क्रीणीहि भोः फलानि इति श्रुत्वा सत्वरम् अच्युतः फल-अर्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः

फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् ।
फलैरपूरयद् रत्नै: फलभाण्डमपूरि च ॥ ११ ॥

फल-विक्रयिणी तस्य च्युत-धान्य कर-द्वयम् फलैः अपूरयत् रत्नैः फल-भाण्डम् अपूरि च

सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् ।
रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥

सरित्-तीर गतम् कृष्णम् भग्न-अर्जुनम् अथ आह्वयत् रामम् च रोहिणी देवी क्रीडन्तम् बालकैः भृशम्

नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ ।
यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥

न उपेयाताम् यदा आहूतौ क्रीडा-सङ्गेन पुत्रकौ यशोदाम् प्रेषयाम् आस रोहिणी पुत्र-वत्सलाम्

क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम् ।
यशोदाजोहवीत्कृष्णं पुत्रस्‍नेहस्‍नुतस्तनी ॥ १४ ॥

क्रीडन्तम् सा सुतम् बालैः अति-वेलम् सह-अग्रजम् यशोदा अजोहवीत् कृष्णम् पुत्र-स्नेह-स्नुत-स्तनी

कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।
अलं विहारै: क्षुत्क्षान्त: क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥

कृष्ण कृष्ण अरविन्द-अक्ष तात एहि स्तनम् पिब अलम् विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तः असि पुत्रक

हे रामागच्छ ताताशु सानुज: कुलनन्दन ।
प्रातरेव कृताहारस्तद् भवान्भोक्तुमर्हति ॥ १६ ॥

हे राम आगच्छ तात आशु स-अनुजः कुल-नन्दन प्रातः एव कृत-आहारः तत् भवान् भोक्तुम् अर्हति

प्रतीक्षतेत्वां दाशार्ह भोक्ष्यमाणो व्रजाधिप: ।
एह्यावयो: प्रियं धेहि स्वगृहान्यात बालका: ॥ १७ ॥

प्रतीक्षते त्वाम् दाशार्ह भोक्ष्यमाणः व्रज-अधिपः एहि आवयोः प्रियम् धेहि स्व-गृहान् यात बालकाः

धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह ।
जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गा: शुचि: ॥ १८ ॥

धूलि-धूसरित-अङ्गः त्वम् पुत्र मज्जनम् आवह जन्म-ऋक्षम् ते अद्य भवति विप्रेभ्यः देहि गाः शुचिः

पश्य पश्य वयस्यांस्ते मातृमृष्टान्स्वलङ्कृतान् ।
त्वं च स्‍नात: कृताहारो विहरस्व स्वलङ्कृत: ॥ १९ ॥

पश्य पश्य वयस्यान् ते मातृ-मृष्टान् सु-अलङ्कृतान् त्वम् च स्नातः कृत-आहारः विहरस्व सु-अलङ्कृतः

इत्थं यशोदा तमशेषशेखरं
मत्वा सुतं स्‍नेहनिबद्धधीर्नृप ।
हस्ते गृहीत्वा सहराममच्युतं
नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥

इत्थम् यशोदा तम् अशेष-शेखरम् मत्वा सुतम् स्नेह-निबद्ध-धीः नृप हस्ते गृहीत्वा सह-रामम् अच्युतम् नीत्वा स्व-वाटम् कृतवती अथ उदयम्

श्रीशुक उवाच
गोपवृद्धा महोत्पाताननुभूय बृहद्वने ।
नन्दादय: समागम्य व्रजकार्यममन्त्रयन् ॥ २१ ॥

श्री-शुकः उवाच गोप-वृद्धाः महा-उत्पातान् अनुभूय बृहद्वने नन्द-आदयः समागम्य व्रज-कार्यम् अमन्त्रयन्

तत्रोपानन्दनामाह गोपो ज्ञानवयोऽधिक: ।
देशकालार्थतत्त्वज्ञ: प्रियकृद् रामकृष्णयो: ॥ २२ ॥

तत्र उपनन्द-नामा आह गोपः ज्ञान-वयः-अधिकः देश-काल-अर्थ-तत्त्व-ज्ञः प्रिय-कृत् राम-कृष्णयोः

उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभि: ।
आयान्त्यत्र महोत्पाता बालानां नाशहेतव: ॥ २३ ॥

उत्थातव्यम् इतः अस्माभिः गोकुलस्य हित-एषिभिः आयान्ति अत्र महा-उत्पाताः बालानाम् नाश-हेतवः

मुक्त: कथञ्चिद्‌राक्षस्या बालघ्‍न्या बालको ह्यसौ ।
हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ॥ २४ ॥

मुक्तः कथञ्चित् राक्षस्याः बाल-घ्न्याः बालकः हि असौ हरेः अनुग्रहात् नूनम् अनः च उपरि न अपतत्

चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् ।
शिलायां पतितस्तत्र परित्रात: सुरेश्वरै: ॥ २५ ॥

चक्र-वातेन नीतः अयम् दैत्येन विपदम् वियत् शिलायाम् पतितः तत्र परित्रातः सुर-ईश्वरैः

यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालक: ।
असावन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥

यत् न म्रियेत द्रुमयोः अन्तरम् प्राप्य बालकः असौ अन्यतमः वा अपि तत् अपि अच्युत-रक्षणम्

यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदित: ।
तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगा: ॥ २७ ॥

यावत् औत्पातिकः अरिष्टः व्रजम् न अभिभवेत् इतः तावत् बालान् उपादाय यास्यामः अन्यत्र स-अनुगाः

वनं वृन्दावनं नाम पशव्यं नवकाननम् ।
गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ॥ २८ ॥

वनम् वृन्दावनम् नाम पशव्यम् नव-काननम् गोप-गोपी-गवाम् सेव्यम् पुण्य-अद्रि तृण वीरुधम्

तत्तत्राद्यैव यास्याम: शकटान् युङ्त मा चिरम् ।
गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥

तत् तत्र अद्य एव यास्यामः शकटान् युङ्क्त मा चिरम् गो-धनानि अग्रतः यान्तु भवताम् यदि रोचते

तच्छ्रुत्वैकधियो गोपा: साधु साध्विति वादिन: ।
व्रजान्स्वान्स्वान्समायुज्य ययू रूढपरिच्छदा: ॥ ३० ॥

तत् श्रुत्वा एक-धियः गोपाः साधु साधु इति वादिनः व्रजान् स्वान् स्वान् समायुज्य ययुः रूढ-परिच्छदाः

वृद्धान्बालान्स्त्रियो राजन्सर्वोपकरणानि च ।
अन:स्वारोप्य गोपाला यत्ता आत्तशरासना: ॥ ३१ ॥
गोधनानि पुरस्कृत्य श‍ृङ्गाण्यापूर्य सर्वत: ।
तूर्यघोषेण महता ययु: सहपुरोहिता: ॥ ३२ ॥

वृद्धान् बालान् स्त्रियः राजन् सर्व-उपकरणानि च अनःसु आरोप्य गोपालाः यत्ताः आत्त-शर-असनाः गो-धनानि पुरस्कृत्य शृङ्गाणि आपूर्य सर्वतः तूर्य-घोषेण महता ययुः सह-पुरोहिताः

गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तय: ।
कृष्णलीला जगु: प्रीत्या निष्ककण्ठ्य: सुवासस: ॥ ३३ ॥

गोप्यः रूढ-रथाः नूत्न-कुच-कुङ्कुम-कान्तयः कृष्ण-लीलाः जगुः प्रीत्या निष्क-कण्ठ्यः सु-वाससः

तथा यशोदारोहिण्यावेकं शकटमास्थिते ।
रेजतु: कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥

तथा यशोदा-रोहिण्यौ एकम् शकटम् आस्थिते रेजतुः कृष्ण-रामाभ्याम् तत्-कथा श्रवण-उत्सुके

वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् ।
तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ॥ ३५ ॥

वृन्दावनम् सम्प्रविश्य सर्व-काल-सुख-आवहम् तत्र चक्रुः व्रज-आवासम् शकटैः अर्ध-चन्द्रवत्

वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।
वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥

वृन्दावनम् गोवर्धनम् यमुना-पुलिनानि च वीक्ष्य आसीत् उत्तमा प्रीती राम-माधवयोः नृप

एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितै: ।
कलवाक्यै: स्वकालेन वत्सपालौ बभूवतु: ॥ ३७ ॥

एवम् व्रज-ओकसाम् प्रीतिम् यच्छन्तौ बाल-चेष्टितैः कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः

अविदूरे व्रजभुव: सह गोपालदारकै: ।
चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥

अविदूरे व्रज-भुवः सह गोपाल-दारकैः चारयाम् आसतुः वत्सान् नाना क्रीडा परिच्छदौ

क्‍वचिद्वादयतो वेणुं क्षेपणै: क्षिपत: क्‍वचित् ।
क्‍वचित्पादै: किङ्किणीभि: क्‍वचित्कृत्रिमगोवृषै: ॥ ३९ ॥
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।
अनुकृत्य रुतैर्जन्तूंश्चेरतु: प्राकृतौ यथा ॥ ४० ॥

क्वचित् वादयतः वेणुम् क्षेपणैः क्षिपतः क्वचित् क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् अनुकृत्य रुतैः जन्तून् चेरतुः प्राकृतौ यथा

कदाचिद् यमुनातीरे वत्सांश्चारयतो: स्वकै: ।
वयस्यै: कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ॥ ४१ ॥

कदाचित् यमुना-तीरे वत्सान् चारयतोः स्वकैः वयस्यैः कृष्ण-बलयोः जिघांसुः दैत्यः आगमत्

तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरि: ।
दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥

तम् वत्स-रूपिणम् वीक्ष्य वत्स-यूथ-गतम् हरिः दर्शयन् बलदेवाय शनैः मुग्धः इव आसदत्

गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युत: ।
भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् ।
स कपित्थैर्महाकाय: पात्यमानै: पपात ह ॥ ४३ ॥

गृहीत्वा अपर-पादाभ्याम् सह लाङ्गूलम् अच्युतः भ्रामयित्वा कपित्थ-अग्रे प्राहिणोत् गत-जीवितम् सः कपित्थैः महा-कायः पात्यमानैः पपात ह

तं वीक्ष्य विस्मिता बाला: शशंसु: साधु साध्विति ।
देवाश्च परिसन्तुष्टा बभूवु: पुष्पवर्षिण: ॥ ४४ ॥

तम् वीक्ष्य विस्मिताः बालाः शशंसुः साधु साधु इति देवाः च परिसन्तुष्टाः बभूवुः पुष्प-वर्षिणः

तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ ।
सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतु: ॥ ४५ ॥

तौ वत्स-पालकौ भूत्वा सर्व-लोक-एक-पालकौ स-प्रातः-आशौ गो-वत्सान् चारयन्तौ विचेरतुः

स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा ।
गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥

स्वम् स्वम् वत्स-कुलम् सर्वे पाययिष्यन्तः एकदा गत्वा जल-आशय-अभ्याशम् पाययित्वा पपुः जलम्

ते तत्र दद‍ृशुर्बाला महासत्त्वमवस्थितम् ।
तत्रसुर्वज्रनिर्भिन्नं गिरे: श‍ृङ्गमिव च्युतम् ॥ ४७ ॥

ते तत्र ददृशुः बालाः महा-सत्त्वम् अवस्थितम् तत्रसुः वज्र-निर्भिन्नम् गिरेः शृङ्गम् इव च्युतम्

स वै बको नाम महानसुरो बकरूपधृक् ।
आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद् बली ॥ ४८ ॥

सः वै बकः नाम महान् असुरः बक-रूप-धृक् आगत्य सहसा कृष्णम् तीक्ष्ण-तुण्डः अग्रसत् बली

कृष्णं महाबकग्रस्तं द‍ृष्ट्वा रामादयोऽर्भका: ।
बभूवुरिन्द्रियाणीव विना प्राणं विचेतस: ॥ ४९ ॥

कृष्णम् महा-बक-ग्रस्तम् दृष्ट्वा राम-आदयः अर्भकाः बभूवुः इन्द्रियाणि इव विना प्राणम् विचेतसः

तं तालुमूलं प्रदहन्तमग्निवद्
गोपालसूनुं पितरं जगद्गुरो: ।
चच्छर्द सद्योऽतिरुषाक्षतं बक-
स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥

तम् तालु-मूलम् प्रदहन्तम् अग्नि-वत् गोपाल-सूनुम् पितरम् जगत्-गुरोः चच्छर्द सद्यः अति-रुषा अक्षतम् बकः तुण्डेन हन्तुम् पुनः अभ्यपद्यत

तमापतन्तं स निगृह्य तुण्डयो-
र्दोर्भ्यां बकं कंससखं सतां पति: ।
पश्यत्सु बालेषु ददार लीलया
मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥

तम् आपतन्तम् सः निगृह्य तुण्डयोः दोर्भ्याम् बकम् कंस-सखम् सताम् पतिः पश्यत्सु बालेषु ददार लीलया मुदा-आवहः वीरण-वत् दिवौकसाम्

तदा बकारिं सुरलोकवासिन:
समाकिरन् नन्दनमल्लिकादिभि: ।
समीडिरे चानकशङ्खसंस्तवै-
स्तद् वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥

तदा बक-अरिम् सुर-लोक-वासिनः समाकिरन् नन्दन-मल्लिका-आदिभिः समीडिरे च आनक-शङ्ख-संस्तवैः तत् वीक्ष्य गोपाल-सुताः विसिस्मिरे

मुक्तं बकास्यादुपलभ्य बालका
रामादय: प्राणमिवेन्द्रियो गण: ।
स्थानागतं तं परिरभ्य निर्वृता:
प्रणीय वत्सान् व्रजमेत्य तज्जगु: ॥ ५३ ॥

मुक्तम् बक-आस्यात् उपलभ्य बालकाः राम-आदयः प्राणम् इव इन्द्रियः गणः स्थान-आगतम् तम् परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तत् जगुः

श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियाद‍ृता: ।
प्रेत्यागतमिवोत्सुक्यादैक्षन्त तृषितेक्षणा: ॥ ५४ ॥

श्रुत्वा तत् विस्मिताः गोपाः गोप्यः च अति-प्रिय-आदृताः प्रेत्य आगतम् इव उत्सुक्यात् ऐक्षन्त तृषित-ईक्षणाः

अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् ।
अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥

अहो बत अस्य बालस्य बहवः मृत्यवः अभवन् अपि आसीत् विप्रियम् तेषाम् कृतम् पूर्वम् यतः भयम्

अथाप्यभिभवन्त्येनं नैव ते घोरदर्शना: ।
जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५६ ॥

अथ अपि अभिभवन्ति एनम् न एव ते घोर-दर्शनाः जिघांसया एनम् आसाद्य नश्यन्ति अग्नौ पतङ्ग-वत्

अहो ब्रह्मविदां वाचो नासत्या: सन्ति कर्हिचित् ।
गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ ५७ ॥

अहो ब्रह्म-विदाम् वाचः न असत्याः सन्ति कर्हिचित् गर्गः यत् आह भगवान् अन्वभावि तथा एव तत्

इति नन्दादयो गोपा: कृष्णरामकथां मुदा ।
कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥

इति नन्द-आदयः गोपाः कृष्ण-राम-कथाम् मुदा कुर्वन्तः रममाणाः च न अविन्दन् भव-वेदनाम्

एवं विहारै: कौमारै: कौमारं जहतुर्व्रजे ।
निलायनै: सेतुबन्धैर्मर्कटोत्‍प्लवनादिभि: ॥ ५९ ॥

एवम् विहारैः कौमारैः कौमारम् जहतुः व्रजे निलायनैः सेतु-बन्धैः मर्कट उत्प्लवन-आदिभिः

१०.१२

श्रीशुक उवाच
क्‍वचिद् वनाशाय मनो दधद्‌व्रजात्
प्रात: समुत्थाय वयस्यवत्सपान् ।
प्रबोधयञ्छृङ्गरवेण चारुणा
विनिर्गतो वत्सपुर:सरो हरि: ॥ १ ॥

श्री-शुकः उवाच क्वचित् वन-आशाय मनः दधत् व्रजात् प्रातः समुत्थाय वयस्य-वत्स-पान् प्रबोधयन् शृङ्ग-रवेण चारुणा विनिर्गतः वत्स-पुरःसरः हरिः

तेनैव साकं पृथुका: सहस्रश:
स्‍निग्धा: सुशिग्वेत्रविषाणवेणव: ।
स्वान् स्वान् सहस्रोपरिसङ्ख्ययान्वितान्
वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २ ॥

तेन एव साकम् पृथुकाः सहस्रशः स्निग्धाः सु शिक् वेत्र विषाण वेणवः स्वान् स्वान् सहस्र-उपरि-सङ्ख्यया अन्वितान् वत्सान् पुरः-कृत्य विनिर्ययुः मुदा

कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान् ।
चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह ॥ ३ ॥

कृष्ण वत्सैः असङ्ख्यातैः यूथी-कृत्य स्व-वत्सकान् चारयन्तः अर्भ-लीलाभिः विजह्रुः तत्र तत्र ह

फलप्रबालस्तवकसुमन:पिच्छधातुभि: ।
काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन् ॥ ४ ॥

फल प्रबाल स्तवक सुमनः पिच्छ धातुभिः काच गुञ्जा मणि स्वर्ण भूषिताः अपि अभूषयन्

मुष्णन्तोऽन्योन्यशिक्यादीन्ज्ञातानाराच्च चिक्षिपु: ।
तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददु: ॥ ५ ॥

मुष्णन्तः अन्योन्य शिक्य-आदीन् ज्ञातान् आरात् च चिक्षिपुः तत्रत्याः च पुनः दूरात् हसन्तः च पुनः ददुः

यदि दूरं गत: कृष्णो वनशोभेक्षणाय तम् ।
अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥ ६ ॥

यदि दूरम् गतः कृष्णः वन-शोभ ईक्षणाय तम् अहम् पूर्वम् अहम् पूर्वम् इति संस्पृश्य रेमिरे

केचिद्वेणून्वादयन्तो ध्मान्त: श‍ृङ्गाणि केचन ।
केचिद्भृङ्गै: प्रगायन्त: कूजन्त: कोकिलै: परे ॥ ७ ॥
विच्छायाभि: प्रधावन्तो गच्छन्त: साधु हंसकै: ।
बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभि: ॥ ८ ॥
विकर्षन्त: कीशबालानारोहन्तश्च तैर्द्रुमान् ।
विकुर्वन्तश्च तै: साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥
साकं भेकैर्विलङ्घन्त: सरित: स्रवसम्प्लुता: ।
विहसन्त: प्रतिच्छाया: शपन्तश्च प्रतिस्वनान् ॥ १० ॥
इत्थं सतां ब्रह्मसुखानुभूत्या
दास्यं गतानां परदैवतेन ।
मायाश्रितानां नरदारकेण
साकं विजह्रु: कृतपुण्यपुञ्जा: ॥ ११ ॥

केचित् वेणून् वादयन्तः ध्मान्तः शृङ्गाणि केचन केचित् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे विच्छायाभिः प्रधावन्तः गच्छन्तः साधु हंसकैः बकैः उपविशन्तः च नृत्यन्तः च कलापिभिः विकर्षन्तः कीश-बालान् आरोहन्तः च तैः द्रुमान् विकुर्वन्तः च तैः साकम् प्लवन्तः च पलाशिषु साकम् भेकैः विलङ्घन्तः सरितः स्रव-सम्प्लुताः विहसन्तः प्रतिच्छायाः शपन्तः च प्रतिस्वनान् इत्थम् सताम् ब्रह्म-सुख-अनुभूत्या दास्यम् गतानाम् पर-दैवतेन माया-आश्रितानाम् नर-दारकेण साकम् विजह्रुः कृत-पुण्य-पुञ्जाः

यत्पादपांसुर्बहुजन्मकृच्छ्रतो
धृतात्मभिर्योगिभिरप्यलभ्य: ।
स एव यद् दृग्विषय: स्वयं स्थित:
किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२ ॥

यत् पाद-पांसुः बहु-जन्म कृच्छ्रतः धृत-आत्मभिः योगिभिः अपि अलभ्यः सः एव यत्-दृक्-विषयः स्वयम् स्थितः किम् वर्ण्यते दिष्टम् अतः व्रज-ओकसाम्

अथाघनामाभ्यपतन्महासुर-
स्तेषां सुखक्रीडनवीक्षणाक्षम: ।
नित्यं यदन्तर्निजजीवितेप्सुभि:
पीतामृतैरप्यमरै: प्रतीक्ष्यते ॥ १३ ॥

अथ अघ-नाम अभ्यपतत् महा-असुरः तेषाम् सुख-क्रीडन वीक्षण-अक्षमः नित्यम् यत्-अन्तः निज-जीवित-ईप्सुभिः पीत-अमृतैः अपि अमरैः प्रतीक्ष्यते

द‍ृष्ट्वार्भकान् कृष्णमुखानघासुर:
कंसानुशिष्ट: स बकीबकानुज: ।
अयं तु मे सोदरनाशकृत्तयो-
र्द्वयोर्ममैनं सबलं हनिष्ये ॥ १४ ॥

दृष्ट्वा अर्भकान् कृष्ण-मुखान् अघासुरः कंस-अनुशिष्टः सः बकी-बक-अनुजः अयम् तु मे सोदर-नाश-कृत् तयोः द्वयोः मम एनम् स-बलम् हनिष्ये

एते यदा मत्सुहृदोस्तिलाप:
कृतास्तदा नष्टसमा व्रजौकस: ।
प्राणे गते वर्ष्मसु का नु चिन्ता
प्रजासव: प्राणभृतो हि ये ते ॥ १५ ॥

एते यदा मत्-सुहृदोः तिल-आपः कृताः तदा नष्ट-समाः व्रज-ओकसः प्राणे गते वर्ष्मसु का नु चिन्ता प्रजा-असवः प्राण-भृतः हि ये ते

इति व्यवस्याजगरं बृहद् वपु:
स योजनायाममहाद्रिपीवरम् ।
धृत्वाद्भ‍ुतं व्यात्तगुहाननं तदा
पथि व्यशेत ग्रसनाशया खल: ॥ १६ ॥

इति व्यवस्य आजगरम् बृहत् वपुः सः योजन-आयाम महा-अद्रि-पीवरम् धृत्वा अद्भुतम् व्यात्त गुहा-आननम् तदा पथि व्यशेत ग्रसन-आशया खलः

धराधरोष्ठो जलदोत्तरोष्ठो
दर्याननान्तो गिरिश‍ृङ्गदंष्ट्र: ।
ध्वान्तान्तरास्यो वितताध्वजिह्व:
परुषानिलश्वासदवेक्षणोष्ण: ॥ १७ ॥

धरा अधर-ओष्ठः जलद-उत्तर-ओष्ठः दरी-आनन-अन्तः गिरि-शृङ्ग दंष्ट्रः ध्वान्त-अन्तः-आस्यः वितत-अध्व-जिह्वः परुष-अनिल-श्वास दव-ईक्षण-उष्णः

द‍ृष्ट्वा तं ताद‍ृशं सर्वे मत्वा वृन्दावनश्रियम् ।
व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥

दृष्ट्वा तम् तादृशम् सर्वे मत्वा वृन्दावन-श्रियम् व्यात्त अजगर-तुण्डेन हि उत्प्रेक्षन्ते स्म लीलया

अहो मित्राणि गदत सत्त्वकूटं पुर: स्थितम् ।
अस्मत्सङ्ग्रसनव्यात्तव्यालतुण्डायते न वा ॥ १९ ॥

अहो मित्राणि गदत सत्त्व-कूटम् पुरः स्थितम् अस्मत् सङ्ग्रसन व्यात्त-व्याल-तुण्डा-यते न वा

सत्यमर्ककरारक्तमुत्तराहनुवद् धनम् ।
अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम् ॥ २० ॥

सत्यम् अर्क-कर-आरक्तम् उत्तरा-हनुवत् घनम् अधरा-हनुवत् रोधः तत्-प्रतिच्छायया अरुणम्

प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे ।
तुङ्गश‍ृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत ॥ २१ ॥

प्रतिस्पर्धेते सृक्कभ्याम् सव्य-असव्ये नग-उदरे तुङ्ग-शृङ्ग-आलयः अपि एताः तत्-दंष्ट्राभिः च पश्यत

आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति ।
एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ॥ २२ ॥

आस्तृत-आयाम मार्गः अयम् रसनाम् प्रतिगर्जति एषाम् अन्तः-गतम् ध्वान्तम् एतत् अपि अन्तः-आननम्

दावोष्णखरवातोऽयं श्वासवद्भ‍ाति पश्यत ।
तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् ॥ २३ ॥

दाव-उष्ण-खर-वातः अयम् श्वास-वत् भाति पश्यत तत्-दग्ध-सत्त्व दुर्गन्धः अपि अन्तः-आमिष-गन्ध-वत्

अस्मान् किमत्र ग्रसिता निविष्टा-
नयं तथा चेद् बकवद् विनङ्‌क्ष्यति ।
क्षणादनेनेति बकार्युशन्मुखं
वीक्ष्योद्धसन्त: करताडनैर्ययु: ॥ २४ ॥

अस्मान् किम् अत्र ग्रसिता निविष्टान् अयम् तथा चेत् बक-वत् विनङ्क्ष्यति क्षणात् अनेन इति बक-अरि-उशत्-मुखम् वीक्ष्य उद्धसन्तः कर-ताडनैः ययुः

इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं
श्रुत्वा विचिन्त्येत्यमृषा मृषायते ।
रक्षो विदित्वाखिलभूतहृत्स्थित:
स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५ ॥

इत्थम् मिथः अतथ्यम् अ-तत्-ज्ञ भाषितम् श्रुत्वा विचिन्त्य इति अमृषा मृषायते रक्षः विदित्वा अखिल-भूत-हृत्-स्थितः स्वानाम् निरोद्धुम् भगवान् मनः दधे

तावत् प्रविष्टास्त्वसुरोदरान्तरं
परं न गीर्णा: शिशव: सवत्सा: ।
प्रतीक्षमाणेन बकारिवेशनं
हतस्वकान्तस्मरणेन रक्षसा ॥ २६ ॥

तावत् प्रविष्टाः तु असुर-उदर-अन्तरम् परम् न गीर्णाः शिशवः स-वत्साः प्रतीक्षमाणेन बक-अरि वेशनम् हत-स्व-कान्त-स्मरणेन रक्षसा

तान् वीक्ष्य कृष्ण: सकलाभयप्रदो
ह्यनन्यनाथान् स्वकरादवच्युतान् ।
दीनांश्च मृत्योर्जठराग्निघासान्
घृणार्दितो दिष्टकृतेन विस्मित: ॥ २७ ॥

तान् वीक्ष्य कृष्णः सकल-अभय-प्रदः हि अनन्य-नाथान् स्व-करात् अवच्युतान् दीनान् च मृत्योः जठर-अग्नि-घासान् घृणा-अर्दितः दिष्ट-कृतेन विस्मितः

कृत्यं किमत्रास्य खलस्य जीवनं
न वा अमीषां च सतां विहिंसनम् ।
द्वयं कथं स्यादिति संविचिन्त्य
ज्ञात्वाविशत्तुण्डमशेषद‍ृग्घरि: ॥ २८ ॥

कृत्यम् किम् अत्र अस्य खलस्य जीवनम् न वा अमीषाम् च सताम् विहिंसनम् द्वयम् कथम् स्यात् इति संविचिन्त्य ज्ञात्वा अविशत् तुण्डम् अशेष-दृक् हरिः

तदा घनच्छदा देवा भयाद्धाहेति चुक्रुशु: ।
जहृषुर्ये च कंसाद्या: कौणपास्त्वघबान्धवा: ॥ २९ ॥

तदा घन-छदाः देवाः भयात् हा-हा इति चुक्रुशुः जहृषुः ये च कंस-आद्याः कौणपाः तु अघ-बान्धवाः

तच्छ्रुत्वा भगवान्कृष्णस्त्वव्यय: सार्भवत्सकम् ।
चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३० ॥

तत् श्रुत्वा भगवान् कृष्णः तु अव्ययः स-अर्भ-वत्सकम् चूर्णी-चिकीर्षोः आत्मानम् तरसा ववृधे गले

ततोऽतिकायस्य निरुद्धमार्गिणो
ह्युद्गीर्णद‍ृष्टेर्भ्रमतस्त्वितस्तत: ।
पूर्णोऽन्तरङ्गे पवनो निरुद्धो
मूर्धन् विनिर्भिद्य विनिर्गतो बहि: ॥ ३१ ॥

ततः अति-कायस्य निरुद्ध-मार्गिणः हि उद्गीर्ण-दृष्टेः भ्रमतः तु इतः ततः पूर्णः अन्तः-अङ्गे पवनः निरुद्धः मूर्धन् विनिर्भिद्य विनिर्गतः बहिः

तेनैव सर्वेषु बहिर्गतेषु
प्राणेषु वत्सान् सुहृद: परेतान् ।
द‍ृष्टय‍ा स्वयोत्थाप्य तदन्वित: पुन-
र्वक्त्रान्मुकुन्दो भगवान् विनिर्ययौ ॥ ३२ ॥

तेन एव सर्वेषु बहिः गतेषु प्राणेषु वत्सान् सुहृदः परेतान् दृष्ट्या स्वया उत्थाप्य तत्-अन्वितः पुनः वक्त्रात् मुकुन्दः भगवान् विनिर्ययौ

पीनाहिभोगोत्थितमद्भ‍ुतं मह-
ज्ज्योति: स्वधाम्ना ज्वलयद् दिशो दश ।
प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं
विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३ ॥

पीन अहि-भोग-उत्थितम् अद्भुतम् महत् ज्योतिः स्व-धाम्ना ज्वलयत् दिशः दश प्रतीक्ष्य खे अवस्थितम् ईश-निर्गमम् विवेश तस्मिन् मिषताम् दिवौकसाम्

ततोऽतिहृष्टा: स्वकृतोऽकृतार्हणं
पुष्पै: सुगा अप्सरसश्च नर्तनै: ।
गीतै: सुरा वाद्यधराश्च वाद्यकै:
स्तवैश्च विप्रा जयनि:स्वनैर्गणा: ॥ ३४ ॥

ततः अति-हृष्टाः स्व-कृतः अकृत अर्हणम् पुष्पैः सु-गाः अप्सरसः च नर्तनैः गीतैः सुराः वाद्य-धराः च वाद्यकैः स्तवैः च विप्राः जय-निःस्वनैः गणाः

तदद्भ‍ुतस्तोत्रसुवाद्यगीतिका-
जयादिनैकोत्सवमङ्गलस्वनान् ।
श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्
द‍ृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५ ॥

तत् अद्भुत स्तोत्र सु-वाद्य गीतिका जय-आदि न-एक-उत्सव मङ्गल-स्वनान् श्रुत्वा स्व-धाम्नः अन्ति अजः आगतः अचिरात् दृष्ट्वा महि ईशस्य जगाम विस्मयम्

राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भ‍ुतम् ।
व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६ ॥

राजन् आजगरम् चर्म शुष्कम् वृन्दावने अद्भुतम् व्रज-ओकसाम् बहु-तिथम् बभूव आक्रीड गह्वरम्

एतत् कौमारजं कर्म हरेरात्माहिमोक्षणम् ।
मृत्यो: पौगण्डके बाला द‍ृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७ ॥

एतत् कौमार-जम् कर्म हरेः आत्म अहि-मोक्षणम् मृत्योः पौगण्डके बालाः दृष्ट्वा ऊचुः विस्मिताः व्रजे

नैतद् विचित्रं मनुजार्भमायिन:
परावराणां परमस्य वेधस: ।
अघोऽपि यत्स्पर्शनधौतपातक:
प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥

न एतत् विचित्रम् मनुज-अर्भ-मायिनः पर-अवराणाम् परमस्य वेधसः अघः अपि यत्-स्पर्शन धौत-पातकः प्राप आत्म-साम्यम् तु असताम् सुदुर्लभम्

सकृद् यदङ्गप्रतिमान्तराहिता
मनोमयी भागवतीं ददौ गतिम् ।
स एव नित्यात्मसुखानुभूत्यभि-
व्युदस्तमायोऽन्तर्गतो हि किं पुन: ॥ ३९ ॥

सकृत् यत् अङ्ग-प्रतिमा अन्तः-आहिता मनः-मयी भागवतीम् ददौ गतिम् सः एव नित्य आत्म सुख-अनुभूति अभिव्युदस्त-मायः अन्तः-गतः हि किम् पुनः

श्रीसूत उवाच
इत्थं द्विजा यादवदेवदत्त:
श्रुत्वा स्वरातुश्चरितं विचित्रम् ।
पप्रच्छ भूयोऽपि तदेव पुण्यं
वैयासकिं यन्निगृहीतचेता: ॥ ४० ॥

श्री-सूतः उवाच इत्थम् द्विजाः यादव-देव-दत्तः श्रुत्वा स्व-रातुः चरितम् विचित्रम् पप्रच्छ भूयः अपि तत् एव पुण्यम् वैयासकिम् यत् निगृहीत-चेताः

श्रीराजोवाच
ब्रह्मन्कालान्तरकृतं तत्कालीनं कथं भवेत् ।
यत् कौमारे हरिकृतं जगु: पौगण्डकेऽर्भका: ॥ ४१ ॥

श्री-राजा उवाच ब्रह्मन् काल-अन्तर-कृतम् तत्-कालीनम् कथम् भवेत् यत् कौमारे हरि-कृतम् जगुः पौगण्डके अर्भकाः

तद् ब्रूहि मे महायोगिन्परं कौतूहलं गुरो ।
नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२ ॥

तत् ब्रूहि मे महा-योगिन् परम् कौतूहलम् गुरो नूनम् एतत् हरेः एव माया भवति न अन्यथा

वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धव: ।
वयं पिबामो मुहुस्त्वत्त: पुण्यं कृष्णकथामृतम् ॥ ४३ ॥

वयम् धन्य-तमाः लोके गुरो अपि क्षत्र-बन्धवः वयम् पिबामः मुहुः त्वत्तः पुण्यम् कृष्ण-कथा-अमृतम्

श्रीसूत उवाच
इत्थं स्म पृष्ट: स तु बादरायणि-
स्तत्स्मारितानन्तहृताखिलेन्द्रिय: ।
कृच्छ्रात् पुनर्लब्धबहिर्द‍ृशि: शनै:
प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४ ॥

श्री-सूतः उवाच इत्थम् स्म पृष्टः सः तु बादरायणिः तत् स्मारित-अनन्त हृत अखिल-इन्द्रियः कृच्छ्रात् पुनः लब्ध-बहिः-दृशिः शनैः प्रत्याह तम् भागवत-उत्तम-उत्तम

१०.१३

श्रीशुक उवाच
साधु पृष्टं महाभाग त्वया भागवतोत्तम ।
यन्नूतनयसीशस्य श‍ृण्वन्नपि कथां मुहु: ॥ १ ॥

श्री-शुकः उवाच साधु पृष्टम् महा-भाग त्वया भागवत-उत्तम यत् नूतनयसि ईशस्य शृण्वन् अपि कथाम् मुहुः

सतामयं सारभृतां निसर्गो
यदर्थवाणीश्रुतिचेतसामपि ।
प्रतिक्षणं नव्यवदच्युतस्य यत्
स्त्रिया विटानामिव साधुवार्ता ॥ २ ॥

सताम् अयम् सार-भृताम् निसर्गः यत् अर्थ-वाणी श्रुति चेतसाम् अपि प्रति-क्षणम् नव्य-वत् अच्युतस्य यत् स्त्रियाः विटानाम् इव साधु वार्ता

श‍ृणुष्वावहितो राजन्नपि गुह्यं वदामि ते ।
ब्रूयु: स्‍निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥

शृणुस्व अवहितः राजन् अपि गुह्यम् वदामि ते ब्रूयुः स्निग्धस्य शिष्यस्य गुरवः गुह्यम् अपि उत

तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान् ।
सरित्पुलिनमानीय भगवानिदमब्रवीत् ॥ ४ ॥

तथा अघ-वदनात् मृत्योः रक्षित्वा वत्स-पालकान् सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत्

अहोऽतिरम्यं पुलिनं वयस्या:
स्वकेलिसम्पन्मृदुलाच्छबालुकम् ।
स्फुटत्सरोगन्धहृतालिपत्रिक-
ध्वनिप्रतिध्वानलसद्‌‌‌द्रुमाकुलम् ॥ ५ ॥

अहो अति-रम्यम् पुलिनम् वयस्याः स्व-केलि-सम्पत् मृदुल-अच्छ-बालुकम् स्फुटत् सरः-गन्ध हृत अलि पत्रिक ध्वनि-प्रतिध्वान लसत् द्रुम-आकुलम्

अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधार्दिता: ।
वत्सा: समीपेऽप: पीत्वा चरन्तु शनकैस्तृणम् ॥ ६ ॥

अत्र भोक्तव्यम् अस्माभिः दिव-आरूढम् क्षुधा अर्दिताः वत्साः समीपे अपः पीत्वा चरन्तु शनकैः तृणम्

तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले ।
मुक्त्वा शिक्यानि बुभुजु: समं भगवता मुदा ॥ ७ ॥

तथा इति पाययित्वा अर्भाः वत्सान् आरुध्य शाद्वले मुक्त्वा शिक्यानि बुभुजुः समम् भगवता मुदा

कृष्णस्य विष्वक् पुरुराजिमण्डलै-
रभ्यानना: फुल्लद‍ृशो व्रजार्भका: ।
सहोपविष्टा विपिने विरेजु-
श्छदा यथाम्भोरुहकर्णिकाया: ॥ ८ ॥

कृष्णस्य विष्वक् पुरु-राजि-मण्डलैः अभ्याननाः फुल्ल-दृशः व्रज-अर्भकाः सह-उपविष्टाः विपिने विरेजुः छदाः यथा अम्भोरुह कर्णिकायाः

केचित् पुष्पैर्दलै: केचित्पल्लवैरङ्कुरै: फलै: ।
शिग्भिस्त्वग्भिर्द‍ृषद्भ‍िश्च बुभुजु: कृतभाजना: ॥ ९ ॥

केचित् पुष्पैः दलैः केचित् पल्लवैः अङ्कुरैः फलैः शिग्भिः त्वग्भिः दृषद्भिः च बुभुजुः कृत-भाजनाः

सर्वे मिथो दर्शयन्त: स्वस्वभोज्यरुचिं पृथक् ।
हसन्तो हासयन्तश्चाभ्यवजह्रु: सहेश्वरा: ॥ १० ॥

सर्वे मिथः दर्शयन्तः स्व-स्व-भोज्य-रुचिम् पृथक् हसन्तः हासयन्तः च अभ्यवजह्रुः सह-ईश्वराः

बिभ्रद् वेणुं जठरपटयो: श‍ृङ्गवेत्रे च कक्षे
वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।
तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभि: स्वै:
स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलि: ॥ ११ ॥

बिभ्रत् वेणुम् जठर-पटयोः शृङ्ग-वेत्रे च कक्षे वामे पाणौ मसृण-कवलम् तत्-फलानि अङ्गुलीषु तिष्ठन् मध्ये स्व-परि-सुहृदः हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञ-भुक् बाल-केलिः

भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु ।
वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिता: ॥ १२ ॥

भारत एवम् वत्स-पेषु भुञ्जानेषु अच्युत-आत्मसु वत्साः तु अन्तः-वने दूरम् विविशुः तृण-लोभिताः

तान् द‍ृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् ।
मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम् ॥ १३ ॥

तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णः अस्य भी-भयम् मित्राणि आशात् मा विरमत इह आनेष्ये वत्सकान् अहम्

इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् ।
विचिन्वन्भगवान्कृष्ण: सपाणिकवलो ययौ ॥ १४ ॥

इति उक्त्वा अद्रि-दरी-कुञ्ज-गह्वरेषु आत्म-वत्सकान् विचिन्वन् भगवान् कृष्णः स-पाणि-कवलः ययौ

अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितु-
र्द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् ।
नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो य: पुरा
द‍ृष्ट्वाघासुरमोक्षणं प्रभवत: प्राप्त: परं विस्मयम् ॥ १५ ॥

अम्भोजन्म-जनिः तत्-अन्तर-गतः माया-अर्भकस्य ईशितुः द्रष्टुम् मञ्जु महित्वम् अन्यत् अपि तत्-वत्सान् इतः वत्स-पान् नीत्वा अन्यत्र कुरूद्वह अन्तर-दधात् खे अवस्थितः यः पुरा दृष्ट्वा अघासुर-मोक्षणम् प्रभवतः प्राप्तः परम् विस्मयम्

ततो वत्सानद‍ृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।
उभावपि वने कृष्णो विचिकाय समन्तत: ॥ १६ ॥

ततः वत्सान् अदृष्ट्वा एत्य पुलिने अपि च वत्सपान् उभौ अपि वने कृष्णः विचिकाय समन्ततः

क्‍वाप्यद‍ृष्ट्वान्तर्विपिने वत्सान्पालांश्च विश्ववित् ।
सर्वं विधिकृतं कृष्ण: सहसावजगाम ह ॥ १७ ॥

क्व अपि अदृष्ट्वा अन्तः-विपिने वत्सान् पालान् च विश्व-वित् सर्वम् विधि-कृतम् कृष्णः सहसा अवजगाम ह

तत: कृष्णो मुदं कर्तुं तन्मातृणां च कस्य च ।
उभयायितमात्मानं चक्रे विश्वकृदीश्वर: ॥ १८ ॥

ततः कृष्णः मुदम् कर्तुम् तत्-मातॄणाम् च कस्य च उभयायितम् आत्मानम् चक्रे विश्व-कृत् ईश्वरः

यावद् वत्सपवत्सकाल्पकवपुर्यावत् कराङ्‌‌घ्र्यादिकं
यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् ।
यावच्छीलगुणाभिधाकृतिवयो यावद् विहारादिकं
सर्वं विष्णुमयं गिरोऽङ्गवदज: सर्वस्वरूपो बभौ ॥ १९ ॥

यावत् वत्सप वत्सक-अल्पक-वपुः यावत् कर-अङ्घ्रि-आदिकम् यावत् यष्टि-विषाण-वेणु-दल-शिक् यावत् विभूषा-अम्बरम् यावत् शील-गुण-अभिधा-आकृति-वयः यावत् विहार-आदिकम् सर्वम् विष्णु-मयम् गिरः अङ्ग-वत् अजः सर्व-स्वरूपः बभौ

स्वयमात्मात्मगोवत्सान् प्रतिवार्यात्मवत्सपै: ।
क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ॥ २० ॥

स्वयम् आत्मा आत्म-गो-वत्सान् प्रतिवार्य आत्म-वत्सपैः क्रीडन् आत्म-विहारैः च सर्व-आत्मा प्राविशत् व्रजम्

तत्तद्वत्सान्पृथङ्‌नीत्वा तत्तद्गोष्ठे निवेश्य स: ।
तत्तदात्माभवद् राजंस्तत्तत्सद्म प्रविष्टवान् ॥ २१ ॥

तत्-तत्-वत्सान् पृथक् नीत्वा तत्-तत्-गोष्ठे निवेश्य सः तत्-तत्-आत्मा अभवत् राजन् तत्-तत्-सद्म प्रविष्टवान्

तन्मातरो वेणुरवत्वरोत्थिता
उत्थाप्य दोर्भि: परिरभ्य निर्भरम् ।
स्‍नेहस्‍नुतस्तन्यपय:सुधासवं
मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥

तत्-मातरः वेणु-रव त्वर उत्थिताः उत्थाप्य दोर्भिः परिरभ्य निर्भरम् स्नेह-स्नुत स्तन्य-पयः सुधा-आसवम् मत्वा परम् ब्रह्म सुतान् अपाययन्

ततो नृपोन्मर्दनमज्जलेपना-
लङ्काररक्षातिलकाशनादिभि: ।
संलालित: स्वाचरितै: प्रहर्षयन्
सायं गतो यामयमेन माधव: ॥ २३ ॥

ततः नृप उन्मर्दन मज्ज लेपन अलङ्कार रक्षा तिलक अशन-आदिभिः संलालितः स्व-आचरितैः प्रहर्ष-यन् सायम् गतः याम-यमेन माधवः

गावस्ततो गोष्ठमुपेत्य सत्वरं
हुङ्कारघोषै: परिहूतसङ्गतान् ।
स्वकान् स्वकान् वत्सतरानपाययन्
मुहुर्लिहन्त्य: स्रवदौधसं पय: ॥ २४ ॥

गावः ततः गोष्ठम् उपेत्य सत्वरम् हुङ्कार-घोषैः परिहूत-सङ्गतान् स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुः लिहन्त्यः स्रवत् औधसम् पयः

गोगोपीनां मातृतास्मिन्नासीत्स्‍नेहर्धिकां विना ।
पुरोवदास्वपि हरेस्तोकता मायया विना ॥ २५ ॥

गो-गोपीनाम् मातृता अस्मिन् आसीत् स्नेह ऋधिकाम् विना पुरः-वत् आसु अपि हरेः तोकता मायया विना

व्रजौकसां स्वतोकेषु स्‍नेहवल्‍ल्याब्दमन्वहम् ।
शनैर्नि:सीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥

व्रज-ओकसाम् स्व-तोकेषु स्नेह-वल्ली आ-अब्दम् अनु-अहम् शनैः निःसीम ववृधे यथा कृष्णे तु अपूर्व-वत्

इत्थमात्मात्मनात्मानं वत्सपालमिषेण स: ।
पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयो: ॥ २७ ॥

इत्थम् आत्मा आत्मना आत्मानम् वत्स-पाल-मिषेण सः पालयन् वत्स-पः वर्षम् चिक्रीडे वन-गोष्ठयोः

एकदा चारयन् वत्सान्सरामो वनमाविशत् ।
पञ्चषासु त्रियामासु हायनापूरणीष्वज: ॥ २८ ॥

एकदा चारयन् वत्सान् स-रामः वनम् आविशत् पञ्च-षासु त्रि-यामासु हायन अपूरणीषु अजः

ततो विदूराच्चरतो गावो वत्सानुपव्रजम् ।
गोवर्धनाद्रिशिरसि चरन्त्यो दद‍ृशुस्तृणम् ॥ २९ ॥

ततः विदूरात् चरतः गावः वत्सान् उपव्रजम् गोवर्धन-अद्रि-शिरसि चरन्त्यः ददृशुः तृणम्

द‍ृष्ट्वाथ तत्स्‍नेहवशोऽस्मृतात्मा
स गोव्रजोऽत्यात्मपदुर्गमार्ग: ।
द्विपात्ककुद्ग्रीव उदास्यपुच्छो-
ऽगाद्धुङ्कृतैरास्रुपया जवेन ॥ ३० ॥

दृष्ट्वा अथ तत्-स्नेह-वशः अस्मृत-आत्मा सः गो-व्रजः अति-आत्म-प-दुर्ग-मार्गः द्वि-पात् ककुत्-ग्रीवः उदास्य-पुच्छः अगात् हुङ्कृतैः आस्रु-पयाः जवेन

समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् ।
गिलन्त्य इव चाङ्गानि लिहन्त्य: स्वौधसं पय: ॥ ३१ ॥

समेत्य गावः अधः वत्सान् वत्स-वत्यः अपि अपाययन् गिलन्त्यः इव च अङ्गानि लिहन्त्यः स्व-ओधसम् पयः

गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना ।
दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्दद‍ृशु: सुतान् ॥ ३२ ॥

गोपाः तत्-रोधन-आयास मौघ्य लज्जा उरु-मन्युना दुर्ग-अध्व-कृच्छ्रतः अभ्येत्य गो-वत्सैः ददृशुः सुतान्

तदीक्षणोत्प्रेमरसाप्लुताशया
जातानुरागा गतमन्यवोऽर्भकान् ।
उदुह्य दोर्भि: परिरभ्य मूर्धनि
घ्राणैरवापु: परमां मुदं ते ॥ ३३ ॥

तत्-ईक्षण-उत्प्रेम-रस-आप्लुत-आशयाः जात-अनुरागाः गत-मन्यवः अर्भकान् उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैः अवापुः परमाम् मुदम् ते

तत: प्रवयसो गोपास्तोकाश्लेषसुनिर्वृता: ।
कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रव: ॥ ३४ ॥

ततः प्रवयसः गोपाः तोक-आश्लेष-सुनिर्वृताः कृच्छ्रात् शनैः अपगताः तत्-अनुस्मृति-उद-श्रवः

व्रजस्य राम: प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यमनुक्षणम् ।
मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् ॥ ३५ ॥

व्रजस्य रामः प्रेम-ऋधेः वीक्ष्य औत्-कण्ठ्यम् अनु-क्षणम् मुक्त-स्तनेषु अपत्येषु अपि अहेतु-वित् अचिन्तयत्

किमेतदद्भ‍ुतमिव वासुदेवेऽखिलात्मनि ।
व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ॥ ३६ ॥

किम् एतत् अद्भुतम् इव वासुदेवे अखिल-आत्मनि व्रजस्य स-आत्मनः तोकेषु अपूर्वम् प्रेम वर्धते

केयं वा कुत आयाता दैवी वा नार्युतासुरी ।
प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी ॥ ३७ ॥

का इयम् वा कुतः आयाता दैवी वा नारी उत आसुरी प्रायः माया अस्तु मे भर्तुः न अन्या मे अपि विमोहिनी

इति सञ्चिन्त्य दाशार्हो वत्सान्सवयसानपि ।
सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन स: ॥ ३८ ॥

इति सञ्चिन्त्य दाशार्हः वत्सान् स-वयसान् अपि सर्वान् आचष्ट वैकुण्ठम् चक्षुषा वयुनेन सः

नैते सुरेशा ऋषयो न चैते
त्वमेव भासीश भिदाश्रयेऽपि ।
सर्वं पृथक्त्वं निगमात् कथं वदे-
त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९ ॥

न एते सुर-ईशाः ऋषयः न च एते त्वम् एव भासि ईश भित्-आश्रये अपि सर्वम् पृथक् त्वम् निगमात् कथम् वद इति उक्तेन वृत्तम् प्रभुणा बलः अवैत्

तावदेत्यात्मभूरात्ममानेन त्रुट्यनेहसा ।
पुरोवदाब्दं क्रीडन्तं दद‍ृशे सकलं हरिम् ॥ ४० ॥

तावत् एत्य आत्म-भूः आत्म-मानेन त्रुटि-अनेहसा पुरः-वत् आ-अब्दम् क्रीडन्तम् ददृशे स-कलम् हरिम्

यावन्तो गोकुले बाला: सवत्सा: सर्व एव हि ।
मायाशये शयाना मे नाद्यापि पुनरुत्थिता: ॥ ४१ ॥

यावन्तः गोकुले बालाः स-वत्साः सर्वे एव हि माया-आशये शयानाः मे न अद्य अपि पुनः उत्थिताः

इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे ।
तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥

इतः एते अत्र कुत्रत्याः मत्-माया-मोहित-इतरे तावन्तः एव तत्र आ-अब्दम् क्रीडन्तः विष्णुना समम्

एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभू: ।
सत्या: के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥

एवम् एतेषु भेदेषु चिरम् ध्यात्वा सः आत्म-भूः सत्याः के कतरे न इति ज्ञातुम् न इष्टे कथञ्चन

एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् ।
स्वयैव माययाजोऽपि स्वयमेव विमोहित: ॥ ४४ ॥

एवम् सम्मोहयन् विष्णुम् विमोहम् विश्व-मोहनम् स्वया एव मायया अजः अपि स्वयम् एव विमोहितः

तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि ।
महतीतरमायैश्यं निहन्त्यात्मनि युञ्जत: ॥ ४५ ॥

तम्याम् तमः-वत् नैहारम् खद्योत-अर्चिः इव अहनि महति इतर-माया ऐश्यम् निहन्ति आत्मनि युञ्जतः

तावत् सर्वे वत्सपाला: पश्यतोऽजस्य तत्क्षणात् ।
व्यद‍ृश्यन्त घनश्यामा: पीतकौशेयवासस: ॥ ४६ ॥

तावत् सर्वे वत्स-पालाः पश्यतः अजस्य तत्-क्षणात् व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः

चतुर्भुजा: शङ्खचक्रगदाराजीवपाणय: ।
किरीटिन: कुण्डलिनो हारिणो वनमालिन: ॥ ४७ ॥
श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणय: ।
नूपुरै: कटकैर्भाता: कटिसूत्राङ्गुलीयकै: ॥ ४८ ॥

चतुः-भुजाः शङ्ख-चक्र-गदा-राजीव-पाण-यः किरीटिनः कुण्डलिनः हारिणः वन-मालिनः श्रीवत्स-अङ्गद-दो-रत्न-कम्बु-कङ्कण-पाणयः नूपुरैः कटकैः भाताः कटि-सूत्र-अङ्गुली-यकैः

आङ्‍‍घ्रिमस्तकमापूर्णास्तुलसीनवदामभि: ।
कोमलै: सर्वगात्रेषु भूरिपुण्यवदर्पितै: ॥ ४९ ॥

आ-अङ्घ्रि-मस्तकम् आपूर्णाः तुलसी-नव-दामभिः कोमलैः सर्व-गात्रेषु भूरि-पुण्यवत्-अर्पितैः

चन्द्रिकाविशदस्मेरै: सारुणापाङ्गवीक्षितै: ।
स्वकार्थानामिव रज:सत्त्वाभ्यां स्रष्टृपालका: ॥ ५० ॥

चन्द्रिका-विशद-स्मेरैः स-अरुण-अपाङ्ग-वीक्षितैः स्वक-अर्थानाम् इव रजः-सत्त्वाभ्याम् स्रष्टृ-पालकाः

आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भ‍िश्चराचरै: ।
नृत्यगीताद्यनेकार्है: पृथक्पृथगुपासिता: ॥ ५१ ॥

आत्म-आदि-स्तम्ब-पर्यन्तैः मूर्ति-मद्भिः चर-अचरैः नृत्य-गीत-आदि-अनेक-अर्हैः पृथक् पृथक् उपासिताः

अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभि: ।
चतुर्विंशतिभिस्तत्त्वै: परीता महदादिभि: ॥ ५२ ॥

अणिमा-आद्यैः महिमभिः अजा-आद्याभिः विभूतिभिः चतुः-विंशतिभिः तत्त्वैः परीताः महत्-आदिभिः

कालस्वभावसंस्कारकामकर्मगुणादिभि: ।
स्वमहिध्वस्तमहिभिर्मूर्तिमद्भ‍िरुपासिता: ॥ ५३ ॥

काल स्वभाव संस्कार काम कर्म गुण आदिभिः स्व-महि-ध्वस्त-महिभिः मूर्ति-मद्भिः उपासिताः

सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तय: ।
अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्‍‌द‍ृशाम् ॥ ५४ ॥

सत्य ज्ञान अनन्त आनन्द मात्र एक-रस मूर्तयः अस्पृष्ट-भूरि-माहात्म्याः अपि हि उपनिषत्-दृशाम्

एवं सकृद् ददर्शाज: परब्रह्मात्मनोऽखिलान् ।
यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥

एवम् सकृत् ददर्श अजः पर-ब्रह्म आत्मनः अखिलान् यस्य भासा सर्वम् इदम् विभाति स-चर-अचरम्

ततोऽतिकुतुकोद्‌वृत्यस्तिमितैकादशेन्द्रिय: ।
तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥

ततः अतिकुतुक-उद्वृत्य-स्तिमित-एकादश-इन्द्रियः तद्-धाम्ना अभूत् अजः तूष्णीम् पूः-देवी-अन्ति इव पुत्रिका

इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके
परत्राजातोऽतन्निरसनमुखब्रह्मकमितौ ।
अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति
चच्छादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७ ॥

इति इरा-ईशे अतर्क्ये निज-महिमनि स्व-प्रमितिके परत्र अजातः अतत् निरसन-मुख ब्रह्मक मितौ अनीशे अपि द्रष्टुम् किम् इदम् इति वा मुह्यति सति चच्छाद अजः ज्ञात्वा सपदि परमः अजा-जवनिकाम्

ततोऽर्वाक्प्रतिलब्धाक्ष: क: परेतवदुत्थित: ।
कृच्छ्रादुन्मील्य वै द‍ृष्टीराचष्टेदं सहात्मना ॥ ५८ ॥

ततः अर्वाक् प्रतिलब्ध-अक्षः कः परेत-वत् उत्थितः कृच्छ्रात् उन्मील्य वै दृष्टीः आचष्ट इदम् सह-आत्मना

सपद्येवाभित: पश्यन् दिशोऽपश्यत्पुर:स्थितम् ।
वृन्दावनं जनाजीव्यद्रुमाकीर्णं समाप्रियम् ॥ ५९ ॥

सपदि एव अभितः पश्यन् दिशः अपश्यत् पुरः-स्थितम् वृन्दावनम् जन-आजीव्य-द्रुम-आकीर्णम् समा-प्रियम्

यत्र नैसर्गदुर्वैरा: सहासन् नृमृगादय: ।
मित्राणीवाजितावासद्रुतरुट्‌‌तर्षकादिकम् ॥ ६० ॥

यत्र नैसर्ग दुर्वैराः सह आसन् नृ मृग-आदयः मित्राणि इव अजित आवास द्रुत रुट् तर्षक-आदिकम्

तत्रोद्वहत् पशुपवंशशिशुत्वनाट्यं
ब्रह्माद्वयं परमनन्तमगाधबोधम् ।
वत्सान् सखीनिव पुरा परितो विचिन्व-
देकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१ ॥

तत्र उद्वहत् पशुप-वंश-शिशुत्व-नाट्यम् ब्रह्म अद्वयम् परम् अनन्तम् अगाध-बोधम् वत्सान् सखीन् इव पुरा परितः विचिन्वत् एकम् स-पाणि-कवलम् परमेष्ठी अचष्ट

द‍ृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य
पृथ्व्यां वपु: कनकदण्डमिवाभिपात्य ।
स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्‍‍घ्रियुग्मं
नत्वा मुदश्रुसुजलैरकृताभिषेकम् ॥ ६२ ॥

दृष्ट्वा त्वरेण निज-धोरणतः अवतीर्य पृथ्व्याम् वपुः कनक-दण्डम् इव अभिपात्य स्पृष्ट्वा चतुः-मुकुट-कोटि-भिः अङ्घ्रि-युग्मम् नत्वा मुत्-अश्रु-सु-जलैः अकृत अभिषेकम्

उत्थायोत्थाय कृष्णस्य चिरस्य पादयो: पतन् ।
आस्ते महित्वं प्राग्द‍ृष्टं स्मृत्वा स्मृत्वा पुन: पुन: ॥ ६३ ॥

उत्थाय उत्थाय कृष्णस्य चिरस्य पादयोः पतन् आस्ते महित्वम् प्राक्-दृष्टम् स्मृत्वा स्मृत्वा पुनः पुनः

शनैरथोत्थाय विमृज्य लोचने
मुकुन्दमुद्वीक्ष्य विनम्रकन्धर: ।
कृताञ्जलि: प्रश्रयवान् समाहित:
सवेपथुर्गद्गदयैलतेलया ॥ ६४ ॥
ज्ञाने प्रयासमुदपास्य नमन्त एव
जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।
स्थाने स्थिता: श्रुतिगतां तनुवाङ्‌मनोभि-
र्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥

शनैः अथ उत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः कृत-अञ्जलिः प्रश्रय-वान् समाहितः स-वेपथुः गद्गदया ऐलत ईलया

१०.१४

श्रीब्रह्मोवाच
नौमीड्य तेऽभ्रवपुषे तडिदम्बराय
गुञ्जावतंसपरिपिच्छलसन्मुखाय ।
वन्यस्रजे कवलवेत्रविषाणवेणु-
लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १ ॥

श्री-ब्रह्मा उवाच नौमि ईड्य ते अभ्र वपुषे तडित् अम्बराय गुञ्जा अवतंस परिपिच्छ लसत् मुखाय वन्य-स्रजे कवल वेत्र विषाण वेणु लक्ष्म श्रिये मृदु पदे पशु-प अङ्ग-जाय

अस्यापि देव वपुषो मदनुग्रहस्य
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशे महि त्ववसितुं मनसान्तरेण
साक्षात्तवैव किमुतात्मसुखानुभूते: ॥ २ ॥

अस्य अपि देव वपुषः मत्-अनुग्रहस्य स्व-इच्छा-मयस्य न तु भूत-मयस्य कः अपि न ईशे महि तु अवसितुम् मनसा अन्तरेण साक्षात् तव एव किम् उत आत्म सुख अनुभूतेः

ज्ञाने प्रयासमुदपास्य नमन्त एव
जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।
स्थाने स्थिता: श्रुतिगतां तनुवाङ्‌मनोभि-
र्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३ ॥

ज्ञाने प्रयासम् उदपास्य नमन्तः एव जीवन्ति सत्-मुखरिताम् भवदीय-वार्ताम् स्थाने स्थिताः श्रुति-गताम् तनु वाक् मनोभिः ये प्रायशः अजित जितः अपि असि तैः त्रि-लोक्याम्

श्रेय:सृतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूलतुषावघातिनाम् ॥ ४ ॥

श्रेयः सृतिम् भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवल बोध लब्धये तेषाम् असौ क्लेशलः एव शिष्यते न अन्यत् यथा स्थूल-तुष अवघातिनाम्

पुरेह भूमन् बहवोऽपि योगिन-
स्त्वदर्पितेहा निजकर्मलब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५ ॥

पुरा इह भूमन् बहवः अपि योगिनः त्वत् अर्पित ईहाः निज-कर्म लब्धया विबुध्य भक्त्या एव कथा-उपनीतया प्रपेदिरे अञ्जः अच्युत ते गतिम् पराम्

तथापि भूमन्महिमागुणस्य ते
विबोद्धुमर्हत्यमलान्तरात्मभि: ।
अविक्रियात् स्वानुभवादरूपतो
ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६ ॥

तथा अपि भूमन् महिमा अगुणस्य ते विबोद्धुम् अर्हति अमल अन्तः-आत्मभिः अविक्रियात् स्व-अनुभवात् अरूपतः हि अनन्य-बोध्य-आत्मतया न च अन्यथा

गुणात्मनस्तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर्वा विमिता: सुकल्पै-
र्भूपांशव: खे मिहिका द्युभास: ॥ ७ ॥

गुण-आत्मनः ते अपि गुणान् विमातुम् हित-अवतीर्णस्य के ईशिरे अस्य कालेन यैः वा विमिताः सु-कल्पैः भू-पांशवः खे मिहिकाः द्यु-भासः

तत्तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम् ।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक् ॥ ८ ॥

तत् ते अनुकम्पाम् सु-समीक्षमाणः भुञ्जानः एव आत्म-कृतम् विपाकम् हृत् वाक् वपुर्भिः विदधन् नमः ते जीवेत यः मुक्ति-पदे सः दाय-भाक्

पश्येश मेऽनार्यमनन्त आद्ये
परात्मनि त्वय्यपि मायिमायिनि ।
मायां वितत्येक्षितुमात्मवैभवं
ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९ ॥

पश्य ईश मे अनार्यम् अनन्ते आद्ये पर-आत्मनि त्वयि अपि मायि-मायिनि मायाम् वितत्य ईक्षितुम् आत्म वैभवम् हि अहम् कियान् ऐच्छम् इव अर्चिः अग्नौ

अत: क्षमस्वाच्युत मे रजोभुवो
ह्यजानतस्त्वत्पृथगीशमानिन: ।
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो मयि नाथवानिति ॥ १० ॥

अतः क्षमस्व अच्युत मे रजः-भुवः हि अजानतः त्वत् पृथक् ईश मानिनः अज अवलेप अन्ध-तमः अन्ध चक्षुषः एषः अनुकम्प्यः मयि नाथ-वान् इति

क्‍वाहं तमोमहदहंखचराग्निवार्भू-
संवेष्टिताण्डघटसप्तवितस्तिकाय: ।
क्‍वेद‍ृग्विधाविगणिताण्डपराणुचर्या-
वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥

क्व अहम् तमः महत् अहम् ख चर अग्नि वाः भू संवेष्टित अण्ड-घट सप्त-वितस्ति कायः क्व ईदृक् विधा अविगणित अण्ड पर-अणु चर्या वात-अध्व रोम विवरस्य च ते महित्वम्

उत्क्षेपणं गर्भगतस्य पादयो:
किं कल्पते मातुरधोक्षजागसे ।
किमस्तिनास्तिव्यपदेशभूषितं
तवास्ति कुक्षे: कियदप्यनन्त: ॥ १२ ॥

उत्क्षेपणम् गर्भ-गतस्य पादयोः किम् कल्पते मातुः अधोक्षज आगसे किम् अस्ति न अस्ति व्यपदेश भूषितम् तव अस्ति कुक्षेः कियत् अपि अनन्तः

जगत् त्रयान्तोदधिसम्प्लवोदे
नारायणस्योदरनाभिनालात् ।
विनिर्गतोऽजस्त्विति वाङ्‍‍‍‍न वै मृषा
किन्‍त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३ ॥

जगत्-त्रय अन्त उदधि सम्प्लव उदे नारायणस्य उदर नाभि नालात् विनिर्गतः अजः तु इति वाक् न वै मृषा किन्तु ईश्वर त्वत् न विनिर्गतः अस्मि

नारायणस्त्वं न हि सर्वदेहिना-
मात्मास्यधीशाखिललोकसाक्षी ।
नारायणोऽङ्गं नरभूजलायना-
त्तच्चापि सत्यं न तवैव माया ॥ १४ ॥

नारायणः त्वम् न हि सर्व देहिनाम् आत्मा असि अधीश अखिल लोक साक्षी नारायणः अङ्गम् नर भू जल अयनात् तत् च अपि सत्यम् न तव एव माया

तच्चेज्जलस्थं तव सज्जगद्वपु:
किं मे न द‍ृष्टं भगवंस्तदैव ।
किं वा सुद‍ृष्टं हृदि मे तदैव
किं नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥

तत् चेत् जल-स्थम् तव सत् जगत् वपुः किम् मे न दृष्टम् भगवन् तदा एव किम् वा सु-दृष्टम् हृदि मे तदा एव किम् न उ सपदि एव पुनः व्यदर्शि

अत्रैव मायाधमनावतारे
ह्यस्य प्रपञ्चस्य बहि: स्फुटस्य ।
कृत्‍स्‍नस्य चान्तर्जठरे जनन्या
मायात्वमेव प्रकटीकृतं ते ॥ १६ ॥

अत्र एव माया-धमन अवतारे हि अस्य प्रपञ्चस्य बहिः स्फुटस्य कृत्स्नस्य च अन्तः जठरे जनन्याः मायात्वम् एव प्रकटी-कृतम् ते

यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।
तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना ॥ १७ ॥

यस्य कुक्षौ इदम् सर्वम् स-आत्मम् भाति यथा तथा तत् त्वयि अपि इह तत् सर्वम् किम् इदम् मायया विना

अद्यैव त्वद‍ृतेऽस्य किं मम न ते मायात्वमादर्शित-
मेकोऽसि प्रथमं ततो व्रजसुहृद्वत्सा: समस्ता अपि ।
तावन्तोऽसि चतुर्भुजास्तदखिलै: साकं मयोपासिता-
स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ १८ ॥

अद्य एव त्वत् ऋते अस्य किम् मम न ते मायात्वम् आदर्शितम् एकः असि प्रथमम् ततः व्रज-सुहृत् वत्साः समस्ताः अपि तावन्तः असि चतुः-भुजाः तत् अखिलैः साकम् मया उपासिताः तावन्ति एव जगन्ति अभूः तत् अमितम् ब्रह्म अद्वयम् शिष्यते

अजानतां त्वत्पदवीमनात्म-
न्यात्मात्मना भासि वितत्य मायाम् ।
सृष्टाविवाहं जगतो विधान
इव त्वमेषोऽन्त इव त्रिनेत्र: ॥ १९ ॥

अजानताम् त्वत्-पदवीम् अनात्मनि आत्मा आत्मना भासि वितत्य मायाम् सृष्टौ इव अहम् जगतः विधाने इव त्वम् एषः अन्ते इव त्रि-नेत्रः

सुरेष्वृषिष्वीश तथैव नृष्वपि
तिर्यक्षु याद:स्वपि तेऽजनस्य ।
जन्मासतां दुर्मदनिग्रहाय
प्रभो विधात: सदनुग्रहाय च ॥ २० ॥

सुरेषु ऋषिषु ईश तथा एव नृषु अपि तिर्यक्षु यादःसु अपि ते अजनस्य जन्म असताम् दुर्मद निग्रहाय प्रभो विधातः सत् अनुग्रहाय च

को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।
क्‍व वा कथं वा कति वा कदेति
विस्तारयन्क्रीडसि योगमायाम् ॥ २१ ॥

कः वेत्ति भूमन् भगवन् पर-आत्मन् योग-ईश्वर ऊतीः भवतः त्रि-लोक्याम् क्व वा कथम् वा कति वा कदा इति विस्तारयन् क्रीडसि योग-मायाम्

तस्मादिदं जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं पुरुदु:खदु:खम् ।
त्वय्येव नित्यसुखबोधतनावनन्ते
मायात उद्यदपि यत् सदिवावभाति ॥ २२ ॥

तस्मात् इदम् जगत् अशेषम् असत्-स्वरूपम् स्वप्न-आभम् अस्त-धिषणम् पुरु-दुःख-दुःखम् त्वयि एव नित्य सुख बोध तनौ अनन्ते मायातः उद्यत् अपि यत् सत् इव अवभाति

एकस्त्वमात्मा पुरुष: पुराण:
सत्य: स्वयंज्योतिरनन्त आद्य: ।
नित्योऽक्षरोऽजस्रसुखो निरञ्जन:
पूर्णाद्वयो मुक्त उपाधितोऽमृत: ॥ २३ ॥

एकः त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयम्-ज्योतिः अनन्तः आद्यः नित्यः अक्षरः अजस्र-सुखः निरञ्जनः पूर्ण अद्वयः मुक्तः उपाधितः अमृतः

एवंविधं त्वां सकलात्मनामपि
स्वात्मानमात्मात्मतया विचक्षते ।
गुर्वर्कलब्धोपनिषत्सुचक्षुषा
ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४ ॥

एवम्-विधम् त्वाम् सकल आत्मनाम् अपि स्व-आत्मानम् आत्म-आत्मतया विचक्षते गुरु अर्क लब्ध उपनिषत् सु-चक्षुषा ये ते तरन्ति इव भव अनृत अम्बुधिम्

आत्मानमेवात्मतयाविजानतां
तेनैव जातं निखिलं प्रपञ्चितम् ।
ज्ञानेन भूयोऽपि च तत् प्रलीयते
रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५ ॥

आत्मानम् एव आत्मतया अविजानताम् तेन एव जातम् निखिलम् प्रपञ्चितम् ज्ञानेन भूयः अपि च तत् प्रलीयते रज्ज्वाम् अहेः भोग भव-अभवौ यथा

अज्ञानसंज्ञौ भवबन्धमोक्षौ
द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।
अजस्रचित्यात्मनि केवले परे
विचार्यमाणे तरणाविवाहनी ॥ २६ ॥

अज्ञान संज्ञौ भव-बन्ध मोक्षौ द्वौ नाम न अन्यौ स्तः ऋत ज्ञ-भावात् अजस्र-चिति आत्मनि केवले परे विचार्यमाणे तरणौ इव अहनी

त्वामात्मानं परं मत्वा परमात्मानमेव च ।
आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७ ॥

त्वाम् आत्मानम् परम् मत्वा परम् आत्मानम् एव च आत्मा पुनः बहिः मृग्यः अहो अज्ञ जनता अज्ञता

अन्तर्भवेऽनन्त भवन्तमेव
ह्यतत्त्यजन्तो मृगयन्ति सन्त: ।
असन्तमप्यन्त्यहिमन्तरेण
सन्तं गुणं तं किमु यन्ति सन्त: ॥ २८ ॥

अन्तः-भवे अनन्त भवन्तम् एव हि अतत् त्यजन्तः मृगयन्ति सन्तः असन्तम् अपि अन्ति अहिम् अन्तरेण सन्तम् गुणम् तम् किम् उ यन्ति सन्तः

अथापि ते देव पदाम्बुजद्वय-
प्रसादलेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९ ॥

अथ अपि ते देव पद-अम्बुज-द्वय प्रसाद लेश अनुगृहीतः एव हि जानाति तत्त्वम् भगवत् महिम्नः न च अन्यः एकः अपि चिरम् विचिन्वन्

तदस्तु मे नाथ स भूरिभागो
भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहमेकोऽपि भवज्जनानां
भूत्वा निषेवे तव पादपल्लवम् ॥ ३० ॥

तत् अस्तु मे नाथ सः भूरि-भागः भवे अत्र वा अन्यत्र तु वा तिरश्चाम् येन अहम् एकः अपि भवत् जनानाम् भूत्वा निषेवे तव पाद-पल्लवम्

अहोऽतिधन्या व्रजगोरमण्य:
स्तन्यामृतं पीतमतीव ते मुदा ।
यासां विभो वत्सतरात्मजात्मना
यत्तृप्तयेऽद्यापि न चालमध्वरा: ॥ ३१ ॥

अहो अति-धन्याः व्रज गो रमण्यः स्तन्य अमृतम् पीतम् अतीव ते मुदा यासाम् विभो वत्सतर-आत्मज-आत्मना यत् तृप्तये अद्य अपि न च अलम् अध्वराः

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२ ॥

अहो भाग्यम् अहो भाग्यम् नन्द गोप व्रज-ओकसाम् यत् मित्रम् परम-आनन्दम् पूर्णम् ब्रह्म सनातनम्

एषां तु भाग्यमहिमाच्युत तावदास्ता-
मेकादशैव हि वयं बत भूरिभागा: ।
एतद्‌धृषीकचषकैरसकृत् पिबाम:
शर्वादयोऽङ्‌घ्य्रुदजमध्वमृतासवं ते ॥ ३३ ॥

एषाम् तु भाग्य महिमा अच्युत तावत् आस्ताम् एकादश एव हि वयम् बत भूरि-भागाः एतत् हृषीक चषकैः असकृत् पिबामः शर्व-आदयः अङ्घ्रि-उदज मधु अमृत-आसवम् ते

तद् भूरिभाग्यमिह जन्म किमप्यटव्यां
यद् गोकुलेऽपि कतमाङ्‍‍घ्रिरजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान् मुकुन्द-
स्त्वद्यापि यत्पदरज: श्रुतिमृग्यमेव ॥ ३४ ॥

तत् भूरि-भाग्यम् इह जन्म किम् अपि अटव्याम् यत् गोकुले अपि कतम अङ्घ्रि रजः अभिषेकम् यत् जीवितम् तु निखिलम् भगवान् मुकुन्दः तु अद्य अपि यत् पाद-रजः श्रुति मृग्यम् एव

एषां घोषनिवासिनामुत भवान् किं देव रातेति न-
श्चेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययन् मुह्यति ।
सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता
यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥ ३५ ॥

एषाम् घोष-निवासिनाम् उत भवान् किम् देव राता इति नः चेतः विश्व-फलात् फलम् त्वत् अपरम् कुत्र अपि अयत् मुह्यति सत्-वेषात् इव पूतना अपि स-कुला त्वाम् एव देव आपिता यत् धाम अर्थ सुहृत् प्रिय आत्म तनय प्राण आशयाः त्वत्-कृते

तावद् रागादय: स्तेनास्तावत् कारागृहं गृहम् ।
तावन्मोहोऽङ्‍‍‍‍‍घ्रिनिगडो यावत् कृष्ण न ते जना: ॥ ३६ ॥

तावत् राग-आदयः स्तेनाः तावत् कारा-गृहम् गृहम् तावत् मोहः अङ्घ्रि निगडः यावत् कृष्ण न ते जनाः

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ ३७ ॥

प्रपञ्चम् निष्प्रपञ्चः अपि विडम्बयसि भू-तले प्रपन्न जनता आनन्द-सन्दोहम् प्रथितुम् प्रभो

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचर: ॥ ३८ ॥

जानन्तः एव जानन्तु किम् बहु-उक्त्या न मे प्रभो मनसः वपुषः वाचः वैभवम् तव गो-चरः

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वद‍ृक् ।
त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥ ३९ ॥

अनुजानीहि माम् कृष्ण सर्वम् त्वम् वेत्सि सर्व-दृक् त्वम् एव जगताम् नाथः जगत् एतत् तव अर्पितम्

श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्
क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।
उद्धर्मशार्वरहर क्षितिराक्षसध्रु-
गाकल्पमार्कमर्हन् भगवन्नमस्ते ॥ ४० ॥

श्री-कृष्ण वृष्णि-कुल पुष्कर जोष दायिन् क्ष्मा निर्जर द्विज पशु उदधि वृद्धि कारिन् उद्धर्म शार्वर हर क्षिति राक्षस ध्रुक् आ-कल्पम् आ-अर्कम् अर्हन् भगवन् नमः ते

श्रीशुक उवाच
इत्यभिष्टूय भूमानं त्रि: परिक्रम्य पादयो: ।
नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१ ॥

श्री-शुकः उवाच इति अभिष्टूय भूमानम् त्रिः परिक्रम्य पादयोः नत्वा अभीष्टम् जगत् धाता स्व-धाम प्रत्यपद्यत

ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् ।
वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२ ॥

ततः अनुज्ञाप्य भगवान् स्व-भुवम् प्राक् अवस्थितान् वत्सान् पुलिनम् आनिन्ये यथा-पूर्व सखम् स्वकम्

एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तरात्मन: ।
कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भका: ॥ ४३ ॥

एकस्मिन् अपि याते अब्दे प्राण-ईशम् च अन्तरा आत्मनः कृष्ण माया आहताः राजन् क्षण-अर्धम् मेनिरे अर्भकाः

किं किं न विस्मरन्तीह मायामोहितचेतस: ।
यन्मोहितं जगत् सर्वमभीक्ष्णं विस्मृतात्मकम् ॥ ४४ ॥

किम् किम् न विस्मरन्ति इह माया-मोहित चेतसः यत् मोहितम् जगत् सर्वम् अभीक्ष्णम् विस्मृत-आत्मकम्

ऊचुश्च सुहृद: कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्यभोजि कवल एहीत: साधु भुज्यताम् ॥ ४५ ॥

ऊचुः च सुहृदः कृष्णम् सु-आगतम् ते अति-रंहसा न एकः अपि अभोजि कवलः एहि इतः साधु भुज्यताम्

ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकै: ।
दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ ४६ ॥

ततः हसन् हृषीकेशः अभ्यवहृत्य सह अर्भकैः दर्शयन् चर्म आजगरम् न्यवर्तत वनात् व्रजम्

बर्हप्रसूनवनधातुविचित्रिताङ्ग:
प्रोद्दामवेणुदलश‍ृङ्गरवोत्सवाढ्य: ।
वत्सान् गृणन्ननुगगीतपवित्रकीर्ति-
र्गोपीद‍ृगुत्सवद‍ृशि: प्रविवेश गोष्ठम् ॥ ४७ ॥

बर्ह प्रसून वन-धातु विचित्रित अङ्गः प्रोद्दाम वेणु-दल शृङ्ग रव उत्सव आढ्यः वत्सान् गृणन् अनुग गीत पवित्र कीर्तिः गोपी दृक् उत्सव दृशिः प्रविवेश गोष्ठम्

अद्यानेन महाव्यालो यशोदानन्दसूनुना ।
हतोऽविता वयं चास्मादिति बाला व्रजे जगु: ॥ ४८ ॥

अद्य अनेन महा-व्यालः यशोदा नन्द सूनुना हतः अविताः वयम् च अस्मात् इति बालाः व्रजे जगुः

श्रीराजोवाच
ब्रह्मन् परोद्भ‍वे कृष्णे इयान् प्रेमा कथं भवेत् ।
योऽभूतपूर्वस्तोकेषु स्वोद्भ‍वेष्वपि कथ्यताम् ॥ ४९ ॥

श्री-राजा उवाच ब्रह्मन् पर-उद्भवे कृष्णे इयान् प्रेमा कथम् भवेत् यः अभूत-पूर्वः तोकेषु स्व-उद्भवेषु अपि कथ्यताम्

श्रीशुक उवाच
सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभ: ।
इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥ ५० ॥

श्री-शुकः उवाच सर्वेषाम् अपि भूतानाम् नृप स्व-आत्मा एव वल्लभः इतरे अपत्य वित्त आद्याः तत् वल्लभतया एव हि

तद् राजेन्द्र यथा स्नेह: स्वस्वकात्मनि देहिनाम् ।
न तथा ममतालम्बिपुत्रवित्तगृहादिषु ॥ ५१ ॥

तत् राज-इन्द्र यथा स्नेहः स्व-स्वक आत्मनि देहिनाम् न तथा ममता-आलम्बि पुत्र वित्त गृह आदिषु

देहात्मवादिनां पुंसामपि राजन्यसत्तम ।
यथा देह: प्रियतमस्तथा न ह्यनु ये च तम् ॥ ५२ ॥

देह-आत्म-वादिनाम् पुंसाम् अपि राजन्य-सत्-तम यथा देहः प्रिय-तमः तथा न हि अनु ये च तम्

देहोऽपि ममताभाक् चेत्तर्ह्यसौ नात्मवत् प्रिय: ।
यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३ ॥

देहः अपि ममता भाक् चेत् तर्हि असौ न आत्म-वत् प्रियः यत् जीर्यति अपि देहे अस्मिन् जीवित-आशा बलीयसी

तस्मात् प्रियतम: स्वात्मा सर्वेषामपि देहिनाम् ।
तदर्थमेव सकलं जगदेतच्चराचरम् ॥ ५४ ॥

तस्मात् प्रिय-तमः स्व-आत्मा सर्वेषाम् अपि देहिनाम् तत्-अर्थम् एव सकलम् जगत् एतत् चर-अचरम्

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५ ॥

कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिल-आत्मनाम् जगत्-हिताय सः अपि अत्र देही इव आभाति मायया

वस्तुतो जानतामत्र कृष्णं स्थास्‍नु चरिष्णु च ।
भगवद्रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ ५६ ॥

वस्तुतः जानताम् अत्र कृष्णम् स्थास्नु चरिष्णु च भगवत्-रूपम् अखिलम् न अन्यत् वस्तु इह किञ्चन

सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।
तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥ ५७ ॥

सर्वेषाम् अपि वस्तूनाम् भाव-अर्थः भवति स्थितः तस्य अपि भगवान् कृष्णः किम् अतत् वस्तु रूप्यताम्

समाश्रिता ये पदपल्लवप्लवं
महत्पदं पुण्ययशो मुरारे: ।
भवाम्बुधिर्वत्सपदं परं पदं
पदं पदं यद् विपदां न तेषाम् ॥ ५८ ॥

समाश्रिताः ये पद पल्लव प्लवम् महत् पदम् पुण्य यशः मुर-अरेः भव अम्बुधिः वत्स-पदम् परम् पदम् पदम् पदम् यत् विपदाम् न तेषाम्

एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।
तत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९ ॥

एतत् ते सर्वम् आख्यातम् यत् पृष्टः अहम् इह त्वया तत् कौमारे हरि-कृतम् पौगण्डे परिकीर्तितम्

एतत् सुहृद्भ‍िश्चरितं मुरारे-
रघार्दनं शाद्वलजेमनं च ।
व्यक्तेतरद् रूपमजोर्वभिष्टवं
श‍ृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६० ॥

एतत् सुहृद्भिः चरितम् मुरारेः अघ-अर्दनम् शाद्वल जेमनम् च व्यक्त-इतरत् रूपम् अज उरु अभिष्टवम् शृण्वन् गृणन् एति नरः अखिल-अर्थान्

एवं विहारै: कौमारै: कौमारं जहतुर्व्रजे ।
निलायनै: सेतुबन्धैर्मर्कटोत्‍प्लवनादिभि: ॥ ६१ ॥

एवम् विहारैः कौमारैः कौमारम् जहतुः व्रजे निलायनैः सेतु-बन्धैः मर्कट-उत्प्लवन आदिभिः

१०.१५

श्रीशुक उवाच
ततश्च पौगण्डवय:श्रीतौ व्रजे
बभूवतुस्तौ पशुपालसम्मतौ ।
गाश्चारयन्तौ सखिभि: समं पदै-
र्वृन्दावनं पुण्यमतीव चक्रतु: ॥ १ ॥

श्री-शुकः उवाच ततः च पौगण्ड वयः श्रितौ व्रजे बभूवतुः तौ पशु-पाल सम्मतौ गाः चारयन्तौ सखिभिः समम् पदैः वृन्दावनम् पुण्यम् अतीव चक्रतुः

तन्माधवो वेणुमुदीरयन् वृतो
गोपैर्गृणद्भ‍ि: स्वयशो बलान्वित: ।
पशून् पुरस्कृत्य पशव्यमाविशद्
विहर्तुकाम: कुसुमाकरं वनम् ॥ २ ॥

तत् माधवः वेणुम् उदीरयन् वृतः गोपैः गृणद्भिः स्व-यशः बल-अन्वितः पशून् पुरस्कृत्य पशव्यम् आविशत् विहर्तु-कामः कुसुम-आकरम् वनम्

तन्मञ्जुघोषालिमृगद्विजाकुलं
महन्मन:प्रख्यपय:सरस्वता ।
वातेन जुष्टं शतपत्रगन्धिना
निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ ३ ॥

तत् मञ्जु घोष अलि मृग द्विज आकुलम् महत् मनः प्रख्य पयः सरस्वता वातेन जुष्टम् शत-पत्र गन्धिना निरीक्ष्य रन्तुम् भगवान् मनः दधे

स तत्र तत्रारुणपल्लवश्रिया
फलप्रसूनोरुभरेण पादयो: ।
स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा
स्मयन्निवाहाग्रजमादिपूरुष: ॥ ४ ॥

सः तत्र तत्र अरुण पल्लव श्रीया फल प्रसून उरु-भरेण पादयोः स्पृशत् शिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन् इव आह अग्र-जम् आदि-पूरुषः

श्रीभगवानुवाच
अहो अमी देववरामरार्चितं
पादाम्बुजं ते सुमन:फलार्हणम् ।
नमन्त्युपादाय शिखाभिरात्मन-
स्तमोऽपहत्यै तरुजन्म यत्कृतम् ॥ ५ ॥

श्री-भगवान् उवाच अहो अमी देव-वर अमर अर्चितम् पाद-अम्बुजम् ते सुमनः फल अर्हणम् नमन्ति उपादाय शिखाभिः आत्मनः तमः अपहत्यै तरु-जन्म यत् कृतम्

एतेऽलिनस्तव यशोऽखिललोकतीर्थं
गायन्त आदिपुरुषानुपथं भजन्ते ।
प्रायो अमी मुनिगणा भवदीयमुख्या
गूढं वनेऽपि न जहत्यनघात्मदैवम् ॥ ६ ॥

एते अलिनः तव यशः अखिल-लोक तीर्थम् गायन्तः आदि-पुरुष अनुपथम् भजन्ते प्रायः अमी मुनि-गणाः भवदीय मुख्याः गूढम् वने अपि न जहति अनघ आत्म-दैवम्

नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्य:
कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन ।
सूक्तैश्च कोकिलगणा गृहमागताय
धन्या वनौकस इयान् हि सतां निसर्ग: ॥ ७ ॥

नृत्यन्ति अमी शिखिनः ईड्य मुदा हरिण्यः कुर्वन्ति गोप्यः इव ते प्रियम् ईक्षणेन सूक्तैः च कोकिल-गणाः गृहम् आगताय धन्याः वन-ओकसः इयान् हि सताम् निसर्गः

धन्येयमद्य धरणी तृणवीरुधस्त्वत्-
पादस्पृशो द्रुमलता: करजाभिमृष्टा: ।
नद्योऽद्रय: खगमृगा: सदयावलोकै-
र्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्री: ॥ ८ ॥

धन्या इयम् अद्य धरणी तृण वीरुधः त्वत् पाद स्पृशः द्रुम लताः कर-ज अभिमृष्टाः नद्यः अद्रयः खग मृगाः सदय अवलोकैः गोप्यः अन्तरेण भुजयोः अपि यत् स्पृहा श्रीः

श्रीशुक उवाच
एवं वृन्दावनं श्रीमत् कृष्ण: प्रीतमना: पशून् ।
रेमे सञ्चारयन्नद्रे: सरिद्रोध:सु सानुग: ॥ ९ ॥

श्री-शुकः उवाच एवम् वृन्दावनम् श्रीमत् कृष्णः प्रीत-मनाः पशून् रेमे सञ्चारयन् अद्रेः सरित् रोधःसु स-अनुगः

क्‍वचिद् गायति गायत्सु मदान्धालिष्वनुव्रतै: ।
उपगीयमानचरित: पथि सङ्कर्षणान्वित: ॥ १० ॥
अनुजल्पति जल्पन्तं कलवाक्यै: शुकं क्‍वचित् ।
क्‍वचित्सवल्गु कूजन्तमनुकूजति कोकिलम् ।
क्‍वचिच्च कालहंसानामनुकूजति कूजितम् ।
अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्‍वचित् ॥ ११ ॥
मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् ।
क्‍वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ १२ ॥

क्वचित् गायति गायत्सु मद-अन्ध अलिषु अनुव्रतैः उपगीयमान चरितः पथि सङ्कर्षण-अन्वितः अनुजल्पति जल्पन्तम् कल-वाक्यैः शुकम् क्वचित् क्वचित् स वल्गु कूजन्तम् अनुकूजति कोकिलम् क्वचित् च कल-हंसानाम् अनुकूजति कूजितम् अभिनृत्यति नृत्यन्तम् बर्हिणम् हासयन् क्वचित् मेघ गम्भिरया वाचा नामभिः दूर-गान् पशून् क्वचित् आह्वयति प्रीत्या गो गोपाल मनः-ज्ञया

चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च बर्हिण: ।
अनुरौति स्म सत्त्वानां भीतवद् व्याघ्रसिंहयो: ॥ १३ ॥

चकोर-क्रौञ्च-चक्राह्व-भारद्वाजान् च बर्हिणः अनुरौति स्म सत्त्वानाम् भीत-वत् व्याघ्र-सिंहयोः

क्‍वचित् क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।
स्वयं विश्रमयत्यार्यं पादसंवाहनादिभि: ॥ १४ ॥

क्वचित् क्रीडा परिश्रान्तम् गोप उत्सङ्ग उपबर्हणम् स्वयम् विश्रमयति आर्यम् पाद-संवाहन-आदिभिः

नृत्यतो गायत: क्‍वापि वल्गतो युध्यतो मिथ: ।
गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतु: ॥ १५ ॥

नृत्यतः गायतः क्व अपि वल्गतः युध्यतः मिथः गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः

क्‍वचित् पल्लवतल्पेषु नियुद्धश्रमकर्शित: ।
वृक्षमूलाश्रय: शेते गोपोत्सङ्गोपबर्हण: ॥ १६ ॥

क्वचित् पल्लव तल्पेषु नियुद्ध श्रम कर्शितः वृक्ष मूल आश्रयः शेते गोप-उत्सङ्ग उपबर्हणः

पादसंवाहनं चक्रु: केचित्तस्य महात्मन: ।
अपरे हतपाप्मानो व्यजनै: समवीजयन् ॥ १७ ॥

पाद-संवाहनम् चक्रुः केचित् तस्य महा-आत्मनः अपरे हत-पाप्मानः व्यजनैः समवीजयन्

अन्ये तदनुरूपाणि मनोज्ञानि महात्मन: ।
गायन्ति स्म महाराज स्नेहक्लिन्नधिय: शनै: ॥ १८ ॥

अन्ये तत्-अनुरूपाणि मनः-ज्ञानि महा-आत्मनः गायन्ति स्म महा-राज स्नेह क्लिन्न धियः शनैः

एवं निगूढात्मगति: स्वमायया
गोपात्मजत्वं चरितैर्विडम्बयन् ।
रेमे रमालालितपादपल्लवो
ग्राम्यै: समं ग्राम्यवदीशचेष्टित: ॥ १९ ॥

एवम् निगूढ आत्म-गतिः स्व-मायया गोप-आत्मजत्वम् चरितैः विडम्बयन् रेमे रमा लालित पाद-पल्लवः ग्राम्यैः समम् ग्राम्य-वत् ईश-चेष्टितः

श्रीदामा नाम गोपालो रामकेशवयो: सखा ।
सुबलस्तोककृष्णाद्या गोपा: प्रेम्णेदमब्रुवन् ॥ २० ॥

श्रीदामा नाम गोपालः राम-केशवयोः सखा सुबल-स्तोककृष्ण-आद्याः गोपाः प्रेम्णा इदम् अब्रुवन्

राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।
इतोऽविदूरे सुमहद् वनं तालालिसङ्कुलम् ॥ २१ ॥

राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण इतः अविदूरे सु-महत् वनम् ताल-आलि सङ्कुलम्

फलानि तत्र भूरीणि पतन्ति पतितानि च ।
सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना ॥ २२ ॥

फलानि तत्र भूरीणि पतन्ति पतितानि च सन्ति किन्तु अवरुद्धानि धेनुकेन दुरात्मना

सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक् ।
आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृत: ॥ २३ ॥

सः अति-वीर्यः असुरः राम हे कृष्ण खर-रूप धृक् आत्म-तुल्य बलैः अन्यैः ज्ञातिभिः बहुभिः वृतः

तस्मात् कृतनराहाराद् भीतैर्नृभिरमित्रहन् ।
न सेव्यते पशुगणै: पक्षिसङ्घैर्विवर्जितम् ॥ २४ ॥

तस्मात् कृत-नर-आहारात् भीतैः नृभिः अमित्र-हन् न सेव्यते पशु-गणैः पक्षि-सङ्घैः विवर्जितम्

विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च ।
एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते ॥ २५ ॥

विद्यन्ते अभुक्त-पूर्वाणि फलानि सुरभीणि च एषः वै सुरभिः गन्धः विषूचीनः अवगृह्यते

प्रयच्छ तानि न: कृष्ण गन्धलोभितचेतसाम् ।
वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥ २६ ॥

प्रयच्छ तानि नः कृष्ण गन्ध लोभित चेतसाम् वाञ्छा अस्ति महती राम गम्यताम् यदि रोचते

एवं सुहृद्वच: श्रुत्वा सुहृत्प्रियचिकीर्षया ।
प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू ॥ २७ ॥

एवम् सुहृत् वचः श्रुत्वा सुहृत् प्रिय चिकीर्षया प्रहस्य जग्मतुः गोपैः वृतौ ताल-वनम् प्रभू

बल: प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् ।
फलानि पातयामास मतङ्गज इवौजसा ॥ २८ ॥

बलः प्रविश्य बाहुभ्याम् तालान् सम्परिकम्पयन् फलानि पातयाम् आस मतम्-गजः इव ओजसा

फलानां पततां शब्दं निशम्यासुररासभ: ।
अभ्यधावत् क्षितितलं सनगं परिकम्पयन् ॥ २९ ॥

फलानाम् पतताम् शब्दम् निशम्य असुर-रासभः अभ्यधावत् क्षिति-तलम् स-नगम् परिकम्पयन्

समेत्य तरसा प्रत्यग् द्वाभ्यां पद्‌भ्यां बलं बली ।
निहत्योरसि काशब्दं मुञ्चन् पर्यसरत् खल: ॥ ३० ॥

समेत्य तरसा प्रत्यक् द्वाभ्याम् पद्भ्याम् बलम् बली निहत्य उरसि का-शब्दम् मुञ्चन् पर्यसरत् खलः

पुनरासाद्य संरब्ध उपक्रोष्टा पराक् स्थित: ।
चरणावपरौ राजन् बलाय प्राक्षिपद् रुषा ॥ ३१ ॥

पुनः आसाद्य संरब्धः उपक्रोष्टा पराक् स्थितः चरणौ अपरौ राजन् बलाय प्राक्षिपत् रुषा

स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना ।
चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥ ३२ ॥

सः तम् गृहीत्वा प्रपदोः भ्रामयित्वा एक-पाणिना चिक्षेप तृण-राज-अग्रे भ्रामण त्यक्त जीवितम्

तेनाहतो महातालो वेपमानो बृहच्छिरा: ।
पार्श्वस्थं कम्पयन् भग्न: स चान्यं सोऽपि चापरम् ॥ ३३ ॥

तेन आहतः महा-तालः वेपमानः बृहत्-शिराः पार्श्व-स्थम् कम्पयन् भग्नः सः च अन्यम् सः अपि च अपरम्

बलस्य लीलयोत्सृष्टखरदेहहताहता: ।
तालाश्चकम्पिरे सर्वे महावातेरिता इव ॥ ३४ ॥

बलस्य लीलया उत्सृष्ट खर-देह हत-आहताः तालाः चकम्पिरे सर्वे महा-वात ईरिताः इव

नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे ।
ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पट: ॥ ३५ ॥

न एतत् चित्रम् भगवति हि अनन्ते जगत्-ईश्वरे ओत-प्रोतम् इदम् यस्मिन् तन्तुषु अङ्ग यथा पटः

तत: कृष्णं च रामं च ज्ञातयो धेनुकस्य ये ।
क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवा: ॥ ३६ ॥

ततः कृष्णम् च रामम् च ज्ञातयः धेनुकस्य ये क्रोष्टारः अभ्यद्रवन् सर्वे संरब्धाः हत-बान्धवाः

तांस्तानापतत: कृष्णो रामश्च नृप लीलया ।
गृहीतपश्चाच्चरणान् प्राहिणोत्तृणराजसु ॥ ३७ ॥

तान् तान् आपततः कृष्णः रामः च नृप लीलया गृहीत पश्चात्-चरणान् प्राहिणोत् तृण-राजसु

फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभि: ।
रराज भू: सतालाग्रैर्घनैरिव नभस्तलम् ॥ ३८ ॥

फल-प्रकर सङ्कीर्णम् दैत्य-देहैः गत-असुभिः रराज भूः स-ताल-अग्रैः घनैः इव नभः-तलम्

तयोस्तत् सुमहत् कर्म निशम्य विबुधादय: ।
मुमुचु: पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवु: ॥ ३९ ॥

तयोः तत् सु-महत् कर्म निशम्य विबुध-आदयः मुमुचुः पुष्प-वर्षाणि चक्रुः वाद्यानि तुष्टुवुः

अथ तालफलान्यादन्मनुष्या गतसाध्वसा: ।
तृणं च पशवश्चेरुर्हतधेनुककानने ॥ ४० ॥

अथ ताल फलानि आदन् मनुष्याः गत-साध्वसाः तृणम् च पशवः चेरुः हत धेनुक कानने

कृष्ण: कमलपत्राक्ष: पुण्यश्रवणकीर्तन: ।
स्तूयमानोऽनुगैर्गोपै: साग्रजो व्रजमाव्रजत् ॥ ४१ ॥

कृष्णः कमल-पत्र-अक्षः पुण्य-श्रवण-कीर्तनः स्तूयमानः अनुगैः गोपैः स-अग्र-जः व्रजम् आव्रजत्

तं गोरजश्छुरितकुन्तलबद्धबर्ह-
वन्यप्रसूनरुचिरेक्षणचारुहासम् ।
वेणुम्क्वणन्तमनुगैरुपगीतकीर्तिं
गोप्यो दिद‍ृक्षितद‍ृशोऽभ्यगमन् समेता: ॥ ४२ ॥

तम् गो-रजः छुरित कुन्तल बद्ध बर्ह वन्य-प्रसून रुचिर-ईक्षण चारु-हासम् वेणुम् क्वणन्तम् अनुगैः उपगीत कीर्तिम् गोप्यः दिदृक्षित दृशः अभ्यगमन् समेताः

पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गै-
स्तापं जहुर्विरहजं व्रजयोषितोऽह्नि ।
तत्सत्कृतिं समधिगम्य विवेश गोष्ठं
सव्रीडहासविनयं यदपाङ्गमोक्षम् ॥ ४३ ॥

पीत्वा मुकुन्द-मुख सारघम् अक्षि-भृङ्गैः तापम् जहुः विरह-जम् व्रज-योषितः अह्नि तत् सत्-कृतिम् समधिगम्य विवेश गोष्ठम् स-व्रीड हास विनयम् यत् अपाङ्ग मोक्षम्

तयोर्यशोदारोहिण्यौ पुत्रयो: पुत्रवत्सले ।
यथाकामं यथाकालं व्यधत्तां परमाशिष: ॥ ४४ ॥

तयोः यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले यथा-कामम् यथा-कालम् व्यधत्ताम् परम-आशिषः

गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभि: ।
नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥ ४५ ॥

गत अध्वान-श्रमौ तत्र मज्जन उन्मर्दन आदिभिः नीवीम् वसित्वा रुचिराम् दिव्य स्रक् गन्ध मण्डितौ

जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ ।
संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ॥ ४६ ॥

जननी उपहृतम् प्राश्य स्वादु अन्नम् उपलालितौ संविश्य वर शय्यायाम् सुखम् सुषुपतुः व्रजे

एवं स भगवान् कृष्णो वृन्दावनचर: क्‍वचित् ।
ययौ राममृते राजन् कालिन्दीं सखिभिर्वृत: ॥ ४७ ॥

एवम् सः भगवान् कृष्णः वृन्दावन-चरः क्वचित् ययौ रामम् ऋते राजन् कालिन्दीम् सखिभिः वृतः

अथ गावश्च गोपाश्च निदाघातपपीडिता: ।
दुष्टं जलं पपुस्तस्यास्तृष्णार्ता विषदूषितम् ॥ ४८ ॥

अथ गावः च गोपाः च निदाघ आतप पीडिताः दुष्टम् जलम् पपुः तस्याः तृष-आर्ताः विष दूषितम्

विषाम्भस्तदुपस्पृश्य दैवोपहतचेतस: ।
निपेतुर्व्यसव: सर्वे सलिलान्ते कुरूद्वह ॥ ४९ ॥
वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वर: ।
ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत् ॥ ५० ॥

विष-अम्भः तत् उपस्पृश्य दैव उपहत चेतसः निपेतुः व्यसवः सर्वे सलिल-अन्ते कुरु-उद्वह वीक्ष्य तान् वै तथा-भूतान् कृष्णः योग-ईश्वर-ईश्वरः ईक्षया अमृत-वर्षिण्या स्व-नाथान् समजीवयत्

ते सम्प्रतीतस्मृतय: समुत्थाय जलान्तिकात् ।
आसन् सुविस्मिता: सर्वे वीक्षमाणा: परस्परम् ॥ ५१ ॥

ते सम्प्रतीत स्मृतयः समुत्थाय जल-अन्तिकात् आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम्

अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् ।
पीत्वा विषं परेतस्य पुनरुत्थानमात्मन: ॥ ५२ ॥

अन्वमंसत तत् राजन् गोविन्द अनुग्रह-ईक्षितम् पीत्वा विषम् परेतस्य पुनः उत्थानम् आत्मनः

१०.१६

श्रीशुक उवाच
विलोक्य दूषितां कृष्णां कृष्ण: कृष्णाहिना विभु: ।
तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥ १ ॥

श्री-शुकः उवाच विलोक्य दूषिताम् कृष्णाम् कृष्णः कृष्ण-अहिना विभुः तस्याः विशुद्धिम् अन्विच्छन् सर्पम् तम् उदवासयत्

श्रीराजोवाच
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् ।
स वै बहुयुगावासं यथासीद् विप्र कथ्यताम् ॥ २ ॥

श्री-राजा उवाच कथम् अन्तः-जले अगाधे न्यगृह्णात् भगवान् अहिम् सः वै बहु-युग आवासम् यथा आसीत् विप्र कथ्यताम्

ब्रह्मन् भगवतस्तस्य भूम्न: स्वच्छन्दवर्तिन: ।
गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥

ब्रह्मन् भगवतः तस्य भूम्नः स्व-छन्द-वर्तिनः गोपाल उदार चरितम् कः तृप्येत अमृतम् जुषन्

श्रीशुक उवाच
कालिन्द्यां कालियस्यासीद् ह्रद: कश्चिद् विषाग्निना ।
श्रप्यमाणपया यस्मिन् पतन्त्युपरिगा: खगा: ॥ ४ ॥

श्री-शुकः उवाच कालिन्द्याम् कालियस्य आसीत् ह्रदः कश्चित् विष अग्निना श्रप्यमाण पयाः यस्मिन् पतन्ति उपरि-गाः खगाः

विप्रुष्मता विषदोर्मिमारुतेनाभिमर्शिता: ।
म्रियन्ते तीरगा यस्य प्राणिन: स्थिरजङ्गमा: ॥ ५ ॥

विप्रुट्-मता विष-द ऊर्मि मारुतेन अभिमर्शिताः म्रियन्ते तीर-गाः यस्य प्राणिनः स्थिर-जङ्गमाः

तं चण्डवेगविषवीर्यमवेक्ष्य तेन
दुष्टां नदीं च खलसंयमनावतार: ।
कृष्ण: कदम्बमधिरुह्य ततोऽतितुङ्ग-
मास्फोट्य गाढरशनो न्यपतद् विषोदे ॥ ६ ॥

तम् चण्ड-वेग विष वीर्यम् अवेक्ष्य तेन दुष्टाम् नदीम् च खल संयमन अवतारः कृष्णः कदम्बम् अधिरुह्य ततः अति-तुङ्गम् आस्फोट्य गाढ-रशनः न्यपतत् विष-उदे

सर्पह्रद: पुरुषसारनिपातवेग-
सङ्‌क्षोभितोरगविषोच्छ्वसिताम्बुराशि: ।
पर्यक्‍प्लुतो विषकषायबिभीषणोर्मि-
र्धावन् धनु:शतमनन्तबलस्य किं तत् ॥ ७ ॥

सर्प-ह्रदः पुरुष-सार निपात-वेग सङ्क्षोभित उरग विष-उच्छ्वसित अम्बु-राशिः पर्यक् प्लुतः विष-कषाय बिभीषण ऊर्मिः धावन् धनुः-शतम् अनन्त-बलस्य किम् तत्

तस्य ह्रदे विहरतो भुजदण्डघूर्ण-
वार्घोषमङ्ग वरवारणविक्रमस्य ।
आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य
चक्षु:श्रवा: समसरत्तदमृष्यमाण: ॥ ८ ॥

तस्य ह्रदे विहरतः भुज-दण्ड घूर्ण वाः घोषम् अङ्ग वर-वारण विक्रमस्य आश्रुत्य तत् स्व-सदन अभिभवम् निरीक्ष्य चक्षुः-श्रवाः समसरत् तत् अमृष्यमाणः

तं प्रेक्षणीयसुकुमारघनावदातं
श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।
क्रीडन्तमप्रतिभयं कमलोदराङ्‍‍‍‍‍घ्रि
सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥

तम् प्रेक्षणीय सु-कुमार घन अवदातम् श्रीवत्स पीत वसनम् स्मित सुन्दर आस्यम् क्रीडन्तम् अप्रति-भयम् कमल उदर अङ्घ्रिम् सन्दश्य मर्मसु रुषा भुजया चछाद

तं नागभोगपरिवीतमद‍ृष्टचेष्ट-
मालोक्य तत्प्रियसखा: पशुपा भृशार्ता: ।
कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा
दु:खानुशोकभयमूढधियो निपेतु: ॥ १० ॥

तम् नाग भोग परिवीतम् अदृष्ट-चेष्टम् आलोक्य तत्-प्रिय-सखाः पशु-पाः भृश-आर्ताः कृष्णे अर्पित आत्म सु-हृत् अर्थ कलत्र कामाः दुःख अनुशोक भय मूढ धियः निपेतुः

गावो वृषा वत्सतर्य: क्रन्दमाना: सुदु:खिता: ।
कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ ११ ॥

गावः वृषाः वत्सतर्यः क्रन्दमानाः सु-दुःखिताः कृष्णे न्यस्त ईक्षणाः भीताः रुदन्त्यः इव तस्थिरे

अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणा: ।
उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिन: ॥ १२ ॥

अथ व्रजे महा-उत्पाताः त्रि-विधाः हि अति-दारुणाः उत्पेतुः भुवि दिवि आत्मनि आसन्न भय संशिनः

तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमा: ।
विना रामेण गा: कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विद: ।
तत्प्राणास्तन्मनस्कास्ते दु:खशोकभयातुरा: ॥ १४ ॥
आबालवृद्धवनिता: सर्वेऽङ्ग पशुवृत्तय: ।
निर्जग्मुर्गोकुलाद् दीना: कृष्णदर्शनलालसा: ॥ १५ ॥

तान् आलक्ष्य भय-उद्विग्नाः गोपाः नन्द-पुरः-गमाः विना रामेण गाः कृष्णम् ज्ञात्वा चारयितुम् गतम् तैः दुर्निमित्तैः निधनम् मत्वा प्राप्तम् अतत्-विदः तत्-प्राणाः तत्-मनस्काः ते दुःख शोक भय आतुराः आ-बाल वृद्ध वनिताः सर्वे अङ्ग पशु-वृत्तयः निर्जग्मुः गोकुलात् दीनाः कृष्ण-दर्शन लालसाः

तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बल: ।
प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य स: ॥ १६ ॥

तान् तथा कातरान् वीक्ष्य भगवान् माधवः बलः प्रहस्य किञ्चित् न उवाच प्रभाव-ज्ञः अनुजस्य सः

तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदै: ।
भगवल्लक्षणैर्जग्मु: पदव्या यमुनातटम् ॥ १७ ॥

ते अन्वेषमाणाः दयितम् कृष्णम् सूचितया पदैः भगवत्-लक्षणैः जग्मुः पदव्या यमुना-तटम्

ते तत्र तत्राब्जयवाङ्कुशाशनि-
ध्वजोपपन्नानि पदानि विश्पते: ।
मार्गे गवामन्यपदान्तरान्तरे
निरीक्षमाणा ययुरङ्ग सत्वरा: ॥ १८ ॥

ते तत्र तत्र अब्ज यव अङ्कुश अशनि ध्वज उपपन्नानि पदानि विट्-पतेः मार्गे गवाम् अन्य-पद अन्तर-अन्तरे निरीक्षमाणाः युयुः अङ्ग स-त्वराः

अन्तर्ह्रदे भुजगभोगपरीतमारात्
कृष्णं निरीहमुपलभ्य जलाशयान्ते ।
गोपांश्च मूढधिषणान् परित: पशूंश्च
सङ्क्रन्दत: परमकश्मलमापुरार्ता: ॥ १९ ॥

अन्तः ह्रदे भुजग भोग परीतम् आरात् कृष्णम् निरीहम् उपलभ्य जल-आशय अन्ते गोपान् च मूढ-धिषणान् परितः पशून् च सङ्क्रन्दतः परम-कश्मलम् आपुः आर्ताः

गोप्योऽनुरक्तमनसो भगवत्यनन्ते
तत्सौहृदस्मितविलोकगिर: स्मरन्त्य: ।
ग्रस्तेऽहिना प्रियतमे भृशदु:खतप्ता:
शून्यं प्रियव्यतिहृतं दद‍ृशुस्त्रिलोकम् ॥ २० ॥

गोप्यः अनुरक्त-मनसः भगवति अनन्ते तत् सौहृद स्मित विलोक गिरः स्मरन्त्यः ग्रस्ते अहिना प्रिय-तमे भृश दुःख तप्ताः शून्यम् प्रिय-व्यतिहृतम् ददृशुः त्रि-लोकम्

ता: कृष्णमातरमपत्यमनुप्रविष्टां
तुल्यव्यथा: समनुगृह्य शुच: स्रवन्त्य: ।
तास्ता व्रजप्रियकथा: कथयन्त्य आसन्
कृष्णाननेऽर्पितद‍ृशो मृतकप्रतीका: ॥ २१ ॥

ताः कृष्ण-मातरम् अपत्यम् अनुप्रविष्टाम् तुल्य व्यथाः समनुगृह्य शुचः स्रवन्त्यः ताः ताः व्रज-प्रिय कथाः कथयन्त्यः आसन् कृष्ण-आनने अर्पित दृशः मृतक प्रतीकाः

कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।
प्रत्यषेधत् स भगवान् राम: कृष्णानुभाववित् ॥ २२ ॥

कृष्ण-प्राणान् निर्विशतः नन्द-आदीन् वीक्ष्य तम् ह्रदम् प्रत्यषेधत् सः भगवान् रामः कृष्ण अनुभाव वित्

इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य
सस्त्रीकुमारमतिदु:खितमात्महेतो: ।
आज्ञाय मर्त्यपदवीमनुवर्तमान:
स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥ २३ ॥

इत्थम् स्व-गोकुलम् अनन्य-गतिम् निरीक्ष्य स-स्त्री कुमारम् अति-दुःखितम् आत्म-हेतोः आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः स्थित्वा मुहूर्तम् उदतिष्ठत् उरङ्ग बन्धात्

तत्प्रथ्यमानवपुषा व्यथितात्मभोग-
स्त्यक्त्वोन्नमय्य कुपित: स्वफणान् भुजङ्ग: ।
तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष-
स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाण: ॥ २४ ॥

तत् प्रथ्यमान वपुषा व्यथित आत्म भोगः त्यक्त्वा उन्नमय्य कुपितः स्व-फणान् भुजङ्ग तस्थौ श्वसन् श्वसन-रन्ध्र विष-अम्बरीष स्तब्ध ईक्षण उल्मुक मुखः हरिम् ईक्षमाणः

तं जिह्वया द्विशिखया परिलेलिहानं
द्वे सृक्‍वणी ह्यतिकरालविषाग्निद‍ृष्टिम् ।
क्रीडन्नमुं परिससार यथा खगेन्द्रो
बभ्राम सोऽप्यवसरं प्रसमीक्षमाण: ॥ २५ ॥

तम् जिह्वया द्वि-शिखया परिलेलिहानम् द्वे सृक्वणी हि अति-कराल विष-अग्नि दृष्टिम् क्रीडन् अमुम् परिससार यथा खग-इन्द्रः बभ्राम सः अपि अवसरम् प्रसमीक्षमाणः

एवं परिभ्रमहतौजसमुन्नतांस-
मानम्य तत्पृथुशिर:स्वधिरूढ आद्य: ।
तन्मूर्धरत्ननिकरस्पर्शातिताम्र-
पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६ ॥

एवम् परिभ्रम हत ओजसम् उन्नत अंसम् आनम्य तत् पृथु-शिरःसु अधिरूढः आद्यः तत् मूर्ध रत्न-निकर स्पर्श अति-ताम्र पाद-अम्बुजः अखिल-कला आदि-गुरुः ननर्त

तं नर्तुमुद्यतमवेक्ष्य तदा तदीय-
गन्धर्वसिद्धमुनिचारणदेववध्व: ।
प्रीत्या मृदङ्गपणवानकवाद्यगीत-
पुष्पोपहारनुतिभि: सहसोपसेदु: ॥ २७ ॥

तम् नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय गन्धर्व-सिद्ध मुनि-चारण देव-वध्वः प्रीत्या मृदङ्ग-पणव-आनक वाद्य गीत पुष्प उपहार नुतिभिः सहसा उपसेदुः

यद् यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण-
स्तत्तन् ममर्द खरदण्डधरोऽङ्‍‍‍‍‍घ्रिपातै: ।
क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्
नस्तो वमन् परमकश्मलमाप नाग: ॥ २८ ॥

यत् यत् शिरः न नमते अङ्ग शत-एक-शीर्ष्णः तत् तत् ममर्द खर दण्ड धरः अङ्घ्रि-पातैः क्षीण-आयुषः भ्रमतः उल्बणम् आस्यतः असृक् नस्तः वमन् परम कश्मलम् आप नागः

तस्याक्षिभिर्गरलमुद्वमत: शिर:सु
यद् यत् समुन्नमति नि:श्वसतो रुषोच्चै: ।
नृत्यन् पदानुनमयन् दमयां बभूव
पुष्पै: प्रपूजित इवेह पुमान् पुराण: ॥ २९ ॥

तस्य अक्षिभिः गरलम् उद्वमतः शिरःसु यत् यत् समुन्नमति निःश्वसतः रुषा उच्चैः नृत्यन् पदा अनुनमयन् दमयाम् बभूव पुष्पैः प्रपूजितः इव इह पुमान् पुराणः

तच्चित्रताण्डवविरुग्नफणासहस्रो
रक्तं मुखैरुरु वमन्नृप भग्नगात्र: ।
स्मृत्वा चराचरगुरुं पुरुषं पुराणं
नारायणं तमरणं मनसा जगाम ॥ ३० ॥

तत् चित्र ताण्डव विरुग्न फणा-सहस्रः रक्तम् मुखैः उरु वमन् नृप भग्न-गात्रः स्मृत्वा चर-अचर गुरुम् पुरुषम् पुराणम् नारायणम् तम् अरणम् मनसा जगाम

कृष्णस्य गर्भजगतोऽतिभरावसन्नं
पार्ष्णिप्रहारपरिरुग्नफणातपत्रम् ।
द‍ृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्‍न्य
आर्ता: श्लथद्वसनभूषणकेशबन्धा: ॥ ३१ ॥

कृष्णस्य गर्भ जगतः अति-भर अवसन्नम् पार्ष्णि प्रहार परिरुग्न फणा आतपत्रम् दृष्ट्वा अहिम् आद्यम् उपसेदुः अमुष्य पत्न्यः आर्ताः श्लथत् वसन भूषण केश-बन्धाः

तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भा:
कायं निधाय भुवि भूतपतिं प्रणेमु: ।
साध्व्य: कृताञ्जलिपुटा: शमलस्य भर्तु-
र्मोक्षेप्सव: शरणदं शरणं प्रपन्ना: ॥ ३२ ॥

ताः तम् सु-विग्न मनसः अथ पुरः-कृत अर्भाः कायम् निधाय भुवि भूत-पतिम् प्रणेमुः साध्व्यः कृत-अञ्जलि-पुटाः शमलस्य भर्तुः मोक्ष ईप्सवः शरण-दम् शरणम् प्रपन्नाः

नागपत्‍न्य ऊचु:
न्याय्यो हि दण्ड: कृतकिल्बिषेऽस्मिं-
स्तवावतार: खलनिग्रहाय ।
रिपो: सुतानामपि तुल्यद‍ृष्टि-
र्धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥

नाग-पत्न्यः ऊचुः न्याय्यः हि दण्डः कृत-किल्बिषे अस्मिन् तव अवतारः खल निग्रहाय रिपोः सुतानाम् अपि तुल्य-दृष्टिः धत्से दमम् फलम् एव अनुशंसम्

अनुग्रहोऽयं भवत: कृतो हि नो
दण्डोऽसतां ते खलु कल्मषापह: ।
यद् दन्दशूकत्वममुष्य देहिन:
क्रोधोऽपि तेऽनुग्रह एव सम्मत: ॥ ३४ ॥

अनुग्रहः अयम् भवतः कृतः हि नः दण्डः असताम् ते खलु कल्मष-अपहः यत् दन्दशूकत्वम् अमुष्य देहिनः क्रोधः अपि ते अनुग्रहः एव सम्मतः

तप: सुतप्तं किमनेन पूर्वं
निरस्तमानेन च मानदेन ।
धर्मोऽथ वा सर्वजनानुकम्पया
यतो भवांस्तुष्यति सर्वजीव: ॥ ३५ ॥

तपः सु-तप्तम् किम् अनेन पूर्वम् निरस्त-मानेन च मान-देन धर्मः अथ वा सर्व-जन अनुकम्पया यतः भवान् तुष्यति सर्व-जीवः

कस्यानुभावोऽस्य न देव विद्महे
तवाङ्‍‍‍‍‍घ्रिरेणुस्परशाधिकार: ।
यद्वाञ्छया श्रीर्ललनाचरत्तपो
विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥

कस्य अनुभावः अस्य न देव विद्महे तव अङ्घ्रि रेणु स्परश अधिकारः यत् वाञ्छया श्रीः ललना आचरत् तपः विहाय कामान् सु-चिरम् धृत व्रता

न नाकपृष्ठं न च सार्वभौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरज:प्रपन्ना: ॥ ३७ ॥

न नाक-पृष्ठम् न च सार्व-भौमम् न पारमेष्ठ्यम् न रस-अधिपत्यम् न योग-सिद्धीः अपुनः-भवम् वा वाञ्छन्ति यत् पाद रजः प्रपन्नाः

तदेष नाथाप दुरापमन्यै-
स्तमोजनि: क्रोधवशोऽप्यहीश: ।
संसारचक्रे भ्रमत: शरीरिणो
यदिच्छत: स्याद् विभव: समक्ष: ॥ ३८ ॥

तत् एषः नाथ आप दुरापम् अन्यैः तमः-जनिः क्रोध-वशः अपि अहि-ईशः संसार-चक्रे भ्रमतः शरीरिणः यत् इच्छतः स्यात् विभवः समक्षः

नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥

नमः तुभ्यम् भगवते पुरुषाय महा-आत्मने भूत-आवासाय भूताय पराय परम-आत्मने

ज्ञानविज्ञाननीधये ब्रह्मणेऽनन्तशक्तये ।
अगुणायाविकाराय नमस्ते प्राकृताय च ॥ ४० ॥

ज्ञान विज्ञान निधये ब्रह्मणे अनन्त-शक्तये अगुणाय अविकाराय नमः ते प्राकृताय च

कालाय कालनाभाय कालावयवसाक्षिणे ।
विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥

कालाय काल-नाभाय काल-अवयव साक्षिणे विश्वाय तद्-उपद्रष्ट्रे तत्-कर्त्रे विश्व हेतवे

भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने ।
त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥
नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।
नानावादानुरोधाय वाच्यवाचकशक्तये ॥ ४३ ॥

भूत मात्र इन्द्रिय प्राण मनः बुद्धि आशय आत्मने त्रि-गुणेन अभिमानेन गूढ स्व आत्म अनुभूतये नमः अनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते नाना वाद अनुरोधाय वाच्य वाचक शक्तये

नम: प्रमाणमूलाय कवये शास्त्रयोनये ।
प्रवृत्ताय निवृत्ताय निगमाय नमो नम: ॥ ४४ ॥

नमः प्रमाण मूलाय कवये शास्त्र योनये प्रवृत्ताय निवृत्ताय निगमाय नमः नमः

नम: कृष्णाय रामाय वसुदेवसुताय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नम: ॥ ४५ ॥

नमः कृष्णाय रामाय वसुदेव-सुताय च प्रद्युम्नाय अनिरुद्धाय सात्वताम् पतये नमः

नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।
गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥ ४६ ॥

नमः गुण-प्रदीपाय गुण आत्म छादनाय च गुण वृत्ति उपलक्ष्याय गुण-द्रष्ट्रे स्व संविदे

अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।
हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७ ॥

अव्याकृत-विहाराय सर्व-व्याकृत सिद्धये हृषीक-ईश नमः ते अस्तु मुनये मौन-शीलिने

परावरगतिज्ञाय सर्वाध्यक्षाय ते नम: ।
अविश्वाय च विश्वाय तद्‌‌द्रष्ट्रेऽस्य च हेतवे ॥ ४८ ॥

पर-अवर गति ज्ञाय सर्व अध्यक्षाय ते नमः अविश्वाय च विश्वाय तत्-द्रष्ट्रे अस्य च हेतवे

त्वं ह्यस्य जन्मस्थितिसंयमान् विभो
गुणैरनीहोऽकृतकालशक्तिधृक् ।
तत्तत्स्वभावान् प्रतिबोधयन् सत:
समीक्षयामोघविहार ईहसे ॥ ४९ ॥

त्वम् हि अस्य जन्म-स्थिति-संयमान् विभो गुणैः अनीहः अकृत काल-शक्ति धृक् तत्-तत् स्व-भावान् प्रतिबोधयन् सतः समीक्षया अमोघ-विहारः ईहसे

तस्यैव तेऽमूस्तनवस्त्रिलोक्यां
शान्ता अशान्ता उत मूढयोनय: ।
शान्ता: प्रियास्ते ह्यधुनावितुं सतां
स्थातुश्च ते धर्मपरीप्सयेहत: ॥ ५० ॥

तस्य एव ते अमूः तनवः त्रि-लोक्याम् शान्ताः अशान्ताः उत मूढ-योनयः शान्ताः प्रियाः ते हि अधुना अवितुम् सताम् स्थातुः च ते धर्म परीप्सया ईहतः

अपराध: सकृद् भर्त्रा सोढव्य: स्वप्रजाकृत: ।
क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानत: ॥ ५१ ॥

अपराधः सकृत् भर्त्रा सोढव्यः स्व-प्रजा कृतः क्षन्तुम् अर्हसि शान्त-आत्मन् मूढस्य त्वाम् अजानतः

अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नग: ।
स्त्रीणां न: साधुशोच्यानां पति: प्राण: प्रदीयताम् ॥ ५२ ॥

अनुगृह्णीष्व भगवन् प्राणान् त्यजति पन्नगः स्त्रीणाम् नः साधु-शोच्यानाम् पतिः प्राणः प्रदीयताम्

विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया ।
यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ॥ ५३ ॥

विधेहि ते किङ्करीणाम् अनुष्ठेयम् तव आज्ञया यत् श्रद्धया अनुतिष्ठन् वै मुच्यते सर्वतः भयात्

श्रीशुक उवाच
इत्थं स नागपत्नीभिर्भगवान् समभिष्टुत: ।
मूर्च्छितं भग्नशिरसं विससर्जाङ्‍‍‍‍‍घ्रिकुट्टनै: ॥ ५४ ॥

श्री-शुकः उवाच इत्थम् सः नाग-पत्नीभिः भगवान् समभिष्टुतः मूर्च्छितम् भग्न-शिरसम् विससर्ज अङ्घ्रि-कुट्टनैः

प्रतिलब्धेन्द्रियप्राण: कालिय: शनकैर्हरिम् ।
कृच्छ्रात् समुच्छ्वसन् दीन: कृष्णं प्राह कृताञ्जलि: ॥ ५५ ॥

प्रतिलब्ध इन्द्रिय प्राणः कालियः शनकैः हरिम् कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णम् प्राह कृत-अञ्जलिः

कालिय उवाच
वयं खला: सहोत्पत्त्या तामसा दीर्घमन्यव: ।
स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रह: ॥ ५६ ॥

कालियः उवाच वयम् खलाः सह उत्पत्त्या तामसाः दीर्घ-मन्यवः स्वभावः दुस्त्यजः नाथ लोकानाम् यत् असत् ग्रहः

त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् ।
नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७ ॥

त्वया सृष्टम् इदम् विश्वम् धातः गुण विसर्जनम् नाना स्व-भाव वीर्य ओजः योनि बीज आशय आकृति

वयं च तत्र भगवन् सर्पा जात्युरुमन्यव: ।
कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिता: स्वयम् ॥ ५८ ॥

वयम् च तत्र भगवन् सर्पाः जाति उरु-मन्यवः कथम् त्यजामः त्वत्-मायाम् दुस्त्यजाम् मोहिताः स्वयम्

भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वर: ।
अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि न: ॥ ५९ ॥

भवान् हि कारणम् तत्र सर्व-ज्ञः जगत्-ईश्वरः अनुग्रहम् निग्रहम् वा मन्यसे तत् विधेहि नः

श्रीशुक उवाच
इत्याकर्ण्य वच: प्राह भगवान् कार्यमानुष: ।
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी ॥ ६० ॥

श्री-शुकः उवाच इति आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः न अत्र स्थेयम् त्वया सर्प समुद्रम् याहि मा चिरम् स्व ज्ञाति अपत्य दार आढ्यः गो नृभिः भुज्यते नदी

य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् ।
कीर्तयन्नुभयो: सन्ध्योर्न युष्मद् भयमाप्नुयात् ॥ ६१ ॥

यः एतत् संस्मरेत् मर्त्यः तुभ्यम् मत् अनुशासनम् कीर्तयन् उभयोः सन्ध्योः न युष्मत् भयम् आप्नुयात्

योऽस्मिन् स्‍नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलै: ।
उपोष्य मां स्मरन्नर्चेत् सर्वपापै: प्रमुच्यते ॥ ६२ ॥

यः अस्मिन् स्नात्वा मत्-आक्रीडे देव-आदीन् तर्पयेत् जलैः उपोष्य माम् स्मरन् अर्चेत् सर्व-पापैः प्रमुच्यते

द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रित: ।
यद्भ‍यत्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ॥ ६३ ॥

द्वीपम् रमणकम् हित्वा ह्रदम् एतम् उपाश्रितः यत् भयात् सः सुपर्णः त्वाम् न अद्यात् मत्-पाद लाञ्छितम्

श्रीऋषिरुवाच
मुक्तो भगवता राजन् कृष्णेनाद्भुतकर्मणा ।
तं पूजयामास मुदा नागपत्‍न्यश्च सादरम् ॥ ६४ ॥

श्री-ऋषिः उवाच मुक्तः भगवता राजन् कृष्णेन अद्भुत-कर्मणा तम् पूजयाम् आस मुदा नाग पत्न्यः च स-आदरम्

दिव्याम्बरस्रङ्‌मणिभि: परार्ध्यैरपि भूषणै: ।
दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ।
तत: प्रीतोऽभ्यनुज्ञात: परिक्रम्याभिवन्द्य तम् ॥ ६६ ॥
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ।
तदैव सामृतजला यमुना निर्विषाभवत् ।
अनुग्रहाद् भगवत: क्रीडामानुषरूपिण: ॥ ६७ ॥

दिव्य अम्बर स्रक् मणिभिः पर-अर्ध्यैः अपि भूषणैः दिव्य गन्ध अनुलेपैः च महत्या उत्पल मालया पूजयित्वा जगत्-नाथम् प्रसाद्य गरुड-ध्वजम् ततः प्रीतः अभ्यनुज्ञातः परिक्रम्य अभिवन्द्य तम् स कलत्र सुहृत् पुत्रः द्वीपम् अब्धेः जगाम ह तदा एव स-अमृत जला यमुना निर्विषा अभवत् अनुग्रहात् भगवतः क्रीडा मानुष रूपिणः

१०.१७

श्रीराजोवाच
नागालयं रमणकं कथं तत्याज कालिय: ।
कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १ ॥

श्री-राजा उवाच नाग आलयम् रमणकम् कथम् तत्याज कालियः कृतम् किम् वा सुपर्णस्य तेन एकेन असमञ्जसम्

श्रीशुक उवाच
उपहार्यै: सर्पजनैर्मासि मासीह यो बलि: ।
वानस्पत्यो महाबाहो नागानां प्राङ्‍‍‍‍‍‍निरूपित: ॥ २ ॥
स्वं स्वं भागं प्रयच्छन्ति नागा: पर्वणि पर्वणि ।
गोपीथायात्मन: सर्वे सुपर्णाय महात्मने ॥ ३ ॥

श्री-शुकः उवाच उपहार्यैः सर्प-जनैः मासि मासि इह यः बलिः वानस्पत्यः महा-बाहो नागानाम् प्राक् निरूपितः स्वम् स्वम् भागम् प्रयच्छन्ति नागाः पर्वणि पर्वणि गोपीथाय आत्मनः सर्वे सुपर्णाय महा-आत्मने

विषवीर्यमदाविष्ट: काद्रवेयस्तु कालिय: ।
कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ ४ ॥

विष वीर्य मद आविष्टः काद्रवेयः तु कालियः कदर्थी-कृत्य गरुडम् स्वयम् तम् बुभुजे बलिम्

तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रिय: ।
विजिघांसुर्महावेग: कालियं समुपाद्रवत् ॥ ५ ॥

तत् श्रुत्वा कुपितः राजन् भगवान् भगवत्-प्रियः विजिघांसुः महा-वेगः कालियम् समुपाद्रवत्

तमापतन्तं तरसा विषायुध:
प्रत्यभ्ययादुत्थितनैकमस्तक: ।
दद्भ‍ि: सुपर्णं व्यदशद् ददायुध:
करालजिह्वोच्छ्वसितोग्रलोचन: ॥ ६ ॥

तम् आपतन्तम् तरसा विष आयुधः प्रति अभ्ययात् उत्थित न एक मस्तकः दद्भिः सुपर्णम् व्यदशत् दत्-आयुधः कराल जिह्वा उच्छ्वसित उग्र लोचनः

तं तार्क्ष्यपुत्र: स निरस्य मन्युमान्
प्रचण्डवेगो मधुसूदनासन: ।
पक्षेण सव्येन हिरण्यरोचिषा
जघान कद्रुसुतमुग्रविक्रम: ॥ ७ ॥

तम् तार्क्ष्य-पुत्रः सः निरस्य मन्यु-मान् प्रचण्ड-वेगः मधुसूदन-आसनः पक्षेण सव्येन हिरण्य रोचिषा जघान कद्रु-सुतम् उग्र विक्रमः

सुपर्णपक्षाभिहत: कालियोऽतीव विह्वल: ।
ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् ॥ ८ ॥

सुपर्ण पक्ष अभिहतः कालियः अतीव विह्वलः ह्रदम् विवेश कालिन्द्याः तत्-अगम्यम् दुरासदम्

तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।
निवारित: सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९ ॥

तत्र एकदा जल-चरम् गरुडः भक्ष्यम् ईप्सितम् निवारितः सौभरिणा प्रसह्य क्षुधितः अहरत्

मीनान्सुदु:खितान्‍द‍ृष्ट्वा दीनान्मीनपतौ हते ।
कृपया सौभरि: प्राह तत्रत्यक्षेममाचरन् ॥ १० ॥

मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते कृपया सौभरिः प्राह तत्रत्य क्षेमम् आचरन्

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।
सद्य: प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥

अत्र प्रविश्य गरुडः यदि मत्स्यान् सः खादति सद्यः प्राणैः वियुज्येत सत्यम् एतत् ब्रवीमि अहम्

तत् कालिय: परं वेद नान्य: कश्चन लेलिह: ।
अवात्सीद् गरुडाद् भीत: कृष्णेन च विवासित: ॥ १२ ॥

तम् कालियः परम् वेद न अन्यः कश्चन लेलिहः अवात्सीत् गरुडात् भीतः कृष्णेन च विवासितः

कृष्णं ह्रदाद्विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम् ।
महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३ ॥
उपलभ्योत्थिता: सर्वे लब्धप्राणा इवासव: ।
प्रमोदनिभृतात्मानो गोपा: प्रीत्याभिरेभिरे ॥ १४ ॥

कृष्णम् ह्रदात् विनिष्क्रान्तम् दिव्य स्रक् गन्ध वाससम् महा-मणि-गण आकीर्णम् जाम्बूनद परिष्कृतम् उपलभ्य उत्थिताः सर्वे लब्ध-प्राणाः इव असवः प्रमोद निभृत-आत्मानः गोपाः प्रीत्या अभिरेभिरे

यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव ।
कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि ॥ १५ ॥

यशोदा रोहिणी नन्दः गोप्यः गोपाः च कौरव कृष्णम् समेत्य लब्ध ईहाः आसन् शुष्काः नगाः अपि

रामश्चाच्युतमालिङ्‌‌ग्य जहासास्यानुभाववित् ।
प्रेम्णा तमङ्कमारोप्य पुन: पुनरुदैक्षत ।
गावो वृषा वत्सतर्यो लेभिरे परमां मुदम् ॥ १६ ॥

रामः च अच्युतम् आलिङ्ग्य जहास अस्य अनुभाव-वित् प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनः उदैक्षत गावः वृषाः वत्सतर्यः लेभिरे परमाम् मुदम्

नन्दं विप्रा: समागत्य गुरव: सकलत्रका: ।
ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मज: ॥ १७ ॥

नन्दम् विप्राः समागत्य गुरवः स-कलत्रकाः ऊचुः ते कालिय-ग्रस्तः दिष्ट्या मुक्तः तव आत्म-जः

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।
नन्द: प्रीतमना राजन् गा: सुवर्णं तदादिशत् ॥ १८ ॥

देहि दानम् द्वि-जातीनाम् कृष्ण-निर्मुक्ति हेतवे नन्दः प्रीत-मनाः राजन् गाः सुवर्णम् तदा आदिशत्

यशोदापि महाभागा नष्टलब्धप्रजा सती ।
परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहु: ॥ १९ ॥

यशोदा अपि महा-भागा नष्ट लब्ध प्रजा सती परिष्वज्य अङ्कम् आरोप्य मुमोच अश्रु कलाम् मुहुः

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिता: ।
ऊषुर्व्रयौकसो गाव: कालिन्द्या उपकूलत: ॥ २० ॥

ताम् रात्रिम् तत्र राज-इन्द्र क्षुत्-तृड्भ्याम् श्रम कर्षिताः ऊषुः व्रज-ओकसः गावः कालिन्द्याः उपकूलतः

तदा शुचिवनोद्भ‍ूतो दावाग्नि: सर्वतो व्रजम् ।
सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २१ ॥

तदा शुचि वन उद्भूतः दाव-अग्निः सर्वतः व्रजम् सुप्तम् निशीथे आवृत्य प्रदग्धुम् उपचक्रमे

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकस: ।
कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २२ ॥

ततः उत्थाय सम्भ्रान्ताः दह्यमानाः व्रज-ओकसः कृष्णम् ययुः ते शरणम् माया मनुजम् ईश्वरम्

कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।
एष घोरतमो वह्निस्तावकान् ग्रसते हि न: ॥ २३ ॥

कृष्ण कृष्ण महा-भाग हे राम अमित-विक्रम एषः घोर-तमः वह्निः तावकान् ग्रसते हि नः

सुदुस्तरान्न: स्वान् पाहि कालाग्ने: सुहृद: प्रभो ।
न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ॥ २४ ॥

सु-दुस्तरात् नः स्वान् पाहि काल-अग्नेः सुहृदः प्रभो न शक्नुमः त्वत्-चरणम् सन्त्यक्तुम् अकुतः-भयम्

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वर: ।
तमग्निमपिबत्तीव्रमनन्तोऽनन्तशक्तिधृक् ॥ २५ ॥

इत्थम् स्व-जन वैक्लव्यम् निरीक्ष्य जगत्-ईश्वरः तम् अग्निम् अपिबत् तीव्रम् अनन्तः अनन्त-शक्ति-धृक्

१०.१८

श्रीशुक उवाच
अथ कृष्ण: परिवृतो ज्ञातिभिर्मुदितात्मभि: ।
अनुगीयमानो न्यविशद्‌‌व्रजं गोकुलमण्डितम् ॥ १ ॥

श्री-शुकः उवाच अथ कृष्णः परिवृतः ज्ञातिभिः मुदित-आत्मभिः अनुगीयमानः न्यविशत् व्रजम् गो-कुल मण्डितम्

व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया ।
ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् ॥ २ ॥

व्रजे विक्रीडतोः एवम् गोपाल छद्म मायया ग्रीष्मः नाम ऋतुः अभवत् न अति-प्रेयान् शरीरिणाम्

स च वृन्दावनगुणैर्वसन्त इव लक्षित: ।
यत्रास्ते भगवान् साक्षाद् रामेण सह केशव: ॥ ३ ॥

सः च वृन्दावन गुणैः वसन्तः इव लक्षितः यत्र आस्ते भगवान् साक्षात् रामेण सह केशवः

यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम् ।
शश्वत्तच्छीकरर्जीषद्रुममण्डलमण्डितम् ॥ ४ ॥

यत्र निर्झर निर्ह्राद निवृत्त स्वन झिल्लिकम् शश्वत् तत् शीकर ऋजीष द्रुम मण्डल मण्डितम्

सरित्सर:प्रस्रवणोर्मिवायुना
कह्लारकुञ्जोत्पलरेणुहारिणा ।
न विद्यते यत्र वनौकसां दवो
निदाघवह्न्यर्कभवोऽतिशाद्वले ॥ ५ ॥

सरित् सरः प्रस्रवण ऊर्मि वायुना कह्लार-कञ्ज-उत्पल रेणु हारिणा न विद्यते यत्र वन-ओकसाम् दवः निदाघ वह्नि अर्क भवः अति-शाद्वले

अगाधतोयह्रदिनीतटोर्मिभि-
र्द्रवत्पुरीष्या: पुलिनै: समन्तत: ।
न यत्र चण्डांशुकरा विषोल्बणा
भुवो रसं शाद्वलितं च गृह्णते ॥ ६ ॥

अगाध तोय ह्रदिनी तट ऊर्मिभिः द्रवत् पुरीष्याः पुलिनैः समन्ततः न यत्र चण्ड अंशु-कराः विष उल्बणाः भुवः रसम् शाद्वलितम् च गृह्णते

वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् ।
गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ॥ ७ ॥

वनम् कुसुमितम् श्रीमत् नदत् चित्र मृग द्विजम् गायन् मयूर भ्रमरम् कूजत् कोकिल सारसम्

क्रीडिष्यमाणस्तन् कृष्णो भगवान् बलसंयुत: ।
वेणुं विरणयन् गोपैर्गोधनै: संवृतोऽविशत् ॥ ८ ॥

क्रीडिष्यमाणः तत् कृष्णः भगवान् बल-संयुतः वेणुम् विरणयन् गोपैः गो-धनैः संवृतः अविशत्

प्रवालबर्हस्तबकस्रग्धातुकृतभूषणा: ।
रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगु: ॥ ९ ॥

प्रवाल बर्ह स्तबक स्रक् धातु कृत-भूषणाः राम-कृष्ण-आदयः गोपाः ननृतुः युयुधुः जगुः

कृष्णस्य नृत्यत: केचिज्जगु: केचिदवादयन् ।
वेणुपाणितलै: श‍ृङ्गै: प्रशशंसुरथापरे ॥ १० ॥

कृष्णस्य नृत्यतः केचित् जगुः केचित् अवादयन् वेणु पाणि-तलैः शृङ्गैः प्रशशंसुः अथ अपरे

गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ ।
ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥ ११ ॥

गोप-जाति प्रतिच्छन्नाः देवाः गोपाल-रूपिणौ ईडिरे कृष्ण-रामौ च नटाः इव नटम् नृप

भ्रमणैर्लङ्घनै: क्षेपैरास्फोटनविकर्षणै: ।
चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्‍वचित् ॥ १२ ॥

भ्रमणैः लङ्घनैः क्षेपैः आस्फोटन विकर्षणैः चिकृईडतुः नियुद्धेन काक-पक्ष धरौ क्वचित्

क्‍वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर्महाराज साधु साध्विति वादिनौ ॥ १३ ॥

क्वचित् नृत्यत्सु च अन्येषु गायकौ वादकौ स्वयम् शशंसतुः महा-राज साधु साधु इति वादिनौ

क्‍वचिद्ब‍िल्वै: क्‍वचित्कुम्भै: क्‍वचामलकमुष्टिभि: ।
अस्पृश्यनेत्रबन्धाद्यै: क्‍वचिन्मृगखगेहया ॥ १४ ॥

क्वचित् बिल्वैः क्वचित् कुम्भैः क्वच आमलक-मुष्टिभिः अस्पृश्य नेत्र-बन्ध आद्यैः क्वचित् मृग खग ईहया

क्‍वचिच्च दर्दुरप्लावैर्विविधैरुपहासकै: ।
कदाचित् स्यन्दोलिकया कर्हिचिन्नृपचेष्टया ॥ १५ ॥

क्वचित् च दर्दुर प्लावैः विविधैः उपहासकैः कदाचित् स्यन्दोलिकया कर्हिचित् नृप-चेष्टया

एवं तौ लोकसिद्धाभि: क्रीडाभिश्चेरतुर्वने ।
नद्यद्रिद्रोणिकुञ्जेषु काननेषु सर:सु च ॥ १६ ॥

एवम् तौ लोक-सिद्धाभिः क्रीडाभिः चेरतुः वने नदी अद्रि द्रोणि कुञ्जेषु काननेषु सरःसु च

पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयो: ।
गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया ॥ १७ ॥

पशून् चारयतोः गोपैः तत्-वने राम-कृष्णयोः गोप-रूपी प्रलम्बः अगात् असुरः तत् जिहीर्षया

तं विद्वानपि दाशार्हो भगवान् सर्वदर्शन: ।
अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ॥ १८ ॥

तम् विद्वान् अपि दाशार्हः भगवान् सर्व-दर्शनः अन्वमोदत तत् सख्यम् वधम् तस्य विचिन्तयन्

तत्रोपाहूय गोपालान् कृष्ण: प्राह विहारवित् ।
हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ १९ ॥

तत्र उपाहूय गोपालान् कृष्णः प्राह विहार-वित् हे गोपाः विहरिष्यामः द्वन्द्वी-भूय यथा-यथम्

तत्र चक्रु: परिवृढौ गोपा रामजनार्दनौ ।
कृष्णसङ्घट्टिन: केचिदासन् रामस्य चापरे ॥ २० ॥

तत्र चक्रुः परिवृढौ गोपाः राम-जनार्दनौ कृष्ण-सङ्घट्टिनः केचित् आसन् रामस्य च अपरे

आचेरुर्विविधा: क्रीडा वाह्यवाहकलक्षणा: ।
यत्रारोहन्ति जेतारो वहन्ति च पराजिता: ॥ २१ ॥

आचेरुः विविधाः क्रीडाः वाह्य वाहक लक्षणाः यत्र आरोहन्ति जेतारः वहन्ति च पराजिताः

वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् ।
भाण्डीरकं नाम वटं जग्मु: कृष्णपुरोगमा: ॥ २२ ॥

वहन्तः वाह्यमानाः च चारयन्तः च गो-धनम् भाण्डीरकम् नाम वटम् जग्मुः कृष्ण-पुरः-गमाः

रामसङ्घट्टिनो यर्हि श्रीदामवृषभादय: ।
क्रीडायां जयिनस्तांस्तानूहु: कृष्णादयो नृप ॥ २३ ॥

राम-सङ्घट्टिनः यर्हि श्रीदाम-वृषभ-आदयः क्रीडायाम् जयिनः तान् तान् ऊहुः कृष्ण-आदयः नृप

उवाह कृष्णो भगवान् श्रीदामानं पराजित: ।
वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २४ ॥

उवाह कृष्णः भगवान् श्रीदामानम् पराजितः वृषभम् भद्रसेनः तु प्रलम्बः रोहिणी-सुतम्

अविषह्यं मन्यमान: कृष्णं दानवपुङ्गव: ।
वहन् द्रुततरं प्रागादवरोहणत: परम् ॥ २५ ॥

अविषह्यम् मन्यमानः कृष्णम् दानव-पुङ्गवः वहन् द्रुत-तरम् प्रागात् अवरोहणतः परम्

तमुद्वहन् धरणिधरेन्द्रगौरवं
महासुरो विगतरयो निजं वपु: ।
स आस्थित: पुरटपरिच्छदो बभौ
तडिद्‌‌द्युमानुडुपतिवाडिवाम्बुद: ॥ २६ ॥

तम् उद्वहन् धरणि-धर-इन्द्र गौरवम् महा-असुरः विगत-रयः निजम् वपुः सः आस्थितः पुरट परिच्छदः बभौ तडित् द्यु-मान् उडु-पति वाट् इव अम्बु-दः

निरीक्ष्य तद्वपुरलमम्बरे चरत्
प्रदीप्तद‍ृग् भ्रुकुटितटोग्रदंष्ट्रकम् ।
ज्वलच्छिखं कटककिरीटकुण्डल-
त्विषाद्भ‍ुतं हलधर ईषदत्रसत् ॥ २७ ॥

निरीक्ष्य तत् वपुः अलम् अम्बरे चरत् प्रदीप्त दृक् भ्रु-कुटि तट उग्र दंष्ट्रकम् ज्वलत् शिखम् कटक किरीट कुण्डल त्विषा अद्भुतम् हल-धरः ईषत् अत्रसत्

अथागतस्मृतिरभयो रिपुं बलो
विहायसार्थमिव हरन्तमात्मन: ।
रुषाहनच्छिरसि द‍ृढेन मुष्टिना
सुराधिपो गिरिमिव वज्ररंहसा ॥ २८ ॥

अथ आगत-स्मृतिः अभयः रिपुम् बलः विहाय सार्थम् इव हरन्तम् आत्मनः रुषा अहनत् शिरसि दृढेन मुष्टिना सुर-अधिपः गिरिम् इव वज्र रंहसा

स आहत: सपदि विशीर्णमस्तको
मुखाद् वमन् रुधिरमपस्मृतोऽसुर: ।
महारवं व्यसुरपतत् समीरयन्
गिरिर्यथा मघवत आयुधाहत: ॥ २९ ॥

सः आहतः सपदि विशीर्ण मस्तकः मुखात् वमन् रुधिरम् अपस्मृतः असुरः महा-रवम् व्यसुः अपतत् समीरयन् गिरिः यथा मघवतः आयुध आहतः

द‍ृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना ।
गोपा: सुविस्मिता आसन्साधु साध्विति वादिन: ॥ ३० ॥

दृष्ट्वा प्रलम्बम् निहतम् बलेन बल-शालिना गोपाः सु-विस्मिताः आसन् साधु साधु इति वादिनः

आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम् ।
प्रेत्यागतमिवालिङ्‌‌ग्य प्रेमविह्वलचेतस: ॥ ३१ ॥

आशिषः अभिगृणन्तः तम् प्रशशंसुः तत्-अर्हणम् प्रेत्य आगतम् इव आलिन्ग्य प्रेम विह्वल चेतसः

पापे प्रलम्बे निहते देवा: परमनिर्वृता: ।
अभ्यवर्षन् बलं माल्यै: शशंसु: साधु साध्विति ॥ ३२ ॥

पापे प्रलम्बे निहते देवाः परम निर्वृताः अभ्यवर्षन् बलम् माल्यैः शशंसुः साधु साधु इति

१०.१९

श्रीशुक उवाच
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणी: ।
स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् ॥ १ ॥

श्री-शुकः उवाच क्रीडा आसक्तेषु गोपेषु तत्-गावः दूर-चारिणीः स्वैरम् चरन्त्यः विविशुः तृण लोभेन गह्वरम्

अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् ।
ईषीकाटवीं निर्विविशु: क्रन्दन्त्यो दावतर्षिता: ॥ २ ॥

अजाः गावः महिष्यः च निर्विशन्त्यः वनात् वनम् ईषीका-अटवीम् निर्विविशुः क्रन्दन्त्यः दाव तर्षिताः

तेऽपश्यन्त: पशून् गोपा: कृष्णरामादयस्तदा ।
जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ॥ ३ ॥

ते अपश्यन्तः पशून् गोपाः कृष्ण-राम-आदयः तदा जात-अनुतापाः न विदुः विचिन्वन्तः गवाम् गतिम्

तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम् ।
मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतस: ॥ ४ ॥

तृणैः तत् खुर दत् छिन्नैः गोः-पदैः अङ्कितैः गवाम् मार्गम् अन्वगमन् सर्वे नष्ट-आजीव्याः विचेतसः

मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् ।
सम्प्राप्य तृषिता: श्रान्तास्ततस्ते सन्न्यवर्तयन् ॥ ५ ॥

मुञ्जा-अटव्याम् भ्रष्ट-मार्गम् क्रन्दमानम् स्व गो-धनम् सम्प्राप्य तृषिताः श्रान्ताः ततः ते सन्न्यवर्तयन्

ता आहूता भगवता मेघगम्भीरया गिरा ।
स्वनाम्नां निनदं श्रुत्वा प्रतिनेदु: प्रहर्षिता: ॥ ६ ॥

ताः आहूताः भगवता मेघ-गम्भीरया गिरा स्व-नाम्नाम् निनदम् श्रुत्वा प्रतिनेदुः प्रहर्षिताः

तत: समन्ताद्देवधूमकेतु-
र्यद‍ृच्छयाभूत् क्षयकृद् वनौकसाम् ।
समीरित: सारथिनोल्बणोल्मुकै-
र्विलेलिहान: स्थिरजङ्गमान् महान् ॥ ७ ॥

ततः समन्तात् दव-धूमकेतुः यदृच्छया अभूत् क्षय-कृत् वन-ओकसाम् समीरितः सारथिना उल्बण उल्मुकैः विलेलिहानः स्थिर-जङ्गमान् महान्

तमापतन्तं परितो दवाग्निं
गोपाश्च गाव: प्रसमीक्ष्य भीता: ।
ऊचुश्च कृष्णं सबलं प्रपन्ना
यथा हरिं मृत्युभयार्दिता जना: ॥ ८ ॥

तम् आपतन्तम् परितः दव-अग्निम् गोपाः च गावः प्रसमीक्ष्य भीताः ऊचुः च कृष्णम् स-बलम् प्रपन्नाः यथा हरिम् मृत्यु भय अर्दिताः जनाः

कृष्ण कृष्ण महावीर हे रामामोघविक्रम ।
दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथ: ॥ ९ ॥

कृष्ण कृष्ण महा-वीर हे राम अमोघ-विक्रम दाव-अग्निना दह्यमानान् प्रपन्नान् त्रातुम् अर्हथः

नूनं त्वद्ब‍ान्धवा: कृष्ण न चार्हन्त्यवसादितुम् ।
वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणा: ॥ १० ॥

नूनम् त्वत् बान्धवाः कृष्ण न च अर्हन्ति अवसादितुम् वयम् हि सर्व-धर्म-ज्ञ त्वत्-नाथाः त्वत्-परायणः

श्रीशुक उवाच
वचो निशम्य कृपणं बन्धूनां भगवान् हरि: ।
निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११ ॥

श्री-शुकः उवाच वचः निशम्य कृपणम् बन्धूनाम् भगवान् हरिः निमीलयत मा भैष्ट लोचनानि इति अभाषत

तथेति मीलिताक्षेषु भगवानग्निमुल्बणम् ।
पीत्वा मुखेन तान्कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ १२ ॥

तथा इति मीलित अक्षेषु भगवान् अग्निम् उल्बणम् पीत्वा मुखेन तान् कृच्छ्रात् योग-अधीशः व्यमोचयत्

ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिता: ।
निशम्य विस्मिता आसन्नात्मानं गाश्च मोचिता: ॥ १३ ॥

ततः च ते अक्षीणि उन्मील्य पुनः भाण्डीरम् आपिताः निशम्य विस्मिताः आसन् आत्मानम् गाः च मोचिताः

कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् ।
दावाग्नेरात्मन: क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४ ॥

कृष्णस्य योग-वीर्यम् तत् योग-माया अनुभावितम् दाव-अग्नेः आत्मनः क्षेमम् वीक्ष्य ते मेनिरे अमरम्

गा: सन्निवर्त्य सायाह्ने सहरामो जनार्दन: ।
वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुत: ॥ १५ ॥

गाः सन्निवर्त्य साय-अह्ने सह-रामः जनार्दनः वेणुम् विरणयन् गोष्ठम् अगात् गोपैः अभिष्टुतः

गोपीनां परमानन्द आसीद् गोविन्ददर्शने ।
क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६ ॥

गोपीनाम् परम-आनन्दः आसीत् गोविन्द-दर्शने क्षणम् युग-शतम् इव यासाम् येन विना अभवत्

१०.२०

श्रीशुक उवाच
तयोस्तदद्भ‍ुतं कर्म दावाग्नेर्मोक्षमात्मन: ।
गोपा: स्त्रीभ्य: समाचख्यु: प्रलम्बवधमेव च ॥ १ ॥

श्री-शुकः उवाच तयोः तत् अद्भुतम् कर्म दाव-अग्नेः मोक्षम् आत्मनः गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च

गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिता: ।
मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ २ ॥

गोप-वृद्धाः च गोप्यः च तत् उपाकर्ण्य विस्मिताः मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजम् गतौ

तत: प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भ‍वा ।
विद्योतमानपरिधिर्विस्फूर्जितनभस्तला ॥ ३ ॥

ततः प्रावर्तत प्रावृट् सर्व-सत्त्व समुद्भवा विद्योतमान परिधिः विस्फूर्जित नभः-तला

सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभि: ।
अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ ॥ ४ ॥

सान्द्र नील अम्बुदैः व्योम स-विद्युत् स्तनयित्नुभिः अस्पष्ट ज्योतिः आच्छन्नम् ब्रह्म इव स-गुणम् बभौ

अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु ।
स्वगोभिर्मोक्तुमारेभे पर्जन्य: काल आगते ॥ ५ ॥

अष्टौ मासान् निपीतम् यत् भूम्याः च उद-मयम् वसु स्व-गोभिः मोक्तुम् आरेभे पर्जन्यः काले आगते

तडिद्वन्तो महामेघाश्चण्डश्वसनवेपिता: ।
प्रीणनं जीवनं ह्यस्य मुमुचु: करुणा इव ॥ ६ ॥

तडित्-वन्तः महा-मेघाः चण्ड श्वसन वेपिताः प्रीणनम् जीवनम् हि अस्य मुमुचुः करुणाः इव

तप:कृशा देवमीढा आसीद् वर्षीयसी मही ।
यथैव काम्यतपसस्तनु: सम्प्राप्य तत्फलम् ॥ ७ ॥

तपः-कृशा देव-मीढा आसीत् वर्षीयसी मही यथा एव काम्य तपसः तनुः सम्प्राप्य तत् फलम्

निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहा: ।
यथा पापेन पाषण्डा न हि वेदा: कलौ युगे ॥ ८ ॥

निशा-मुखेषु खद्योताः तमसा भान्ति न ग्रहाः यथा पापेन पाषण्डाः न हि वेदाः कलौ युगे

श्रुत्वा पर्जन्यनिनदं मण्डुका: ससृजुर्गिर: ।
तूष्णीं शयाना: प्राग् यद्वद्ब्राह्मणा नियमात्यये ॥ ९ ॥

श्रुत्वा पर्जन्य निनदम् मण्डुकाः ससृजुः गिरः तूष्णीम् शयानाः प्राक् यद्वत् ब्राह्मणाः नियम-अत्यये

आसन्नुत्पथगामिन्य: क्षुद्रनद्योऽनुशुष्यती: ।
पुंसो यथास्वतन्त्रस्य देहद्रविणसम्पद: ॥ १० ॥

आसन् उत्पथ-गामिन्यः क्षुद्र नद्यः अनुशुष्यतीः पुंसः यथा अस्वतन्त्रस्य देह द्रविण सम्पदः

हरिता हरिभि: शष्पैरिन्द्रगोपैश्च लोहिता ।
उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ११ ॥

हरिताः हरिभिः शष्पैः इन्द्रगोपैः च लोहिता उच्छिलीन्ध्र कृत छाया नृणाम् श्रीः इव भूः अभूत्

क्षेत्राणि शष्यसम्पद्भ‍ि: कर्षकाणां मुदं ददु: ।
मानिनामनुतापं वै दैवाधीनमजानताम् ॥ १२ ॥

क्षेत्राणि शष्य-सम्पद्भिः कर्षकाणाम् मुदम् ददुः मानिनाम् अनुतापम् वै दैव-अधीनम् अजानताम्

जलस्थलौकस: सर्वे नववारिनिषेवया ।
अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया ॥ १३ ॥

जल स्थल ओकसः सर्वे नव वारि निषेवया अबिभ्रन् रुचिरम् रूपम् यथा हरि-निषेवया

सरिद्भ‍ि: सङ्गत: सिन्धुश्चुक्षोभ श्वसनोर्मिमान् ।
अपक्‍वयोगिनश्चित्तं कामाक्तं गुणयुग् यथा ॥ १४ ॥

सरिद्भिः सङ्गतः सिन्धुः चुक्षोभ श्वसन ऊर्मि-मान् अपक्व योगिनः चित्तम् काम-अक्तम् गुण-युक् यथा

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथु: ।
अभिभूयमाना व्यसनैर्यथाधोक्षजचेतस: ॥ १५ ॥

गिरयः वर्ष-धाराभिः हन्यमानाः न विव्यथुः अभिभूयमानाः व्यसनैः यथा अधोक्षज-चेतसः

मार्गा बभूवु: सन्दिग्धस्तृणैश्छन्ना ह्यसंस्कृता: ।
नाभ्यस्यमाना: श्रुतयो द्विजै: कालेन चाहता: ॥ १६ ॥

मार्गाः बभूवुः सन्दिग्धाः तृणैः छन्नाः हि असंस्कृताः न अभ्यस्यमानाः श्रुतयः द्विजैः कालेन च आहताः

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदा: ।
स्थैर्यं न चक्रु: कामिन्य: पुरुषेषु गुणिष्विव ॥ १७ ॥

लोक बन्धुषु मेघेषु विद्युतः चल-सौहृदाः स्थैर्यम् न चक्रुः कामिन्यः पुरुषेषु गुणिषु इव

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् ।
व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा ॥ १८ ॥

धनुः वियति माहा-इन्द्रम् निर्गुणम् च गुणिनि अभात् व्यक्ते गुण-व्यतिकरे अगुण-वान् पुरुषः यथा

न रराजोडुपश्छन्न: स्वज्योत्स्‍नाराजितैर्घनै: ।
अहंमत्या भासितया स्वभासा पुरुषो यथा ॥ १९ ॥

न रराज उडुपः छन्नः स्व-ज्योत्स्ना राजितैः घनैः अहम्-मत्या भासितया स्व-भासा पुरुषः यथा

मेघागमोत्सवा हृष्टा: प्रत्यनन्दञ्छिखण्डिन: ।
गृहेषु तप्तनिर्विण्णा यथाच्युतजनागमे ॥ २० ॥

मेघ आगम उत्सवाः हृष्टाः प्रत्यनन्दन् शिखण्डिनः गृहेषु तप्त निर्विण्णाः यथा अच्युत जन आगमे

पीत्वाप: पादपा: पद्भ‍िरासन्नानात्ममूर्तय: ।
प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ २१ ॥

पीत्वा आपः पाद-पाः पद्भिः आसन् नाना आत्म-मूर्तयः प्राक् क्षामाः तपसा श्रान्ताः यथा काम-अनुसेवया

सर:स्वशान्तरोध:सु न्यूषुरङ्गापि सारसा: ।
गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशया: ॥ २२ ॥

सरःसु अशान्त रोधःसु न्यूषुः अङ्ग अपि सारसाः गृहेषु अशान्त कृत्येषु ग्राम्याः इव दुराशयाः

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे ।
पाषण्डिनामसद्वादैर्वेदमार्गा: कलौ यथा ॥ २३ ॥

जल-ओघैः निरभिद्यन्त सेतवः वर्षति ईश्वरे पाषण्डिनाम् असत्-वादैः वेद-मार्गाः कलौ यथा

व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्यश्चामृतं घना: ।
यथाशिषो विश्पतय: काले काले द्विजेरिता: ॥ २४ ॥

व्यमुञ्चन् वायुभिः नुन्नाः भूतेभ्यः च अमृतम् घनाः यथा आशिषः विट्-पतयः काले काले द्विज ईरिताः

एवं वनं तद् वर्षिष्ठं पक्‍वखर्जुरजम्बुमत् ।
गोगोपालैर्वृतो रन्तुं सबल: प्राविशद्धरि: ॥ २५ ॥

एवम् वनम् तत् वर्षिष्ठम् पक्व खर्जुर जम्बु मत् गो गोपालैः वृतः रन्तुम् स-बलः प्राविशत् हरिः

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा ।
ययुर्भगवताहूता द्रुतं प्रीत्या स्‍नुतस्तना: ॥ २६ ॥

धेनवः मन्द-गामिन्यः ऊधः भारेण भूयसा ययुः भगवता आहूताः द्रुतम् प्रीत्या स्नुत स्तनाः

वनौकस: प्रमुदिता वनराजीर्मधुच्युत: ।
जलधारा गिरेर्नादादासन्ना दद‍ृशे गुहा: ॥ २७ ॥

वन-ओकसः प्रमुदिताः वन-राजीः मधु-च्युतः जल-धाराः गिरेः नादात् आसन्नाः ददृशे गुहाः

क्‍वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति ।
निर्विश्य भगवान् रेमे कन्दमूलफलाशन: ॥ २८ ॥

क्वचित् वनस्पति क्रोडे गुहायाम् च अभिवर्षति निर्विश्य भगवान् रेमे कन्द-मूल फल अशनः

दध्योदनं समानीतं शिलायां सलिलान्तिके ।
सम्भोजनीयैर्बुभुजे गोपै: सङ्कर्षणान्वित: ॥ २९ ॥

दधि-ओदनम् समानीतम् शीलायाम् सलिल-अन्तिके सम्भोजनीयैः बुभुजे गोपैः सङ्कर्षण-अन्वितः

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।
तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभरश्रमा: ॥ ३० ॥
प्रावृट्‍‍श्रियं च तां वीक्ष्य सर्वकालसुखावहाम् ।
भगवान् पूजयां चक्रे आत्मशक्त्युपबृंहिताम् ॥ ३१ ॥

शाद्वल उपरि संविश्य चर्वतः मीलित ईक्षणान् तृप्तान् वृषान् वत्सतरान् गाः च स्व ऊधः भर श्रमाः प्रावृट् श्रियम् च ताम् वीक्ष्य सर्व-काल सुख आवहाम् भगवान् पूजयाम् चक्रे आत्म-शक्ति उपबृंहिताम्

एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे ।
शरत्समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥ ३२ ॥

एवम् निवसतोः तस्मिन् राम-केशवयोः व्रजे शरत् समभवत् व्यभ्रा स्वच्छ-अम्बु अपरुष-अनिला

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययु: ।
भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३३ ॥

शरदा नीरज उत्पत्त्या नीराणि प्रकृतिम् ययुः भ्रष्टानाम् इव चेतांसि पुनः योग निषेवया

व्योम्नोऽब्भ्रं भूतशाबल्यं भुव: पङ्कमपां मलम् ।
शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥ ३४ ॥

व्योम्नः अप्-भ्रम् भूत शाबल्यम् भुवः पङ्कम् अपाम् मलम् शरत् जहार आश्रमिणाम् कृष्णे भक्तिः यथा अशुभम्

सर्वस्वं जलदा हित्वा विरेजु: शुभ्रवर्चस: ।
यथा त्यक्तैषणा: शान्ता मुनयो मुक्तकिल्बिषा: ॥ ३५ ॥

सर्व-स्वम् जल-दाः हित्वा विरेजुः शुभ्र वर्चसः यथा त्यक्त-एषणाः शान्ताः मुनयः मुक्त-किल्बिषाः

गिरयो मुमुचुस्तोयं क्‍वचिन्न मुमुचु: शिवम् ।
यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३६ ॥

गिरयः मुमुचुः तोयम् क्वचित् न मुमुचुः शिवम् यथा ज्ञान अमृतम् काले ज्ञानिनः ददते न वा

नैवाविदन् क्षीयमाणं जलं गाधजलेचरा: ।
यथायुरन्वहं क्षय्यं नरा मूढा: कुटुम्बिन: ॥ ३७ ॥

न एव अविदन् क्षीयमाणम् जलम् गाध-जले चराः यथा आयुः अनु-अहम् क्षय्यम् नराः मूढाः कुटुम्बिनः

गाधवारिचरास्तापमविन्दञ्छरदर्कजम् ।
यथा दरिद्र: कृपण: कुटुम्ब्यविजितेन्द्रिय: ॥ ३८ ॥

गाध-वारि-चराः तापम् अविन्दन् शरत्-अर्क-जम् यथा दरिद्रः कृपणः कुटुम्बी अविजित-इन्द्रियः

शनै: शनैर्जहु: पङ्कं स्थलान्यामं च वीरुध: ।
यथाहंममतां धीरा: शरीरादिष्वनात्मसु ॥ ३९ ॥

शनैः शनैः जहुः पङ्कम् स्थलानि आमम् च वीरुधः यथा अहम्-ममताम् धीराः शरीर-आदिषु अनात्मसु

निश्चलाम्बुरभूत्तूष्णीं समुद्र: शरदागमे ।
आत्मन्युपरते सम्यङ्‍मुनिर्व्युपरतागम: ॥ ४० ॥

निश्चल अम्बुः अभूत् तूष्नीम् समुद्रः शरत् आगमे आत्मनि उपरते सम्यक् मुनिः व्युपरत आगमः

केदारेभ्यस्त्वपोऽगृह्णन् कर्षका द‍ृढसेतुभि: ।
यथा प्राणै: स्रवज्ज्ञानं तन्निरोधेन योगिन: ॥ ४१ ॥

केदारेभ्यः तु अपः अगृह्णन् कर्षकाः दृढ सेतुभिः यथा प्राणैः स्रवत् ज्ञानम् तत् निरोधेन योगिनः

शरदर्कांशुजांस्तापान् भूतानामुडुपोऽहरत् ।
देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४२ ॥

शरत्-अर्क अंशु जान् तापान् भूतानाम् उडुपः अहरत् देह अभिमान-जम् बोधः मुकुन्दः व्रज-योषिताम्

खमशोभत निर्मेघं शरद्विमलतारकम् ।
सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ ४३ ॥

खम् अशोभत निर्मेघम् शरत् विमल तारकम् सत्त्व-युक्तम् यथा चित्तम् शब्द-ब्रह्म अर्थ दर्शनम्

अखण्डमण्डलो व्योम्नि रराजोडुगणै: शशी ।
यथा यदुपति: कृष्णो वृष्णिचक्रावृतो भुवि ॥ ४४ ॥

अखण्ड मण्डलः व्योम्नि रराज उडु-गणैः शशी यथा यदु-पतिः कृष्णः वृष्णि-चक्र आवृतः भुवि

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् ।
जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतस: ॥ ४५ ॥

आश्लिष्य सम शीत-उष्णम् प्रसून-वन मारुतम् जनाः तापम् जहुः गोप्यः न कृष्ण हृत चेतसः

गावो मृगा: खगा नार्य: पुष्पिण्य: शरदाभवन् ।
अन्वीयमाना: स्ववृषै: फलैरीशक्रिया इव ॥ ४६ ॥

गावः मृगाः खगाः नार्यः पुष्पिण्यः शरदा अभवन् अन्वीयमानाः स्व-वृषैः फलैः ईश-क्रियाः इव

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना ।
राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ ४७ ॥

उदहृष्यन् वारि-जानि सूर्य उत्थाने कुमुत् विना राज्ञा तु निर्भयाः लोकाः यथा दस्यून् विना नृप

पुरग्रामेष्वाग्रयणैरिन्द्रियैश्च महोत्सवै: ।
बभौ भू: पक्‍वशष्याढ्या कलाभ्यां नितरां हरे: ॥ ४८ ॥

पुर ग्रामेषु आग्रयणैः इन्द्रियैः च महा-उत्सवैः बभौ भूः पक्व शष्य आढ्या कला आभ्याम् नितराम् हरेः

वणिङ्‍मुनिनृपस्‍नाता निर्गम्यार्थान् प्रपेदिरे ।
वर्षरुद्धा यथा सिद्धा: स्वपिण्डान् काल आगते ॥ ४९ ॥

वणिक् मुनि नृप स्नाताः निर्गम्य अर्थान् प्रपेदिरे वर्ष रुद्धाः यथा सिद्धाः स्व-पिण्डान् काले आगते

१०.२१

श्रीशुक उवाच
इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद् वायुना वातं सगोगोपालकोऽच्युत: ॥ १ ॥

श्री-शुकः उवाच इत्थम् शरत् स्वच्छ जलम् पद्म-आकर सु-गन्धिना न्यविशत् वायुना वातम् स गो गोपालकः अच्युतः

कुसुमितवनराजिशुष्मिभृङ्ग-
द्विजकुलघुष्टसर:सरिन्महीध्रम् ।
मधुपतिरवगाह्य चारयन् गा:
सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥

कुसुमित वन-राजि शुष्मि भृङ्ग द्विज कुल घुष्ट सरः सरित् महीध्रम् मधु-पतिः अवगाह्य चारयन् गाः सह-पशु-पाल-बलः चुकूज वेणुम्

तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।
काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ ३ ॥

तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतम् स्मर-उदयम् काश्चित् परोक्षम् कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्

तद्वर्णयितुमारब्धा: स्मरन्त्य: कृष्णचेष्टितम् ।
नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥

तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् न अशकन् स्मर-वेगेन विक्षिप्त मनसः नृप

बर्हापीडं नटवरवपु: कर्णयो: कर्णिकारं
बिभ्रद् वास: कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन्गोपवृन्दै-
र्वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्ति: ॥ ५ ॥

बर्ह आपीडम् नट-वर वपुः कर्णयोः कर्णिकारम् बिभ्रत् वासः कनक कपिशम् वैजयन्तीम् च मालाम् रन्ध्रान् वेणोः अधर सुधया आपूरयन् गोप-वृन्दैः वृन्दा-अरण्यम् स्व-पद रमणम् प्राविशत् गीत कीर्तिः

इति वेणुरवं राजन् सर्वभूतमनोहरम् ।
श्रुत्वा व्रजस्त्रिय: सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६ ॥

इति वेणु-रवम् राजन् सर्व-भूत मनः-हरम् श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे

श्रीगोप्य ऊचु:
अक्षण्वतां फलमिदं न परं विदाम:
सख्य: पशूननु विवेशयतोर्वयस्यै: ।
वक्त्रं व्रजेशसुतयोरनवेणु जुष्टं
यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ ७ ॥

श्री-गोप्यः ऊचुः अक्षण्वताम् फलम् इदम् न परम् विदामः सख्यः पशून् अनुविवेशयतोः वयस्यैः वक्त्रम् व्रज-ईश सुतयोः अनु-वेणु-जुष्टम् यैः वा निपीतम् अनुरक्त कट-अक्ष मोक्षम्

चूतप्रवालबर्हस्तबकोत्पलाब्ज-
मालानुपृक्तपरिधानविचित्रवेशौ ।
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां
रङ्गे यथा नटवरौ क्‍व च गायमानौ ॥ ८ ॥

चूत प्रवाल बर्ह स्तबक उत्पल अब्ज माला अनुपृक्त परिधान विचित्र वेशौ मध्ये विरेजतुः अलम् पशु-पाल गोष्ठ्याम् रङ्गे यथा नट-वरौ क्वच गायमानौ

गोप्य: किमाचरदयं कुशलं स्म वेणु-
र्दामोदराधरसुधामपि गोपिकानाम् ।
भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो
हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्या: ॥ ९ ॥

गोप्यः किम् आचरत् अयम् कुशलम् स्म वेणुः दामोदर अधर-सुधाम् अपि गोपिकानाम् भुङ्क्ते स्वयम् यत् अवशिष्ट रसम् ह्रदिन्यः हृष्यत् त्वचः अश्रु मुमुचुः तरवः यथा आर्याः

वृन्दावनं सखि भुवो वितनोति कीर्तिं
यद् देवकीसुतपदाम्बुजलब्धलक्ष्मि ।
गोविन्दवेणुमनु मत्तमयूरनृत्यं
प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥ १० ॥

वृन्दावनम् सखि भुवः वितनोति कीर्तिम् यत् देवकी-सुत पद-अम्बुज लब्ध लक्ष्मि गोविन्द-वेणुम् अनु मत्त मयूर नृत्यम् प्रेक्ष्य अद्रि-सानु अवरत अन्य समस्त सत्त्वम्

धन्या: स्म मूढगतयोऽपि हरिण्य एता
या नन्दनन्दनमुपात्तविचित्रवेशम् ।
आकर्ण्य वेणुरणितं सहकृष्णसारा:
पूजां दधुर्विरचितां प्रणयावलोकै: ॥ ११ ॥

धन्याः स्म मूढ-गतयः अपि हरिण्यः एताः याः नन्द-नन्दनम् उपात्त-विचित्र-वेशम् आकर्ण्य वेणु-रणितम् सह-कृष्ण-साराः पूजाम् दधुः विरचिताम् प्रणय-अवलोकैः

कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं
श्रुत्वा च तत्‍क्‍वणितवेणुविविक्तगीतम् ।
देव्यो विमानगतय: स्मरनुन्नसारा
भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्य: ॥ १२ ॥

कृष्णम् निरीक्ष्य वनिता उत्सव रूप शीलम् श्रुत्वा च तत् क्वणित वेणु विविक्त गीतम् देव्यः विमान-गतयः स्मर नुन्न साराः भ्रश्यत् प्रसून-कबराः मुमुहुः विनीव्यः

गावश्च कृष्णमुखनिर्गतवेणुगीत-
पीयूषमुत्तभितकर्णपुटै: पिबन्त्य: ।
शावा: स्‍नुतस्तनपय:कवला: स्म तस्थु-
र्गोविन्दमात्मनि द‍ृशाश्रुकला: स्पृशन्त्य: ॥ १३ ॥

गावः च कृष्ण-मुख निर्गत वेणु गीत पीयूषम् उत्तभित कर्ण पुटैः पिबन्त्यः शावाः स्नुत स्तन पयः कवलाः स्म तस्थुः गोविन्दम् आत्मनि दृशा अश्रु-कलाः स्पृशन्त्यः

प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन्
कृष्णेक्षितं तदुदितं कलवेणुगीतम् ।
आरुह्य ये द्रुमभुजान् रुचिरप्रवालान्
श‍ृण्वन्ति मीलितद‍ृशो विगतान्यवाच: ॥ १४ ॥

प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन् कृष्ण-ईक्षितम् तत्-उदितम् कल-वेणु-गीतम् आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान् शृण्वन्ति मीलित-दृशः विगत-अन्य-वाचः

नद्यस्तदा तदुपधार्य मुकुन्दगीत-
मावर्तलक्षितमनोभवभग्नवेगा: ।
आलिङ्गनस्थगितमूर्मिभुजैर्मुरारे-
र्गृह्णन्ति पादयुगलं कमलोपहारा: ॥ १५ ॥

नद्यः तदा तत् उपधार्य मुकुन्द गीतम् आवर्त लक्षित मनः-भव भग्न वेगाः आलिङ्गन स्थगितम् ऊर्मि-भुजैः मुरारेः गृह्णन्ति पाद-युगलम् कमल-उपहाराः

द‍ृष्ट्वातपे व्रजपशून् सह रामगोपै:
सञ्चारयन्तमनु वेणुमुदीरयन्तम् ।
प्रेमप्रवृद्ध उदित: कुसुमावलीभि:
सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम् ॥ १६ ॥

दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् प्रेम प्रवृद्धः उदितः कुसुम-आवलीभिः सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्

पूर्णा: पुलिन्द्य उरुगायपदाब्जराग-
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस्तृणरूषितेन
लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७ ॥

पूर्णाः पुलिन्द्यः उरुगाय पद-अब्ज राग श्री-कुङ्कुमेन दयिता स्तन मण्डितेन तत् दर्शन स्मर रुजः तृण रूषितेन लिम्पन्त्यः आनन कुचेषु जहुः तत् आधिम्

हन्तायमद्रिरबला हरिदासवर्यो
यद् रामकृष्णचरणस्परशप्रमोद: ।
मानं तनोति सहगोगणयोस्तयोर्यत्
पानीयसूयवसकन्दरकन्दमूलै: ॥ १८ ॥

हन्त अयम् अद्रिः अबलाः हरि-दास-वर्यः यत् राम-कृष्ण-चरण स्परश प्रमोदः मानम् तनोति सह गो-गणयोः तयोः यत् पानीय सूयवस कन्दर कन्द-मूलैः

गा गोपकैरनुवनं नयतोरुदार-
वेणुस्वनै: कलपदैस्तनुभृत्सु सख्य: ।
अस्पन्दनं गतिमतां पुलकस्तरुणां
निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ १९ ॥

गाः गोपकैः अनु-वनम् नयतोः उदार वेणु-स्वनैः कल-पदैः तनुभृत्सु सख्यः अस्पन्दनम् गति-मताम् पुलकः तरुणम् निर्योग-पाश कृत-लक्षणयोः विचित्रम्

एवंविधा भगवतो या वृन्दावनचारिण: ।
वर्णयन्त्यो मिथो गोप्य: क्रीडास्तन्मयतां ययु: ॥ २० ॥

एवम्-विधाः भगवतः याः वृन्दावन-चारिणः वर्णयन्त्यः मिथः गोप्यः क्रीडः तत्-मयताम् ययुः

१०.२२

श्रीशुक उवाच
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिका: ।
चेरुर्हविष्यं भुञ्जाना: कात्यायन्यर्चनव्रतम् ॥ १ ॥

श्री-शुकः उवाच हेमन्ते प्रथमे मासि नन्द-व्रज कुमारिकाः चेरुः हविष्यम् भुञ्जानाः कात्यायनी अर्चन-व्रतम्

आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे ।
कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् ॥ २ ॥
गन्धैर्माल्यै: सुरभिभिर्बलिभिर्धूपदीपकै: ।
उच्चावचैश्चोपहारै: प्रवालफलतण्डुलै: ॥ ३ ॥

आप्लुत्य अम्भसि कालिन्द्याः जल-अन्ते च उदिते अरुणे कृत्व प्रति-कृतिम् देवीम् आनर्चुः नृप सैकतीम् गन्धैः माल्यैः सुरभिभिः बलिभिः धूप-दीपकैः उच्च-अवचैः च उपहारैः प्रवाल फल तण्डुलैः

कात्यायनि महामाये महायोगिन्यधीश्वरि ।
नन्दगोपसुतं देवि पतिं मे कुरु ते नम: ।
इति मन्त्रं जपन्त्यस्ता: पूजां चक्रु: कुमारिका: ॥ ४ ॥

कात्यायनी महा-माये महा-योगिनि अधीश्वरि नन्द-गोप-सुतम् देवि पतिम् मे कुरु ते नमः इति मन्त्रम् जपन्त्यः ताः पूजाम् चक्रुः कुमारिकाः

एवं मासं व्रतं चेरु: कुमार्य: कृष्णचेतस: ।
भद्रकालीं समानर्चुर्भूयान्नन्दसुत: पति: ॥ ५ ॥

एवम् मासम् व्रतम् चेरुः कुमार्यः कृष्ण-चेतसः भद्र-कालीम् समानर्चुः भूयात् नन्द-सुतः पतिः

ऊषस्युत्थाय गोत्रै: स्वैरन्योन्याबद्धबाहव: ।
कृष्णमुच्चैर्जगुर्यान्त्य: कालिन्द्यां स्‍नातुमन्वहम् ॥ ६ ॥

ऊषसि उत्थाय गोत्रैः स्वैः अन्योन्य आबद्ध बाहवः कृष्णम् उच्चैः जगुः यान्त्यः कालिन्द्याम् स्नातुम् अनु-अहम्

नद्या: कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् ।
वासांसि कृष्णं गायन्त्यो विजह्रु: सलिले मुदा ॥ ७ ॥

नद्याः कदाचित् आगत्य तीरे निक्षिप्य पूर्व-वत् वासांसि कृष्णम् गायन्त्यः विजह्रुः सलिले मुदा

भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वर: ।
वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८ ॥

भगवान् तत् अभिप्रेत्य कृष्णः योग-ईश्वर-ईश्वरः वयस्यैः आवृतः तत्र गतः तत् कर्म सिद्धये

तासां वासांस्युपादाय नीपमारुह्य सत्वर: ।
हसद्भ‍ि: प्रहसन् बालै: परिहासमुवाच ह ॥ ९ ॥

तासाम् वासांसि उपादाय नीपम् आरुह्य सत्वरः हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह

अत्रागत्याबला: कामं स्वं स्वं वास: प्रगृह्यताम् ।
सत्यं ब्रुवाणि नो नर्म यद् यूयं व्रतकर्शिता: ॥ १० ॥

अत्र आगत्य अबलाः कामम् स्वम् स्वम् वासः प्रगृह्यताम् सत्यम् ब्रुवाणि न उ नर्म यत् यूयम् व्रत कर्शिताः

न मयोदितपूर्वं वा अनृतं तदिमे विदु: ।
एकैकश: प्रतीच्छध्वं सहैवेति सुमध्यमा: ॥ ११ ॥

न मया उदित पूर्वम् वै अनृतम् तत् इमे विदुः एक-एकशः प्रतीच्छध्वम् सह एव इति सु-मध्यमाः

तस्य तत् क्ष्वेलितं द‍ृष्ट्वा गोप्य: प्रेमपरिप्लुता: ।
व्रीडिता: प्रेक्ष्य चान्योन्यं जातहासा न निर्ययु: ॥ १२ ॥

तस्य तत् क्ष्वेलितम् दृष्ट्वा गोप्यः प्रेम-परिप्लुताः व्रीडिताः प्रेक्ष्य च अन्योन्यम् जात-हासाः न निर्ययुः

एवं ब्रुवति गोविन्दे नर्मणाक्षिप्तचेतस: ।
आकण्ठमग्ना: शीतोदे वेपमानास्तमब्रुवन् ॥ १३ ॥

एवम् ब्रुवति गोविन्दे नर्मणा आक्षिप्त चेतसः आ-कण्ठ मग्नाः शीत उदे वेपमानाः तम् अब्रुवन्

मानयं भो: कृथास्त्वां तु नन्दगोपसुतं प्रियम् ।
जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिता: ॥ १४ ॥

मा अनयम् भोः कृथाः त्वाम् तु नन्द-गोप सुतम् प्रियम् जानीमः अङ्ग व्रज-श्लाघ्यम् देहि वासांसि वेपिताः

श्यामसुन्दर ते दास्य: करवाम तवोदितम् ।
देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ १५ ॥

श्यामसुन्दर ते दास्यः करवाम तव उदितम् देहि वासांसि धर्म-ज्ञ न उ चेत् राज्ञे ब्रुवामः हे

श्रीभगवानुवाच
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।
अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिता: ।
नो चेन्नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति ॥ १६ ॥

श्री-भगवान् उवाच भवत्यः यदि मे दास्यः मया उक्तम् वा करिष्यथ अत्र आगत्य स्व-वासांसि प्रतीच्छत शुचि स्मिताः न उ चेत् न अहम् प्रदास्ये किम् क्रुद्धः राजा करिष्यति

ततो जलाशयात् सर्वा दारिका: शीतवेपिता: ।
पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरु: शीतकर्शिता: ॥ १७ ॥

ततः जल-आशयात् सर्वाः दारिकाः शीत-वेपिताः पाणिभ्याम् योनिम् आच्छाद्य प्रोत्तेरुः शीत-कर्शिताः

भगवानाहता वीक्ष्य शुद्धभावप्रसादित: ।
स्कन्धे निधाय वासांसि प्रीत: प्रोवाच सस्मितम् ॥ १८ ॥

भगवान् आहताः वीक्ष्य शुद्ध भाव प्रसादितः स्कन्धे निधाय वासांसि प्रीतः प्रोवाच स-स्मितम्

यूयं विवस्त्रा यदपो धृतव्रता
व्यगाहतैतत्तदु देवहेलनम् ।
बद्ध्वाञ्जलिं मूध्‍‍‍‍‍‍‍‍‌‌र्न्यपनुत्तयेऽहस:
कृत्वा नमोऽधोवसनं प्रगृह्यताम् ॥ १९ ॥

यूयम् विवस्त्राः यत् अपः धृत-व्रताः व्यगाहत एतत् तत् उ देव-हेलनम् बद्ध्वा अञ्जलिम् मूर्ध्नि अपनुत्तये अंहसः कृत्वा नमः अधः-वसनम् प्रगृह्यताम्

इत्यच्युतेनाभिहितं व्रजाबला
मत्वा विवस्त्राप्लवनं व्रतच्युतिम् ।
तत्पूर्तिकामास्तदशेषकर्मणां
साक्षात्कृतं नेमुरवद्यमृग् यत: ॥ २० ॥

इति अच्युतेन अभिहितम् व्रज-अबलाः मत्वा विवस्त्र आप्लवनम् व्रत-च्युतिम् तत्-पूर्ति कामाः तत् अशेष-कर्मर्णाम् साक्षात्-कृतम् नेमुः अवद्य-मृक् यतः

तास्तथावनता द‍ृष्ट्वा भगवान् देवकीसुत: ।
वासांसि ताभ्य: प्रायच्छत्करुणस्तेन तोषित: ॥ २१ ॥

ताः तथा अवनताः दृष्ट्वा भगवान् देवकी-सुतः वासांसि ताभ्यः प्रायच्छत् करुणः तेन तोषितः

द‍ृढं प्रलब्धास्त्रपया च हापिता:
प्रस्तोभिता: क्रीडनवच्च कारिता: ।
वस्त्राणि चैवापहृतान्यथाप्यमुं
ता नाभ्यसूयन् प्रियसङ्गनिर्वृता: ॥ २२ ॥

दृढम् प्रलब्धाः त्रपया च हापिताः प्रस्तोभिताः क्रीडन-वत् च कारिताः वस्त्राणि च एव अपहृतानि अथ अपि अमुम् ताः न अभ्यसूयन् प्रिय सङ्ग निर्वृताः

परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिता: ।
गृहीतचित्ता नो चेलुस्तस्मिन्लज्जायितेक्षणा: ॥ २३ ॥

परिधाय स्व-वासांसि प्रेष्ठ सङ्गम सज्जिताः गृहीत चित्ताः न उ चेलुः तस्मिन् लज्जायित ईक्षणाः

तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया ।
धृतव्रतानां सङ्कल्पमाह दामोदरोऽबला: ॥ २४ ॥

तासाम् विज्ञाय भगवान् स्व-पाद स्पर्श काम्यया धृत-व्रतानाम् सङ्कल्पम् आह दामोदरः अबलाः

सङ्कल्पो विदित: साध्व्यो भवतीनां मदर्चनम् ।
मयानुमोदित: सोऽसौ सत्यो भवितुमर्हति ॥ २५ ॥

सङ्कल्पः विदितः साध्व्यः भवतीनाम् मत्-अर्चनम् मया अनुमोदितः सः असौ सत्यः भवितुम् अर्हति

न मय्यावेशितधियां काम: कामाय कल्पते ।
भर्जिता क्‍वथिता धाना: प्रायो बीजाय नेशते ॥ २६ ॥

न मयि आवेशित धियाम् कामः कामाय कल्पते भर्जिताः क्वथिताः धानाः प्रायः बीजाय न इष्यते

याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपा: ।
यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सती: ॥ २७ ॥

यात अबलाः व्रजम् सिद्धाः मया इमाः रंस्यथ क्षपाः यत् उद्दिश्य व्रतम् इदम् चेरुः आर्या अर्चनम् सतीः

श्रीशुक उवाच
इत्यादिष्टा भगवता लब्धकामा: कुमारिका: ।
ध्यायन्त्यस्तत्पदाम्भोजं कृच्छ्रान्निर्विविशुर्व्रजम् ॥ २८ ॥

श्री-शुकः उवाच इति आदिष्टाः भगवता लब्ध कामाः कुमारिकाः ध्यायन्त्यः तत् पद-अम्भोजम् कृच्छ्रात् निर्विविशुः व्रजम्

अथ गोपै: परिवृतो भगवान् देवकीसुत: ।
वृन्दावनाद्गतो दूरं चारयन् गा: सहाग्रज: ॥ २९ ॥

अथ गोपैः परिवृतः भगवान् देवकी-सुतः वृन्दावनात् गतः दूरम् चारयन् गाः सह-अग्रजः

निदघार्कातपे तिग्मे छायाभि: स्वाभिरात्मन: ।
आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकस: ॥ ३० ॥

निदाघ अर्क आतपे तिग्मे छयभिः स्वाभिः आत्मनः आतपत्रायितान् वीक्ष्य द्रुमान् अह व्रज-ओकसः

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
विशाल वृषभौजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥
पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् ।
वातवर्षातपहिमान् सहन्तो वारयन्ति न: ॥ ३२ ॥

हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबल अर्जुन विशाल वृषभ ओजस्विन् देवप्रस्थ वरूथप पश्यत एतान् महा-भागान् पर-अर्थ एकान्त जीवितान् वात वर्ष आतप हिमान् सहन्तः वारयन्ति नः

अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् ।
सुजनस्येव येषां वै विमुखा यान्ति नार्थिन: ॥ ३३ ॥

अहो एषाम् वरम् जन्म सर्व प्राणि उपजीविनम् सु-जनस्य इव येषाम् वै विमुखाः यान्ति न अर्थिनः

पत्रपुष्पफलच्छायामूलवल्कलदारुभि: ।
गन्धनिर्यासभस्मास्थितोक्मै: कामान्वितन्वते ॥ ३४ ॥

पत्र पुष्प फल छाया मूल वल्कल दारुभिः गन्ध निर्यास भस्म अस्थि तोक्मैः कामान् वितन्वते

एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।
प्राणैरर्थैर्धिया वाचा श्रेयआचरणं सदा ॥ ३५ ॥

एतावत् जन्म साफल्यम् देहिनाम् इह देहिषु प्राणैः अर्थैः धिया वाचा श्रेयः आचरणम् सदा

इति प्रवालस्तबकफलपुष्पदलोत्करै: ।
तरूणां नम्रशाखानां मध्यतो यमुनां गत: ॥ ३६ ॥

इति प्रवाल स्तबक फल पुष्प दल उत्करैः तरूणाम् नम्र शाखानाम् मध्यतः यमुनाम् गतः

तत्र गा: पाययित्वाप: सुमृष्टा: शीतला: शिवा: ।
ततो नृप स्वयं गोपा: कामं स्वादु पपुर्जलम् ॥ ३७ ॥

तत्र गाः पाययित्वा अपः सु-मृष्टाः शीतलाः शिवाः ततः नृप स्वयम् गोपाः कामम् स्वादु पपुः जलम्

तस्या उपवने कामं चारयन्त: पशून् नृप ।
कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन् ॥ ३८ ॥

तस्याः उपवने कामम् चारयन्तः पशून् नृप कृष्ण-रामौ उपागम्य क्षुत्-आर्ताः इदम् अब्रुवन्

१०.२३

श्रीगोपा ऊचु:
राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।
एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथ: ॥ १ ॥

श्री-गोपाः ऊचुः राम राम महा-बाहो कृष्ण दुष्ट निबर्हण एषा वै बाधते क्षुत् नः तत्-शान्तिम् कर्तुम् अर्हथः

श्रीशुक उवाच
इति विज्ञापितो गोपैर्भगवान् देवकीसुत: ।
भक्ताया विप्रभार्याया: प्रसीदन्निदमब्रवीत् ॥ २ ॥

श्री-शुकः उवाच इति विज्ञापितः गोपैः भगवान् देवकी-सुतः भक्तायाः विप्र-भार्यायाः प्रसीदन् इदम् अब्रवीत्

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिन: ।
सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥

प्रयात देव-यजनम् ब्राह्मणाः ब्रह्म-वादिनः सत्रम् आङ्गिरसम् नाम हि आसते स्वर्ग-काम्यया

तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिता: ।
कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥

तत्र गत्वा ओदनम् गोपाः याचत अस्मत् विसर्जिताः कीर्तयन्तः भगवतः आर्यस्य मम च अभिधाम्

इत्यादिष्टा भगवता गत्वायाचन्त ते तथा ।
कृताञ्जलिपुटा विप्रान्दण्डवत्पतिता भुवि ॥ ५ ॥

इति आदिष्टः भगवता गत्वा अयाचन्त ते तथा कृत-अञ्जलि-पुटाः विप्रान् दण्ड-वत् पतिताः भुवि

हे भूमिदेवा: श‍ृणुत कृष्णस्यादेशकारिण: ।
प्राप्ताञ्जानीत भद्रं वो गोपान्नो रामचोदितान् ॥ ६ ॥

हे भूमि-देवाः शृणुत कृष्णस्य आदेश कारिणः प्राप्तान् जानीत भद्रम् वः गोपान् नः राम-चोदितान्

गाश्चारयन्तावविदूर ओदनं
रामाच्युतौ वो लषतो बुभुक्षितौ ।
तयोर्द्विजा ओदनमर्थिनोर्यदि
श्रद्धा च वो यच्छत धर्मवित्तमा: ॥ ७ ॥

गाः चारयन्तौ अविदूरे ओदनम् राम-अच्युतौ वः लषतः बुभुक्षितौ तयोः द्विजाः ओदनम् अर्थिनोः यदि श्रद्धा च वः यच्छत धर्म-वित्-तमाः

दीक्षाया: पशुसंस्थाया: सौत्रामण्याश्च सत्तमा: ।
अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८ ॥

दीक्षायाः पशु-संस्थायाः सौत्रामण्याः च सत्-तमाः अन्यत्र दीक्षितस्य अपि न अन्नम् अश्नन् हि दुष्यति

इति ते भगवद्याच्ञां श‍ृण्वन्तोऽपि न शुश्रुवु: ।
क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिन: ॥ ९ ॥

इति ते भगवत् याच्ञाम् शृण्वन्तः अपि न शुश्रुवुः क्षुद्र-आशाः भूरि-कर्माणः बालिशाः वृद्ध-मानिनः

देश: काल: पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नय: ।
देवता यजमानश्च क्रतुर्धर्मश्च यन्मय: ॥ १० ॥
तं ब्रह्म परमं साक्षाद् भगवन्तमधोक्षजम् ।
मनुष्यद‍ृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥

देशः कालः पृथक् द्रव्यम् मन्त्र तन्त्र ऋत्विजः अग्नयः देवताः यजमानः च क्रतुः धर्मः च यत् मयः तम् ब्रह्म परमम् साक्षात् भगवन्तम् अधोक्षजम् मनुष्य-दृष्ट्या दुष्प्रज्ञाः मर्त्य-आत्मानः न मेनिरे

न ते यदोमिति प्रोचुर्न नेति च परन्तप ।
गोपा निराशा: प्रत्येत्य तथोचु: कृष्णरामयो: ॥ १२ ॥

न ते यत् ओम् इति प्रोचुः न न इति च परन्तप गोपाः निराशाः प्रत्येत्य तथा ऊचुः कृष्ण-रामयोः

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वर: ।
व्याजहार पुनर्गोपान् दर्शयन्लौकिकीं गतिम् ॥ १३ ॥

तत् उपाकर्ण्य भगवान् प्रहस्य जगत्-ईश्वरः व्याजहार पुनः गोपान् दर्शयन् लौकिकीम् गतिम्

मां ज्ञापयत पत्नीभ्य: ससङ्कर्षणमागतम् ।
दास्यन्ति काममन्नं व: स्निग्धा मय्युषिता धिया ॥ १४ ॥

माम् ज्ञापयत पत्नीभ्यः स-सङ्कर्षणम् आगतम् दास्यन्ति कामम् अन्नम् वः स्निग्धाः मयि उषिताः धिया

गत्वाथ पत्नीशालायां द‍ृष्ट्वासीना: स्वलङ्कृता: ।
नत्वा द्विजसतीर्गोपा: प्रश्रिता इदमब्रुवन् ॥ १५ ॥

गत्वा अथ पत्नी-शालायाम् दृष्ट्वा असीनाः सु-अलङ्कृताः नत्वा द्विज-सतीः गोपाः प्रश्रिताः इदम् अब्रुवन्

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि न: ।
इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥

नमः वः विप्र-पत्नीभ्यः निबोधत वचांसि नः इतः अविदूरे चरता कृष्णेन इह इषिताः वयम्

गाश्चारयन् स गोपालै: सरामो दूरमागत: ।
बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥

गाः चारयन् सः गोपालैः स-रामः दूरम् आगतः बुभुक्षितस्य तस्य अन्नम् स-अनुगस्य प्रदीयताम्

श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुका: ।
तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमा: ॥ १८ ॥

श्रुत्वा अच्युतम् उपायातम् नित्यम् तत्-दर्शन उत्सुकाः तत्-कथा आक्ष्पित मनसः बभूवुः जात-सम्भ्रमाः

चतुर्विधं बहुगुणमन्नमादाय भाजनै: ।
अभिसस्रु: प्रियं सर्वा: समुद्रमिव निम्नगा: ॥ १९ ॥

चतुः-विधम् बहु-गुणम् अन्नम् आदाय भाजनैः अभिसस्रुः प्रियम् सर्वाः समुद्रम् इव निम्न-गाः

निषिध्यमाना: पतिभिर्भ्रातृभिर्बन्धुभि: सुतै: ।
भगवत्युत्तमश्लोके दीर्घश्रुतधृताशया: ॥ २० ॥
यमुनोपवनेऽशोकनवपल्लवमण्डिते ।
विचरन्तं वृतं गोपै: साग्रजं दद‍ृशु: स्त्रिय: ॥ २१ ॥

निषिध्यमानाः पतिभिः भ्रातृभिः बन्धुभिः सुतैः भगवति उत्तम-श्लोके दीर्घ श्रुत धृत आशयाः यमुना-उपवने अशोक-नव-पल्लव मण्डिते विचरन्तम् वृतम् गोपैः स-अग्रजम् ददृशुः स्त्रियः

श्यामं हिरण्यपरिधिं वनमाल्यबर्ह-
धातुप्रवालनटवेषमनुव्रतांसे ।
विन्यस्तहस्तमितरेण धुनानमब्जं
कर्णोत्पलालककपोलमुखाब्जहासम् ॥ २२ ॥

श्यामम् हिरण्य परिधिम् वन-माल्य बर्ह धातु प्रवाल नट वेषम् अनुव्रत अंसे विन्यस्त हस्तम् इतरेण धुनानम् अब्जम् कर्ण उत्पल अलक-कपोल मुख-अब्ज हासम्

प्राय:श्रुतप्रियतमोदयकर्णपूरै-
र्यस्मिन् निमग्नमनसस्तमथाक्षिरन्ध्रै: ।
अन्त: प्रवेश्य सुचिरं परिरभ्य तापं
प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३ ॥

प्रायः श्रुत प्रिय-तम उदय कर्ण-पूरैः यस्मिन् निमग्न मनसः तम् अथ अक्षि-रन्ध्रैः अन्तः प्रवेश्य सु-चिरम् परिरभ्य तापम् प्राज्ञम् यथा अभिमतयः विजहुः नर-इन्द्र

तास्तथा त्यक्तसर्वाशा: प्राप्ता आत्मदिद‍ृक्षया ।
विज्ञायाखिलद‍ृग्द्रष्टा प्राह प्रहसितानन: ॥ २४ ॥

ताः तथा त्यक्त-सर्व-आशाः प्राप्ताः आत्म-दिदृक्षया विज्ञाय अखिल-दृक् द्रष्टा प्राह प्रहसित-आननः

स्वागतं वो महाभागा आस्यतां करवाम किम् ।
यन्नो दिद‍ृक्षया प्राप्ता उपपन्नमिदं हि व: ॥ २५ ॥

सु-आगतम् वः महा-भागाः आस्यताम् करवाम किम् यत् नः दिदृक्षया प्राप्ताः उपपन्नम् इदम् हि वः

नन्वद्धा मयि कुर्वन्ति कुशला: स्वार्थदर्शिन: ।
अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥

ननु अद्धा मयि कुर्वन्ति कुशलाः स्व-अर्थ दर्शिनः अहैतुकी अव्यवहिताम् भक्तिम् आत्म प्रिये यथा

प्राणबुद्धिमन:स्वात्मदारापत्यधनादय: ।
यत्सम्पर्कात्प्रिया आसंस्तत: को न्वपर: प्रिय: ॥ २७ ॥

प्राण बुद्धि मनः स्व आत्म दार अपत्य धन आदयः यत् सम्पर्कात् प्रियाः आसन् ततः कः नु अपरः प्रियः

तद् यात देवयजनं पतयो वो द्विजातय: ।
स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिन: ॥ २८ ॥

तत् यात देव-यजनम् पतयः वः द्वि-जातयः स्व-सत्रम् पारयिष्यन्ति युष्माभिः गृह-मेधिनः

श्रीपत्‍न्य ऊचु:
मैवं विभोऽर्हति भवान् गदितुं नृशंसं
सत्यं कुरुष्व निगमं तव पादमूलम् ।
प्राप्ता वयं तुलसिदाम पदावसृष्टं
केशैर्निवोढुमतिलङ्‌घ्य समस्तबन्धून् ॥ २९ ॥

श्री-पत्न्यः ऊचुः मा एवम् विभो अर्हति भवान् गदितुम् नृ-शंसम् सत्यम् कुरुष्व निगमम् तव पाद-मूलम् प्राप्ताः वयम् तुलसि-दाम पदा अवसृष्टम् केशैः निवोढुम् अतिलङ्घ्य समस्त बन्धून्

गृह्णन्ति नो न पतय: पितरौ सुता वा
न भ्रातृबन्धुसुहृद: कुत एव चान्ये ।
तस्माद् भवत्प्रपदयो: पतितात्मनां नो
नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥

गृह्णन्ति नः न पतयः पितरौ सुताः वा न भ्रातृ बन्धु सुहृदः कुतः एव च अन्ये तस्मात् भवत् प्रपदयोः पतित आत्मनाम् नः न अन्या भवेत् गतिः अरिम्-दम तत् विधेहि

श्रीभगवानुवाच
पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादय: ।
लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥

श्री-भगवान् उवाच पतयः न अभ्यसूयेरन् पितृ-भ्रातृ-सुत-आदयः लोकाः च वः मया उपेताः देवाः अपि अनुमन्वते

न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह ।
तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ ॥ ३२ ॥

न प्रीतये अनुरागाय हि अङ्ग-सङ्गः नृणाम् इह तत् मनः मयि युञ्जानाः अचिरात् माम् अवाप्स्यथ

श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ ३३ ॥

श्रवणात् दर्शनात् ध्यानात् मयि भावः अनुकीर्तनात् न तथा सन्निकर्षेण प्रतियात ततः गृहान्

श्रीशुक उवाच
इत्युक्ता द्विजपत्‍न्यस्ता यज्ञवाटं पुनर्गता: ।
ते चानसूयवस्ताभि: स्त्रीभि: सत्रमपारयन् ॥ ३४ ॥

श्री-शुकः उवाच इति उक्ताः द्विज-पत्न्यः ताः यज्ञ-वाटम् पुनः गताः ते च अनसूयवः ताभिः स्त्रीभिः सत्रम् अपारयन्

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् ।
हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३५ ॥

तत्र एका विधृता भर्त्रा भगवन्तम् यथा-श्रुतम् हृदा उपगुह्य विजहौ देहम् कर्म-अनुबन्धनम्

भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् ।
चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभु: ॥ ३६ ॥

भगवान् अपि गोविन्दः तेन एव अन्नेन गोपकान् चतुः-विधेन अशयित्वा स्वयम् च बुभुजे प्रभुः

एवं लीलानरवपुर्नृलोकमनुशीलयन् ।
रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतै: ॥ ३७ ॥

एवम् लीला नर वपुः नृ-लोकम् अनुशीलयन् रेमे गो गोप गोपीनाम् रमयन् रूप वाक् कृतैः

अथानुस्मृत्य विप्रास्ते अन्वतप्यन्कृतागस: ।
यद् विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयो: ॥ ३८ ॥

अथ अनुस्मृत्य विप्राः ते अन्वतप्यन् कृत-अगसः यत् विश्व-ईश्वरयोः याच्ञाम् अहन्म न्र्-विडम्बयोः

द‍ृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् ।
आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् ॥ ३९ ॥

दृष्ट्वा स्त्रीणाम् भगवति कृष्णे भक्तिम् अलौकिकीम् आत्मानम् च तया हीनम् अनुतप्ताः व्यगर्हयन्

धिग् जन्म नस्त्रिवृद् यत् तद् धिग्‌व्रतं धिग्‌‌बहुज्ञताम् ।
धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ४० ॥

धिक् जन्म नः त्रि-वृत् यत् तत् धिक् व्रतम् धिक् बहु-ज्ञताम् धिक् कुलम् धिक् क्रिया-दाक्ष्यम् विमुखः ये तु अधोक्षजे

नूनं भगवतो माया योगिनामपि मोहिनी ।
यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजा: ॥ ४१ ॥

नूनम् भगवतः माया योगिनाम् अपि मोहिनी यत् वयम् गुरवः नृणाम् स्व-अर्थे मुह्यामहे द्विजाः

अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ ।
दुरन्तभावं योऽविध्यन्मृत्युपाशान् गृहाभिधान् ॥ ४२ ॥

अहो पश्यत नारीणाम् अपि कृष्णे जगत्-गुरौ दुरन्त भावम् यः अविध्यत् मृत्यु पाशान् गृह-अभिधान्

नासां द्विजातिसंस्कारो न निवासो गुरावपि ।
न तपो नात्ममीमांसा न शौचं न क्रिया: शुभा: ॥ ४३ ॥
तथापि ह्युत्तम:श्लोके कृष्णे योगेश्वरेश्वरे ।
भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४४ ॥

न आसाम् द्विजाति-संस्कारः न निवासः गुरौ अपि न तपः न आत्म-मीमांसा न शौचम् न क्रियाः शुभाः तथा अपि हि उत्तमः-श्लोके कृष्णे योग-ईश्वर-ईश्वरे भक्तिः दृढा न च अस्माकम् संस्कार-आदि-मताम् अपि

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ।
अहो न: स्मारयामास गोपवाक्यै: सतां गति: ॥ ४५ ॥

ननु स्व-अर्थ विमूढानाम् प्रमत्तानाम् गृह-ईहया अहो नः स्मारयाम् आस गोप-वाक्यैः सताम् गतिः

अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पते: ।
ईशितव्यै: किमस्माभिरीशस्यैतद् विडम्बनम् ॥ ४६ ॥

अन्यथा पूर्ण-कामस्य कैवल्य आदि आशिषाम् पतेः ईशितव्यैः किम् अस्माभिः ईशस्य एतत् विडम्बनम्

हित्वान्यान् भजते यं श्री: पादस्पर्शाशयासकृत् ।
स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४७ ॥

हित्वा अन्यान् भजते यम् रीः पाद-स्पर्श आशया असकृत् स्व-आत्म दोष अपवर्गेण तत् याच्ञा जन मोहिनी

देश: काल: पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नय: ।
देवता यजमानश्च क्रतुर्धर्मश्च यन्मय: ॥ ४८ ॥
स एव भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वर: ।
जातो यदुष्वित्याश‍ृण्म ह्यपि मूढा न विद्महे ॥ ४९ ॥

देशः कालः पृथक् द्रव्यम् मन्त्र तन्त्र ऋत्विजः अग्नयः देवता यजमानः च क्रतुः धर्मः च यत् मयः सः एव भगवान् साक्षात् विष्णुः योग-ईश्वर-ईश्वरः जातः यदुषु इति आशृण्म हि अपि मूढाः न विद्महे

तस्मै नमो भगवते कृष्णायाकुण्ठमेधसे ।
यन्मायामोहितधियो भ्रमाम: कर्मवर्त्मसु ॥ ५० ॥

तस्मै नमः भगवते कृष्णाय अकुण्ठ-मेधसे यत्-माया मोहित धियः भ्रमामः कर्म-वर्त्मसु

स वै न आद्य: पुरुष: स्वमायामोहितात्मनाम् ।
अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१ ॥

सः वै नः आद्यः पुरुषः स्व-मया-मोहित-आत्मनाम् अविज्ञात अनुभावानाम् क्षन्तुम् अर्हति अतिक्रमम्

इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलना: ।
दिदृक्षवो व्रजमथ कंसाद् भीता न चाचलन् ॥ ५२ ॥

इति स्व-अघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः दिदृक्षवः व्रजम् अथ कंसात् भीताः न च अचलन्

१०.२४

श्रीशुक उवाच
भगवानपि तत्रैव बलदेवेन संयुत: ।
अपश्यन्निवसन्गोपानिन्द्रयागकृतोद्यमान् ॥ १ ॥

श्री-शुकः उवाच भगवान् अपि तत्र एव बलदेवेन संयुतः अपश्यत् निवसन् गोपान् इन्द्र याग कृत उद्यमान्

तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शन: ।
प्रश्रयावनतोऽपृच्छद् वृद्धान् नन्दपुरोगमान् ॥ २


तत्-अभिज्ञः अपि भगवान् सर्व-आत्मा सर्व-दर्शनः प्रश्रय-अवनतः अपृच्छत् वृद्धान् नन्द-पुरः-गमान्

कथ्यतां मे पित: कोऽयं सम्भ्रमो व उपागत: ।
किं फलं कस्य वोद्देश: केन वा साध्यते मख: ॥ ३


कथ्यताम् मे पितः कः अयम् सम्भ्रमः वः उपागतः किम् फलम् कस्य वा उद्देशः केन वा साध्यते मखः

एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पित: ।
न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ।
अस्त्यस्वपरद‍ृष्टीनाममित्रोदास्तविद्विषाम् ॥ ४ ॥

एतत् ब्रूहि महान् कामः मह्यम् शुश्रूषवे पितः न हि गोप्यम् हि साधूनाम् कृत्यम् सर्व-आत्मनाम् इह अस्ति अस्व-पर-दृष्टीनाम् अमित्र-उदास्त-विद्विषाम्

उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते ॥ ५ ॥

उदासीनः अरि-वत् वर्ज्यः आत्म-वत् सुहृत् उच्यते

ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।
विदुष: कर्मसिद्धि: स्याद् यथा नाविदुषो
भवेत् ॥ ६ ॥

ज्ञात्वा अज्ञात्वा च कर्माणि जनः अयम् अनुतिष्ठति विदुषः कर्म-सिद्धिः स्यात् यथा न अविदुषः भवेत्

तत्र तावत् क्रियायोगो भवतां किं विचारित: ।
अथवा लौकिकस्तन्मे पृच्छत: साधु भण्यताम् ॥
७ ॥

तत्र तावत् क्रिया-योगः भवताम् किम् विचारितः अथ वा लौकिकः तत् मे पृच्छतः साधु भण्यताम्

श्रीनन्द उवाच
पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तय: ।
तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पय: ॥ ८


श्री-नन्दः उवाच पर्जन्यः भगवान् इन्द्रः मेघाः तस्य आत्म-मूर्तयः ते अभिवर्षन्ति भूतानाम् प्रीणनम् जीवनम् पयः

तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् ।
द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नरा: ॥ ९ ॥

तम् तात वयम् अन्ये च वाः-मुचाम् पतिम् ईश्वरम् द्रव्यैः तत्-रेतसा सिद्धैः यजन्ते क्रतुभिः नराः

तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे ।
पुंसां पुरुषकाराणां पर्जन्य: फलभावन: ॥ १० ॥

तत् शेषेण उपजीवन्ति त्रि-वर्ग फल-हेतवे पुंसाम् पुरुष-काराणाम् पर्जन्यः फल-भावनः

य एनं विसृजेद् धर्मं परम्पर्यागतं नर: ।
कामाद् द्वेषाद्भ‍याल्लोभात्स वै नाप्नोति शोभनम् ॥
११ ॥

यः एनम् विसृजेत् धर्मम् परम्पर्य आगतम् नरः कामात् द्वेषात् भयात् लोभात् सः वै न आप्नोति शोभनम्

श्रीशुक उवाच
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।
इन्द्राय मन्युं जनयन् पितरं प्राह केशव: ॥ १२ ॥

श्री शुकः उवाच वचः निशम्य नन्दस्य तथा अन्येषाम् व्रज-ओकसाम् इन्द्राय मन्युम् जनयन् पितरम् प्राह केशवः

श्रीभगवानुवाच
कर्मणा जायते जन्तु: कर्मणैव प्रलीयते ।
सुखं दु:खं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३ ॥

श्री-भगवान् उवाच कर्मणा जायते जन्तुः कर्मणा एव प्रलीयते सुखम् दुःखम् भयम् क्षेमम् कर्मणा एव अभिपद्यते

अस्ति चेदीश्वर: कश्चित्फलरूप्यन्यकर्मणाम् ।
कर्तारं भजते सोऽपि न ह्यकर्तु: प्रभुर्हि स: ॥
१४ ॥

अस्ति चेत् ईश्वरः कश्चित् फल-रूपी अन्य-कर्मणाम् कर्तारम् भजते सः अपि न हि अकर्तुः प्रभुः हि सः

किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।
अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥

किम् इन्द्रेण इह भूतानाम् स्व-स्व कर्म अनुवर्तिनाम् अनीशेन अन्यथा कर्तुम् स्वभाव विहितम् नृणाम्

स्वभावतन्त्रो हि जन: स्वभावमनुवर्तते ।
स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥

स्वभाव तन्त्रः हि जनः स्वभावम् अनुवर्तते स्वभाव-स्थम् इदम् सर्वम् स देव असुर मानुषम्

देहानुच्चावचाञ्जन्तु: प्राप्योत्सृजति कर्मणा ।
शत्रुर्मित्रमुदासीन: कर्मैव गुरुरीश्वर: ॥ १७ ॥

देहान् उच्च-अवचान् अन्तुः प्राप्य उत्सृजति कर्मणा शत्रुः मित्रम् उदासीनः कर्म एव गुरुः ईश्वरः

तस्मात्सम्पूजयेत्कर्म स्वभावस्थ: स्वकर्मकृत् ।
अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥

तस्मात् सम्पूजयेत् कर्म स्वभाव स्थः स्व-कर्म कृत् अञ्जसा येन वर्तेत तत् एव अस्य हि दैवतम्

आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।
न तस्माद् विन्दते क्षेमं जारान् नार्यसती यथा ॥ १९ ॥

आजीव्य एकतरम् भावम् यः तु अन्यम् उपजीवति न तस्मात् विन्दते क्षेमम् जारात् नारी असती यथा

वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुव: ।
वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥
२० ॥

वर्तेत ब्रह्मणा विप्रः राजन्यः रक्षया भुवः वैश्यः तु वार्तया जीवेत् शूद्रः तु द्विज-सेवया

कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते ।
वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१ ॥

कृषि वाणिज्य गो-रक्षा कुसीदम् तूर्यम् उच्यते वार्ता चतुः-विधा तत्र वयम् गो-वृत्तयः अनिशम्

सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतव: ।
रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २२ ॥

सत्त्वम् रजः तमः इति स्थिति उत्पत्ति अन्त हेतवः रजसा उत्पद्यते विश्वम् अन्योन्यम् विविधम् जगत्

रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वत: ।
प्रजास्तैरेव सिध्यन्ति महेन्द्र: किं करिष्यति ॥
२३ ॥

रजसा चोदिताः मेघाः वर्षन्ति अम्बूनि सर्वतः प्रजाः तैः एव सिध्यन्ति महा-इन्द्रः किम् करिष्यति

न न: पुरो जनपदा न ग्रामा न गृहा वयम् ।
वनौकसस्तात नित्यं वनशैलनिवासिन: ॥ २४ ॥

न नः पुरः जन-पदाः न ग्रामाः न गृहाः वयम् वन-ओकसः तात नित्यम् वन शैल निवासिनः

तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मख: ।
य इन्द्रयागसम्भारास्तैरयं साध्यतां मख: ॥ २५


तस्मात् गवाम् ब्राह्मणानाम् अद्रेः च आरभ्यताम् मखः ये इन्द्र-याग सम्भाराः तैः अयम् साध्यताम् मखः

पच्यन्तां विविधा: पाका: सूपान्ता: पायसादय: ।
संयावापूपशष्कुल्य: सर्वदोहश्च गृह्यताम् ॥
२६ ॥

पच्यन्ताम् विविधाः पाकाः सूप-अन्ताः पायस-आदयः संयाव-आपूप शष्कुल्यः सर्व दोहः च गृह्यताम्

हूयन्तामग्नय: सम्यग्ब्राह्मणैर्ब्रह्मवादिभि: ।
अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणा: ॥ २७ ॥

हूयन्ताम् अग्नयः सम्यक् ब्राह्मणैः ब्रह्म-वादिभिः अन्नम् बहु-गुणम् तेभ्यः देयम् वः धेनु-दक्षिणाः

अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हत: ।
यवसं च गवां दत्त्वा गिरये दीयतां बलि: ॥ २८ ॥

अन्येभ्यः च आ-श्व-चाण्डाल पतितेभ्यः यथा अर्हतः यवसम् च गवाम् दत्त्वा गिरये दीयताम् बलिः

स्वलङ्कृता भुक्तवन्त: स्वनुलिप्ता: सुवासस: ।
प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९ ॥

सु-अलङ्कृताः भुक्तवन्तः सु-अनुलिप्ताः सु-वाससः प्रदक्षिणाम् च कुरुत गो विप्र अनल पर्वतान्

एतन्मम मतं तात क्रियतां यदि रोचते ।
अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मख: ॥ ३० ॥

एतत् मम मतम् तात क्रियताम् यदि रोचते अयम् गो-ब्राह्मण-अद्रीणाम् मह्यम् च दयितः मखः

श्रीशुक उवाच
कालात्मना भगवता शक्रदर्प जिघांसया ।
प्रोक्तं निशम्य नन्दाद्या: साध्वगृह्णन्त तद्वच: ॥
३१ ॥

श्री-शुकः उवाच काल-आत्मना भगवता शक्र दर्प जिघांसया प्रोक्तम् निशम्य नन्द-आद्याः साधु अगृह्णन्त तत्-वचः

तथा च व्यदधु: सर्वं यथाह मधुसूदन: ।
वाचयित्वा स्वस्त्ययनं तद्‌‌द्रव्येण गिरिद्विजान् ॥ ३२ ॥
उपहृत्य बलीन् सम्यगाद‍ृता यवसं गवाम् ।
गोधनानि पुरस्कृत्य गिरिं चक्रु: प्रदक्षिणम् ॥ ३३ ॥

तथा च व्यदधुः सर्वम् यथा आह मधुसूदनः वाचयित्वा स्वस्ति-अयनम् तत्-द्रव्येण गिरि द्विजान् उपहृत्य बलीन् सम्यक् आदृताः यवसम् गवाम् गो-धनानि पुरस्कृत्य गिरिम् चक्रुः प्रदक्षिणम्

अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृता: ।
गोप्यश्च कृष्णवीर्याणि गायन्त्य: सद्विजाशिष: ॥
३४ ॥

अनांसि अनडुत्-युक्तानि ते च आरुह्य सु-अलङ्कृताः गोप्यः च कृष्ण-वीर्याणि गायन्त्यः स द्विज आशिषः

कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गत: ।
शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपु: ॥ ३५ ॥

कृष्णः तु अन्यतमम् रूपम् गोप-विश्रम्भणम् गतः शैलः अस्मि इति ब्रुवन् भूरि बलिम् आदत् बृहत्-वपुः

तस्मै नमो व्रजजनै: सह चक्र आत्मनात्मने ।
अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६


तस्मै नमः व्रज-जनैः सह चक्रे आत्मना आत्मने अहो पश्यत शैलः असौ रूपी नः अनुग्रहम् व्यधात्

एषोऽवजानतो मर्त्यान् कामरूपी वनौकस: ।
हन्ति ह्यस्मै नमस्याम: शर्मणे आत्मनो गवाम् ॥ ३७


एषः अवजानतः मर्त्यान् काम-रूपी वन-ओकसः हन्ति हि अस्मै नमस्यामः शर्मणे आत्मनः गवाम्

इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिता: ।
यथा विधाय ते गोपा सहकृष्णा व्रजं ययु: ॥ ३८ ॥

इति अद्रि गो द्विज मखम् वासुदेव प्रचोदिताः यथा विधाय ते गोपाः सह-कृष्णाः व्रजम् ययुः

१०.२५

श्रीशुक उवाच
इन्द्रस्तदात्मन: पूजां विज्ञाय विहतां नृप ।
गोपेभ्य: कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १


श्री-शुकः उवाच इन्द्रः तदा आत्मनः पूजाम् विज्ञाय विहताम् नृप गोपेभ्यः कृष्ण-नाथेभ्यः नन्द-आदिभ्यः चुकोप ह

गणं सांवर्तकं नाम मेघानां चान्तकारीणाम् ।
इन्द्र: प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ॥ २


गणम् सांवर्तकम् नाम मेघानाम् च अन्त-कारिणाम् इन्द्रः प्रचोदयत् क्रुद्धः वाक्यम् च आह ईश-मानी उत

अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् ।
कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥

अहो श्री मद माहात्म्यम् गोपानाम् कानन ओकसाम् कृष्णम् मर्त्यम् उपाश्रित्य ये चक्रुः देव हेलनम्

यथाद‍ृढै: कर्ममयै: क्रतुभिर्नामनौनिभै: ।
विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम्
॥ ४ ॥

यथा अदृढैः कर्म-मयैः क्रतुभिः नाम नौ-निभैः विद्याम् आन्वीक्षिकीम् हित्वा तितीर्षन्ति भव-अर्णवम्

वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् ।
कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५


वाचालम् बालिशम् स्तब्धम् अज्ञम् पण्डित-मानिनम् कृष्णम् मर्त्यम् उपाश्रित्य गोपाः मे चक्रुः अप्रियम्

एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् ।
धुनुत श्रीमदस्तम्भं पशून् नयत सङ्‌क्षयम् ॥ ६ ॥

एषाम् श्रिया अवलिप्तानाम् कृष्णेन आध्मापित आत्मनाम् धुनुत श्री मद स्तम्भम् पशून् नयत सङ्क्षयम्

अहं चैरावतं नागमारुह्यानुव्रजे व्रजम् ।
मरुद्गणैर्महावेगैर्नन्दगोष्ठजिघांसया ॥ ७ ॥

अहम् च ऐरावतम् नागम् आरुह्य अनुव्रजे व्रजम् मरुत्-गणैः महा-वेगैः नन्द-गोष्ठ जिघांसया

श्रीशुक उवाच
इत्थं मघवताज्ञप्ता मेघा निर्मुक्तबन्धना: ।
नन्दगोकुलमासारै: पीडयामासुरोजसा ॥ ८ ॥

श्री-शुकः उवाच इत्थम् मघवता आज्ञप्ताः मेघाः निर्मुक्त-बन्धनाः नन्द-गोकुलम् आसारैः पीडयाम् आसुः ओजसा

विद्योतमाना विद्युद्भ‍ि: स्तनन्त: स्तनयित्नुभि: ।
तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्करा: ॥ ९


विद्योतमानाः विद्युद्भिः स्तनन्तः स्तनयित्नुभिः तीव्रैः मरुत्-गणैः नुन्नाः ववृषुः जल-शर्कराः

स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णश: ।
जलौघै: प्लाव्यमाना भूर्नाद‍ृश्यत नतोन्नतम् ॥
१० ॥

स्थूणा स्थूलाः वर्स-धाराः मुञ्चत्सु अभ्रेषु अभीक्ष्णशः जल-ओघैः प्लाव्यमाना भूः न अदृश्यत नतौन्नतम्

अत्यासारातिवातेन पशवो जातवेपना: ।
गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययु: ॥ ११ ॥

अति-आसार अति-वातेन पशवः जात-वेपनाः गोपाः गोप्यः च शीत आर्ताः गोविन्दम् शरणम् ययुः

शिर: सुतांश्च कायेन प्रच्छाद्यासारपीडिता: ।
वेपमाना भगवत: पादमूलमुपाययु: ॥ १२ ॥

शिरः सुतान् च कायेन प्रच्छाद्य आसार-पीडिताः वेपमानाः भगवतः पाद-मूलम् उपाययुः

कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो ।
त्रातुमर्हसि देवान्न: कुपिताद् भक्तवत्सल ॥ १३ ॥

कृष्ण कृष्ण महा-भग त्वत्-नाथम् गो-कुलम् प्रभो त्रातुम् अर्हसि देवात् नः कुपितात् भक्त-वत्सल

शिलावर्षातिवातेन हन्यमानमचेतनम् ।
निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरि: ॥ १४ ॥

शिला वर्ष अति-वातेन हन्यमानम् अचेतनम् निरीक्ष्य भगवान् मेने कुपित इन्द्र कृतम् हरिः

अपर्त्वत्युल्बणं वर्षमतिवातं शिलामयम् ।
स्वयागे विहतेऽस्माभिरिन्द्रो नाशाय वर्षति ॥ १५ ॥

अप-ऋतु अति-उल्बणम् वर्षम् अति-वातम् शिला-मयम् स्व-यगे विहते अस्माभिः इन्द्रः नाशाय वर्षति

तत्र प्रतिविधिं सम्यगात्मयोगेन साधये ।
लोकेशमानिनां मौढ्याद्धनिष्ये श्रीमदं तम: ॥ १६ ॥

तत्र प्रति-विधिम् सम्यक् आत्म-योगेन साधये लोक-ईश मानिनाम् मौढ्यात् हनिष्ये श्री-मदम् तमः

न हि सद्भ‍ावयुक्तानां सुराणामीशविस्मय: ।
मत्तोऽसतां मानभङ्ग: प्रशमायोपकल्पते ॥ १७ ॥

न हि सत्-भाव युक्तानाम् सुराणाम् ईश विस्मयः मत्तः असताम् मान भङ्गः प्रशमाय उपकल्पते

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।
गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहित: ॥ १८


तस्मात् मत्-शरणम् गोष्ठम् मत्-नाथम् मत्-परिग्रहम् गोपाये स्व-आत्म-योगेन सः अयम् मे व्रतः आहितः

इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।
दधार लीलया विष्णुश्छत्राकमिव बालक: ॥ १९ ॥

इति उक्त्वा एकेन हस्तेन कृत्वा गोवर्धन-अचलम् दधार लीलया विष्णुः छत्राकम् इव बालकः

अथाह भगवान् गोपान्हेऽम्ब तात व्रजौकस: ।
यथोपजोषं विशत गिरिगर्तं सगोधना: ॥ २० ॥

अथ आह भगवान् गोपान् हे अम्ब तात व्रज-ओकसः यथा-उपजोषम् विशत गिरि गर्तम् स-गोधनाः

न त्रास इह व: कार्यो मद्धस्ताद्रिनिपातनात् ।
वातवर्षभयेनालं तत्‍त्राणं विहितं हि व: ॥
२१ ॥

न त्रासः इह वः कार्यः मत्-हस्त अद्रि निपातनात् वात वर्ष भयेन अलम् तत्-त्राणम् विहितम् हि वः

तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानस: ।
यथावकाशं सधना: सव्रजा: सोपजीविन: ॥ २२ ॥

तथा निर्विविशुः गर्तम् कृष्ण आश्वासित मानसः यथा-अवकाशम् स-धनाः स-व्रजाः स-उपजीविनः

क्षुत्तृड्‍‌‌‌व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभि: ।
वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत्
पदात् ॥ २३ ॥

क्षुत् तृट् व्यथाम् सुख अपेक्षाम् हित्वा तैः व्रज-वासिभिः वीक्ष्यमाणः दधार अद्रिम् सप्त-अहम् न अचलत् पदात्

कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मित: ।
निस्तम्भो भ्रष्टसङ्कल्प: स्वान्मेघान्
सन्न्यवारयत् ॥ २४ ॥

कृष्ण योग अनुभावम् तम् निशम्य इन्द्रः अति-विस्मितः निस्तम्भः भ्रष्ट सङ्कल्पः स्वान् मेघान् सन्न्यवारयत्

खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् ।
निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ २५ ॥

खम् वि-अभ्रम् उदित आदित्यम् वात-वर्षम् च दारुणम् निशम्य उपरतम् गोपान् गोवर्धन-धरः अब्रवीत्

निर्यात त्यजत त्रासं गोपा: सस्त्रीधनार्भका: ।
उपारतं वातवर्षं व्युदप्रायाश्च निम्नगा: ॥
२६ ॥

निर्यात त्यजत त्रासम् गोपाः स स्त्री धन अर्भकाः उपारतम् वात-वर्षम् वि-उद प्रायाः च निम्नगाः

ततस्ते निर्ययुर्गोपा: स्वं स्वमादाय गोधनम् ।
शकटोढोपकरणं स्त्रीबालस्थविरा: शनै: ॥ २७ ॥

ततः ते निर्ययुः गोपाः स्वम् स्वम् आदाय गो-धनम् शकट ऊढ उपकरणम् स्त्री बाल स्थविराः शनैः

भगवानपि तं शैलं स्वस्थाने पूर्ववत् प्रभु: ।
पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥

भगवान् अपि तम् शैलम् स्व-स्थाने पूर्व-वत् प्रभुः पश्यताम् सर्व-भूतानाम् स्थापयाम् आस लीलया

तं प्रेमवेगान्निर्भृता व्रजौकसोयथा समीयु: परिरम्भणादिभि: ।
गोप्यश्च सस्‍नेहमपूजयन्
मुदादध्यक्षताद्भ‍िर्युयुजु: सदाशिष: ॥ २९ ॥

तम् प्रेम वेगात् निर्भृताः व्रज-ओकसः यथा समीयुः परिरम्भण-आदिभिः गोप्यः च स-स्नेहम् अपूजयन् मुदा दधि अक्षत अद्भिः युयुजुः सत् आशिषः

यशोदा रोहिणी नन्दो रामश्च बलिनां वर: ।
कृष्णमालिङ्‌‌ग्य युयुजुराशिष: स्‍नेहकातरा: ॥ ३०


यशोदा रोहिणी नन्दः रामः च बलिनाम् वरः कृष्णम् आलिङ्ग्य युयुजुः आशिषः स्नेह कातराः

दिवि देवगणा: सिद्धा: साध्या गन्धर्वचारणा: ।
तुष्टुवुर्मुमुचुस्तुष्टा: पुष्पवर्षाणि पार्थिव ॥
३१ ॥

दिवि देव-गणाः सिद्धाः साध्याः गन्धर्व-चारणाः तुष्टुवुः मुमुचुः तुष्टाः पुष्प-वर्षाणि पार्थिव

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिता: ।
जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ॥ ३२ ॥

शङ्ख दुन्दुभयः नेदुः दिवि देव-प्रचोदिताः जगुः गन्धर्व-पतयः तुम्बुरु-प्रमुखाः नृप

ततोऽनुरक्तै: पशुपै: परिश्रितोराजन् स्वगोष्ठं सबलोऽव्रजद्धरि: ।
तथाविधान्यस्य कृतानि
गोपिकागायन्त्य ईयुर्मुदिता हृदिस्पृश: ॥ ३३ ॥

ततः अनुरक्तैः पशु-पैः परिश्रितः राजन् स्व-गोष्ठम् स-बलः अव्रजत् हरिः तथा-विधानि अस्य कृतानि गोपिकाः गायन्त्यः ईयुः मुदिताः हृदि-स्पृशः

१०.२६

श्रीशुक उवाच
एवंविधानि कर्माणि गोपा: कृष्णस्य वीक्ष्य ते ।
अतद्वीर्यविद: प्रोचु: समभ्येत्य सुविस्मिता:
॥ १ ॥

श्री-शुकः उवाच एवम्-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते अतत्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः

बालकस्य यदेतानि कर्माण्यत्यद्भ‍ुतानि वै ।
कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २ ॥

बालकस्य यत् एतानि कर्माणि अति-अद्भुतानि वै कथम् अर्हति असौ जन्म ग्राम्येषु आत्म जुगुप्सितम्

य: सप्तहायनो बाल: करेणैकेन लीलया ।
कथं
बिभ्रद् गिरिवरं पुष्करं गजराडिव ॥ ३ ॥

यः सप्त-हायनः बालः करेण एकेन लीलया कथम् बिभ्रत् गिरि-वरम् पुष्करम् गज-राट् इव

तोकेनामीलिताक्षेण पूतनाया महौजस:

पीत: स्तन: सह प्राणै: कालेनेव वयस्तनो: ॥ ४ ॥

तोकेन आ-मीलित अक्षेण पूतनायाः महा-ओजसः पीतः स्तनः सह प्राणैः कालेन इव वयः तनोः

हिन्वतोऽध: शयानस्य मास्यस्य चरणावुदक् ।
अनोऽपतद् विपर्यस्तं रुदत: प्रपदाहतम् ॥ ५ ॥

हिन्वतः अधः शयानस्य मास्यस्य चरणौ उदक् अनः अपतत् विपर्यस्तम् रुदतः प्रपद आहतम्

एकहायन आसीनो ह्रियमाणो विहायसा ।
दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम् ॥ ६ ॥

एक-हायनः आसीनः ह्रियमाणः विहायसा दैत्येन यः तृणावर्तम् अहन् कण्ठ ग्रह आतुरम्

क्‍वचिद्धैयङ्गवस्तैन्ये मात्रा बद्ध उदूखले ।
गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७ ॥

क्वचित् हैयङ्गव स्तैन्ये मात्रा बद्धः उदूखले गच्छन् अर्जुनयोः मध्ये बाहुभ्याम् तौ अपातयत्

वने सञ्चारयन् वत्सान् सरामो बालकैर्वृत: ।
हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८ ॥

वने सञ्चारयन् वत्सान् सरामः बालकैः वृतः हन्तु-कामम् बकम् दोर्भ्याम् मुखतः अरिम् अपाटयत्

वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया ।
हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९ ॥

वत्सेषु वत्स-रूपेण प्रविशन्तम् जिघांसया हत्वा न्यपातयत् तेन कपित्थानि च लीलया

हत्वा रासभदैतेयं तद्ब‍न्धूंश्च बलान्वित: ।
चक्रे तालवनं क्षेमं परिपक्‍वफलान्वितम् ॥ १० ॥

हत्वा रासभ दैतेयम् तत्-बन्धून् च बल-अन्वितः चक्रे ताल-वनम् क्षेमम् परिपक्व फल अन्वितम्

प्रलम्बं घातयित्वोग्रं बलेन बलशालिना ।
अमोचयद् व्रजपशून्गोपांश्चारण्यवह्नित: ॥ ११ ॥

प्रलम्बम् घाययित्वा उग्रम् बलेन बल-शालिना अमोचयत् व्रज-पशून् गोपान् च आरण्य वह्नितः

आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।
प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥
१२ ॥

आशी विष-तम अहि इन्द्रम् दमित्वा विमदम् ह्रदात् प्रसह्य उद्वास्य यमुनाम् चक्रे असौ निर्विष उदकाम्

दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्दते तनयेऽस्मासु तस्याप्यौत्पत्तिक: कथम्
॥ १३ ॥

दुस्त्यजः च अनुरागः अस्मिन् सर्वेषाम् नः व्रज-ओकसाम् नन्द ते तनये अस्मासु तस्य अपि औत्पत्तिकः कथम्

क्‍व सप्तहायनो बाल: क्‍व महाद्रिविधारणम् ।
ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥ १४


क्व सप्त-हायनः बालः क्व महा-अद्रि विधारणम् ततः नः जायते शङ्का व्रज-नाथ तव आत्मजे

श्रीनन्द उवाच
श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके ।
एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५ ॥

श्री-नन्दः उवाच श्रूयताम् मे वचः गोपाः व्येतु शङ्का च वः अर्भके एनम् कुमारम् उद्दिश्य गर्गः मे यत् उवाच ह

वर्णास्त्रय: किलास्यासन् गृह्णतोऽनुयुगं तनू: ।
शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गत: ॥
१६ ॥

वर्णाः त्रयः किल अस्य आसन् गृह्णतः अनु-युगम् तनूः शुक्लः रक्तः तथा पीतः इदानीम् कृष्णताम् गतः

प्रागयं वसुदेवस्य क्‍वचिज्जातस्तवात्मज: ।
वासुदेव इति श्रीमानभिज्ञा: सम्प्रचक्षते ॥ १७ ॥

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः वासुदेवः इति श्रीमान् अभिज्ञाः सम्प्रचक्षते

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुणकर्मानुरूपाणि तान्यहं वेद नो जना: ॥ १८ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते गुण-कर्म-अनुरूपाणि तानि अहम् वेद न उ जनाः

एष व: श्रेय आधास्यद् गोपगोकुलनन्दन: ।
अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९ ॥

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः अनेन सर्व-दुर्गाणि यूयम् अञ्जः तरिष्यथ

पुरानेन व्रजपते साधवो दस्युपीडिता: ।
अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिता: ॥ २० ॥

पुरा अनेन व्रज-पते साधवः दस्यु-पीडिताः अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः

य एतस्मिन् महाभागे प्रीतिं कुर्वन्ति मानवा:

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुरा: ॥ २१ ॥

ये एतस्मिन् महा-भागे प्रीतिम् कुर्वन्ति मानवाः न अरयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः

तस्मान्नन्द कुमारोऽयं नारायणसमो गुणै:

श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मय: ॥ २२ ॥

तस्मात् नन्द कुमारः अयम् नारायण-समः गुणैः श्रिया कीर्त्या अनुभावेन तत् कर्मसु न विस्मयः

इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।
मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ॥ २३ ॥

इति अद्धा माम् समादिश्य गर्गे च स्व-गृहम् गते मन्ये नारायणस्य अंशम् कृष्णम् अक्लिष्ट-कारिणम्

इति नन्दवच: श्रुत्वा गर्गगीतं व्रजौकस: ।
मुदिता नन्दमानर्चु: कृष्णं च गतविस्मया: ॥ २४ ॥

इति नन्द-वचः श्रुत्वा गर्ग-गीतम् व्रज-ओकसः मुदिताः नन्दम् आनर्चुः कृष्णम् च गत विस्मयाः

देवे वर्षति यज्ञविप्लवरुषा वज्राश्मवर्षानिलै:सीदत्पालपशुस्त्रियात्मशरणं द‍ृष्ट्वानुकम्प्युत्स्मयन्

उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथाबिभ्रद् गोष्ठमपान्महेन्द्रमदभित् प्रीयान्न
इन्द्रो गवाम् ॥ २५ ॥

देवे वर्षति यज्ञ विप्लव रुषा वज्र अश्म-वर्ष अनिलैः सीदत् पाल पशु स्त्रि आत्म शरणम् दृष्ट्वा अनुकम्पी उत्स्मयन् उत्पाट्य एक-करेण शैलम् अबलः लीला उच्छिलीन्ध्रम् यथा बिभ्रत् गोष्ठम् अपात् महा-इन्द्र मद भित् प्रीयात् नः इन्द्रः गवाम्

१०.२७

श्रीशुक उवाच
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे ।
गोलोकादाव्रजत्कृष्णं सुरभि: शक्र एव च ॥ १ ॥

श्री-शुकः उवाच गोवर्धने धृते शैले आसारात् रक्षिते व्रजे गो-लोकात् आव्रजत् कृष्णम् सुरभिः शक्रः एव च

विविक्त उपसङ्गम्य व्रीडीत: कृतहेलन: ।
पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २ ॥

विविक्ते उपसङ्गम्य व्रीडितः कृत-हेलनः पस्पर्श पादयोः एनम् किरीटेन अर्क वर्चसा

द‍ृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजस: ।
नष्टत्रिलोकेशमद इदमाह कृताञ्जलि: ॥ ३ ॥

दृष्ट श्रुत अनुभावः अस्य कृष्णस्य अमित तेजसः नष्ट त्रि-लोक ईश मदः इदम् आह कृत-अञ्जलिः

इन्द्र उवाच
विशुद्धसत्त्वं तव धाम शान्तंतपोमयं ध्वस्तरजस्तमस्कम् ।
मायामयोऽयं गुणसम्प्रवाहोन विद्यते
तेऽग्रहणानुबन्ध: ॥ ४ ॥

इन्द्रः उवाच विशुद्ध-सत्त्वम् तव धाम शान्तम् तपः-मयम् ध्वस्त रजः तमस्कम् माया-मयः अयम् गुण सम्प्रवाहः न विद्यते ते अग्रहण अनुबन्धः

कुतो नु तद्धेतव ईश तत्कृतालोभादयो येऽबुधलिङ्गभावा: ।
तथापि दण्डं भगवान् बिभर्तिधर्मस्य
गुप्‍त्यै लनिग्रहाय ॥ ५ ॥

कुतः नु तत् हेतवः ईश तत्-कृताः लोभ-आदयः ये अबुध लिन्ग-भावाः तथा अपि दण्डम् भगवान् बिभर्ति धर्मस्य गुप्त्यै खल निग्रहाय

पिता गुरुस्त्वं जगतामधीशोदुरत्यय: काल उपात्तदण्ड: ।
हिताय चेच्छातनुभि: समीहसेमानं
विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥

पिता गुरुः त्वम् जगताम् अधीशः दुरत्ययः कालः उपात्त दण्डः हिताय च इच्छा तनुभिः समीहसे मानम् विधुन्वन् जगत्-ईश मानिनाम्

ये मद्विधाज्ञा जगदीशमानिन-स्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् ।
हित्वार्यमार्गं
प्रभजन्त्यपस्मयाईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥

ये मत्-विध अज्ञाः जगत्-ईश मानिनः त्वाम् वीक्ष्य काले अभयम् आशु तत् मदम् हित्वा आर्य मार्गम् प्रभजन्ति अप-स्मयाः ईहा खलानाम् अपि ते अनुशासनम्

स त्वं ममैश्वर्यमदप्लुतस्यकृतागसस्तेऽविदुष: प्रभावम् ।
क्षन्तुं प्रभोऽथार्हसि मूढचेतसोमैवं
पुनर्भून्मतिरीश मेऽसती ॥ ८ ॥

सः त्वम् मम ऐश्वर्य मद प्लुतस्य कृत आगसः ते अविदुषः प्रभावम् क्षन्तुम् प्रभो अथ अर्हसि मूढ चेतसः मा एवम् पुनः भूत् मतिः ईश मे असती

तवावतारोऽयमधोक्षजेहभुवो भराणामुरुभारजन्मनाम् ।
चमूपतीनामभवाय देवभवाय
युष्मच्चरणानुवर्तिनाम् ॥ ९ ॥

तव अवतारः अयम् अधोक्षज इह भुवः भराणाम् उरु-भार जन्मनाम् चमू-पतीनाम् अभवाय देव भवाय युष्मत् चरण अनुवर्तिनाम्

नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
वासुदेवाय कृष्णाय सात्वतां पतये नम: ॥ १० ॥

नमः तुभ्यम् भगवते पुरुषाय महा-आत्मने वासुदेवाय कृष्णाय सात्वताम् पतये नमः

स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये ।
सर्वस्मै सर्वबीजाय सर्वभूतात्मने नम: ॥ ११ ॥

स्व छन्द उपात्त देहाय विशुद्ध ज्ञान मूर्तये सर्वस्मै सर्व-बीजाय सर्व-भूत आत्मने नमः

मयेदं भगवन् गोष्ठनाशायासारवायुभि: ।
चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२ ॥

मया इदम् भगवन् गोष्ठ नाशाय आसार वायुभिः चेष्टितम् विहते यज्ञे मानिना तीव्र मन्युना

त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यम: ।
ईश्वरं गुरुमात्मानं त्वामहं शरणं गत: ॥ १३ ॥

त्वया ईश अनुगृहीतः अस्मि ध्वस्त स्तम्भः वृथा उद्यमः ईश्वरम् गुरुम् आत्मानम् त्वाम् अहम् शरणम् गतः

श्रीशुक उवाच
एवं सङ्कीर्तित: कृष्णो मघोना भगवानमुम् ।
मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ॥ १४ ॥

श्री-शुकः उवाच एवम् सङ्कीर्तितः कृष्णः मघोना भगवान् अमुम् मेघ गम्भीरया वाचा प्रहसन् इदम् अब्रवीत्

श्रीभगवानुवाच
मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता ।
मदनुस्मृतये नित्यं मत्तस्येन्द्र श्रिया भृशम् ॥ १५ ॥

श्री-भगवान् उवाच मया ते अकारि मघवन् मख भङ्गः अनुगृह्णता मत्-अनुस्मृतये नित्यम् मत्तस्य इन्द्र-श्रिया भृशम्

मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति ।
तं भ्रंशयामि सम्पद्‌भ्यो यस्य चेच्छाम्यनुग्रहम् ॥
१६ ॥

माम् ऐश्वर्य श्री मद अन्धः दण्ड पाणिम् न पश्यति तम् भ्रंशयामि सम्पद्भ्यः यस्य च इच्छामि अनुग्रहम्

गम्यतां शक्र भद्रं व: क्रियतां मेऽनुशासनम् ।
स्थीयतां स्वाधिकारेषु युक्तैर्व: स्तम्भवर्जितै: ॥
१७ ॥

गम्यताम् शक्र भद्रम् वः क्रियताम् मे अनुशासनम् स्थीयताम् स्व अधिकारेषु युक्तैः वः स्तम्भ वर्जितैः

अथाह सुरभि: कृष्णमभिवन्द्यमनस्विनी ।
स्वसन्तानैरुपामन्‍त्र्य गोपरूपिणमीश्वरम् ॥ १८ ॥

अथ आह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी स्व-सन्तानैः उपामन्त्र्य गोप-रूपिणम् ईश्वरम्

सुरभिरुवाच
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव ।
भवता लोकनाथेन सनाथा वयमच्युत ॥ १९ ॥

सुरभिः उवाच कृष्ण कृष्ण महा योगिन् विश्व-आत्मन् विश्व-सम्भव भवता लोक नाथेन स-नाथाः वयम् अच्युत

त्वं न: परमकं दैवं त्वं न इन्द्रो जगत्पते ।
भवाय भव गोविप्रदेवानां ये च साधव: ॥ २० ॥

त्वम् नः परमकम् दैवम् त्वम् नः इन्द्रः जगत्-पते भवाय भव गो विप्र देवानाम् ये च साधवः

इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् ।
अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये
॥ २१ ॥

इन्द्रम् नः त्वा अभिषेक्ष्यामः ब्रह्मणा चोदिताः वयम् अवतीर्णः असि विश्व-आत्मन् भूमेः भार अपनुत्तये

श्रीशुक उवाच
एवं कृष्णमुपामन्‍त्र्य सुरभि: पयसात्मन: ।
जलैराकाशगङ्गाया ऐरावतकरोद्‌धृतै: ॥ २२ ॥ इन्द्र:
सुरर्षिभि: साकं चोदितो देवमातृभि: ।
अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३ ॥

श्री-शुकः उवाच एवम् कृष्णम् उपामन्त्र्य सुरभिः पयसा आत्मनः जलैः आकाश-गङ्गायाः ऐरावत कर उद्धृतैः इन्द्रः सुर ऋषिभिः साकम् चोदितः देव मातृभिः अभ्यसिञ्चत दाशार्हम् गोविन्दः इति च अभ्यधात्

तत्रागतास्तुम्बुरुनारदादयोगन्धर्वविद्याधरसिद्धचारणा: ।
जगुर्यशो लोकमलापहं हरे:सुराङ्गना:
सन्ननृतुर्मुदान्विता: ॥ २४ ॥

तत्र आगताः तुम्बुरु नारद आदयः गन्धर्व-विद्याधर-सिद्ध-चारणाः जगुः यशः लोक मल अपहम् हरेः सुर अङ्गनाः सन्ननृतुः मुदा अन्विताः

तं तुष्टुवुर्देवनिकायकेतवोह्यवाकिरंश्चाद्भुतपुष्पवृष्टिभि: ।
लोका: परां
निर्वृतिमाप्नुवंस्त्रयोगावस्तदा गामनयन् पयोद्रुताम् ॥ २५ ॥

तम् तुष्टुवुः देव-निकाय केतवः हि अवाकिरन् च अद्भुत पुष्प वृष्टिभिः लोकाः पराम् निर्वृतिम् आप्नुवन् त्रयः गावः तदा गाम् अनयन् पयः द्रुताम्

नानारसौघा: सरितो वृक्षा आसन् मधुस्रवा: ।
अकृष्टपच्यौषधयो गिरयोऽबिभ्रनुन्मणीन् ॥ २६ ॥

नाना रस ओघाः सरितः वृक्षाः आसन् मधु स्रवाः अकृष्ट पच्य ओषधयः गिरयः अबिभ्रन् उत् मणीन्

कृष्णेऽभिषिक्त एतानि सर्वाणि कुरुनन्दन ।
निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गत: ॥ २७ ॥

कृष्णे अभिषिक्ते एतानि सर्वाणि कुरु-नन्दन निर्वैराणि अभवन् तात क्रूराणि अपि निसर्गतः

इति गोगोकुलपतिं गोविन्दमभिषिच्य स: ।
अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८


इति गो गो-कुल पतिम् गोविन्दम् अभिषिच्य सः अनुज्ञातः ययौ शक्रः वृतः देव-आदिभिः दिवम्

१०.२८

श्रीबादरायणिरुवाच
एकादश्यां निराहार: समभ्यर्च्य जनार्दनम् ।
स्‍नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत्
॥ १ ॥

श्री-बादरायणिः उवाच एकादश्याम् निराहारः समभ्यर्च्य जनार्दनम् स्नातुम् नन्दः तु कालिन्द्याम् द्वादश्याम् जलम् आविशत्

तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् ।
अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥

तम् गृहीत्वा अनयत् भृत्यः वरुणस्य असुरः अन्तिकम् अवज्ञाय आसुरीम् वेलाम् प्रविष्टम् उदकम् निशि

चुक्रुशुस्तमपश्यन्त: कृष्ण रामेति गोपका: ।
भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् ।
तदन्तिकं गतो
राजन्स्वानामभयदो विभु: ॥ ३ ॥

चुक्रुशुः तम् अपश्यन्तः कृष्ण राम इति गोपकाः भगवान् तत् उपश्रुत्य पितरम् वरुण आहृतम् तत् अन्तिकम् गतः राजन् स्वानाम् अभय दः विभुः

प्राप्तं वीक्ष्य हृषीकेशं लोकपाल: सपर्यया ।
महत्या पूजयित्वाह तद्दर्शनमहोत्सव: ॥ ४ ॥

प्राप्तम् वीक्ष्य हृषीकेशम् लोक पालः सपर्यया महत्या पूजयित्वा आह तत् दर्शन महा उत्सवः

श्रीवरुण उवाच
अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगत: प्रभो ।
त्वत्पादभाजो भगवन्नवापु: पारमध्वन: ॥ ५ ॥

श्री-वरुणः उवाच अद्य मे निभृतः देहः अद्य एव अर्थः अधिगतः प्रभो त्वत् पाद भाजः भगवन् अवापुः पारम् अध्वनः

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६ ॥

नमः तुभ्यम् भगवते ब्रह्मणे परम-आत्मने न यत्र श्रूयते माया लोक सृष्टि विकल्पना

अजानता मामकेन मूढेनाकार्यवेदिना ।
आनीतोऽयं तव पिता तद्भ‍वान् क्षन्तुमर्हति ॥ ७ ॥

अजानता मामकेन मूढेन अकार्य-वेदिना आनीतः अयम् तव पिता तत् भवान् क्षन्तुम् अर्हति

ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषद‍ृक् ।
गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८ ॥

मम अपि अनुग्रहम् कृष्ण कर्तुम् अर्हसि अशेष दृक् गोविन्द नीयताम् एषः पिता ते पितृ-वत्सल

श्रीशुक उवाच
एवं प्रसादित: कृष्णो भगवानीश्वरेश्वर: ।
आदायागत्स्वपितरं बन्धूनां चावहन्मुदम् ॥ ९ ॥

श्री-शुकः उवाच एवम् प्रसादितः कृष्णः भगवान् ईश्वर ईश्वरः आदाय अगात् स्व-पितरम् बन्धूनाम् च आवहन् मुदम्

नन्दस्त्वतीन्द्रियं द‍ृष्ट्वा लोकपालमहोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो
विस्मितोऽब्रवीत् ॥ १० ॥

नन्दः तु अतीन्द्रियम् दृष्ट्वा लोक-पाल महा-उदयम् कृष्णे च सन्नतिम् तेषाम् ज्ञातिभ्यः विस्मितः अब्रवीत्

ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् ।
अपि न: स्वगतिं सूक्ष्मामुपाधास्यदधीश्वर: ॥
११ ॥

ते च औत्सुक्य धियः राजन् मत्वा गोपाः तम् ईश्वरम् अपि नः स्व-गतिम् सूक्ष्माम् उपाधास्यत् अधीश्वरः

इति स्वानां स भगवान् विज्ञायाखिलद‍ृक्स्वयम् ।
सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२ ॥

इति स्वानाम् सः भगवान् विज्ञाय अखिल-दृक् स्वयम् सङ्कल्प सिद्धये तेषाम् कृपया एतत् अचिन्तयत्

जनो वै लोक एतस्मिन्नविद्याकामकर्मभि: ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३ ॥

जनः वै लोके एतस्मिन् अविद्या काम कर्मभिः उच्च अवचासु गतिषु न वेद स्वाम् गतिम् भ्रमन्

इति सञ्चिन्त्य भगवान् महाकारुणिको हरि: ।
दर्शयामास लोकं स्वं गोपानां तमस: परम् ॥ १४


इति सञ्चिन्त्य भगवान् महा-कारुणिकः हरिः दर्शयाम् आस लोकम् स्वम् गोपानाम् तमसः परम्

सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योति: सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये समाहिता: ॥
१५ ॥

सत्यम् ज्ञानम् अनन्तम् यत् ब्रह्म ज्योतिः सनातनम् यत् हि पश्यन्ति मुनयः गुण अपाये समाहिताः

ते तु ब्रह्मह्रदं नीता मग्ना: कृष्णेन चोद्‌धृता: ।
दद‍ृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा
॥ १६ ॥

ते तु ब्रह्म-ह्रदम् नीताः मग्नाः कृष्णेन च उद्धृताः ददृशुः ब्रह्मणः लोकम् यत्र अक्रूरः अध्यगात् पुरा

नन्दादयस्तु तं द‍ृष्ट्वा परमानन्दनिवृता: ।
कृष्णं च तत्रच्छन्दोभि: स्तूयमानं सुविस्मिता: ॥ १७


नन्द-आदयः तु तम् दृष्ट्वा परम आनन्द निवृताः कृष्णम् च तत्र छन्दोभिः स्तूयमानम् सु विस्मिताः

१०.२९

श्रीबादरायणिरुवाच
भगवानपि ता रात्री: शारदोत्फुल्लमल्लिका: ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रित: ॥
१ ॥

श्री-बादरायणिः उवाच भगवान् अपि ताः रात्रीः शारद उत्फुल्ल मल्लिकाः वीक्ष्य रन्तुम् मनः चक्रे योग-मायाम् उपाश्रितः

तदोडुराज: ककुभ: करैर्मुखंप्राच्या विलिम्पन्नरुणेन शन्तमै: ।
स चर्षणीनामुदगाच्छुचो मृजन्प्रिय:
प्रियाया इव दीर्घदर्शन: ॥ २ ॥

तदा उडु-राजः ककुभः करैः मुखम् प्राच्याः विलिम्पन् अरुणेन शम्-तमैः सः चर्षणीनाम् उदगात् शुचः मृजन् प्रियः प्रियायाः इव दीर्घ दर्शनः

द‍ृष्ट्वा कुमुद्वन्तमखण्डमण्डलंरमाननाभं नवकुङ्कुमारुणम् ।
वनं च तत्कोमलगोभी रञ्जितंजगौ कलं
वामद‍ृशां मनोहरम् ॥ ३ ॥

दृष्ट्वा कमुत्-वन्तम् अखण्ड मण्डलम् रमा आनन आभम् नव कुङ्कुम अरुणम् वनम् च तत् कोमल गोभिः रञ्जितम् जगौ कलम् वाम-दृशाम् मनः-हरम्

निशम्य गीतं तदनङ्गवर्धनंव्रजस्त्रिय: कृष्णगृहीतमानसा: ।
आजग्मुरन्योन्यमलक्षितोद्यमा:स यत्र
कान्तो जवलोलकुण्डला: ॥ ४ ॥

निशम्य गीतम् तत् अनङ्ग वर्धनम् व्रज-स्त्रियः कृष्ण गृहीत मानसाः आजग्मुः अन्योन्यम् अलक्षित उद्यमाः सः यत्र कान्तः जव लोल कुण्डलाः

दुहन्त्योऽभिययु: काश्चिद् दोहं हित्वा समुत्सुका: ।
पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययु:
॥ ५ ॥

दुहन्त्यः अभिययुः काश्चित् दोहम् हित्वा समुत्सुकाः पयः अधिश्रित्य संयावम् अनुद्वास्य अपराः ययुः

परिवेषयन्त्यस्तद्धित्वा पाययन्त्य: शिशून् पय: ।
शुश्रूषन्त्य: पतीन् काश्चिदश्न‍न्त्योऽपास्य
भोजनम् ॥ ६ ॥ लिम्पन्त्य: प्रमृजन्त्योऽन्या अञ्जन्त्य: काश्च लोचने ।
व्यत्यस्तवस्त्राभरणा:
काश्चित् कृष्णान्तिकं ययु: ॥ ७ ॥

परिवेषयन्त्यः तत् हित्वा पाययन्त्यः शिशून् पयः शुश्रूषन्त्यः पतीन् काश्चित् अश्नन्त्यः अपास्य भोजनम् लिम्पन्त्यः प्रमृजन्त्यः अन्याः अञ्जन्त्यः काश्च लोचने व्यत्यस्त वस्त्र आभरणाः काश्चित् कृष्ण-अन्तिकम् ययुः

ता वार्यमाणा: पतिभि: पितृभिर्भ्रातृबन्धुभि: ।
गोविन्दापहृतात्मानो न न्यवर्तन्त
मोहिता: ॥ ८ ॥

ताः वार्यमाणाः पतिभिः पितृभिः भ्रातृ बन्धुभिः गोविन्द अपहृत आत्मानः न न्यवर्तन्त मोहिताः

अन्तर्गृहगता: काश्चिद् गोप्योऽलब्धविनिर्गमा: ।
कृष्णं तद्भ‍ावनायुक्ता दध्युर्मीलितलोचना: ॥
९ ॥

अन्तः-गृह गताः काश्चित् गोप्यः अलब्ध विनिर्गमाः कृष्णम् तत्-भावना युक्ताः दध्युः मीलित लोचनाः

दु:सहप्रेष्ठविरहतीव्रतापधुताशुभा: ।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गला: ॥ १० ॥
तमेव परमात्मानं जारबुद्ध्यापि सङ्गता: ।
जहुर्गुणमयं देहं सद्य: प्रक्षीणबन्धना: ॥ ११ ॥

दुःसह प्रेष्ठ विरह तीव्र ताप धुत अशुभाः ध्यान प्राप्त अच्युत आश्लेष निर्वृत्या क्षीण मङ्गलाः तम् एव परम-आत्मानम् जार बुद्ध्या अपि सङ्गताः जहुः गुण-मयम् देहम् सद्यः प्रक्षीण बन्धनाः

श्रीपरीक्षिदुवाच
कृष्णं विदु: परं कान्तं न तु ब्रह्मतया मुने ।
गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥

श्री-परीक्षित् उवाच कृष्णम् विदुः परम् कान्तम् न तु ब्रह्मतया मुने गुण प्रवाह उपरमः तासाम् गुण-धियाम् कथम्

श्रीशुक उवाच
उक्तं पुरस्तादेतत्ते चैद्य: सिद्धिं यथा गत: ।
द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रिया: ॥ १३


श्री-शुकः उवाच उक्तम् पुरस्तात् एतत् ते चैद्यः सिद्धिम् यथा गतः द्विषन् अपि हृषीकेशम् किम् उत अधोक्षज प्रियाः

नृणां नि:श्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मन: ॥ १४ ॥

नृणाम् निःश्रेयस अर्थाय व्यक्तिः भगवतः नृप अव्ययस्य अप्रमेयस्य निर्गुणस्य गुण-आत्मनः

कामं क्रोधं भयं स्‍नेहमैक्यं सौहृदमेव च ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥

कामम् क्रोधम् भयम् स्नेहम् ऐक्यम् सौहृदम् एव च नित्यम् हरौ विदधतः यान्ति तत्-मयताम् हि ते

न चैवं विस्मय: कार्यो भवता भगवत्यजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥

न च एवम् विस्मयः कार्यः भवता भगवति अजे योग-ईश्वर ईश्वरे कृष्णे यतः एतत् विमुच्यते

ता द‍ृष्ट्वान्तिकमायाता भगवान् व्रजयोषित: ।
अवदद् वदतां श्रेष्ठो वाच: पेशैर्विमोहयन् ॥
१७ ॥

ताः दृष्ट्वा अन्तिकम् आयाताः भगवान् व्रज-योषितः अवदत् वदताम् श्रेष्ठः वाचः पेशैः विमोहयन्

श्रीभगवानुवाच
स्वागतं वो महाभागा: प्रियं किं करवाणि व: ।
व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८


श्री-भगवान् उवाच सु-आगतम् वः महा-भागाः प्रियम् किम् करवाणि वः व्रजस्य अनामयम् कच्चित् ब्रूत आगमन कारणम्

रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।
प्रतियात व्रजं नेह स्थेयं स्त्रीभि: सुमध्यमा: ॥ १९ ॥

रजनी एषा घोर-रूपा घोर-सत्त्व निषेविता प्रतियात व्रजम् न इह स्थेयम् स्त्रीभिः सु-मध्यमाः

मातर: पितर: पुत्रा भ्रातर: पतयश्च व: ।
विचिन्वन्ति ह्यपश्यन्तो मा कृढ्‌वं बन्धुसाध्वसम् ॥
२० ॥

मातरः पितरः पुत्राः भ्रातरः पतयः च वः विन्चिन्वन्ति हि अपश्यन्तः मा कृढ्वम् बन्धु साध्वसम्

द‍ृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।
यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥ २१ ॥ तद् यात मा
चिरं गोष्ठं शुश्रूषध्वं पतीन् सती: ।
क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥

दृष्टम् वनम् कुसुमितम् राका-ईश कर रञ्जितम् यमुना अनिल लीला एजत् तरु पल्लव शोभितम् तत् यात मा चिरम् गोष्ठम् शुश्रूषध्वम् पतीन् सतीः क्रन्दन्ति वत्साः बालाः च तान् पाययत दुह्यत

अथ वा मदभिस्‍नेहाद् भवत्यो यन्त्रिताशया: ।
आगता ह्युपपन्नं व: प्रीयन्ते मयि जन्तव: ॥ २३


अथ वा मत्-अभिस्नेहात् भवत्यः यन्त्रित अशयाः आगताः हि उपपन्नम् वः प्रीयन्ते मयि जन्तवः

भर्तु: शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।
तद्बन्धूनां च कल्याण: प्रजानां चानुपोषणम् ॥ २४ ॥

भर्तुः शुश्रूषणम् स्त्रीणाम् परः धर्मः हि अमायया तत्-बन्धूनाम् च कल्याणः प्रजानाम् च अनुपोषणम्

दु:शीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।
पति: स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५ ॥

दुःशीलः दुर्भगः वृद्धः जडः रोगी अधनः अपि वा पतिः स्त्रीभिः न हातव्यः लोक ईप्सुभिः अपातकी

अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रिय: ॥ २६ ॥

अस्वर्ग्यम् अयशस्यम् च फल्गु कृच्छ्रम् भय-आवहम् जुगुप्सितम् च सर्वत्र हि औपपत्यम् कुल-स्त्रियः

श्रवणाद् दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥

श्रवणात् दर्शनात् ध्यानात् मयि भावः अनुकीर्तनात् न तथा सन्निकर्षेण प्रतियात ततः गृहान्

श्रीशुक उवाच
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।
विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥

श्री-शुकः उवाच इति विप्रियम् आकर्ण्य गोप्यः गोविन्द-भाषितम् विषण्णाः भग्न सङ्कल्पाः चिन्ताम् आपुः दुरत्ययाम्

कृत्वा मुखान्यव शुच: श्वसनेन शुष्यद्-
बिम्बाधराणि चरणेन भुव: लिखन्त्य: ।
अस्रैरुपात्तमसिभि: कुचकुङ्कुमानि
तस्थुर्मृजन्त्य उरुदु:खभरा: स्म तूष्णीम् ॥ २९ ॥

कृत्वा मुखानि अव शुचः श्वसनेन शुष्यत् बिम्ब अधराणि चरणेन भुवः लिखन्त्यः अस्रैः उपात्त मसिभिः कुच कुङ्कुमानि तस्थुः मृजन्त्यः उरु दुःख भराः स्म तूष्णीम्

प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं
कृष्णं तदर्थविनिवर्तितसर्वकामा: ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्-
संरम्भगद्गदगिरोऽब्रुवतानुरक्ता: ॥ ३० ॥

प्रेष्ठम् प्रिय-इतरम् इव प्रतिभाषमाणम् कृष्णम् तत्-अर्थ विनिवर्तित सर्व कामाः नेत्रे विमृज्य रुदित उपहते स्म किञ्चित् संरम्भ गद्गद गिरः अब्रुवत अनुरक्ताः

गोप्य ऊचु:
मैवं विभोऽर्हति भवान् गदितुं नृशंसं
सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।
भक्ता भजस्व दुरवग्रह मा त्यजास्मान्
देवो यथादिपुरुषो भजते मुमुक्षून् ॥ ३१ ॥

श्री-गोप्यः ऊचुः मा एवम् विभो अर्हति भवान् गदितुम् नृ-शंसम् सन्त्यज्य सर्व विषयान् तव पाद-मूलम् भक्ताः भजस्व दुरवग्रह मा त्यज अस्मान् देवाः यथा आदि-पुरुषः भजते मुमुक्षून्

यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग
स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।
अस्त्वेवमेतदुपदेशपदे त्वयीशे
प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥

यत् पति अपत्य सुहृदाम् अनुवृत्तिः अङ्ग स्त्रीणाम् स्व-धर्मः इति धर्म-विदा त्वया उक्तम् अस्तु एवम् एतत् उपदेश पदे त्वयि ईशे प्रेष्ठः भवान् तनु-भृताम् किल बन्धुः आत्मा

कुर्वन्ति हि त्वयि रतिं कुशला: स्व आत्मन्
नित्यप्रिये पतिसुतादिभिरार्तिदै: किम् ।
तन्न: प्रसीद परमेश्वर मा स्म छिन्द्या
आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३ ॥

कुर्वन्ति हि त्वयि रतिम् कुशलाः स्वे आत्मन् नित्य प्रिये पति सुत आदिभिः आर्ति-दैः किम् तत् नः प्रसीद परम-ईश्वर मा स्म छिन्द्याः आशाम् धृताम् त्वयि चिरात् अरविन्द-नेत्र

चित्तं सुखेन भवतापहृतं गृहेषु
यन्निर्विशत्युत करावपि गृह्यकृत्ये ।
पादौ पदं न चलतस्तव पादमूलाद्
याम: कथं व्रजमथो करवाम किं वा ॥ ३४ ॥

चित्तम् सुखेन भवता अपहृतम् गृहेषु यत् निर्विशति उत करौ अपि गृह्य-कृत्ये पादौ पदम् न चलतः तव पाद-मूलात् यामः कथम् व्रजम् अथ उ करवाम किम् वा

सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण
हासावलोककलगीतजहृच्छयाग्निम् ।
नो चेद्वयं विरहजाग्न्युपयुक्तदेहा
ध्यानेन याम पदयो: पदवीं सखे ते ॥ ३५ ॥

सिञ्च अङ्ग नः त्वत् अधर अमृत पूरकेण हास अवलोक कल गीत ज हृत्-शय अग्निम् न उ चेत् वयम् विरह ज अग्नि उपयुक्त देहाः ध्यानेन याम पदयोः पदवीम् सखे ते

यर्ह्यम्बुजाक्ष तव पादतलं रमाया
दत्तक्षणं क्‍वचिदरण्यजनप्रियस्य ।
अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमञ्ज:
स्थातुं स्त्वयाभिरमिता बत पारयाम: ॥ ३६ ॥

यर्हि अम्बुज अक्ष तव पाद तलम् रमायाः दत्त क्षणम् क्वचित् अरण्य जन प्रियस्य अस्प्राक्ष्म तत्-प्रभृति न अन्य समक्षम् अञ्जः स्थातुम् त्वया अभिरमिताः बत पारयामः

श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या
लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।
यस्या: स्ववीक्षण उतान्यसुरप्रयास-
स्तद्वद् वयं च तव पादरज: प्रपन्ना: ॥ ३७ ॥

श्रीः यत् पद-अम्बुज रजः चकमे तुलस्या लब्ध्वा अपि वक्षसि पदम् किल भृत्य जुष्टम् यस्याः स्व वीक्षणे उत अन्य सुर प्रयासः तद्वत् वयम् च तव पाद रजः प्रपन्नाः

तन्न: प्रसीद वृजिनार्दन तेऽङ्‍‍‍‍‍घ्रिमूलं
प्राप्ता विसृज्य वसतीस्त्वदुपासनाशा: ।
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम-
तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥

तत् नः प्रसीद वृजिन अर्दन ते अङ्घ्रि-मूलम् प्राप्ताः विसृज्य वसतीः त्वत्-उपासना आशाः त्वत् सुन्दर स्मित निरीक्षण तीव्र काम तप्त आत्मनाम् पुरुष भूषण देहि दास्यम्

वीक्ष्यालकावृतमुखं तव कुण्डलश्री-
गण्डस्थलाधरसुधं हसितावलोकम् ।
दत्ताभयं च भुजदण्डयुगं विलोक्य
वक्ष: श्रियैकरमणं च भवाम दास्य: ॥ ३९ ॥

वीक्ष्य अलक आवृत मुखम् तव कुण्डल श्री गण्ड-स्थल अधर सुधम् हसित अवलोकम् दत्त अभयम् च भुज-दण्ड युगम् विलोक्य वक्षः श्री एक रमणम् च भवाम दास्यः

का स्त्र्यङ्ग ते कलपदायतवेणुगीत-
सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद् गोद्विजद्रुममृगा: पुलकान्यबिभ्रन् ॥ ४० ॥

का स्त्री अङ्ग ते कल पद आयत वेणु गीत सम्मोहिता आर्य चरितात् न चलेत् त्रि-लोक्याम् त्रै-लोक्य सौभगम् इदम् च निरीक्ष्य रूपम् यत् गो द्विज द्रुम मृगाः पुलकानि अबिभ्रन्

व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो
देवो यथादिपुरुष: सुरलोकगोप्ता ।
तन्नो निधेहि करपङ्कजमार्तबन्धो
तप्तस्तनेषु च शिर:सु च किङ्करीणाम् ॥ ४१ ॥

व्यक्तम् भवान् व्रज भय आर्ति हरः अभिजातः देवः यथा आदि-पुरुषः सुर-लोक गोप्ता तत् नः निधेहि कर पङ्कजम् आर्त बन्धो तप्त स्तनेषु च शिरःसु च किङ्करीणाम्

श्रीशुक उवाच
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वर: ।
प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ ४२ ॥

श्री-शुकः उवाच इति विक्लवितम् तासाम् श्रुत्वा योग-ईश्वर-ईश्वरः प्रहस्य स-दयम् गोपीः आत्म आरामः अपि अरीरमत्

ताभि: समेताभिरुदारचेष्टित:
प्रियेक्षणोत्फुल्लमुखीभिरच्युत: ।
उदारहासद्विजकुन्ददीधति-
र्व्यरोचतैणाङ्क इवोडुभिर्वृत: ॥ ४३ ॥

ताभिः समेताभिः उदार चेष्टितः प्रिय ईक्षण उत्फुल्ल मुखीभिः अच्युतः उदार हास द्विज कुन्द दीधतिः व्यरोचत एण-अङ्कः इव उडुभिः वृतः

उपगीयमान उद्गायन् वनिताशतयूथप: ।
मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन् वनम् ॥ ४४ ॥

उपगीयमानः उद्गायन् वनिता शत यूथपः माIआम् बिभ्रत् वैजयन्तीम् व्यचरन् मण्डयन् वनम्

नद्या: पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।
जुष्टं तत्तरलानन्दिकुमुदामोदवायुना ॥ ४५ ॥
बाहुप्रसारपरिरम्भकरालकोरु-
नीवीस्तनालभननर्मनखाग्रपातै: ।
क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा-
मुत्तम्भयन् रतिपतिं रमयां चकार ॥ ४६ ॥

नद्याः पुलिनम् आविश्य गोपीभिः हिम वालुकम् जुष्टम् तत् तरल आनन्दि कुमुद आमोद वायुना बाहु प्रसार परिरम्भ कर अलक ऊरु नीवी स्तन आलभन नर्म नख अग्र-पातैः क्ष्वेल्या अवलोक हसितैः व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिम् रमयाम् चकार

एवं भगवत: कृष्णाल्लब्धमाना महात्मन: ।
आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्यधिकं भुवि ॥ ४७ ॥

एवम् भगवतः कृष्णात् लब्ध मानाः महा-आत्मनः आत्मानम् मेनिरे स्त्रीणाम् मानिन्यः हि अधिकम् भुवि

तासां तत् सौभगमदं वीक्ष्य मानं च केशव: ।
प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥

तासाम् तत् सौभग मदम् वीक्ष्य मानम् च केशवः प्रशमाय प्रसादाय तत्र एव अन्तरधीयत

१०.३०

श्रीशुक उवाच
अन्तर्हिते भगवति सहसैव व्रजाङ्गना: ।
अतप्यंस्तमचक्षाणा: करिण्य इव यूथपम् ॥ १ ॥

श्री-शुकः उवाच अन्तर्हिते भगवति सहसा एव व्रज-अङ्गनाः अतप्यन् तम् अचक्षाणाः करिण्यः इव यूथपम्

गत्यानुरागस्मितविभ्रमेक्षितै-
र्मनोरमालापविहारविभ्रमै: ।
आक्षिप्तचित्ता: प्रमदा रमापते-
स्तास्ता विचेष्टा जगृहुस्तदात्मिका: ॥ २ ॥

गत्या अनुराग स्मित विभ्रम ईक्षितैः मनः-रम आIआप विहार विभ्रमैः आक्षिप्त चित्ताः प्रमदाः रमा-पतेः ताः ताः विचेष्टाः जगृहुः तत्-आत्मिकाः

गतिस्मितप्रेक्षणभाषणादिषु
प्रिया: प्रियस्य प्रतिरूढमूर्तय: ।
असावहं त्वित्यबलास्तदात्मिका
न्यवेदिषु: कृष्णविहारविभ्रमा: ॥ ३ ॥

गति स्मित प्रेक्षण भाषणा आदिषु प्रियाः प्रियस्य प्रतिरूढ मूर्तयः असौ अहम् तु इति अबलाः तत्-आत्मिकाः न्यवेदिषुः कृष्ण-विहार विभ्रमाः

गायन्त्य उच्चैरमुमेव संहता
विचिक्युरुन्मत्तकवद् वनाद् वनम् ।
पप्रच्छुराकाशवदन्तरं बहि-
र्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ४ ॥

गायन्त्यः उच्चैः अमुम् एव संहताः विचिक्युः उन्मत्तक-वत् वनात् वनम् पप्रच्छुः आकाश-वत् अन्तरम् बहिः भूतेषु सन्तम् पुरुषम् वनस्पतीन्

द‍ृष्टो व: कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मन: ।
नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनै: ॥ ५ ॥

दृष्टः वः कच्चित् अश्वत्थ प्लक्ष न्यग्रोध नः मनः नन्द सूनुः गतः हृत्वा प्रेम हास अवलोकनैः

कच्चित् कुरबकाशोकनागपुन्नागचम्पका: ।
रामानुजो मानिनीनामितो दर्पहरस्मित: ॥ ६ ॥

कच्चित् कुरबक-अशोक-नाग-पुन्नाग-चम्पकाः राम अनुजः मानिनीनाम् इतः दर्प हर स्मितः

कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये ।
सह त्वालिकुलैर्बिभ्रद् दृष्टस्तेऽतिप्रियोऽच्युत: ॥ ७ ॥

कच्चित् तुलसि कल्याणि गोविन्द चरण प्रिये सह त्वा अलि कुलैः बिभ्रत् दृष्टः ते अति-प्रियः अच्युतः

मालत्यदर्शि व: कच्चिन्मल्लिके जाति यूथिके ।
प्रीतिं वो जनयन् यात: करस्पर्शेन माधव: ॥ ८ ॥

मालति अदर्शि वः कच्चित् मल्लिके जाति यूथिके प्रीतिम् वः जनयन् यातः कर स्पर्शेन माधवः

चूतप्रियालपनसासनकोविदार-
जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपा: ।
येऽन्ये परार्थभवका यमुनोपकूला:
शंसन्तु कृष्णपदवीं रहितात्मनां न: ॥ ९ ॥

चूत प्रियाल पनस आसन कोविदार जम्बु अर्क बिल्व बकुल आम्र कदम्ब नीपाः ये अन्ये पर अर्थ भवकाः यमुना-उपकूलाः शंसन्तु कृष्ण-पदवीम् रहित आत्मनाम् नः

किं ते कृतं क्षिति तपो बत केशवाङ्‍‍‍‍‍घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि ।
अप्यङ्‍‍‍‍‍घ्रिसम्भव उरुक्रमविक्रमाद् वा
आहो वराहवपुष: परिरम्भणेन ॥ १० ॥

किम् ते कृतम् क्षिति तपः बत केशव अङ्घ्रि स्पर्श उत्सव उत्पुलकित अङ्ग-रुहैः विभासि अपि अङ्घ्रि सम्भवः उरुक्रम विक्रमात् वा आह उ वराह वपुषः परिरम्भणेन

अप्येणपत्‍न्युपगत: प्रिययेह गात्रै-
स्तन्वन् द‍ृशां सखि सुनिर्वृतिमच्युतो व: ।
कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जिताया:
कुन्दस्रज: कुलपतेरिह वाति गन्ध: ॥ ११ ॥

अपि एण पत्नि उपगतः प्रियया इह गात्रैः तन्वन् दृशाम् सखि सु-निर्वृतिम् अच्युतः वः कान्ता अङ्ग-सङ्ग कुच कुङ्कुम रञ्जितायाः कुन्द स्रजः कुल पतेः इह वाति गन्धः

बाहुं प्रियांस उपधाय गृहीतपद्मो
रामानुजस्तुलसिकालिकुलैर्मदान्धै: ।
अन्वीयमान इह वस्तरव: प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकै: ॥ १२ ॥

बाहुम् प्रिया अंसे उपधाय गृहीत पद्मः राम-अनुजः तुलसिका अलि-कुलैः मद अन्धैः अन्वीयमानः इह वः तरवः प्रणामम् किम् वा अभिनन्दति चरन् प्रणय अवलोकैः

पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पते: ।
नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ १३ ॥

पृच्छत इमाः लताः बाहून् अपि आश्लिष्टाः वनस्पतेः नूनम् तत् कर-ज स्पृष्टाः बिभ्रति उत्पुलकानि अहो

इत्युन्मत्तवचोगोप्य: कृष्णान्वेषणकातरा: ।
लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिका: ॥ १४ ॥

इति उन्मत्त वचः गोप्यः कृष्ण-अन्वेषण कातराः लीलाः भगवतः ताः ताः हि अनुचक्रुः तत्-आत्मिकाः

कस्याचित् पूतनायन्त्या: कृष्णायन्त्यपिबत् स्तनम् ।
तोकयित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ १५ ॥

कस्याचित् पूतनायन्त्याः कृष्णायन्ती अपिबत् स्तनम् तोकयित्वा रुदती अन्या पदा अहन् शकटा-यतीम्

दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् ।
रिङ्गयामास काप्यङ्‌‌‌घ्री कर्षन्ती घोषनि:स्वनै: ॥ १६ ॥

दैत्यायित्वा जहार अन्याम् एका कृष्ण-अर्भ भावनाम् रिङ्गयाम् आस का अपि अङ्घ्री कर्षन्ती घोष निःस्वनैः

कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन ।
वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ १७ ॥

कृष्ण-रामायिते द्वे तु गोपायन्त्यः च काश्चन वत्सायतीम् हन्ति च अन्या तत्र एका तु बकायतीम्

आहूय दूरगा यद्वत् कृष्णस्तमनुवर्ततीम् ।
वेणुं क्‍वणन्तीं क्रीडन्तीमन्या: शंसन्ति साध्विति ॥ १८ ॥

आहूय दूर गाः यद्वत् कृष्णः तम् अनुवर्ततीम् वेणुम् क्वणन्तीम् क्रीडन्तीम् अन्याः शंसन्ति साधु इति

कस्याञ्चित् स्वभुजं न्यस्य
चलन्त्याहापरा ननु ।
कृष्णोऽहं पश्यत गतिं
ललितामिति तन्मना: ॥ १९ ॥

कस्याञ्चित् स्व-भुजम् न्यस्य चलन्ती आह अपरा ननु कृष्णः अहम् पश्यत गतिम् ललिताम् इति तत् मनाः

मा भैष्ट वातवर्षाभ्यां तत्‍त्राणं विहितं मया ।
इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ २० ॥

मा भैष्ट वात वर्षाभ्याम् तत् त्राणम् विहितम् मया इति उक्त्वा एकेन हस्तेन यतन्ती उन्निदधे अम्बरम्

आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप ।
दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डकृत् ॥ २१ ॥

आरुह्य एका पदा आक्रम्य शिरसि आह अपराम् नृप दुष्ट अहे गच्छ जातः अहम् खलानाम् ननु दण्ड कृत्

तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् ।
चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ २२ ॥

तत्र एका उवाच हे गोपाः दाव-अग्निम् पश्यत उल्बणम् चक्षूंषि आशु अपिदध्वम् वः विधास्ये क्षेमम् अञ्जसा

बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले ।
बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति ।
भीता सुद‍ृक् पिधायास्यं भेजे भीतिविडम्बनम् ॥ २३ ॥

बद्धा अन्यया स्रजा काचित् तन्वी तत्र उलूखले बध्नामि भाण्ड भेत्तारम् हैयम्-गव मुषम् तु इति भीता सु-दृक् पिधाय आस्यम् भेजे भीति विडम्बनम्

एवं कृष्णं पृच्छमाना गण्दावनलतास्तरून् ।
व्यचक्षत वनोद्देशे पदानि परमात्मन: ॥ २४ ॥

एवम् कृष्णम् पृच्छमानाः वृन्दावन लताः तरून् व्यचक्षत वन उद्देशे पदानि परम-आत्मनः

पदानि व्यक्तमेतानि नन्दसूनोर्महात्मन: ।
लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभि: ॥ २५ ॥

पदानि व्यक्तम् एतानि नन्द-सूनोः महा-आत्मनः लक्ष्यन्ते हि ध्वज अम्भोज वज्र अङ्कुश यव-आदिभिः

तैस्तै: पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबला: ।
वध्वा: पदै: सुपृक्तानि विलोक्यार्ता: समब्रुवन् ॥ २६ ॥

तैः तैः पदैः तत् पदवीम् अन्विच्छन्त्यः अग्रतः अबलाः वध्वाः पदैः सुपृक्तानि विलोक्य आर्ताः समब्रुवन्

कस्या: पदानि चैतानि याताया नन्दसूनुना ।
अंसन्यस्तप्रकोष्ठाया: करेणो: करिणा यथा ॥ २७ ॥

कस्याः पदानि च एतानि यातायाः नन्द-सूनुना अंस न्यस्त प्रकोष्ठायाः करेणोः करिणा यथा

अनयाराधितो नूनं भगवान् हरिरीश्वर: ।
यन्नो विहाय गोविन्द: प्रीतो यामनयद् रह: ॥ २८ ॥

अनया आराधितः नूनम् भगवन् हरिः ईश्वरः यत् नः विहाय गोविन्दः प्रीतः याम् अनयत् रहः

धन्या अहो अमी आल्यो गोविन्दाङ्‌घ्य्रब्जरेणव: ।
यान् ब्रह्मेशौ रमा देवी दधुर्मूध्‍‌‌र्न्यघनुत्तये ॥ २९ ॥

धन्याः अहो अमी आल्यः गोविन्द अङ्घ्रि-अब्ज रेणवः यान् ब्रह्मा ईशौ रमा देवी दधुः मूर्ध्नि अघ नुत्तये

तस्या अमूनि न: क्षोभं कुर्वन्त्युच्चै: पदानि यत्
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ।
न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरै:
खिद्यत्सुजाताङ्‍‍‍‍‍घ्रितलामुन्निन्ये प्रेयसीं प्रिय: ॥ ३० ॥

तस्याः अमूनि नः क्षोभम् कुर्वन्ति उच्चैः पदानि यत् या एका अपहृत्य गोपीनाम् रहः भुङ्क्ते अच्युत अधरम् न लक्ष्यन्ते पदानि अत्र तस्याः नूनम् तृण अङ्कुरैः खिद्यत् सुजात अङ्घ्रि तलाम् उन्निन्ये प्रेयसीम् प्रियः

इमान्यधिकमग्नानि पदानि वहतो वधूम् ।
गोप्य: पश्यत कृष्णस्य भाराक्रान्तस्य कामिन: ।
अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ॥ ३१ ॥

इमानि अधिक मग्नानि पदानि वहतः वधूम् गोप्यः पश्यत कृष्णस्य भार आक्रान्तस्य कामिनः अत्र अवरोपिता कान्ता पुष्प हेतोः महा-आत्मना

अत्र प्रसूनावचय: प्रियार्थे प्रेयसा कृत: ।
प्रपदाक्रमण एते पश्यतासकले पदे ॥ ३२ ॥

अत्र प्रसून अवचयः प्रिया-अर्थे प्रेयसा कृतः प्रपद आक्रमणे एते पश्यत असकले पदे

केशप्रसाधनं त्वत्र कामिन्या: कामिना कृतम् ।
तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ ३३ ॥

केश प्रसाधनम् तु अत्र कामिन्याः कामिना कृतम् तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम्

रेमे तया चात्मरत आत्मारामोऽप्यखण्डित: ।
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ ३४ ॥

रेमे तया च आत्म-रतः आत्म-आरामः अपि अखण्डितः कामिनाम् दर्शयन् दैन्यम् स्त्रीणाम् च एव दुरात्मताम्

इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतस: ।
यां गोपीमनयत्कृष्णो विहायान्या: स्त्रियो वने ॥ ३५ ॥
सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् ।
हित्वा गोपी: कामयाना मामसौ भजते प्रिय: ॥ ३६ ॥

इति एवम् दर्शयन्त्यः ताः चेरुः गोप्यः विचेतसः याम् गोपीम् अनयत् कृष्णः विहाय अन्याः स्त्रियः वने सा च मेने तदा आत्मानम् वरिष्ठम् सर्व योषिताम् हित्वा गोपीः काम-यानाः माम् असौ भजते प्रियः

ततो गत्वा वनोद्देशं द‍ृप्ता केशवमब्रवीत् ।
न पारयेऽहं चलितुं नय मां यत्र ते मन: ॥ ३७ ॥

ततः गत्वा वन उद्देशम् दृप्ता केशवम् अब्रवीत् न पारये अहम् चलितुम् नय माम् यत्र ते मनः

एवमुक्त: प्रियामाह स्कन्ध आरुह्यतामिति ।
ततश्चान्तर्दधे कृष्ण: सा वधूरन्वतप्यत ॥ ३८ ॥

एवम् उक्तः प्रियाम् आह स्कन्धे आरुह्यताम् इति ततः च अन्तर्दधे कृष्णः सा वधूः अन्वतप्यत

हा नाथ रमण प्रेष्ठ क्‍वासि क्‍वासि महाभुज ।
दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ ३९ ॥

हा नाथ रमण प्रेष्ठ क्व असि क्व असि महा-भुज दास्याः ते कृपणायाः मे सखे दर्शय सन्निधिम्

श्रीशुक उवाच
अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरित: ।
दद‍ृशु: प्रियविश्लेषान्मोहितां दु:खितां सखीम् ॥ ४० ॥

श्री-शुकः उवाच अन्विच्छन्त्यः भगवतः मार्गम् गोप्यः अविदूरितः ददृशुः प्रिय विश्लेषात् मोहिताम् दुःखिताम् सखीम्

तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् ।
अवमानं च दौरात्म्याद् विस्मयं परमं ययु: ॥ ४१ ॥

तया कथितम् आकर्ण्य मान प्राप्तिम् च माधवात् अवमानम् च दौरात्म्यात् विस्मयम् परमम् ययुः

ततोऽविशन्वनं चन्द्रज्योत्स्‍ना यावद् विभाव्यते ।
तम: प्रविष्टमालक्ष्य ततो निववृतु: स्त्रिय: ॥ ४२ ॥

ततः अविशन् वनम् चन्द्र ज्योत्स्ना यावत् विभाव्यते तमः प्रविष्टम् आलक्ष्य ततः निववृतुः स्त्रियः

तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिका: ।
तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरु: ॥ ४३ ॥

तत्-मनस्काः तत्-आलापाः तत्-विचेष्टाः तत्-आत्मिकाः तत्-गुणान् एव गायन्त्यः न आत्म आगाराणि सस्मरुः

पुन: पुलिनमागत्य कालिन्द्या: कृष्णभावना: ।
समवेता जगु: कृष्णं तदागमनकाङ्‌‌क्षिता: ॥ ४४ ॥

पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः समवेताः जगुः कृष्णम् तत्-आगमन काङ्क्षिताः

१०.३१

गोप्य ऊचु:
जयति तेऽधिकं जन्मना व्रज:
श्रयत इन्दिरा शश्वदत्र हि ।
दयित द‍ृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥

गोप्यः ऊचुः जयति ते अधिकम् जन्मना व्रजः श्रयते इन्दिरा शश्वत् अत्र हि दयित दृश्यताम् दिक्षु तावकाः त्वयि धृत असवः त्वाम् विचिन्वते

शरदुदाशये साधुजातसत्-
सरसिजोदरश्रीमुषा द‍ृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वध: ॥ २ ॥

शरत् उद-आशये साधु जात सत् सरसि-ज उदर श्री मुषा दृशा सुरत-नाथ ते अशुल्क दासिकाः वर-द निघ्नतः न इह किम् वधः

विषजलाप्ययाद् व्यालराक्षसाद्
वर्षमारुताद् वैद्युतानलात् ।
वृषमयात्मजाद् विश्वतो भया-
दृषभ ते वयं रक्षिता मुहु: ॥ ३ ॥

विष जल अप्ययात् व्याल राक्षसात् वर्ष मारुतात् वैद्युत-अनलात् वृष मय-आत्मजात् विश्वतः भयात् ऋषभ ते वयम् रक्षिताः मुहुः

न खलु गोपीकानन्दनो भवान्
अखिलदेहिनामन्तरात्मद‍ृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले ॥ ४ ॥

न खलु गोपिका नन्दनः भवान् अखिल देहिनाम् अन्तः-आत्म दृक् विखनसा अर्थितः विश्व गुप्तये सखे उदेयिवान् सात्वताम् कुले

विरचिताभयं वृष्णिधूर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि न: श्रीकरग्रहम् ॥ ५ ॥

विरचित अभयम् वृष्णि धूर्य ते चरणम् ईयुषाम् संसृतेः भयात् कर सरः-रुहम् कान्त काम दम् शिरसि धेहि नः श्री कर ग्रहम्

व्रजजनार्तिहन् वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किङ्करी: स्म नो
जलरुहाननं चारु दर्शय ॥ ६ ॥

व्रज-जन आर्ति हन् वीर योषिताम् निज जन स्मय ध्वंसन स्मित भज सखे भवत् किङ्करीः स्म नः जल-रुह आननम् चारु दर्शय

प्रणतदेहिनां पापकर्षणं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदाम्बुजं
कृणु कुचेषु न: कृन्धि हृच्छयम् ॥ ७ ॥

प्रणत देहिनाम् पाप कर्षणम् तृण चर अनुगम् श्री निकेतनम् फणि फणा अर्पितम् ते पद-अम्बुजम् कृणु कुचेषु नः कृन्धि हृत्-शयम्

मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यतीर्
अधरसीधुनाप्याययस्व न: ॥ ८ ॥

मधुरया गिरा वल्गु वाक्यया बुध मनो-ज्ञया पुष्कर ईक्षण विधि-करीः इमाः वीर मुह्यतीः अधर सीधुना आप्याययस्व नः

तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ये भूरिदा जना: ॥ ९ ॥

तव कथा-अमृतम् तप्त-जीवनम् कविभिः ईडितम् कल्मष-अपहम् श्रवण-मङ्गलम् शृईमत् आततम् भुवि गृणन्ति ये भूरि-दाः जनाः

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृश:
कुहक नो मन: क्षोभयन्ति हि ॥ १० ॥

प्रहसितम् प्रिय प्रेम वीक्षणम् विहरणम् च ते ध्यान मङ्गलम् रहसि संविदः याः हृदि स्पृशः कुहक नः मनः क्षोभयन्ति हि

चलसि यद् व्रजाच्चारयन् पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरै: सीदतीति न:
कलिलतां मन: कान्त गच्छति ॥ ११ ॥

चलसि यत् व्रजात् चारयन् पशून् नलिन सुन्दरम् नाथ ते पदम् शिल तृण अङ्कुरैः सीदति इति नः कलिलताम् मनः कान्त गच्छति

दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन् मुहु-
र्मनसि न: स्मरं वीर यच्छसि ॥ १२ ॥

दिन परिक्षये नील कुन्तलैः वन-रुह आननम् बिभ्रत् आवृतम् घन रजः-वलम् दर्शयन् मुहुः मनसि नः स्मरम् वीर यच्छसि

प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शन्तमं च ते
रमण न: स्तनेष्वर्पयाधिहन् ॥ १३ ॥

प्रणत काम दम् पद्म-ज अर्चितम् धरणि मण्डनम् ध्येयम् आपदि चरण-पङ्कजम् शम्-तमम् च ते रमण नः स्तनेषु अर्पय अधि-हन्

सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥

सुरत वर्धनम् शोक नाशनम् स्वरित वेणुना सुष्ठु चुम्बितम् इतर राग विस्मारणम् नृणाम् वितर वीर नः ते अधर अमृतम्

अटति यद् भवानह्नि काननं
त्रुटि युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥

अटति यत् भवान् अह्नि काननम् त्रुटि युगायते त्वाम् अपश्यताम् कुटिल कुन्तलम् श्री मुखम् च ते जडः उदीक्षताम् पक्ष्म कृत् दृशाम्

पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्‌घ्य तेऽन्त्यच्युतागता: ।
गतिविदस्तवोद्गीतमोहिता:
कितव योषित: कस्त्यजेन्निशि ॥ १६ ॥

पति सुत अन्वय भ्रातृ बान्धवान् अतिविलङ्घ्य ते अन्ति अच्युत आगताः गति विदः तव उद्गीत मोहिताः कितव योषितः कः त्यजेत् निशि

रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुर: श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मन: ॥ १७ ॥

रहसि संविदम् हृत्-शय उदयम् प्रहसित आननम् प्रेम वीक्षणम् बृहत् उरः श्रियः वीक्ष्य धाम ते मुहुः अति स्पृहा मुह्यते मनः

व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्‍त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥

व्रज-वन ओकसाम् व्यक्तिः अङ्ग ते वृजिन हन्त्री अलम् विश्व-मङ्गलम् त्यज मनाक् च नः त्वत् स्पृहा आत्मनाम् स्व जन हृत् रुजाम् यत् निषूदनम्

यत्ते सुजातचरणाम्बुरुहं स्तनेषु
भीता: शनै: प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद् व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां न: ॥ १९ ॥

यत् ते सु-जात चरण-अम्बु-रुहम् स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु तेन अटवीम् अटसि तत् व्यथते न किम् स्वित् कूर्प-आदिभिः भ्रमति धीः भवत्-आयुषाम् नः

१०.३२

श्रीशुक उवाच
इति गोप्य: प्रगायन्त्य: प्रलपन्त्यश्च चित्रधा ।
रुरुदु: सुस्वरं राजन् कृष्णदर्शनलालसा: ॥ १ ॥

श्री-शुकः उवाच इति गोप्यः प्रगायन्त्यः प्रलपन्त्यः च चित्रधा रुरुदुः सु-स्वरम् राजन् कृष्ण-दर्शन लालसाः

तासामाविरभूच्छौरि: स्मयमानमुखाम्बुज: ।
पीताम्बरधर: स्रग्वी साक्षान्मन्मथमन्मथ: ॥ २ ॥

तासाम् आविरभूत् शौरिः स्मयमान मुख अम्बुजः पीत अम्बर धरः स्रक्-वी साक्षात् मन्-मथ मन् मथः

तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लद‍ृशोऽबला: ।
उत्तस्थुर्युगपत् सर्वास्तन्व: प्राणमिवागतम् ॥ ३ ॥

तम् विलोक्य आगतम् प्रेष्ठम् प्रीति उत्फुल्ल दृशः अबलाः उत्तस्थुः युगपत् सर्वाः तन्वः प्राणम् इव आगतम्

काचित् कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा ।
काचिद् दधार तद्बाहुमंसे चन्दनभूषितम् ॥ ४ ॥

काचित् कर-अम्बुजम् शौरेः जगृहे अञ्जलिना मुदा काचित् दधार तत्-बाहुम् अंसे चन्दन भूषितम्

काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् ।
एका तदङ्‍‍‍‍‍घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५ ॥

काचित् अञ्जलिना अगृह्णात् तन्वी ताम्बूल चर्वितम् एका तत् अङ्घ्रि कमलम् सन्तप्ता स्तनयोः अधात्

एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ।
घ्नन्तीवैक्षत् कटाक्षेपै: सन्दष्टदशनच्छदा ॥ ६ ॥

एका भ्रु-कुटिम् आबध्य प्रेम संरम्भ विह्वला घ्नन्ती इव ऐक्षत् कट आक्षेपैः सन्दष्ट दशन छदा

अपरानिमिषद्‌दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।
आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥

अपरा अनिमिषत् दृग्भ्याम् जुषाणा तत् मुख-अम्बुजम् आपीतम् अपि न अतृप्यत् सन्तः तत्-चरणम् यथा

तं काचिन्नेत्ररन्ध्रेण हृदिकृत्वा निमील्य च ।
पुलकाङ्‌‌ग्युपगुह्यास्ते योगीवानन्द सम्प्लुता ॥ ८ ॥

तम् काचित् नेत्र रन्ध्रेण हृदि कृत्वा निमील्य च पुलक-अङ्गी उपगुह्य आस्ते योगी इव आनन्द सम्प्लुता

सर्वास्ता: केशवालोकपरमोत्सवनिर्वृता: ।
जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जना: ॥ ९ ॥

सर्वाः ताः केशव आलोक परम उत्सव निर्वृताः जहुः विरह-जम् तापम् प्राज्ञम् प्राप्य अथा जनाः

ताभिर्विधूतशोकाभिर्भगवानच्युतो वृत: ।
व्यरोचताधिकं तात पुरुष: शक्तिभिर्यथा ॥ १० ॥

ताभिः विधूत शोकाभिः भगवान् अच्युतः वृतः व्यरोचत अधिकम् तात पुरुषः शक्तिभिः यथा

ता: समादाय कालिन्द्या निर्विश्य पुलिनं विभु: ।
विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम् ॥ ११ ॥
शरच्चन्द्रांशुसन्दोहध्वस्तदोषातम: शिवम् ।
कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥ १२ ॥

ताः समादाय कालिन्द्याः निर्विश्य पुलिनम् विभुः विकसत् कुन्द-मन्दार सुरभि अनिल सत्-पदम् शरत् चन्द्र अंशु सन्दोह ध्वस्त दोषा तमः शिवम् कृष्णायाः हस्त तरल आचित कोमल वालुकम्

तद्दर्शनाह्लादविधूतहृद्रुजो
मनोरथान्तं श्रुतयो यथा ययु: ।
स्वैरुत्तरीयै: कुचकुङ्कुमाङ्कितै-
रचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥

तत् दर्शन आह्लाद विधूत हृत् रुजः मनः-रथ अन्तम् श्रुतयः यथा ययुः स्वैः उत्तरीयैः कुच कुङ्कुम अङ्कितैः अचीकॢपन् आसनम् आत्म बन्धवे

तत्रोपविष्टो भगवान् स ईश्वरो
योगेश्वरान्तर्हृदि कल्पितासन: ।
चकास गोपीपरिषद्गतोऽर्चित-
स्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥

तत्र उपविष्टः भगवान् सः ईश्वरः योग-ईश्वर अन्तः हृदि कल्पित आसनः चकास गोपी-परिषत् गतः अर्चितः त्रै-लोक्य लक्ष्मी एक पदम् वपुः दधत्

सभाजयित्वा तमनङ्गदीपनं
सहासलीलेक्षणविभ्रमभ्रुवा ।
संस्पर्शनेनाङ्ककृताङ्‍‍‍‍‍घ्रिहस्तयो:
संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥

सभाजयित्वा तम् अनङ्ग दीपनम् स-हास लीला ईक्षण विभ्रम भ्रुवा संस्पर्शनेन अङ्क कृत अङ्घ्रि हस्तयोः संस्तुत्य ईषत् कुपिताः बभाषिरे

श्रीगोप्य ऊचु:
भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् ।
नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भो: ॥ १६ ॥

श्री-गोप्यः ऊचुः भजतः अनु भजन्ति एके एके एतत् विपर्ययम् न उभयान् च भजन्ति एके एतत् नः ब्रूहि साधु भोः

श्रीभगवानुवाच
मिथो भजन्ति ये सख्य: स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्म: स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥

श्री-भगवान् उवाच मिथः भजन्ति ये सख्यः स्व-अर्थ एक-अन्त उद्यमाः हि ते न तत्र सौहृदम् धर्मः स्व-अर्थ अर्थम् तत् हि न अन्यथा

भजन्त्यभजतो ये वै करुणा: पितरौ यथा ।
धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमा: ॥ १८ ॥

भजन्ति अभजतः ए वै करुणाः पितरौ यथा धर्मः निरपवादः अत्र सौहृदम् च सु-मध्यमाः

भजतोऽपि न वै केचिद् भजन्त्यभजत: कुत: ।
आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुह: ॥ १९ ॥

भजतः अपि न वै केचित् भजन्ति अभजतः कुतः आत्म-आरामाः हि आप्त-कामाः अकृत-ज्ञाः गुरु-द्रुहः

नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्यमीषामनुवृत्तिवृत्तये ।
यथाधनो लब्धधने विनष्टे
तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥

न अहम् तु सख्यः भजतः अपि जन्तून् भजामि अमीषाम् अनुवृत्ति वृत्तये यथा अधनः लब्ध धने विनष्टे तत् चिन्तया अन्यत् निभृतः न वेद

एवं मदर्थोज्झितलोकवेद-
स्वानां हि वो मय्यनुवृत्तयेऽबला: ।
मयापरोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रिया: ॥ २१ ॥

एवम् मत् अर्थ उज्झित लोक वेद स्वानाम् हि वः मयि अनुवृत्तये अबलाः मया अपरोक्षम् भजता तिरोहितम् मा असूयितुम् म अर्हथ तत् प्रियम् प्रियाः

न पारयेऽहं निरवद्यसंयुजां
स्वसाधुकृत्यं विबुधायुषापि व: ।
या माभजन् दुर्जरगेहश‍ृङ्खला:
संवृश्च्य तद् व: प्रतियातु साधुना ॥ २२ ॥

न पारये अहम् निरवद्य-संयुजाम् स्व-साधु-कृत्यम् विबुध-आयुषा अपि वः याः मा अभजन् दुर्जर गेह-शृङ्खलाः संवृश्च्य तत् वः प्रतियातु साधुना

१०.३३

श्रीशुक उवाच
इत्थं भगवतो गोप्य: श्रुत्वा वाच: सुपेशला: ।
जहुर्विरहजं तापं तदङ्गोपचिताशिष: ॥ १ ॥

श्री-शुकः उवाच इत्थम् भगवतः गोप्यः श्रुत्वा वाचः सु-पेशलाः जहुः विरह-जम् तापम् तत् अङ्ग उपचित आशिषः

तत्रारभत गोविन्दो रासक्रीडामनुव्रतै: ।
स्त्रीरत्नैरन्वित: प्रीतैरन्योन्याबद्धबाहुभि: ॥ २ ॥

तत्र आरभत गोविन्दः रास-क्रीडम् अनुव्रतैः स्त्री रत्नैः अन्वितः प्रीतैः अन्योन्य आबद्ध बाहुभिः

रासोत्सव: सम्प्रवृत्तो गोपीमण्डलमण्डित: ।
योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयो: ।
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रिय: ।
यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ।
दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ३ ॥

रास उत्सवः सम्प्रवृत्तः गोपी-मण्डल मण्डितः योग ईश्वरेण कृष्णेन तासाम् मध्ये द्वयोः द्वयोः प्रविष्टेन गृहीटानाम् कण्ठे स्व-निकटम् स्त्रियः यम् मन्येरन् नभः तावत् विमान शत सङ्कुलम् दिव ओकसाम् स दाराणाम् औत्सुक्य अपहृत आत्मनाम्

ततो दुन्दुभयो नेदुर्निपेतु: पुष्पवृष्टय: ।
जगुर्गन्धर्वपतय: सस्त्रीकास्तद्यशोऽमलम् ॥ ४ ॥

ततः दुन्दुभयः नेदुः निपेतुः पुष्प वृष्टयः जगुः गन्धर्व-पतयः स-स्त्रीकाः तत् यशः अमलम्

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।
सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ५ ॥

वलयानाम् नूपुराणाम् किङ्किणीनाम् च योषिताम् स-प्रियाणाम् अभूत् शब्दः तुमुलः रास-मण्डले

तत्रातिशुशुभे ताभिर्भगवान् देवकीसुत: ।
मध्ये मणीनां हैमानां महामरकतो यथा ॥ ६ ॥

तत्र अतिशुशुभे ताभिः भगवान् देवकी-सुतः मध्ये मणीनाम् हैमानाम् महा मरकतः यथा

पादन्यासैर्भुजविधुतिभि: सस्मितैर्भ्रूविलासै-
र्भज्यन्मध्यैश्चलकुचपटै: कुण्डलैर्गण्डलोलै: ।
स्विद्यन्मुख्य: कवररसनाग्रन्थय: कृष्णवध्वो
गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजु: ॥ ७ ॥

पाद न्यासैः भुज विधुतिभिः स-स्मितैः भ्रू विलासैः भज्यन् मध्यैः चल कुच पटैः कुण्डलैः गण्ड लोलैः स्विद्यन् मुख्यः कवर रसना आग्रन्थयः कृष्ण-वध्वः गायन्त्यः तम् तडितः इव ताः मेघ-चक्रे विरेजुः

उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रिया: ।
कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ८ ॥

उच्चैः जगुः नृत्यमानाः रक्त कण्ठ्यः रति प्रियाः कृष्ण-अभिमर्श मुदिताः यत् गीतेन इदम् आवृतम्

काचित् समं मुकुन्देन स्वरजातीरमिश्रिता: ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।
तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ ९ ॥

काचित् समम् मुकुन्देन स्वर-जातीः अमिश्रिताः उन्निन्ये पूजिता तेन प्रीयता साधु साधु इति तत् एव ध्रुवम् उन्निन्ये तस्यै मानम् च बहु अदात्

काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृत: ।
जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ १० ॥

काचित् रास परिश्रान्ता पार्श्व स्थस्य गदा-भृतः जग्राह बाहुना स्कन्धम् श्लथत् वलय मल्लिका

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ ११ ॥

तत्र एका अंस गतम् बाहुम् कृष्णस्य उत्पल सौरभम् चन्दन आलिप्तम् आघ्राय हृष्ट रोमा चुचुम्ब ह

कस्याश्‍चिन्नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् ।
गण्डं गण्डे सन्दधत्या: प्रादात्ताम्बूलचर्वितम् ॥ १२ ॥

कस्याश्चित् नाट्य विक्षिप्त कुण्डल त्विष मण्डितम् गण्डम् गण्डे सन्दधत्याः प्रादात् ताम्बूल चर्वितम्

नृत्यती गायती काचित् कूजन्नूपुरमेखला ।
पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयो: शिवम् ॥ १३ ॥

नृत्यती गायती काचित् कूजन् नूपुर मेखला पार्श्व-स्थ अच्युत हस्त-अब्जम् श्रान्ता अधात् स्तनयोः शिवम्

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।
गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १४ ॥

गोप्यः लब्ध्वा अच्युतम् कान्तम् श्रियः एकान्त वल्लभम् गृहीत कण्ठ्यः तत् दोर्भ्याम् गायन्त्यः तम् विजह्रिरे

कर्णोत्पलालकविटङ्ककपोलघर्म-
वक्त्रश्रियो वलयनूपुरघोषवाद्यै: ।
गोप्य: समं भगवता ननृतु: स्वकेश-
स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १५ ॥

कर्ण उत्पल अलक वितङ्क कपोल घर्म वक्त्र श्रियः वलय नूपुर घोष वाद्यैः गोप्यः समम् भगवता ननृतुः स्व केश स्रस्त स्रजः भ्रमर गायक रास गोष्ठ्याम्

एवं परिष्वङ्गकराभिमर्श-
स्निग्धेक्षणोद्दामविलासहासै: ।
रेमे रमेशो व्रजसुन्दरीभि-
र्यथार्भक: स्वप्रतिबिम्बविभ्रम: ॥ १६ ॥

एवम् परिष्वङ्ग कर अभिमर्श स्निग्ध ईक्षण उद्दाम विलास हासैः रेमे रमा ईशः व्रज-सुन्दरीभिः यथा अर्भकः स्व प्रतिबिम्ब विभ्रमः

तदङ्गसङ्गप्रमुदाकुलेन्द्रिया:
केशान् दुकूलं कुचपट्टिकां वा ।
नाञ्ज: प्रतिव्योढुमलं व्रजस्त्रियो
विस्रस्तमालाभरणा: कुरूद्वह ॥ १७ ॥

तत् अङ्ग-सङ्ग प्रमुदा आकुल इन्द्रियाः केशान् दुकूलम् कुच-पट्टिकाम् वा न अञ्जः प्रतिव्योढुम् अलम् व्रज-स्त्रियः विस्रस्त माला आभरणाः कुरु-उद्वह

कृष्णविक्रीडितं वीक्ष्य मुमुहु: खेचरस्त्रिय: ।
कामार्दिता: शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १८ ॥

कृष्ण-विक्रीडितम् वीक्ष्य मुमुहुः खे-चर स्त्रियः काम अर्दिताः शशाङ्कः च स-गणः विस्मितः अभवत्

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषित: ।
रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ १९ ॥

कृत्वा तावन्तम् आत्मानम् यावतीः गोप-योषितः रेमे सः भगवान् ताभिः आत्म-आरामः अपि लीलया

तासां रतिविहारेण श्रान्तानां वदनानि स: ।
प्रामृजत् करुण: प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २० ॥

तासाम् रति विहारेण श्रान्तानाम् वदनानि सः प्रामृजत् करुणः प्रेम्णा शन्तमेन अङ्ग पाणिना

गोप्य: स्फुरत्पुरटकुण्डलकुन्तलत्विड्-
गण्डश्रिया सुधितहासनिरीक्षणेन ।
मानं दधत्य ऋषभस्य जगु: कृतानि
पुण्यानि तत्कररुहस्पर्शप्रमोदा: ॥ २१ ॥

गोप्यः स्फुरत् पुरट कुण्डल कुन्तल त्विट् गण्ड श्रिया सुधित हास निरीक्षणेन मानम् दधत्यः ऋषभस्य जगुः कृतानि पुण्यानि तत् कर-रुह स्पर्श प्रमोदाः

ताभिर्युत: श्रममपोहितुमङ्गसङ्ग-
घृष्टस्रज: स कुचकुङ्कुमरञ्जिताया: ।
गन्धर्वपालिभिरनुद्रुत आविशद् वा:
श्रान्तो गजीभिरिभराडिव भिन्नसेतु: ॥ २२ ॥

ताभिः युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग घृष्ट स्रजः सः कुच कुङ्कुम रञ्जितायाः गन्धर्व-प अलिभिः अनुद्रुतः आविशत् वाः श्रान्तः गजीभिः इभ-राट् इव भिन्न सेतुः

सोऽम्भस्यलं युवतिभि: परिषिच्यमान:
प्रेम्णेक्षित: प्रहसतीभिरितस्ततोऽङ्ग ।
वैमानिकै: कुसुमवर्षिभिरीड्यमानो
रेमे स्वयं स्वरतिरत्र गजेन्द्रलील: ॥ २३ ॥

सः अम्भसि अलम् युवतिभिः परिषिच्यमानः प्रेम्णा ईक्षितः प्रहसतीभिः इतः ततः अङ्ग वैमानिकैः कुसुम वर्षिभिः ईड्यमानः रेमे स्वयम् स्व-रतिः अत्र गज-इन्द्र लीलः

ततश्च कृष्णोपवने जलस्थल-
प्रसूनगन्धानिलजुष्टदिक्तटे ।
चचार भृङ्गप्रमदागणावृतो
यथा मदच्युद् द्विरद: करेणुभि: ॥ २४ ॥

ततः च कृष्णा उपवने जल स्थल प्रसून गन्ध अनिल जुष्ट दिक्-तटे चचार भृङ्ग प्रमदा गण आवृतः यथा मद-च्युत् द्विरदः करेणुभिः

एवं शशाङ्कांशुविराजिता निशा:
स सत्यकामोऽनुरताबलागण: ।
सिषेव आत्मन्यवरुद्धसौरत:
सर्वा: शरत्काव्यकथारसाश्रया: ॥ २५ ॥

एवम् शशाङ्क अंशु विराजिताः निशाः सः सत्य-कामः अनुरत अबला-गणः सिषेवे आत्मनि अवरुद्ध सौरतः सर्वाः शरत् काव्य कथा रस आश्रयाः

श्रीपरीक्षिदुवाच
संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।
अवतीर्णो हि भगवानंशेन जगदीश्वर: ॥ २६ ॥
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २७ ॥

श्री-परीक्षित् उवाच संस्थापनाय धर्मस्य प्रशमाय इतरस्य च अवतीर्णः हि भगवान् अंशेन जगत् ईश्वरः सः कथम् धर्म-सेतूनाम् वक्ता कर्ता अभिरक्षिता प्रतीपम् आचरत् ब्रह्मन् पर दार अभिमर्शनम्

आप्तकामो यदुपति: कृतवान्वै जुगुप्सितम् ।
किमभिप्राय एतन्न: शंशयं छिन्धि सुव्रत ॥ २८ ॥

आप्त-कामः यदु-पतिः कृतवान् वै जुगुप्सितम् किम्-अभिप्रायः एतत् नः शंशयम् छिन्धि सु-व्रत

श्रीशुक उवाच
धर्मव्यतिक्रमो द‍ृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्ने: सर्वभुजो यथा ॥ २९ ॥

श्री-शुकः उवाच धर्म-व्यतिक्रमः दृष्टः ईश्वराणाम् च साहसम् तेजीयसाम् न दोषाय वह्नेः सर्व भुजः यथा

नैतत् समाचरेज्जातु मनसापि ह्यनीश्वर: ।
विनश्यत्याचरन् मौढ्याद्यथारुद्रोऽब्धिजं विषम् ॥ ३० ॥

न एतत् समाचरेत् जातु मनसा अपि हि अनीश्वरः विनश्यति आचरन् मौढ्यात् यथा अरुद्रः अब्धिजम् विषम्

ईश्वराणां वच: सत्यं तथैवाचरितं क्‍वचित् ।
तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३१ ॥

ईश्वरानाम् वचः सत्यम् तथा एव आचरितम् क्वचित् तेषाम् यत् स्व-वचः युक्तम् बुद्धि-मान् तत् समाचरेत्

कुशलाचरितेनैषामिह स्वार्थो न विद्यते ।
विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३२ ॥

कुशल आचरितेन एषाम् इह स्व-अर्थः न विद्यते विपर्ययेण वा अनर्थः निरहङ्कारिणाम् प्रभो

किमुताखिलसत्त्वानां तिर्यङ्‌मर्त्यदिवौकसाम् ।
ईशितुश्चेशितव्यानां कुशलाकुशलान्वय: ॥ ३३ ॥

किम् उत अखिल सत्त्वानाम् तिर्यक् मर्त्य दिव-ओकसाम् ईशितुः च ईशितव्यानाम् कुशल अकुशल अन्वयः

यत्पादपङ्कजपरागनिषेवतृप्ता
योगप्रभावविधुताखिलकर्मबन्धा: ।
स्वैरं चरन्ति मुनयोऽपि न नह्यमाना-
स्तस्येच्छयात्तवपुष: कुत एव बन्ध: ॥ ३४ ॥

यत् पाद-पङ्कज पराग निषेव तृप्ताः योग-प्रभाव विधुत अखिल कर्म बन्धाः स्वैरम् चरन्ति मुनयः अपि न नह्यमानाः तस्य इच्छया आत्त वपुषः कुतः एव बन्धः

गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।
योऽन्तश्चरति सोऽध्यक्ष: क्रीडनेनेह देहभाक् ॥ ३५ ॥

गोपीनाम् तत्-पतीनाम् च सर्वेषाम् एव देहिनाम् यः अन्तः चरति सः अध्यक्षः क्रीडनेन इह देह भाक्

अनुग्रहाय भक्तानां मानुषं देहमास्थित: ।
भजते ताद‍ृशी: क्रीडा या: श्रुत्वा तत्परो भवेत् ॥ ३६ ॥

अनुग्रहाय भक्तानाम् मानुषम् देहम् आस्थितः भजते तादृशीः क्रिडाः याः श्रुत्वा तत्-परः भवेत्

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमाना: स्वपार्श्वस्थान्स्वान्स्वान्दारान् व्रजौकस: ॥ ३७ ॥

न असूयन् खलु कृष्णाय मोहिताः तस्य मायया मन्यमानाः स्व-पार्श्व स्थान् स्वान् स्वान् दारान् व्रज-ओकसः

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिता: ।
अनिच्छन्त्यो ययुर्गोप्य: स्वगृहान्भगवत्प्रिया: ॥ ३८ ॥

ब्रह्म-रात्रे उपावृत्ते वासुदेव अनुमोदिताः अनिच्छन्त्यः ययुः गोप्यः स्व-गृहान् भगवत् प्रियाः

विक्रीडितं व्रजवधूभिरिदं च विष्णो:
श्रद्धान्वितोऽनुश‍ृणुयादथ वर्णयेद् य: ।
भक्तिं परां भगवति प्रतिलभ्य कामं
हृद्रोगमाश्वपहिनोत्यचिरेण धीर: ॥ ३९ ॥

विक्रीडितम् व्रज-वधूभिः इदम् च विष्णोः श्रद्धा-अन्वितः अनुशृणुयात् अथ वर्णयेत् यः भक्तिम् पराम् भगवति प्रतिलभ्य कामम् हृत् रोगम् आशु अपहिनोति अचिरेण धीरः

१०.३४

श्रीशुक उवाच
एकदा देवयात्रायां गोपाला जातकौतुका: ।
अनोभिरनडुद्युक्तै: प्रययुस्तेऽम्बिकावनम् ॥ १ ॥

श्री-शुकः उवाच एकदा देव यत्रायाम् गोपालाः जात-कौतुकाः अनोभिः अनडुत् युक्तैः प्रययुः ते अम्बिका-वनम्

तत्र स्‍नात्वा सरस्वत्यां देवं पशुपतिं विभुम् ।
आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥ २ ॥

तत्र स्नात्वा सरस्वत्याम् देवम् पशु-पतिम् विभुम् आनर्चुः अर्हणैः भक्त्या देवीम् च नृ-पते अम्बिकाम्

गावो हिरण्यं वासांसि मधु मध्वन्नमाद‍ृता: ।
ब्राह्मणेभ्यो ददु: सर्वे देवो न: प्रीयतामिति ॥ ३ ॥

गावः हिरण्यम् वासांसि मधु मधु अन्नम् आदृताः ब्राह्मणेभ्यः ददुः सर्वे देवः नः प्रीयताम् इति

ऊषु: सरस्वतीतीरे जलं प्राश्य यतव्रता: ।
रजनीं तां महाभागा नन्दसुनन्दकादय: ॥ ४ ॥

ऊषुः सरस्वती-तीरे जलम् प्राश्य यत-व्रताः रजनीम् ताम् महा-भागाः नन्द-सुनन्दक-आदयः

कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षित: ।
यद‍ृच्छयागतो नन्दं शयानमुरगोऽग्रसीत् ॥ ५ ॥

कश्चित् महान् अहिः तस्मिन् विपिने अति-बुभुक्षितः यदृच्छया आगतः नन्दम् शयानम् उर-गः अग्रसीत्

स चुक्रोशाहिना ग्रस्त: कृष्ण कृष्ण महानयम् ।
सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ ६ ॥

सः चुक्रोश अहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् सर्पः माम् ग्रसते तात प्रपन्नम् परिमोचय

तस्य चाक्रन्दितं श्रुत्वा गोपाला: सहसोत्थिता: ।
ग्रस्तं च द‍ृष्ट्वा विभ्रान्ता: सर्पं विव्यधुरुल्मुकै: ॥ ७ ॥

तस्य च आक्रन्दितम् श्रुत्वा गोपालाः सहसा उत्थिताः ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुः उल्मुकैः

अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गम: ।
तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पति: ॥ ८ ॥

अलातैः दह्यमानः अपि न अमुञ्चत् तम् उरङ्गमः तम् अस्पृशत् पदा अभ्येत्य भगवान् सात्वताम् पतिः

स वै भगवत: श्रीमत्पादस्पर्शहताशुभ: ।
भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥ ९ ॥

सः वै भगवतः श्री-मत् पाद स्पर्श हत अशुभः भेजे सर्प-वपुः हित्वा रूपम् विद्याधर अर्चितम्

तमपृच्छद् धृषीकेश: प्रणतं समवस्थितम् ।
दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥ १० ॥

तम् अपृच्छत् हृषीकेशः प्रणतम् समवस्थितम् दीप्यमानेन वपुषा पुरुषम् हेम मालिनम्

को भवान् परया लक्ष्म्या रोचतेऽद्भ‍ुतदर्शन: ।
कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवश: ॥ ११ ॥

कः भवान् परया लक्ष्म्या रोचते अद्भुत दर्शनः कथम् जुगुप्सिताम् एताम् गतिम् वा प्रापितः अवशः

सर्प उवाच
अहं विद्याधर: कश्चित्सुदर्शन इति श्रुत: ।
श्रिया स्वरूपसम्पत्त्या विमानेनाचरन् दिश: ॥ १२ ॥
ऋषीन् विरूपाङ्गिरस: प्राहसं रूपदर्पित: ।
तैरिमां प्रापितो योनिं प्रलब्धै: स्वेन पाप्मना ॥ १३ ॥

सर्पः उवाच अहम् विद्याधरः कश्चित् सुदर्शनः इति श्रुतः श्रिया स्वरूप सम्पत्त्या विमानेन आचरन् दिशः ऋषीन् विरूप आङ्गिरसः प्राहसम् रूप दर्पितः तैः इमाम् प्रापितः योनिम् प्रलब्धैः स्वेन पाप्मना

शापो मेऽनुग्रहायैव कृतस्तै: करुणात्मभि: ।
यदहं लोकगुरुणा पदा स्पृष्टो हताशुभ: ॥ १४ ॥

शापः मे अनुग्रहाय एव कृतः तैः करुण-आत्मभिः यत् अहम् लोक गुरुणा पदा स्पृष्टः हत अशुभः

तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् ।
आपृच्छे शापनिर्मुक्त: पादस्पर्शादमीवहन् ॥ १५ ॥

तम् त्वा अहम् भव भीतानाम् प्रपन्नानाम् भय अपहम् आपृच्छे शाप निर्मुक्तः पाद-स्पर्शात् अमीव हन्

प्रपन्नोऽस्मि महायोगिन् महापुरुष सत्पते ।
अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ॥ १६ ॥

प्रपन्नः अस्मि महा-योगिन् महा-पुरुष सत्-पते अनुजानीहि माम् देव सर्व लोक ईश्वर ईश्वर

ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात् ।
यन्नाम गृह्णन्नखिलान् श्रोतृनात्मानमेव च ।
सद्य: पुनाति किं भूयस्तस्य स्पृष्ट: पदा हि ते ॥ १७ ॥

ब्रह्म दण्डात् विमुक्तः अहम् सद्यः ते अच्युत दर्शनात् यत् नाम गृह्णन् अखिलान् श्रोतॄन् आत्मानम् एव च सद्यः पुनाति किम् भूयः तस्य स्पृष्टः पदा हि ते

इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च ।
सुदर्शनो दिवं यात: कृच्छ्रान्नन्दश्च मोचित: ॥ १८ ॥

इति अनुज्ञाप्य दाशार्हम् परिक्रम्य अभिवन्द्य च सुदर्शनः दिवम् यातः कृच्छ्रात् नन्दः च मोचितः

निशाम्य कृष्णस्य तदात्मवैभवं
व्रजौकसो विस्मितचेतसस्तत: ।
समाप्य तस्मिन् नियमं पुनर्व्रजं
नृपाययुस्तत् कथयन्त आद‍ृता: ॥ १९ ॥

निशाम्य कृष्णस्य तत् आत्म वैभवम् व्रज-ओकसः विस्मित चेतसः ततः समाप्य तस्मिन् नियमम् पुनः व्रजम् नृप आययुः तत् कथयन्तः आदृताः

कदाचिदथ गोविन्दो रामश्चाद्भ‍ुतविक्रम: ।
विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ २० ॥

कदाचित् अथ गोविन्दः रामः च अद्भुत विक्रमः विजह्रतुः वने रात्र्याम् मध्य-गौ व्रज-योषिताम्

उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदै: ।
स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ ॥ २१ ॥

उपगीयमानौ ललितम् स्त्री-जनैः बद्ध सौहृदैः सु-अलङ्कृत अनुलिप्त अङ्गौ स्रक्-विनौ विरजः अम्बरौ

निशामुखं मानयन्तावुदितोडुपतारकम् ।
मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना ॥ २२ ॥

निशा-मुखम् मानयन्तौ उदित उडुप तारकम् मल्लिका गन्ध मत्त अलि जुष्टम् कुमुद वायुना

जगतु: सर्वभूतानां मन:श्रवणमङ्गलम् ।
तौ कल्पयन्तौ युगत्स्वरमण्डलमूर्च्छितम् ॥ २३ ॥

जगतुः सर्व-भूतानाम् मनः श्रवण मङ्गलम् तौ कल्पयन्तौ युगपत् स्वर मण्डल मूर्च्छितम्

गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप ।
स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं तत: ॥ २४ ॥

गोप्यः तत् गीतम् आकर्ण्य मूर्च्छिताः न अविदन् नृप स्रंसत् दुकूलम् आत्मानम् स्रस्त केश स्रजम् ततः

एवं विक्रीडतो: स्वैरं गायतो: सम्प्रमत्तवत् ।
शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥ २५ ॥

एवम् विक्रीडतोः स्वैरम् गायतोः सम्प्रमत्त वत् शङ्खचूडः इति ख्यातः धन-द अनुचरः अभ्यगात्

तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम् ।
क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कित: ॥ २६ ॥

तयोः निरीक्षतोः राजन् तत्-नाथम् प्रमदा-जनम् क्रोशन्तम् कालयाम् आस दिशि उदीच्याम् अशङ्कितः

क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् ।
यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ॥ २७ ॥

क्रोशन्तम् कृष्ण राम इति विलोक्य स्व-परिग्रहम् यथा गाः दस्युना ग्रस्ताः भ्रातरौ अन्वधावताम्

मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ ।
आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ॥ २८ ॥

मा भैष्ट इति अभय आरावौ शाल हस्तौ तरस्विनौ आसेदतुः तम् तरसा त्वरितम् गुह्यक अधमम्

स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् ।
विषृज्य स्त्रीजनं मूढ: प्राद्रवज्जीवितेच्छया ॥ २९ ॥

सः वीक्ष्य तौ अनुप्राप्तौ काल-मृत्यू इव उद्विजन् विसृज्य स्त्री-जनम् मूढः प्राद्रवत् जीवित इच्छया

तमन्वधावद् गोविन्दो यत्र यत्र स धावति ।
जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बल: ॥ ३० ॥

तम् अन्वधावत् गोविन्दः यत्र यत्र सः धावति जिहीर्षुः तत् शिरः रत्नम् तस्थौ रक्षन् स्त्रियः बलः

अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मन: ।
जहार मुष्टिनैवाङ्ग सहचूडमणिं विभु: ॥ ३१ ॥

अविदूरे इव अभ्येत्य शिरः तस्य दुरात्मनः जहार मुष्टिना एव अङ्ग सह चूड-मणिम् विभुः

शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम् ।
अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ॥ ३२ ॥

शङ्खचूडम् निहत्य एवम् मणिम् आदाय भास्वरम् अग्र-जाय अददात् प्रीत्या पश्यन्तीनाम् च योषिताम्

१०.३५

श्रीशुक उवाच
गोप्य: कृष्णे वनं याते तमनुद्रुतचेतस: ।
कृष्णलीला: प्रगायन्त्यो निन्युर्दु:खेन वासरान् ॥ १ ॥

श्री-शुकः उवाच गोप्यः कृष्णे वनम् याते तम् अनुद्रुत चेतसः कृष्ण-लीलाः प्रगायन्त्यः निन्युः दुःखेन वासरान्

श्रीगोप्य ऊचु:
वामबाहुकृतवामकपोलो
वल्गितभ्रुरधरार्पितवेणुम् ।
कोमलाङ्गुलिभिराश्रितमार्गं
गोप्य ईरयति यत्र मुकुन्द: ॥ २ ॥
व्योमयानवनिता: सह सिद्धै-
र्विस्मितास्तदुपधार्य सलज्जा: ।
काममार्गणसमर्पितचित्ता:
कश्मलं ययुरपस्मृतनीव्य: ॥ ३ ॥

श्री-गोप्यः ऊचुः वाम बाहु कृत वाम कपोलः वल्गित भ्रुः अधर अर्पित वेणुम् कोमल अङ्गुलिभिः आश्रित-मार्गम् गोप्यः ईरयति यत्र मुकुन्दः व्योम यान वनिताः सह सिद्धैः विस्मिताः तत् उपधार्य स लज्जाः काम मार्गण समर्पित चित्ताः कश्मलम् ययुः अपस्मृत नीव्यः

हन्त चित्रमबला: श‍ृणुतेदं
हारहास उरसि स्थिरविद्युत् ।
नन्दसूनुरयमार्तजनानां
नर्मदो यर्हि कूजितवेणु: ॥ ४ ॥
वृन्दशो व्रजवृषा मृगगावो
वेणुवाद्यहृतचेतस आरात् ।
दन्तदष्टकवला धृतकर्णा
निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥

हन्त चित्रम् अबलाः शृणुत इदम् हार हासः उरसि स्थिर विद्युत् नन्द-सूनुः अयम् आर्त जनानाम् नर्म दः यर्हि कूजित वेणुः व्र्ण्दशः व्रज वृषाः मृग गावः वेणु वाद्य हृत चेतसः आरात् दन्त दष्ट कवलाः धृत कर्णाः निद्रिताः लिखित चित्रम् इव आसन्

बर्हिणस्तबकधातुपलाशै-
र्बद्धमल्लपरिबर्हविडम्ब: ।
कर्हिचित् सबल आलि स गोपै-
र्गा: समाह्वयति यत्र मुकुन्द: ॥ ६ ॥
तर्हि भग्नगतय: सरितो वै
तत्पदाम्बुजरजोऽनिलनीतम् ।
स्पृहयतीर्वयमिवाबहुपुण्या:
प्रेमवेपितभुजा: स्तिमिताप: ॥ ७ ॥

बर्हिण स्तबक धातु पलाशैः बद्ध मल्ल परिबर्ह विडम्बः कर्हिचित् स-बलः आलि सः गोपैः गाः समाह्वयति यत्र मुकुन्दः तर्हि भग्न गतयः सरितः वै तत् पद-अम्बुज रजः अनिल नीतम् स्पृहयतीः वयम् इव अबहु पुण्याः प्रेम वेपित भुजाः स्तिमित आपः

अनुचरै: समनुवर्णितवीर्य
आदिपूरुष इवाचलभूति: ।
वनचरो गिरितटेषु चरन्ती-
र्वेणुनाह्वयति गा: स यदा हि ॥ ८ ॥
वनलतास्तरव आत्मनि विष्णुं
व्यञ्जयन्त्य इव पुष्पफलाढ्या: ।
प्रणतभारविटपा मधुधारा:
प्रेमहृष्टतनवो ववृषु: स्म ॥ ९ ॥
दर्शनीयतिलको वनमाला-
दिव्यगन्धतुलसीमधुमत्तै: ।
अलिकुलैरलघुगीतामभीष्ट-
माद्रियन् यर्हि सन्धितवेणु: ॥ १० ॥
सरसि सारसहंसविहङ्गा-
श्चारुगीताहृतचेतस एत्य ।
हरिमुपासत ते यतचित्ता
हन्त मीलितद‍ृशो धृतमौना: ॥ ११ ॥

अनुचरैः समनुवर्णित वीर्यः आदि-पूरुषः इव अचल भूतिः वन चरः गिरि तटेसु चरन्तीः वेणुना आह्वयति गाः सः यदा हि वन-लताः तरवः आत्मनि विष्णुम् व्यञ्जयन्त्यः इव पुष्प फल आढ्याः प्रणत भार विटपाः मधु धाराः प्रेम हृष्ट तनवः ववृषुः स्म दर्शनीय तिलकः वन-माला दिव्य गन्ध तुलसी मधु मत्तैः अलि कुलैः अलघु गीतम् अभीष्टम् आद्रियन् यर्हि सन्धित वेणुः सरसि सारस हंस विहङ्गाः चारु गीत हृत चेतसः एत्य हरिम् उपासत ते यत चित्ताः हन्त मीलित दृशः धृत मौनाः

सहबल: स्रगवतंसविलास:
सानुषु क्षितिभृतो व्रजदेव्य: ।
हर्षयन् यर्हि वेणुरवेण
जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥
महदतिक्रमणशङ्कितचेता
मन्दमन्दमनुगर्जति मेघ: ।
सुहृदमभ्यवर्षत् सुमनोभि-
श्छायया च विदधत् प्रतपत्रम् ॥ १३ ॥

सह-बलः स्रक् अवतंस विलासः सानुषु क्षिति-भृतः व्रज-देव्यः हर्षयन् यर्हि वेणु रवेण जात-हर्षः उपरम्भति विश्वम् महत् अतिक्रमण शङ्कित चेताः मन्द-मन्दम् अनुगर्जति मेघः सुहृदम् अभ्यवर्षत् सुमनोभिः छायया च विदधत् प्रतपत्रम्

विविधगोपचरणेषु विदग्धो
वेणुवाद्य उरुधा निजशिक्षा: ।
तव सुत: सति यदाधरबिम्बे
दत्तवेणुरनयत् स्वरजाती: ॥ १४ ॥
सवनशस्तदुपधार्य सुरेशा:
शक्रशर्वपरमेष्ठिपुरोगा: ।
कवय आनतकन्धरचित्ता:
कश्मलं ययुरनिश्चिततत्त्वा: ॥ १५ ॥

विविध गोप चरणेषु विदग्धः वेणु वाद्ये उरुधा निज शिक्षाः तव सुतः सति यदा अधर बिम्बे दत्त वेणुः अनयत् स्वर जातीः सवनशः तत् उपधार्य सुर-ईशाः शक्र शर्व परमेष्ठि पुरः-गाः कवयः आनत कन्धर चित्ताः कश्मलम् ययुः अनिश्चित तत्त्वाः

निजपदाब्जदलैर्ध्वजवज्र-
नीरजाङ्कुशविचित्रललामै: ।
व्रजभुव: शमयन् खुरतोदं
वर्ष्मधुर्यगतिरीडितवेणु: ॥ १६ ॥
व्रजति तेन वयं सविलास-
वीक्षणार्पितमनोभववेगा: ।
कुजगतिं गमिता न विदाम:
कश्मलेन कवरं वसनं वा ॥ १७ ॥

निज पद-अब्ज दलैः ध्वज वज्र नीरज अङ्कुश विचित्र ललामैः व्रज भुवः शमयन् खुर तोदम् वर्ष्म धुर्य गतिः ईडित वेणुः व्रजति तेन वयम् सविलास वीक्षण अर्पित मनः-भव वेगाः कुज गतिम् गमिताः न विदामः कश्मलेण कवरम् वसनम् वा

मणिधर: क्‍वचिदागणयन् गा
मालया दयितगन्धतुलस्या: ।
प्रणयिनोऽनुचरस्य कदांसे
प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥
क्‍वणितवेणुरववञ्चितचित्ता:
कृष्णमन्वसत कृष्णगृहिण्य: ।
गुणगणार्णमनुगत्य हरिण्यो
गोपिका इव विमुक्तगृहाशा: ॥ १९ ॥

मणि धरः क्वचित् आगणयन् गाः मालया दयित गन्ध तुलस्याः प्रणयिनः अनुचरस्य कदा अंसे प्रक्षिपन् भुजम् अगायत यत्र क्वणित वेणु रव वञ्चित चित्ताः कृष्णम् अन्वसत कृष्ण गृहिण्यः गुण-गण अर्णम् अनुगत्य हरिण्यः गोपिकाः इव विमुक्त गृह आशाः

कुन्ददामकृतकौतुकवेषो
गोपगोधनवृतो यमुनायाम् ।
नन्दसूनुरनघे तव वत्सो
नर्मद: प्रणयिणां विजहार ॥ २० ॥
मन्दवायुरुपवात्यनुकूलं
मानयन् मलयजस्पर्शेन ।
वन्दिनस्तमुपदेवगणा ये
वाद्यगीतबलिभि: परिवव्रु: ॥ २१ ॥

कुन्द दाम कृत कौतुक वेषः गोप गोधन वृतः यमुनायाम् नन्द-सूनुः अनघे तव वत्सः नर्म-दः प्रणयिणाम् विजहार मन्द वायुः उपवाति अनुकूलम् मानयन् मलय-ज स्पर्शेन वन्दिनः तम् उपदेव गणाः ये वाद्य गीत बलिभिः परिवव्रुः

वत्सलो व्रजगवां यदगध्रो
वन्द्यमानचरण: पथि वृद्धै: ।
कृत्‍स्‍नगोधनमुपोह्य दिनान्ते
गीतवेणुरनुगेडितकीर्ति: ॥ २२ ॥
उत्सवं श्रमरुचापि द‍ृशीना-
मुन्नयन् खुररजश्छुरितस्रक् ।
दित्सयैति सुहृदासिष एष
देवकीजठरभूरुडुराज: ॥ २३ ॥

वत्सलः व्रज-गवाम् यत् अग ध्रः वन्द्यमान चरणः पथि वृद्धैः कृत्स्न गो-धनम् उपोह्य दिन अन्ते गीता-वेणुः अनुग ईडित कीर्तिः उत्सवम् श्रम रुचा अपि दृशीनाम् उन्नयन् खुर रजः छुरित स्रक् दित्सया एति सुहृत् आशिषः एषः देवकी जठर भूः उडु-राजः

मदविघूर्णितलोचन ईषत्-
मानद: स्वसुहृदां वनमाली ।
बदरपाण्डुवदनो मृदुगण्डं
मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
यदुपतिर्द्विरदराजविहारो
यामिनीपतिरिवैष दिनान्ते ।
मुदितवक्त्र उपयाति दुरन्तं
मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥

मद विघूर्णित लोचनः ईषत् मान-दः स्व-सुहृदाम् वन-माली बदर पाण्डु वदनः मृदु गण्डम् मण्डयन् कनक कुण्डल लक्ष्म्या यदु-पतिः द्विरद-राज विहारः यामिनी-पतिः इव एषः दिन-अन्ते मुदित वक्त्रः उपयाति दुरन्तम् मोचयन् व्रज गवाम् दिन तापम्

श्रीशुक उवाच
एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायती: ।
रेमिरेऽह:सु तच्चित्तास्तन्मनस्का महोदया: ॥ २६ ॥

श्री-शुकः उवाच एवम् व्रज-स्त्रियः राजन् कृष्ण-लीला अनुगायतीः रेमिरे अहःसु तत्-चित्ताः तत्-मनस्काः महा उदयाः

१०.३६

श्री बादरायणिरुवाच
अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुर: ।
महींमहाककुत्काय: कम्पयन्खुरविक्षताम् ॥ १ ॥

श्री बादरायणिः उवाच अथ तर्हि आगतः गोष्ठम् अरिष्टः वृषभ-असुरः महीम् महा ककुत् कायः कम्पयन् खुर विक्षताम्

रम्भमाण: खरतरं पदा च विलिखन् महीम् ।
उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ।
किञ्चित्किञ्चिच्छकृन् मुञ्चन्मूत्रयन्स्तब्धलोचन: ॥ २ ॥

रम्भमाणः खर-तरम् पदा च विलिखन् महीम् उद्यम्य पुच्छम् वप्राणि विषाण अग्रेण च उद्धरन् किञ्चित् किञ्चित् शकृत् मुञ्चन् मूत्रयन् स्तब्ध लोचनः

यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ।
पतन्त्यकालतो गर्भा: स्रवन्ति स्म भयेन वै ॥ ३ ॥
निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ।
तं तीक्ष्णश‍ृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसु: ॥ ४ ॥

यस्य निर्ह्रादितेन अङ्ग निष्ठुरेण गवाम् नृणाम् पतन्ति अकालतः गर्भाः स्रवन्ति स्म भयेन वै निर्विशन्ति घनाः यस्य ककुदि अचल शङ्कया तम् तीक्ष्ण शृङ्गम् उद्वीक्ष्य गोप्यः गोपाः च तत्रसुः

पशवो दुद्रुवुर्भीता राजन्सन्त्यज्य गोकुलम् ।
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययु: ॥ ५ ॥

पशवः दुद्रुवुः भीताः राजन् सन्त्यज्य गो-कुलम् कृष्ण कृष्ण इति ते सर्वे गोविन्दम् शरणम् ययुः

भगवानपि तद् वीक्ष्य गोकुलं भयविद्रुतम् ।
मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ॥ ६ ॥

भगवान् अपि तत् वीक्ष्य गो-कुलम् भय विद्रुतम् मा भैष्ट इति गिरा आश्वास्य वृष-असुरम् उपाह्वयत्

गोपालै: पशुभिर्मन्द त्रासितै: किमसत्तम ।
मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् ॥ ७ ॥

गोपालैः पशुभिः मन्द त्रासितैः किम् असत्तम मयि शास्तरि दुष्टानाम् त्वत्-विधानाम् दुरात्मनाम्

इत्यास्फोत्याच्युतोऽरिष्टं तलशब्देन कोपयन् ।
सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरि: ॥ ८ ॥

इति आस्फोत्य अच्युतः अरिष्टम् तल शब्देन कोपयन् सख्युः अंसे भुज आभोगम् प्रसार्य अवस्थितः हरिः

सोऽप्येवं कोपितोऽरिष्ट: खुरेणावनिमुल्लिखन् ।
उद्यत्पुच्छभ्रमन्मेघ: क्रुद्ध: कृष्णमुपाद्रवत् ॥ ९ ॥

सः अपि एवम् कोपितः अरिष्टः खुरेण अवनिम् उल्लिखन् उद्यत् पुच्छ भ्रमन् मेघः क्रुद्धः कृष्णम् उपाद्रवत्

अग्रन्यस्तविषाणाग्र: स्तब्धासृग्लोचनोऽच्युतम् ।
कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥

अग्र न्यस्त विषाण अग्रः स्तब्ध असृक् लोचनः अच्युतम् कट-आक्षिप्य अद्रवत् तूर्णम् इन्द्र-मुक्तः अशनिः यथा

गृहीत्वा श‍ृङ्गयोस्तं वा अष्टादश पदानि स: ।
प्रत्यपोवाह भगवान् गज: प्रतिगजं यथा ॥ ११ ॥

गृहीत्वा शृङ्गयोः तम् वै अष्टादश पदानि सः प्रत्यपोवाह भगवान् गजः प्रति-गजम् यथा

सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् ।
आपतत् स्विन्नसर्वाङ्गो नि:श्वसन्क्रोधमूर्च्छित: ॥ १२ ॥

सः अपविद्धः भगवता पुनः उत्थाय सत्वरम् आपतत् स्विन्न सर्व अङ्गः निःश्वसन् क्रोध मूर्च्छितः

तमापतन्तं स निगृह्य श‍ृङ्गयो:
पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथार्द्रमम्बरं
कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥

तम् आपतन्तम् सः निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भू-तले निष्पीडयाम् आस यथा अर्द्रम् अम्बरम् कृत्वा विषाणेन जघान सः अपतत्

असृग् वमन् मूत्रशकृत् समुत्सृजन्
क्षिपंश्च पादाननवस्थितेक्षण: ।
जगाम कृच्छ्रं निऋर्तेरथ क्षयं
पुष्पै: किरन्तो हरिमीडिरे सुरा: ॥ १४ ॥

असृक् वमन् मूत्र शकृत् समुत्सृजन् क्षिपन् च पादान् अनवस्थित ईक्षणः जगाम कृच्छ्रम् निरृतेः अथ क्षयम् पुष्पैः किरन्तः हरिम् ईदिरे सुरः

एवं कुकुद्मिनं हत्वा स्तूयमान: द्विजातिभि: ।
विवेश गोष्ठं सबलो गोपीनां नयनोत्सव: ॥ १५ ॥

एवम् कुकुद्मिनम् हत्वा स्तूयमानः द्विजातिभिः विवेश गोष्ठम् स-बलः गोपीनाम् नयन उत्सवः

अरिष्टे निहते दैत्ये कृष्णेनाद्भ‍ुतकर्मणा ।
कंसायाथाह भगवान् नारदो देवदर्शन: ॥ १६ ॥

अरिष्टे निहते दैत्ये कृष्णेन अद्भुत-कर्मणा कंसाय अथ आह भगवान् नारदः देव-दर्शनः

यशोदाया: सुतां कन्यां देवक्या: कृष्णमेव च ।
रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ।
न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हता: ॥ १७ ॥

यशोदायाः सुताम् कन्याम् देवक्याः कृष्णम् एव च रामम् च रोहिणी-पुत्रम् वसुदेवेन बिभ्यता न्यस्तौ स्व-मित्रे नन्दे वै याभ्याम् ते पुरुषाः हताः

निशम्य तद्भ‍ोजपति: कोपात्प्रचलितेन्द्रिय: ।
निशातमसिमादत्त वसुदेवजिघांसया ॥ १८ ॥

निशम्य तत् भोज-पतिः कोपात् प्रचलित इन्द्रियः निशातम् असिम् आदत्त वसुदेव-जिघांसया

निवारितो नारदेन तत्सुतौ मृत्युमात्मन: ।
ज्ञात्वा लोहमयै: पाशैर्बबन्ध सह भार्यया ॥ १९ ॥

निवारितः नारदेन तत्-सुतौ मृत्युम् आत्मनः ज्ञात्वा लोह-मयैः पाशैः बबन्ध सह भार्यया

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ।
प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥

प्रतियाते तु देव-ऋषौ कंसः आभाष्य केशिनम् प्रेषयाम् आस हन्येताम् भवता राम-केशवौ

ततो मुष्टिकचाणूरशलतोशलकादिकान् ।
अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ॥ २१ ॥

ततः मुष्टिक-चाणूर-शल-तोशलक-आदिकान् अमात्यान् हस्ति-पान् च एव समाहूय आह भोज-राट्

भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ ।
नन्दव्रजे किलासाते सुतावानकदुन्दुभे: ॥ २२ ॥
रामकृष्णौ ततो मह्यं मृत्यु: किल निदर्शित: ।
भवद्‌भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ॥ २३ ॥

भोः भोः निशम्यताम् एतत् वीर चाणूर-मुष्टिकौ नन्द-व्रजे किल आसाते सुतौ आनकदुन्दुभेः राम-कृष्णौ ततः मह्यम् मृत्युः किल निदर्शितः भवद्भ्याम् इह सम्प्राप्तौ हन्येताम् मल्ल लीलया

मञ्चा: क्रियन्तां विविधा मल्लरङ्गपरिश्रिता: ।
पौरा जानपदा: सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥

मन्चाः क्रियन्ताम् विविधाः मल्ल-रङ्ग परिश्रिताः पौराः जानपदाः सर्वे पश्यन्तु स्वैर संयुगम्

महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् ।
द्विप: कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥

महा-मात्र त्वया भद्र रङ्ग द्वारि उपनीयताम् द्विपः कुवलयापीडः जहि तेन मम अहितौ

आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि ।
विशसन्तु पशून्मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥

आरभ्यताम् धनुः-यागः चतुर्दश्याम् यथा-विधि विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे

इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् ।
गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥

इति आज्ञाप्य अर्थ तन्त्र ज्ञः आहूय यदु-पुङ्गवम् गृहीत्वा पाणिना पाणिम् ततः अक्रूरम् उवाच ह

भो भो दानपते मह्यं क्रियतां मैत्रमाद‍ृत: ।
नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥

भोः भोः दान पते मह्यम् क्रियताम् मैत्रम् आदृतः न अन्यः त्वत्तः हित-तमः विद्यते भोज-वृष्णिषु

अतस्त्वामाश्रित: सौम्य कार्यगौरवसाधनम् ।
यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभु: ॥ २९ ॥

अतः त्वाम् आश्रितः सौम्य कार्य गौरव साधनम् यथा इन्द्रः विष्णुम् आश्रित्य स्व-अर्थम् अध्यगमत् विभुः

गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभे: ।
आसाते ताविहानेन रथेनानय मा चिरम् ॥ ३० ॥

गच्छ नन्द-व्रजम् तत्र सुतौ आनकदुन्दुभेः आसाते तौ इह अनेन रथेन आनय मा चिरम्

निसृष्ट: किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयै: ।
तावानय समं गोपैर्नन्दाद्यै: साभ्युपायनै: ॥ ३१ ॥

निसृष्टः किल मे मृत्युः देवैः वैकुण्ठ संश्रयैः तौ आनय समम् गोपैः नन्द-आद्यैः स अभ्युपायनैः

घातयिष्य इहानीतौ कालकल्पेन हस्तिना ।
यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमै: ॥ ३२ ॥

घातयिष्ये इह आनीतौ काल-कल्पेन हस्तिना यदि मुक्तौ ततः मल्लैः घातये वैद्युत उपमैः

तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् ।
तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥

तयोः निहतयोः तप्तान् वसुदेव-पुरोगमान् तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान्

उग्रसेनं च पितरं स्थविरं राज्यकामुकं ।
तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥

उग्रसेनम् च पितरम् स्थविरम् राज्य कामुकम् तत्-भ्रातरम् देवकम् च ये च अन्ये विद्विषः मम

ततश्चैषा मही मित्र भवित्री नष्टकण्टका ॥ ३५ ॥

ततः च एषा मही मित्र भवित्री नष्ट कण्टका

जरासन्धो मम गुरुर्द्विविदो दयित: सखा ।
शम्बरो नरको बाणो मय्येव कृतसौहृदा: ।
तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥

जरासन्धः मम गुरुः द्विविदः दयितः सखा शम्बरः नरकः बाणः मयि एव कृत-सौहृदाः तैः अहम् सुर पक्षीयान् हत्वा भोक्ष्ये महीम् नृपान्

एतज्ज्ञात्वानय क्षिप्रं रामकृष्णाविहार्भकौ ।
धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥

एतत् ज्ञात्वा आनय क्षिप्रम् राम-कृष्णौ इह अर्भकौ धनुः-मख निरीक्षा-अर्थम् द्रष्टुम् यदु-पुर श्रियम्

श्रीअक्रूर उवाच
राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् ।
सिद्ध्यसिद्ध्यो: समं कुर्याद्दैवं हि फलसाधनम् ॥ ३८ ॥

श्री-अक्रूरः उवाच राजन् मनीषितम् सध्र्यक् तव स्व अवद्य मार्जनम् सिद्धि-असिद्ध्योः समम् कुर्यात् दैवम् हि फल साधनम्

मनोरथान् करोत्युच्चैर्जनो दैवहतानपि ।
युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥

मनः-रथान् करोति उच्चैः जनः दैव हतान् अपि युज्यते हर्ष-शोकाभ्याम् तथा अपि आज्ञाम् करोमि ते

श्रीशुक उवाच
एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य स: ।
प्रविवेश गृहं कंसस्तथाक्रूर: स्वमालयम् ॥ ४० ॥

श्री-शुकः उवाच एवम् आदिश्य च अक्रूरम् मन्त्रिणः च विसृज्य सः प्रविवेश गृहम् कंसः तथा अक्रूरः स्वम् आलयम्

१०.३७

श्रीशुक उवाच
केशी तु कंसप्रहित: खुरैर्महीं
महाहयो निर्जरयन् मनोजव: ।
सटावधूताभ्रविमानसङ्कुलं
कुर्वन् नभो हेषितभीषिताखिल: ॥ १ ॥
तं त्रासयन्तं भगवान् स्वगोकुलं
तद्धेषितैर्वालविघूर्णिताम्बुदम् ।
आत्मानमाजौ मृगयन्तमग्रणी-
रुपाह्वयत् स व्यनदन्मृगेन्द्रवत् ॥ २ ॥

श्री-शुकः उवाच केशी तु कंस-प्रहितः खुरैः महीम् महा-हयः निर्जरयन् मनः जवः सटा अवधूत अभ्र विमान सङ्कुलम् कुर्वन् नभः हेषित भीषित अखिलः तम् त्रासयन्तम् भगवान् स्व-गोकुलम् तत्-हेषितैः वाल विघूर्णित अम्बुदम् आत्मानम् आजौ मृगयन्तम् अग्र-नीः उपाह्वयत् सः व्यनदन् मृगेन्द्र-वत्

स तं निशाम्याभिमुखो मुखेन खं
पिबन्निवाभ्यद्रवदत्यमर्षण: ।
जघान पद्‌भ्यामरविन्दलोचनं
दुरासदश्चण्डजवो दुरत्यय: ॥ ३ ॥

सः तम् निशाम्य अभिमुखः मुखेन खम् पिबन् इव अभ्यद्रवत् अति-अमर्षणः जघान पद्भ्याम् अरविन्द-लोचनम् दुरासदः चण्ड जवः दुरत्ययः

तद् वञ्चयित्वा तमधोक्षजो रुषा
प्रगृह्य दोर्भ्यां परिविध्य पादयो: ।
सावज्ञमुत्सृज्य धनु:शतान्तरे
यथोरगं तार्क्ष्यसुतो व्यवस्थित: ॥ ४ ॥

तत् वञ्चयित्वा तम् अधोक्षजः रुषा प्रगृह्य दोर्भ्याम् परिविध्य पादयोः स-अवज्ञम् उत्सृज्य धनुः शत अन्तरे यथा उरगम् तार्क्ष्य सुतः व्यवस्थितः

स: लब्धसंज्ञ: पुनरुत्थितो रुषा
व्यादाय केशी तरसापतद्धरिम् ।
सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन्
प्रवेशयामास यथोरगं बिले ॥ ५ ॥

सः लब्ध संज्ञः पुनः उत्थितः रुषा व्यादाय केशी तरसा अपतत् हरिम् सः अपि अस्य वक्त्रे भुजम् उत्तरम् स्मयन् प्रवेशयाम् आस यथा उरगम् बिले

दन्ता निपेतुर्भगवद्भ‍ुजस्पृश-
स्ते केशिनस्तप्तमयस्पृशो यथा ।
बाहुश्च तद्देहगतो महात्मनो
यथामय: संववृधे उपेक्षित: ॥ ६ ॥

दन्ताः निपेतुः भगवत् भुज स्पृशः ते केशिनः तप्त-मय स्पृशः यथा बाहुः च तत् देह गतः महा-आत्मनः यथा आमयः संववृधे उपेक्षितः

समेधमानेन स कृष्णबाहुना
निरुद्धवायुश्चरणांश्च विक्षिपन् ।
प्रस्विन्नगात्र: परिवृत्तलोचन:
पपात लण्डं विसृजन् क्षितौ व्यसु: ॥ ७ ॥

समेधमानेन सः कृष्ण-बाहुना निरुद्ध वायुः चरणान् च विक्षिपन् प्रस्विन्न गात्रः परिवृत्त लोचनः पपात लण्डम् विसृजन् क्षितौ व्यसुः

तद्देहत: कर्कटिकाफलोपमाद्
व्यसोरपाकृष्य भुजं महाभुज: ।
अविस्मितोऽयत्नहतारिक: सुरै:
प्रसूनवर्षैर्वर्षद्‌भिरीडित: ॥ ८ ॥

तत्-देहतः कर्कटिका-फल उपमात् व्यसोः अपाकृष्य भुजम् महा-भुजः अविस्मितः अयत्न हत अरिकः सुरैः प्रसून वर्षैः वर्षद्भिः ईडितः

देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप ।
कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ ९ ॥

देव-ऋषिः उपसङ्गम्य भागवत प्रवरः नृप कृष्णम् अक्लिष्ट कर्माणम् रहसि एतत् अभाषत

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर ।
वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ १० ॥
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ।
गूढो गुहाशय: साक्षी महापुरुष ईश्वर: ॥ ११ ॥

कृष्ण कृष्ण अप्रमेय-आत्मन् योग-ईश जगत्-ईश्वर वासुदेव अखिल-आवास सात्वताम् प्रवर प्रभो त्वम् आत्मा सर्व भूतानाम् एकः ज्योतिः इव एधसाम् गूढः गुहा शयः साक्षी महा-पुरुषः ईश्वरः

आत्मनात्माश्रय: पूर्वं मायया ससृजे गुणान् ।
तैरिदं सत्यसङ्कल्प: सृजस्यत्स्यवसीश्वर: ॥ १२ ॥

आत्मना आत्म आश्रयः पूर्वम् मायया ससृजे गुणान् तैः इदम् सत्य सङ्कल्पः सृजसि अत्सि अवसि ईश्वरः

स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् ।
अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ १३ ॥

सः त्वम् भू-धर भूतानाम् दैत्य-प्रमथ-रक्षसाम् अवतीर्णः विनाशाय साधूनाम् रक्षणाय च

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृति: ।
यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥ १४ ॥

दिष्ट्या ते निहतः दैत्यः लीलया अयम् हय-आकृतिः यस्य हेषित सन्त्रस्ताः त्यजन्ति अनिमिषाः दिवम्

चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् ।
कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १५ ॥
तस्यानु शङ्खयवनमुराणां नरकस्य च ।
पारिजातापहरणमिन्द्रस्य च पराजयम् ॥ १६ ॥
उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।
नृगस्य मोक्षणं शापाद्‌द्वारकायां जगत्पते ॥ १७ ॥
स्यमन्तकस्य च मणेरादानं सह भार्यया ।
मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामत: ॥ १८ ॥
पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् ।
दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ १९ ॥
यानि चान्यानि वीर्याणि द्वारकामावसन्भवान् ।
कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २० ॥

चाणूरम् मुष्टिकम् च एव मल्लान् अन्यान् च हस्तिनम् कंसम् च निहतम् द्रक्ष्ये पर-श्वः अहनि ते विभो तस्य अनु शङ्ख-यवन-मुराणाम् नरकस्य च पारिजात अपहरणम् इन्द्रस्य च पराजयम् उद्वाहम् वीर कन्यानाम् वीर्य शुल्क आदि लक्षणम् नृगस्य मोक्षणम् शापात् द्वारकायाम् जगत्-पते स्यमन्तकस्य च मणेः आदानम् सह भार्यया मृत पुत्र प्रदानम् च ब्राह्मणस्य स्व-धामतः पौण्ड्रकस्य वधम् पश्चात् काशि-पुर्याः च दीपनम् दन्तवक्रस्य निधनम् चैद्यस्य च महा-क्रतौ यानि च अन्यानि वीर्याणि द्वारकाम् आवसन् भवान् कर्ता द्रक्ष्यामि अहम् तानि गेयानि कविभिः भुवि

अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै ।
अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथे: ॥ २१ ॥

अथ ते काल-रूपस्य क्षपयिष्णोः अमुष्य वै अक्षौहिणीनाम् निधनम् द्रक्ष्यामि अर्जुन सारथेः

विशुद्धविज्ञानघनं स्वसंस्थया
समाप्तसर्वार्थममोघवाञ्छितम् ।
स्वतेजसा नित्यनिवृत्तमाया-
गुणप्रवाहं भगवन्तमीमहि ॥ २२ ॥

विशुद्ध विज्ञान घनम् स्व-संस्थया समाप्त सर्व अर्थम् अमोघ वाञ्छितम् स्व-तेजसा नित्य निवृत्त माया गुण प्रवाहम् भगवन्तम् ईमहि

त्वामीश्वरं स्वाश्रयमात्ममायया
विनिर्मिताशेषविशेषकल्पनम् ।
क्रीडार्थमद्यात्तमनुष्यविग्रहं
नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २३ ॥

त्वाम् ईश्वरम् स्व-आश्रयम् आत्म मायया विनिर्मित अशेष विशेष कल्पनम् क्रीड अर्थम् अद्य आत्त मनुष्य विग्रहम् नतः अस्मि धुर्यम् यदु-वृष्णि-सात्वताम्

श्रीशुक उवाच
एवं यदुपतिं कृष्णं भागवतप्रवरो मुनि: ।
प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सव: ॥ २४ ॥

श्री-शुकः उवाच एवम् यदु-पतिम् कृष्णम् भागवत प्रवरः मुनिः प्रणिपत्य अभ्यनुज्ञातः ययौ तत् दर्शन उत्सवः

भगवानपि गोविन्दो हत्वा केशिनमाहवे ।
पशूनपालयत् पालै: प्रीतैर्व्रजसुखावह: ॥ २५ ॥

भगवान् अपि गोविन्दः हत्वा केशिनम् आहवे पशून् अपालयत् पालैः प्रीतैः व्रज सुख आवहः

एकदा ते पशून्पालाश्चारयन्तोऽद्रिसानुषु ।
चक्रुर्निलायनक्रीडाश्चोरपालापदेशत: ॥ २६ ॥

एकदा ते पशून् पालाः चारयन्तः अद्रि सानुषु चक्रुः निलायन क्रीडाः चोर पाल अपदेशतः

तत्रासन् कतिचिच्चोरा: पालाश्च कतिचिन्नृप ।
मेषायिताश्च तत्रैके विजह्रुरकुतोभया: ॥ २७ ॥

तत्र आसन् कतिचित् चोराः पालाः च कतिचित् नृप मेषायिताः च तत्र एके विजह्रुः अकुतः-भयाः

मयपुत्रो महामायो व्योमो गोपालवेषधृक् ।
मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २८ ॥

मय-पुत्रः महा मायः व्योमः गोपाल वेष धृक् मेषायितान् अपोवाह प्रायः चोरायितः बहून्

गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुर: ।
शिलया पिदधे द्वारं चतु:पञ्चावशेषिता: ॥ २९ ॥

गिरि दर्याम् विनिक्षिप्य नीतम् नीतम् महा-असुरः शिलया पिदधे द्वारम् चतुः-पञ्च अवशेषिताः

तस्य तत् कर्म विज्ञाय कृष्ण: शरणद: सताम् ।
गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३० ॥

तस्य तत् कर्म विज्ञाय कृष्णः शरण दः सताम् गोपान् नयन्तम् जग्राह वृकम् हरिः इव ओजसा

स निजं रूपमास्थाय गिरीन्द्रसद‍ृशं बली ।
इच्छन्विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुर: ॥ ३१ ॥

सः निजम् रूपम् आस्थाय गिरि-इन्द्र सदृशम् बली इच्छन् विमोक्तुम् आत्मानम् न अशक्नोत् ग्रहण आतुरः

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले ।
पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३२ ॥

तम् निगृह्य अच्युतः दोर्भ्याम् पातयित्वा मही-तले पश्यताम् दिवि देवानाम् पशु-मारम् अमारयत्

गुहापिधानं निर्भिद्य गोपान्नि:सार्य कृच्छ्रत: ।
स्तूयमान: सुरैर्गोपै: प्रविवेश स्वगोकुलम् ॥ ३३ ॥

गुहा पिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः स्तूयमानः सुरैः गोपैः प्रविवेश स्व गोकुलम्

१०.३८

श्रीशुक उवाच
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामति: ।
उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥

श्री-शुकः उवाच अक्रूरः अपि च ताम् रात्रिम् मधु-पुर्याम् महा-मतिः उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम्

गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे ।
भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २ ॥

गच्छन् पथि महा-भागः भगवति अम्बुज-ईक्षणे भक्तिम् पराम् उपगतः एवम् एतत् अचिन्तयत्

किं मयाचरितं भद्रं किं तप्तं परमं तप: ।
किं वाथाप्यर्हते दत्तं यद्‌‌द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥

किम् मया आचरितम् भद्रम् किम् तप्तम् परमम् तपः किम् वा अथ अपि अर्हते दत्तम् यत् द्रक्ष्यामि अद्य केशवम्

ममैतद् दुर्लभं मन्य उत्तम:श्लोकदर्शनम् ।
विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मन: ॥ ४ ॥

मम एतत् दुर्लभम् मन्ये उत्तमः-श्लोक दर्शनम् विषय-आत्मनः यथा ब्रह्म कीर्तनम् शूद्र जन्मनः

मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् ।
ह्रियमाण: कालनद्या क्‍वचित्तरति कश्चन ॥ ५ ॥

मा एवम् मम अधमस्य अपि स्यात् एव अच्युत दर्शनम् ह्रियमाणः काल नद्या क्वचित् तरति कश्चन

ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भव: ।
यन्नमस्ये भगवतो योगिध्येयाङ्‍‍‍‍‍घ्रिपङ्कजम् ॥ ६ ॥

मम अद्य अमङ्गलम् नष्टम् फल-वान् च एव मे भवः यत् नमस्ये भगवतः योगि-ध्येय अङ्घ्रि पङ्कजम्

कंसो बताद्याकृत मेऽत्यनुग्रहं
द्रक्ष्येऽङ्‍‍‍‍‍घ्रिपद्मं प्रहितोऽमुना हरे: ।
कृतावतारस्य दुरत्ययं तम:
पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥

कंसः बत अद्य अकृत मे अति-अनुग्रहम् द्रक्ष्ये अङ्घ्रि-पद्मम् प्रहितः अमुना हरेः कृत अवतारस्य दुरत्ययम् तमः पूर्वे अतरन् यत् नख-मण्डल त्विषा

यदर्चितं ब्रह्मभवादिभि: सुरै:
श्रिया च देव्या मुनिभि: ससात्वतै: ।
गोचारणायानुचरैश्चरद्वने
यद् गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८ ॥

यत् अर्चितम् ब्रह्म-भव आदिभिः सुरैः श्रिया च देव्या मुनिभिः स-सात्वतैः गो चारणाय अनुचरैः चरत् वने यत् गोपिकानाम् कुच कुङ्कुम अङ्कितम्

द्रक्ष्यामि नूनं सुकपोलनासिकं
स्मितावलोकारुणकञ्जलोचनम् ।
मुखं मुकुन्दस्य गुडालकावृतं
प्रदक्षिणं मे प्रचरन्ति वै मृगा: ॥ ९ ॥

द्रक्ष्यामि नूनम् सु कपोल नासिकम् स्मित अवलोक अरुण कञ्ज लोचनम् मुखम् मुकुन्दस्य गुड अलक आवृतम् प्रदक्षिणम् मे प्रचरन्ति वै मृगाः

अप्यद्य विष्णोर्मनुजत्वमीयुषो
भारावताराय भुवो निजेच्छया ।
लावण्यधाम्नो भवितोपलम्भनं
मह्यं न न स्यात् फलमञ्जसा द‍ृश: ॥ १० ॥

अपि अद्य विष्णोः मनुजत्वम् ईयुषः भार अवताराय भुवः निज इच्छया लावण्य धाम्नः भविता उपलम्भनम् मह्यम् न न स्यात् फलम् अञ्जसा दृशः

य ईक्षिताहंरहितोऽप्यसत्सतो:
स्वतेजसापास्ततमोभिदाभ्रम: ।
स्वमाययात्मन् रचितैस्तदीक्षया
प्राणाक्षधीभि: सदनेष्वभीयते ॥ ११ ॥

यः ईक्षिता अहम् रहितः अपि असत्-सतोः स्व-तेजसा अपास्त तमः भिदा भ्रमः स्व-मायया आत्मन् रचितैः तत्-ईक्षया प्राण अक्ष धीभिः सदनेषु अभीयते

यस्याखिलामीवहभि: सुमङ्गलै-
र्वाचो विमिश्रा गुणकर्मजन्मभि: ।
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत्
यास्तद्विरक्ता: शवशोभना मता: ॥ १२ ॥

यस्य अखिल अमीव हभिः सु-मङ्गलैः वाचः विमिश्राः गुण कर्म जन्मभिः प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् याः तत् विरक्ताः शव शोभनाः मताः

स चावतीर्ण: किल सात्वतान्वये
स्वसेतुपालामरवर्यशर्मकृत् ।
यशो वितन्वन् व्रज आस्त ईश्वरो
गायन्ति देवा यदशेषमङ्गलम् ॥ १३ ॥

सः च अवतीर्णः किल सात्वत अन्वये स्व सेतु पाल अमर-वर्य शर्म कृत् यशः वितन्वन् व्रजे आस्ते ईश्वरः गायन्ति देवाः यत् अशेष-मङ्गलम्

तं त्वद्य नूनं महतां गतिं गुरुं
त्रैलोक्यकान्तं द‍ृशिमन्महोत्सवम् ।
रूपं दधानं श्रिय ईप्सितास्पदं
द्रक्ष्ये ममासन्नुषस: सुदर्शना: ॥ १४ ॥

तम् तु अद्य नूनम् महताम् गतिम् गुरुम् त्रै-लोक्य कान्तम् दृशि-मत् महा-उत्सवम् रूपम् दधानम् श्रियः ईप्सित आस्पदम् द्रक्ष्ये मम आसन् उषसः सु-दर्शनाः

अथावरूढ: सपदीशयो रथात्
प्रधानपुंसोश्चरणं स्वलब्धये ।
धिया धृतं योगिभिरप्यहं ध्रुवं
नमस्य आभ्यां च सखीन् वनौकस: ॥ १५ ॥

अथ अवरूढः सपदि ईशयोः रथात् प्रधान-पुंसोः चरणम् स्व-लब्धये धिया धृतम् योगिभिः अपि अहम् ध्रुवम् नमस्ये आभ्याम् च सखीन् वन-ओकसः

अप्यङ्‍‍‍‍‍घ्रिमूले पतितस्य मे विभु:
शिरस्यधास्यन्निजहस्तपङ्कजम् ।
दत्ताभयं कालभुजाङ्गरंहसा
प्रोद्वेजितानां शरणैषिणां नृणाम् ॥ १६ ॥

अपि अङ्घ्रि मूले पतितस्य मे विभुः शिरसि अधास्यत् निज हस्त पङ्कजम् दत्त अभयम् काल भुज-अङ्ग रंहसा प्रोद्वेजितानाम् शरण एषिणाम् नृणाम्

समर्हणं यत्र निधाय कौशिक-
स्तथा बलिश्चाप जगत्‍त्रयेन्द्रताम् ।
यद्वा विहारे व्रजयोषितां श्रमं
स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७ ॥

समर्हणम् यत्र निधाय कौशिकः तथा बलिः च आप जगत् त्रय इन्द्रताम् यत् वा विहारे व्रज-योषिताम् श्रमम् स्पर्शेन सौगन्धिक गन्धि अपानुदत्

न मय्युपैष्यत्यरिबुद्धिमच्युत:
कंसस्य दूत: प्रहितोऽपि विश्वद‍ृक् ।
योऽन्तर्बहिश्चेतस एतदीहितं
क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८ ॥

न मयि उपैष्यति अरि बुद्धिम् अच्युतः कंसस्य दूतः प्रहितः अपि विश्व दृक् यः अन्तः बहिः चेतसः एतत् ईहितम् क्षेत्र ज्ञः ईक्षति अमलेन चक्षुषा

अप्यङ्‍‍‍‍‍घ्रिमूलेऽवहितं कृताञ्जलिं
मामीक्षिता सस्मितमार्द्रया द‍ृशा ।
सपद्यपध्वस्तसमस्तकिल्बिषो
वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १९ ॥

अपि अङ्घ्रि मूले अवहितम् कृत-अञ्जलिम् माम् ईक्षिता सस्मितम् आर्द्रया दृशा सपदि अपध्वस्त समस्त किल्बिषः वोढा मुदम् वीत विशङ्कः ऊर्जिताम्

सुहृत्तमं ज्ञातिमनन्यदैवतं
दोर्भ्यां बृहद्‌भ्यां परिरप्स्यतेऽथ माम् ।
आत्मा हि तीर्थीक्रियते तदैव मे
बन्धश्च कर्मात्मक उच्छ्वसित्यत: ॥ २० ॥

सुहृत्-तमम् ज्ञातिम् अनन्य दैवतम् दोर्भ्याम् बृहद्भ्याम् परिरप्स्यते अथ माम् आत्मा हि तीर्थी क्रियते तदा एव मे बन्धः च कर्म-आत्मकः उच्छ्वसिति अतः

लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं
मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवा: ।
तदा वयं जन्मभृतो महीयसा
नैवाद‍ृतो यो धिगमुष्य जन्म तत् ॥ २१ ॥

लब्ध्वा अङ्ग-सङ्गम् प्रणतम् कृत-अञ्जलिम् माम् वक्ष्यते अक्रूर तत इति उरुश्रवाः तदा वयम् जन्म-भृतः महीयसा न एव आदृतः यः धिक् अमुष्य जन्म तत्

न तस्य कश्चिद् दयित: सुहृत्तमो
न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
तथापि भक्तान् भजते यथा तथा
सुरद्रुमो यद्वदुपाश्रितोऽर्थद: ॥ २२ ॥

न तस्य कश्चित् दयितः सुहृत्तमः न च अप्रियः द्वेष्यः उपेक्ष्यः एव वा तथा अपि भक्तान् भजते यथा तथा सुर-द्रुमः यद्वत् उपाश्रितः अर्थ दः

किं चाग्रजो मावनतं यदूत्तम:
स्मयन् परिष्वज्य गृहीतमञ्जलौ ।
गृहं प्रवेष्याप्तसमस्तसत्कृतं
सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३ ॥

किम् च अग्र-जः मा अवनतम् यदु-उत्तमः स्मयन् परिष्वज्य गृहीतम् अञ्जलौ गृहम् प्रवेष्य आप्त समस्त सत्-कृतम् सम्प्रक्ष्यते कंस कृतम् स्व-बन्धुषु

श्रीशुक उवाच
इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि ।
रथेन गोकुलं प्राप्त: सूर्यश्चास्तगिरिं नृप ॥ २४ ॥

श्री-शुकः उवाच इति सञ्चिन्तयन् कृष्णम् श्वफल्क-तनयः अध्वनि रथेन गोकुलम् प्राप्तः सूर्यः च अस्त-गिरिम् नृप

पदानि तस्याखिललोकपाल-
किरीटजुष्टामलपादरेणो: ।
ददर्श गोष्ठे क्षितिकौतुकानि
विलक्षितान्यब्जयवाङ्कुशाद्यै: ॥ २५ ॥

पदानि तस्य अखिल लोक पाल किरीट जुष्ट अमल पाद रेणोः ददर्श गोष्ठे क्षिति कौतकानि विलक्षितानि अब्ज यव अङ्कुश आद्यैः

तद्दर्शनाह्लादविवृद्धसम्भ्रम:
प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षण: ।
रथादवस्कन्द्य स तेष्वचेष्टत
प्रभोरमून्यङ्‍‍‍‍‍घ्रिरजांस्यहो इति ॥ २६ ॥

तत् दर्शन आह्लाद विवृद्ध सम्भ्रमः प्रेम्णा ऊर्ध्व रोम अश्रु-कला आकुल ईक्षणः रथात् अवस्कन्द्य सः तेषु अचेष्टत प्रभोः अमूनि अङ्घ्रि रजांसि अहो इति

देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् ।
सन्देशाद् यो हरेर्लिङ्गदर्शनश्रवणादिभि: ॥ २७ ॥

देहम्-भृताम् इयान् अर्थः हित्वा दम्भम् भियम् शुचम् सन्देशात् यः हरेः लिङ्ग दर्शन श्रवण आदिभिः

ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ ।
पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥ २८ ॥
किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भ‍ुजौ ।
सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥
ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्‍‍‍‍‍घ्रिभिर्व्रजम् ।
शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥
उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ ।
पुण्यगन्धानुलिप्ताङ्गौ स्‍नातौ विरजवाससौ ॥ ३१ ॥
प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।
अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥
दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया ।
यथा मारकत: शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥

ददर्श कृष्णम् रामम् च व्रजे गो दोहनम् गतौ पीत-नील अम्बर धरौ शरत् अम्बुरुह ईक्षणौ किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहत् भुजौ सु-मुखौ सुन्दर-वरौ बल द्विरद विक्रमौ ध्वज वज्र अङ्कुश अम्भोजैः चिह्नितैः अङ्घ्रिभिः व्रजम् शोभयन्तौ महा-आत्मानौ स-अनुक्रोश स्मित ईक्षणौ उदार रुचिर क्रीडौ स्रक्-विनौ वन-मालिनौ पुण्य गन्ध अनुलिप्त अङ्गौ स्नातौ विरज वाससौ प्रधान पुरुषौ आद्यौ जगत्-धेतू जगत्-पती अवतीर्णौ जगति-अर्थे स्व-अंशेन बल-केशवौ दिशः वितिमिराः राजन् कुर्वाणौ प्रभया स्वया यथा मारकतः शैलः रौप्यः च कनक अचितौ

रथात्तूर्णमवप्लुत्य सोऽक्रूर: स्‍नेहविह्वल: ।
पपात चरणोपान्ते दण्डवद् रामकृष्णयो: ॥ ३४ ॥

रथात् तूर्णम् अवप्लुत्य सः अक्रूरः स्नेह विह्वलः पपात चरण-उपान्ते दण्ड-वत् राम-कृष्णयोः

भगवद् दर्शनाह्लादबाष्पपर्याकुलेक्षण: ।
पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥ ३५ ॥

भगवत् दर्शन आह्लाद बाष्प पर्याकुल ईक्षणः पुलक आचित अङ्गः औत्कण्ठ्यात् स्व-आख्याने न अशकत् नृप

भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना ।
परिरेभेऽभ्युपाकृष्य प्रीत: प्रणतवत्सल: ॥ ३६ ॥

भगवान् तम् अभिप्रेत्य रथ-अङ्ग अङ्कित पाणिना परिरेभे अभ्युपाकृष्य प्रीतः प्रणत वत्सलः

सङ्कर्षणश्च प्रणतमुपगुह्य महामना: ।
गृहीत्वा पाणिना पाणी अनत्सानुजो गृहम् ॥ ३७ ॥
पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् ।
प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ॥ ३८ ॥

सङ्कर्षणः च प्रणतम् उपगुह्य महा-मनाः गृहीत्वा पाणिना पाणी अनयत् स-अनुजः गृहम् पृष्ट्वा अथ सु-आगतम् तस्मै निवेद्य च वर आसनम् प्रक्षाल्य विधि-वत् पादौ मधु-पर्क अर्हणम् आहरत्

निवेद्य गां चातिथये संवाह्य श्रान्तमादृत: ।
अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभु: ॥ ३९ ॥

निवेद्य गाम् च अतिथये संवाह्य श्रान्तम् अदृतः अन्नम् बहु-गुणम् मेध्यम् श्रद्धया उपाहरत् विभुः

तस्मै भुक्तवते प्रीत्या राम: परमधर्मवित् ।
मखवासैर्गन्धमाल्यै: परां प्रीतिं व्यधात्पुन: ॥ ४० ॥

तस्मै भुक्तवते प्रीत्या रामः परम धर्म-वित् मुख-वासैः गन्ध माल्यैः पराम् प्रीतिम् व्यधात् पुनः

पप्रच्छ सत्कृतं नन्द: कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौनपाला इवावय: ॥ ४१ ॥

पप्रच्छ सत्-कृतम् नन्दः कथम् स्थ निरनुग्रहे कंसे जीवति दाशार्ह सौन पालाः इव अवयः

योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खल: ।
किं नु स्वित्तत्प्रजानां व: कुशलं विमृशामहे ॥ ४२ ॥

यः अवधीत् स्व स्वसुः तोकान् क्रोशन्त्याः असु-तृप् खलः किम् नु स्वित् तत् प्रजानाम् वः कुशलम् विमृशामहे

इत्थं सूनृतया वाचा नन्देन सुसभाजित: ।
अक्रूर: परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३ ॥

इत्थम् सू-नृतया वाचा नन्देन सु सभाजितः अक्रूरः परिपृष्टेन जहौ अध्व परिश्रमम्

१०.३९

श्रीशुक उवाच
सुखोपविष्ट: पर्यङ्के रामकृष्णोरुमानित: ।
लेभे मनोरथान्सर्वान्पथि यन् स चकार ह ॥ १ ॥

श्री-शुकः उवाच सुख उपविष्टः पर्यङ्के राम-कृष्ण उरु मानितः लेभे मनः-रथान् सर्वान् पथि यान् सः चकार ह

किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।
तथापि तत्परा राजन्न हि वाञ्छन्ति किञ्चन ॥ २ ॥

किम् अलभ्यम् भगवति प्रसन्ने श्री निकेतने तथा अपि तत्-पराः राजन् न हि वाञ्छन्ति किञ्चन

सायन्तनाशनं कृत्वा भगवान् देवकीसुत: ।
सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३ ॥

सायन्तन अशनम् कृत्वा भगवान् देवकी-सुतः सुहृत्सु वृत्तम् कंसस्य पप्रच्छ अन्यत् चिकीर्षितम्

श्रीभगवानुवाच
तात सौम्यागत: कच्च्त्स्विगतं भद्रमस्तु व: ।
अपि स्वज्ञातिबन्धूनामनमीवमनामयम् ॥ ४ ॥

श्री-भगवान् उवाच तात सौम्य आगतः कच्चित् सु-आगतम् भद्रम् अस्तु वः अपि स्व ज्ञाति बन्धूनाम् अनमीवम् अनामयम्

किं नु न: कुशलं पृच्छे एधमाने कुलामये ।
कंसे मातुलनाम्नाङ्ग स्वानां नस्तत्प्रजासु च ॥ ५ ॥

किम् नु नः कुशलम् पृच्छे एधमाने कुल आमये कंसे मातुल-नाम्ना अङ्ग स्वानाम् नः तत् प्रजासु च

अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययो: ।
यद्धेतो: पुत्रमरणं यद्धेतोर्बन्धनं तयो: ॥ ६ ॥

अहो अस्मत् अभूत् भूरि पित्रोः वृजिनम् आर्ययोः यत्-हेतोः पुत्र मरणम् यत्-हेतोः बन्धनम् तयोः

दिष्ट्याद्य दर्शनं स्वानां मह्यं व: सौम्य काङ्‌क्षितम् ।
सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ ७ ॥

दिष्ट्या अद्य दर्शनम् स्वानाम् मह्यम् वः सौम्य काङ्क्षितम् सञ्जातम् वर्ण्यताम् तात तव आगमन कारणम्

श्रीशुक उवाच
पृष्टो भगवता सर्वं वर्णयामास माधव: ।
वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ८ ॥

श्री-शुकः उवाच पृष्टः भगवता सर्वम् वर्णयाम् आस माधवः वैर-अनुबन्धम् यदुषु वसुदेव वध उद्यमम्

यत्सन्देशो यदर्थं वा दूत: सम्प्रेषित: स्वयम् ।
यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभे: ॥ ९ ॥

यत् सन्देशः यत् अर्थम् वा दूतः सम्प्रेषितः स्वयम् यत् उक्तम् नारदेन अस्य स्व जन्म आनकदुन्दुभेः

श्रुत्वाक्रूरवच: कृष्णो बलश्च परवीरहा ।
प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतु: ॥ १० ॥

श्रुत्वा अक्रूर-वचः कृष्णः बलः च पर-वीर हा प्रहस्य नन्दम् पितरम् राज्ञा दिष्टम् विजज्ञतुः

गोपान् समादिशत्सोऽपि गृह्यतां सर्वगोरस: ।
उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ११ ॥
यास्याम: श्वो मधुपुरीं दास्यामो नृपते रसान् ।
द्रक्ष्याम: सुमहत्पर्व यान्ति जानपदा: किल ।
एवमाघोषयत् क्षत्रा नन्दगोप: स्वगोकुले ॥ १२ ॥

गोपान् समादिशात् सः अपि गृह्यताम् सर्व गो-रसः उपायनानि गृह्णीध्वम् युज्यन्ताम् शकटानि च यास्यामः श्वः मधु-पुरीम् दास्यामः नृपतेः रसान् द्रक्ष्यामः सु-महत् पर्व यान्ति जानपदाः किल एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले

गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम् ।
रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ॥ १३ ॥

गोप्यः ताः तत् उपश्रुत्य बभूवुः व्यथिताः भृशम् राम-कृष्णौ पुरीम् नेतुम् अक्रूरम् व्रजम् आगतम्

काश्चित्तत्कृतहृत्तापश्वासम्‍लानमुखश्रिय: ।
स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ॥ १४ ॥

काश्चित् तत् कृत हृत् ताप श्वास म्लान मुख श्रियः स्रंसत् दुकूल वलय केश ग्रन्थ्यः च काश्चन

अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तय: ।
नाभ्यजानन्निमं लोकमात्मलोकं गता इव ॥ १५ ॥

अन्याः च तत् अनुध्यान निवृत्त अशेष वृत्तयः न अभ्यजानन् इमम् लोकम् आत्म लोकम् गताः इव

स्मरन्त्यश्चापरा: शौरेरनुरागस्मितेरिता: ।
हृदिस्पृशश्चित्रपदा गिर: सम्मुमुहु: स्त्रिय: ॥ १६ ॥

स्मरन्त्यः च अपराः शौरेः अनुराग स्मित ईरिताः हृदि स्पृशः चित्र पदाः गिरः सम्मुमुहुः स्त्रियः

गतिं सुललितां चेष्टां स्‍निग्धहासावलोकनम् ।
शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ १७ ॥
चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातरा: ।
समेता: सङ्घश: प्रोचुरश्रुमुख्योऽच्युताशया: ॥ १८ ॥

गतिम् सु-ललिताम् चेष्टाम् स्निग्ध हास अवलोकनम् शोक अपहानि नर्माणि प्रोद्दाम चरितानि च चिन्तयन्त्यः मुकुन्दस्य भीतः विरह कातराः समेताः सङ्घशः प्रोचुः अश्रु मुख्यः अच्युत-आशयाः

श्रीगोप्य ऊचु:
अहो विधातस्तव न क्‍वचिद् दया
संयोज्य मैत्र्या प्रणयेन देहिन: ।
तांश्चाकृतार्थान् वियुनङ्‌क्ष्यपार्थकं
विक्रीडितं तेऽर्भकचेष्टितं यथा ॥ १९ ॥

श्री-गोप्यः ऊचुः अहो विधातः तव न क्वचित् दया संयोज्य मैत्र्या प्रणयेन देहिनः तान् च अकृत अर्थान् वियुनङ्क्षि अपार्थकम् विक्रीडितम् ते अर्भक चेष्टितम् यथा

यस्त्वं प्रदर्श्यासितकुन्तलावृतं
मुकुन्दवक्त्रं सुकपोलमुन्नसम् ।
शोकापनोदस्मितलेशसुन्दरं
करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २० ॥

यः त्वम् प्रदर्श्य असित कुन्तल आवृतम् मुकुन्द वक्त्रम् सु-कपोलम् उत्-नसम् शोक अपनोद स्मित लेश सुन्दरम् करोषि पारोक्ष्यम् असाधु ते कृतम्

क्रूरस्त्वमक्रूरसमाख्यया स्म न-
श्चक्षुर्हि दत्तं हरसे बताज्ञवत् ।
येनैकदेशेऽखिलसर्गसौष्ठवं
त्वदीयमद्राक्ष्म वयं मधुद्विष: ॥ २१ ॥

क्रूरः त्वम् अक्रूर-समाख्यया स्म नः चक्षुः हि दत्तम् हरसे बत अज्ञ वत् येन एक देशे अखिल सर्ग सौष्ठवम् त्वदीयम् अद्राक्ष्म वयम् मधुद्विषः

न नन्दसूनु: क्षणभङ्गसौहृद:
समीक्षते न: स्वकृतातुरा बत ।
विहाय गेहान् स्वजनान् सुतान्पतीं-
स्तद्दास्यमद्धोपगता नवप्रिय: ॥ २२ ॥

न नन्द-सूनुः क्षण भङ्ग सौहृदः समीक्षते नः स्व कृत आतुराः बत विहाय गेहान् स्व-जनान् सुतान् पतीन् तत् दास्यम् अद्धा उपगताः नव प्रियः

सुखं प्रभाता रजनीयमाशिष:
सत्या बभूवु: पुरयोषितां ध्रुवम् ।
या: संप्रविष्टस्य मुखं व्रजस्पते:
पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥ २३ ॥

सुखम् प्रभाता रजनी इयम् आशिषः सत्याः बभूवुः पुर योषिताम् ध्रुवम् याः संप्रविष्टस्य मुखम् व्रजः-पतेः पास्यन्ति अपाङ्ग उत्कलित स्मित आसवम्

तासां मुकुन्दो मधुमञ्जुभाषितै-
र्गृहीतचित्त: परवान् मनस्व्यपि ।
कथं पुनर्न: प्रतियास्यतेऽबला
ग्राम्या: सलज्जस्मितविभ्रमैर्भ्रमन् ॥ २४ ॥

तासाम् मुकुन्दः मधु मञ्जु भाषितैः गृहीत चित्तः परवान् मनस्वी अपि कथम् पुनः नः प्रतियास्यते अबलाः ग्राम्याः स-लज्ज स्मित विभ्रमैः भ्रमन्

अद्य ध्रुवं तत्र द‍ृशो भविष्यते
दाशार्हभोजान्धकवृष्णिसात्वताम् ।
महोत्सव: श्रीरमणं गुणास्पदं
द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २५ ॥

अद्य ध्रुवम् तत्र दृशः भविष्यते दाशार्ह-भोज-अन्धक-वृष्णि-सात्वताम् महा-उत्सवः श्री रमणम् गुण आस्पदम् द्रक्ष्यन्ति ये च अध्वनि देवकी-सुतम्

मैतद्विधस्याकरुणस्य नाम भू-
दक्रूर इत्येतदतीव दारुण: ।
योऽसावनाश्वास्य सुदु:खितं जनं
प्रियात्प्रियं नेष्यति पारमध्वन: ॥ २६ ॥

मा एतत्-विधस्य अकरुणस्य नाम भूत् अक्रूरः इति एतत् अतीव दारुणः यः असौ अनाश्वास्य सु-दुःखितम् जनम् प्रियात् प्रियम् नेष्यति पारम् अध्वनः

अनार्द्रधीरेष समास्थितो रथं
तमन्वमी च त्वरयन्ति दुर्मदा: ।
गोपा अनोभि: स्थविरैरुपेक्षितं
दैवं च नोऽद्य प्रतिकूलमीहते ॥ २७ ॥

अनार्द्र-धीः एषः समास्थितः रथम् तम् अनु अमी च त्वरयन्ति दुर्मदाः गोपाः अनोभिः स्थविरैः उपेक्षितम् दैवम् च नः अद्य प्रतिकूलम् ईहते

निवारयाम: समुपेत्य माधवं
किं नोऽकरिष्यन् कुलवृद्धबान्धवा: ।
मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद्
दैवेन विध्वंसितदीनचेतसाम् ॥ २८ ॥

निवारयामः समुपेत्य माधवम् किम् नः अकरिष्यन् कुल वृद्ध बान्धवाः मुकुन्द-सङ्गात् निमिष अर्ध दुस्त्यजात् दैवेन विध्वंसित दीन चेतसाम्

यस्यानुरागललितस्मितवल्गुमन्त्र-
लीलावलोकपरिरम्भणरासगोष्ठाम् ।
नीता: स्म न: क्षणमिव क्षणदा विना तं
गोप्य: कथं न्वतितरेम तमो दुरन्तम् ॥ २९ ॥

यस्य अनुराग ललित स्मित वल्गु मन्त्र लीला अवलोक परिरम्भण रास गोष्ठाम् नीताः स्म नः क्षणम् इव क्षणदाः विना तम् गोप्यः कथम् नु अतितरेम तमः दुरन्तम्

योऽह्न: क्षये व्रजमनन्तसख: परीतो
गोपैर्विशन् खुररजश्छुरितालकस्रक् ।
वेणुं क्‍वणन् स्मितकटाक्षनिरीक्षणेन
चित्तं क्षिणोत्यमुमृते नु कथं भवेम ॥ ३० ॥

यः अह्नः क्षये व्रजम् अनन्त सखः परीतः गोपैः विशन् खुर रजः छुरित अलक स्रक् वेणुम् क्वणन् स्मित कट-अक्ष निरीक्षणेन चित्तम् क्षिणोति अमुम् ऋते नु कथम् भवेम

श्रीशुक उवाच
एवं ब्रुवाणा विरहातुरा भृशं
व्रजस्त्रिय: कृष्णविषक्तमानसा: ।
विसृज्य लज्जां रुरुदु: स्म सुस्वरं
गोविन्द दामोदर माधवेति ॥ ३१ ॥

श्री-शुकः उवाच एवम् ब्रुवाणाः विरह आतुराः भृशम् व्रज-स्त्रियः कृष्ण विषक्त मानसाः विसृज्य लज्जाम् रुरुदुः स्म सु-स्वरम् गोविन्द दामोदर माधव इति

स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ ।
अक्रूरश्चोदयामास कृतमैत्रादिको रथम् ॥ ३२ ॥

स्त्रीणाम् एवम् रुदन्तीनाम् उदिते सवितरि अथ अक्रूरः चोदयाम् आस कृत मैत्र-आदिकः रथम्

गोपास्तमन्वसज्जन्त नन्दाद्या: शकटैस्तत: ।
आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३३ ॥

गोपाः तम् अन्वसज्जन्त नन्द-आद्याः शकटैः ततः आदाय उपायनम् भूरि कुम्भान् गो-रस सम्भृतान्

गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिता: ।
प्रत्यादेशं भगवत: काङ्‌क्षन्त्यश्चावतस्थिरे ॥ ३४ ॥

गोप्यः च दयितम् कृष्णम् अनुव्रज्य अनुरञ्जिताः प्रत्यादेशम् भगवतः काङ्क्षन्त्यः च अवतस्थिरे

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तम: ।
सान्त्वयामास सप्रेमैरायास्य इति दौत्यकै: ॥ ३५ ॥

ताः तथा तप्यतीः वीक्ष्य स्व-प्रस्थाने यदु-उत्तमः सान्त्वयाम् आस स-प्रेमैः आयास्ये इति दौत्यकैः

यावदालक्ष्यते केतुर्यावद् रेणू रथस्य च ।
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिता: ॥ ३६ ॥

यावत् आलक्ष्यते केतुः यावत् रेणुः रथस्य च अनुप्रस्थापित आत्मानः लेख्यानि इव उपलक्षिताः

ता निराशा निववृतुर्गोविन्दविनिवर्तने ।
विशोका अहनी निन्युर्गायन्त्य: प्रियचेष्टितम् ॥ ३७ ॥

ताः निराशाः निववृतुः गोविन्द-विनिवर्तने विशोकाः अहनी निन्युः गायन्त्यः प्रिय चेष्टितम्

भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप ।
रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ॥ ३८ ॥

भगवान् अपि सम्प्राप्तः राम-अक्रूर-युतः नृप रथेन वायु वेगेन कालिन्दीम् अघ नाशिनीम्

तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् ।
वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् ॥ ३९ ॥

तत्र उपस्पृश्य पानीयम् पीत्वा मृष्टम् मणि प्रभम् वृक्ष षण्डम् उपव्रज्य स-रामः रथम् आविशत्

अक्रूरस्तावुपामन्‍त्र्य निवेश्य च रथोपरि ।
कालिन्द्या ह्रदमागत्य स्‍नानं विधिवदाचरत् ॥ ४० ॥

अक्रूरः तौ उपामन्त्र्य निवेश्य च रथ-उपरि कालिन्द्याः ह्रदम् आगत्य स्नानम् विधि-वत् आचरत्

निमज्ज्य तस्मिन्सलिले जपन्ब्रह्म सनातनम् ।
तावेव दद‍ृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ४१ ॥

निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् तौ एव ददृशे अक्रूरः राम-कृष्णौ समन्वितौ

तौ रथस्थौ कथमिह सुतावानकदुन्दुभे: ।
तर्हि स्वित्स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट स: ॥ ४२ ॥
तत्रापि च यथापूर्वमासीनौ पुनरेव स: ।
न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयो: ॥ ४३ ॥

तौ रथ-स्थौ कथम् इह सुतौ आनकदुन्दुभेः तर्हि स्वित् स्यन्दने न स्तः इति उन्मज्ज्य व्यचष्ट सः तत्र अपि च यथा पूर्वम् आसीनौ पुनः एव सः न्यमज्जत् दर्शनम् यत् मे मृषा किम् सलिले तयोः

भूयस्तत्रापि सोऽद्राक्षीत्स्तूयमानमहीश्वरम् ।
सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरै: ॥ ४४ ॥
सहस्रशिरसं देवं सहस्रफणमौलिनम् ।
नीलाम्बरं विसश्वेतं श‍ृङ्गै: श्वेतमिव स्थितम् ॥ ४५ ॥

भूयः तत्र अपि सः अद्राक्षीत् स्तूयमानम् अहि-ईश्वरम् सिद्ध-चारण-गन्धर्वैः असुरैः नत कन्धरैः सहस्र शिरसम् देवम् सहस्र फण मौलिनम् नील अम्बरम् विस श्वेतम् शृङ्गैः श्वेतम् इव स्थितम्

तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् ।
पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४६ ॥
चारुप्रसन्नवदनं चारुहासनिरीक्षणम् ।
सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम् ॥ ४७ ॥
प्रलम्बपीवरभुजं तुङ्गांसोर:स्थलश्रियम् ।
कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४८ ॥

तस्य उत्सङ्गे घन श्यामम् पीत कौशेय वाससम् पुरुषम् चतुः-भुजम् शान्तम् पद्म पत्र अरुण ईक्षणम् चारु प्रसन्न वदनम् चारु हास निरीक्षणम् सु भ्रू उत् नसम् चारु कर्णम् सु कपोल अरुण अधरम् प्रलम्ब पीवर भुजम् तुङ्ग अंस उरः-स्थल श्रियम् कम्बु कण्ठम् निम्न नाभिम् वलि मत् पल्लव उदरम्

बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम् ।
चारुजानुयुगं चारुजङ्घायुगलसंयुतम् ॥ ४९ ॥
तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम् ।
नवाङ्गुल्यङ्गुष्ठदलैर्विलसत् पादपङ्कजम् ॥ ५० ॥

बृहत् कटि-तट श्रोणि करभ ऊरु द्वय अन्वितम् चारु जानु-युगम् चारु जङ्घा युगल संयुतम् तुङ्ग गुल्फ अरुण नख-व्रात दीधितिभिः वृतम् नव अङ्गुलि-अङ्गुष्ठ दलैः विलसत् पाद-पङ्कजम्

सुमहार्हमणिव्रातकिरीटकटकाङ्गदै: ।
कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलै: ॥ ५१ ॥
भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ५२ ॥

सु-महा अर्ह मणि-व्रात किरीट कटक अङ्गदैः कटि-सूत्र ब्रह्म-सूत्र हार नूपुर कुण्डलैः भ्राजमानम् पद्म करम् शङ्ख चक्र गदा धरम् श्रीवत्स वक्षसम् भ्राजत् कौस्तुभम् वन-मालिनम्

सुनन्दनन्दप्रमुखै: पर्षदै: सनकादिभि: ।
सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमै: ॥ ५३ ॥
प्रह्रादनारदवसुप्रमुखैर्भागवतोत्तमै: ।
स्तूयमानं पृथग्भावैर्वचोभिरमलात्मभि: ॥ ५४ ॥
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया ।
विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥

सुनन्द-नन्द-प्रमुखैः पर्षदैः सनक-आदिभिः सुर-ईशैः ब्रह्म-रुद्र-आद्यैः नवभिः च द्विज-उत्तमैः प्रह्राद-नारद-वसु-प्रमुखैः भागवत-उत्तमैः स्तूयमानम् पृथक्-भावैः वचोभिः अमल-आत्मभिः श्रीया पुष्ट्या गीरा कान्त्या कीर्त्या तुष्ट्या इलया ऊर्जया विद्यया अविद्यया शक्त्या मायया च निषेवितम्

विलोक्य सुभृशं प्रीतो भक्त्या परमया युत: ।
हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचन: ॥ ५६ ॥
गिरा गद्गदयास्तौषीत् सत्त्वमालम्ब्य सात्वत: ।
प्रणम्य मूर्ध्नावहित: कृताञ्जलिपुट: शनै: ॥ ५७ ॥

विलोक्य सु-भृशम् प्रीतः भक्त्या परमया युतः हृष्यत् तनू-रुहः भाव परिक्लिन्न आत्म लोचनः गिरा गद्गदया अस्तौषीत् सत्त्वम् आलम्ब्य सात्वतः प्रणम्य मूर्ध्ना अवहितः कृत-अञ्जलि-पुटः शनैः

१०.४०

श्रीअक्रूर उवाच
नतोऽस्म्यहं त्वाखिलहेतुहेतुं
नारायणं पूरुषमाद्यमव्ययम् ।
यन्नाभिजातादरविन्दकोषाद्
ब्रह्माविरासीद् यत एष लोक: ॥ १ ॥

श्री-अक्रूरः उवाच नतः अस्मि अहम् त्वा अखिल हेतु हेतुम् नारायणम् पूरुषम् आद्यम् अव्ययम् यत् नाभि जातात् अरविन्द कोषात् ब्रह्मा अविरासीत् यतः एषः लोकः

भूस्तोयमग्नि: पवनं खमादि-
र्महानजादिर्मन इन्द्रियाणि ।
सर्वेन्द्रियार्था विबुधाश्च सर्वे
ये हेतवस्ते जगतोऽङ्गभूता: ॥ २ ॥

भूः तोयम् अग्निः पवनम् खम् आदिः महान् अजा आदिः मनः इन्द्रियाणि सर्व-इन्द्रिय अर्थाः विबुधाः च सर्वे ये हेतवः ते जगतः अङ्ग भूताः

नैते स्वरूपं विदुरात्मनस्ते
ह्यजादयोऽनात्मतया गृहीता: ।
अजोऽनुबद्ध: स गुणैरजाया
गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥

न एते स्वरूपम् विदुः आत्मनः ते हि अजा-आदयः अनात्मतया गृहीताः अजः अनुबद्धः सः गुणैः अजायाः गुणात् परम् वेद न ते स्वरूपम्

त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।
साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ ४ ॥

त्वम् योगिनः यजन्ति अद्धा महा-पुरुषम् ईश्वरम् स-अध्यात्मम् स-अधिभुतम् च स-अधिदैवम् च साधवः

त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजा: ।
यजन्ते विततैर्यज्ञैर्नाना रूपामराख्यया ॥ ५ ॥

त्रय्या च विद्यया केचित् त्वाम् वै वैतानिकाः द्विजाः यजन्ते विततैः यज्ञैः नाना रूप अमर आख्यया

एके त्वाखिलकर्माणि सन्न्यस्योपशमं गता: ।
ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥

एके त्वा अखिल कर्माणि सन्न्यस्य उपशमम् गताः ज्ञानिनः ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम्

अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।
यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥

अन्ये च संस्कृत आत्मानः विधिना अभिहितेन ते यजन्ति त्वत्-मयाः त्वाम् वै बहु-मूर्ति एक-मूर्तिकम्

त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।
बह्वाचार्यविभेदेन भगवन्तम् उपासते ॥ ८ ॥

त्वाम् एव अन्ये शिव उक्तेन मार्गेण शिव-रूपिणम् बहु-आचार्य विभेदेन भगवन्तम् उपासते

सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् ।
येऽप्यन्यदेवताभक्ता यद्यप्यन्यधिय: प्रभो ॥ ९ ॥

सर्वे एव यजन्ति त्वम् सर्व-देव मय ईश्वरम् ये अपि अन्य देवता भक्ताः यदि अपि अन्य धियः प्रभो

यथाद्रिप्रभवा नद्य: पर्जन्यापूरिता: प्रभो ।
विशन्ति सर्वत: सिन्धुं तद्वत्त्वां गतयोऽन्तत: ॥ १० ॥

यथा अद्रि प्रभवाः नद्यः पर्जन्य आपूरिताः प्रभो विशन्ति सर्वतः सिन्धुम् तद्वत् त्वाम् गतयः अन्ततः

सत्त्वं रजस्तम इति भवत: प्रकृतेर्गुणा: ।
तेषु हि प्राकृता: प्रोता आब्रह्मस्थावरादय: ॥ ११ ॥

सत्त्वम् रजः तमः इति भवतः प्रकृतेः गुणाः तेषु हि प्राकृताः प्रोताः आ-ब्रह्म स्थावर-आदयः

तुभ्यं नमस्ते त्वविषक्तद‍ृष्टये
सर्वात्मने सर्वधियां च साक्षिणे ।
गुणप्रवाहोऽयमविद्यया कृत:
प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥

तुभ्यम् नमः ते तु अविषक्त दृष्टये सर्व-आत्मने सर्व धियाम् च साक्षिणे गुण प्रवाहः अयम् अविद्यया कृतः प्रवर्तते देव नृ तिर्यक् आत्मसु

अग्निर्मुखं तेऽवनिरङ्‍‍‍‍‍घ्रिरीक्षणं
सूर्यो नभो नाभिरथो दिश: श्रुति: ।
द्यौ: कं सुरेन्द्रास्तव बाहवोऽर्णवा:
कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥
रोमाणि वृक्षौषधय: शिरोरुहा
मेघा: परस्यास्थिनखानि तेऽद्रय: ।
निमेषणं रात्र्यहनी प्रजापति-
र्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥

अग्निः मुखम् ते अवनिः अङ्घ्रिः इक्षणम् सूर्यः नभः नाभिः अथ उ दिशः श्रुतिः द्यौः कम् सुर-इन्द्राः तव बाहवः अर्णवाः कुक्षिः मरुत् प्राण बलम् प्रकल्पितम् रोमाणि वृक्ष ओषधयः शिरः-रुहाः मेघाः परस्य अस्थि नखानि ते अद्रयः निमेषणम् रात्रि-अहनी प्रजापतिः मेढ्रः तु वृष्टिः तव वीर्यम् इष्यते

त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता
लोका: सपाला बहुजीवसङ्कुला: ।
यथा जले सञ्जिहते जलौकसो-
ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥

त्वयि अव्यय-आत्मन् पुरुषे प्रकल्पिताः लोकाः स-पालाः बहु जीव सङ्कुलाः यथा जले सञ्जिहते जल-ओकसः अपि उदुम्बरे वा मशकाः मनः मये

यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि ।
तैरामृष्टशुचो लोका मुदा गायन्ति ते यश: ॥ १६ ॥

यानि यानि इह रूपाणि क्रीडन अर्थम् बिभर्षि हि तैः आमृष्ट शुचः लोकाः मुदा गायन्ति ते यशः

नम: कारणमत्स्याय प्रलयाब्धिचराय च ।
हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥
अकूपाराय बृहते नमो मन्दरधारिणे ।
क्षित्युद्धारविहाराय नम: शूकरमूर्तये ॥ १८ ॥

नमः कारण मत्स्याय प्रलय अब्धि चराय च हय-शीर्ष्णे नमः तुभ्यम् मधु-कैटभ मृत्यवे अकूपाराय बृहते नमः मन्दर धारिणे क्षिति उद्धार विहाराय नमः शूकर मूर्तये

नमस्तेऽद्भ‍ुतसिंहाय साधुलोकभयापह ।
वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥

नमः ते अद्भुत सिंहाय सधु-लोक भय अपह वामनाय नमः तुभ्यम् क्रान्त त्रि-भुवनाय च

नमो भृगुणां पतये द‍ृप्तक्षत्रवनच्छिदे ।
नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥

नमः भृगूणाम् पतये दृप्त क्षत्र वन छिदे नमः ते रघु-वर्याय रावण अन्त-कराय च

नमस्ते वासुदेवाय नम: सङ्कर्षणाय च ।
प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥

नमः ते वासुदेवाय नमः सङ्कर्षणाय च प्रद्युम्नाय अनिरुद्धाय सात्वताम् पतये नमः

नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।
म्‍लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥

नमः बुद्धाय शुद्धाय दैत्य-दानव मोहिने म्लेच्छ प्राय क्षत्र हन्त्रे नमः ते कल्कि-रूपिणे

भगवन् जीवलोकोऽयं मोहितस्तव मायया ।
अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥

भगवन् जीव लोकः अयम् मोहितः तव मायया अहम् मम इति असत् ग्राहः भ्राम्यते कर्म वर्त्मसु

अहं चात्मात्मजागारदारार्थस्वजनादिषु ।
भ्रमामि स्वप्नकल्पेषु मूढ: सत्यधिया विभो ॥ २४ ॥

अहम् च आत्म आत्म-ज अगार दार अर्थ स्व-जन आदिषु भ्रमामि स्वप्न कल्पेषु मूढः सत्य धिया विभो

अनित्यानात्मदु:खेषु विपर्ययमतिर्ह्यहम् ।
द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन: प्रियम् ॥ २५ ॥

अनित्य अनात्म दुःखेषु विपर्यय मतिः हि अहम् द्वन्द्व आरामः तमः विष्टः न जाने त्वा आत्मनः प्रियम्

यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भ‍वै: ।
अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्‌मुख: ॥ २६ ॥

यथा अबुधः जलम् हित्वा प्रतिच्छन्नम् तत्-उद्भवैः अभ्येति मृग-तृष्णाम् वै तद्वत् त्वा अहम् पराक्-मुखः

नोत्सहेऽहं कृपणधी: कामकर्महतं मन: ।
रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्तत: ॥ २७ ॥

न उत्सहे अहम् कृपण धीः काम कर्म हतम् मनः रोद्धुम् प्रमाथिभिः च अक्षैः ह्रियमाणम् इतः ततः

सोऽहं तवाङ्‌घ्र्युपगतोऽस्म्यसतां दुरापं
तच्चाप्यहं भवदनुग्रह ईश मन्ये ।
पुंसो भवेद् यर्हि संसरणापवर्ग-
स्त्वय्यब्जनाभ सदुपासनया मति: स्यात् ॥ २८ ॥

सः अहम् तव अङ्घ्रि उपगतः अस्मि असताम् दुरापम् तत् च अपि अहम् भवत् अनुग्रहः ईश मन्ये पुंसः भवेत् यर्हि संसरण अपवर्गः त्वयि अब्ज नाभ सत् उपासनया मतिः स्यात्

नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे ।
पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥

नमः विज्ञान मात्राय सर्व प्रत्यय हेतवे पुरुष ईश प्रधानाय ब्रह्मणे अनन्त शक्तये

नमस्ते वासुदेवाय सर्वभूतक्षयाय च ।
हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥

नमः ते वासुदेवाय सर्व भूत क्षयाय च हृषीक-ईश नमः तुभ्यम् प्रपन्नम् पाहि माम् प्रभो

१०.४१

श्रीशुक उवाच
स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपु: ।
भूय: समाहरत् कृष्णो नटो नाट्यमिवात्मन: ॥ १ ॥

श्री-शुकः उवाच स्तुवतः तस्य भगवान् दर्शयित्वा जले वपुः भूयः समाहरत् कृष्णः नटः नाट्यम् इव आत्मनः

सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्य सत्वर: ।
कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २ ॥

सः अपि च अन्तर्हितम् वीक्ष्य जलात् उन्मज्य सत्वरः कृत्वा च आवश्यकम् सर्वम् विस्मितः रथम् आगमत्

तमपृच्छद्‌धृषीकेश: किं ते द‍ृष्टमिवाद्भ‍ुतम् ।
भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ ३ ॥

तम् अपृच्छत् हृषीक्शः किम् ते दृष्टम् इव अद्भुतम् भूमौ वियति तोये व तथा त्वाम् लक्षयामहे

श्रीअक्रूर उवाच
अद्भ‍ुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽद‍ृष्टं विपश्यत: ॥ ४ ॥

श्री-अक्रूरः उवाच अद्भुतानि इह यावन्ति भूमौ वियति वा जले त्वयि विश्व-आत्मके तानि किम् मे अदृष्टम् विपश्यतः

यत्राद्भ‍ुतानि सर्वाणि भूमौ वियति वा जले ।
तं त्वानुपश्यतो ब्रह्मन् किं मे द‍ृष्टमिहाद्भ‍ुतम् ॥ ५ ॥

यत्र अद्भुतानि सर्वाणि भूमौ वियति वा जले तम् त्वा अनुपश्यतः ब्रह्मन् किम् मे दृष्टम् इह अद्भुतम्

इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुत: ।
मथुरामनयद् रामं कृष्णं चैव दिनात्यये ॥ ६ ॥

इति उक्त्वा चोदयाम् आस स्यन्दनम् गान्दिनी-सुतः मथुराम् अनयत् रामम् कृष्णम् च एव दिन अत्यये

मार्गे ग्रामजना राजंस्तत्र तत्रोपसङ्गता: ।
वसुदेवसुतौ वीक्ष्य प्रीता द‍ृष्टिं न चाददु: ॥ ७ ॥

मार्गे ग्राम जनाः राजन् तत्र तत्र उपसङ्गताः वसुदेव-सुतौ वीक्ष्य प्रीताः दृष्टिम् न च आददुः

तावद् व्रजौकसस्तत्र नन्दगोपादयोऽग्रत: ।
पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥ ८ ॥

तावत् व्रज-ओकसः तत्र नन्द-गोप-आदयः अग्रतः पुर उपवनम् आसाद्य प्रतीक्षन्तः अवतस्थिरे

तान् समेत्याह भगवानक्रूरं जगदीश्वर: ।
गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥ ९ ॥

तान् समेत्य आह भगवान् अक्रूरम् जगत्-ईश्वरः गृहीत्वा पाणिना पाणिम् प्रश्रितम् प्रहसन् इव

भवान् प्रविशतामग्रे सहयान: पुरीं गृहम् ।
वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ १० ॥

भवान् प्रविशताम् अग्रे सह यानः पुरीम् गृहम् वयम् तु इह अवमुच्य अथ ततः द्रक्ष्यामहे पुरीम्

श्रीअक्रूर उवाच
नाहं भवद्‌भ्यां रहित: प्रवेक्ष्ये मथुरां प्रभो ।
त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥

श्री-अक्रूरः उवाच न अहम् भवद्भ्याम् रहितः प्रवेक्ष्ये मथुराम् प्रभो त्यक्तुम् न अर्हसि माम् नाथ भक्तम् ते भक्त-वत्सल

आगच्छ याम गेहान्न: सनाथान्कुर्वधोक्षज ।
सहाग्रज: सगोपालै: सुहृद्भ‍िश्च सुहृत्तम ॥ १२ ॥

आगच्छ याम गेहान् नः स नाथान् कुरु अधोक्षज सह अग्र-जः स-गोपालैः सुहृद्भिः च सुहृत्-तम

पुनीहि पादरजसा गृहान् नो गृहमेधिनाम् ।
यच्छौचेनानुतृप्यन्ति पितर: साग्नय: सुरा: ॥ १३ ॥

पुनीहि पाद रजसा गृहान् नः गृह-मेधिनाम् यत् शौचेन अनुतृप्यन्ति पितरः स अग्नयः सुराः

अवनिज्याङ्‍‍‍‍‍घ्रियुगलमासीत्श्लोक्यो बलिर्महान् ।
ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या ॥ १४ ॥

अवनिज्य अङ्घ्रि-युगलम् आसीत् श्लोक्यः बलिः महान् ऐश्वर्यम् अतुलम् लेभे गतीम् च एकान्तिनाम् तु या

आपस्तेऽङ्‌घ्य्रवनेजन्यस्त्रींल्लोकान् शुचयोऽपुनन् ।
शिरसाधत्त या: शर्व: स्वर्याता: सगरात्मजा: ॥ १५ ॥

आपः ते अङ्घ्रि अवनेजन्यः त्रीन् लोकान् शुचयः अपुनन् शिरसा आधत्त याः शर्वः स्वः याताः सगर-आत्मजाः

देवदेव जगन्नाथ पुण्यश्रवणकीर्तन ।
यदूत्तमोत्तम:श्लोक नारायण नमोऽस्तु ते ॥ १६ ॥

देव-देव जगत्-नाथ पुण्य श्रवण कीर्तन यदु-उत्तम उत्तमः-श्लोक नारायण नमः अस्तु ते

श्रीभगवानुवाच
आयास्ये भवतो गेहमहमार्यसमन्वित: ।
यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ १७ ॥

श्री-भगवान् उवाच आयास्ये भवतः गेहम् अहम् आर्य समन्वितः यदु-चक्र द्रुहम् हत्वा वितरिष्ये सुहृत् प्रियम्

श्रीशुक उवाच
एवमुक्तो भगवता सोऽक्रूरो विमना इव ।
पुरीं प्रविष्ट: कंसाय कर्मावेद्य गृहं ययौ ॥ १८ ॥

श्री-शुकः उवाच एवम् उक्तः भगवता सः अक्रूरः विमनाः इव पुरीम् प्रविष्टः कंसाय कर्म आवेद्य गृहम् ययौ

अथापराह्ने भगवान् कृष्ण: सङ्कर्षणान्वित: ।
मथुरां प्राविशद् गोपैर्दिद‍ृक्षु: परिवारित: ॥ १९ ॥

अथ अपर-अह्ने भगवान् कृष्णः सङ्कर्षण-अन्वितः मथुराम् प्राविशत् गोपैः दिदृक्षुः परिवारितः

ददर्श तां स्फाटिकतुङ्गगोपुर-
द्वारां बृहद्धेमकपाटतोरणाम् ।
ताम्रारकोष्ठां परिखादुरासदा-
मुद्यानरम्योपवनोपशोभिताम् ॥ २० ॥
सौवर्णश‍ृङ्गाटकहर्म्यनिष्कुटै:
श्रेणीसभाभिर्भवनैरुपस्कृताम् ।
वैदूर्यवज्रामलनीलविद्रुमै-
र्मुक्ताहरिद्भ‍िर्वलभीषु वेदिषु ॥ २१ ॥
जुष्टेषु जालामुखरन्ध्रकुट्टिमे-
ष्वाविष्टपारावतबर्हिनादिताम् ।
संसिक्तरथ्यापणमार्गचत्वरां
प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥ २२ ॥
आपूर्णकुम्भैर्दधिचन्दनोक्षितै:
प्रसूनदीपावलिभि: सपल्लवै: ।
सवृन्दरम्भाक्रमुकै: सकेतुभि:
स्वलङ्कृतद्वारगृहां सपट्टिकै: ॥ २३ ॥

ददर्श तम् स्फाटिक तुङ्ग गोपुर द्वाराम् बृहत् हेम कपाट तोरणाम् ताम्र आर कोष्ठाम् परिखा दुरासदाम् उद्यान रम्य उपवन उपशोभितम् सौवर्ण शृङ्गाटक हर्म्य निष्कुटैः श्रेणी सभाभिः भवनैः उपस्कृताम् वैदूर्य वज्र अमल नील विद्रुमैः मुक्ता हरिद्भिः वलभीषु वेदिषु जुष्टेषु जाल-आमुख रन्ध्र कुट्टिमेषु आविष्ट पारावत बर्हि नादिताम् संसिक्त रथ्या आपण मार्ग चत्वराम् प्रकीर्ण माल्य अङ्कुर लाज तण्डुलाम् आपूर्ण कुम्भैः दधि चन्दन उक्षितैः प्रसून दीप-आवलिभिः स-पल्लवैः स-वृन्द रम्भा क्रमुकैः स-केतुभिः सु-अलङ्कृत द्वार गृहाम् स-पट्टिकैः

तां सम्प्रविष्टौ वसुदेवनन्दनौ
वृतौ वयस्यैर्नरदेववर्त्मना ।
द्रष्टुं समीयुस्त्वरिता: पुरस्त्रियो
हर्म्याणि चैवारुरुहुर्नृपोत्सुका: ॥ २४ ॥

ताम् सम्प्रविष्टौ वसुदेव नन्दनौ वृतौ वयस्यैः नर-देव वर्त्मना द्रष्टुम् समीयुः त्वरिताः पुर स्त्रियः हर्म्याणि च एव आरुरुहुः नृप उत्सुकाः

काश्‍चिद् विपर्यग्धृतवस्त्रभूषणा
विस्मृत्य चैकं युगलेष्वथापरा: ।
कृतैकपत्रश्रवनैकनूपुरा
नाङ्‌क्त्वा द्वितीयं त्वपराश्च लोचनम् ॥ २५ ॥

कश्चित् विपर्यक् धृत वस्त्र भूषणः विस्मृत्य च एकम् युगलेषु अथ अपराः कृत एक पत्र श्रवण एक नूपुराः न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम्

अश्न‍न्त्य एकास्तदपास्य सोत्सवा
अभ्यज्यमाना अकृतोपमज्जना: ।
स्वपन्त्य उत्थाय निशम्य नि:स्वनं
प्रपाययन्त्योऽर्भमपोह्य मातर: ॥ २६ ॥

अश्नन्त्यः एकः तत् अपास्य स-उत्सवः अभ्यज्यमानाः अकृत उपमज्जनाः स्वपन्त्यः उत्थाय निशम्य निःस्वनम् प्रपाययन्त्यः अर्भम् अपोह्य मातरः

मनांसि तासामरविन्दलोचन:
प्रगल्भलीलाहसितावलोकै: ।
जहार मत्तद्विरदेन्द्रविक्रमो
द‍ृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ २७ ॥

मनांसि तासाम् अरविन्द लोचनः प्रगल्भ लीला हसित अवलोकैः जहार मत्त द्विरद-इन्द्र विक्रमः दृशाम् ददत् श्री रमण आत्मना उत्सवम्

द‍ृष्ट्वा मुहु: श्रुतमनुद्रुतचेतसस्तं
तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमाना: ।
आनन्दमूर्तिमुपगुह्य द‍ृशात्मलब्धं
हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥ २८ ॥

दृष्ट्वा मुहुः श्रुतम् अनुद्रुत चेतसः तम् तत् प्रेक्षण उत्-स्मित सुधा उक्षण लब्ध मानाः आनन्द मूर्तिम् उपगुह्य दृशा आत्म लब्धम् हृष्यत् त्वचः जहुः अनन्तम् अरिम्-दम आधिम्

प्रासादशिखरारूढा: प्रीत्युत्फुल्लमुखाम्बुजा: ।
अभ्यवर्षन् सौमनस्यै: प्रमदा बलकेशवौ ॥ २९ ॥

प्रासाद शिखर आरूढाः प्रीति उत्फुल्ल मुख अम्बुजाः अभ्यवर्षन् सौमनस्यैः प्रमदाः बल-केशवौ

दध्यक्षतै: सोदपात्रै: स्रग्गन्धैरभ्युपायनै: ।
तावानर्चु: प्रमुदितास्तत्र तत्र द्विजातय: ॥ ३० ॥

दधि अक्षतैः स उद-पात्रैः स्रक् गन्धैः अभ्युपायनैः तौ आनर्चुः प्रमुदिताः तत्र तत्र द्वि-जातयः

ऊचु: पौरा अहो गोप्यस्तप: किमचरन्महत् ।
या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ॥ ३१ ॥

ऊचुः पौराः अहो गोप्यः तपः किम् अचरन् महत् याः हि एतौ अनुपश्यन्ति नर-लोक महा-उत्सवौ

रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रज: ।
द‍ृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ॥ ३२ ॥

रजकम् कञ्चित् आयान्तम् रङ्ग-कारम् गद-अग्रजः दृष्ट्वा अयाचत वासांसि धौतानि अति-उत्तमानि च

देह्यावयो: समुचितान्यङ्ग वासांसि चार्हतो: ।
भविष्यति परं श्रेयो दातुस्ते नात्र संशय: ॥ ३३ ॥

देहि आवयोः समुचितानि अङ्ग वासांसि च अर्हतोः भविष्यति परम् श्रेयः दातुः ते न अत्र संशयः

स याचितो भगवता परिपूर्णेन सर्वत: ।
साक्षेपं रुषित: प्राह भृत्यो राज्ञ: सुदुर्मद: ॥ ३४ ॥

सः याचितः भगवता परिपूर्णेन सर्वतः स-आक्षेपम् रुषितः प्राह भृत्यः राज्ञः सु दुर्मदः

ईद‍ृशान्येव वासांसि नित्यं गिरिवनेचर: ।
परिधत्त किमुद्‌वृत्ता राजद्रव्याण्यभीप्सथ ॥ ३५ ॥

ईदृशानि एव वासांसि नित्यम् गिरि वने चराः परिधत्त किम् उद्वृत्ताः राज द्रव्याणि अभीप्सथ

याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा ।
बध्नन्ति घ्नन्ति लुम्पन्ति द‍ृप्तं राजकुलानि वै ॥ ३६ ॥

यात आशु बालिशः मा एवम् प्रार्थ्यम् यदि जिजीविषा बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तम् राज-कुलानि वै

एवं विकत्थमानस्य कुपितो देवकीसुत: ।
रजकस्य कराग्रेण शिर: कायादपातयत् ॥ ३७ ॥

एवम् विकत्थमानस्य कुपितः देवकी-सुतः रजकस्य कर अग्रेण शिरः कायात् अपातयत्

तस्यानुजीविन: सर्वे वास:कोशान्विसृज्य वै ।
दुद्रुवु: सर्वतो मार्गं वासांसि जगृहेऽच्युत: ॥ ३८ ॥

तस्य अनुजीविनः सर्वे वासः कोशान् विसृज्य वै दद्रुवुः सर्वतः मार्गम् वासांसि जगृहे अच्युतः

वसित्वात्मप्रिये वस्‍‍‍‍‍त्रे कृष्ण: सङ्कर्षणस्तथा ।
शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ ३९ ॥

वसित्वा आत्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणः तथा शेषाणि आदत्त गोपेभ्यः विसृज्य भुवि कानिचित्

ततस्तु वायक: प्रीतस्तयोर्वेषमकल्पयत् ।
विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपत: ॥ ४० ॥

ततः तु वायकः प्रीतः तयोः वेषम् अकल्पयत् विचित्र वर्णैः चैलेयैः आकल्पैः अनुरूपतः

नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतु: ।
स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥ ४१ ॥

नाना लक्षण वेषाभ्याम् कृष्ण-रामौ विरेजतुः सु-अलङ्कृतौ बाल गजौ पर्वणि इव सित इतरौ

तस्य प्रसन्नो भगवान् प्रादात्सारूप्यमात्मन: ।
श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ ४२ ॥

तस्य प्रसन्नः भगवान् प्रादात् सारूप्यम् आत्मनः श्रियम् च परमाम् लोके बल ऐश्वर्य स्मृति इन्द्रियम्

तत: सुदाम्नो भवनं मालाकारस्य जग्मतु: ।
तौ द‍ृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥

ततः सुदाम्नः भवनम् माला-कारस्य जग्मतुः तौ दृष्ट्वा सः समुत्थाय ननाम शिरसा भुवि

तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभि: ।
पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनै: ॥ ४४ ॥

तयोः आसनम् आनीय पाद्यम् च अर्घ्य अर्हण आदिभिः पूजाम् स-अनुगयोः चक्रे स्रक् ताम्बूल अनुलेपनैः

प्राह न: सार्थकं जन्म पावितं च कुलं प्रभो ।
पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥ ४५ ॥

प्राह नः स-अर्थकम् जन्म पावितम् च कुलम् प्रभो पितृ देव ऋषयः मह्यम् तुष्टाः हि आगमनेन वाम्

भवन्तौ किल विश्वस्य जगत: कारणं परम् ।
अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६ ॥

भवन्तौ किल विश्वस्य जगतः कारणम् परम् अवतीर्णौ इह अंशेन क्षेमाय च भवाय च

न हि वां विषमा द‍ृष्टि: सुहृदोर्जगदात्मनो: ।
समयो: सर्वभूतेषु भजन्तं भजतोरपि ॥ ४७ ॥

न हि वाम् विषमा दृष्टिः सुहृदोः जगत् आत्मनोः समयोः सर्व भूतेषु भजन्तम् भजतोः अपि

तावाज्ञापयतं भृत्यं किमहं करवाणि वाम् ।
पुंसोऽत्यनुग्रहो ह्येष भवद्भ‍िर्यन्नियुज्यते ॥ ४८ ॥

तौ आज्ञापयतम् भृत्यम् किम् अहम् करवाणि वाम् पुंसः अति अनुग्रहः हि एषः भवद्भिः यत् नियुज्यते

इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानस: ।
शस्तै: सुगन्धै: कुसुमैर्माला विरचिता ददौ ॥ ४९ ॥

इति अभिप्रेत्य राज-इन्द्र सुदामा प्रीत-मानसः शस्तैः सु-गन्धैः कुसुमैः मलः विरचिताः ददौ

ताभि: स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ ।
प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥ ५० ॥

ताभिः सु-अलङ्कृतौ प्रीतौ कृष्ण-रामौ सह अनुगौ प्रणताय प्रपन्नाय ददतुः वरदौ वरान्

सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि ।
तद्भ‍क्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ ५१ ॥

सः अपि वव्रे अचलाम् भक्तिम् तस्मिन् एव अखिल आत्मनि तत् भक्तेषु च सौहार्दम् भूतेषु च दयाम् पराम्

इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् ।
बलमायुर्यश: कान्तिं निर्जगाम सहाग्रज: ॥ ५२ ॥

इति तस्मै वरम् दत्त्वा श्रियम् च अन्वय वर्धिनीम् बलम् आयुः यशः कान्तिम् निर्जगाम सह अग्र-जः

१०.४२

श्रीशुक उवाच
अथ व्रजन् राजपथेन माधव:
स्त्रियं गृहीताङ्गविलेपभाजनाम् ।
विलोक्य कुब्जां युवतीं वराननां
पप्रच्छ यान्तीं प्रहसन् रसप्रद: ॥ १ ॥

श्री-शुकः उवाच अथ व्रजन् राज-पथेन माधवः स्त्रियम् गृहीत अङ्ग विलेप भाजनाम् विलोक्य कुब्जाम् युवतीम् वर-आननाम् पप्रच्छ यान्तीम् प्रहसन् रस प्रदः

का त्वं वरोर्वेतदु हानुलेपनंकस्याङ्गने वा कथयस्व साधु न: ।
देह्यावयोरङ्गविलेपमुत्तमंश्रेयस्ततस्ते
न चिराद् भविष्यति ॥ २ ॥

का त्वम् वर-ऊरु एतत् उ ह अनुलेपनम् कस्य अङ्गने वा कथयस्व साधु नः देहि आवयोः अङ्ग-विलेपम् उत्तमम् श्रेयः ततः ते न चिरात् भविष्यति

सैरन्‍ध्र्युवाच
दास्यस्म्यहं सुन्दर कंससम्मतात्रिवक्रनामा ह्यनुलेपकर्मणि ।
मद्भ‍ावितं भोजपतेरतिप्रियंविना
युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥

सैरन्ध्री उवाच दासी अस्मि अहम् सुन्दर कंस सम्मता त्रिवक्र-नामा हि अनुलेप कर्मणि मत् भावितम् भोज-पतेः अति-प्रियम् विना युवाम् कः अन्यतमः तत् अर्हति

रूपपेशलमाधुर्यहसितालापवीक्षितै: ।
धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् ॥ ४ ॥

रूप पेशल माधुर्य हसित आलाप वीक्षितैः धर्षित आत्मा ददौ सान्द्रम् उभयोः अनुलेपनम्

ततस्तावङ्गरागेण स्ववर्णेतरशोभिना ।
सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥

ततः तौ अङ्ग रागेण स्व वर्ण इतर शोभिना सम्प्राप्त पर भगेन शुशुभाते अनुरञ्जितौ

प्रसन्नो भगवान्कुब्जां त्रिवक्रां रुचिराननाम् ।
ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६


प्रसन्नः भगवान् कुब्जाम् त्रिवक्रा रुचिर आननाम् ऋज्वीम् कर्तुम् मनः चक्रे दर्शयन् दर्शने फलम्

पद्‌भ्यामाक्रम्य प्रपदे द्‌व्यङ्गुल्युत्तानपाणिना ।
प्रगृह्य चिबुकेऽध्यात्ममुदनीनमदच्युत: ॥ ७ ॥

पद्भ्याम् आक्रम्य प्रपदे द्वि अङ्गुलि उत्तान पाणिना प्रगृह्य चिबुके अध्यात्मम् उदनीनमत् अच्युतः

सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा ।
मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥

सा तदा ऋजु समान अङ्गी बृहत् श्रोणि पयः-धरा मुकुन्द-स्पर्शनात् सद्यः बभूव प्रमदा उत्तमा

ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम् ।
उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया ॥ ९ ॥

ततः रूप गुण औदार्य सम्पन्ना प्राह केशवम् उत्तरीय अन्तम् आकृष्य स्मयन्ती जात हृत्-शया

एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे ।
त्वयोन्मथितचित्ताया: प्रसीद पुरुषर्षभ ॥ १०


एहि वीर गृहम् यामः न त्वाम् त्यक्तुम् इह उत्सहे त्वया उन्मथित चित्तायाः प्रसीद पुरुष-ऋषभ

एवं स्त्रिया याच्यमान: कृष्णो रामस्य पश्यत: ।
मुखं वीक्ष्यानु गोपानां प्रहसंस्तामुवाच ह ॥
११ ॥

एवम् स्त्रिया याच्य नानः कृष्णः रामस्य पश्यतः मुखम् वीक्ष्य अनु गोपानाम् प्रहसन् ताम् उवाच ह

एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् ।
साधितार्थोऽगृहाणां न: पान्थानां त्वं परायणम् ॥
१२ ॥

एष्यामि ते गृहम् सु-भ्रु पुंसाम् आधि विकर्शनम् साधित अर्थः अगृहाणाम् नः पान्थानाम् त्वम् पर अयनम्

विसृज्य माध्व्या वाण्या ताम्व्रजन् मार्गे वणिक्पथै: ।
नानोपायनताम्बूलस्रग्गन्धै:
साग्रजोऽर्चित: ॥ १३ ॥

विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः नाना उपायन ताम्बूल स्रक् गन्धैः स अग्र-जः अर्चितः

तद्दर्शनस्मरक्षोभादात्मानं नाविदन् स्त्रिय: ।
विस्रस्तवास:कवरवलया लेख्यमूर्तय: ॥ १४ ॥

तत् दर्शन स्मर क्षोभात् आत्मानम् न अविदन् स्त्रियः विस्रस्त वासः कवर वलयाः लेख्य मूर्तयः

तत: पौरान् पृच्छमानो धनुष: स्थानमच्युत: ।
तस्मिन् प्रविष्टो दद‍ृशे धनुरैन्द्रमिवाद्भ‍ुतम् ॥ १५


ततः पौरान् पृच्छमानः धनुषः स्थानम् अच्युतः तस्मिन् प्रविष्टः ददृशे धनुः ऐन्द्रम् इव अद्भुतम्

पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत् ।
वार्यमाणो नृभि: कृष्ण: प्रसह्य धनुराददे ॥ १६ ॥

पुरुषैः बहुभिः गुप्तम् अर्चितम् परम ऋद्धि मत् वार्यमाणः नृभिः कृष्णः प्रसह्य धनुः आददे

करेण वामेन सलीलमुद्‌धृतंसज्यं च कृत्वा निमिषेण पश्यताम् ।
नृणां विकृष्य प्रबभञ्ज
मध्यतोयथेक्षुदण्डं मदकर्युरुक्रम: ॥ १७ ॥

करेण वामेन स-लीलम् उद्धृतम् सज्यम् च कृत्वा निमिषेण पश्यताम् नृणाम् विकृष्य प्रबभञ्ज मध्यतः यथा इक्षु दण्डम् मद-करी उरुक्रमः

धनुषो भज्यमानस्य शब्द: खं रोदसी दिश: ।
पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥

धनुषः भज्यमानस्य शब्दः खम् रोदसी दिशः पूरयाम् आस यम् श्रुत्वा कंसः त्रासम् उपागमत्

तद् रक्षिण: सानुचरं कुपिता आततायिन: ।
गृहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति ॥ १९ ॥

तत् रक्षिणः स अनुचरम् कुपिताः आततायिनः गृहीतु कामाः आवव्रुः गृह्यताम् वध्यताम् इति

अथ तान्दुरभिप्रायान् विलोक्य बलकेशवौ ।
क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतु: ॥ २० ॥

अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ क्रुद्धौ धन्वनः आदाय शकले तान् च जघ्नतुः

बलं च कंसप्रहितं हत्वा शालामुखात्तत: ।
निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पद: ॥ २१ ॥

बलम् च कंस-प्रहितम् हत्वा शाला मुखात् ततः निष्क्रम्य चेरतुः हृष्टौ निरीक्ष्य पुर सम्पदः

तयोः तत् अद्भुतम् वीर्यम् निशाम्य पुर-वासिनः तेजः प्रागल्भ्यम् रूपम् च मेनिरे विबुध उत्तमौ

तयोर्विचरतो: स्वैरमादित्योऽस्तमुपेयिवान् ।
कृष्णरामौ वृतौ गोपै: पुराच्छकटमीयतु: ॥ २३ ॥

तयोः विचरतोः स्वैरम् आदित्यः अस्तम् उपेयिवान् कृष्ण-रामौ वृतौ गोपैः पुरात् शकटम् ईयतुः

गोप्यो मुकुन्दविगमे विरहातुरा याआशासताशिष ऋता मधुपुर्यभूवन् ।
सम्पश्यतां
पुरुषभूषणगात्रलक्ष्मींहित्वेतरान् नु भजतश्चकमेऽयनं श्री: ॥ २४ ॥

गोप्यः मुकुन्द-विगमे विरह आतुराः याः आशासत आशिषः ऋताः मधु-पुरि अभूवन् सम्पश्यताम् पुरुष भूषण गात्र लक्ष्मीम् हित्वा इतरान् नु भजतः चकमे अयनम् श्रीः

अवनिक्ताङ्‍‍‍‍‍घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् ।
ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥
२५ ॥

अवनिक्त अङ्घ्रि-युगलौ भुक्त्वा क्षीर-उपसेचनम् ऊषतुः ताम् सुखम् रात्रिम् ज्ञात्वा कंस-चिकीर्षितम्

कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च ।
वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥ २६ ॥
दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मति: ।
बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७


कंसः तु धनुषः भङ्गम् रक्षिणाम् स्व बलस्य च वधम् निशम्य गोविन्द-राम विक्रीडितम् परम् दीर्घ प्रजागरः भीतः दुर्निमित्तानि दुर्मतिः बहूनि अचष्ट उभयथा मृत्योः दौत्य-कराणि च

अदर्शनं स्वशिरस: प्रतिरूपे च सत्यपि ।
असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥
छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुति: ।
स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥
स्वप्ने प्रेतपरिष्वङ्ग: खरयानं विषादनम् ।
यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बर: ॥ ३० ॥
अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च ।
पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥
३१ ॥

अदर्शनम् स्व शिरसः प्रतिरूपे च सति अपि असति अपि द्वितीये च द्वै-रूप्यम् ज्योतिषाम् तथा छिद्र प्रतीतिः छायायाम् प्राण घोष अनुपश्रुतिः स्वर्ण प्रतीतिः वृक्षेषु स्व पदानाम् अदर्शनम् स्वप्ने प्रेत परिष्वङ्गः खर यानम् विष अदनम् यायात् नलद माली एकः तैल अभ्यक्तः दिक्-अम्बरः अन्यानि च इत्थम्-भूतानि स्वप्न जागरितानि च पश्यन् मरण सन्त्रस्तः निद्राम् लेभे न चिन्तया

व्युष्टायां निशि कौरव्य सूर्ये चाद्‌भ्य: समुत्थिते ।
कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥
३२ ॥

व्युष्टायाम् निशि कौरव्य सूर्ये च अद्भ्यः समुत्थिते कारयाम् आस वै कंसः मल्ल क्रीडा महा-उत्सवम्

आनर्चु: पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे ।
मञ्चाश्चालङ्कृता: स्रग्भि: पताकाचैलतोरणै: ॥ ३३ ॥

आनर्चुः पुरुषाः रङ्गम् तूर्य भेर्यः च जघ्निरे मञ्चाः च अलङ्कृताः स्रग्भिः पताका चैल तोरणैः

तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमा: ।
यथोपजोषं विविशू राजानश्च कृतासना: ॥ ३४ ॥

तेषु पौराः जानपदाः ब्रह्म क्षत्र पुरः-गमाः यथा-उपजोषम् विविशुः राजानः च कृत असनाः

कंस: परिवृतोऽमात्यै राजमञ्च उपाविशत् ।
मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५ ॥

कंसः परिवृतः अमात्यैः राज-मञ्चे उपाविशति मण्डल-ईश्वर मध्य स्थः हृदयेन विदूयता

वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च ।
मल्ला: स्वलङ्कृता: द‍ृप्ता: सोपाध्याया: समासत ॥ ३६


वाद्यमानेषु तूर्येषु मल्ल ताल उत्तरेषु च मल्लाः सु-अलङ्कृताः दृप्ताः स-उपाध्यायाः समासत

चाणूरो मुष्टिक: कूट: शलस्तोशल एव च ।
त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिता: ॥ ३७ ॥

चाणूरः मुष्टिकः कूटः शलः तोशलः एव च ते आसेदुः उपस्थानम् वल्गु वाद्य प्रहर्षिताः

नन्दगोपादयो गोपा भोजराजसमाहुता: ।
निवेदितोपायनास्त एकस्मिन्मञ्च आविशन् ॥ ३८ ॥

नन्द-गोप-आदयः गोपाः भोज-राज समाहुताः निवेदित उपायनाः ते एकस्मिन् मञ्चे आविशन्

१०.४३

श्रीशुक उवाच
अथ कृष्णश्च रामश्च कृतशौचौ परन्तप ।
मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतु: ॥ १ ॥

श्री-शुकः उवाच अथ कृष्णः च रामः च कृत शौचौ परम्-तप मल्ल दुन्दुभि निर्घोषम् श्रुत्वा द्रष्टुम् उपेयतः

रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् ।
अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २ ॥

रङ्ग द्वारम् समासाद्य तस्मिन् नागम् अवस्थितम् अपश्यत् कुवलयापीडम् कृष्णः अम्बष्ठ प्रचोदितम्

बद्ध्वा परिकरं शौरि: समुह्य कुटिलालकान् ।
उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३ ॥

बद्ध्वा परिकरम् शौरिः समुह्य कुटिल अलकान् उवाच हस्ति-पम् वाचा मेघ नाद गभीरया

अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् ।
नो चेत् सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ ४


अम्बष्ठ अम्बष्ठ मार्गम् नौ देहि अपक्रम म चिरम् न उ चेत् स-कुञ्जरम् त्व अद्य नयामि यम सादनम्

एवं निर्भर्त्सितोऽम्बष्ठ: कुपित: कोपितं गजम् ।
चोदयामास कृष्णाय कालान्तकयमोपमम् ॥ ५ ॥

एवम् निर्भर्त्सितः अम्बष्ठः कुपितः कोपितम् गजम् चोदयाम् आस कृष्णाय काल अन्तक यम उपमम्

करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् ।
कराद्विगलित: सोऽमुं निहत्याङ्‍‍‍‍‍घ्रिष्वलीयत ॥ ६ ॥

करि इन्द्रः तम् अभिद्रुत्य करेण तरसा अग्रहीत् करात् विगलितः सः अमुम् निहत्य अङ्घ्रिषु अलीयत

सङ्‌क्रुद्धस्तमचक्षाणो घ्राणद‍ृष्टि: स केशवम् ।
परामृशत् पुष्करेण स प्रसह्य विनिर्गत: ॥ ७ ॥

सङ्क्रुद्धः तम् अचक्षाणः घ्राण दृष्टिः सः केशवम् परामृशत् पुष्करेण सः प्रसह्य विनिर्गतः

पुच्छे प्रगृह्यातिबलं धनुष: पञ्चविंशतिम् ।
विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८ ॥

पुच्छे प्रगृह्य अति-बलम् धनुषः पञ्च-विंशतिम् विचकर्ष यथा नागम् सुपर्णः इव ईलया

स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युत: ।
बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालक: ॥ ९ ॥

सः पर्यावर्तमानेन सव्य-दक्षिणतः अच्युतः बभ्राम भ्राम्यमाणेन गो-वत्सेन इव बालकः

ततोऽभिमुखमभ्येत्य पाणिनाहत्य वारणम् ।
प्राद्रवन् पातयामास स्पृश्यमान: पदे पदे ॥ १० ॥

ततः अभिमुखम् अभ्येत्य पाणिना आहत्य वारणम् प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे

स धावन् क्रीडया भूमौ पतित्वा सहसोत्थित: ।
तं मत्वा पतितं क्रुद्धो दन्ताभ्यां
सोऽहनत्क्षितिम् ॥ ११ ॥

सः धावन् क्रीडया भूमौ पतित्वा सहसा उत्थितः तम् मत्वा पतितम् क्रुद्धः दन्ताभ्याम् सः अहनत् क्षितिम्

स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षित: ।
चोद्यमानो महामात्रै: कृष्णमभ्यद्रवद् रुषा ॥ १२


स्व विक्रमे प्रतिहते कुञ्जर-इन्द्रः अति अमर्षितः चोद्यमानः महामात्रैः कृष्णम् अभ्यद्रवत् रुषा

तमापतन्तमासाद्य भगवान् मधुसूदन: ।
निगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३ ॥

तम् आपतन्तम् आसाद्य भगवान् मधु-सूदनः निगृह्य पाणिना हस्तम् पातयाम् आस भू-तले

पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया ।
दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरि: ॥ १४ ॥

पतितस्य पदा आक्रम्य मृगेन्द्रः इव लीलया दन्तम् उत्पाट्य तेन इभम् हस्ति-पान् च अहनत् हरिः

मृतकं द्विपमुत्सृज्य दन्तपाणि: समाविशत् ।
अंसन्यस्तविषाणोऽसृङ्‌मदबिन्दुभिरङ्कित: ।
विरूढस्वेदकणिकावदनाम्बुरुहो बभौ ॥ १५ ॥

मृतकम् द्विपम् उत्सृज्य दन्त पाणिः समाविशत् अंस न्यस्त विषाणः असृक् मद बिन्दुभिः अङ्कितः विरूढ स्वेद कणिका वदन अम्बु-रुहः बभौ

वृतौ गोपै: कतिपयैर्बलदेवजनार्दनौ ।
रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६ ॥

वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ रङ्गम् विविशतुः राजन् गज-दन्त वर आयुधौ

मल्लानामशनिर्नृणां नरवर: स्त्रीणां स्मरो मूर्तिमान्गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता
स्वपित्रो: शिशु: ।
मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनांवृष्णीनां परदेवतेति विदितो
रङ्गं गत: साग्रज: ॥ १७ ॥

मल्लानाम् अशनिः नृणाम् नर-वरः स्त्रीणाम् स्मरः मूर्ति-मान् गोपानाम् स्व-जनः असताम् क्षिति-भुजाम् शास्ता स्व-पित्रोः शिशुः मृत्युः भोज-पतेः विराट् अविदुषाम् तत्त्वम् परम् योगिनाम् वृष्णीनाम् पर-देवता इति विदितः रङ्गम् गतः स अग्र-जः

हतं कुवलयापीडं द‍ृष्ट्वा तावपि दुर्जयौ ।
कंसो मनस्यपि तदा भृशमुद्विविजे नृप ॥ १८ ॥

हतम् कुवलयापीडम् दृष्ट्वा तौ अपि दुर्जयौ कंसः मनसि अपि तदा भृशम् उद्विविजे नृप

तौ रेजतू रङ्गगतौ महाभुजौविचित्रवेषाभरणस्रगम्बरौ ।
यथा नटावुत्तमवेषधारिणौमन: क्षिपन्तौ
प्रभया निरीक्षताम् ॥ १९ ॥

तौ रेजतुः रङ्ग-गतौ महा-भुजौ विचित्र वेष आभरण स्रक् अम्बरौ यथा नटौ उत्तम वेष धारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम्

निरीक्ष्य तावुत्तमपूरुषौ जनामञ्चस्थिता नागरराष्ट्रका नृप ।
प्रहर्षवेगोत्कलितेक्षणानना:पपुर्न तृप्ता नयनैस्तदाननम् ॥ २० ॥

निरीक्ष्य तौ उत्तम-पूरुषौ जनाः मञ्च स्थिताः नागर राष्ट्रकाः नृप प्रहर्ष वेग उत्कलित ईक्षण आननाः पपुः न तृप्ताः नयनैः तत् आननम्

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।
जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभि: ॥
२१ ॥ ऊचु: परस्परं ते वै यथाद‍ृष्टं यथाश्रुतम् ।
तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव ॥ २२ ॥

पिबन्तः इव चक्षुर्भ्याम् लिहन्तः इव जिह्वया जिघ्रन्तः इव नासाभ्याम् स्लिष्यन्तः इव बाहुभिः ऊचुः परस्परम् ते वै यथा दृष्टम् यथा श्रुतम् तत् रूप गुण माधुर्य प्रागल्भ्य स्मारिताः इव

एतौ भगवत: साक्षाद्धरेर्नारायणस्य हि ।
अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥

एतौ भगवतः साक्षात् हरेः नारायणस्य हि अवतीर्णौ इह अंशेन वसुदेवस्य वेश्मनि

एष वै किल देवक्यां जातो नीतश्च गोकुलम् ।
कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४ ॥

एषः वै किल देवक्याम् जातः नीतः च गोकुलम् कालम् एतम् वसन् गूढः ववृधे नन्द-वेश्मनि

पूतनानेन नीतान्तं चक्रवातश्च दानव: ।
अर्जुनौ गुह्यक: केशी धेनुकोऽन्ये च तद्विधा: ॥ २५ ॥

पूतना अनेन नीता अन्तम् चक्रवातः च दानवः अर्जुनौ गुह्यकः केशी धेनुकः अन्ये च तत्-विधाः

गाव: सपाला एतेन दावाग्ने: परिमोचिता: ।
कालियो दमित: सर्प इन्द्रश्च विमद: कृत: ॥
२६ ॥ सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना ।
वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७


गावः स पालाः एतेन दाव-अग्नेः परिमोचिताः कालियः दमितः सर्पः इन्द्रः च विमदः कृतः सप्त-अहम् एक-हस्तेन धृतः अद्रि प्रवरः अमुना वर्ष वात अशनिभ्यः च परित्रातम् च गोकुलम्

गोप्योऽस्य नित्यमुदितहसितप्रेक्षणं मुखम् ।
पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रमं मुदा ॥
२८ ॥

गोप्यः अस्य नित्य मुदित हसित प्रेक्षणम् मुखम् पश्यन्त्यः विविधान् तापान् तरन्ति स्म अश्रमम् मुदा

वदन्त्यनेन वंशोऽयं यदो: सुबहुविश्रुत: ।
श्रियं यशो महत्वं च लप्स्यते परिरक्षित: ॥ २९ ॥

वदन्ति अनेन वंशः अयम् यदोः सु-बहु विश्रुतः श्रियम् यशः महत्वम् च लप्स्यते परिरक्षितः

अयं चास्याग्रज: श्रीमान्‍राम: कमललोचन: ।
प्रलम्बो निहतो येन वत्सको ये बकादय: ॥ ३० ॥

अयम् च अस्य अग्र-जः श्री-मन् रामः कमल-लोचनः प्रलम्बः निहतः येन वत्सकः ये बक आदयः

जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।
कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥

जनेषु एवम् ब्रुवाणेषु तूर्येषु निनदत्सु च कृष्ण-रामौ समाभाष्य चानूरः वाक्यम् अब्रवीत्

हे नन्दसूनो हे राम भवन्तौ वीरसम्मतौ ।
नियुद्धकुशलौ श्रुत्वा राज्ञाहूतौ दिद‍ृक्षुणा ॥ ३२ ॥

हे नन्द-सूनो हे राम भवन्तौ वीर सम्मतौ नियुद्ध कुशलौ श्रुत्वा राज्ञा आहूतौ दिदृक्षुणा

प्रियं राज्ञ: प्रकुर्वत्य: श्रेयो विन्दन्ति वै प्रजा: ।
मनसा कर्मणा वाचा
विपरीतमतोऽन्यथा ॥ ३३ ॥

प्रियम् राज्ञः प्रकुर्वत्यः श्रेयः विन्दन्ति वै प्रजाः मनसा कर्मणा वाचा विपरीतम् अतः अन्यथा

नित्यं प्रमुदिता गोपा वत्सपाला यथास्फुटम् ।
वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गा: ॥ ३४


नित्यम् प्रमुदिताः गोपाः वत्सपालाः यथा-स्फुटम् वनेषु मल्ल-युद्धेन क्रीडन्तः चारयन्ति गाः

तस्माद् राज्ञ: प्रियं यूयं वयं च करवाम हे ।
भूतानि न: प्रसीदन्ति सर्वभूतमयो नृप: ॥ ३५ ॥

तस्मात् राज्ञः प्रियम् यूयम् वयम् च करवाम हे भूतानि नः प्रसीदन्ति सर्व-भूत मयः नृपः

तन्निशम्याब्रवीत्कृष्णो देशकालोचितं वच: ।
नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६


तत् निशम्य अब्रवीत् कृष्णः देश काल उचितम् वचः नियुद्धम् आत्मनः अभीष्टम् मन्यमानः अभिनन्द्य च

प्रजा भोजपतेरस्य वयं चापि वनेचरा: ।
करवाम प्रियं नित्यं तन्न: परमनुग्रह: ॥ ३७ ॥

प्रजाः भोज-पतेः अस्य वयम् च अपि वने-चराः करवाम प्रियम् नित्यम् तत् नः परम् अनुग्रहः

बाला वयं तुल्यबलै: क्रीडिष्यामो यथोचितम् ।
भवेन्नियुद्धं माधर्म: स्पृशेन्मल्ल सभासद: ॥ ३८


बालाः वयम् तुल्य बलैः क्रीडिष्यामः यथा उचितम् भवेत् नियुद्धम् मा अधर्मः स्पृशेत् मल्ल-सभा सदः

चाणूर उवाच
न बालो न किशोरस्त्वं बलश्च बलिनां वर: ।
लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९ ॥

चाणूरः उवाच न बालः न किशोरः त्वम् बलः च बलिनाम् वरः लीलया इभः हतः येन सहस्र द्विप सत्त्व भृत्

तस्माद्भ‍वद्‌भ्यां बलिभिर्योद्धव्यं नानयोऽत्र वै ।
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिक: ॥
४० ॥

तस्मात् भवद्भ्याम् बलिभिः योद्धव्यम् न अनयः अत्र वै मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः

१०.४४

श्रीशुक उवाच
एवं चर्चितसङ्कल्पो भगवान् मधुसूदन: ।
आससादाथ चाणूरं मुष्टिकं रोहिणीसुत: ॥ १ ॥

श्री-शुकः उवाच एवम् चर्चित सङ्कल्पः भगवान् मधुसूदनः आससाद अथ चाणूरम् मुष्टिकम् रोहिणी-सुतः

हस्ताभ्यां हस्तयोर्बद्ध्वा पद्‌भ्यामेव च पादयो: ।
विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २


हस्ताभ्याम् हस्तयोः बद्ध्वा पद्भ्याम् एव च पादयोः विचकर्षतुः अन्योन्यम् प्रसह्य विजिगीषया

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी ।
शिर: शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतु: ॥ ३


अरत्नी द्वे अरत्निभ्याम् जानुभ्याम् च एव जानुनी शिरः शीर्ष्णा उरसा उरः तौ अन्योन्यम् अभिजघ्नतुः

परिभ्रामणविक्षेपपरिरम्भावपातनै: ।
उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् ॥ ४ ॥

परिभ्रामण विक्षेप परिरम्भ अवपातनैः उत्सर्पण अपसर्पणैः च अन्योन्यम् प्रत्यरुन्धताम्

उत्थापनैरुन्नयनैश्चालनै: स्थापनैरपि ।
परस्परं जिगीषन्तावपचक्रतुरात्मन: ॥ ५ ॥

उत्थापनैः उन्नयनैः चालनैः स्थापनैः अपि परस्परम् जिगीषन्तौ अपचक्रतुः आत्मनः

तद् बलाबलवद्युद्धं समेता: सर्वयोषित: ।
ऊचु: परस्परं राजन् सानुकम्पा वरूथश: ॥ ६ ॥

तत् बल-अबल वत् युद्धम् समेताः सर्व योषितः ऊचुः परस्परम् राजन् स-अनुकम्पाः वरूथशः

महानयं बताधर्म एषां राजसभासदाम् ।
ये बलाबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यत: ॥ ७ ॥

महान् अयम् बत अधर्मः एषाम् राज-सभा सदाम् ये बल-अबल-वत् युद्धम् राज्ञः अन्विच्छन्ति पश्यतः

क्‍व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ ।
क्‍व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥
८ ॥

क्व वज्र सार सर्व अङ्गौ मल्लौ शैल इन्द्र सन्निभौ क्व च अति सु-कुमार अङ्गौ किशोरौ न आप्त यौवनौ

धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ।
यत्राधर्म: समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ॥ ९


धर्म व्यतिक्रमः हि अस्य समाजस्य ध्रुवम् भवेत् यत्र अधर्मः समुत्तिष्ठेत् न स्थेयम् तत्र कर्हिचित्

न सभां प्रविशेत् प्राज्ञ: सभ्यदोषाननुस्मरन् ।
अब्रुवन् विब्रुवन्नज्ञो नर: किल्बिषमश्न‍ुते ॥ १०


न सभाम् प्रविशेत् प्राज्ञः सभ्य दोषान् अनुस्मरन् अब्रुवन् विब्रुवन् अज्ञः नरः किल्बिषम् अश्नुते

वल्गत: शत्रुमभित: कृष्णस्य वदनाम्बुजम् ।
वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभि: ॥ ११ ॥

वल्गतः शत्रुम् अभितः कृष्णस्य वदन अम्बुजम् वीक्ष्यताम् श्रम वारि उप्तम् पद्म कोशम् इव अम्बुभिः

किं न पश्यत रामस्य मुखमाताम्रलोचनम् ।
मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ १२ ॥

किम् न पश्यत रामस्य मुखम् आताम्र लोचनम् मुष्टिकम् प्रति स-अमर्षम् हास संरम्भ शोभितम्

पुण्या बत व्रजभुवो यदयं नृलिङ्ग-गूढ: पुराणपुरुषो वनचित्रमाल्य: ।
गा: पालयन् सहबल:
क्‍वणयंश्च वेणुंविक्रीडयाञ्चति गिरित्ररमार्चिताङ्‍‍‍‍‍घ्रि: ॥ १३ ॥

पुण्याः बत व्रज-भुवः यत् अयम् नृ लिङ्ग गूढः पुराण-पुरुषः वन चित्र माल्यः गाः पालयन् सह बलः क्वणयन् च वेणुम् विक्रीडया अञ्चति गिरित्र रमा अर्चित अङ्घ्रिः

गोप्यस्तप: किमचरन् यदमुष्य रूपंलावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।
द‍ृग्भि: पिबन्त्यनुसवाभिनवं
दुराप-मेकान्तधाम यशस: श्रिय ऐश्वरस्य ॥ १४ ॥

गोप्यः तपः किम् अचरन् यत् अमुष्य रूपम् लावण्य-सारम् असम-ऊर्ध्वम् अनन्य-सिद्धम् दृग्भिः पिबन्ति अनुसव-अभिनवम् दुरापम् एकान्त-धाम यशसः श्रियः ऐश्वरस्य

या दोहनेऽवहनने मथनोपलेप-प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ ।
गायन्ति
चैनमनुरक्तधियोऽश्रुकण्ठ्योधन्या व्रजस्त्रिय उरुक्रमचित्तयाना: ॥ १५ ॥

यः दोहने अवहनने मथन उपलेप प्रेङ्ख इङ्खन अर्भ-रुदित उक्षण मार्जन आदौ गायन्ति च एनम् अनुरक्त धियः अश्रु कण्ठ्यः धन्याः व्रज-स्त्रियः उरुक्रम चित्त यानाः

प्रातर्व्रजाद् व्रजत आविशतश्च सायंगोभि: समं क्‍वणयतोऽस्य निशम्य वेणुम् ।
निर्गम्य
तूर्णमबला: पथि भूरिपुण्या:पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ १६ ॥

प्रातः व्रजात् व्रजतः आविशतः च सायम् गोभिः समम् क्वणयतः अस्य निशम्य वेणुम् निर्गम्य तूर्णम् अबलाः पथि भूरि पुण्याः पश्यन्ति स स्मित मुखम् स-दय अवलोकम्

एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरि: ।
शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७ ॥

एवम् प्रभाषमाणासु स्त्रीषु योग-ईश्वरः हरिः शत्रुम् हन्तुम् मनः चक्रे भगवान् भरत-ऋषभ

सभया: स्त्रीगिर: श्रुत्वा पुत्रस्‍नेहशुचातुरौ ।
पितरावन्वतप्येतां पुत्रयोरबुधौ बलम् ॥ १८ ॥

स-भयाः स्त्री गिरः श्रुत्वा पुत्र स्नेह शुच आतुरौ पितरौ अन्वतप्येताम् पुत्रयोः अबुधौ बलम्

तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ ।
युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ १९ ॥

तैः तैः नियुद्ध विधिभिः विविधैः अच्युत-इतरौ युयुधाते यथा अन्योन्यम् तथा एव बल-मुष्टिकौ

भगवद्गात्रनिष्पातैर्वज्रनीष्पेषनिष्ठुरै: ।
चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ॥ २० ॥

भगवत् गात्र निष्पातैः वज्र निष्पेष निष्ठुरैः चाणूरः भज्यमान अङ्गः मुहुः ग्लानिम् अवाप ह

स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ ।
भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत ॥ २१ ॥

सः श्येन वेगः उत्पत्य मुष्टी कृत्य करौ उभौ भगवन्तम् वासुदेवम् क्रुद्धः वक्षसि अबाधत

नाचलत्तत्प्रहारेण मालाहत इव द्विप: ।
बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरि: ॥ २२ ॥
भूपृष्ठे पोथयामास तरसा क्षीणजीवितम् ।
विस्रस्ताकल्पकेशस्रगिन्द्रध्वज इवापतत् ॥ २३ ॥

न अचलत् तत्-प्रहारेण माला आहत इव द्विपः बाह्वोः निगृह्य चाणूरम् बहुशः भ्रामयन् हरिः भू पृष्ठे पोथयाम् आस तरसा क्षीण जीवितम् विस्रस्त आकल्प केश स्रक् इन्द्र-ध्वजः इव अपतत्

तथैव मुष्टिक: पूर्वं स्वमुष्ट्याभिहतेन वै ।
बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २४ ॥
प्रवेपित: स रुधिरमुद्वमन् मुखतोऽर्दित: ।
व्यसु: पपातोर्व्युपस्थे वाताहत इवाङ्‍‍‍‍‍घ्रिप: ॥ २५


तथा एव मुष्टिकः पूर्वम् स्व-मुष्ट्या अभिहतेन वै बलभद्रेण बलिना तलेन अभिहतः भृशम् प्रवेपितः सः रुधिरम् उद्वमन् मुखतः अर्दितः व्यसुः पपात उर्वी उपस्थे वात आहतः इव अङ्घ्रिपः

तत: कूटमनुप्राप्तं राम: प्रहरतां वर: ।
अवधील्लीलया राजन्सावज्ञं वाममुष्टिना ॥ २६ ॥

ततः कूटम् अनुप्राप्तम् रामः प्रहरताम् वरः अवधीत् लीलया राजन् स-अवज्ञम् वाम मुष्टिना

तर्ह्येव हि शल: कृष्णप्रपदाहतशीर्षक: ।
द्विधा विदीर्णस्तोशलक उभावपि निपेततु: ॥ २७ ॥

तर्हि एव हि शलः कृष्ण प्रपद आहत शीर्षकः द्विधा विदीर्नः तोशलक उभौ अपि निपेततुः

चाणूरे मुष्टिके कूटे शले तोशलके हते ।
शेषा: प्रदुद्रुवुर्मल्ला: सर्वे प्राणपरीप्सव: ॥ २८ ॥

चाणूरे मुष्टिके कूटे शले तोशलके हते शेषाः प्रदुद्रुवुः मल्लाः सर्वे प्राण परीप्सवः

गोपान्वयस्यानाकृष्य तै: संसृज्य विजह्रतु: ।
वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २९ ॥

गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः वाद्यमानेषु तूर्येषु वल्गन्तौ रुत नूपुरौ

जना: प्रजहृषु: सर्वे कर्मणा रामकृष्णयो: ।
ऋते कंसं विप्रमुख्या: साधव: साधु साध्विति ॥ ३०


जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः ऋते कंसम् विप्र मुख्याः साधवः साधु साधु इति

हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् ।
न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३१ ॥

हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-राट् न्यवारयत् स्व तूर्याणि वाक्यम् च इदम् उवाच ह

नि:सारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।
धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३२ ॥

निःसारयत दुर्वृत्तौ वसुदेव-आत्मजौ पुरात् धनम् हरत गोपानाम् नन्दम् बध्नीत दुर्मतिम्

वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तम: ।
उग्रसेन: पिता चापि सानुग: परपक्षग: ॥ ३३ ॥

वसुदेवः तु दुर्मेधा हन्यताम् आशु असत्-तमः उग्रसेनः पिता च अपि स अनुगः पर पक्ष-गः

एवं विकत्थमाने वै कंसे प्रकुपितोऽव्यय: ।
लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ॥ ३४ ॥

एवम् विकत्थमाने वै कंसे प्रकुपितः अव्ययः लघिम्ना उत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत्

तमाविशन्तमालोक्य मृत्युमात्मन आसनात् ।
मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३५ ॥

तम् आविशन्तम् आलोक्य मृत्युम् आत्मनः आसनात् मनस्वी सहसा उत्थाय जगृहे सः असि चर्मणी

तं खड्‌गपाणिं विचरन्तमाशुश्येनं यथा दक्षिणसव्यमम्बरे ।
समग्रहीद् दुर्विषहोग्रतेजायथोरगं
तार्क्ष्यसुत: प्रसह्य ॥ ३६ ॥

तम् खड्ग पाणिम् विचरन्तम् आशु श्येनम् यथा दक्षिण-सव्यम् अम्बरे समग्रहीत् दुर्विषह उग्र तेजाः यथा उरगम् तार्क्ष्य-सुतः प्रसह्य

प्रगृह्य केशेषु चलत्किरीटंनिपात्य रङ्गोपरि तुङ्गमञ्चात् ।
तस्योपरिष्टात् स्वयमब्जनाभ:पपात
विश्वाश्रय आत्मतन्त्र: ॥ ३७ ॥

प्रगृह्य केशेषु चलत् किरीटम् निपात्य रङ्ग-उपरि तुङ्ग मञ्चात् तस्य उपरिष्टात् स्वयम् अब्ज-नाभः पपात विश्व आश्रयः आत्म-तन्त्रः

तं सम्परेतं विचकर्ष भूमौहरिर्यथेभं जगतो विपश्यत: ।
हाहेति शब्द: सुमहांस्तदाभू-दुदीरित:
सर्वजनैर्नरेन्द्र ॥ ३८ ॥

तम् सम्परेतम् विचकर्ष भूमौ हरिः यथा इभम् जगतः विपश्यतः हा हा इति शब्दः सु-महान् तदा अभूत् उदीरितः सर्व-जनैः नर-इन्द्र

स नित्यदोद्विग्नधिया तमीश्वरंपिबन्नदन्वा विचरन् स्वपन् श्वसन् ।
ददर्श चक्रायुधमग्रतो
यत-स्तदेव रूपं दुरवापमाप ॥ ३९ ॥

सः नित्यदा उद्विग्न धिया तम् ईश्वरम् पिबन् अदन् वा विचरन् स्वपन् श्वसन् ददर्श चक्र आयुधम् अग्रतः यतः तत् एव रूपम् दुरवापम् आप

तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादय: ।
अभ्यधावन्नतिक्रुद्धा भ्रातुर्निर्वेशकारिण: ॥
४० ॥

तस्य अनुजाः भ्रातरः अष्टौ कङ्क-न्यग्रोधक-आदयः अभ्यधावन् अति-क्रुद्धाः भ्रातुः निर्वेश कारिणः

तथातिरभसांस्तांस्तु संयत्तान्‍रोहिणीसुत: ।
अहन् परिघमुद्यम्य पशूनिव मृगाधिप: ॥ ४१ ॥

तथा अति-रभसान् तान् तु संयत्तान् रोहिणी-सुतः अहन् परिघम् उद्यम्य पशून् इव मृग-अधिपः

नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतय: ।
पुष्पै: किरन्तस्तं प्रीता: शशंसुर्ननृतु: स्त्रिय:
॥ ४२ ॥

नेदुः दुन्दुभयः व्योम्नि ब्रह्म-ईश-आद्याः विभूतयः पुष्पैः किरन्तः तम् प्रीताः शशंसुः ननृतुः स्त्रियः

तेषां स्त्रियो महाराज सुहृन्मरणदु:खिता: ।
तत्राभीयुर्विनिघ्नन्त्य: शीर्षाण्यश्रुविलोचना: ॥
४३ ॥

तेषाम् स्त्रियः महाराज सुहृत् मरण दुःखिताः तत्र अभीयुः विनिघ्नन्त्यः शीर्षाणि अश्रु विलोचनाः

शयानान्वीरशयायां पतीनालिङ्‌‌ग्य शोचती: ।
विलेपु: सुस्वरं नार्यो विसृजन्त्यो मुहु: शुच: ॥
४४ ॥

शयानान् वीर शयायाम् पतीन् आलिङ्ग्य शोचतीः विलेपुः सु-स्वरम् नार्यः विसृजन्त्यः मुहुः शुचः

हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल ।
त्वया हतेन निहता वयं ते सगृहप्रजा: ॥ ४५ ॥

ह नाथ प्रिय धर्म-ज्ञ करुण अनाथ वत्सल त्वया हतेन निहताः वयम् ते स गृह प्रजाः

त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।
न शोभते वयमिव निवृत्तोत्सवमङ्गला ॥ ४६ ॥

त्वया विरहिता पत्या पुरी इयम् पुरुष ऋषभ न शोभते वयम् इव निवृत्त उत्सव मङ्गला

अनागसां त्वं भूतानां कृतवान्द्रोहमुल्बणम् ।
तेनेमां भो दशां नीतो भूतध्रुक्को लभेत शम् ॥ ४७ ॥

अनागसाम् त्वम् भूतानाम् कृतवान् द्रोहम् उल्बणम् तेन इमाम् भो दशाम् नीतः भूत ध्रुक् कः लभेत शम्

सर्वेषामिह भूतानामेष हि प्रभवाप्यय: ।
गोप्ता च तदवध्यायी न क्‍वचित्सुखमेधते ॥ ४८ ॥

सर्वेषाम् इह भूतानाम् एषः हि प्रभव अप्ययः गोप्ता च तत् अवध्यायी न क्वचित् सुखम् एधते

श्रीशुक उवाच
राजयोषित आश्वास्य भगवाँल्लोकभावन: ।
यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९ ॥

श्री-शुकः उवाच राज योषितः आश्वास्य भगवान् लोक भावनः याम् आहुः लौकिकीम् संस्थाम् हतानाम् समकारयत्

मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।
कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयो: ॥ ५० ॥

मातरम् पितरम् च एव मोचयित्वा अथ बन्धनात् कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः

देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ ।
कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ ५१ ॥
नायं श्रियोऽङ्ग उ नितान्तरते: प्रसाद:
स्वर्योषितां नलिनगन्धरुचां कुतोऽन्या: ।
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ-
लब्धाशिषां य उदगाद्‍व्रजवल्ल‍भीनाम् ॥

देवकी वसुदेवः च विज्ञाय जगत् ईश्वरौ कृत संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ

१०.४५

श्रीशुक उवाच
पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तम: ।
मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥

श्री-शुकः उवाच पितरौ उपलब्ध अर्थौ विदित्वा पुरुष-उत्तमः मा भूत् इति निजाम् मायाम् ततान जन मोहिनीम्

उवाच पितरावेत्य साग्रज: सात्वतर्षभ: ।
प्रश्रयावनत: प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥

उवाच पितरौ एत्य स अग्र-जः सात्वत ऋषभः प्रश्रय अवनतः प्रीणन् अम्ब तात इति स-आदरम्

नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।
बाल्यपौगण्डकैशोरा: पुत्राभ्यामभवन्‍क्‍वचित् ॥ ३ ॥

न अस्मत्तः युवयोः तात नित्य उत्कण्ठितयोः अपि बाल्य पौगण्ड कैशोरः पुत्राभ्याम् अभवन् क्वचित्

न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।
यां बाला: पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥

न लब्धः दैव हतयोः वासः नौ भवत्-अन्तिके याम् बालाः पितृ गेह स्थः विन्दन्ते लालिताः मुदम्

सर्वार्थसम्भवो देहो जनित: पोषितो यत: ।
न तयोर्याति निर्वेशं पित्रोर्मर्त्य: शतायुषा ॥ ५ ॥

सर्व अर्थ सम्भवः देहः जनितः पोषितः यतः न तयोः याति निर्वेशम् पित्रोः मर्त्यः शत आयुषा

यस्तयोरात्मज: कल्प आत्मना च धनेन च ।
वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥

यः तयोः आत्म-जः कल्पः आत्मना च धनेन च वृत्तिम् न दद्यात् तम् प्रेत्य स्व मांसम् खादयन्ति हि

मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।
गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृत: ॥ ७ ॥

मातरम् पितरम् वृद्धम् भार्याम् साध्वीम् सुतम् शिशुम् गुरुम् विप्रम् प्रपन्नम् च कल्पः अबिभ्रत् श्वसन् मृतः

तन्नावकल्पयो: कंसान्नित्यमुद्विग्नचेतसो: ।
मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतो: ॥ ८ ॥

तत् नौ अकल्पयोः कंसात् नित्यम् उद्विग्न चेतसोः मोघम् एते व्यतिक्रान्ताः दिवसाः वाम् अनर्चतोः

तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयो: ।
अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ॥ ९ ॥

तत् क्षन्तुम् अर्हथः तात मातः नौ पर-तन्त्रयोः अकुर्वतोः वाम् शुश्रूषाम् क्लिष्टयोः दुर्हृदा भृशम्

श्रीशुक उवाच
इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा ।
मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥ १० ॥

श्री-शुकः उवाच इति माया मनुष्यस्य हरेः विश्व आत्मनः गिरा मोहितौ अङ्कम् आरोप्य परिष्वज्य आपतुः मुदम्

सिञ्चन्तावश्रुधाराभि: स्‍नेहपाशेन चावृतौ ।
न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ ॥ ११ ॥

सिञ्चन्तौ अश्रु धाराभिः स्नेह पाशेन च आवृतौ न किञ्चित् ऊचतुः राजन् बाष्प कण्ठौ विमोहितौ

एवमाश्वास्य पितरौ भगवान्देवकीसुत: ।
मातामहं तूग्रसेनं यदूनामकरोन्नृपम् ॥ १२ ॥

एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः मातामहम् तु उग्रसेनम् यदूनाम् अकरोत् नृपम्

आह चास्मान् महाराज प्रजाश्चाज्ञप्तुमर्हसि ।
ययातिशापाद् यदुभिर्नासितव्यं नृपासने ॥ १३ ॥

आह च अस्मान् महा-राज प्रजाः च आज्ञप्तुम् अर्हसि ययाति शापात् यदुभिः न आसितव्यम् नृप आसने

मयि भृत्य उपासीने भवतो विबुधादय: ।
बलिं हरन्त्यवनता: किमुतान्ये नराधिपा: ॥ १४ ॥

मयि भृत्ये उपासीने भवतः विबुध आदयः बलिम् हरन्ति अवनताः किम् उत अन्ये नर अधिपाः

सर्वान्स्वान्ज्ञतिसम्बन्धान्दिग्भ्य: कंसभयाकुलान् ।
यदुवृष्ण्यन्धकमधुदाशार्हकुकुरादिकान् ॥ १५ ॥
सभाजितान् समाश्वास्य विदेशावासकर्शितान् ।
न्यवासयत् स्वगेहेषु वित्तै: सन्तर्प्य विश्वकृत् ॥ १६ ॥

सर्वान् स्वान् ज्ञाति सम्बन्धान् दिग्भ्यः कंस-भय आकुलान् यदु-वृष्णि-अन्धक-मधु-दाशार्ह कुकुर-आदिकान् सभाजितान् समाश्वास्य विदेश आवास कर्शितान् न्यवासयत् स्व गेहेषु वित्तैः सन्तर्प्य विश्व कृत्

कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथा: ।
गृहेषु रेमिरे सिद्धा: कृष्णरामगतज्वरा: ॥ १७ ॥
वीक्षन्तोऽहरह: प्रीता मुकुन्दवदनाम्बुजम् ।
नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् ॥ १८ ॥

कृष्ण-सङ्कर्षण भुजैः गुप्ताः लब्ध मनः-रथाः गृहेषु रेमिरे सिद्धाः कृष्ण-राम गत ज्वराः वीक्षन्तः अहः अहः प्रीताः मुकुन्द वदन अम्बुजम् नित्यम् प्रमुदितम् श्रीमत् स-दय स्मित वीक्षणम्

तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजस: ।
पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहु: ॥ १९ ॥

तत्र प्रवयसः अपि आसन् युवानः अति बल ओजसः पिबन्तः अक्षैः मुकुन्दस्य मुख-अम्बुज सुधाम् मुहुः

अथ नन्दं समसाद्य भगवान् देवकीसुत: ।
सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतु: ॥ २० ॥

अथ नन्दम् समासाद्य भगवान् देवकी-सुतः सङ्कर्षणः च राज-इन्द्र परिष्वज्य इदम् ऊचतुः

पितर्युवाभ्यां स्‍निग्धाभ्यां पोषितौ लालितौ भृशम् ।
पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि ॥ २१ ॥

पितः युवाभ्याम् स्निग्धाभ्याम् पोषितौ लालितौ भृशम् पित्रोः अभ्यधिका प्रीतिः आत्मजेषु आत्मनः अपि हि

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् ।
शिशून् बन्धुभिरुत्सृष्टानकल्पै: पोषरक्षणे ॥ २२ ॥

सः पिता सा च जननी यौ पुष्णीताम् स्व पुत्र वत् शिशून् बन्धुभिः उत्सृष्टान् अकल्पैः पोष रक्षणे

यात यूयं व्रजं तात वयं च स्‍नेहदु:खितान् ।
ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ २३ ॥

यत यूयम् व्रजम् तात वयम् च स्नेह दुःखितान् ज्ञातीन् वः द्रष्टुम् एष्यामः विधाय सुहृदाम् सुखम्

एवं सान्‍त्‍वय्य भगवान् नन्दं सव्रजमच्युत: ।
वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् ॥ २४ ॥

एवम् सान्त्वय्य भगवान् नन्दम् स-व्रजम् अच्युतः वासः अलङ्कार कुप्य आद्यैः अर्हयाम् आस स-आदरम्

इत्युक्तस्तौ परिष्वज्य नन्द: प्रणयविह्वल: ।
पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ ॥ २५ ॥

इति उक्तः तौ परिष्वज्य नन्दः प्रणय विह्वलः पूरयन् अश्रुभिः नेत्रे सह गोपैः व्रजम् ययौ

अथ शूरसुतो राजन् पुत्रयो: समकारयत् ।
पुरोधसा ब्राह्मणैश्च यथावद् द्विजसंस्कृतिम् ॥ २६ ॥

अथ शूर-सुतः राजन् पुत्रयोः समकारयत् पुरोधसा ब्राह्मणैः च यथा-वत् द्विज-संस्कृतिम्

तेभ्योऽदाद्दक्षिणा गावो रुक्‍ममाला: स्वलङ्कृता: ।
स्वलङ्कृतेभ्य: सम्पूज्य सवत्सा: क्षौममालिनी: ॥ २७ ॥

तेभ्यः अदात् दक्षिणाः गावः रुक्म मालाः सु अलङ्कृताः सु-अलङ्कृतेभ्यः सम्पूज्य स वत्साः क्षौम मालिनीः

या: कृष्णरामजन्मर्क्षे मनोदत्ता महामति: ।
ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृता: ॥ २८ ॥

यः कृष्ण-राम जन्मऋक्षे मनः दत्ताः महा-मतिः ताः च आददात् अनुस्मृत्य कंसेन अधर्मतः हृतः

ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ ।
गर्गाद् यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ ॥ २९ ॥

ततः च लब्ध संस्कारौ द्विजत्वम् प्राप्य सु-व्रतौ गर्गात् यदु-कुल आचार्यात् गायत्रम् व्रतम् आस्थितौ

प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ ।
नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितै: ॥ ३० ॥
अथो गुरुकुले वासमिच्छन्तावुपजग्मतु: ।
काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ॥ ३१ ॥

प्रभवौ सर्व विद्यानाम् सर्व-ज्ञौ जगत्-ईश्वरौ न अन्य सिद्ध अमलम् ज्ञानम् गूहमानौ नर ईहितैः अथ उ गुरु कुले वासम् इच्छन्तौ उपजगतुः काश्यम् सान्दीपनिम् नाम हि अवन्ति-पुर वासिनम्

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम् ।
ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवाद‍ृतौ ॥ ३२ ॥

यथा उपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् ग्राहयन्तौ उपेतौ स्म भक्त्या देवम् इव आदृतौ

तयोर्द्विजवरस्तुष्ट: शुद्धभावानुवृत्तिभि: ।
प्रोवाच वेदानखिलान्सङ्गोपनिषदो गुरु: ॥ ३३ ॥

तयोः द्विज-वरः तुष्टः शुद्ध भाव अनुवृत्तिभिः प्रोवाच वेदान् अखिलान् स अङ्ग उपनिषदः गुरुः

सरहस्यं धनुर्वेदं धर्मान् न्यायपथांस्तथा ।
तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्‍‍विधाम् ॥ ३४ ॥

स-रहस्यम् धनुः-वेदम् धर्मान् न्याय पथान् तथा तथा च आन्वीक्षिकीम् विद्याम् राज-नीतिम् च षट्-विधाम्

सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ ।
सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ॥ ३५ ॥
अहोरात्रैश्चतु:षष्‍ट्या संयत्तौ तावती: कला: ।
गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप ॥ ३६ ॥

सर्वम् नर-वर श्रेष्ठौ सर्व विद्या प्रवर्तकौ सकृत् निगद मात्रेण तौ सञ्जगृहतुः नृप अहः रात्रैः चतुः-षष्ट्या संयत्तौ तावतीः कलाः गुरु-दक्षिणया आचार्यम् छन्दयाम् आसतुः नृप

द्विजस्तयोस्तं महिमानमद्भ‍ुतं
संलक्ष्य राजन्नतिमानुषीं मतिम् ।
सम्मन्‍त्र्य पत्न्‍या स महार्णवे मृतं
बालं प्रभासे वरयां बभूव ह ॥ ३७ ॥

द्विजः तयोः तम् महिमानम् अद्भुतम् संलक्ष्य राजन् अति-मानुषीम् मतिम् सम्मन्त्र्य पत्न्या सः महा-अर्णवे मृतम् बालम् प्रभासे वरयाम् बभूव ह

तथेत्यथारुह्य महारथौ रथं
प्रभासमासाद्य दुरन्तविक्रमौ ।
वेलामुपव्रज्य निषीदतु: क्षणं
सिन्धुर्विदित्वार्हणमाहरत्तयो: ॥ ३८ ॥

तथा इति अथ आरुह्य महा-रथौ रथम् प्रभासम् आसाद्य दुरन्त विक्रमौ वेलाम् उपव्रज्य निषीदतुः क्षणम् सिन्धुः विदित्वा अर्हणम् आहरत् तयोः

तमाह भगवानाशु गुरुपुत्र: प्रदीयताम् ।
योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ॥ ३९ ॥

तम् आह भगवान् आशु गुरु पुत्रः प्रदीयताम् यः असौ इह त्वया ग्रस्तः बालकः महता ऊर्मिणा

श्रीसमुद्र उवाच
न चाहार्षमहं देव दैत्य: पञ्चजनो महान् ।
अन्तर्जलचर: कृष्ण शङ्खरूपधरोऽसुर: ॥ ४० ॥

श्री-समुद्रः उवाच न च अहार्षम् अहम् देव दैत्यः पञ्चजनः महान् अन्तः जल चरः कृष्ण शङ्ख रूप धरः असुरः

आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभु: ।
जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ॥ ४१ ॥

आस्ते तेन आहृतः नूनम् तत् श्रुत्वा सत्वरम् प्रभुः जलम् आविश्य तम् हत्वा न अपश्यत् उदरे अर्भकम्

तदङ्गप्रभवं शङ्खमादाय रथमागमत् ।
तत: संयमनीं नाम यमस्य दयितां पुरीम् ॥ ४२ ॥
गत्वा जनार्दन: शङ्खं प्रदध्मौ सहलायुध: ।
शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यम: ॥ ४३ ॥
तयो: सपर्यां महतीं चक्रे भक्त्युपबृंहिताम् ।
उवाचावनत: कृष्णं सर्वभूताशयालयम् ।
लीलामनुष्ययोर्विष्णो युवयो: करवाम किम् ॥ ४४ ॥

तत् अङ्ग प्रभवम् शङ्खम् आदाय रथम् आगमत् ततः संयमनीम् नाम यमस्य दयिताम् पुरीम् गत्वा जन-अर्दनः शङ्खम् प्रदध्मौ स हल-आयुधः शङ्ख निर्ह्रादम् आकर्ण्य प्रजा संयमनः यमः तयोः सपर्याम् महतीम् चक्रे भक्ति उपबृंहिताम् उवाच अवनतः कृष्णम् सर्व भूत आशय आलयम् लीला मनुष्ययोः विष्णो युवयोः करवाम किम्

श्रीभगवानुवाच
गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् ।
आनयस्व महाराज मच्छासनपुरस्कृत: ॥ ४५ ॥

श्री-भगवान् उवाच गुरु-पुत्रम् इह आनीतम् निज कर्म निबन्धनम् आनयस्व महा-राज मत् शासन पुरः-कृतः

तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ ।
दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतु: ॥ ४६ ॥

तथा इति तेन उपानीतम् गुरु-पुत्रम् यदु-उत्तमौ दत्त्वा स्व-गुरवे भूयः वृणीष्व इति तम् ऊचतुः

श्रीगुरुरुवाच
सम्यक् सम्पादितो वत्स भवद्भ‍य‍ां गुरुनिष्क्रय: ।
को नु युष्मद्विधगुरो: कामानामवशिष्यते ॥ ४७ ॥

श्री-गुरुः उवाच सम्यक् सम्पादितः वत्स भवद्भ्याम् गुरु-निष्क्रयः कः नु युष्मत्-विध गुरोः कामानाम् अवशिष्यते

गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी ।
छन्दांस्ययातयामानि भवन्‍त्‍विह परत्र च ॥ ४८ ॥

गच्छतम् स्व-गृहम् वीरौ कीर्तिः वाम् अस्तु पावनी छन्दांसि अयात-यामानि भवन्तु इह परत्र च

गुरुणैवमनुज्ञातौ रथेनानिलरंहसा ।
आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ॥ ४९ ॥

गुरुणा एवम् अनुज्ञातौ रथेन अनिल रंहसा आयातौ स्व पुरम् तात पर्जन्य निनदेन वै

समनन्दन् प्रजा: सर्वा द‍ृष्ट्वा रामजनार्दनौ ।
अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ॥ ५० ॥

समनन्दन् प्रजाः सर्वाः दृष्ट्वा राम-जनार्दनौ अपश्यन्त्यः बहु अहानि नष्ट लब्ध धनाः इव

१०.४६

श्रीशुक उवाच
वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयित: सखा ।
शिष्यो बृहस्पते:
साक्षादुद्धवो बुद्धिसत्तम: ॥ १ ॥

श्री-शुकः उवाच वृष्णीनाम् प्रवरः मन्त्री कृष्णस्य दयितः सखा शिष्यः बृहस्पतेः साक्षात् उद्धवः बुद्धि सत्-तमः

तमाह भगवान्प्रेष्ठं भक्तमेकान्तिनं क्व‍‍चित् ।
गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरि: ॥ २ ॥

तम् आह भगवान् प्रेष्ठम् भक्तम् एकान्तिनम् क्वचित् गृहीत्वा पाणिना पाणिम् प्रपन्न आर्ति हरः हरिः

गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह ।
गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ॥ ३ ॥

गच्छ उद्धव व्रजम् सौम्य पित्रोः नौ प्रीतिम् आवह गोपीनाम् मत् वियोग आधिम् मत् सन्देशैः विमोचय

ता मन्मनस्का मत्प्राणा मतर्थे त्यक्तदैहिका: ।
मामेव दयितं प्रेष्ठमात्मानं मनसा गता: ।
ये त्यक्तलोकधर्माश्च मदर्थे तान्बिभर्म्यहम् ॥ ४ ॥

ताः मत् मनस्काः मत् प्राणाः मत्-अर्थे त्यक्त दैहिकाः माम् एव दयितम् प्रेष्ठम् आत्मानम् मनसा गताः ये त्यक्त लोक धर्माः च मत्-अर्थे तान् बिभर्मि अहम्

मयि ता: प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्‍त्रिय: ।
स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वला: ॥ ५ ॥

मयि ताः प्रेयसाम् प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः स्मरन्त्यः अङ्ग विमुह्यन्ति विरह औत्कण्ठ्य विह्वलाः

धारयन्त्यतिकृच्छ्रेण प्राय: प्राणान् कथञ्चन ।
प्रत्यागमनसन्देशैर्बल्ल‍व्यो मे मदात्मिका: ॥ ६ ॥

धारयन्ति अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन प्रति-आगमन सन्देशैः बल्लव्यः मे मत्-आत्मिकाः

श्रीशुक उवाच
इत्युक्त उद्धवो राजन्सन्देशं भर्तुराद‍ृत: ।
आदाय रथमारुह्य प्रययौ नन्दगोकुलम् ॥ ७ ॥

श्री-शुकः उवाच इति उक्तः उद्धवः राजन् सन्देशम् भर्तुः आदृतः आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम्

प्राप्तो नन्दव्रजं श्रीमान् निम्‍लोचति विभावसौ ।
छन्नयान: प्रविशतां पशूनां खुररेणुभि: ॥ ८ ॥

प्राप्तः नन्द-व्रजम् श्रीमान् निम्लोचति विभावसौ छन्न यानः प्रविशताम् पशूनाम् खुर रेणुभिः

वासितार्थेऽभियुध्यद्भ‍िर्नादितं शुश्मिभिर्वृषै: ।
धावन्तीभिश्च वास्राभिरुधोभारै: स्ववत्सकान् ॥ ९ ॥
इतस्ततो विलङ्घद्भ‍िर्गोवत्सैर्मण्डितं सितै: ।
गोदोहशब्दाभिरवं वेणूनां नि:स्वनेन च ॥ १० ॥
गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयो: ।
स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ॥ ११ ॥
अग्‍न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितै: ।
धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् ॥ १२ ॥
सर्वत: पुष्पितवनं द्विजालिकुलनादितम् ।
हंसकारण्डवाकीर्णै: पद्मषण्डैश्च मण्डितम् ॥ १३ ॥

वासित अर्थे अभियुध्यद्भिः नादितम् शुश्मिभिः वृषैः धावन्तीभिः च वास्राभिः उधः भारैः स्व वत्सकान् इतः ततः विलङ्घद्भिः गो-वत्सैः मण्डितम् सितैः गो-दोह शब्द अभिरवम् वेणूनाम् निःस्वनेन च गायन्तीभिः च कर्माणि शुभानि बल-कृष्णयोः सु अलङ्कृताभिः गोपीभिः गोपैः च सु-विराजितम् अग्नि अर्क अतिथि गो विप्र पितृ देव अर्चन अन्वितैः धूप दीपैः च माल्यैः च गोप-आवासैः मनः-रमम् सर्वतः पुष्पित वनम् द्विज अलि कुल नादितम् हंस कारण्डव आकीर्णैः पद्म-षण्डैः च मण्डितम्

तमागतं समागम्य कृष्णस्यानुचरं प्रियम् ।
नन्द: प्रीत: परिष्वज्य वासुदेवधियार्चयत् ॥ १४ ॥

तम् आगतम् समागम्य कृष्णस्य अनुचरम् प्रियम् नन्दः प्रीतः परिष्वज्य वासुदेव-धिया आर्चयत्

भोजितं परमान्नेन संविष्टं कशिपौ सुखम् ।
गतश्रमं पर्यपृच्छत् पादसंवाहनादिभि: ॥ १५ ॥

भोजितम् परम-अन्नेन संविष्टम् कशिपौ सुखम् गत श्रमम् पर्यपृच्छत् पाद संवाहन आदिभिः

कच्चिदङ्ग महाभाग सखा न: शूरनन्दन: ।
आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्त: सुहृद्‍व्रत: ॥ १६ ॥

कच्चित् अङ्ग महा-भाग सखा नः शूर-नन्दनः आस्ते कुशली अपत्य-आद्यैः युक्तः मुक्तः सुहृत् व्रतः

दिष्‍ट्या कंसो हत: पाप: सानुग: स्वेन पाप्मना ।
साधूनां धर्मशीलानां यदूनां द्वेष्टि य: सदा ॥ १७ ॥

दिष्ट्या कंसः हतः पापः स अनुगः स्वेन पाप्मना साधूनाम् धर्म-शीलानाम् यदूनाम् द्वेष्टि यः सदा

अपि स्मरति न: कृष्णो मातरं सुहृद: सखीन् ।
गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ १८ ॥

अपि स्मरति नः कृष्णः मातरम् सुहृदः सखीन् गोपान् व्रजम् च आत्म नाथम् गावः वृन्दावनम् गिरिम्

अप्यायास्यति गोविन्द: स्वजनान्सकृदीक्षितुम् ।
तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् ॥ १९ ॥

अपि आयास्यति गोविन्दः स्व-जनान् सकृत् ईक्षितुम् तर्हि द्रक्ष्याम तत् वक्त्रम् सु-नसम् सु स्मित ईक्षणम्

दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिता: ।
दुरत्ययेभ्यो मृत्युभ्य: कृष्णेन सुमहात्मना ॥ २० ॥

दाव-अग्नेः वात वर्षात् च वृष सर्पात् च रक्षिताः दुरत्ययेभ्यः मृत्युभ्यः कृष्णेन सु-महा-आत्मना

स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् ।
हसितं भाषितं चाङ्ग सर्वा न: शिथिला: क्रिया: ॥ २१ ॥

स्मरताम् कृष्ण-वीर्याणि लीला अपाङ्ग निरीक्षितम् हसितम् भाषितम् च अङ्ग सर्वाः नः शिथिलाः क्रियाः

सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान् ।
आक्रीडानीक्ष्यमाणानां मनो याति तदात्मताम् ॥ २२ ॥

सरित् शैल वन उद्देशान् मुकुन्द पद भूषितान् आक्रीडान् ईक्ष्यमाणानाम् मनः याति तत्-आत्मताम्

मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ ।
सुराणां महदर्थाय गर्गस्य वचनं यथा ॥ २३ ॥

मन्ये कृष्णम् च रामम् च प्राप्तौ इह सुर उत्तमौ सुराणाम् महत् अर्थाय गर्गस्य वचनम् यथा

कंसं नागायुतप्राणं मल्लौ गजपतिं यथा ।
अवधिष्टां लीलयैव पशूनिव मृगाधिप: ॥ २४ ॥

कंसम् नाग अयुत प्राणम् मल्लौ गज-पतिम् यथा अवधिष्टाम् लीलया एव पशून् इव मृग-अधिपः

तालत्रयं महासारं धनुर्यष्टिमिवेभराट् ।
बभञ्जैकेन हस्तेन सप्ताहमदधाद् गिरिम् ॥ २५ ॥

ताल-त्रयम् महा-सारम् धनुः यष्टिम् इव इभ-राट् बभञ्ज एकेन हस्तेन सप्त-अहम् अदधात् गिरिम्

प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादय: ।
दैत्या: सुरासुरजितो हता येनेह लीलया ॥ २६ ॥

प्रलम्बः धेनुकः अरिष्टः तृणावर्तः बक-आदयः दैत्याः सुर-असुर जितः हताः येन इह लीलया

श्रीशुक उवाच
इति संस्मृत्य संस्मृत्य नन्द: कृष्णानुरक्तधी: ।
अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वल: ॥ २७ ॥

श्री-शुकः उवाच इति संस्मृत्य संस्मृत्य नन्दः कृष्ण अनुरक्त धीः अति उत्कण्ठः अभवत् तूष्णीम् प्रेम प्रसर विह्वलः

यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।
श‍ृण्वन्त्यश्रूण्यवास्राक्षीत् स्‍नेहस्‍नुतपयोधरा ॥ २८ ॥

यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च शृण्वन्ती अश्रूणि अवास्राक्षीत् स्नेह स्नुत पयोधरा

तयोरित्थं भगवति कृष्णे नन्दयशोदयो: ।
वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ २९ ॥

तयोः इत्थम् भगवति कृष्णे नन्द-यशोदयोः वीक्ष्य अनुरागम् परमम् नन्दम् आह उद्धवः मुदा

श्रीउद्धव उवाच
युवां श्लाघ्यतमौ नूनं देहिनामिह मानद ।
नारायणेऽखिलगुरौ यत्कृता मतिरीद‍ृशी ॥ ३० ॥

श्री-उद्धवः उवाच युवाम् श्लाघ्यतमौ नूनम् देहिनाम् इह मन-द नारायणे अखिल-गुरौ यत् कृता मतिः ईदृशी

एतौ हि विश्वस्य च बीजयोनी
रामो मुकुन्द: पुरुष: प्रधानम् ।
अन्वीय भूतेषु विलक्षणस्य
ज्ञानस्य चेशात इमौ पुराणौ ॥ ३१ ॥

एतौ हि विश्वस्य च बीज योनी रामः मुकुन्दः पुरुषः प्रधानम् अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य च ईशाते इमौ पुराणौ

यस्मिन् जन: प्राणवियोगकाले
क्षणं समावेश्य मनोऽविशुद्धम् ।
निर्हृत्य कर्माशयमाशु याति
परां गतिं ब्रह्ममयोऽर्कवर्ण: ॥ ३२ ॥
तस्मिन् भवन्तावखिलात्महेतौ
नारायणे कारणमर्त्यमूर्तौ ।
भावं विधत्तां नितरां महात्मन्
किं वावशिष्टं युवयो: सुकृत्यम् ॥ ३३ ॥

यस्मिन् जनः प्राण वियोग काले क्षणम् समावेश्य मनः अविशुद्धम् निर्हृत्य कर्म आशयम् आशु याति पराम् गतिम् ब्रह्म-मयः अर्क वर्णः तस्मिन् भवन्तौ अखिल आत्म हेतौ नारायणे कारण मर्त्य मूर्तौ भावम् विधत्ताम् नितराम् महा-आत्मन् किम् वा अवशिष्टम् युवयोः सु-कृत्यम्

आगमिष्यत्यदीर्घेण कालेन व्रजमच्युत: ।
प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पति: ॥ ३४ ॥

आगमिष्यति अदीर्घेण कालेन व्रजम् अच्युतः प्रियम् विधास्यते पित्रोः भगवान् सात्वताम् पतिः

हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् ।
यदाह व: समागत्य कृष्ण: सत्यं करोति तत् ॥ ३५ ॥

हत्वा कंसम् रङ्ग मध्ये प्रतीपम् सर्व-सात्वताम् यत् आह वः समागत्य कृष्णः सत्यम् करोति तत्

मा खिद्यतं महाभागौ द्रक्ष्यथ: कृष्णमन्तिके ।
अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥ ३६ ॥

मा खिद्यतम् महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके अन्तः हृदि सः भूतानाम् आस्ते ज्योतिः इव एधसि

न ह्यस्यास्ति प्रिय: कश्चिन्नाप्रियो वास्त्यमानिन: ।
नोत्तमो नाधमो वापि समानस्यासमोऽपि वा ॥ ३७ ॥

न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः वा अस्ति अमानिनः न उत्तमः न अधमः वा अपि समानस्य आसमः अपि वा

न माता न पिता तस्य न भार्या न सुतादय: ।
नात्मीयो न परश्चापि न देहो जन्म एव च ॥ ३८ ॥

न माता न पिता तस्य न भार्या न सुत-आदयः न आत्मीयः न परः च अपि न देहः जन्म एव च

न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु ।
क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते ॥ ३९ ॥

न च अस्य कर्म वा लोके सत् असत् मिश्र योनिषु क्रीडा अर्थम् सः अपि साधूनाम् परित्राणाय कल्पते

सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् ।
क्रीडन्नतीतोऽपि गुणै: सृजत्यवति हन्त्यज: ॥ ४० ॥

सत्त्वम् रजः तमः इति भजते निर्गुणः गुणान् क्रीडन् अतीतः अपि गुणैः सृजति अवति हन्ति अजः

यथा भ्रमरिकाद‍ृष्‍ट्या भ्राम्यतीव महीयते ।
चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृत: ॥ ४१ ॥

यथा भ्रमरिका दृष्ट्या भ्राम्यति इव मही ईयते चित्ते कर्तरि तत्र आत्मा कर्ता इव अहम्-धिया स्मृतः

युवयोरेव नैवायमात्मजो भगवान् हरि: ।
सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वर: ॥ ४२ ॥

युवयोः एव न एव अयम् आत्म-जः भगवान् हरिः सर्वेषाम् आत्म-जः हि आत्मा पिता माता सः ईश्वरः

द‍ृष्टं श्रुतं भूतभवद् भविष्यत्
स्थास्‍नुश्चरिष्णुर्महदल्पकं च ।
विनाच्युताद् वस्तु तरां न वाच्यं
स एव सर्वं परमात्मभूत: ॥ ४३ ॥

दृष्टम् श्रुतम् भूत भवत् भविष्यत् स्थास्नुः चरिष्णुः महत् अल्पकम् च विना अच्युतात् वस्तु तराम् न वर्यम् सः एव सर्वम् परम-आत्म भूतः

एवं निशा सा ब्रुवतोर्व्यतीता
नन्दस्य कृष्णानुचरस्य राजन् ।
गोप्य: समुत्थाय निरूप्य दीपान्
वास्तून् समभ्यर्च्य दधीन्यमन्थन् ॥ ४४ ॥

एवम् निशा सा ब्रुवतोः व्यतीता नन्दस्य कृष्ण-अनुचरस्य राजन् गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दधीनि अमन्थन्

ता दीपदीप्तैर्मणिभिर्विरेजू
रज्जूर्विकर्षद्भ‍ुजकङ्कणस्रज: ।
चलन्नितम्बस्तनहारकुण्डल-
त्विषत्कपोलारुणकुङ्कुमानना: ॥ ४५ ॥

ताः दीप दीप्तैः मणिभिः विरेजुः रज्जूः विकर्षत् भुज कङ्कण स्रजः चलन् नितम्ब स्तन हार कुण्डल त्विषत् कपोल अरुण कुङ्कुम आननाः

उद्गायतीनामरविन्दलोचनं
व्रजाङ्गनानां दिवमस्पृशद् ध्वनि: ।
दध्नश्च निर्मन्थनशब्दमिश्रितो
निरस्यते येन दिशाममङ्गलम् ॥ ४६ ॥

उद्गायतीनाम् अरविन्द लोचनम् व्रज-अङ्गनानाम् दिवम् अस्पृशत् ध्वनिः दध्नः च निर्मन्थन शब्द मिश्रितः निरस्यते येन दिशाम् अमङ्गलम्

भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकस: ।
द‍ृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् ॥ ४७ ॥

भगवति उदिते सूर्ये नन्द-द्वारि व्रज-ओकसः दृष्ट्वा रथम् शातकौम्भम् कस्य अयम् इति च अब्रुवन्

अक्रूर आगत: किं वा य: कंसस्यार्थसाधक: ।
येन नीतो मधुपुरीं कृष्ण: कमललोचन: ॥ ४८ ॥

अक्रूरः आगतः किम् वा यः कंसस्य अर्थ साधकः येन नीतः मधु-पुरीम् कृष्णः कमल लोचनः

किं साधयिष्यत्यस्माभिर्भर्तु: प्रीतस्य निष्कृतिम् ।
तत: स्‍त्रीणां वदन्तीनामुद्धवोऽगात् कृताह्निक: ॥ ४९ ॥

किम् साधयिष्यति अस्माभिः भर्तुः प्रीतस्य निष्कृतिम् ततः स्त्रीणाम् वदन्तीनाम् उद्धवः अगात् कृत अह्निकः

१०.४७

श्रीशुक उवाच
तं वीक्ष्य कृष्णानुचरं व्रजस्‍त्रिय:
प्रलम्बबाहुं नवकञ्जलोचनम् ।
पीताम्बरं पुष्करमालिनं लस-
न्मुखारविन्दं परिमृष्टकुण्डलम् ॥ १ ॥
सुविस्मिता: कोऽयमपीव्यदर्शन:
कुतश्च कस्याच्युतवेषभूषण: ।
इति स्म सर्वा: परिवव्रुरुत्सुका-
स्तमुत्तम:श्लोकपदाम्बुजाश्रयम् ॥ २ ॥

श्री-शुकः उवाच तम् वीक्ष्य कृष्ण-अनुचरम् व्रज-स्त्रियः प्रलम्ब बाहुम् नव कञ्ज लोचनम् पीत अम्बरम् पुष्कर मालिनम् लसत् मख अरविन्दम् परिमृष्ट कुण्डलम् सु-विस्मिताः कः अयम् अपीव्य दर्शनः कुतः च कस्य अच्युत वेष भूषणः इति स्म सर्वाः परिवव्रुः उत्सुकाः तम् उत्तमः-श्लोक पद-अम्बुज आश्रयम्

तं प्रश्रयेणावनता: सुसत्कृतं
सव्रीडहासेक्षणसूनृतादिभि: ।
रहस्यपृच्छन्नुपविष्टमासने
विज्ञाय सन्देशहरं रमापते: ॥ ३ ॥

तम् प्रश्रयेण अवनताः सु सत्-कृतम् स-व्रीड हास ईक्षण सूनृत आदिभिः रहसि अपृच्छन् उपविष्टम् आसने विज्ञाय सन्देश-हरम् रमा-पतेः

जानीमस्त्वां यदुपते: पार्षदं समुपागतम् ।
भर्त्रेह प्रेषित: पित्रोर्भवान् प्रियचिकीर्षया ॥ ४ ॥

जानीमः त्वाम् यदु-पतेः पार्षदम् समुपागतम् भर्त्रा इह प्रेषितः पित्रोः भवान् प्रिय चिकीर्षया

अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे ।
स्‍नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यज: ॥ ५ ॥

अन्यथा गो-व्रजे तस्य स्मरणीयम् न चक्ष्महे स्नेह अनुबन्धः बन्धूनाम् मुनेः अपि सु-दुस्त्यजः

अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।
पुम्भि: स्‍त्रीषु कृता यद्वत् सुमन:स्विव षट्पदै: ॥ ६ ॥

अन्येषु अर्थ कृता मैत्री यावत् अर्थ विडम्बनम् पुम्भिः स्त्रीषु कृता यद्वत् सुमनःसु इव षट्-पदैः

नि:स्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजा: ।
अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ॥ ७ ॥

निःस्वम् त्यजन्ति गणिकाः अकल्पम् नृ-पतिम् प्रजः अधीत-विद्याः आचार्यम् ऋत्विजः दत्त दक्षिणम्

खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ।
दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्‍त्रियम् ॥ ८ ॥

खगाः वीत फलम् वृक्षम् भुक्त्वा च अतिथयः गृहम् दग्धम् मृगाः तथा अरण्यम् जाराः भुक्त्वा रताम् स्त्रियम्

इति गोप्यो हि गोविन्दे गतवाक्‍कायमानसा: ।
कृष्णदूते समायाते उद्धवे त्यक्तलौकिका: ॥ ९ ॥
गायन्त्य: प्रियकर्माणि रुदन्त्यश्च गतह्रिय: ।
तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययो: ॥ १० ॥

इति गोप्यः हि गोविन्दे गत वाक् काय मानसः कृष्ण-दूते समायाते उद्धवे त्यक्त लौकिकाः गायन्त्यः प्रिय कर्माणि रुदन्त्यः च गत-ह्रियः तस्य संस्मृत्य संस्मृत्य यानि कैशोर बाल्ययोः

काचिन्मधुकरं द‍ृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।
प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ ११ ॥

काचित् मधु-करम् दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् प्रिय प्रस्थापितम् दूतम् कल्पयित्वा इदम् अब्रवीत्

गोप्युवाच
मधुप कितवबन्धो मा स्पृशाङ्‍‍घ्रिं सपत्न्‍या:
कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्न: ।
वहतु मधुपतिस्तन्मानिनीनां प्रसादं
यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीद‍ृक् ॥ १२ ॥

गोपी उवाच मधुप कितव बन्धो मा स्पृश अङ्घ्रिम् सपत्न्याः कुच विलुलित माला कुङ्कुम श्मश्रुभिः नः वहतु मधु-पतिः तत् मानिनीनाम् प्रसादम् यदु-सदसि विडम्ब्यम् यस्य दूतः त्वम् ईदृक्

सकृदधरसुधां स्वां मोहिनीं पाययित्वा
सुमनस इव सद्यस्तत्यजेऽस्मान् भवाद‍ृक् ।
परिचरति कथं तत्पादपद्मं नु पद्मा
ह्यपि बत हृतचेता ह्युत्तम:श्लोकजल्पै: ॥ १३ ॥

सकृत् अधर सुधाम् स्वाम् मोहिनीम् पाययित्वा सुमनसः इव सद्यः तत्यजे अस्मान् भवादृक् परिचरति कथम् तत् पाद-पद्मम् नु पद्मा हि अपि बत हृत चेताः हि उत्तमः-श्लोक जल्पैः

किमिह बहु षडङ्‍‍घ्रे गायसि त्वं यदूना-
मधिपतिमगृहाणामग्रतो न: पुराणम् ।
विजयसखसखीनां गीयतां तत्प्रसङ्ग:
क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टा: ॥ १४ ॥

किम् इह बहु षट्-अङ्घ्रे गायसि त्वम् यदूनाम् अधिपतिम् अगृहाणाम् अग्रतः नः पुराणम् विजय सख सखीनाम् गीयताम् तत् प्रसङ्गः क्षपित कुच रुजः ते कल्पयन्ति इष्टम् इष्टाः

दिवि भुवि च रसायां का: स्‍त्रियस्तद्दुरापा:
कपटरुचिरहासभ्रूविजृम्भस्य या: स्यु: ।
चरणरज उपास्ते यस्य भूतिर्वयं का
अपि च कृपणपक्षे ह्युत्तम:श्लोकशब्द: ॥ १५ ॥

दिवि भुवि च रसायाम् काः स्त्रियः तत् दुरापाः कपट रुचिर हास भ्रू विजृम्भस्य याः स्युः चरण रजः उपास्ते यस्य भूतिः वयम् का अपि च कृपण-पक्षे हि उत्तमः-श्लोक शब्दः

विसृज शिरसि पादं वेद्‍म्यहं चाटुकारै-
रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।
स्वकृत इह विसृष्टापत्यपत्यन्यलोका
व्यसृजदकृतचेता: किं नु सन्धेयमस्मिन् ॥ १६ ॥

विसृज शिरसि पादम् वेद्मि अहम् चाटु-कारैः अनुनय विदुषः ते अभ्येत्य दौत्यैः मुकुन्दात् स्व कृते इह विसृष्ट अपत्य पती अन्य-लोकाः व्यसृजत् अकृत-चेताः किम् नु सन्धेयम् अस्मिन्

मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा
स्‍त्रियमकृत विरूपां स्‍त्रीजित: कामयानाम् ।
बलिमपि बलिमत्त्वावेष्टयद् ध्वाङ्‍क्षवद्-
यस्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थ: ॥ १७ ॥

मृगयुः इव कपि इन्द्रम् विव्यधे लुब्ध-धर्मा स्त्रियम् अकृत विरूपाम् स्त्री जितः कामयानाम् बलिम् अपि बलिम् अत्त्वा अवेष्टयत् ध्वाङ्क्षवत् यः तत् अलम् असित सख्यैः दुस्त्यजः तत् कथा अर्थः

यदनुचरितलीलाकर्णपीयूषविप्रुट्-
सकृददनविधूतद्वन्द्वधर्मा विनष्टा: ।
सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना
बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १८ ॥

यत् अनुचरित लीला कर्ण पीयूष विप्रुट् सकृत् अदन विधूत द्वन्द्व धर्माः विनष्टाः सपदि गृह कुटुम्बम् दीनम् उत्सृज्य दीनाः बहवः इह विहङ्गाः भिक्षु चर्याम् चरन्ति

वयमृतमिव जिह्मव्याहृतं श्रद्दधाना:
कुलिकरुतमिवाज्ञा: कृष्णवध्वो हरिण्य: ।
दद‍ृशुरसकृदेतत्तन्नखस्पर्शतीव्र-
स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १९ ॥

वयम् ऋतम् इव जिह्म व्याहृतम् श्रद्दधानाः कुलिक रुतम् इव अज्ञाः कृष्ण वध्वः हरिण्यः ददृशुः असकृत् एतत् तत् नख स्पर्श तीव्र स्मर रुजः उपमन्त्रिन् भण्यताम् अन्य वार्ता

प्रियसख पुनरागा: प्रेयसा प्रेषित: किं
वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।
नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं
सततमुरसि सौम्य श्रीर्वधू: साकमास्ते ॥ २० ॥

प्रिय सख पुनः आगाः प्रेयसा प्रेषितः किम् वरय किम् अनुरुन्धे माननीयः असि मे अङ्ग नयसि कथम् इह अस्मान् दुस्त्यज द्वन्द्व पार्श्वम् सततम् उरसि सौम्य श्रीः वधूः साकम् आस्ते

अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते
स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् ।
क्व‍‍चिदपि स कथा न: किङ्करीणां गृणीते
भुजमगुरुसुगन्धं मूर्ध्‍न्यधास्यत् कदा नु ॥ २१ ॥

अपि बत मधु-पुर्याम् आर्य-पुत्रः अधुना आस्ते स्मरति सः पितृ-गेहान् सौम्य बन्धून् च गोपान् क्वचित् अपि सः कथाः नः किङ्करीणाम् गृणीते भुजम् अगुरु-सु-गन्धम् मूर्ध्नि अधास्यत् कदा नु

श्रीशुक उवाच
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसा: ।
सान्‍त्‍वयन् प्रियसन्देशैर्गोपीरिदमभाषत ॥ २२ ॥

श्री-शुकः उवाच अथ उद्धवः निशम्य एवम् कृष्ण-दर्शन लालसाः सान्त्वयन् प्रिय सन्देशैः गोपीः इदम् अभाषत

श्रीउद्धव उवाच
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिता: ।
वासुदेवे भगवति यासामित्यर्पितं मन: ॥ २३ ॥

श्री-उद्धवः उवाच अहो यूयम् स्म पूर्ण अर्थाः भवत्यः लोक पूजिताः वासुदेवे भगवति यासाम् इति अर्पितम् मनः

दानव्रततपोहोम जपस्वाध्यायसंयमै: ।
श्रेयोभिर्विविधैश्चान्यै: कृष्णे भक्तिर्हि साध्यते ॥ २४ ॥

दान व्रत तपः होम जप स्वाध्याय संयमैः श्रेयोभिः विविधैः च अन्यैः कृष्णे भक्तिः हि साध्यते

भगवत्युत्तम:श्लोके भवतीभिरनुत्तमा ।
भक्ति: प्रवर्तिता दिष्‍ट्या मुनीनामपि दुर्लभा ॥ २५ ॥

भगवति उत्तमः-श्लोके भवतीभिः अनुत्तमा भक्तिः प्रवर्तीता दिष्ट्या मुनीनाम् अपि दुर्लभा

दिष्‍ट्या पुत्रान्पतीन्देहान् स्वजनान्भवनानि च ।
हित्वावृणीत यूयं यत् कृष्णाख्यं पुरुषं परम् ॥ २६ ॥

दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च हित्वा अवृणीत यूयम् यत् कृष्ण-आख्यम् पुरुषम् परम्

सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे ।
विरहेण महाभागा महान्मेऽनुग्रह: कृत: ॥ २७ ॥

सर्व-आत्म भावः अधिकृतः भवतीनाम् अधोक्षजे विरहेण महा-भागाः महान् मे अनुग्रहः कृतः

श्रूयतां प्रियसन्देशो भवतीनां सुखावह: ।
यमादायागतो भद्रा अहं भर्तू रहस्कर: ॥ २८ ॥

श्रूयताम् प्रिय सन्देशः भवतीनाम् सुख आवहः यम् आदाय आगतः भद्राः अहम् भर्तुः रहः करः

श्रीभगवानुवाच
भवतीनां वियोगो मे न हि सर्वात्मना क्व‍‍चित् ।
यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही ।
तथाहं च मन:प्राणभूतेन्द्रियगुणाश्रय: ॥ २९ ॥

श्री-भगवान् उवाच भवतीनाम् वियोगः मे न हि सर्व-आत्मना क्वचित् यथा भूतानि भूतेषु खम् वायु-अग्निः जलम् मही तथा अहम् च मनः प्राण भूत इन्द्रिय गुण आश्रयः

आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये ।
आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ ३० ॥

आत्मनि एव आत्मना आत्मानम् सृजे हन्मि अनुपालये आत्म माया अनुभावेन भूत इन्द्रिय गुण आत्मना

आत्मा ज्ञानमय: शुद्धो व्यतिरिक्तोऽगुणान्वय: ।
सुषुप्तिस्वप्नजाग्रद्भ‍िर्मायावृत्तिभिरीयते ॥ ३१ ॥

आत्मा ज्ञान-मयः शुद्धः व्यतिरिक्तः अगुण-अन्वयः सुषुप्ति स्वप्न जाग्रद्भिः माया वृत्तिभिः ईयते

येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थित: ।
तन्निरुन्ध्यादिन्द्रियाणि विनिद्र: प्रत्यपद्यत ॥ ३२ ॥

येन इन्द्रिय अर्थान् ध्यायेत मृषा स्वप्न-वत् उत्थितः तत् निरुन्ध्यात् इन्द्रियाणि विनिद्रः प्रत्यपद्यत

एतदन्त: समाम्नायो योग: साङ्ख्यं मनीषिणाम् ।
त्यागस्तपो दम: सत्यं समुद्रान्ता इवापगा: ॥ ३३ ॥

एतत् अन्तः समाम्नायः योगः साङ्ख्यम् मनीषिणाम् त्यागः तपः दमः सत्यम् समुद्र-अन्ताः इव आप-गाः

यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो द‍ृशाम् ।
मनस: सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ ३४ ॥

यत् तु अहम् भवतीनाम् वै दूरे वर्ते प्रियः दृशाम् मनसः सन्निकर्ष अर्थम् मत् अनुध्यान. काम्यया

यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते ।
स्‍त्रीणां च न तथा चेत: सन्निकृष्टेऽक्षिगोचरे ॥ ३५ ॥

यथा दूर-चरे प्रेष्ठे मनः आविश्य वर्तते स्त्रीणाम् च न तथा चेतः सन्निकृष्टे अक्षि-गोचरे

मय्यावेश्य मन: कृत्‍स्‍नं विमुक्ताशेषवृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ ३६ ॥

मयि आवेश्य मनः कृत्स्नम् विमुक्त अशेष वृत्ति यत् अनुस्मरन्त्यः माम् नित्यम् अचिरात् माम् उपैष्यथ

या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिता: ।
अलब्धरासा: कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥ ३७ ॥

याः मया क्रीडता रात्र्याम् वने अस्मिन् व्रजे आस्थिताः अलब्ध रासाः कल्याण्यः मा आपुः मत्-वीर्य चिन्तया

श्रीशुक उवाच
एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषित: ।
ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृती: ॥ ३८ ॥

श्री-शुकः उवाच एवम् प्रिय-तम आदिष्टम् आकर्ण्य व्रज-योषितः ताः ऊचुः उद्धवम् प्रीतः तत् सन्देश आगत स्मृतीः

गोप्य ऊचु:
दिष्‍ट्याहितो हत: कंसो यदूनां सानुगोऽघकृत् ।
दिष्‍ट्याप्तैर्लब्धसर्वार्थै: कुशल्यास्तेऽच्युतोऽधुना ॥ ३९ ॥

गोप्यः ऊचुः दिष्ट्या अहितः हतः कंसः यदूनाम् स-अनुगः अघ कृत् दिष्ट्या आप्तैः लब्ध सर्व अर्थैः कुशली आस्ते अच्युतः अधुना

कच्चिद् गदाग्रज: सौम्य करोति पुरयोषिताम् ।
प्रीतिं न: स्‍निग्धसव्रीडहासोदारेक्षणार्चित: ॥ ४० ॥

कच्चित् गद-अग्रजः सौम्य करोति पुर योषिताम् प्रीतिम् नः स्निग्ध स-व्रीड हास उदार ईक्षण अर्चितः

कथं रतिविशेषज्ञ: प्रियश्च पुरयोषिताम् ।
नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजित: ॥ ४१ ॥

कथम् रति विशेष ज्ञः प्रियः च पुर-योषिताम् न अनुबध्येत तत् वाक्यैः विभ्रमैः च अनुभाजितः

अपि स्मरति न: साधो गोविन्द: प्रस्तुते क्व‍‍चित् ।
गोष्ठिमध्ये पुरस्‍त्रीणां ग्राम्या: स्वैरकथान्तरे ॥ ४२ ॥

अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् गोष्ठि मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर कथा अन्तरे

ता: किं निशा: स्मरति यासु तदा प्रियाभि-
र्वृन्दावने कुमुदकुन्दशशाङ्करम्ये ।
रेमे क्व‍णच्चरणनूपुररासगोष्ठ्या-
मस्माभिरीडितमनोज्ञकथ: कदाचित् ॥ ४३ ॥

ताः किम् निशाः स्मरति यासु तदा प्रियाभिः वृन्दावने कुमुद कुन्द शशाङ्क रम्ये रेमे क्वणत् चरण-नूपुर रास-गोष्ठ्याम् अस्माभिः ईडित मनोज्ञ कथः कदाचित्

अप्येष्यतीह दाशार्हस्तप्ता: स्वकृतया शुचा ।
सञ्जीवयन् नु नो गात्रैर्यथेन्द्रो वनमम्बुदै: ॥ ४४ ॥

अपि एष्यति इह दाशार्हः तप्ताः स्व-कृतया शुचा सञ्जीवयन् नु नः गात्रैः यथा इन्द्रः वनम् अम्बुदैः

कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहित: ।
नरेन्द्रकन्या उद्वाह्य प्रीत: सर्वसुहृद् वृत: ॥ ४५ ॥

कस्मात् कृष्णः इह आयाति प्राप्त राज्यः हत अहितः नर-इन्द्र कन्याः उद्वाह्य प्रीतः सर्व सुहृत् वृतः

किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मन: ।
श्रीपतेराप्तकामस्य क्रियेतार्थ: कृतात्मन: ॥ ४६ ॥

किम् अस्माभिः वन ओकोभिः अन्याभिः वा महा-आत्मनः श्री पतेः आप्त-कामस्य क्रियेत अर्थः कृत-आत्मनः

परं सौख्यं हि नैराश्यं स्वैरिण्यप्याहपिङ्गला ।
तज्जानतीनां न: कृष्णे तथाप्याशा दुरत्यया ॥ ४७ ॥

परम् सौख्यम् हि नैराश्यम् स्वैरिणी अपि आह पिङ्गला तत् जानतीनाम् नः कृष्णे तथा अपि आसा दुरत्यया

क उत्सहेत सन्त्यक्तुमुत्तम:श्लोकसंविदम् ।
अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्व‍‍चित् ॥ ४८ ॥

कः उत्सहेत सन्त्यक्तुम् उत्तमःश्लोक संविदम् अनिच्छतः अपि यस्य श्रीः अङ्गात् न च्यवते क्वचित्

सरिच्छैलवनोद्देशा गावो वेणुरवा इमे ।
सङ्कर्षणसहायेन कृष्णेनाचरिता: प्रभो ॥ ४९ ॥

सरित् शैल वन-उद्देशाः गावः वेणु-रवाः इमे सङ्कर्षण सहायेन कृष्णेन आचरिताः प्रभो

पुन: पुन: स्मारयन्ति नन्दगोपसुतं बत ।
श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुम: ॥ ५० ॥

पुनः पुनः स्मारयन्ति नन्द-गोप-सुतम् बत श्री निकेतैः तत् पदकैः विस्मर्तुम् न एव शक्नुमः

गत्या ललितयोदारहासलीलावलोकनै: ।
माध्व्या गिरा हृतधिय: कथं तं विस्मरामहे ॥ ५१ ॥

गत्या ललितया उदार हास लीला अवलोकनैः माध्व्या गिरा हृत धियः कथम् तम् विस्मराम हे

हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ ५२ ॥

हे नाथ हे रमा-नाथ व्रज-नाथ आर्ति नाशन मग्नम् उद्धर गोविन्द गोकुलम् वृजिन अर्णवात्

श्रीशुक उवाच
ततस्ता: कृष्णसन्देशैर्व्यपेतविरहज्वरा: ।
उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ ५३ ॥

श्री-शुकः उवाच ततः ताः कृष्ण-सन्देशैः व्यपेत विरह ज्वराः उद्धवम् पूजयाम् चक्रुः ज्ञात्वा आत्मानम् अधोक्षजम्

उवास कतिचिन्मासान्गोपीनां विनुदन् शुच: ।
कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥ ५४ ॥

उवास कतिचित् मासान् गोपीनाम् विनुदन् शुचः कृष्ण-लीला कथाम् गायन् रमयाम् आस गोकुलम्

यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत् स उद्धव: ।
व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ ५५ ॥

यावन्ति अहानि नन्दस्य व्रजे अवात्सीत् सः उद्धवः व्रज-ओकसाम् क्षण-प्रायाणि आसन् कृष्णस्य वार्तया

सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान् ।
कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ ५६ ॥

सरित् वन गिरि द्रोणीः वीक्षन् कुसुमितान् द्रुमान् कृष्णम् संस्मारयन् रेमे हरि-दासः व्रज-ओकसाम्

द‍ृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् ।
उद्धव: परमप्रीतस्ता नमस्यन्निदं जगौ ॥ ५७ ॥

दृष्ट्वा एवम् आदि गोपीनाम् कृष्ण-आवेश आत्म विक्लवम् उद्धवः परम प्रीतः ताः नमस्यन् इदम् जगौ

एता: परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूढभावा: ।
वाञ्छन्ति यद् भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ ५८ ॥

एताः परम् तनु भृतः भुवि गोप-वध्वः गोविन्दे एव निखिल आत्मनि रूढ भावाः वाञ्छन्ति यत् भव भियः मुनयः वयम् च किम् ब्रह्म जन्मभिः अनन्त कथा रसस्य

क्व‍ेमा: स्‍त्रियो वनचरीर्व्यभिचारदुष्टा:
कृष्णे क्व‍ चैष परमात्मनि रूढभाव: ।
नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षा-
च्छ्रेयस्तनोत्यगदराज इवोपयुक्त: ॥ ५९ ॥

क्व इमाः स्त्रियः वन चरीः व्यभिचार दुष्टाः कृष्णे क्व च एषः परम-आत्मनि रूढ-भावः ननु ईश्वरः अनुभजतः अविदुषः अपि साक्षात् श्रेयः तनोति अगद राजः इव उपयुक्तः

नायं श्रियोऽङ्ग उ नितान्तरते: प्रसाद:
स्वर्योषितां नलिनगन्धरुचां कुतोऽन्या: ।
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ-
लब्धाशिषां य उदगाद् व्रजवल्ल‍भीनाम् ॥ ६० ॥

न अयम् श्रियः अङ्गे उ नितान्त-रतेः प्रसादः स्वः योषिताम् नलिन गन्ध रुचाम् कुतः अन्याः रस-उत्सवे अस्य भुज-दण्ड गृहीत कण्ठ लब्ध-आशिषाम् यः उदगात् व्रज-वल्लभीनाम्

आसामहो चरणरेणुजुषामहं स्यां
वृन्दावने किमपि गुल्मलतौषधीनाम् ।
या दुस्त्यजं स्वजनमार्यपथं च हित्वा
भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ ६१ ॥

आसम् अहो चरण-रेणु जुषाम् अहम् स्याम् वृन्दावने किम् अपि गुल्म-लता-ओषधीनाम् या दुस्त्यजम् स्व-जनम् आर्य-पथम् च हित्वा भेजुः मुकुन्द-पदवीम् श्रुतिभिः विमृग्याम्

या वै श्रियार्चितमजादिभिराप्तकामै-
र्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।
कृष्णस्य तद् भगवत: चरणारविन्दं
न्यस्तं स्तनेषु विजहु: परिरभ्य तापम् ॥ ६२ ॥

याः वै श्रिया अर्चितम् अज आदिभिः आप्त-कामैः योग-ईश्वरैः अपि यत् आत्मनि रास गोष्ठ्याम् कृष्णस्य तत् भगवतः चरण-अरविन्दम् न्यस्तम् स्तनेषु विजहुः परिरभ्य तापम्

वन्दे नन्दव्रजस्‍त्रीणां पादरेणुमभीक्ष्णश: ।
यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ ६३ ॥

वन्दे नन्द-व्रज स्त्रीणाम् पाद रेणुम् अभीक्ष्णशः यासाम् हरि कथा उद्गीतम् पुनाति भुवन-त्रयम्

श्रीशुक उवाच
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च ।
गोपानामन्‍त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ ६४ ॥

शृई-शुकः उवाच अथ गोपीः अनुज्ञाप्य यशोदाम् नन्दम् एव च गोपान् आमन्त्र्य दाशार्हः यास्यन् आरुरुहे रथम्

तं निर्गतं समासाद्य नानोपायनपाणय: ।
नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचना: ॥ ६५ ॥

तम् निर्गतम् समासाद्य नाना उपायन पाणयः नन्द-आदयः अनुरागेण प्रावोचन् अश्रु लोचनाः

मनसो वृत्तयो न: स्यु: कृष्णपादाम्बुजाश्रया: ।
वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥ ६६ ॥

मनसः वृत्तयः नः स्युः कृष्ण पाद-अम्बुज आश्रयाः वाचः अभिधायिनीः नाम्नाम् कायः तत् प्रह्वण-आदिषु

कर्मभिर्भ्राम्यमाणानां यत्र क्व‍ापीश्वरेच्छया ।
मङ्गलाचरितैर्दानै रतिर्न: कृष्ण ईश्वरे ॥ ६७ ॥

कर्मभिः भ्राम्यमाणानाम् यत्र क्व अपि ईश्वर इच्छया मङ्गल आचरितैः दानैः रतिः नः कृष्णे ईश्वरे

एवं सभाजितो गोपै: कृष्णभक्त्या नराधिप ।
उद्धव: पुनरागच्छन्मथुरां कृष्णपालिताम् ॥ ६८ ॥

एवम् सभाजितः गोपैः कृष्ण-भक्त्या नर-अधिप उद्धवः पुनः आगच्छत् मथुराम् कृष्ण-पालिताम्

कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् ।
वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥ ६९ ॥

कृष्णाय प्रणिपत्य आह भक्ति उद्रेकम् व्रज-ओकसाम् वसुदेवाय रामाय राज्ञे च उपायनानि अदात्

१०.४८

श्रीशुक उवाच
अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शन: ।
सैरन्ध्र‍या: कामतप्ताया: प्रियमिच्छन् गृहं ययौ ॥ १ ॥

श्री-शुकः उवाच अथ विज्ञाय भगवान् सर्व आत्मा सर्व दर्शनः सैरन्ध्र्याः काम तप्तायाः प्रियम् इच्छन् गृहम् ययौ

महार्होपस्करैराढ्यं कामोपायोपबृंहितम् ।
मुक्तादामपताकाभिर्वितानशयनासनै: ।
धूपै: सुरभिभिर्दीपै: स्रग्गन्धैरपि मण्डितम् ॥ २ ॥

महा-अर्ह उपस्करैः आढ्यम् काम उपाय उपबृंहितम् मुक्ता-दाम पताकाभिः वितान शयन आसनैः धूपैः सुरभिभिः दीपैः स्रक् गन्धैः अपि मण्डितम्

गृहं तमायान्तमवेक्ष्य सासनात्
सद्य: समुत्थाय हि जातसम्भ्रमा ।
यथोपसङ्गम्य सखीभिरच्युतं
सभाजयामास सदासनादिभि: ॥ ३ ॥

गृहम् तम् आयान्तम् अवेक्ष्य सा आसनात् सद्यः समुत्थाय हि जात-सम्भ्रमा यथा उपसण्गम्य सखीभिः अच्युतम् सभाजयाम् आस सत्-आसन आदिभिः

तथोद्धव: साधु तयाभिपूजितो
न्यषीददुर्व्यामभिमृश्य चासनम् ।
कृष्णोऽपि तूर्णं शयनं महाधनं
विवेश लोकाचरितान्यनुव्रत: ॥ ४ ॥

तथा उद्धवः साधुतया अभिपूजितः न्यषीदत् उर्व्याम् अभिमृश्य च आसनम् कृष्णः अपि तूर्णम् शयनम् महा-धनम् विवेश लोक आचरितानि अनुव्रतः

सा मज्जनालेपदुकूलभूषण-
स्रग्गन्धताम्बूलसुधासवादिभि: ।
प्रसाधितात्मोपससार माधवं
सव्रीडलीलोत्स्मितविभ्रमेक्षितै: ॥ ५ ॥

सा मज्जन आलेप दुकूल भूषण स्रक् गन्ध ताम्बूल सुधा-आसव आदिभिः प्रसाधित आत्मा उपससार माधवम् स-व्रीड लीला उत्स्मित विभ्रम ईक्षितैः

आहूय कान्तां नवसङ्गमह्रिया
विशङ्कितां कङ्कणभूषिते करे ।
प्रगृह्य शय्यामधिवेश्य रामया
रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६ ॥

आहूय कान्ताम् नव सङ्गम ह्रिया विशङ्किताम् कङ्कण भूषिते करे प्रगृह्य शय्याम् अधिवेश्य रामया रेमे अनुलेप अर्पण पुण्य लेशया

सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णो-
र्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती ।
दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्त-
मानन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७ ॥

स अनङ्ग तप्त कुचयोः उरसः तथा अक्ष्णोः जिघ्रन्ती अनन्त चरणेन रुजः मृजन्ती दोर्भ्याम् स्तन अन्तर-गतम् परिरभ्य कान्तम् आनन्द मूर्तिम् अजहात् अति दीर्घ तापम्

सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् ।
अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८ ॥

स एवम् कैवल्य नाथम् तम् प्राप्य दुष्प्राप्यम् ईश्वरम् अङ्ग-राग अर्पणेन अहो दुर्भगा इदम् अयाचत

सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।
रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ ९ ॥

सह उष्यताम् इह प्रेष्ठ दिनानि कतिचित् मया रमस्व न उत्सहे त्यक्तुम् सङ्गम् ते अम्बुरुह-ईक्षण

तस्यै कामवरं दत्त्वा मानयित्वा च मानद: ।
सहोद्धवेन सर्वेश: स्वधामागमद् ऋद्धिमत् ॥ १० ॥

तस्यै काम वरम् दत्त्वा मानयित्वा च मान-दः सह उद्धवेन सर्व-ईशः स्व धाम अगमत् ऋद्धि-मत्

दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
यो वृणीते मनोग्राह्यमसत्त्वात् कुमनीष्यसौ ॥ ११ ॥

दुराराध्यम् समाराध्य विष्णुम् सर्व ईश्वर ईश्वरम् यः वृणीते मनः ग्राह्यम् असत्त्वात् कुमनीषी असौ

अक्रूरभवनं कृष्ण: सहरामोद्धव: प्रभु: ।
किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रीयकाम्यया ॥ १२ ॥

अक्रूर-भवनम् कृष्णः सह राम-उद्धवः प्रभुः किञ्चित् चिकीर्षयन् प्रागात् अक्रूर प्रिय काम्यया

स तान्नरवरश्रेष्ठानाराद् वीक्ष्य स्वबान्धवान् ।
प्रत्युत्थाय प्रमुदित: परिष्वज्याभिनन्द्य च ॥ १३ ॥
ननाम कृष्णं रामं च स तैरप्यभिवादित: ।
पूजयामास विधिवत् कृतासनपरिग्रहान् ॥ १४ ॥

सः तान् नर-वर श्रेष्ठान् आरात् वीक्ष्य स्व बान्धवान् प्रत्युत्थाय प्रमुदितः परिष्वज्य अभिनन्द्य च ननाम कृष्णम् रामम् च सः तैः अपि अभिवादितः पूजयाम् आस विधि-वत् कृत आसन परिग्रहान्

पादावनेजनीरापो धारयन् शिरसा नृप ।
अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमै: ॥ १५ ॥
अर्चित्वा शिरसानम्य पादावङ्कगतौ मृजन् ।
प्रश्रयावनतोऽक्रूर: कृष्णरामावभाषत ॥ १६ ॥

पाद अवनेजनीः आ आपः धारयन् शिरसा नृप अर्हणेन अम्बरैः दिव्यैः गन्ध स्रक् भूषण उत्तमैः अर्चित्वा शिरसा आनम्य पादौ अङ्क गतौ मृजन् प्रश्रय अवनतः अक्रूरः कृष्ण-रामौ अभाषत

दिष्‍ट्या पापो हत: कंस: सानुगो वामिदं कुलम् ।
भवद्भ‍य‍ामुद्‍धृतं कृच्छ्राद् दुरन्ताच्च समेधितम् ॥ १७ ॥

दिष्ट्या पापः हतः कंसः स-अनुगः वाम् इदम् कुलम् भवद्भ्याम् उद्धृतम् कृच्छ्रात् दुरन्तात् च समेधितम्

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ ।
भवद्भ‍य‍ां न विना किञ्चित्परमस्ति न चापरम् ॥ १८ ॥

युवाम् प्रधान-पुरुषौ जगत् हेतू जगत्-मयौ भवद्भ्याम् न विना किञ्चित् परम् अस्ति न च अपरम्

आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभि: ।
ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९ ॥

आत्म-सृष्टम् इदम् विश्वम् अन्वाविश्य स्व शक्तिभिः ईयते बहुधा ब्रह्मन् श्रुत प्रत्यक्ष गोचरम्

यथा हि भूतेषु चराचरेषु
मह्यादयो योनिषु भान्ति नाना ।
एवं भवान् केवल आत्मयोनि-
ष्वात्मात्मतन्त्रो बहुधा विभाति ॥ २० ॥

यथा हि भूतेषु चर अचरेषु मही-आदयः योनिषु भान्ति नाना एवम् भवान् केवलः आत्म योनिषु आत्मा आत्म-तन्त्रः बहुधा विभाति

सृजस्यथो लुम्पसि पासि विश्वं
रजस्तम:सत्त्वगुणै: स्वशक्तिभि: ।
न बध्यसे तद्गुणकर्मभिर्वा
ज्ञानात्मनस्ते क्व‍ च बन्धहेतु: ॥ २१ ॥

सृजसि अथ उ लुम्पसि पासि विश्वम् रजः तमः सत्त्व गुणैः स्व-शक्तिभिः न बध्यसे तत् गुण कर्मभिः वा ज्ञान-आत्मनः ते क्व च बन्ध हेतुः

देहाद्युपाधेरनिरूपितत्वाद्
भवो न साक्षान्न भिदात्मन: स्यात् ।
अतो न बन्धस्तव नैव मोक्ष:
स्यातां निकामस्त्वयि नोऽविवेक: ॥ २२ ॥

देह आदि उपाधेः अनिरूपितत्वात् भवः न साक्षात् न भिदा आत्मनः स्यात् अतः न बन्धः तव न एव मोक्षः स्याताम् निकामः त्वयि नः अविवेकः

त्वयोदितोऽयं जगतो हिताय
यदा यदा वेदपथ: पुराण: ।
बाध्येत पाषण्डपथैरसद्भ‍ि-
स्तदा भवान् सत्त्वगुणं बिभर्ति ॥ २३ ॥

त्वया उदितः अयम् जगतः हिताय यदा यदा वेद पथः पुराणः बाध्येत पाषण्ड पथैः असद्भिः तदा भवान् सत्त्व-गुणम् बिभर्ति

स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्ण:
स्वांशेन भारमपनेतुमिहासि भूमे: ।
अक्षौहिणीशतवधेन सुरेतरांश-
राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४ ॥

सः त्वम् प्रभो अद्य वसुदेव-गृहे अवतीर्णः स्व अंशेन भरम् अपनेतुम् इह असि भूमेः अक्षौहिणी शत वधेन सुर-इतर अंश राज्ञाम् अमुष्य च कुलस्य यशः वितन्वन्

अद्येश नो वसतय: खलु भूरिभागा
य: सर्वदेवपितृभूतनृदेवमूर्ति: ।
यत्पादशौचसलिलं त्रिजगत् पुनाति
स त्वं जगद्गुरुरधोक्षज या: प्रविष्ट: ॥ २५ ॥

अद्य ईश नः वसतयः खलु भूरि भागाः यः सर्व-देव पितृ भूत नृ देव मूर्तिः यत् पाद शौच सलिलम् त्रि-जगत् पुनाति सः त्वम् जगत् गुरुः अधोक्षज याः प्रविष्टः

क: पण्डितस्त्वदपरं शरणं समीयाद्
भक्तप्रियाद‍ृतगिर: सुहृद: कृतज्ञात् ।
सर्वान् ददाति सुहृदो भजतोऽभिकामा-
नात्मानमप्युपचयापचयौ न यस्य ॥ २६ ॥

कः पण्डितः त्वत् अपरम् शरणम् समीयात् भक्त प्रियात् ऋत गिरः सुहृदः कृत-ज्ञात् सर्वान् ददाति सुहृदः भजतः अभिकामान् आत्मानम् अपि उपचय अपचयौ न यस्य

दिष्‍ट्या जनार्दन भवानिह न: प्रतीतो
योगेश्वरैरपि दुरापगति: सुरेशै: ।
छिन्ध्याशु न: सुतकलत्रधनाप्तगेह-
देहादिमोहरशनां भवदीयमायाम् ॥ २७ ॥

दिष्ट्या जनार्दन भवान् इह नः प्रतीतः योग-ईश्वरैः अपि दुराप-गतिः सुर-ईशैः छिन्धि आशु नः सुत कलत्र धन आप्त गेह देह आदि मोह रशनाम् भवदीय मायाम्

इत्यर्चित: संस्तुतश्च भक्तेन भगवान् हरि: ।
अक्रूरं सस्मितं प्राह गीर्भि: सम्मोहयन्निव ॥ २८ ॥

इति अर्चितः संस्तुतः च भक्तेन भगवान् हरिः अक्रूरम् स-स्मितम् प्राह गीर्भिः सम्मोहयन् इव

श्रीभगवानुवाच
त्वं नो गुरु: पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।
वयं तु रक्ष्या: पोष्याश्च अनुकम्प्या: प्रजा हि व: ॥ २९ ॥

श्री-भगवान् उवाच त्वम् नः गुरुः पितृव्यः च श्लाघ्यः बन्धुः च नित्यदा वयम् तु रक्ष्याः पोष्याः च अनुकम्प्याः प्रजाः हि वः

भवद्विधा महाभागा निषेव्या अर्हसत्तमा: ।
श्रेयस्कामैर्नृभिर्नित्यं देवा: स्वार्था न साधव: ॥ ३० ॥

भवत्-विधाः महा-भागाः निषेव्याः अर्ह सत्-तमाः श्रेयः कामैः नृभिः नित्यम् देवः स्व-अर्थाः न साधवः

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामया: ।
ते पुनन्त्युरुकालेन दर्शनादेव साधव: ॥ ३१ ॥

न हि अप्-मयानि तीर्थानि न देवाः मृत् शिला मयाः ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः

स भवान् सुहृदां वै न: श्रेयान् श्रेयश्चिकीर्षया ।
जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ ३२ ॥

सः भवान् सुहृदाम् वै नः श्रेयान् श्रेयः चिकीर्षया जिज्ञासा अर्थम् पाण्डवानाम् गच्छस्व त्वम् गज-आह्वयम्

पितर्युपरते बाला: सह मात्रा सुदु:खिता: ।
आनीता: स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३३ ॥

पितरि उपरते बालाः सह मात्रा सु दुःखिताः आनीताः स्व पुरम् राज्ञा वसन्ते इति शुश्रुम

तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधी: ।
समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धद‍ृक् ॥ ३४ ॥

तेषु राजा अम्बिका पुत्रः भ्रातृ पुत्रेषु दीन-धीः समः न वर्तते नूनम् दुः पुत्र वश-गः अन्ध दृक्

गच्छ जानीहि तद् वृत्तमधुना साध्वसाधु वा ।
विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ ३५ ॥

गच्छ जानीहि तत् वृत्तम् अधुना साधु असाधु वा विज्ञाय तत् विधास्यामः यथा शम् सुहृदाम् भवेत्

इत्यक्रूरं समादिश्य भगवान् हरिरीश्वर: ।
सङ्कर्षणोद्धवाभ्यां वै तत: स्वभवनं ययौ ॥ ३६ ॥

इति अक्रूरम् समादिश्य भगवान् हरिः ईश्वरः सङ्कर्षण उद्धवाभ्याम् वै ततः स्व भवनम् ययौ

१०.४९

श्रीशुक उवाच
स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् ।
ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥
सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।
कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥ २ ॥

श्री-शुकः उवाच सः गत्वा हास्तिन-पुरम् पौरव-इन्द्र यशः अङ्कितम् ददर्श तत्र आम्बिकेयम् स भीष्मम् विदुरम् पृथाम् सह-पुत्रम् च बाह्लीकम् भारद्वाजम् स गौतमम् कर्णम् सुयोधनम् द्रौणिम् पाण्डवान् सुहृदः अपरान्

यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुत: ।
सम्पृष्टस्तै: सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३ ॥

यथा-वत् उपसङ्गम्य बन्धुभिः गान्दिनी-सुतः सम्पृष्टः तैः सुहृत् वार्ताम् स्वयम् च अपृच्छत् अव्ययम्

उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया ।
दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिन: ॥ ४ ॥

उवास कतिचित् मासान् राज्ञः वृत्त विवित्सया दुष्प्रजस्य अल्प सारस्य खल छन्द अनुवर्तिनः

तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान् ।
प्रजानुरागं पार्थेषु न सहद्भ‍िश्चिकीर्षितम् ॥ ५ ॥
कृतं च धार्तराष्ट्रैर्यद् गरदानाद्यपेशलम् ।
आचख्यौ सर्वमेवास्मै पृथा विदुर एव च ॥ ६ ॥

तेजः ओजः बलम् वीर्यम् प्रश्रय आदीन् च सत् गुणान् प्रजा अनुरागम् पार्थेषु न सहद्भिः चिकीर्षितम् कृतम् च धार्तराष्ट्रैः यत् गर दान आदि अपेशलम् आचख्यौ सर्वम् एव अस्मै पृथा विदुरः एव च

पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम् ।
उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा ॥ ७ ॥

पृथा तु भ्रातरम् प्राप्तम् अक्रूरम् उपसृत्य तम् उवाच जन्म निलयम् स्मरन्ती अश्रु कला ईक्षणा

अपि स्मरन्ति न: सौम्य पितरौ भ्रातरश्च मे ।
भगिन्यौ भ्रातृपुत्राश्च जामय: सख्य एव च ॥ ८ ॥

अपि स्मरन्ति नः सौम्य पितरौ भ्रातरः च मे भगिन्यौ भ्रातृ-पुत्राः च जामयः सख्यः एव च

भ्रात्रेयो भगवान् कृष्ण: शरण्यो भक्तवत्सल: ।
पैतृष्वस्रेयान् स्मरति रामश्चाम्बुरुहेक्षण: ॥ ९ ॥

भ्रात्रेयः भगवान् कृष्णः शरण्यः भक्त वत्सलः पैतृ-स्वस्रेयान् स्मरति रामः च अम्बुरुह ईक्षणः

सपत्नमध्ये शोचन्तीं वृकानां हरिणीमिव ।
सान्‍त्‍वयिष्यति मां वाक्यै: पितृहीनांश्च बालकान् ॥ १० ॥

सपत्न मध्ये शोचन्तीम् वृकानाम् हरिणीम् इव सान्त्वयिष्यति माम् वाक्यैः पितृ हीनान् च बालकान्

कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।
प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११ ॥

कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-भावन प्रपन्नाम् पाहि गोविन्द शिशुभिः च अवसीदतीम्

नान्यत्तव पदाम्भोजात् पश्यामि शरणं नृणाम् ।
बिभ्यतां मृत्युसंसारादीश्वरस्यापवर्गिकात् ॥ १२ ॥

न अन्यत् तव पद-अम्भोजात् पश्यामि शरणम् नृणाम् बिभ्यताम् मृत्यु संसारात् ईश्वरस्य आपवर्गिकात्

नम: कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।
योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३ ॥

नमः कृष्णाय शुद्धाय ब्रह्मणे परम-आत्मने योग ईश्वराय योगाय त्वाम् अहम् शरणम् गता

श्रीशुक उवाच
इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।
प्रारुदद् दु:खिता राजन् भवतां प्रपितामही ॥ १४ ॥

श्री-शुकः उवाच इति अनुस्मृत्य स्व-जनम् कृष्णम् च जगत् ईश्वरम् प्रारुदत् दुःखिता राजन् भवताम् प्रपितामही

समदु:खसुखोऽक्रूरो विदुरश्च महायशा: ।
सान्‍त्‍वयामासतु: कुन्तीं तत्पुत्रोत्पत्तिहेतुभि: ॥ १५ ॥

सम दुःख सुखः अक्रूरः विदुरः च महा-यशाः सान्त्वयाम् आसतुः कुन्तीम् तत् पुत्र उत्पत्ति हेतुभिः

यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् ।
अवदत् सुहृदां मध्ये बन्धुभि: सौहृदोदितम् ॥ १६ ॥

यास्यन् राजानम् अभ्येत्य विषमम् पुत्र लालसम् अवदत् सुहृदाम् मध्ये बन्धुभिः सौहृद उदितम्

अक्रूर उवाच
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन ।
भ्रातर्युपरते पाण्डावधुनासनमास्थित: ॥ १७ ॥

अक्रूरः उवाच भोः भोः वैचित्रवीर्य त्वम् कुरूणाम् कीर्ति वर्धन भ्रातरि उपरते पाण्डौ अधुना आसनम् आस्थितः

धर्मेण पालयन्नुर्वीं प्रजा: शीलेन रञ्जयन् ।
वर्तमान: सम: स्वेषु श्रेय: कीर्तिमवाप्स्यसि ॥ १८ ॥

धर्मेण पालयन् उर्वीम् प्रजाः शीलेन रञ्जयन् वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि

अन्यथा त्वाचरँल्ल‍ोके गर्हितो यास्यसे तम: ।
तस्मात् समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९ ॥

अन्यथा तु आचरन् लोके गर्हितः यास्यसे तमः तस्मात् समत्वे वर्तस्व पाण्डवेषु आत्म-जेषु च

नेह चात्यन्तसंवास: कस्यचित् केनचित् सह ।
राजन् स्वेनापि देहेन किमु जायात्मजादिभि: ॥ २० ॥

न इह च अत्यन्त संवासः कस्यचित् केनचित् सह राजन् स्वेन अपि देहेन किम् उ जाया आत्म-ज आदिभिः

एक: प्रसूयते जन्तुरेक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २१ ॥

एकः प्रसूयते जन्तुः एकः एव प्रलीयते एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम्

अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधस: ।
सम्भोजनीयापदेशैर्जलानीव जलौकस: ॥ २२ ॥

अधर्म उपचितम् वित्तम् हरन्ति अन्ये अल्प-मेधसः सम्भोजनीय अपदेशैः जलानि इव जल-ओकसः

पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।
तेऽकृतार्थं प्रहिण्वन्ति प्राणा राय: सुतादय: ॥ २३ ॥

पुष्णाति यान् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ते अकृत-अर्थम् प्रहिण्वन्ति प्राणाः रायः सुत-आदयः

स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविद: ।
असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तम: ॥ २४ ॥

स्वयम् किल्बिषम् आदाय तैः त्यक्तः न अर्थ कोविदः असिद्ध अर्थः विशति अन्धम् स्व धर्म विमुखः तमः

तस्माल्ल‍ोकमिमं राजन् स्वप्नमायामनोरथम् ।
वीक्ष्यायम्यात्मनात्मानं सम: शान्तो भव प्रभो ॥ २५ ॥

तस्मात् लोकम् इमम् राजन् स्वप्न माया मनः-रथम् वीक्ष्य आयम्य आत्मना आत्मानम् समः शान्तः भव प्रभो

धृतराष्ट्र उवाच
यथा वदति कल्याणीं वाचं दानपते भवान् ।
तथानया न तृप्यामि मर्त्य: प्राप्य यथामृतम् ॥ २६ ॥

धृतराष्ट्रः उवाच यथा वदति कल्याणीम् वाचम् दान पते भवान् तथा अनया न तृप्यामि मर्त्यः प्राप्य यथा अमृतम्

तथापि सूनृता सौम्य हृदि न स्थीयते चले ।
पुत्रानुरागविषमे विद्युत् सौदामनी यथा ॥ २७ ॥

तथा अपि सूनृता सौम्य हृदि न स्थीयते चले पुत्र अनुराग विषमे विद्युत् सौदामनी यथा

ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् ।
भूमेर्भारावताराय योऽवतीर्णो यदो: कुले ॥ २८ ॥

ईश्वरस्य विधिम् कः नु विधुनोति अन्यथा पुमान् भूमेः भार अवताराय यः अवतीर्णः यदोः कुले

यो दुर्विमर्शपथया निजमाययेदं
सृष्ट्वा गुणान् विभजते तदनुप्रविष्ट: ।
तस्मै नमो दुरवबोधविहारतन्त्र-
संसारचक्रगतये परमेश्वराय ॥ २९ ॥

यः दुर्विमर्श पथया निज मायया इदम् सृष्ट्वा गुणान् विभजते तत् अनुप्रविष्टः तस्मै नमः दुरवबोध विहार तन्त्र संसार चक्र गतये परम-ईश्वराय

श्रीशुक उवाच
इत्यभिप्रेत्य नृपतेरभिप्रायं स यादव: ।
सुहृद्भ‍ि: समनुज्ञात: पुनर्यदुपुरीमगात् ॥ ३० ॥

श्री-शुकः उवाच इति अभिप्रेत्य नृपतेः अभिप्रायम् सः यादवः सुहृद्भिः समनुज्ञातः पुनः यदु-पुरीम् अगात्

शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।
पाण्डवान् प्रति कौरव्य यदर्थं प्रेषित: स्वयम् ॥ ३१ ॥

शशंस राम-कृष्णाभ्याम् धृतराष्ट्र-विचेष्टितम् पाण्डवान् प्रति कौरव्य यत् अर्थम् प्रेषितः स्वयम्

१०.५०

श्रीशुक उवाच
अस्ति: प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दु:खार्ते ईयतु: स्म पितुर्गृहान् ॥ १ ॥

श्री-शुकः उवाच अस्तिः प्राप्तिः च कंसस्य महिष्यौ भरत-ऋषभ मृते भर्तरि दुःख आर्ते ईयतुः स्म पितुः गृहान्

पित्रे मगधराजाय जरासन्धाय दु:खिते ।
वेदयां चक्रतु: सर्वमात्मवैधव्यकारणम् ॥ २ ॥

पित्रे मगध-राजाय जरासन्धाय दुःखिते वेदयाम् चक्रतुः सर्वम् आत्म वैधव्य कारणम्

स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप ।
अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥ ३ ॥

सः तत् अप्रियम् आकर्ण्य शोक अमर्ष युतः नृप अयादवीम् महीम् कर्तुम् चक्रे परमम् उद्यमम्

अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृत: ।
यदुराजधानीं मथुरां न्यरुधत् सर्वतोदिशम् ॥ ४ ॥

अक्षौहिणीभिः विंशत्या तिसृभिः च अपि संवृतः यदु राजधानीम् मथुराम् न्यरुधत् सर्वतः दिशम्

निरीक्ष्य तद्ब‍लं कृष्ण उद्वेलमिव सागरम् ।
स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ॥ ५ ॥
चिन्तयामास भगवान् हरि: कारणमानुष: ।
तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥ ६ ॥

निरीक्ष्य तत् बलम् कृष्णः उद्वेलम् इव सागरम् स्व पुरम् तेन संरुद्धम् स्व-जनम् च भय आकुलम् चिन्तयाम् आस भगवान् हरिः कारण मानुषः तत् देश काल अनुगुणम् स्व-अवतार प्रयोजनम्

हनिष्यामि बलं ह्येतद्भ‍ुवि भारं समाहितम् ।
मागधेन समानीतं वश्यानां सर्वभूभुजाम् ॥ ७ ॥
अक्षौहिणीभि: सङ्ख्यातं भटाश्वरथकुञ्जरै: ।
मागधस्तु न हन्तव्यो भूय: कर्ता बलोद्यमम् ॥ ८ ॥

हनिष्यामि बलम् हि एतत् भुवि भारम् समाहितम् मागधेन समानीतम् वश्यानाम् सर्व भू-भुजाम् अक्षौहिणीभिः सङ्ख्यातम् भट अश्व रथ कुञ्जरैः मागधः तु न हन्तव्यः भूयः कर्ता बल उद्यमम्

एतदर्थोऽवतारोऽयं भूभारहरणाय मे ।
संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥ ९ ॥

एतत् अर्थः अवतारः अयम् भू भार हरणाय मे संरक्षणाय साधूनाम् कृतः अन्येषाम् वधाय च

अन्योऽपि धर्मरक्षायै देह: संभ्रियते मया ।
विरामायाप्यधर्मस्य काले प्रभवत: क्व‍‍चित् ॥ १० ॥

अन्यः अपि धर्म रक्षायै देहः संभ्रियते मया विरामाय अपि अधर्मस्य काले प्रभवतः क्वचित्

एवं ध्यायति गोविन्द आकाशात् सूर्यवर्चसौ ।
रथावुपस्थितौ सद्य: ससूतौ सपरिच्छदौ ॥ ११ ॥

एवम् ध्यायति गोविन्दे आकाशात् सूर्य वर्चसौ रथौ उपस्थितौ सद्यः स सूतौ स परिच्छदौ

आयुधानि च दिव्यानि पुराणानि यद‍ृच्छया ।
द‍ृष्ट्वा तानि हृषीकेश: सङ्कर्षणमथाब्रवीत् ॥ १२ ॥

आयुधानि च दिव्यानि पुराणानि यदृच्छया दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथ अब्रवीत्

पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो ।
एष ते रथ आयातो दयितान्यायुधानि च ॥ १३ ॥
एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत् ।
त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु ॥ १४ ॥

पश्य आर्य व्यसनम् प्राप्तम् यदूनाम् त्वा अवताम् प्रभो एषः ते रथः आयातः दयितानि आयुधानि च एतत्-अर्थम् हि नौ जन्म साधूनाम् ईश शर्म कृत् त्रयः-विंशति अनीक आख्यम् भूमेः भारम् अपाकुरु

एवं सम्मन्‍त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ।
निर्जग्मतु: स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ ॥ १५ ॥

एवम् सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् निर्जग्मतुः स्व आयुध आढ्यौ बलेन अल्पीयसा वृतौ

शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथि: ।
ततोऽभूत् परसैन्यानां हृदि वित्रासवेपथु: ॥ १६ ॥

शङ्खम् दध्मौ विनिर्गत्य हरिः दारुक-सारथिः ततः अभूत् पर सैन्यानाम् हृदि वित्रास वेपथुः

तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम ।
न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥ १७ ॥

तौ आह मागधः वीक्ष्य हे कृष्ण पुरुष-अधम न त्वया योद्धुम् इच्छामि बालेन एकेन लज्जया गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु हन्

तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह ।
हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि ॥ १८ ॥

तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह हित्वा वा मत् शरैः छिन्नम् देहम् स्वः याहि माम् जहि

श्रीभगवानुवाच
न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम् ।
न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षत: ॥ १९ ॥

श्री-भगवान् उवाच न वै शूराः विकत्थन्ते दर्शयन्ति एव पौरुषम् न गृह्णीमः वचः राजन् आतुरस्य मुमूर्षतः

श्रीशुक उवाच
जरासुतस्तावभिसृत्य माधवौ
महाबलौघेन बलीयसावृणोत् ।
ससैन्ययानध्वजवाजिसारथी
सूर्यानलौ वायुरिवाभ्ररेणुभि: ॥ २० ॥

श्री-शुकः उवाच जरा-सुतः तौ अभिसृत्य माधवौ महा बल ओघेन बलीयसा आवृणोत् स सैन्य यान ध्वज वाजि सारथी सूर्य अनलौ वायुः इव अभ्र रेणुभिः

सुपर्णतालध्वजचिह्नितौ रथा-
वलक्षयन्त्यो हरिरामयोर्मृधे ।
स्‍त्रिय: पुराट्टालकहर्म्यगोपुरं
समाश्रिता: सम्मुमुहु: शुचार्दिता: ॥ २१ ॥

सुपर्ण ताल ध्वज चिह्नितौ रथौ अलक्षयन्त्यः हरि-रामयोः मृधे स्त्रियः पुर अट्टालक हर्म्य गोपुरम् समाश्रिताः सम्मुमुहुः शुचा अर्दिताः

हरि: परानीकपयोमुचां मुहु:
शिलीमुखात्युल्बणवर्षपीडितम् ।
स्वसैन्यमालोक्य सुरासुरार्चितं
व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम् ॥ २२ ॥

हरिः पर अनीक पयः-मुचाम् मुहुः शिलीमुख अति उल्बण वर्ष पीडितम् स्व सैन्यम् आलोक्य सुर असुर अर्चितम् व्यस्फूर्जयत् शार्ङ्ग शर-असन उत्तमम्

गृह्णन् निशङ्गादथ सन्दधच्छरान्
विकृष्य मुञ्चन् शितबाणपूगान् ।
निघ्नन् रथान् कुञ्जरवाजिपत्तीन्
निरन्तरं यद्वदलातचक्रम् ॥ २३ ॥

गृह्णन् निशङ्गात् अथ सन्दधत् शरान् विकृष्य मुञ्चन् शित बाण पूगान् निघ्नन् रथान् कुञ्जर वाजि पत्तीन् निरन्तरम् यद्वत् अलात-चक्रम्

निर्भिन्नकुम्भा: करिणो निपेतु-
रनेकशोऽश्वा: शरवृक्णकन्धरा: ।
रथा हताश्वध्वजसूतनायका:
पदायतश्छिन्नभुजोरुकन्धरा: ॥ २४ ॥

निर्भिन्न कुम्भाः करिणः निपेतुः अनेकशः अश्वाः शर वृक्ण कन्धराः रथाः हत अश्व ध्वज सूत नायकाः पदायतः छिन्न भुज ऊरु कन्धराः

सञ्छिद्यमानद्विपदेभवाजिना-
मङ्गप्रसूता: शतशोऽसृगापगा: ।
भुजाहय: पूरुषशीर्षकच्छपा
हतद्विपद्वीपहयग्रहाकुला: ॥ २५ ॥
करोरुमीना नरकेशशैवला
धनुस्तरङ्गायुधगुल्मसङ्कुला: ।
अच्छूरिकावर्तभयानका महा-
मणिप्रवेकाभरणाश्मशर्करा: ॥ २६ ॥
प्रवर्तिता भीरुभयावहा मृधे
मनस्विनां हर्षकरी: परस्परम् ।
विनिघ्नतारीन् मुषलेन दुर्मदान्
सङ्कर्षणेनापरिमेयतेजसा ॥ २७ ॥
बलं तदङ्गार्णवदुर्गभैरवं
दुरन्तपारं मगधेन्द्रपालितम् ।
क्षयं प्रणीतं वसुदेवपुत्रयो-
र्विक्रीडितं तज्जगदीशयो: परम् ॥ २८ ॥

सञ्छिद्यमान द्वि-पद इभ वाजिनाम् अङ्ग प्रसूताः शतशः असृक् आप-गः भुज अहयः पूरुष शीर्ष कच्छपाः हत द्विप द्वीप हय ग्रह आकुलाः कर ऊरु मीनः नर केश शैवलाः धनुः तरङ्ग आयुध गुल्म सङ्कुलाः अच्छूरिका आवर्त भयानकाः महा-मणि प्रवेक आभरण अश्म शर्कराः प्रवर्तिताः भीरु भय-आवहाः मृधे मनस्विनाम् हर्ष-करीः परस्परम् विनिघ्नता अरीन् मुषलेन दुर्मदान् सङ्कर्षणेन अपरिमेय तेजसा बलम् तत् अङ्ग अर्णव दुर्ग भैरवम् दुरन्त पारम् मगध-इन्द्र पालितम् क्षयम् प्रणीतम् वसुदेव-पुत्रयोः विक्रीडितम् तत् जगत् ईशयोः परम्

स्थित्युद्भ‍वान्तं भुवनत्रयस्य य:
समीहितेऽनन्तगुण: स्वलीलया ।
न तस्य चित्रं परपक्षनिग्रह-
स्तथापि मर्त्यानुविधस्य वर्ण्यते ॥ २९ ॥

स्थिति उद्भव अन्तम् भुवन-त्रयस्य यः समीहिते अनन्त गुणः स्व-लीलया न तस्य चित्रम् पर पक्ष निग्रहः तथा अपि मर्त्य अनुविधस्य वर्ण्यते

जग्राह विरथं रामो जरासन्धं महाबलम् ।
हतानीकावशिष्टासुं सिंह: सिंहमिवौजसा ॥ ३० ॥

जग्राह विरथम् रामः जरासन्धम् महा बलम् हत अनीक अवशिष्ट असुम् सिंहः सिंहम् इव ओजसा

बध्यमानं हतारातिं पाशैर्वारुणमानुषै: ।
वारयामास गोविन्दस्तेन कार्यचिकीर्षया ॥ ३१ ॥

बध्यमानम् हत अरातिम् पाशैः वारुण मानुषैः वारयाम् आस गोविन्दः तेन कार्य चिकीर्षया

स मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मत: ।
तपसे कृतसङ्कल्पो वारित: पथि राजभि: ॥ ३२ ॥
वाक्यै: पवित्रार्थपदैर्नयनै: प्राकृतैरपि ।
स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभव: ॥ ३३ ॥

सः मुक्तः लोक-नाथाभ्याम् व्रीडितः वीर सम्मतः तपसे कृत-सङ्कल्पः वारितः पथि राजभिः वाक्यैः पवित्र अर्थ पदैः नयनैः प्राकृतैः अपि स्व कर्म-बन्ध प्राप्तः अयम् यदुभिः ते पराभवः

हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा ।
उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ ३४ ॥

हतेषु सर्व अनीकेषु नृपः बार्हद्रथः तदा उपेक्षितह् भगवता मगधान् दुर्मनाः ययौ

मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णव: ।
विकीर्यमाण: कुसुमैस्‍त्रीदशैरनुमोदित: ॥ ३५ ॥
माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभि: ।
उपगीयमानविजय: सूतमागधवन्दिभि: ॥ ३६ ॥

मुकुन्दः अपि अक्षत बलः निस्तीर्ण अरि बल अर्णवः विकीर्यमाणः कुसुमैः त्रिदशैः अनुमोदितः माथुरैः उपसङ्गम्य विज्वरैः मुदित-आत्मभिः उपगीयमान विजयः सूत मागध वन्दिभिः

शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकश: ।
वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ ॥ ३७ ॥
सिक्तमार्गां हृष्टजनां पताकाभिरभ्यलङ्कृताम् ।
निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥ ३८ ॥

शङ्ख दुन्दुभयः नेदुः भेरी तूर्याणि अनेकशः वीणा-वेणु-मृदङ्गानि पुरम् प्रविशति प्रभौ सिक्त मार्गाम् हृष्ट जनाम् पताकाभिः अभ्यलङ्कृताम् निर्घुष्टाम् ब्रह्म घोषेण कौतुक आबद्ध तोरणाम्

निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरै: ।
निरीक्ष्यमाण: सस्‍नेहं प्रीत्युत्कलितलोचनै: ॥ ३९ ॥

निचीयमानः नारीभिः माल्य दधि अक्षत अङ्कुरैः निरीक्ष्यमाणः स-स्नेहम् प्रीति उत्कलित लोचनैः

आयोधनगतं वित्तमनन्तं वीरभूषणम् ।
यदुराजाय तत् सर्वमाहृतं प्रादिशत्प्रभु: ॥ ४० ॥

आयोधन-गतम् वित्तम् अनन्तम् वीर भूषणम् यदु-राजाय तत् सर्वम् आहृतम् प्रादिशत् प्रभुः

एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबल: ।
युयुधे मागधो राजा यदुभि: कृष्णपालितै: ॥ ४१ ॥

एवम् सप्त-दश कृत्वः तावति अक्षौहिणी बलः युयुधे मागधः राजा यदुभिः कृष्ण-पालितैः

अक्षिण्वंस्तद्ब‍लं सर्वं वृष्णय: कृष्णतेजसा ।
हतेषु स्वेष्वनीकेषु त्यक्तोऽगादरिभिर्नृप: ॥ ४२ ॥

अक्षिण्वन् तत् बलम् सर्वम् वृष्णयः कृष्ण-तेजसा हतेषु स्वेषु अनीकेषु त्यक्तः अगात् अरिभिः नृपः

अष्टादशमसङ्ग्राम आगामिनि तदन्तरा ।
नारदप्रेषितो वीरो यवन: प्रत्यद‍ृश्यत ॥ ४३ ॥

अष्टा-दशम सङ्ग्रामे आगामिनि तत्-अन्तरा नारद प्रेषितः वीरः यवनः प्रत्यदृश्यत

रुरोध मथुरामेत्य तिसृभिर्म्‍लेच्छकोटिभि: ।
नृलोके चाप्रतिद्वन्द्वो वृष्णीन्श्रुत्वात्मसम्मितान् ॥ ४४ ॥

रुरोध मथुराम् एत्य तिसृभिः म्लेच्छ कोटिभिः नृ-लोके च अप्रतिद्वन्द्वः वृष्णीन् श्रुत्वा आत्म सम्मितान्

तं द‍ृष्ट्वाचिन्तयत् कृष्ण: सङ्कर्षणसहायवान् ।
अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् ॥ ४५ ॥

तम् दृष्ट्वा अचिन्तयत् कृष्णः सङ्कर्षण सहाय-वन् अहो यदूनाम् वृजिनम् प्राप्तम् हि उभयतः महत्

यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबल: ।
मागधोऽप्यद्य वा श्वो वा परश्वो वागमिष्यति ॥ ४६ ॥

यवनः अयम् निरुन्धे अस्मान् अद्य तावत् महा-बलः मागधः अपि अद्य वा श्वः वा पर-श्वः वा आगमिष्यति

आवयो: युध्यतोरस्य यद्यागन्ता जरासुत: ।
बन्धून् हनिष्यत्यथवा नेष्यते स्वपुरं बली ॥ ४७ ॥

आवयोः युध्यतोः अस्य यदि आगन्ता जरा-सुतः बन्धून् हनिष्यति अथ वा नेष्यते स्व पुरम् बली

तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम् ।
तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ ४८ ॥

तस्मात् अद्य विधास्यामः दुर्गम् द्विपद दुर्गमम् तत्र ज्ञातीन् समाधाय यवनम् घातयामहे

इति सम्मन्‍त्र्य भगवान् दुर्गं द्वादशयोजनम् ।
अन्त:समुद्रे नगरं कृत्‍स्‍नाद्भ‍ुतमचीकरत् ॥ ४९ ॥

इति सम्मन्त्र्य भगवान् दुर्गम् द्वादश-योजनम् अन्तः समुद्रे नगरम् कृत्स्न अद्भुतम् अचीकरत्

द‍ृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् ।
रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम् ॥ ५० ॥
सुरद्रुमलतोद्यानविचित्रोपवनान्वितम् ।
हेमश‍ृङ्गैर्दिविस्पृग्भि: स्फटिकाट्टालगोपुरै: ॥ ५१ ॥
राजतारकुटै: कोष्ठैर्हेमकुम्भैरलङ्कृतै: ।
रत्नकूतैर्गृहैर्हेमैर्महामारकत स्थलै: ॥ ५२ ॥
वास्तोष्पतीनां च गृहैर्वल्ल‍भीभिश्च निर्मितम् ।
चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्ल‍सत् ॥ ५३ ॥

दृश्यते यत्र हि त्वाष्ट्रम् विज्ञानम् शिल्प नैपुणम् रथ्या चत्वर वीथीभिः यथा-वास्तु विनिर्मितम् सुर द्रुम लता उद्यान विचित्र उपवन अन्वितम् हेम शृङ्गैः दिवि स्पृग्भिः स्फटिका अट्टाल गोपुरैः राजत आरकुटैः कोष्ठैः हेम कुम्भैः अलङ्कृतैः रत्न कूतैः गृहैः हेमैः महा-मारकत स्थलैः वास्तोः पतीनाम् च गृहैः वल्लभीभिः च निर्मितम् चातुः-वर्ण्य जन आकीर्णम् यदु-देव गृह उल्लसत्

सुधर्मां पारिजातं च महेन्द्र: प्राहिणोद्धरे: ।
यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥ ५४ ॥

सुधर्माम् पारिजातम् च महा-इन्द्रः प्राहिणोत् हरेः यत्र च अवस्थितः मर्त्यः मर्त्य-धर्मैः न युज्यते

श्यामैकवर्णान् वरुणो हयान् शुक्लान्मनोजवान् ।
अष्टौ निधिपति: कोशान् लोकपालो निजोदयान् ॥ ५५ ॥

श्याम एक वर्णान् वरुणः हयान् शुक्लान् मनः जवान् अष्टौ निधि-पतिः कोशान् लोक-पालः निज उदयान्

यद् यद् भगवता दत्तमाधिपत्यं स्वसिद्धये ।
सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप ॥ ५६ ॥

यत् यत् भगवता दत्तम् आधिपत्यम् स्व सिद्धये सर्वम् प्रत्यर्पयाम् आसुः हरौ भूमि गते नृप

तत्र योगप्रभावेन नीत्वा सर्वजनं हरि: ।
प्रजापालेन रामेण कृष्ण: समनुमन्त्रित: ।
निर्जगाम पुरद्वारात् पद्ममाली निरायुध: ॥ ५७ ॥

तत्र योग प्रभावेन नीत्वा सर्व जनम् हरिः प्रजा पालेन रामेण कृष्णः समनुमन्त्रितः निर्जगाम पुर द्वारात् पद्म माली निरायुधः

१०.५१

श्रीशुक उवाच
तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम् ।
दर्शनीयतमं श्यामं पीतकौशेयवाससम् ॥ १ ॥
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।
पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् ॥ २ ॥
नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम् ।
मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् ॥ ३ ॥
वासुदेवो ह्ययमिति पुमान् श्रीवत्सलाञ्छन: ।
चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दर: ॥ ४ ॥
लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति ।
निरायुधश्चलन् पद्‍भ्यां योत्स्येऽनेन निरायुध: ॥ ५ ॥
इति निश्चित्य यवन: प्राद्रवद् तं पराङ्‍मुखम् ।
अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम् ॥ ६ ॥

श्री-शुकः उवाच तम् विलोक्य विनिष्क्रान्तम् उज्जिहानम् इव उडुपम् दर्शनीय-तमम् श्यामम् पीत कौशेय वाससम् श्रीवत्स वक्षसम् भ्राजत् कौस्तुभ आमुक्त कन्धरम् पृथु दीर्घ चतुः बाहुम् नव कञ्ज अरुण ईक्षणम् नित्य प्रमुदितम् श्रीमत् सु कपोलम् शुचि स्मितम् मुख अरविन्दम् बिभ्राणम् स्फुरन् मकर कुण्डलम् वासुदेवः हि अयम् इति पुमान् श्रीवत्स-लाञ्छनः चतुः-भुजः अरविन्द-अक्षः वन माली अति सुन्दरः लक्षणैः नारद-प्रोक्तैः न अन्यः भवितुम् अर्हति निरायुधः चलन् पद्भ्याम् योत्स्ये अनेन निरायुधः इति निश्चित्य यवनः प्राद्रवन्तम् पराक् मुखम् अन्वधावत् जिघृक्षुः तम् दुरापम् अपि योगिनाम्

हस्तप्राप्तमिवात्मानं हरीणा स पदे पदे ।
नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम् ॥ ७ ॥

हस्त प्राप्तम् इव आत्मानम् हरिणा सः पदे पदे नीतः दर्शयता दूरम् यवन-ईशः अद्रि कन्दरम्

पलायनं यदुकुले जातस्य तव नोचितम् ।
इति क्षिपन्ननुगतो नैनं प्रापाहताशुभ: ॥ ८ ॥

पलायनम् यदु-कुले जातस्य तव न उचितम् इति क्षिपन् अनुगतः न एनम् प्राप अहत अशुभः

एवं क्षिप्तोऽपि भगवान्प्राविशद् गिरिकन्दरम् ।
सोऽपि प्रविष्टस्तत्रान्यं शयानं दद‍ृशे नरम् ॥ ९ ॥

एवम् क्षिप्तः अपि भगवान् प्राविशत् गिरि-कन्दरम् सः अपि प्रविष्टः तत्र अन्यम् शयानम् ददृशे नरम्

नन्वसौ दूरमानीय शेते मामिह साधुवत् ।
इति मत्वाच्युतं मूढस्तं पदा समताडयत् ॥ १० ॥

ननु असौ दूरम् आनीय शेते माम् इह साधु-वत् इति मत्वा अच्युतम् मूढः तम् पदा समताडयत्

स उत्थाय चिरं सुप्त: शनैरुन्मील्य लोचने ।
दिशो विलोकयन् पार्श्वे तमद्राक्षीदवस्थितम् ॥ ११ ॥

सः उत्थाय चिरम् सुप्तः शनैः उन्मील्य लोचने दिशः विलोकयन् पार्श्वे तम् अद्राक्षीत् अवस्थितम्

स तावत्तस्य रुष्टस्य द‍ृष्टिपातेन भारत ।
देहजेनाग्निना दग्धो भस्मसादभवत् क्षणात् ॥ १२ ॥

सः तावत् तस्य रुष्टस्य दृष्टि पातेन भारत देह-जेन अग्निना दग्धः भस्म-सात् अभवत् क्षणात्

श्रीराजोवाच
को नाम स पुमान् ब्रह्मन् कस्य किंवीर्य एव च ।
कस्माद् गुहां गत: शिष्ये किंतेजो यवनार्दन: ॥ १३ ॥

श्री-राजा उवाच कः नाम सः पुमान् ब्रह्मन् कस्य किम् वीर्यः एव च कस्मात् गुहाम् गतः शिष्ये किम् तेजः यवन अर्दनः

श्रीशुक उवाच
स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् ।
मुचुकुन्द इति ख्यातो ब्रह्मण्य: सत्यसङ्गर: ॥ १४ ॥

श्री-शुकः उवाच सः इक्ष्वाकु-कुले जातः मान्धातृ-तनयः महान् मुचुकुन्दः इति ख्यातः ब्रह्मण्यः सत्य सङ्गरः

स याचित: सुरगणैरिन्द्राद्यैरात्मरक्षणे ।
असुरेभ्य: परित्रस्तैस्तद्रक्षां सोऽकरोच्चिरम् ॥ १५ ॥

सः याचितः सुर-गणैः इन्द्र-आद्यैः आत्म रक्षणे असुरेभ्यः परित्रस्तैः तत् रक्षाम् सः अकरोत् चिरम्

लब्ध्वा गुहं ते स्व:पालं मुचुकुन्दमथाब्रुवन् ।
राजन् विरमतां कृच्छ्राद् भवान् न: परिपालनात् ॥ १६ ॥

लब्ध्वा गुहम् ते स्वः पालम् मुचुकुन्दम् अथ अब्रुवन् राजन् विरमताम् कृच्छ्रात् भवान् नः परिपालनात्

नरलोकं परित्यज्य राज्यं निहतकण्टकम् ।
अस्मान् पालयतो वीर कामास्ते सर्व उज्झिता: ॥ १७ ॥

नर-लोकम् परित्यज्य राज्यम् निहत कण्टकम् अस्मान् पालयतः वीर कामः ते सर्वे उज्झिताः

सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिण: ।
प्रजाश्च तुल्यकालीना नाधुना सन्ति कालिता: ॥ १८ ॥

सुताः महिष्यः भवतः ज्ञातयः अमात्य मन्त्रिणः प्रजाः च तुल्य-कालीनाः न अधुना सन्ति कालिताः

कालो बलीयान् बलिनां भगवानीश्वरोऽव्यय: ।
प्रजा: कालयते क्रीडन् पशुपालो यथा पशून् ॥ १९ ॥

कालः बलीयान् बलिनाम् भगवान् ईश्वरः अव्ययः प्रजाः कालयते क्रीडन् पशु-पालः यथा पशून्

वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य न: ।
एक एवेश्वरस्तस्य भगवान् विष्णुरव्यय: ॥ २० ॥

वरम् वृणीष्व भद्रम् ते ऋते कैवल्यम् अद्य नः एकः एव ईश्वरः तस्य भगवान् विष्णुः अव्ययः

एवमुक्त: स वै देवानभिवन्द्य महायशा: ।
अशयिष्ट गुहाविष्टो निद्रया देवदत्तया ॥ २१ ॥

एवम् उक्तः सः वै देवान् अभिवन्द्य महा यशाः अशयिष्ट गुहा-विष्टः निद्रया देव दत्तया

यवने भस्मसान्नीते भगवान् सात्वतर्षभ: ।
आत्मानं दर्शयामास मुचुकुन्दाय धीमते ॥ २२ ॥

यवने भस्म-सात् नीते भगवान् सात्वत ऋषभः आत्मानम् दर्शयाम् आस मुचुकुन्दाय धी-मते

तमालोक्य घनश्यामं पीतकौशेयवाससम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम् ॥ २३ ॥
चतुर्भुजं रोचमानं वैजयन्त्या च मालया ।
चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ २४ ॥
प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम् ।
अपीव्यवयसं मत्तमृगेन्द्रोदारविक्रमम् ॥ २५ ॥
पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य धर्षित: ।
शङ्कित: शनकै राजा दुर्धर्षमिव तेजसा ॥ २६ ॥

तम् आलोक्य घन श्यामम् पीत कौशेय वाससम् श्रीवत्स वक्षसम् भ्राजत् कौस्तुभेन विराजितम् चतुः-भुजम् रोचमानम् वैजयन्त्या च मालया चारु प्रसन्न वदनम् स्फुरत् मकर कुण्डलम् प्रेक्षणीयम् नृ-लोकस्य स अनुराग स्मित ईक्षणम् अपीव्य वयसम् मत्त मृग-इन्द्र उदार विक्रमम् पर्य-पृच्छत् महा-बुद्धिः तेजसा तस्य धर्षितः शङ्कितः शनकैः राजा दुर्धर्षम् इव तेजसा

श्रीमुचुकुन्द उवाच
को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे ।
पद्‍भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके ॥ २७ ॥

श्री-मुचुकुन्दः उवाच कः भवान् इह सम्प्राप्तः विपिने गिरि-गह्वरे पद्भ्याम् पद्म पलाशाभ्याम् विचरसि उरु-कण्टके

किंस्वित्तेजस्विनां तेजो भगवान् वा विभावसु: ।
सूर्य: सोमो महेन्द्रो वा लोकपालोऽपरोऽपि वा ॥ २८ ॥

किम् स्वित् तेजस्विनाम् तेजः भगवान् वा विभावसुः सूर्यः सोमः महा-इन्द्रः व लोक पालः अपरः अपि वा

मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् ।
यद् बाधसे गुहाध्वान्तं प्रदीप: प्रभया यथा ॥ २९ ॥

मन्ये त्वाम् देव-देवानाम् त्रयाणाम् पुरुष ऋषभम् यत् बाधसे गुह ध्वान्तम् प्रदीपः प्रभया यथा

शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव ।
स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥ ३० ॥

शुश्रूषताम् अव्यलीकम् अस्माकम् नर पुम्-गव स्व जन्म कर्म गोत्रम् वा कथ्यताम् यदि रोचते

वयं तु पुरुषव्याघ्र ऐक्ष्वाका: क्षत्रबन्धव: ।
मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मज: प्रभो ॥ ३१ ॥

वयम् तु पुरुष व्याघ्र ऐक्ष्वाकाः क्षत्र बन्धवः मुचुकुन्दः इति प्रोक्तः यौवनाश्व आत्म-जः प्रभो

चिरप्रजागरश्रान्तो निद्रयापहतेन्द्रिय: ।
शयेऽस्मिन् विजने कामं केनाप्युत्थापितोऽधुना ॥ ३२ ॥

चिर प्रजागर श्रान्तः निद्रया अपहत इन्द्रियः शये अस्मिन् विजने कामम् केन अपि उत्थापितः अधुना

सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना ।
अनन्तरं भवान् श्रीमाल्ँ लक्षितोऽमित्रशासन: ॥ ३३ ॥

सः अपि भस्मी-कृतः नूनम् आत्मीयेन एव पाप्मना अनन्तरम् भवान् श्रीमान् लक्षितः अमित्र शासनः

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुम: ।
हतौजसा महाभाग माननीयोऽसि देहिनाम् ॥ ३४ ॥

तेजसा ते अविषह्येण भूरि द्रष्टुम् न शक्नुमः हत ओजसा महा-भग माननीयः असि देहिनम्

एवं सम्भाषितो राज्ञा भगवान् भूतभावन: ।
प्रत्याह प्रहसन् वाण्या मेघनादगभीरया ॥ ३५ ॥

एवम् सम्भाषितः राज्ञा भगवान् भूत भावनः प्रत्याह प्रहसन् वाण्या मेघ नाद गभीरया

श्रीभगवानुवाच
जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रश: ।
न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि ॥ ३६ ॥

श्री-भगवान् उवाच जन्म कर्म अभिधानानि सन्ति मे अङ्ग सहस्रशः न शक्यन्ते अनुसङ्ख्यातुम् अनन्तत्वात् मया अपि हि

क्व‍‍चिद् रजांसि विममे पार्थिवान्युरुजन्मभि: ।
गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ॥ ३७ ॥

क्वचित् रजांसि विममे पार्थिवानि उरु-जन्मभिः गुण कर्म अभिधानानि न मे जन्मानि कर्हिचित्

कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ।
अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षय: ॥ ३८ ॥

काल त्रय उपपन्नानि जन्म कर्माणि मे नृप अनुक्रमन्तः न एव अन्तम् गच्छन्ति परम ऋषयः

तथाप्यद्यतनान्यङ्ग श‍ृणुष्व गदतो मम ।
विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये ।
भूमेर्भारायमाणानामसुराणां क्षयाय च ॥ ३९ ॥
अवतीर्णो यदुकुले गृह आनकदुन्दुभे: ।
वदन्ति वासुदेवेति वसुदेवसुतं हि माम् ॥ ४० ॥

तथा अपि अद्यतनानि अङ्ग शृणुष्व गदतः मम विज्ञापितः विरिञ्चेन पुरा अहम् धर्म गुप्तये भूमेः भारायमाणानाम् असुराणाम् क्षयाय च अवतीर्णः यदु कुले गृहे आनकदुन्दुभेः वदन्ति वासुदेवः इति वसुदेव-सुतम् हि माम्

कालनेमिर्हत: कंस: प्रलम्बाद्याश्च सद्‌‌द्विष: ।
अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा ॥ ४१ ॥

कालनेमिः हतः कंसः प्रलम्ब आद्याः च सत् द्विषः अयम् च यवनः दग्धः राजन् ते तिग्म चक्षुषा

सोऽहं तवानुग्रहार्थं गुहामेतामुपागत: ।
प्रार्थित: प्रचुरं पूर्वं त्वयाहं भक्तवत्सल: ॥ ४२ ॥

सः अहम् तव अनुग्रह अर्थम् गुहाम् एताम् उपागतः प्रार्थितः प्रचुरम् पूर्वम् त्वया अहम् भक्त वत्सलः

वरान्वृणीष्व राजर्षे सर्वान् कामान् ददामि ते ।
मां प्रसन्नो जन: कश्चिन्न भूयोऽर्हति शोचितुम् ॥ ४३ ॥

वरान् वृणीष्व राज-ऋषे सर्वान् कामान् ददामि ते माम् प्रसन्नः जनः कश्चित् न भूयः अर्हति शोचितुम्

श्रीशुक उवाच
इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वित: ।
ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन् ॥ ४४ ॥

श्री-शुकः उवाच इति उक्तः तम् प्रणम्य आह मुचुकुन्दः मुदा अन्वितः ज्ञात्वा नारायणम् देवम् गर्ग-वाक्यम् अनुस्मरन्

श्रीमुचुकुन्द उवाच
विमोहितोऽयं जन ईश मायया
त्वदीयया त्वां न भजत्यनर्थद‍ृक् ।
सुखाय दु:खप्रभवेषु सज्जते
गृहेषु योषित् पुरुषश्च वञ्चित: ॥ ४५ ॥

श्री-मुचुकुन्दः उवाच विमोहितः अयम् जनः ईश मायया त्वदीयया त्वाम् न भजति अनर्थ-दृक् सुखाय दुःख प्रभवेषु सज्जते गृहेषु योषित् पुरुषः च वञ्चितः

लब्ध्वा जनो दुर्लभमत्र मानुषं
कथञ्चिदव्यङ्गमयत्नतोऽनघ ।
पादारविन्दं न भजत्यसन्मति-
र्गृहान्धकूपे पतितो यथा पशु: ॥ ४६ ॥

लब्ध्वा जनः दुर्लभम् अत्र मानुषम् कथञ्चित् अव्यङ्गम् अयत्नतः अनघ पाद अरविन्दम् न भजति असत् मतिः गृह अन्ध कूपे पतितः यथा पशुः

ममैष कालोऽजित निष्फलो गतो
राज्यश्रियोन्नद्धमदस्य भूपते: ।
मर्त्यात्मबुद्धे: सुतदारकोशभू-
ष्वासज्जमानस्य दुरन्तचिन्तया ॥ ४७ ॥

मम एषः कालः अजित निष्फलः गतः राज्य श्रिया उन्नद्ध मदस्य भूपतेः मर्त्य आत्म बुद्धेः सुत दार कोश भूषु आसज्जमानस्य दुरन्त चिन्तया

कलेवरेऽस्मिन् घटकुड्यसन्निभे
निरूढमानो नरदेव इत्यहम् ।
वृतो रथेभाश्वपदात्यनीकपै-
र्गां पर्यटंस्त्वागणयन् सुदुर्मद: ॥ ४८ ॥

कलेवरे अस्मिन् घट कुड्य सन्निभे निरूढ मानः नर-देवः इति अहम् वृतः रथ इभ अश्व पदाति अनीकपैः गाम् पर्यटन् त्वा अगणयन् सु-दुर्मदः

प्रमत्तमुच्चैरितिकृत्यचिन्तया
प्रवृद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्त: सहसाभिपद्यसे
क्षुल्ल‍ेलिहानोऽहिरिवाखुमन्तक: ॥ ४९ ॥

प्रमत्तम् उच्चैः इति-कृत्य चिन्तया प्रवृद्ध लोभम् विषयेषु लालसम् त्वम् अप्रमत्तः सहसा अभिपद्यसे क्षुत् लेलिहानः अहिः इव आखुम् अन्तकः

पुरा रथैर्हेमपरिष्कृतैश्चरन्
मतंगजैर्वा नरदेवसंज्ञित: ।
स एव कालेन दुरत्ययेन ते
कलेवरो विट्कृमिभस्मसंज्ञित: ॥ ५० ॥

पुरा रथैः हेम परिष्कृतैः चरन् मतम् गजैः वा नर-देव संज्ञितः सः एव कालेन दुरत्ययेन ते कलेवरः विट् कृमि भस्म संज्ञितः

निर्जित्य दिक्‌च‌क्रमभूतविग्रहो
वरासनस्थ: समराजवन्दित: ।
गृहेषु मैथुन्यसुखेषु योषितां
क्रीडामृग: पूरुष ईश नीयते ॥ ५१ ॥

निर्जित्य दिक् चक्रम् अभूत विग्रहः वर-आसन स्थः सम राज वन्दितः गृहेषु मैथुन्य सुखेषु योषिताम् क्रीडा-मृगः पुरुषः ईश नीयते

करोति कर्माणि तप:सुनिष्ठितो
निवृत्तभोगस्तदपेक्षयाददत् ।
पुनश्च भूयासमहं स्वराडिति
प्रवृद्धतर्षो न सुखाय कल्पते ॥ ५२ ॥

करोति कर्माणि तपः सु-निष्ठितः निवृत्त भोगः तत् अपेक्षया अददत् पुनः च भूयासम् अहम् स्व-राट् इति प्रवृद्ध तर्षः न सुखाय कल्पते

भवापवर्गो भ्रमतो यदा भवे-
ज्जनस्य तर्ह्यच्युत सत्समागम: ।
सत्सङ्गमो यर्हि तदैव सद्गतौ
परावरेशे त्वयि जायते मति: ॥ ५३ ॥

भव अपवर्गः भ्रमतः यदा भवेत् जनस्य तर्हि अच्युत सत् समागमः सत्-सण्गमः यर्हि तदा एव सत् गतौ पर अवर ईशे त्वयि जायते मतिः

मन्ये ममानुग्रह ईश ते कृतो
राज्यानुबन्धापगमो यद‍ृच्छया ।
य: प्रार्थ्यते साधुभिरेकचर्यया
वनं विविक्षद्भ‍िरखण्डभूमिपै: ॥ ५४ ॥

मन्ये मम अनुग्रहः ईश ते कृतः राज्य अनुबन्ध अपगमः यदृच्छया यः प्रार्थ्यते साधुभिः एक-चर्यया वनम् विविक्षद्भिः अखण्ड भूमि पैः

न कामयेऽन्यं तव पादसेवना-
दकिञ्चनप्रार्थ्यतमाद्वरं विभो ।
आराध्य कस्त्वां ह्यपवर्गदं हरे
वृणीत आर्यो वरमात्मबन्धनम् ॥ ५५ ॥

न कामये अन्यम् तव पाद सेवनात् अकिञ्चन प्रार्थ्य-तमात् वरम् विभो आराध्य कः त्वाम् हि अपवर्ग दम् हरे वृणीत आर्यः वरम् आत्म बन्धनम्

तस्माद्विसृज्याशिष ईश सर्वतो
रजस्तम:सत्त्वगुणानुबन्धना: ।
निरञ्जनं निर्गुणमद्वयं परं
त्वां ज्ञाप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ ५६ ॥

तस्मात् विसृज्य आशिषः ईश सर्वतः रजः तमः सत्त्व गुण अनु-बन्धनाः निरञ्जनम् निर्गुणम् अद्वयम् परम् त्वाम् ज्ञाप्ति-मात्रम् पुरुषम् व्रजामि अहम्

चिरमिह वृजिनार्तस्तप्यमानोऽनुतापै-
रवितृषषडमित्रोऽलब्धशान्ति: कथञ्चित् ।
शरणद समुपेतस्त्वत्पदाब्जं परात्म-
नभयमृतमशोकं पाहि मापन्नमीश ॥ ५७ ॥

चिरम् इह वृजिन आर्तः तप्यमानः अनुतापैः अवितृष षट् अमित्रः अलब्ध शान्तिः कथञ्चित् शरण द समुपेतः त्वत् पद-अब्जम् पर-आत्मन् अभयम् ऋतम् अशोकम् पाहि मा आपन्नम् ईश

श्रीभगवानुवाच
सार्वभौम महाराज मतिस्ते विमलोर्जिता ।
वरै: प्रलोभितस्यापि न कामैर्विहता यत: ॥ ५८ ॥

श्री-भगवान् उवाच सार्वभौम महा-राज मतिः ते विमल ऊर्जिता वरैः प्रलोभितस्य अपि न कामैः विहता यतः

प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत् ।
न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्व‍‍चित् ॥ ५९ ॥

प्रलोभितः वरैः यत् त्वम् अप्रमादाय विद्धि तत् न धीः एकान्त भक्तानाम् आशीर्भिः भिद्यते क्वचित्

युञ्जानानामभक्तानां प्राणायामादिभिर्मन: ।
अक्षीणवासनं राजन् द‍ृश्यते पुनरुत्थितम् ॥ ६० ॥

युञ्जानानाम् अभक्तानाम् प्राणायाम आदिभिः मनः अक्षीण वासनम् राजन् दृश्यते पुनः उत्थितम्

विचरस्व महीं कामं मय्यावेशितमानस: ।
अस्त्वेवं नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी ॥ ६१ ॥

विचरस्व महीम् कामम् मयि आवेशित मानसः अस्तु एवम् नित्यदा तुभ्यम् भक्तिः मयि अनपायिनी

क्षात्रधर्मस्थितो जन्तून् न्यवधीर्मृगयादिभि: ।
समाहितस्तत्तपसा जह्यघं मदुपाश्रित: ॥ ६२ ॥

क्षात्र धर्म स्थितः जन्तून् न्यवधीः मृगया आदिभिः समाहितः तत् तपसा जहि अघम् मत् उपाश्रितः

जन्मन्यनन्तरे राजन् सर्वभूतसुहृत्तम: ।
भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् ॥ ६३ ॥

जन्मनि अनन्तरे राजन् सर्व भूत सुहृत्-तमः भूत्वा द्विज-वरः त्वम् वै मम् उपैष्यसि केवलम्

१०.५२

श्रीशुक उवाच
इत्थं सोऽनग्रहीतोऽङ्ग कृष्णेनेक्ष्वाकुनन्दन: ।
तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् ॥ १ ॥

श्री-शुकः उवाच इत्थम् सः अनुग्रहीतः अङ्ग कृष्णेन इक्ष्वाकु-नन्दनः तम् परिक्रम्य सन्नम्य निश्चक्राम गुहा मुखात्

संवीक्ष्य क्षुल्ल‍कान् मर्त्यान् पशून्वीरुद्वनस्पतीन् ।
मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् ॥ २ ॥

संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुत् वनस्पतीन् मत्वा कलि-युगम् प्राप्तम् जगाम दिशम् उत्तराम्

तप:श्रद्धायुतो धीरो नि:सङ्गो मुक्तसंशय: ।
समाधाय मन: कृष्णे प्राविशद् गन्धमादनम् ॥ ३ ॥

तपः श्रद्धा युतः धीरः निःसङ्गः मुक्त संशयः समाधाय मनः कृष्णे प्राविशत् गन्धमादनम्

बदर्याश्रममासाद्य नरनारायणालयम् ।
सर्वद्वन्द्वसह: शान्तस्तपसाराधयद्धरिम् ॥ ४ ॥

बदरी-आश्रमम् आसाद्य नर-नारायण आलयम् सर्व द्वन्द्व सहः शान्तः तपसा आराधयत् हरिम्

भगवान् पुनराव्रज्य पुरीं यवनवेष्टिताम् ।
हत्वा म्‍लेच्छबलं निन्ये तदीयं द्वारकां धनम् ॥ ५ ॥

भगवान् पुनः आव्रज्य पुरीम् यवन वेष्टिताम् हत्वा म्लेच्छ बलम् निन्ये तदीयम् द्वारकाम् धनम्

नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितै: ।
आजगाम जरासन्धस्‍त्रयोविंशत्यनीकप: ॥ ६ ॥

नीयमाने धने गोभिः नृभिः च अच्युत चोदितैः आजुगाम जरासन्धः त्रयः विंशति अनीक पः

विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ ।
मनुष्यचेष्टामापन्नौ राजन् दुद्रुवतुर्द्रुतम् ॥ ७ ॥

विलोक्य वेग रभसम् रिपु सैन्यस्य माधवौ मनुष्य चेष्टाम् आपन्नौ राजन् दुद्रुवतुः द्रुतम्

विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत् ।
पद्‍भ्यां पद्मपलाशाभ्यां चेलतुर्बहुयोजनम् ॥ ८ ॥

विहाय वित्तम् प्रचुरम् अभीतौ भीरु भीत-वत् पद्भ्याम् पद्म पलाशाभ्याम् चेलतुः बहु-योजनम्

पलायमानौ तौ द‍ृष्ट्वा मागध: प्रहसन्बली ।
अन्वधावद् रथानीकैरीशयोरप्रमाणवित् ॥ ९ ॥

पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली अन्वधावत् रथ अनीकैः ईशयोः अप्रमाण-वित्

प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम् ।
प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति ॥ १० ॥

प्रद्रुत्य दूरम् संश्रान्तौ तुङ्गम् आरुहताम् गिरिम् प्रवर्षण-आख्यम् भगवान् नित्यदा यत्र वर्षति

गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप ।
ददाह गिरिमेधोभि: समन्तादग्निमुत्सृजन् ॥ ११ ॥

गिरौ निलीनौ आज्ञाय न अधिगम्य पदम् नृप ददाह गिरिम् एधोभिः समन्तात् अग्निम् उत्सृजन्

तत उत्पत्य तरसा दह्यमानतटादुभौ ।
दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि ॥ १२ ॥

ततः उत्पत्य तरसा दह्यमान तटात् उभौ दश-एक योजनात् तुङ्गात् निपेततुः अधः भुवि

अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ ।
स्वपुरं पुनरायातौ समुद्रपरिखां नृप ॥ १३ ॥

अलक्ष्यमाणौ रिपुणा स अनुगेन यदु उत्तमौ स्व-पुरम् पुनः आयातौ समुद्र परिखाम् नृप

सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ ।
बलमाकृष्य सुमहन्मगधान् मागधो ययौ ॥ १४ ॥

सः अपि दग्धौ इति मृषा मन्वानः बल-केशवौ बलम् आकृष्य सु-महत् मगधान् मागधः ययौ

आनर्ताधिपति: श्रीमान् रैवतो रैवतीं सुताम् ।
ब्रह्मणा चोदित: प्रादाद् बलायेति पुरोदितम् ॥ १५ ॥

आनर्त अधिपतिः श्रीमान् रैवतः रैवतीम् सुताम् ब्रह्मणा चोदितः प्रादात् बलाय इति पुरा उदितम्

भगवानपि गोविन्द उपयेमे कुरूद्वह ।
वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे ॥ १६ ॥
प्रमथ्य तरसा राज्ञ: शाल्वादींश्चैद्यपक्षगान् ।
पश्यतां सर्वलोकानां तार्क्ष्यपुत्र: सुधामिव ॥ १७ ॥

भगवान् अपि गोविन्दः उपयेमे कुरु-उद्वह वैदर्भीम् भीष्मक-सुताम् श्रियः मात्राम् स्वयम्-वरे प्रमथ्य तरसा राज्ञः शाल्व-आदीन् चैद्य पक्ष-गान् पश्यताम् सर्व लोकानाम् तार्क्ष्य-पुत्रः सुधाम् इव

श्रीराजोवाच
भगवान् भीष्मकसुतां रुक्‍मिणीं रुचिराननाम् ।
राक्षसेन विधानेन उपयेम इति श्रुतम् ॥ १८ ॥

श्री-राजा उवाच भगवान् भीष्मक-सुताम् उक्मिणीम् रुचिर आननाम् राक्षसेन विधानेन उपयेमे इति श्रुतम्

भगवन् श्रोतुमिच्छामि कृष्णस्यामिततेजस: ।
यथा मागधशाल्वादीन् जित्वा कन्यामुपाहरत् ॥ १९ ॥

भगवन् श्रोतुम् इच्छामि कृष्णस्य अमित तेजसः यथा मागध-शाल्व-आदीन् जित्वा कन्याम् उपाहरत्

ब्रह्मन् कृष्णकथा: पुण्या माध्वीर्लोकमलापहा: ।
को नु तृप्येत श‍ृण्वान: श्रुतज्ञो नित्यनूतना: ॥ २० ॥

ब्रह्मन् कृष्ण-कथाः पुण्याः माध्वीः लोक मल अपहाः कः नु तृप्येत शृण्वानः श्रुत ज्ञः नित्य नूतनाः

श्रीबादरायणिरुवाच
राजासीद् भीष्मको नाम विदर्भाधिपतिर्महान् ।
तस्य पञ्चाभवन् पुत्रा: कन्यैका च वरानना ॥ २१ ॥

श्री-बादरायणिः उवाच राजा आसीत् भीष्मकः नाम विदर्भ-अधिपतिः महान् तस्य पञ्च अभवन् पुत्राः कन्या एका च वर आनना

रुक्‍म्यग्रजो रुक्‍मरथो रुक्‍मबाहुरनन्तर: ।
रुक्‍मकेशो रुक्‍ममाली रुक्‍मिण्येषा स्वसा सती ॥ २२ ॥

रुक्मी अग्र-जः रुक्म-रथः रुक्मबाहुः अनन्तरः रुक्म-केशः रुक्म-माली रुक्मिणी एषा स्वसा सती

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रिय: ।
गृहागतैर्गीयमानास्तं मेने सद‍ृशं पतिम् ॥ २३ ॥

सा उपश्रुत्य मुकुन्दस्य रूप वीर्य गुण श्रियः गृह आगतैः गीयमानाः तम् मेने सदृशम् पतिम्

तां बुद्धिलक्षणौदार्यरूपशीलगुणाश्रयाम् ।
कृष्णश्च सद‍ृशीं भार्यां समुद्वोढुं मनो दधे ॥ २४ ॥

ताम् बुद्धि लक्षण औदार्य रूप शील गुण आश्रयाम् कृष्णः च सदृशीम् भार्याम् समुद्वोढुम् मनः दधे

बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप ।
ततो निवार्य कृष्णद्विड् रुक्‍मी चैद्यममन्यत ॥ २५ ॥

बन्धूनाम् इच्छताम् दातुम् कृष्णाय भगिनीम् नृप ततः निवार्य कृष्ण-द्विट् रुक्मी चैद्यम् अमन्यत

तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् ।
विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद्‌द्रुतम् ॥ २६ ॥

तत् अवेत्य असित अपाङ्गी वैदर्भी दुर्मना भृशम् विचिन्त्य आप्तम् द्विजम् कञ्चित् कृष्णाय प्राहिणोत् द्रुतम्

द्वारकां स समभ्येत्य प्रतीहारै: प्रवेशित: ।
अपश्यदाद्यं पुरुषमासीनं काञ्चनासने ॥ २७ ॥

द्वारकाम् सः समभ्येत्य प्रतीहारैः प्रवेशितः अपश्यत् आद्यम् पुरुषम् आसीनम् काञ्चन आसने

द‍ृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात् ।
उपवेश्यार्हयां चक्रे यथात्मानं दिवौकस: ॥ २८ ॥

दृष्ट्वा ब्रह्मण्य देवः तम् अवरुह्य निज आसनात् उपवेश्य अर्हयाम् चक्रे यथा आत्मानम् दिव-ओकसः

तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गति: ।
पाणिनाभिमृशन् पादावव्यग्रस्तमपृच्छत ॥ २९ ॥

तम् भुक्तवन्तम् विश्रान्तम् उपगम्य सताम् गतिः पाणिना अभिमृशन् पादौ अव्यग्रः तम् अपृच्छत

कच्चिद् द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मत: ।
वर्तते नातिकृच्छ्रेण सन्तुष्टमनस: सदा ॥ ३० ॥

कच्चित् द्विज वर श्रेष्ठ धर्मः ते वृद्ध सम्मतः वर्तते न अति कृच्छ्रेण सन्तुष्ट मनसः सदा

सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् ।
अहीयमान: स्वद्धर्मात् स ह्यस्याखिलकामधुक् ॥ ३१ ॥

सन्तुष्टः यर्हि वर्तेत ब्राह्मणः येन केनचित् अहीयमानः स्वात् धर्मात् सः हि अस्य अखिल काम-धुक्

असन्तुष्टोऽसकृल्ल‍ोकानाप्नोत्यपि सुरेश्वर: ।
अकिञ्चनोऽपि सन्तुष्ट: शेते सर्वाङ्गविज्वर: ॥ ३२ ॥

असन्तुष्टः असकृत् लोकान् आप्नोति अपि सुर ईश्वरः अकिञ्चनः अपि सन्तुष्टः शेते सर्व अङ्ग विज्वरः

विप्रान् स्वलाभसन्तुष्टान् साधून् भूतसुहृत्तमान् ।
निरहङ्कारिण: शान्तान् नमस्ये शिरसासकृत् ॥ ३३ ॥

विप्रान् स्व लाभ सन्तुष्टान् साधून् भूत सुहृत्-तमान् निरहङ्कारिणः शान्तान् नमस्ये शिरसा असकृत्

कच्चिद् व: कुशलं ब्रह्मन् राजतो यस्य हि प्रजा: ।
सुखं वसन्ति विषये पाल्यमाना: स मे प्रिय: ॥ ३४ ॥

कच्चित् वः कुशलम् ब्रह्मन् राजतः यस्य हि प्रजाः सुखम् वसन्ति विषये पाल्यमानाः सः मे प्रियः

यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया ।
सर्वं नो ब्रूह्यगुह्यं चेत् किं कार्यं करवाम ते ॥ ३५ ॥

यतः त्वम् आगतः दुर्गम् निस्तीर्य इह यत् इच्छया सर्वम् नः ब्रूहि अगुह्यम् चेत् किम् कार्यम् करवाम ते

एवं सम्पृष्टसम्प्रश्न‍ो ब्राह्मण: परमेष्ठिना ।
लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् ॥ ३६ ॥

एवम् सम्पृष्ट सम्प्रश्नः ब्राह्मणः परमेष्ठिना लील गृहीत देहेन तस्मै सर्वम् अवर्णयत्

श्रीरुक्‍मिण्युवाच
श्रुत्वा गुणान् भुवनसुन्दर श‍ृण्वतां ते
निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् ।
रूपं द‍ृशां द‍ृशिमतामखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३७ ॥

श्री-रुक्मिणी उवाच श्रुत्वा गुणान् भुवन सुन्दर शृण्वताम् ते निर्विश्य कर्ण विवरैः हरतः अङ्ग तापम् रूपम् दृशाम् दृशि-मताम् अखिल अर्थ लाभम् त्वयि अच्युत आविशति चित्तम् अपत्रपम् मे

का त्वा मुकुन्द महती कुलशीलरूप-
विद्यावयोद्रविणधामभिरात्मतुल्यम् ।
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोकमनोऽभिरामम् ॥ ३८ ॥

का त्वा मुकुन्द महती कुल शील रूप विद्या वयः द्रविण धामभिः आत्म तुल्यम् धीरा पतिम् कुल-वती न वृणीत कन्या काले नृ सिंह नर-लोक मनः अभिरामम्

तन्मे भवान् खलु वृत: पतिरङ्ग जाया-
मात्मार्पितश्च भवतोऽत्र विभो विधेहि ।
मा वीरभागमभिमर्शतु चैद्य आराद्
गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ॥ ३९ ॥

तत् मे भवान् खलु वृतः पतिः अङ्ग जायाम् आत्मा अर्पितः च भवतः अत्र विभो विधेहि मा वीर भागम् अभिमर्शतु चैद्यः आरात् गोमायु-वत् मृग-पतेः बलिम् अम्बुज-अक्ष

पूर्तेष्टदत्तनियमव्रतदेवविप्र-
गुर्वर्चनादिभिरलं भगवान् परेश: ।
आराधितो यदि गदाग्रज एत्य पाणिं
गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥ ४० ॥

पूर्त इष्ट दत्त नियम व्रत देव विप्र गुरु अर्चन आदिभिः अलम् भगवान् पर ईशः आराधितः यदि गद-अग्रजः एत्य पाणिम् गृह्णातु मे न दमघोष-सुत आदयः अन्ये

श्वोभाविनि त्वमजितोद्वहने विदर्भान्
गुप्त: समेत्य पृतनापतिभि: परीत: ।
निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ॥ ४१ ॥

श्वः भाविनि त्वम् अजित उद्वहने विदर्भान् गुप्तः समेत्य पृतना पतिभिः परीतः निर्मथ्य चैद्य मगध-इन्द्र बलम् प्रसह्य माम् राक्षसेन विधिना उद्वह वीर्य शुल्काम्

अन्त:पुरान्तरचरीमनिहत्य बन्धून्-
त्वामुद्वहे कथमिति प्रवदाम्युपायम् ।
पूर्वेद्युरस्ति महती कुलदेवयात्रा
यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥ ४२ ॥

अन्तः-पुर अन्तर चरीम् अनिहत्य बन्धून् त्वाम् उद्वहे कथम् इति प्रवदामि उपायम् पूर्वे-द्युः अस्ति महती कुल देव यात्रा यस्याम् बहिः नव वधूः गिरिजाम् उपेयात्

यस्याङ्‍‍घ्रिपङ्कजरज:स्‍नपनं महान्तो
वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै ।
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं
जह्यामसून्व्रतकृशान् शतजन्मभि: स्यात् ॥ ४३ ॥

यस्य अङ्घ्रि पङ्कज रजः स्नपनम् महान्तः वाञ्छन्ति उमा-पतिः इव आत्म तमः अपहत्यै यर्हि अम्बुज-अक्ष न लभेय भवत् प्रसादम् जह्याम् असून् व्रत कृशान् शत जन्मभिः स्यात्

ब्राह्मण उवाच
इत्येते गुह्यसन्देशा यदुदेव मयाहृता: ।
विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् ॥ ४४ ॥

ब्राह्मणः उवाच इति एते गुह्य सन्देशाः यदु-देव मया आहृताः विमृश्य कर्तुम् यत् च अत्र क्रियताम् तत् अनन्तरम्

१०.५३

श्रीशुक उवाच
वैदर्भ्या: स तु सन्देशं निशम्य यदुनन्दन: ।
प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥ १ ॥

श्री-शुकः उवाच वैदर्भ्याः सः तु सन्देशम् निशम्य यदु-नन्दनः प्रगृह्य पाणिना पाणिम् प्रहसन् इदम् अब्रवीत्

श्रीभगवानुवाच
तथाहमपि तच्चित्तो निद्रां च न लभे निशि ।
वेदाहं रुक्‍मिणा द्वेषान्ममोद्वाहो निवारित: ॥ २ ॥

श्री-भगवान् उवाच तथा अहम् अपि तत् चित्तः निद्राम् च न लभे निशि वेद अहम् रुक्मिणा द्वेषात् मम उद्वाहः निवारितः

तामानयिष्य उन्मथ्य राजन्यापसदान् मृधे ।
मत्परामनवद्याङ्गीमेधसोऽग्निशिखामिव ॥ ३ ॥

ताम् आनयिष्ये उन्मथ्य राजन्य अपसदान् मृधे मत् पराम् अनवद्य अङ्गीम् एधसः अग्नि शिखाम् इव

श्रीशुक उवाच
उद्वाहर्क्षं च विज्ञाय रुक्‍मिण्या मधुसूदन: ।
रथ: संयुज्यतामाशु दारुकेत्याह सारथिम् ॥ ४ ॥

श्री-शुकः उवाच उद्वाह ऋक्षम् च विज्ञाय उक्मिण्याः मधुसूदनः रथः संयुज्यताम् आशु दारुक इति आह सारथिम्

स चाश्वै: शैब्यसुग्रीवमेघपुष्पबलाहकै: ।
युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रत: ॥ ५ ॥

सः च अश्वैः शैब्य-सुग्रीव-मेघपुष्प-बलाहकैः युक्तम् रथम् उपानीय तस्थौ प्राञ्जलिः अग्रतः

आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगै: ।
आनर्तादेकरात्रेण विदर्भानगमद्धयै: ॥ ६ ॥

आरुह्य स्यन्दनम् शौरिः द्विजम् आरोप्य तूर्ण-गैः आनर्तात् एक रात्रेण विदर्भान् अगमत् हयैः

राजा स कुण्डिनपति: पुत्रस्‍नेहवशानुग: ।
शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् ॥ ७ ॥

राजा सः कुण्डिन-पतिः पुत्र स्नेह वश अनुगः शिशुपालाय स्वाम् कन्याम् दास्यन् कर्माणि अकारयत्

पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् ।
चित्रध्वजपताकाभिस्तोरणै: समलङ्कृतम् ॥ ८ ॥
स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितै: ।
जुष्टं स्‍त्रीपुरुषै: श्रीमद्गृहैरगुरुधूपितै: ॥ ९ ॥

पुरम् सम्मृष्ट संसिक्त मार्ग रथ्या चतुः-पथम् चित्र ध्वज पताकाभिः तोरणैः समलङ्कृतम् स्रक् गन्ध माल्य आभरणैः विरजः अम्बर भूषितैः जुष्टम् स्त्री पुरुषैः श्री-मत् गृहैः अगुरु-धूपितैः

पितृन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप ।
भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥ १० ॥

पितॄन् देवान् समभ्यर्च्य विप्रान् च विधि-वत् नृप भोजयित्वा यथा न्यायम् वाचयाम् आस मङ्गलम्

सुस्‍नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् ।
आहतांशुकयुग्मेन भूषितां भूषणोत्तमै: ॥ ११ ॥

सु-स्नाताम् सु-दतीम् कन्याम् कृत कौतुक-मङ्गलाम् आहत अंशुक युग्मेन भूषिताम् भूषण उत्तमैः

चक्रु: सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमा: ।
पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये ॥ १२ ॥

चक्रुः साम-ऋग्-यजुः मन्त्रैः वध्वाः रक्षाम् द्विज-उत्तमः पुरोहितः अथर्व-वित् वै जुहाव ग्रह शान्तये

हिरण्यरूप्यवासांसि तिलांश्च गुडमिश्रितान् ।
प्रादाद् धेनूश्च विप्रेभ्यो राजा विधिविदां वर: ॥ १३ ॥

हिरण्य रूप्य वासांसि तिलान् च गुड मिश्रितान् प्रादात् धेनूः च विप्रेभ्यः राजा विधि विदाम् वरः

एवं चेदिपती राजा दमघोष: सुताय वै ।
कारयामास मन्त्रज्ञै: सर्वमभ्युदयोचितम् ॥ १४ ॥

एवम् चेदि-पतिः राजा दमघोषः सुताय वै कारयाम् आस मन्त्र-ज्ञैः सर्वम् अभ्युदय उचितम्

मदच्युद्भ‍िर्गजानीकै: स्यन्दनैर्हेममालिभि: ।
पत्त्यश्वसङ्कुलै: सैन्यै: परीत: कुण्डिनं ययौ ॥ १५ ॥

मद च्युद्भिः गज अनीकैः स्यन्दनैः हेम मालिभिः पत्ति अश्व सङ्कुलैः सैन्यैः परीतः कुण्डिनम् ययौ

तं वै विदर्भाधिपति: समभ्येत्याभिपूज्य च ।
निवेशयामास मुदा कल्पितान्यनिवेशने ॥ १६ ॥

तम् वै विदर्भ-अधिपतिः समभ्येत्य अभिपूज्य च निवेशयाम् आस मुदा कल्पित अन्य निवेशने

तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथ: ।
आजग्मुश्चैद्यपक्षीया: पौण्ड्रकाद्या: सहस्रश: ॥ १७ ॥

तत्र शाल्वः जरासन्धः दन्तवक्रः विदूरथः आजग्मुः चैद्य पक्षीयाः पौण्ड्रक आद्याः सहस्रशः

कृष्णरामद्विषो यत्ता: कन्यां चैद्याय साधितुम् ।
यद्यागत्य हरेत् कृष्णो रामाद्यैर्यदुभिर्वृत: ॥
१८ ॥ योत्स्याम: संहतास्तेन इति निश्चितमानसा: ।
आजग्मुर्भूभुज: सर्वे समग्रबलवाहना: ॥ १९


कृष्ण-राम-द्विषः यत्ताः कन्याम् चैद्याय साधितुम् यदि आगत्य हरेत् कृष्णः राम आद्यैः यदुभिः वृतः योत्स्यामः संहताः तेन इति निश्चित-मानसाः आजग्मुः भू-भुजः सर्वे समग्र बल वाहनाः

श्रुत्वैतद् भगवान् रामो विपक्षीयनृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कित: ॥ २० ॥
बलेन महता सार्धं भ्रातृस्‍नेहपरिप्लुत: ।
त्वरित: कुण्डिनं प्रागाद् गजाश्वरथपत्तिभि: ॥ २१ ॥

श्रुत्वा एतत् भगवान् रामः विपक्षीय नृप उद्यमम् कृष्णम् च एकम् गतम् हर्तुम् कन्याम् कलह शङ्कितः बलेन महता सार्धम् भ्रातृ स्नेह परिप्लुतः त्वरितः कुण्डिनम् प्रागात् गज अश्व रथ पत्तिभिः

भीष्मकन्या वरारोहा काङ्‍क्षन्त्यागमनं हरे: ।
प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥
२२ ॥

भीष्म-कन्या वर-आरोहा काङ्क्षन्ती आगमनम् हरेः प्रत्यापत्तिम् अपश्यन्ती द्विजस्य अचिन्तयत् तदा

अहो त्रियामान्तरित उद्वाहो मेऽल्पराधस: ।
नागच्छत्यरविन्दाक्षो नाहं वेद्‍म्यत्र कारणम् ।
सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विज: ॥ २३ ॥

अहो त्रि-याम अन्तरितः उद्वाहः मे अल्प राधसः न आगच्छति अरविन्द-अक्षः न अहम् वेद्मि अत्र कारणम् सः अपि न आवर्तते अद्य अपि मत् सन्देश हरः द्विजः

अपि मय्यनवद्यात्मा द‍ृष्ट्वा किञ्चिज्जुगुप्सितम् ।
मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यम: ॥
२४ ॥

अपि मयि अनवद्य आत्मा दृष्ट्वा किञ्चित् जुगुप्सितम् मत् पाणि ग्रहणे नूनम् न आयाति हि कृत-उद्यमः

दुर्भगाया न मे धाता नानुकूलो महेश्वर: ।
देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥
२५ ॥

दुर्भगायाः न मे धाता न अनुकूलः महा-ईश्वरः देवी वा विमुखी गौरी रुद्राणी गिरि-जा सती

एवं चिन्तयती बाला गोविन्दहृतमानसा ।
न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ २६ ॥

एवम् चिन्तयती बाला गोविन्द हृत मानसा न्यमीलयत काल ज्ञा नेत्रे च अश्रु-कला आकुले

एवं वध्वा: प्रतीक्षन्त्या गोविन्दागमनं नृप ।
वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिण: ॥ २७


एवम् वध्वाः प्रतीक्षन्त्याः गोविन्द-आगमनम् नृप वामः ऊरुः भुजः नेत्रम् अस्फुरन् प्रिय भाषिणः

अथ कृष्णविनिर्दिष्ट: स एव द्विजसत्तम: ।
अन्त:पुरचरीं देवीं राजपुत्रीं ददर्श ह ॥ २८ ॥

अथ कृष्ण-विनिर्दिष्टः सः एव द्विज सत्-तमः अन्तः-पुर चरीम् देवीम् राज पुत्रीम् ददर्श ह

सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती ।
आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता ॥ २९ ॥

स तम् प्रहृष्ट वदनम् अव्यग्र आत्म गतिम् सती आलक्ष्य लक्षण अभिज्ञा समपृच्छत् शुचि स्मिता

तस्या आवेदयत् प्राप्तं शशंस यदुनन्दनम् ।
उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥ ३० ॥

तस्याः आवेदयत् प्राप्तम् शशंस यदु-नन्दनम् उक्तम् च सत्य वचनम् आत्म उपनयनम् प्रति

तमागतं समाज्ञाय वैदर्भी हृष्टमानसा ।
न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ ३१ ॥

तम् आगतम् समाज्ञाय वैदर्भी हृष्ट मानसा न पश्यन्ती ब्राह्मणाय प्रियम् अन्यत् ननाम सा

प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ ।
अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणै: ॥ ३२ ॥

प्राप्तौ श्रुत्वा स्व दुहितुः उद्वाह प्रेक्षण उत्सुकौ अभ्ययात् तूर्य घोषेण. राम-कृष्णौ समर्हणैः

मधुपर्कमुपानीय वासांसि विरजांसि स: ।
उपायनान्यभीष्टानि विधिवत् समपूजयत् ॥ ३३ ॥

मधु-पर्कम् उपानीय वासांसि विरजांसि सः उपायनानि अभीष्टानि विधि-वत् समपूजयत्

तयोर्निवेशनं श्रीमदुपाकल्प्य महामति: ।
ससैन्ययो: सानुगयोरातिथ्यं विदधे यथा ॥ ३४ ॥

तयोः निवेशनम् श्री-मत् उपाकल्प्य महा-मतिः स सैन्ययोः स अनुगयोः आतिथ्यम् विदधे यथा

एवं राज्ञां समेतानां यथावीर्यं
यथावय: ।
यथाबलं यथावित्तं सर्वै: कामै: समर्हयत् ॥ ३५ ॥

एवम् राज्ञाम् समेतानाम् यथा वीर्यम् यथा वयः यथा बलम् यथा वित्तम् सर्वैः कामैः समर्हयत्

कृष्णमागतमाकर्ण्य
विदर्भपुरवासिन: ।
आगत्य नेत्राञ्जलिभि: पपुस्तन्मुखपङ्कजम् ॥ ३६ ॥

कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर वासिनः आगत्य नेत्र अञ्जलिभिः पपुः तत् मुख पङ्कजम्

अस्यैव भार्या भवितुं रुक्‍मिण्यर्हति
नापरा ।
असावप्यनवद्यात्मा भैष्म्या: समुचित: पति: ॥ ३७ ॥

अस्य एव भार्या भवितुम् रुक्मिणी अर्हति न अपरा असौ अपि अनवद्य आत्मा भैष्म्याः समुचितः पतिः

किञ्चित्सुचरितं यन्नस्तेन
तुष्टस्‍त्रिलोककृत् ।
अनुगृह्णातु गृह्णातु वैदर्भ्या: पाणिमच्युत: ॥
३८ ॥

किञ्चित् सु-चरितम् यत् नः तेन तुष्टः त्रि-लोक कृत् अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः

एवं प्रेमकलाबद्धा वदन्ति स्म
पुरौकस: ।
कन्या चान्त:पुरात् प्रागाद् भटैर्गुप्ताम्बिकालयम् ॥ ३९ ॥

एवम् प्रेम कला बद्धाः वदन्ति स्म पुर-ओकसः कन्या च अन्तः-पुरात् प्रागात् भटैः गुप्ता अम्बिका-आलयम्

पद्‍भ्यां विनिर्ययौ द्रष्टुं भवान्या: पादपल्ल‍वम् ।
सा चानुध्यायती सम्यङ्‍मुकुन्दचरणाम्बुजम् ॥ ४० ॥
यतवाङ्‍मातृभि: सार्धं सखीभि: परिवारिता ।
गुप्ता राजभटै: शूरै: सन्नद्धैरुद्यतायुधै: ।
मृदङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ॥ ४१ ॥

पद्भ्याम् विनिर्ययौ द्रष्टुम् भवान्याः पाद-पल्लवम् सा च अनुध्यायती सम्यक् मुकुन्द चरण-अम्बुजम् यत-वाक् मातृभिः सार्धम् सखीभिः परिवारिता गुप्ता राज भटैः शूरैः सन्नद्धैः उद्यत आयुधैः मृदङ्ग-शङ्ख-पणवाः तूर्य भेर्यः च जघ्निरे

नानोपहारबलिभिर्वारमुख्या: सहस्रश: ।
स्रग्गन्धवस्‍त्राभरणैर्द्विजपत्न्‍य: स्वलङ्कृता: ॥ ४२ ॥
गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादका: ।
परिवार्य वधूं जग्मु: सूतमागधवन्दिन: ॥ ४३ ॥

नाना उपहार बलिभिः वार-मुख्याः सहस्रशः स्रक् गन्ध वस्त्र आभरणैः द्विज पत्न्यः स्व्-अलङ्कृताः गायन्त्यः च स्तुवन्तः च गायकाः वाद्य-वादकाः परिवार्य वधूम् जग्मुः सूत मागध वन्दिनः

आसाद्य देवीसदनं धौतपादकराम्बुजा ।
उपस्पृश्य शुचि: शान्ता प्रविवेशाम्बिकान्तिकम् ॥ ४४ ॥

आसाद्य देवी सदनम् धौत पाद कर अम्बुजा उपस्पृश्य शुचिः शान्ता प्रविवेश अम्बिका-अन्तिकम्

तां वै प्रवयसो बालां विधिज्ञा विप्रयोषित: ।
भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम् ॥ ४५ ॥

ताम् वै प्रवयसः बालाम् विधि ज्ञाः विप्र योषितः भवानीम् वन्दयाम् चक्रुः भव-पत्नीम् भव-अन्विताम्

नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् ।
भूयात् पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४६ ॥

नमस्ये त्वा अम्बिके अभीक्ष्णम् स्व सन्तान युताम् शिवाम् भूयात् पतिः मे भगवान् कृष्णः तत् अनुमोदताम्

अद्भ‍िर्गन्धाक्षतैर्धूपैर्वास:स्रङ्‍माल्यभूषणै: ।
नानोपहारबलिभि: प्रदीपावलिभि: पृथक् ॥ ४७ ॥
विप्रस्‍त्रिय: पतिमतीस्तथा तै: समपूजयत् ।
लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभि: ॥ ४८ ॥

अद्भिः गन्ध अक्षतैः धूपैः वासः स्रक् माल्य भूषणैः नाना उपहार बलिभिः प्रदीप आवलिभिः पृथक् विप्र-स्त्रियः पति मतीः तथा तैः समपूजयत् लवण आपूप ताम्बूल कण्ठ-सूत्र फल इक्षुभिः

तस्यै स्‍त्रियस्ता: प्रददु: शेषां युयुजुराशिष: ।
ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधू: ॥ ४९ ॥

तस्यै स्त्रियः ताः प्रददुः शेषाम् युयुजुः आशिषः ताभ्यः देव्यै नमः चक्रे शेषाम् च जगृहे वधूः

मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् ।
प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥ ५० ॥

मुनि व्रतम् अथ त्यक्त्वा निश्चक्राम अम्बिका-गृहात् प्रगृह्य पाणिना भृत्याम् रत्न मुद्रा उपशोभिना

तां देवमायामिव धीरमोहिनीं
सुमध्यमां कुण्डलमण्डिताननाम् ।
श्यामां नितम्बार्पितरत्नमेखलां
व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ।
शुचिस्मितां बिम्बफलाधरद्युति-
शोणायमानद्विजकुन्दकुड्‍मलाम् ॥ ५१ ॥
पदा चलन्तीं कलहंसगामिनीं
सिञ्जत्कलानूपुरधामशोभिना ।
विलोक्य वीरा मुमुहु: समागता
यशस्विनस्तत्कृतहृच्छयार्दिता: ॥ ५२ ॥
यां वीक्ष्य ते नृपतयस्तदुदारहास-
व्रीदावलोकहृतचेतस उज्झितास्‍त्रा: ।
पेतु: क्षितौ गजरथाश्वगता विमूढा
यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् ॥ ५३ ॥
सैवं शनैश्चलयती चलपद्मकोशौ
प्राप्तिं तदा भगवत: प्रसमीक्षमाणा ।
उत्सार्य वामकरजैरलकानपाङ्गै:
प्राप्तान् ह्रियैक्षत नृपान् दद‍ृशेऽच्युतं च ॥ ५४ ॥
तां राजकन्यां रथमारुरुक्षतीं
जहार कृष्णो द्विषतां समीक्षताम् ॥ ५५ ॥

ताम् देव मायाम् इव धीर मोहिनीम् सु-मध्यमाम् कुण्डल मण्डित आननाम् श्यामाम् नितम्ब अर्पित रत्न मेखलाम् व्यञ्जत् स्तनीम् कुन्तल शङ्कित ईक्षणाम् शुचि स्मिताम् बिम्ब-फल अधर द्युति शोणायमान द्विज कुन्द कुड्मलाम् पदा चलन्तीम् कल-हंस गामिनीम् सिञ्जत् कला नूपुर धाम शोभिना विलोक्य वीराः मुमुहुः समागताः यशस्विनः तत् कृत हृत्-शय अर्दिताः याम् वीक्ष्य ते नृ-पतयः तत् उदार हास व्रीडा अवलोक हृत चेतसः उज्झित अस्त्राः पेतुः क्षितौ गज रथ अश्व गताः विमूढाः यात्रा छलेन हरये अर्पयतीम् स्व शोभाम् सा एवम् शनैः चलयती चल पद्म कोशौ प्राप्तिम् तदा भगवतः प्रसमीक्षमाणा उत्सार्य वाम कर-जैः अलकान् अपाङ्गैः प्राप्तान् ह्रिया ऐक्षत नृपान् ददृशे अच्युतम् च ताम् राज-कन्याम् रथम् आरुरुक्षतीम् जहार कृष्णः द्विषताम् समीक्षताम्

रथं समारोप्य सुपर्णलक्षणं
राजन्यचक्रं परिभूय माधव: ।
ततो ययौ रामपुरोगम: शनै:
श‍ृगालमध्यादिव भागहृद्धरि: ॥ ५६ ॥

रथम् समारोप्य सुपर्ण लक्षणम् राजन्य चक्रम् परिभूय माधवः ततः ययौ राम पुरः-गमः शनैः शृगाल मध्यात् इव भाग हृत् हरिः

तं मानिन: स्वाभिभवं यश:क्षयं
परे जरासन्धमुखा न सेहिरे ।
अहो धिगस्मान् यश आत्तधन्वनां
गोपैर्हृतं केशरिणां मृगैरिव ॥ ५७ ॥

तम् मानिनः स्व अभिभवम् यशः क्षयम् परे जरासन्ध-मुखाः न सेहिरे अहो धिक् अस्मान् यशः आत्त-धन्वनाम् गोपैः हृतम् केशरिणाम् मृगैः इव

१०.५४

श्रीशुक उवाच
इति सर्वे सुसंरब्धा वाहानारुह्य दंशिता: ।
स्वै: स्वैर्बलै: परिक्रान्ता अन्वीयुर्धृतकार्मुका: ॥ १ ॥

श्री-शुकः उवाच इति सर्वे सु-संरब्धाः वाहान् आरुह्य दंशिताः स्वैः स्वैः बलैः परिक्रान्ताः अन्वीयुः धृत कार्मुकाः

तानापतत आलोक्य यादवानीकयूथपा: ।
तस्थुस्तत्सम्मुखा राजन्विस्फूर्ज्य स्वधनूंषि ते ॥ २ ॥

तान् आपततः आलोक्य यादव-अनीक यूथ-पः तस्थुः तत् सम्मुखाः राजन् विस्फूर्ज्य स्व धनूंषि ते

अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्‍त्र कोविदा: ।
मुमुचु: शरवर्षाणि मेघा अद्रिष्वपो यथा ॥ ३ ॥

अश्व-पृष्ठे गज स्कन्धे रथ उपस्थे अस्त्र कोविदाः मुमुचुः शर वर्षाणि मेघाः अद्रिषु अपः यथा

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा ।
सव्रीड्‍मैक्षत्तद्वक्त्रं भयविह्वललोचना ॥ ४ ॥

पत्युः बलम् शर आसारैः छन्नम् वीक्ष्य सु-मध्यमा स-व्रीडम् ऐक्षत् तत् वक्त्रम् भय विह्वल लोचना

प्रहस्य भगवानाह मा स्म भैर्वामलोचने ।
विनङ्‍क्ष्यत्यधुनैवैतत्तावकै: शात्रवं बलम् ॥ ५ ॥

प्रहस्य भगवान् आह मा स्म भैः वाम-लोचने विनङ्क्ष्यति अधुना एव एतत् तावकैः शात्रवम् बलम्

तेषां तद्विक्रमं वीरा गदसङ्कर्षणादय: ।
अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान् रथान् ॥ ६ ॥

तेषाम् तत् विक्रमम् वीराः गद सङ्कर्षण आदयः अमृष्यमाणाः नाराचैः जघ्नुः हय गजान् रथान्

पेतु: शिरांसि रथिनामश्विनां गजिनां भुवि ।
सकुण्डलकिरीटानि सोष्णीषाणि च कोटिश: ॥ ७ ॥

पेतुः शिरांसि रथिनाम् अश्विनाम् गजिनाम् भुवि स कुण्डल किरीटानि स उष्णीषाणि च कोटिशः

हस्ता: सासिगदेष्वासा: करभा ऊरवोऽङ्‍‍घ्रय: ।
अश्वाश्वतरनागोष्ट्रखरमर्त्यशिरांसि च ॥ ८ ॥

हस्ताः स असि गदा इषु-आसाः करभाः ऊरवः अङ्घ्रयः अश्व अश्वतर नाग उष्ट्र खर मर्त्य शिरांसि च

हन्यमानबलानीका वृष्णिभिर्जयकाङ्‍‍क्षिभि: ।
राजानो विमुखा जग्मुर्जरासन्धपुर:सरा: ॥ ९ ॥

हन्यमान बल-अनीकाः वृष्णिभिः जय काङ्क्षिभिः राजानः विमुखाः जग्मुः जरासन्ध-पुरः-सराः

शिशुपालं समभ्येत्य हृतदारमिवातुरम् ।
नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् ॥ १० ॥

शिशुपालम् समभ्येत्य हृत दारम् इव आतुरम् नष्ट त्विषम् गत उत्साहम् शुष्यत् वदनम् अब्रुवन्

भो भो: पुरुषशार्दूल दौर्मनस्यमिदं त्यज ।
न प्रियाप्रिययो राजन् निष्ठा देहिषु द‍ृश्यते ॥ ११ ॥

भोः भोः पुरुष शार्दूल दौर्मन-स्यम् इदम् त्यज न प्रिय अप्रिययोः राजन् निष्ठा देहिषु दृश्यते

यथा दारुमयी योषित् नृत्यते कुहकेच्छया ।
एवमीश्वरतन्त्रोऽयमीहते सुखदु:खयो: ॥ १२ ॥

यथा दारु-मयी योषित् नृत्यते कुहक इच्छया एवम् ईश्वर तन्त्रः अयम् ईहते सुख दुःखयोः

शौरे: सप्तदशाहं वै संयुगानि पराजित: ।
त्रयोविंशतिभि: सैन्यैर्जिग्ये एकमहं परम् ॥ १३ ॥

शौरेः सप्त-दश अहम् वै संयुगानि पराजितः त्रयः-विंशतिभिः सैन्यैः जिग्ये एकम् अहम् परम्

तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित् ।
कालेन दैवयुक्तेन जानन् विद्रावितं जगत् ॥ १४ ॥

तथा अपि अहम् न शोचामि न प्रहृष्यामि कर्हिचित् कालेन दैव युक्तेन जानन् विद्रावितम् जगत्

अधुनापि वयं सर्वे वीरयूथपयूथपा: ।
पराजिता: फल्गुतन्त्रैर्यदुभि: कृष्णपालितै: ॥ १५ ॥

अधुना अपि वयम् सर्वे वीर यूथ-प यूथ-पाः पराजिताः फल्गु तन्त्रैः यदुभिः कृष्ण-पालितैः

रिपवो जिग्युरधुना काल आत्मानुसारिणि ।
तदा वयं विजेष्यामो यदा काल: प्रदक्षिण: ॥ १६ ॥

रिपवः जिग्युः अधुना काले आत्म अनुसारीणि तदा वयम् विजेष्यामः यदा कालः प्रदक्षिणः

श्रीशुक उवाच
एवं प्रबोधितो मित्रैश्चैद्योऽगात् सानुग: पुरम् ।
हतशेषा: पुनस्तेऽपि ययु: स्वं स्वं पुरं नृपा: ॥ १७ ॥

श्री-शुकः उवाच एवम् प्रबोधितः मित्रैः चैद्यः अगात् स-अनुगः पुरम् हत शेषाः पुनः ते अपि ययुः स्वम् स्वम् पुरम् नृपाः

रुक्‍मी तु राक्षसोद्वाहं कृष्णद्विडसहन् स्वसु: ।
पृष्ठतोऽन्वगमत् कृष्णमक्षौहिण्या वृतो बली ॥ १८ ॥

रुक्मी तु राक्षस उद्वाहम् कृष्ण-द्विट् असहन् स्वसुः पृष्ठतः अन्वगमत् कृष्णम् अक्षौहिण्या वृतः बली

रुक्‍म्यमर्षी सुसंरब्ध: श‍ृण्वतां सर्वभूभुजाम् ।
प्रतिजज्ञे महाबाहुर्दंशित: सशरासन: ॥ १९ ॥
अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्‍मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद् ब्रवीमि व: ॥ २० ॥

रुक्मी अमर्षी सु-संरब्धः शृण्वताम् सर्व भू-भुजाम् प्रतिजज्ञे महा-बाहुः दंशितः स-शरासनः अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् कुण्डिनम् न प्रवेक्ष्यामि सत्यम् एतत् ब्रवीमि वः

इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वर: ।
चोदयाश्वान् यत: कृष्ण: तस्य मे संयुगं भवेत् ॥ २१ ॥

इति उक्त्वा रथम् आरुह्य सारथिम् प्राह सत्वरः चोदय अश्वान् यतः कृष्णः तस्य मे संयुगम् भवेत्

अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मते: ।
नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥ २२ ॥

अद्य अहम् निशितैः बाणैः गोपालस्य सु-दुर्मतेः नेष्ये वीर्य मदम् येन स्वसा मे प्रसभम् हृता

विकत्थमान: कुमतिरीश्वरस्याप्रमाणवित् ।
रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् ॥ २३ ॥

विकत्थमानः कु-मतिः ईश्वरस्य अप्रमाण-वित् रथेन एकेन गोविन्दम् तिष्ठ तिष्ठ इति अथ आह्वयत्

धनुर्विकृष्य सुद‍ृढं जघ्ने कृष्णं त्रिभि: शरै: ।
आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन ॥ २४ ॥

धनुः विकृष्य सु दृढम् जघ्ने कृष्णम् त्रिभिः शरैः आह च अत्र क्षणम् तिष्ठ यदूनाम् कुल पांसन

यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्‍क्षवद्धवि: ।
हरिष्येऽद्य मदं मन्द मायिन: कूटयोधिन: ॥ २५ ॥

यत्र यासि स्वसारम् मे मुषित्वा ध्वाङ्क्ष-वत् हविः हरिष्ये अद्य मदम् मन्द मायिनः कूट योधिनः

यावन्न मे हतो बाणै: शयीथा मुञ्च दारीकाम् ।
स्मयन् कृष्णो धनुश्छित्त्वा षड्‍‌भिर्विव्याध रुक्‍मिणम् ॥ २६ ॥

यावत् न मे हतः बाणैः शयीथः मुञ्च दारीकाम् स्मयन् कृष्णः धनुः छित्त्वा षड्भिः विव्याध रुक्मिणम्

अष्टभिश्चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभि: ।
स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभि: ॥ २७ ॥

अष्टभिः चतुरः वाहान् द्वाभ्याम् सूतम् ध्वजम् त्रिभिः सः च अन्यत् धनुः आधाय कृष्णम् विव्याध पञ्चभिः

तैस्ताडित: शरौघैस्तु चिच्छेद धनुरच्युत: ।
पुनरन्यदुपादत्त तदप्यच्छिनदव्यय: ॥ २८ ॥

तैः ताडितः शर ओघैः तु चिच्छेद धनुः अच्युतः पुनः अन्यत् उपादत्त तत् अपि अच्छिनत् अव्ययः

परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ ।
यद् यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरि: ॥ २९ ॥

परिघम् पट्टिशम् शूलम् चर्म-असी शक्ति तोमरौ यत् यत् आयुधम् आदत्त तत् सर्वम् सः अच्छिनत् हरिः

ततो रथादवप्लुत्य खड्‍गपाणिर्जिघांसया ।
कृष्णमभ्यद्रवत् क्रुद्ध: पतङ्ग इव पावकम् ॥ ३० ॥

ततः रथात् अवप्लुत्य खड्ग पणिः जिघांसया कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्गः इव पावकम्

तस्य चापतत: खड्‍गं तिलशश्चर्म चेषुभि: ।
छित्त्वासिमाददे तिग्मं रुक्‍मिणं हन्तुमुद्यत: ॥ ३१ ॥

तस्य च आपततः खड्गम् तिलशः चर्म च इषुभिः छित्त्वा असिम् आददे तिग्मम् रुक्मिणम् हन्तुम् उद्यतः

द‍ृष्ट्वा भ्रातृवधोद्योगं रुक्‍मिणी भयविह्वला ।
पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥ ३२ ॥

दृष्ट्वा भ्रातृ वध उद्योगम् रुक्मिणी भय विह्वला पतित्वा पादयोः भर्तुः उवाच करुणम् सती

श्रीरुक्‍मिण्युवाच
योगेश्वराप्रमेयात्मन् देवदेव जगत्पते ।
हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥ ३३ ॥

श्री-रुक्मिणी उवाच योग-ईश्वर अप्रमेय-आत्मन् देव-देव जगत्-पते हन्तुम् न अर्हसि कल्याण भ्रातरम् मे महा-भुज

श्रीशुक उवाच
तया परित्रासविकम्पिताङ्गया
शुचावशुष्यन्मुखरुद्धकण्ठया ।
कातर्यविस्रंसितहेममालया
गृहीतपाद: करुणो न्यवर्तत ॥ ३४ ॥

श्री-शुकः उवाच तया परित्रास विकम्पित अङ्गया शुचा अवशुष्यत् मुख रुद्ध कण्ठया कातर्य विस्रंसित हेम मालया गृहीत पादः करुणः न्यवर्तत

चैलेन बद्ध्वा तमसाधुकारीणं
सश्मश्रुकेशं प्रवपन् व्यरूपयत् ।
तावन्ममर्दु: परसैन्यमद्भ‍ुतं
यदुप्रवीरा नलिनीं यथा गजा: ॥ ३५ ॥

चैलेन बद्ध्वा तम् असाधु-कारिणम् स-श्मश्रु-केशम् प्रवपन् व्यरूपयत् तावत् ममर्दुः पर सैन्यम् अद्भुतम् यदु-प्रवीराः नलिनीम् यथा गजाः

कृष्णान्तिकमुपव्रज्य दद‍ृशुस्तत्र रुक्‍मिणम् ।
तथाभूतं हतप्रायं द‍ृष्ट्वा सङ्कर्षणो विभु: ।
विमुच्य बद्धं करुणो भगवान् कृष्णमब्रवीत् ॥ ३६ ॥

कृष्ण अन्तिकम् उपव्रज्य ददृशुः तत्र रुक्मिणम् तथा-भूतम् हत प्रायम् दृष्ट्वा सङ्कर्षणः विभुः विमुच्य बद्धम् करुणः भगवान् कृष्णम् अब्रवीत्

असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम् ।
वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वध: ॥ ३७ ॥

असाधु इदम् त्वया कृष्ण कृतम् अस्मत् जुगुप्सितम् वपनम् श्मश्रु-केशानाम् वैरूप्यम् सुहृदः वधः

मैवास्मान् साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया ।
सुखदु:खदो न चान्योऽस्ति यत: स्वकृतभुक् पुमान् ॥ ३८ ॥

मा एव अस्मान् साध्वि असूयेथाः भ्रातुः वैरूप्य चिन्तया सुख दुःख दः न च अन्यः अस्ति यतः स्व कृत भुक् पुमान्

बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति ।
त्याज्य: स्वेनैव दोषेण हत: किं हन्यते पुन: ॥ ३९ ॥

बन्धुः वध अर्ह दोषः अपि न बन्धोः वधम् अर्हति त्याज्यः स्वेन एव दोषेण हतः किम् हन्यते पुनः

क्षत्रियाणामयं धर्म: प्रजापतिविनिर्मित: ।
भ्रातापि भ्रातरं हन्याद् येन घोरतमस्तत: ॥ ४० ॥

क्षत्रियाणाम् अयम् धर्मः प्रजापति विनिर्मितः भ्राता अपि भ्रातरम् हन्यात् येन घोर-तमः ततः

राज्यस्य भूमेर्वित्तस्य स्‍त्रियो मानस्य तेजस: ।
मानिनोऽन्यस्य वा हेतो: श्रीमदान्धा: क्षिपन्ति हि ॥ ४१ ॥

राज्यस्य भूमेः वित्तस्य स्त्रियः मानस्य तेजसः मानिनः अन्यस्य वा हेतोः श्री मद अन्धाः क्षिपन्ति हि

तवेयं विषमा बुद्धि: सर्वभूतेषु दुर्हृदाम् ।
यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् ॥ ४२ ॥

तव इयम् विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् यत् मन्यसे सदा अभद्रम् सुहृदाम् भद्रम् अज्ञ-वत्

आत्ममोहो नृणामेव कल्पते देवमायया ।
सुहृद् दुर्हृदुदासीन इति देहात्ममानिनाम् ॥ ४३ ॥

आत्म मोहः नृणाम् एव कल्पते देव मायया सुहृत् दुर्हृत् उदासीनः इति देह आत्म मानिनाम्

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।
नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभ: ॥ ४४ ॥

एकः एव परः हि आत्मा सर्वेषाम् अपि देहिनाम् नाना इव गृह्यते मूढैः यथा ज्योतिः यथा नभः

देह आद्यन्तवानेष द्रव्यप्राणगुणात्मक: ।
आत्मन्यविद्यया क्लृप्त: संसारयति देहिनम् ॥ ४५ ॥

देहः आदि अन्त वान् एषः द्रव्य प्राण गुण आत्मकः आत्मनि अविद्यया कॢप्तः संसारयति देहिनम्

नात्मनोऽन्येन संयोगो वियोगश्चासत: सति ।
तद्धेतुत्वात्तत्प्रसिद्धेर्द‍ृग्‌रूपाभ्यां यथा रवे: ॥ ४६ ॥

न आत्मनः अन्येन संयोगः वियोगः च असतः सति तत् हेतुत्वात् तत् प्रसिद्धेः दृक् रूपाभ्याम् यथा रवेः

जन्मादयस्तु देहस्य विक्रियानात्मन: क्व‍‍चित् ।
कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव ॥ ४७ ॥

जन्म-आदयः तु देहस्य विक्रियाः न आत्मनः क्वचित् कलानाम् इव न एव इन्दोः मृतिः हि अस्य कुहूः इव

यथा शयान आत्मानं विषयान् फलमेव च ।
अनुभुङ्क्ते ऽप्यसत्यर्थे तथाप्नोत्यबुधो भवम् ॥ ४८ ॥

यथा शयानः आत्मानम् विषयान् फलम् एव च अनुभुङ्क्ते अपि असति अर्थे तथा आप्नोति अबुधः भवम्

तस्मादज्ञानजं शोकमात्मशोषविमोहनम् ।
तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥ ४९ ॥

तस्मात् अज्ञान जम् शोकम् आत्म शोष विमोहनम् तत्त्व ज्ञानेन निर्हृत्य स्व-स्था भव शुचि-स्मिते

श्रीशुक उवाच
एवं भगवता तन्वी रामेण प्रतिबोधिता ।
वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ ५० ॥

श्री-शुकः उवाच एवम् भगवता तन्वी रामेण प्रतिबोधिता वैमनस्यम् परित्यज्य मनः बुद्ध्या समादधे

प्राणावशेष उत्सृष्टो द्विड्‍‌भिर्हतबलप्रभ: ।
स्मरन् विरूपकरणं वितथात्ममनोरथ: ।
चक्रे भोजकटं नाम निवासाय महत्पुरम् ॥ ५१ ॥

प्राण अवशेषः उत्षृष्टः द्विड्भिः हत बल प्रभः स्मरन् विरूप-करणम् वितथ आत्म मनः-रथः चक्रे भोज-कटम् नाम निवासाय महत् पुरम्

अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् ।
कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद् रुषा ॥ ५२ ॥

अहत्वा दुर्मतिम् कृष्णम् अप्रत्यूह्य यवीयसीम् कुण्डिनम् न प्रवेक्ष्यामि इति उक्त्वा तत्र अवसत् रुषा

भगवान् भीष्मकसुतामेवं निर्जित्य भूमिपान् ।
पुरमानीय विधिवदुपयेमे कुरूद्वह ॥ ५३ ॥

भगवान् भीष्मक-सुताम् एवम् निर्जित्य भूमि-पान् पुरम् आनीय विधि-वत् उपयेमे कुरु-उद्वह

तदा महोत्सवो नृणां यदुपुर्यां गृहे गृहे ।
अभूदनन्यभावानां कृष्णे यदुपतौ नृप ॥ ५४ ॥

तदा महा-उत्सवः नॄणाम् यदु-पुर्याम् गृहे गृहे अभूत् अनन्य-भावानाम् कृष्णे यदु-पतौ नृप

नरा नार्यश्च मुदिता: प्रमृष्टमणिकुण्डला: ।
पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससो: ॥ ५५ ॥

नराः नार्यः च मुदिताः प्रमृष्ट मणि कुण्डलाः पारिबर्हम् उपाजह्रुः वरयोः चित्र वाससोः

सा वृष्णिपुर्युत्तम्भितेन्द्रकेतुभि-
र्विचित्रमाल्याम्बररत्नतोरणै: ।
बभौ प्रतिद्वार्युपक्लृप्तमङ्गलै-
रापूर्णकुम्भागुरुधूपदीपकै: ॥ ५६ ॥

सा वृष्णि-पुरी उत्तम्भित इन्द्र-केतुभिः विचित्र माल्य अम्बर रत्न तोरणैः बभौ प्रति द्वारि उपकॢप्त मङ्गलैः आपूर्ण कुम्भ अगुरु धूप दीपकैः

सिक्तमार्गा मदच्युद्भ‍िराहूतप्रेष्ठभूभुजाम् ।
गजैर्द्वा:सु परामृष्टरम्भापूगोपशोभिता ॥ ५७ ॥

सिक्त मार्गा मद च्युद्भिः आहूत प्रेष्ठ भू-भुजाम् गजैः द्वाःसु परामृष्ट रम्भा पूग उपशोभिता

कुरुसृञ्जयकैकेयविदर्भयदुकुन्तय: ।
मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् ॥ ५८ ॥

कुरु-सृञ्जय-कैकेय-विदर्भ-यदु-कुन्तयः मिथः मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम्

रुक्‍मिण्या हरणं श्रुत्वा गीयमानं ततस्तत: ।
राजानो राजकन्याश्च बभूवुर्भृशविस्मिता: ॥ ५९ ॥

रुक्मिण्याः हरणम् श्रुत्वा गीयमानम् ततः ततः राजानः राज-कन्याः च बभूवुः भृश विस्मिताः

द्वारकायामभूद् राजन् महामोद: पुरौकसाम् ।
रुक्‍मिण्या रमयोपेतं द‍ृष्ट्वा कृष्णं श्रिय: पतिम् ॥ ६० ॥

द्वारकायाम् अभूत् राजन् महा-मोदः पुर-ओकसाम् रुक्मिण्या रमया उपेतम् दृष्ट्वा कृष्णम् श्रियः पतिम्

१०.५५

श्रीशुक उवाच
कामस्तु वासुदेवांशो दग्ध: प्राग् रुद्रमन्युना ।
देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ १ ॥

श्री-शुकः उवाच कामः तु वासुदेव अंशः दग्धः प्राक् रुद्र मन्युना देह उपपत्तये भूयः तम् एव प्रत्यपद्यत्

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भ‍व: ।
प्रद्युम्न इति विख्यात: सर्वतोऽनवम: पितु: ॥ २ ॥

सः एव जातः वैदर्भ्याम् कृष्ण-वीर्य समुद्भवः प्रद्युम्नः इति विख्यातः सर्वतः अनवमः पितुः

तं शम्बर: कामरूपी हृत्वा तोकमनिर्दशम् ।
स विदित्वात्मन: शत्रुं प्रास्योदन्वत्यगाद् गृहम् ॥ ३ ॥

तम् शम्बरः काम रूपी हृत्वा तोकम् अनिः-दशम् सः विदित्वा आत्मनः शत्रुम् प्रास्य उदन्वति अगात् गृहम्

तं निर्जगार बलवान् मीन: सोऽप्यपरै: सह ।
वृतो जालेन महता गृहीतो मत्स्यजीविभि: ॥ ४ ॥

तम् निर्जगार बल-वान् मीनः सः अपि अपरैः सह वृतः जालेन महता गृहीतः मत्स्य-जीविभिः

तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् ।
सूदा महानसं नीत्वावद्यन् सुधितिनाद्भ‍ुतम् ॥ ५ ॥

तम् शम्बराय कैवर्ताः उपाजह्रुः उपायनम् सूदाः महानसम् नीत्वा अवद्यन् सुधितिना अद्भुतम्

द‍ृष्ट्वा तदुदरे बालं मायावत्यै न्यवेदयन् ।
नारदोऽकथयत् सर्वं तस्या: शङ्कितचेतस: ।
बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ॥ ६ ॥

दृष्ट्वा तत् उदरे बालम् मायावत्यै न्यवेदयन् नारदः अकथयत् सर्वम् तस्याः शङ्कित चेतसः बालस्य तत्त्वम् उत्पत्तिम् मत्स्य उदर निवेशनम्

सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी ।
पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती ॥ ७ ॥
निरूपिता शम्बरेण सा सूदौदनसाधने ।
कामदेवं शिशुं बुद्ध्वा चक्रे स्‍नेहं तदार्भके ॥ ८ ॥

सा च कामस्य वै पत्नी रतिः नम यशस्विनी पत्युः निर्दग्ध देहस्य देह उत्पत्तिम् प्रतीक्षती निरूपिता शम्बरेण सा सूद-ओदन साधने काम-देवम् शिशुम् बुद्ध्वा चक्रे स्नेहम् तदा अर्भके

नातिदीर्घेण कालेन स कार्ष्णि रूढयौवन: ।
जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९ ॥

न अति-दीर्घेण कालेन सः कार्ष्णिः रूढ यौवनः जनयाम् आस नारीणाम् वीक्षन्तीनाम् च विभ्रमम्

सा तं पतिं पद्मदलायतेक्षणं
प्रलम्बबाहुं नरलोकसुन्दरम् ।
सव्रीडहासोत्तभितभ्रुवेक्षती
प्रीत्योपतस्थे रतिरङ्ग सौरतै: ॥ १० ॥

सा तम् पतिम् पद्म दल-आयत ईक्षणम् प्रलम्ब बाहुम् नर-लोक सुन्दरम् स-व्रीड हास उत्तभित भ्रुवा ईक्षती प्रीत्या उपतस्थे रतिः अङ्ग सौरतैः

तामह भगवान् कार्ष्णिर्मातस्ते मतिरन्यथा ।
मातृभावमतिक्रम्य वर्तसे कामिनी यथा ॥ ११ ॥

ताम् आह भगवान् कार्ष्णिः मातः ते मतिः अन्यथा मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा

रतिरुवाच
भवान् नारायणसुत: शम्बरेणहृतो गृहात् ।
अहं तेऽधिकृता पत्नी रति: कामो भवान् प्रभो ॥ १२ ॥

रतिः उवाच भवान् नारायण-सुतह् शम्बरेण हृतः गृहात् अहम् ते अधिकृता पत्नी रतिः कामः भवान् प्रभो

एष त्वानिर्दशं सिन्धावक्षिपच्छम्बरोऽसुर: ।
मत्स्योऽग्रसीत्तदुदरादित: प्राप्तो भवान् प्रभो ॥ १३ ॥

एषः त्वा अनिः-दशम् सिन्धौ अक्षिपत् शम्बरः असुरः मत्स्यः अग्रसीत् तत् उदरात् इतः प्राप्तः भवान् प्रभो

तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मन: ।
मायाशतविदं तं च मायाभिर्मोहनादिभि: ॥ १४ ॥

तम् इमम् जहि दुर्धर्षम् दुर्जयम् शत्रुम् आत्मनः माया शत विदम् तम् च मायाभिः मोहन-आदिभिः

परीशोचति ते माता कुररीव गतप्रजा ।
पुत्रस्‍नेहाकुला दीना विवत्सा गौरिवातुरा ॥ १५ ॥

परिशोचति ते माता कुररी इव गत प्रजा पुत्र स्नेह आकुला दीना विवत्सा गौः इव आतुरा

प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।
मायावती महामायां सर्वमायाविनाशिनीम् ॥ १६ ॥

प्रभाष्य एवम् ददौ विद्याम् प्रद्युम्नाय महा-आत्मने मायावती महा-मायाम् सर्व माया विनाशिनीम्

स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।
अविषह्यैस्तमाक्षेपै: क्षिपन् सञ्जनयन् कलिम् ॥ १७ ॥

सः च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् अविषह्यैः तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम्

सोऽधिक्षिप्तो दुर्वाचोभि: पदाहत इवोरग: ।
निश्चक्राम गदापाणिरमर्षात्ताम्रलोचन: ॥ १८ ॥

सः अधिक्षिप्तः दुर्वाचोभिः पदा आहतः इव उरगः निश्चक्राम गदा पाणिः अमर्षात् ताम्र लोचनः

गदामाविध्य तरसा प्रद्युम्नाय महात्मने ।
प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्ठुरम् ॥ १९ ॥

गदाम् आविध्य तरसा प्रद्युम्नाय महा-आत्मने प्रक्षिप्य व्यनदन् नादम् वज्र निष्पेष निष्ठुरम्

तामापतन्तीं भगवान् प्रद्युम्नो गदया गदाम् ।
अपास्य शत्रवे क्रुद्ध: प्राहिणोत् स्वगदां नृप ॥ २० ॥

ताम् आपतन्तीम् भगवान् प्रद्युम्नः गदया गदाम् अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्त-गदाम् नृप

स च मायां समाश्रित्य दैतेयीं मयदर्शितम् ।
मुमुचेऽस्‍त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुर: ॥ २१ ॥

सः च मायाम् समाश्रित्य दैतेयीम् मय दर्शितम् मुमुचे अस्त्र-मयम् वर्षम् कार्ष्णौ वैहायसः असुरः

बाध्यमानोऽस्‍त्रवर्षेण रौक्‍मिणेयो महारथ: ।
सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ २२ ॥

बाध्यमानः अस्त्र वर्षेण रौक्मिणेयः महा-रथः सत्त्व-आत्मिकाम् महा-विद्याम् सर्व मया उपमर्दिनीम्

ततो गौह्यकगान्धर्वपैशाचोरगराक्षसी: ।
प्रायुङ्क्त शतशो दैत्य: कार्ष्णिर्व्यधमयत्स ता: ॥ २३ ॥

ततः गौह्यक-गान्धर्व-पैशाच-उरग-राक्षसीः प्रायुङ्क्त शतशः दैत्यः कार्ष्णिः व्यधमयत् सः ताः

निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् ।
शम्बरस्य शिर: कायात् ताम्रश्मश्र्‍वोजसाहरत् ॥ २४ ॥

निशातम् असिम् उद्यम्य स किरीटम् स कुण्डलम् शम्बरस्य शिरः कायात् ताम्र श्मश्रु ओजसा अहरत्

आकीर्यमाणो दिविजै: स्तुवद्भ‍ि: कुसुमोत्करै: ।
भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥ २५ ॥

आकीर्यमाणः दिवि-जैः स्तुवद्भिः कुसुम उत्करैः भार्यया अम्बर चारिण्या पुरम् नीतः विहायसा

अन्त:पुरवरं राजन् ललनाशतसङ्कुलम् ।
विवेश पत्न्‍या गगनाद् विद्युतेव बलाहक: ॥ २६ ॥

अन्तः-पुर वरम् राजन् ललना शत सङ्कुलम् विवेश पत्न्या गगनात् विद्युता इव बलाहकः

तं द‍ृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।
प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ २७ ॥
स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभि: ।
कृष्णं मत्वा स्‍त्रियो ह्रीता निलिल्युस्तत्र तत्र ह ॥ २८ ॥

तम् दृष्ट्वा जल-द श्यामम् पीत कौशेय वाससम् प्रलम्ब बाहुम् ताम्र अक्षम् सु-स्मितम् रुचिर आननम् सु-अलङ्कृत मुख अम्भोजम् नील वक्र आलक-आलिभिः कृष्णम् मत्वा स्त्रियः ह्रीताः निलिल्युः तत्र तत्र ह

अवधार्य शनैरीषद्वैलक्षण्येन योषित: ।
उपजग्मु: प्रमुदिता: सस्‍त्रीरत्नं सुविस्मिता: ॥ २९ ॥

अवधार्य शनैः ईषत् वैलक्षण्येन योषितः उपजग्मुः प्रमुदिताः स स्त्री रत्नम् सु-विस्मितः

अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी ।
अस्मरत् स्वसुतं नष्टं स्‍नेहस्‍नुतपयोधरा ॥ ३० ॥

अथ तत्र असित अपाङ्गी वैदर्भी वल्गु भाषिनी अस्मरत् स्व-सुतम् नष्टम् स्नेह स्नुत पयः-धरा

को न्वयं नरवैदूर्य: कस्य वा कमलेक्षण: ।
धृत: कया वा जठरे केयं लब्धा त्वनेन वा ॥ ३१ ॥

कः नु अयम् नर-वैदूर्यः कस्य वा कमल-ईक्षणः धृतः कया वा जठरे का इयम् लब्धा तु अनेन वा

मम चाप्यात्मजो नष्टो नीतो य: सूतिकागृहात् ।
एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ ३२ ॥

मम च अपि आत्मजः नष्टः नीतः यः सूतिका-गृहात् एतत् तुल्य वयः रूपः यदि जीवति कुत्रचित्

कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वन: ।
आकृत्यावयवैर्गत्या स्वरहासावलोकनै: ॥ ३३ ॥

कथम् तु अनेन सम्प्राप्तम् सारूप्यम् शार्ङ्ग-धन्वनः आकृत्या अवयवैः गत्या स्वर हास अवलोकनैः

स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भक: ।
अमुष्मिन् प्रीतिरधिका वाम: स्फुरति मे भुज: ॥ ३४ ॥

सः एव वा भवेत् नूनम् यः मे गर्भे धृतः अर्भकः अमुष्मिन् प्रीतिः अधिका वामः स्फुरति मे भुजः

एवं मीमांसमानायां वैदर्भ्यां देवकीसुत: ।
देवक्यानकदुन्दुभ्यामुत्तम:श्लोक आगमत् ॥ ३५ ॥

एवम् मीमांसमानायाम् वैदर्भ्याम् देवकी-सुतः देवकी-आनकदुन्दुभ्याम् उत्तमः-श्लोकः आगमत्

विज्ञातार्थोऽपि भगवांस्तूष्णीमास जनार्दन: ।
नारदोऽकथयत् सर्वं शम्बराहरणादिकम् ॥ ३६ ॥

विज्ञात अर्थः अपि भगवान् तूष्णीम् आस जनार्दनः नारदः अकथयत् सर्वम् अम्बर आहरण आदिकम्

तच्छ्रुत्वा महदाश्चर्यं कृष्णान्त:पुरयोषित: ।
अभ्यनन्दन् बहूनब्दान् नष्टं मृतमिवागतम् ॥ ३७ ॥

तत् श्रुत्वा महत् आश्चर्यम् कृष्ण-अन्तः-पुर योषितः अभ्यनन्दन् बहून् अब्दान् नष्टम् मृतम् इव आगतम्

देवकी वसुदेवश्च कृष्णरामौ तथा स्‍त्रिय: ।
दम्पती तौ परिष्वज्य रुक्‍मिणी च ययुर्मुदम् ॥ ३८ ॥

देवकी वसुदेवः च कृष्ण-रामौ तथा स्त्रियः दम्-पती तौ परिष्वज्य रुक्मिणी च ययुः मुदम्

नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकस: ।
अहो मृत इवायातो बालो दिष्‍ट्येति हाब्रुवन् ॥ ३९ ॥

नष्टम् प्रद्युम्नम् आयातम् आकर्ण्य द्वारका-ओकसः अहो मृतः इव आयातः बालः दिष्ट्या इति ह अब्रुवन्

यं वै मुहु: पितृसरूपनिजेशभावा-
स्तन्मातरो यदभजन् रहरूढभावा: ।
चित्रं न तत् खलु रमास्पदबिम्बबिम्बे
कामे स्मरेऽक्षविषये किमुतान्यनार्य: ॥ ४० ॥

यम् वै मुहुः पितृ स-रूप निज ईश भावाः तत् मातरः यत् अभजन् रह रूढ भावाः चित्रम् न तत् खलु रमा आस्पद बिम्ब बिम्बे कामे स्मरे अक्ष-विषये किम् उत अन्य नार्यः

१०.५६

श्रीशुक उवाच
सत्राजित: स्वतनयां कृष्णाय कृतकिल्बिष: ।
स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १ ॥

श्री-शुकः उवाच सत्राजितः स्व तनयाम् कृष्णाय कृत किल्बिषः स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान्

श्रीराजोवाच
सत्राजित: किमकरोद् ब्रह्मन् कृष्णस्य किल्बिष: ।
स्यमन्तक: कुतस्तस्य कस्माद् दत्ता सुता हरे: ॥ २ ॥

श्री-राजा उवाच सत्राजितः किम् अकरोत् ब्रह्मन् कृष्णस्य किल्बिषः स्यमन्तकः कुतः तस्य कस्मात् दत्ता सुता हरेः

श्रीशुक उवाच
आसीत् सत्राजित: सूर्यो भक्तस्य परम: सखा ।
प्रीतस्तस्मै मणिं प्रादात् स च तुष्ट: स्यमन्तकम् ॥ ३ ॥

श्री-शुकः उवाच आसीत् सत्राजितः सूर्यः भक्तस्य परमः सखा प्रीतः तस्मै मणिम् प्रादात् सः च तुष्टः स्यमन्तकम्

स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रवि: ।
प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षित: ॥ ४ ॥

सः तम् बिभ्रत् मणिम् कण्ठे भ्राजमानः यथा रविः प्रविष्टः द्वारकाम् राजन् तेजसा न उपलक्षितः

तं विलोक्य जना दूरात्तेजसा मुष्टद‍ृष्टय: ।
दीव्यतेऽक्षैर्भगवते शशंसु: सूर्यशङ्किता: ॥ ५ ॥

तम् विलोक्य जनाः दूरात् तेजसा मुष्ट दृष्टयः दीव्यते अक्षैः भगवते शशंसुः सूर्य शङ्किताः

नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।
दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ ६ ॥

नारायण नमः ते अस्तु शङ्ख चक्र गदा धर दामोदर अरविन्द-अक्ष गोविन्द यदु-नन्दन

एष आयाति सविता त्वां दिद‍ृक्षुर्जगत्पते ।
मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगु: ॥ ७ ॥

एषः आयाति सविता त्वाम् दिदृक्षुः जगत्-पते मुष्णन् गभस्ति चक्रेण नृणाम् चक्षूंषि तिग्म गुः

नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभा: ।
ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यज: प्रभो ॥ ८ ॥

ननु अन्विच्छन्ति ते मार्गम् त्रि-लोक्याम् विबुध ऋषभाः य्ञात्वा अद्य गूढम् यदुषु द्रष्टुम् त्वाम् याति अजः प्रभो

श्रीशुक उवाच
निशम्य बालवचनं प्रहस्याम्बुजलोचन: ।
प्राह नासौ रविर्देव: सत्राजिन्मणिना ज्वलन् ॥ ९ ॥

श्री-शुकः उवाच निशम्य बाल वचनम् प्रहस्य अम्बुज लोचनः प्राह न असौ रविः देवः सत्राजित् मणिना ज्वलन्

सत्राजित् स्वगृहं श्रीमत् कृतकौतुकमङ्गलम् ।
प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥ १० ॥

सत्राजित् स्व गृहम् श्रीमत् कृत कौतुक मङ्गलम् प्रविश्य देव-सदने मणिम् विप्रैः न्यवेशयत्

दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो ।
दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभा: ।
न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणि: ॥ ११ ॥

दिने दिने स्वर्ण भारान् अष्टौ सः सृजति प्रभो दुर्भिक्ष मारि अरिष्टानि सर्प आधि व्याधयः अशुभाः न सन्ति मायिनः तत्र यत्र आस्ते अभ्यर्चितः मणिः

स याचितो मणिं क्व‍ापि यदुराजाय शौरिणा ।
नैवार्थकामुक: प्रादाद् याच्ञाभङ्गमतर्कयन् ॥ १२ ॥

सः याचितः मणिम् क्व अपि यदु-राजाय शौरिणा न एव अर्थ कामुकः प्रादात् याच्ञा भङ्गम् अतर्कयन्

तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् ।
प्रसेनो हयमारुह्य मृगायां व्यचरद् वने ॥ १३ ॥

तम् एकदा मणिम् कण्ठे प्रतिमुच्य महा प्रभम् प्रसेनः हयम् आरुह्य मृगायाम् व्यचरत् वने

प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी ।
गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥ १४ ॥

प्रसेनम् स हयम् हत्वा मणिम् आच्छिद्य केशरी गिरिम् विशन् जाम्बवता निहतः मणिम् इच्छता

सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले ।
अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥ १५ ॥

सः अपि चक्रे कुमारस्य मणिम् क्रीडनकम् बिले अपश्यन् भ्रातरम् भ्राता सत्राजित् पर्यतप्यत

प्राय: कृष्णेन निहतो मणिग्रीवो वनं गत: ।
भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन् जना: ॥ १६ ॥

प्रायः कृष्णेन निहतः मणि ग्रीवः वनम् गतः भ्राता मम इति तत् श्रुत्वा कर्णे कर्णे अजपन् जनाः

भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ।
मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरै: ॥ १७ ॥

भगवान् तत् उपश्रुत्य दुर्यशः लिप्तम् आत्मनि मार्ष्टुम् प्रसेन-पदवीम् अन्वपद्यत नागरैः

हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने ।
तं चाद्रिपृष्ठे निहतमृक्षेण दद‍ृशुर्जना: ॥ १८ ॥

हतम् प्रसेनम् अश्वम् च वीक्ष्य केशरिणा वने तम् च अद्रि पृष्ठे निहतम् ऋक्षेण ददृशुः जनाः

ऋक्षराजबिलं भीममन्धेन तमसावृतम् ।
एको विवेश भगवानवस्थाप्य बहि: प्रजा: ॥ १९ ॥

ऋक्ष-राज बिलम् भीमम् अन्धेन तमसा आवृतम् एकः विवेश भगवान् अवस्थाप्य बहिः प्रजाः

तत्र द‍ृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् ।
हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥ २० ॥

तत्र दृष्ट्वा मणि-प्रेष्ठम् बाल क्रीडनकम् कृतम् हर्तुम् कृत-मतिः तस्मिन् अवतस्थे अर्भक-अन्तिके

तमपूर्वं नरं द‍ृष्ट्वा धात्री चुक्रोश भीतवत् ।
तच्छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वर: ॥ २१ ॥

तम् अपूर्वम् नरम् दृष्ट्वा धात्री चुक्रोश भीत-वत् तत् श्रुत्वा अभ्यद्रवत् क्रुद्धः जाम्बवान् बलिनाम् वरः

स वै भगवता तेन युयुधे स्वामिनात्मन: ।
पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित् ॥ २२ ॥

सः वै भगवता तेन युयुधे स्वामीना आत्मनः पुरुषम् प्राकृतम् मत्वा कुपितः न अनुभाव वित्

द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतो: ।
आयुधाश्मद्रुमैर्दोर्भि: क्रव्यार्थे श्येनयोरिव ॥ २३ ॥

द्वन्द्व युद्धम् सु-तुमुलम् उभयोः विजिगीषतोः आयुध अश्म द्रुमैः दोर्भिः क्रव्य अर्थे श्येनयोः इव

आसीत्तदष्टाविंशाहमितरेतरमुष्टिभि: ।
वज्रनिष्पेषपरुषैरविश्रममहर्निशम् ॥ २४ ॥

आसीत् तत् अष्टा-विंश अहम् इतर-इतर मुष्टिभिः वज्र निष्पेष परुषैः अविश्रमम् अहः-निशम्

कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धन: ।
क्षीणसत्त्व: स्विन्नगात्रस्तमाहातीव विस्मित: ॥ २५ ॥

कृष्ण-मुष्टि विनिष्पात निष्पिष्ट अङ्ग उरु बन्धनः क्षीण सत्त्वः स्विन्न गात्रः तम् आह अतीव विस्मितः

जाने त्वां सर्वभूतानां प्राण ओज: सहो बलम् ।
विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६ ॥

जाने त्वाम् सर्व भूतानाम् प्राणः ओजः सहः बलम् विष्णुम् पुराण पुरुषम् प्रभविष्णुम् अधीश्वरम्

त्वं हि विश्वसृजां स्रष्टा सृष्टानामपि यच्च सत् ।
काल: कलयतामीश: पर आत्मा तथात्मनाम् ॥ २७ ॥

त्वम् हि विश्व सृजाम् स्रष्टा सृष्टानाम् अपि यत् च सत् कालः कलयताम् ईशः परः आत्मा तथा आत्मनाम्

यस्येषदुत्कलितरोषकटाक्षमोक्षै-
र्वर्त्मादिशत् क्षुभितनक्रतिमिङ्गलोऽब्धि: ।
सेतु: कृत: स्वयश उज्ज्वलिता च लङ्का
रक्ष:शिरांसि भुवि पेतुरिषुक्षतानि ॥ २८ ॥

यस्य ईषत् उत्कलित रोष कटा-अक्ष मोक्षैः वर्त्म आदिशत् क्षुभित नक्र तिमिङ्गलः अब्धिः सेतुः कृतः स्व यशः उज्ज्वलिता च लङ्का रक्षः शिरांसि भुवि पेतुः इषु क्षतानि

इति विज्ञातविज्ञानमृक्षराजानमच्युत: ।
व्याजहार महाराज भगवान् देवकीसुत: ॥ २९ ॥
अभिमृश्यारविन्दाक्ष: पाणिना शंकरेण तम् ।
कृपया परया भक्तं मेघगम्भीरया गिरा ॥ ३० ॥

इति विज्ञात-विज्ञानम् ऋक्ष राजानम् अच्युतः व्याजहार महा-राज भगवान् देवकी-सुरः अभिमृश्य अरविन्द-अक्षः पाणिना शम् करेण तम् कृपया परया भक्तम् मेघ गम्भीरया गिरा

मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ।
मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ॥ ३१ ॥

मणि हेतोः इह प्राप्ताः वयम् ऋक्ष-पते बिलम् मिथ्या अभिशापम् प्रमृजन् आत्मनः मणिना अमुना

इत्युक्त: स्वां दुहितरं कन्यां जाम्बवतीं मुदा ।
अर्हणार्थं स मणिना कृष्णायोपजहार ह ॥ ३२ ॥

इति उक्तः स्वाम् दुहितरम् कन्याम् जाम्बवतीम् मुदा अर्हण-अर्थम् सः मणिना कृष्णाय उपजहार ह

अद‍ृष्ट्वा निर्गमं शौरे: प्रविष्टस्य बिलं जना: ।
प्रतीक्ष्य द्वादशाहानि दु:खिता: स्वपुरं ययु: ॥ ३३ ॥

अदृष्ट्वा निर्गमम् शौरेः प्रविष्टस्य बिलम् जनः प्रतीक्ष्य द्वादश अहानि दुःखिताः स्व पुरम् ययुः

निशम्य देवकी देवी रक्‍मिण्यानकदुन्दुभि: ।
सुहृदो ज्ञातयोऽशोचन् बिलात् कृष्णमनिर्गतम् ॥ ३४ ॥

निशम्य देवकी देवी रुक्मिणी आनकदुन्दुभिः सुहृदः ज्ञातयः अशोचन् बिलात् कृष्णम् अनिर्गतम्

सत्राजितं शपन्तस्ते दु:खिता द्वारकौकस: ।
उपतस्थुश्चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥ ३५ ॥

सत्राजितम् शपन्तः ते दुःखिताः द्वारका-ओकसः उपतस्थुः चन्द्रभागाम् दुर्गाम् कृष्ण-उपलब्धये

तेषां तु देव्युपस्थानात् प्रत्यादिष्टाशिषा स च ।
प्रादुर्बभूव सिद्धार्थ: सदारो हर्षयन् हरि: ॥ ३६ ॥

तेषाम् तु देवी उपस्थानात् प्रत्यादिष्ट आशिषाः सः च प्रादुर्बभूव सिद्ध अर्थः स-दारः हर्षयन् हरिः

उपलभ्य हृषीकेशं मृतं पुनरिवागतम् ।
सह पत्न्‍या मणिग्रीवं सर्वे जातमहोत्सवा: ॥ ३७ ॥

उपलभ्य हृषीकेशम् मृतम् पुनः इव आगतम् सह पत्न्या मणि ग्रीवम् सर्वे जात महा उत्सवाः

सत्राजितं समाहूय सभायां राजसन्निधौ ।
प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८ ॥

सत्राजितम् समाहूय सभायाम् राज सन्निधौ प्राप्तिम् च आख्याय भगवान् मणिम् तस्मै न्यवेदयत्

स चातिव्रीडितो रत्नं गृहीत्वावाङ्‍मुखस्तत: ।
अनुतप्यमानो भवनमगमत् स्वेन पाप्मना ॥ ३९ ॥

सः च अति व्रीडितः रत्नम् गृहीत्वा अवाक् मुखः ततः अनुतप्यमानः भवनम् अगमत् स्वेन पाप्मना

सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुल: ।
कथं मृजाम्यात्मरज: प्रसीदेद् वाच्युत: कथम् ॥ ४० ॥
किं कृत्वा साधु मह्यं स्यान्न शपेद् वा जनो यथा ।
अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ॥ ४१ ॥
दास्ये दुहितरं तस्मै स्‍त्रीरत्नं रत्नमेव च ।
उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा ॥ ४२ ॥

सः अनुध्यायन् तत् एव अघम् बल-वत् विग्रह आकुलः कथम् मृजामि आत्म रजः प्रसीदेत् वा अच्युतः कथम् किम् कृत्वा साधु मह्यम् स्यात् न शपेत् वा जनः यथा अदीर्घ दर्शनम् क्षुद्रम् मूढम् द्रविण लोलुपम् दास्ये दुहितरम् तस्मै स्त्री रत्नम् रत्नम् एव च उपायः अयम् समीचीनः तस्य शान्तिः न च अन्यथा

एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् ।
मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह ॥ ४३ ॥

एवम् व्यवसितः बुद्ध्या सत्राजित् स्व सुताम् शुभाम् मणिम् च स्वयम् उद्यम्य कृष्णाय उपजहार ह

तां सत्यभामां भगवानुपयेमे यथाविधि ।
बहुभिर्याचितां शीलरूपौदार्यगुणान्विताम् ॥ ४४ ॥

ताम् सत्यभामाम् भगवान् उपयेमे यथा-विधि बहुभिः याचिताम् शील रूप औदार्य गुण अन्विताम्

भगवानाह न मणिं प्रतीच्छामो वयं नृप ।
तवास्तां देवभक्तस्य वयं च फलभागिन: ॥ ४५ ॥

भगवान् आह न मणिम् प्रतीच्छामः वयम् नृप तव आस्ताम् देव भक्तस्य वयम् च फल भागिनः

१०.५७

श्रीबादरायणिरुवाच
विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान् ।
कुन्तीं च कुल्यकरणे सहरामो ययौ कुरून् ॥ १ ॥

श्री-बादरायणिः उवाच विज्ञात अर्थः अपि गोविन्दः दग्धान् आकर्ण्य पाण्डवान् कुन्तीम् च कुल्य करणे सह-रामः ययौ कुरून्

भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च ।
तुल्यदु:खौ च सङ्गम्य हा कष्टमिति होचतु: ॥ २ ॥

भीष्मम् कृपम् स-विदुरम् गान्धारीम् द्रोणम् एव च तुल्य दुःखौ च सङ्गम्य हा कष्टम् इति ह ऊचतुः

लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतु: ।
अक्रूरकृतवर्माणौ मनि: कस्मान्न गृह्यते ॥ ३ ॥

लब्ध्वा एतत् अन्तरम् राजन् शतधन्वानम् ऊचतुः अक्रूर-कृतवर्माणौ मनिः कस्मात् न गृह्यते

योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य न: ।
कृष्णायादान्न सत्राजित् कस्माद् भ्रातरमन्वियात् ॥ ४ ॥

यः अस्मभ्यम् सम्प्रतिश्रुत्य कन्या रत्नम् विगर्ह्य नः कृष्णाय अदात् न सत्राजित् कस्मात् भ्रातरम् अन्वियात्

एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तम: ।
शयानमवधील्ल‍ोभात् स पाप: क्षीणजीवित: ॥ ५ ॥

एवम् भिन्न मतिः ताभ्याम् सत्राजितम् असत्-तमः शयानम् अवधीत् लोभात् सः पापः क्षीण जीवितः

स्‍त्रीणां विक्रोशमानानां क्रन्दन्तीनामनाथवत् ।
हत्वा पशून् सौनिकवन्मणिमादाय जग्मिवान् ॥ ६ ॥

स्त्रीणाम् विक्रोशमानानाम् क्रन्दन्तीनाम् अनाथ वत् हत्वा पशून् सौनिक वत् मणिम् आदाय जग्मिवान्

सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता ।
व्यलपत्तात तातेति हा हतास्मीति मुह्यती ॥ ७ ॥

सत्यभामा च पितरम् हतम् वीक्ष्य शुचा-अर्पिता व्यलपत् तत तात इति हा हता अस्मि इति मुह्यती

तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् ।
कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर्वधम् ॥ ८ ॥

तैल द्रोण्याम् मृतम् प्रास्य जगाम गज-साह्वयम् कृष्णाय विदित-अर्थाय तप्ता आचख्यौ पितुः वधम्

तदाकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम् ।
अहो न: परमं कष्टमित्यस्राक्षौ विलेपतु: ॥ ९ ॥

तत् आकर्ण्य ईश्वरौ राजन् अनुसृत्य नृ-लोकताम् अहो नः परमम् कष्टम् इति अस्र अक्षौ विलेपतुः

आगत्य भगवांस्तस्मात् सभार्य: साग्रज: पुरम् ।
शतधन्वानमारेभे हन्तुं हर्तुं मणिं तत: ॥ १० ॥

आगत्य भगवान् तस्मात् स-भार्यः स-अग्रजः पुरम् शतधन्वानम् आरेभे हन्तुम् हर्तुम् मणिम् ततः

सोऽपि कृतोद्यमं ज्ञात्वा भीत: प्राणपरीप्सया ।
साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ॥ ११ ॥

सः अपि कृत-उद्यमम् ज्ञात्वा भीतः प्राण परीप्सया साहाय्ये कृतवर्माणम् अयाचत सः च अब्रवीत्

नाहमीस्वरयो: कुर्यां हेलनं रामकृष्णयो: ।
को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन् ॥ १२ ॥
कंस: सहानुगोऽपीतो यद्‍द्वेषात्त्याजित: श्रिया ।
जरासन्ध: सप्तदश संयुगाद् विरथो गत: ॥ १३ ॥

न अहम् ईश्वरयोः कुर्याम् हेलनम् राम-कृष्णयोः कः नु क्षेमाय कल्पेत तयोः वृजिनम् आचरन् कंसः सह अनुगः अपीतः यत् द्वेषात् त्याजितः श्रिया जरासन्धः सप्तदश संयुगात् विरथः गतः

प्रत्याख्यात: स चाक्रूरं पार्ष्णिग्राहमयाचत ।
सोऽप्याह को विरुध्येत विद्वानीश्वरयोर्बलम् ॥ १४ ॥

प्रत्याख्यातः सः च अक्रूरम् पार्ष्णि-ग्राहम् अयाचत सः अपि आह कः विरुध्येत विद्वान् ईश्वरयोः बलम्

य इदं लीलया विश्वं सृजत्यवति हन्ति च ।
चेष्टां विश्वसृजो यस्य न विदुर्मोहिताजया ॥ १५ ॥

यः इदम् लीलया विश्वम् सृजति अवति हन्ति च चेष्टाम् विश्व-सृजः यस्य न विदुः मोहिताः अजया

य: सप्तहायन: शैलमुत्पाट्यैकेन पाणिना ।
दधार लीलया बाल उच्छिलीन्ध्रमिवार्भक: ॥ १६ ॥

यः सप्त हायनः शैलम् उत्पाट्य एकेन पाणिना दधार लीलया बालः उच्छिलीन्ध्रम् इव अर्भकः

नमस्तस्मै भगवते कृष्णायाद्भ‍ुतकर्मणे ।
अनन्तायादिभूताय कूटस्थायात्मने नम: ॥ १७ ॥

नमः तस्मै भगवते कृष्णाय अद्भुत कर्मणे अनन्ताय आदि-भूताय कूट-स्थाय आत्मने नमः

प्रत्याख्यात: स तेनापि शतधन्वा महामणिम् ।
तस्मिन् न्यस्याश्वमारुह्य शतयोजनगं ययौ ॥ १८ ॥

प्रत्याख्यातः सः तेन अपि शतधन्वा महा-मणिम् तस्मिन् न्यस्य अश्वम् आरुह्य शत योजन गम् ययौ

गरुडध्वजमारुह्य रथं रामजनार्दनौ ।
अन्वयातां महावेगैरश्वै राजन् गुरुद्रुहम् ॥ १९ ॥

गरुड-ध्वजम् आरुह्य रथम् राम जनार्दनौ अन्वयाताम् महा-वेगैः अश्वैः राजन् गुरु द्रुहम्

मिथिलायामुपवने विसृज्य पतितं हयम् ।
पद्‍भ्यामधावत् सन्त्रस्त: कृष्णोऽप्यन्वद्रवद् रुषा ॥ २० ॥

मिथिलायाम् उपवने विसृज्य पतितम् हयम् पद्भ्याम् अधावत् सन्त्रस्तः कृष्णः अपि अन्वद्रवत् रुषा

पदातेर्भगवांस्तस्य पदातिस्तिग्मनेमिना ।
चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन्मणिम् ॥ २१ ॥

पदातेः भगवान् तस्य पदातिः तिग्म नेमिना चक्रेण शिरः उत्कृत्य वाससोः व्यचिनोत् मणिम्

अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम् ।
वृथा हत: शतधनुर्मणिस्तत्र न विद्यते ॥ २२ ॥

अलब्ध मणिः आगत्य कृष्णः आह अग्र-ज अन्तिकम् वृथा हतः शतधनुः मणिः तत्र न विद्यते

तत आह बलो नूनं स मणि: शतधन्वना ।
कस्मिंश्चित् पुरुषे न्यस्तस्तमन्वेष पुरं व्रज ॥ २३ ॥

ततः आह बलः नूनम् सः मणिः शतधन्वना कस्मिंश्चित् पुरुषे न्यस्तः तम् अन्वेष पुरम् व्रज

अहं वैदेहमिच्छामि द्रष्टुं प्रियतमं मम ।
इत्युक्त्वा मिथिलां राजन् विवेश यदुनन्दन: ॥ २४ ॥

अहम् वैदेहम् इच्छामि द्रष्टुम् प्रिय-तमम् मम इति उक्त्वा मिथिलाम् राजन् विवेश यदु-नन्दनः

तं द‍ृष्ट्वा सहसोत्थाय मैथिल: प्रीतमानस: ।
अर्हयामास विधिवदर्हणीयं समर्हणै: ॥ २५ ॥

तम् दृष्ट्वा सहसा उत्थाय मैथिलः प्रीत-मानसः अर्हयाम् आस विधि-वत् अर्हणीयम् समर्हणैः

उवास तस्यां कतिचिन्मिथिलायां समा विभु: ।
मानित: प्रीतियुक्तेन जनकेन महात्मना ।
ततोऽशिक्षद् गदां काले धार्तराष्ट्र: सुयोधन: ॥ २६ ॥

उवास तस्याम् कतिचित् मिथिलायाम् समाः विभुः मानितः प्रीति-युक्तेन जनकेन महा-आत्मना ततः अशिक्षत् गदाम् काले धार्तराष्ट्रः सुयोधनः

केशवो द्वारकामेत्य निधनं शतधन्वन: ।
अप्राप्तिं च मणे: प्राह प्रियाया: प्रियकृद् विभु: ॥ २७ ॥

केशवः द्वारकाम् एत्य निधनम् शतधन्वनः अप्राप्तिम् च मणेः प्राह प्रियायाः प्रिय कृत् विभुः

तत: स कारयामास क्रिया बन्धोर्हतस्य वै ।
साकं सुहृद्भ‍िर्भगवान् या या: स्यु: साम्परायिकी: ॥ २८ ॥

ततः सः कारयाम् आस क्रिया बन्धोः हतस्य वै साकम् सुहृद्भिः भगवान् याः याः स्युः साम्परायिकीः

अक्रूर: कृतवर्मा च श्रुत्वा शतधनोर्वधम् ।
व्यूषतुर्भयवित्रस्तौ द्वारकाया: प्रयोजकौ ॥ २९ ॥

अक्रूरः कृतवर्मा च श्रुत्वा शतधनोः वधम् व्यूषतुः भय-वित्रस्तौ द्वारकायाः प्रयोजकौ

अक्रूरे प्रोषितेऽरिष्टान्यासन् वै द्वारकौकसाम् ।
शारीरा मानसास्तापा मुहुर्दैविकभौतिका: ॥ ३० ॥

अक्रूरे प्रोषिते अरिष्टानि आसन् वै द्वारका-ओकसाम् शारीराः मानसः तापाः मुहुः दैविक भौतिकाः

इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम् ।
मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ॥ ३१ ॥

इति अङ्ग उपदिशन्ति एके विस्मृत्य प्राक् उदाहृतम् मुनि वास निवासे किम् घटेत अरिष्ट दर्शनम्

देवेऽवर्षति काशीश: श्वफल्कायागताय वै ।
स्वसुतां गान्दिनीं प्रादात् ततोऽवर्षत् स्म काशिषु ॥ ३२ ॥

देवे अवर्षति काशी-ईशः श्वफल्काय आगताय वै स्व सुताम् गान्दिनीम् प्रादात् ततः अवर्षत् स्म काशिषु

तत्सुतस्तत्प्रभावोऽसावक्रूरो यत्र यत्र ह ।
देवोऽभिवर्षते तत्र नोपतापा न मारीका: ॥ ३३ ॥

तत् सुतः तत्-प्रभावः असौ अक्रूरः यत्र यत्र ह देवः अभिवर्षते तत्र न उपतापाः न मारिकाः

इति वृद्धवच: श्रुत्वा नैतावदिह कारणम् ।
इति मत्वा समानाय्य प्राहाक्रूरं जनार्दन: ॥ ३४ ॥

इति वृद्ध वचः श्रुत्वा न एतावत् इह कारणम् इति मत्वा समानाय्य प्राह अक्रूरम् जनार्दनः

पूजयित्वाभिभाष्यैनं कथयित्वा प्रिया: कथा: ।
विज्ञाताखिलचित्तज्ञ: स्मयमान उवाच ह ॥ ३५ ॥
ननु दानपते न्यस्तस्त्वय्यास्ते शतधन्वना ।
स्यमन्तको मनि: श्रीमान् विदित: पूर्वमेव न: ॥ ३६ ॥

पूजयित्वा अभिभाष्य एनम् कथयित्वा प्रियाः कथाः विज्ञात अखिल चित्त ज्ञः स्मयमानः उवाच ह ननु दान पते न्यस्तः त्वयि आस्ते शतधन्वना स्यमन्तकः. मनिः श्री-मान् विदितः पूर्वम् एव नः

सत्राजितोऽनपत्यत्वाद् गृह्णीयुर्दुहितु: सुता: ।
दायं निनीयाप: पिण्डान् विमुच्यर्णं च शेषितम् ॥ ३७ ॥

सत्राजितः अनपत्यत्वात् गृह्णीयुः दुहितुः सुताः दायम् निनीय आपः पिण्डान् विमुच्य ऋणम् च शेषितम्

तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुव्रते मणि: ।
किन्तु मामग्रज: सम्यङ्‍न प्रत्येति मणिं प्रति ॥ ३८ ॥
दर्शयस्व महाभाग बन्धूनां शान्तिमावह ।
अव्युच्छिन्ना मखास्तेऽद्य वर्तन्ते रुक्‍मवेदय: ॥ ३९ ॥

तथा अपि दुर्धरः तु अन्यैः त्वयि आस्ताम् सुव्रते मणिः किन्तु मम् अग्र-जः सम्यक् न प्रत्येति मणिम् प्रति दर्शयस्व महा-भाग बन्धूनाम् शान्तिम् आवह अव्युच्छिन्नाः मखाः ते अद्य वर्तन्ते रुक्म वेदयः

एवं सामभिरालब्ध: श्वफल्कतनयो मणिम् ।
आदाय वाससाच्छन्न: ददौ सूर्यसमप्रभम् ॥ ४० ॥

एवम् सामभिः आलब्धः श्वफल्क-तनयः मणिम् आदाय वाससा आच्छन्नः ददौ सूर्य सम प्रभम्

स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मन: ।
विमृज्य मणिना भूयस्तस्मै प्रत्यर्पयत् प्रभु: ॥ ४१ ॥

स्यमन्तकम् दर्शयित्वा ज्ञातिभ्यः रजः आत्मनः विमृज्य मणिना भूयः तस्मै प्रत्यर्पयत् प्रभुः

यस्त्वेतद् भगवत ईश्वरस्य विष्णो-
र्वीर्याढ्यं वृजिनहरं सुमङ्गलं च ।
आख्यानं पठति श‍ृणोत्यनुस्मरेद् वा
दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् ॥ ४२ ॥

यः तु एतत् भगवतः ईश्वरस्य विष्णोः वीर्य आढ्यम् वृजिन हरम् सु-मङ्गलम् च आख्यानम् पठति शृणोति अनुस्मरेत् वा दुष्कीर्तिम् दुरितम् अपोह्य याति शान्तिम्

१०.५८

श्रीशुक उवाच
एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तम: ।
इन्द्रप्रस्थं गत: श्रीमान् युयुधानादिभिर्वृत: ॥ १ ॥

श्री-शुकः उवाच एकदा पाण्डवान् द्रष्टुम् प्रतीतान् पुरुष-उत्तमः इन्द्रप्रस्थम् गतः श्री-मान् युयुधान-आदिभिर् वृतः

द‍ृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम् ।
उत्तस्थुर्युगपद् वीरा: प्राणा मुख्यमिवागतम् ॥ २ ॥

दृष्ट्वा तम् आगतम् पार्थाः मुकुन्दम् अखिल ईश्वरम् उत्तस्थुः युगपत् वीरः प्राणाः मुख्यम् इव आगतम्

परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनस: ।
सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययु: ॥ ३ ॥

परिष्वज्य अच्युतम् वीराः अङ्ग सङ्ग हत एनसः स-अनुराग स्मितम् वक्त्रम् वीक्ष्य तस्य मुदम् ययुः

युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् ।
फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दित: ॥ ४ ॥

युधिष्ठिरस्य भीमस्य कृत्वा पाद अभिवन्दनम् फाल्गुनम् परिरभ्य अथ यमाभ्याम् च अभिवन्दितः

परमासन आसीनं कृष्णा कृष्णमनिन्दिता ।
नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत ॥ ५ ॥

परम आसने आसीनम् कृष्णा कृष्णम् अनिन्दिता नव ऊढा व्रीडिता किञ्चित् शनैः एत्य अभ्यवन्दत

तथैव सात्यकि: पार्थै: पूजितश्चाभिवन्दित: ।
निषसादासनेऽन्ये च पूजिता: पर्युपासत ॥ ६ ॥

तथा एव सात्यकिः पार्थैः पूजितः च अभिवन्दितः निषसाद आसने अन्ये च पूजिताः पर्युपासत

पृथां समागत्य कृताभिवादन-
स्तयातिहार्दार्द्रद‍ृशाभिरम्भित: ।
आपृष्टवांस्तां कुशलं सहस्‍नुषां
पितृष्वसारं परिपृष्टबान्धव: ॥ ७ ॥

पृथाम् समागत्य कृत अभिवादनः तया अति हार्द अर्द्र दृशा अभिरम्भितः आपृष्टवान् ताम् कुशलम् सह स्नुषाम् पितृ स्वसारम् परिपृष्ट बान्धवः

तमाह प्रेमवैक्लव्यरुद्धकण्ठाश्रुलोचना ।
स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्मदर्शनम् ॥ ८ ॥

तम् आह प्रेम वैक्लव्य रुद्ध कण्ठा अश्रु लोचना स्मरन्ती तान् बहून् क्लेशान् क्लेश अपाय आत्म दर्शनम्

तदैव कुशलं नोऽभूत् सनाथास्ते कृता वयम् ।
ज्ञतीन् न: स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९ ॥

तदा एव कुशलम् नः अभूत् स नाथाः ते कृताः वयम् ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितः त्वया

न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मन: ।
तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थित: ॥ १० ॥

न ते अस्ति स्व पर भ्रान्तिः विश्वस्य सुहृत् आत्मनः तथा अपि स्मरताम् शश्वत् क्लेशान् हंसि हृदि स्थितः

युधिष्ठिर उवाच
किं न आचरितं श्रेयो न वेदाहमधीश्वर ।
योगेश्वराणां दुर्दर्शो यन्नो द‍ृष्ट: कुमेधसाम् ॥ ११ ॥

युधिष्ठिरः उवाच किम् नः आचरितम् श्रेयः न वेद अहम् अधीश्वर योग ईश्वराणाम् दुर्दर्शः यत् नः दृष्टः कु-मेधसम्

इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थित: सुखम् ।
जनयन् नयनानन्दमिन्द्रप्रस्थौकसां विभु: ॥ १२ ॥

इति वै वार्षिकान् मासान् राज्ञा सः अभ्यर्थितः सुखम् जनयन् नयन आनन्दम् इन्द्रप्रस्थ-ओकसाम् विभुः

एकदा रथमारुह्य विजयो वानरध्वजम् ।
गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ ॥ १३ ॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् ।
बहुव्यालमृगाकीर्णं प्राविशत् परवीरहा ॥ १४ ॥

एकदा रथम् आरुह्य विजयः वानर ध्वजम् गाण्डीवम् धनुः आदाय तूणौ च अक्षय सायकौ साकम् कृष्णेन सन्नद्धः विहर्तुम् विपिनम् महत् बहु व्याल-मृग आकीर्णम् प्राविशत् पर वीर हा

तत्राविध्यच्छरैर्व्याघ्रान् शूकरान् महिषान् रुरून् ।
शरभान् गवयान् खड्‍गान् हरिणान् शशशल्ल‍कान् ॥ १५ ॥

तत्र अविध्यत् शरैः व्याघ्रान् शूकरान् महिषान् रुरून् शरभान् गवयान् खड्गान् हरिणान् शश शल्लकान्

तान् निन्यु: किङ्करा राज्ञे मेध्यान् पर्वण्युपागते ।
तृट्परीत: परिश्रान्तो बिभत्सुर्यमुनामगात् ॥ १६ ॥

तान् निन्युः किङ्कराः राज्ञे मेध्यान् पर्वणि उपागते तृट् परीतः परिश्रान्तः बिभत्सुः यमुनाम् अगात्

तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ ।
कृष्णौ दद‍ृशतु: कन्यां चरन्तीं चारुदर्शनाम् ॥ १७ ॥

तत्र उपस्पृश्य विशदम् पीत्वा वारि महा-रथौ कृष्णौ ददृशतुः कन्याम् चरन्तीम् चारु-दर्शनाम्

तामासाद्य वरारोहां सुद्विजां रुचिराननाम् ।
पप्रच्छ प्रेषित: सख्या फाल्गुन: प्रमदोत्तमाम् ॥ १८ ॥

ताम् आसाद्य वरा आरोहाम् सु द्विजाम् रुचिर आननाम् पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदा उत्तमाम्

का त्वं कस्यासि सुश्रोणि कुतो वा किं चिकीर्षसि ।
मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने ॥ १९ ॥

का त्वम् कस्य असि सु-श्रोणि कुतः वा किम् चिकीर्षसि मन्ये त्वाम् पतिम् इच्छन्तीम् सर्वम् कथय शोभने

श्रीकालिन्द्युवाच
अहं देवस्य सवितुर्दुहिता पतिमिच्छती ।
विष्णुं वरेण्यं वरदं तप: परममास्थित: ॥ २० ॥

श्री-कालिन्दी उवाच अहम् देवस्य सवितुः दुहिता पतिम् इच्छती विष्णुम् वरेण्यम् वर-दम् तपः परमम् आस्थितः

नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम् ।
तुष्यतां मे स भगवान् मुकुन्दोऽनाथसंश्रय: ॥ २१ ॥

न अन्यम् पतिम् वृणे वीर तम् ऋते श्री निकेतनम् तुष्यताम् मे सः भगवान् मुकुन्दः अनाथ संश्रयः

कालिन्दीति समाख्याता वसामि यमुनाजले ।
निर्मिते भवने पित्रा यावदच्युतदर्शनम् ॥ २२ ॥

कालिन्दी इति समाख्याता वसामि यमुना-जले निर्मिते भवने पित्रा यावत् अच्युत दर्शनम्

तथावदद् गुडाकेशो वासुदेवाय सोऽपि ताम् ।
रथमारोप्य तद् विद्वान् धर्मराजमुपागमत् ॥ २३ ॥

तथा अवदत् गुडाकेशः वासुदेवाय सः अपि ताम् रथम् आरोप्य तत् विद्वान् धर्म-राजम् उपागमत्

यदैव कृष्ण: सन्दिष्ट: पार्थानां परमाद्‍भुतम् ।
कारयामास नगरं विचित्रं विश्वकर्मणा ॥ २४ ॥

यदा एव कृष्णः सन्दिष्टः पार्थानाम् परम अद्भुतम् कारयाम् आस नगरम् विचित्रम् विश्वकर्मणा

भगवांस्तत्र निवसन् स्वानां प्रियचिकीर्षया ।
अग्नये खाण्डवं दातुमर्जुनस्यास सारथि: ॥ २५ ॥

भगवान् तत्र निवसन् स्वानाम् प्रिय चिकीर्षया अग्नये खाण्डवम् दातुम् अर्जुनस्य आस सारथिः

सोऽग्निस्तुष्टो धनुरदाद्धयान् श्वेतान् रथं नृप ।
अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्‍त्रिभि: ॥ २६ ॥

सः अग्निः तुष्टः धनुः अदात् हयान् श्वेतान् रथम् नृप अर्जुनाय अक्षयौ तूणौ वर्म च अभेद्यम् अस्त्रिभिः

मयश्च मोचितो वह्ने: सभां सख्य उपाहरत् ।
यस्मिन् दुर्योधनस्यासीज्जलस्थलद‍ृशिभ्रम: ॥ २७ ॥

मयः च मोचितः वह्नेः सभाम् सख्ये उपाहरत् यस्मिन् दुर्योधनस्य आसीत् जल स्थल दृशि भ्रमः

स तेन समनुज्ञात: सुहृद्भ‍िश्चानुमोदित: ।
आययौ द्वारकां भूय: सात्यकिप्रमुखैर्वृत: ॥ २८ ॥

सः तेन समनुज्ञातः सु-हृद्भिः च अनुमोदितः आययौ द्वारकाम् भूयः सात्यकि-प्रमुखैः वृतः

अथोपयेमे कालिन्दीं सुपुण्यर्त्वृक्ष ऊर्जिते ।
वितन्वन् परमानन्दं स्वानां परममङ्गल: ॥ २९ ॥

अथ उपयेमे कालिन्दीम् सु पुण्य ऋतु ऋक्षे ऊर्जिते वितन्वन् परम आनन्दम् स्वानाम् परम मङ्गलः

विन्द्यानुविन्द्यावावन्त्यौ दुर्योधनवशानुगौ ।
स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम् ॥ ३० ॥

विन्द्य-अनुविन्द्यौ आवन्त्यौ दुर्योधन-वश-अनुगौ स्वयम्वरे स्व भगिनीम् कृष्णे सक्ताम् न्यषेधताम्

राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसु: ।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ ३१ ॥

राजाधिदेव्याः तनयाम् मित्रविन्दाम् पितृ स्वसुः प्रसह्य हृतवान् कृष्णः राजन् राज्ञाम् प्रपश्यताम्

नग्नजिन्नाम कौशल्य आसीद् राजातिधार्मिक: ।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ॥ ३२ ॥

नग्नजित् नाम कौशल्यः आसीत् राजा अति धार्मिकः तस्य सत्या अभवत् कन्या देवी नाग्नजिती नृप

न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान् ।
तीक्ष्णश‍ृङ्गान् सुदुर्धर्षान् वीर्यगन्धासहान् खलान् ॥ ३३ ॥

न ताम् शेकुः नृपाः वोढुम् अजित्वा सप्त गो-वृषान् तीक्ष्ण शृङ्गान् सु दुर्धर्षान् वीर्य गन्ध असहान् खलान्

तां श्रुत्वा वृषजिल्ल‍भ्यां भगवान् सात्वतां पति: ।
जगाम कौशल्यपुरं सैन्येन महता वृत: ॥ ३४ ॥

ताम् श्रुत्वा वृष जित् लभ्याम् भगवान् सात्वताम् पतिः जगाम कौशल्य-पुरम् सैन्येन महता वृतः

स कोशलपति: प्रीत: प्रत्युत्थानासनादिभि: ।
अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दित: ॥ ३५ ॥

सः कोशल-पतिः प्रीतः प्रत्युत्थान आसन आदिभिः अर्हणेन अपि गुरुणा पूजयन् प्रतिनन्दितः

वरं विलोक्याभिमतं समागतं
नरेन्द्रकन्या चकमे रमापतिम् ।
भूयादयं मे पतिराशिषोऽनल:
करोतु सत्या यदि मे धृतो व्रत: ॥ ३६ ॥

वरम् विलोक्य अभिमतम् समागतम् नरेन्द्र कन्या चकमे रमा पतिम् भूयात् अयम् मे पतिः आशिषः अनलः करोतु सत्याः यदि मे धृतः व्रतः

यत्पादपङ्कजरज: शिरसा बिभर्ति
श्रीरब्जज: सगिरिश: सहलोकपालै: ।
लीलातनु: स्वकृतसेतुपरीप्सया य:
कालेऽदधत्स भगवान् मम केन तुष्येत् ॥ ३७ ॥

यत् पाद पङ्कज रजः शिरसा बिभर्ति शृईः अब्ज-जः स गिरि-शः सह लोक पालैः लीला तनुः स्व कृत सेतु परीप्सया यः काले अदधत् सः भगवान् मम केन तुष्येत्

अर्चितं पुनरित्याह नारायण जगत्पते ।
आत्मानन्देन पूर्णस्य करवाणि किमल्पक: ॥ ३८ ॥

अर्चितम् पुनः इति आह नारायण जगत् पते आत्म आनन्देन पूर्णस्य करवाणि किम् अल्पकः

श्रीशुक उवाच
तमाह भगवान् हृष्ट: कृतासनपरिग्रह: ।
मेघगम्भीरया वाचा सस्मितं कुरुनन्दन ॥ ३९ ॥

श्री-शुकः उवाच तम् आह भगवान् हृष्टः कृत आसन परिग्रहः मेघ गम्भीरया वाचा स स्मितम् कुरु नन्दन

श्रीभगवानुवाच
नरेन्द्र याच्ञा कविभिर्विगर्हिता
राजन्यबन्धोर्निजधर्मवर्तिन: ।
तथापि याचे तव सौहृदेच्छया
कन्यां त्वदीयां न हि शुल्कदा वयम् ॥ ४० ॥

श्री-भगवान् उवाच नर-इन्द्र याच्ञा कविभिः विगर्हिता राजन्य बन्धोः निज धर्म वर्तिनः तथा अपि याचे तव सौहृद इच्छया कन्याम् त्वदीयाम् न हि शुल्क-दाः वयम्

श्रीराजोवाच
कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सित: ।
गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी ॥ ४१ ॥

श्री-राजा उवाच कः अन्यः ते अभ्यधिकः नाथ कन्या वरः इह ईप्सितः गुण एक धाम्नः यस्य अङ्गे श्रीः वसति अनपायिनी

किन्‍त्‍वस्माभि: कृत: पूर्वं समय: सात्वतर्षभ ।
पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया ॥ ४२ ॥

किन्तु अस्माभिः कृतः पूर्वम् समयः सात्वत-ऋषभ पुंसाम् वीर्य परीक्षा अर्थम् कन्या वर परीप्सया

सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहा: ।
एतैर्भग्ना: सुबहवो भिन्नगात्रा नृपात्मजा: ॥ ४३ ॥

सप्त एते गो-वृषाः वीर दुर्दान्ताः दुरवग्रहाः एतैः भग्नाः सु-बहवः भिन्न गात्राः नृप आत्म-जाः

यदिमे निगृहीता: स्युस्त्वयैव यदुनन्दन ।
वरो भवानभिमतो दुहितुर्मे श्रिय:पते ॥ ४४ ॥

यत् इमे निगृहीताः स्युः त्वया एव यदु-नन्दन वरः भवान् अभिमतः दुहितुः मे श्रियः पते

एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभु: ।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल्ल‍ीलयैव तान् ॥ ४५ ॥

एवम् समयम् आकर्ण्य बद्ध्वा परिकरम् प्रभुः आत्मानम् सप्तधा कृत्वा न्यगृह्णात् लीलया एव तान्

बद्ध्वा तान् दामभि: शौरिर्भग्नदर्पान् हतौजस: ।
व्यकर्षल्ल‍ीलया बद्धान् बालो दारुमयान् यथा ॥ ४६ ॥

बद्ध्वा तान् दामभिः शौरिः भग्न दर्पान् हत ओजसः व्यकर्षत् लीलया बद्धान् बालः दारु मयान् यथा

तत: प्रीत: सुतां राजा ददौ कृष्णाय विस्मित: ।
तां प्रत्यगृह्णाद् भगवान् विधिवत् सद‍ृशीं प्रभु: ॥ ४७ ॥

ततः प्रीतः सुताम् राजा ददौ कृष्णाय विस्मितः ताम् प्रत्यगृह्णात् भगवान् विधि-वत् सदृशीम् प्रभुः

राजपत्न्‍यश्च दुहितु: कृष्णं लब्ध्वा प्रियं पतिम् ।
लेभिरे परमानन्दं जातश्च परमोत्सव: ॥ ४८ ॥

राज पत्न्यः च दुहितुः कृष्णम् लब्ध्वा प्रियम् पतिम् लेभिरे परम आनन्दम् जातः च परम उत्सवः

शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिष: ।
नरा नार्य: प्रमुदिता: सुवास:स्रगलङ्कृता: ॥ ४९ ॥

शङ्ख भेरी आनकाः नेदुः गीत वाद्य द्विज आशिषः नराः नार्यः प्रमुदिताः सु-वासः स्रक् अलङ्कृताः

दशधेनुसहस्राणि पारिबर्हमदाद् विभु: ।
युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससम् ॥ ५० ॥
नवनागसहस्राणि नागाच्छतगुणान् रथान् ।
रथाच्छतगुणानश्वानश्वाच्छतगुणान् नरान् ॥ ५१ ॥

दश धेनु सहस्राणि पारिबर्हम् अदात् विभुः युवतीनाम् त्रि-साहस्रम् निष्क ग्रीव सु वाससम् नव नाग सहस्राणि नागात् शत-गुणान् रथान् रथात् शत-गुणान् अश्वान् अश्वात् शत-गुणान् नरान्

दम्पती रथमारोप्य महत्या सेनया वृतौ ।
स्‍नेहप्रक्लिन्नहृदयो यापयामास कोशल: ॥ ५२ ॥

दम्-पती रथम् आरोप्य महत्या सेनया वृतौ स्नेह प्रक्लिन्न हृदयः यापयाम् आस कोशलः

श्रुत्वैतद् रुरुधुर्भूपा नयन्तं पथि कन्यकाम् ।
भग्नवीर्या: सुदुर्मर्षा यदुभिर्गोवृषै: पुरा ॥ ५३ ॥

श्रुत्वा एतत् रुरुधुः भू-पाः नयन्तम् पथि कन्यकाम् भग्न वीर्याः सु दुर्मर्षाः यदुभिः गो-वृषैः पुरा

तानस्यत: शरव्रातान् बन्धुप्रियकृदर्जुन: ।
गाण्डीवी कालयामास सिंह: क्षुद्रमृगानिव ॥ ५४ ॥

तान् अस्यतः शर व्रातान् बन्धु प्रिय कृत् अर्जुनः गण्डीवी कालयाम् आस सिंहः क्षुद्र मृगान् इव

पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया ।
रेमे यदूनामृषभो भगवान् देवकीसुत: ॥ ५५ ॥

पारिबर्हम् उपागृह्य द्वारकाम् एत्य सत्यया रेमे यदूनाम् ऋषभः भगवान् देवकी-सुतः

श्रुतकीर्ते: सुतां भद्रां उपयेमे पितृष्वसु: ।
कैकेयीं भ्रातृभिर्दत्तां कृष्ण: सन्तर्दनादिभि: ॥ ५६ ॥

श्रुतकीर्तेः सुताम् भद्राम् उपयेमे पितृ-स्वसुः कैकेयीम् भ्रातृभिः दत्ताम् कृष्णः सन्तर्दन-आदिभिः

सुतां च मद्राधिपतेर्लक्ष्मणां लक्षणैर्युताम् ।
स्वयंवरे जहारैक: स सुपर्ण: सुधामिव ॥ ५७ ॥

सुताम् च मद्र-अधिपतेः लक्ष्मणाम् लक्षणैः युताम् स्वयम्-वरे जहार एकः सः सुपर्णः सुधाम् इव

अन्याश्चैवंविधा भार्या: कृष्णस्यासन् सहस्रश: ।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शना: ॥ ५८ ॥

अन्याः च एवम्-विधाः भार्याः कृष्णस्य आसन् सहस्रशः भौमम् हत्वा तत् निरोधात् आहृताः चारु दर्शनाः

१०.५९

श्रीराजोवाच
यथा हतो भगवता भौमो येने च ता: स्‍त्रिय: ।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वन: ॥ १ ॥

श्री-राजा उवाच यथा हतः भगवता भौमः येन च ताः स्त्रियः निरुद्धाः एतत् आचक्ष्व विक्रमम् शार्ङ्ग-धन्वनः

श्रीशुक उवाच
इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना ।
हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ।
सभार्यो गरुडारूढ: प्राग्ज्योतिषपुरं ययौ ॥ २ ॥
गिरिदुर्गै: शस्‍त्रदुर्गैर्जलाग्‍न्यनिलदुर्गमम् ।
मुरपाशायुतैर्घोरैर्द‍ृढै: सर्वत आवृतम् ॥ ३ ॥

श्री-शुकः उवाच इन्द्रेण हृत-छत्रेण हृत-कुण्डल बन्धुना हृत अमर-अद्रि स्थानेन ज्ञापितः भौम-चेष्टितम् स भार्यः गरुड-आरूढः प्राग्-ज्योतिष-पुरम् ययौ गिरि दुर्गैः शस्त्र दुर्गैः जल अग्नि अनिल दुर्गमम् मुर-पाश अयुतैः घोरैः दृढैः सर्वतः आवृतम्

गदया निर्बिभेदाद्रीन् शस्‍त्रदुर्गाणि सायकै: ।
चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ॥ ४ ॥

गदया निर्बिभेद अद्रीन् शस्त्र-दुर्गाणि सायकैः चक्रेण अग्निम् जलम् वायुम् मुर-पाशान् तथा असिना

शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् ।
प्राकारं गदया गुर्व्या निर्बिभेद गदाधर: ॥ ५ ॥

शङ्ख नादेन यन्त्राणि हृदयानि मनस्विनाम् प्राकारम् गदया गुर्व्या निर्बिभेद गदाधरः

पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् ।
मुर: शयान उत्तस्थौ दैत्य: पञ्चशिरा जलात् ॥ ६ ॥

पाञ्चजन्य ध्वनिम् श्रुत्वा युग अन्त अशनि भीषणम् मुरः शयानः उत्तस्थौ दैत्यः पञ्च-शिराः जलात्

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो
युगान्तसूर्यानलरोचिरुल्बण: ।
ग्रसंस्‍त्रिलोकीमिव पञ्चभिर्मुखै-
रभ्यद्रवत्तार्क्ष्यसुतं यथोरग: ॥ ७ ॥

त्रि-शूलम् उद्यम्य सु दुर्निरीक्षणः युग-अन्त सूर्य अनल रोचिः उल्बणः ग्रसन् त्रि-लोकीम् इव पञ्चभिः मुखैः अभ्यद्रवत् तार्क्ष्य-सुतम् यथा उरगः

आविध्य शूलं तरसा गरुत्मते
निरस्य वक्त्रैर्व्यनदत्स पञ्चभि: ।
स रोदसी सर्वदिशोऽम्बरं महा-
नापूरयन्नण्डकटाहमावृणोत् ॥ ८ ॥

आविध्य शूलम् तरसा गरुत्मते निरस्य वक्त्रैः व्यनदत् सः पञ्चभिः सः रोदसी सर्व दिशः अम्बरम् महान् आपूरयन् अण्द कटाहम् आवृणोत्

तदापतद् वै त्रिशिखं गरुत्मते
हरि: शराभ्यामभिनत्‍त्रिधोजसा ।
मुखेषु तं चापि शरैरताडयत्
तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥ ९ ॥

तदा आपतत् वै त्रि-शिखम् गरुत्मते हरिः शराभ्याम् अभिनत् त्रिधा ओजसा मुखेषु तम् च अपि शरैः अताडयत् तस्मै गदाम् सः अपि रुषा व्यमुञ्चत

तामापतन्तीं गदया गदां मृधे
गदाग्रजो निर्बिभिदे सहस्रधा ।
उद्यम्य बाहूनभिधावतोऽजित:
शिरांसि चक्रेण जहार लीलया ॥ १० ॥

ताम् आपतन्तीम् गदया गदाम् मृधे गद-अग्रजः निर्बिभिदे सहस्रधा उद्यम्य बाहून् अभिधावतः अजितः शिरांसि चक्रेण जहार लीलया

व्यसु: पपाताम्भसि कृत्तशीर्षो
निकृत्तश‍ृङ्गोऽद्रिरिवेन्द्रतेजसा ।
तस्यात्मजा: सप्त पितुर्वधातुरा:
प्रतिक्रियामर्षजुष: समुद्यता: ॥ ११ ॥

व्यसुः पपात अम्भसि कृत्त शीर्षः निकृत्त शृङ्गः अद्रिः इव इन्द्र तेजसा तस्य आत्म-जाः सप्त पितुः वध आतुराः प्रतिक्रिया अमर्ष जुषः समुद्यताः

ताम्रोऽन्तरिक्ष: श्रवणो विभावसु-
र्वसुर्नभस्वानरुणश्च सप्तम: ।
पीठं पुरस्कृत्य चमूपतिं मृधे
भौमप्रयुक्ता निरगन् धृतायुधा: ॥ १२ ॥

ताम्रः अन्तरिक्षः श्रवणः विभावसुः वसुः नभस्वान् अरुणः च सप्तमः पीठम् पुरः-कृत्य चमू-पतिम् मृधे भौम प्रयुक्ताः निरगन् धृत आयुधाः

प्रायुञ्जतासाद्य शरानसीन् गदा:
शक्त्यृष्टिशूलान्यजिते रुषोल्बणा: ।
तच्छस्‍त्रकूटं भगवान् स्वमार्गणै-
रमोघवीर्यस्तिलशश्चकर्त ह ॥ १३ ॥

प्रायुञ्जत आसाद्य शरान् असीन् गदाः शक्ति ऋष्ति शूलानि अजिते रुषा उल्बणाः तत् शस्त्र कूटम् भगवान् स्व मार्गणैः अमोघ वीर्यः तिलशः चकर्त ह

तान् पीठमुख्याननयद् यमक्षयं
निकृत्तशीर्षोरुभुजाङ्‍‍घ्रिवर्मण: ।
स्वानीकपानच्युतचक्रसायकै-
स्तथा निरस्तान् नरको धरासुत: ।
निरीक्ष्य दुर्मर्षण आस्रवन्मदै-
र्गजै: पयोधिप्रभवैर्निराक्रमात् ॥ १४ ॥

तान् पीठ-मुख्यान् अनयत् यम क्षयम् निकृत्त शीर्ष ऊरु भुज अङ्घ्रि वर्मणः स्व अनीक पान् अच्युत चक्र सायकैः तथा निरस्तान् नरकः धरा सुतः निरीक्ष्य दुर्मर्षणः आस्रवत् मदैः गजैः पयः-धि प्रभवैः निराक्रमात्

द‍ृष्ट्वा सभार्यं गरुडोपरि स्थितं
सूर्योपरिष्टात् सतडिद् घनं यथा ।
कृष्णं स तस्मै व्यसृजच्छतघ्नीं
योधाश्च सर्वे युगपच्च विव्यधु: ॥ १५ ॥

दृष्ट्वा स-भार्यम् गरुड-उपरि स्थितम् सूर्य उपरिष्टात् स-तडित् घनम् यथा कृष्णम् सः तस्मै व्यसृजत् शत-घ्नीम् योधाः च सर्वे युगपत् च विव्यधुः

तद् भौमसैन्यं भगवान् गदाग्रजो
विचित्रवाजैर्निशितै: शिलीमुखै: ।
निकृत्तबाहूरुशिरोध्रविग्रहं
चकार तर्ह्येव हताश्वकुञ्जरम् ॥ १६ ॥

तत् भौम-सैन्यम् भगवान् गदाग्रजः विचित्र वाजैः निशितैः शिलीमुखैः निकृत्त बाहु ऊरु शिरः-ध्र विग्रहम् चकार तर्हि एव हत अश्व कुञ्जरम्

यानि योधै: प्रयुक्तानि शस्‍त्रास्‍त्राणि कुरूद्वह ।
हरिस्तान्यच्छिनत्तीक्ष्णै: शरैरेकैकशस्‍त्रिभि: ॥ १७ ॥
उह्यमान: सुपर्णेन पक्षाभ्यां निघ्नता गजान् ।
गुरुत्मता हन्यमानास्तुण्डपक्षनखेर्गजा: ॥ १८ ॥
पुरमेवाविशन्नार्ता नरको युध्ययुध्यत ॥ १९ ॥

यानि योधैः प्रयुक्तानि शस्त्र अस्त्राणि कुरु-उद्वह हरिः तानि अच्छिनत् तीक्ष्णैः शरैः एकशः त्रिभिः उह्यमानः सु-पर्णेन पक्षाभ्याम् निघ्नता गजान् गुरुत्मता हन्यमानः तुण्ड पक्ष नखेः गजाः पुरम् एव आविशन्न् आर्ताः नरकः युधि अयुध्यत

द‍ृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ।
तं भौम: प्राहरच्छक्त्या वज्र: प्रतिहतो यत: ।
नाकम्पत तया विद्धो मालाहत इव द्विप: ॥ २० ॥

दृष्ट्वा विद्रावितम् सैन्यम् गरुडेन अर्दितम् स्वकम् तम् भौमः प्राहरत् शक्त्या वज्रः प्रतिहतः यतः न अकम्पत तया विद्धः माला आहतः इव द्विपः

शूलं भौमोऽच्युतं हन्तुमाददे वितथोद्यम: ।
तद्विसर्गात् पूर्वमेव नरकस्य शिरो हरि: ।
अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना ॥ २१ ॥

शूलम् भौमः अच्युतम् हन्तुम् आददे वितथ उद्यमः तत् विसर्गात् पूर्वम् एव नरकस्य शिरः हरिः अपाहरत् गज स्थस्य चक्रेण क्षुर नेमिना

सकुण्डलं चारुकिरीटभूषणं
बभौ पृथिव्यां पतितं समुज्ज्वलम् ।
हा हेति साध्वित्यृषय: सुरेश्वरा
माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥ २२ ॥

स कुण्डलम् चारु किरीट भूषणम् बभौ पृथिव्याम् पतितम् समुज्ज्वलम् हा हा इति साधु इति ऋषयः सुर-ईश्वरः माल्यैः मुकुन्दम् विकिरन्तः ईडिरे

ततश्च भू: कृष्णमुपेत्य कुण्डले
प्रतप्तजाम्बूनदरत्नभास्वरे ।
सवैजयन्त्या वनमालयार्पयत्
प्राचेतसं छत्रमथो महामणिम् ॥ २३ ॥

ततः च भूः कृष्णम् उपेत्य कुण्डले प्रतप्त जाम्बूनद रत्न भास्वरे स वैजयन्त्या वन-मालया अर्पयत् प्राचेतसम् छत्रम् अथ उ महा-मणिम्

अस्तौषीदथ विश्वेशं देवी देववरार्चितम् ।
प्राञ्जलि: प्रणता राजन् भक्तिप्रवणया धिया ॥ २४ ॥

अस्तौषीत् अथ विश्व ईशम् देवी देव वर अर्चितम् प्राञ्जलिः प्रणता राजन् भक्ति प्रवणया धिया

भूमिरुवाच
नमस्ते देवदेवेश शङ्खचक्रगदाधर ।
भक्तेच्छोपात्तरूपाय परमात्मन् नमोऽस्तु ते ॥ २५ ॥

भूमिः उवाच नमः ते देव-देव ईश शङ्ख चक्र गदा धर भक्त इच्छा उपात्त रूपाय परम-आत्मन् नमः अस्तु ते

नम: पङ्कजनाभाय नम: पङ्कजमालिने ।
नम: पङ्कजनेत्राय नमस्ते पङ्कजाङ्‍‍घ्रये ॥ २६ ॥

नमः पङ्कज-नाभाय नमः पङ्कज-मालिने नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये

नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।
पुरुषायादिबीजाय पूर्णबोधाय ते नम: ॥ २७ ॥

नमः भगवते तुभ्यम् वासुदेवाय विष्णवे पुरुषाय आदि बीजाय पूर्ण बोधाय ते नमः

अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये ।
परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते ॥ २८ ॥

अजाय जनयित्रे अस्य ब्रह्मणे अनन्त शक्तये पर अवर आत्मन् भूत आत्मन् परम-आत्मन् नमः अस्तु ते

त्वं वै सिसृक्षुरज उत्कटं प्रभो
तमो निरोधाय बिभर्ष्यसंवृत: ।
स्थानाय सत्त्वं जगतो जगत्पते
काल: प्रधानं पुरुषो भवान् पर: ॥ २९ ॥

त्वम् वै सिसृक्षुः अजः उत्कटम् प्रभो तमः निरोधाय बिभर्षि असंवृतः स्थानाय सत्त्वम् जगतः जगत्-पते कालः प्रधानम् पुरुषः भवान् परः

अहं पयो ज्योतिरथानिलो नभो
मात्राणि देवा मन इन्द्रियाणि ।
कर्ता महानित्यखिलं चराचरं
त्वय्यद्वितीये भगवन्नयं भ्रम: ॥ ३० ॥

अहम् पयः ज्योतिः अथ अनिलः नभः मात्राणि देवाः मनः इन्द्रियाणि कर्ता महान् इति अखिलम् चर अचरम् त्वयि अद्वितीये भगवन् अयम् भ्रमः

तस्यात्मजोऽयं तव पादपङ्कजं
भीत: प्रपन्नार्तिहरोपसादित: ।
तत् पालयैनं कुरु हस्तपङ्कजं
शिरस्यमुष्याखिलकल्मषापहम् ॥ ३१ ॥

तस्य आत्म-जः अयम् तव पाद पङ्कजम् भीतः प्रपन्न आर्ति हर उपसादितः तत् पालय एनम् कुरु हस्त-पङ्कजम् शिरसि अमुष्य अखिल कल्मष अपहम्

श्रीशुक उवाच
इति भूम्यर्थितो वाग्भिर्भगवान् भक्तिनम्रया ।
दत्त्वाभयं भौमगृहं प्राविशत् सकलर्द्धिमत् ॥ ३२ ॥

श्री-शुकः उवाच इति भूमि अर्थितः वाग्भिः भगवान् भक्ति नम्रया दत्त्वा अभयम् भौम-गृहम् प्राविशत् सकल ऋद्धि मत्

तत्र राजन्यकन्यानां षट्‍सहस्राधिकायुतम् ।
भौमाहृतानां विक्रम्य राजभ्यो दद‍ृशे हरि: ॥ ३३ ॥

तत्र राजन्य कन्यानाम् षट्-सहस्र अधिक अयुतम् भौम आहृतानाम् विक्रम्य राजभ्यः ददृशे हरिः

तं प्रविष्टं स्‍त्रियो वीक्ष्य नरवर्यं विमोहिता: ।
मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥ ३४ ॥

तम् प्रविष्टम् स्त्रियः वीक्ष्य नर वर्यम् विमोहिताः मनसा वव्रिरे अभीष्टम् पतिम् दैव उपसादितम्

भूयात् पतिरयं मह्यं धाता तदनुमोदताम् ।
इति सर्वा: पृथक् कृष्णे भावेन हृदयं दधु: ॥ ३५ ॥

भूयात् पतिः अयम् मह्यम् धाता तत् अनुमोदताम् इति सर्वाः पृथक् कृष्णे भावेन हृदयम् दधुः

ता: प्राहिणोद्‍द्वारवतीं सुमृष्टविरजोऽम्बरा: ।
नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत् ॥ ३६ ॥

ताः प्राहिणोत् द्वारवतीम् सु-मृष्ट विरजः अम्बराः नर-यानैः महा कोशान् रथ अश्वान् द्रविणम् महत्

ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विन: ।
पाण्डुरांश्च चतु:षष्टिं प्रेरयामास केशव: ॥ ३७ ॥

ऐरावत कुल इभान् च चतुः दन्तान् तरस्विनः पाण्डुरान् च चतुः-षष्टिम् प्रेरयाम् आस केशवः

गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले ।
पूजितस्‍त्रिदशेन्द्रेण महेन्द्रय‍ाण्या च सप्रिय: ॥ ३८ ॥
चोदितो भार्ययोत्पाट्य पारिजातं गरुत्मति ।
आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत्पुरम् ॥ ३९ ॥

गत्वा सुर इन्द्र भवनम् दत्त्वा अदित्यै च कुण्डले पूजितः त्रिदश इन्द्रेण महा-इन्द्र्याण्या च स प्रियः चोदितः भार्यया उत्पाट्य पारिजातम् गरुत्मति आरोप्य स-इन्द्रान् विबुधान् निर्जित्य उपानयत् पुरम्

स्थापित: सत्यभामाया गृहोद्यानोपशोभन: ।
अन्वगुर्भ्रमरा: स्वर्गात् तद्गन्धासवलम्पटा: ॥ ४० ॥

स्थापितः सत्यभामायाः गृह उद्यान उपशोभनः अन्वगुः भ्रमराः स्वर्गात् तत् गन्ध आसव लम्पटाः

ययाच आनम्य किरीटकोटिभि:
पादौ स्पृशन्नच्युतमर्थसाधनम् ।
सिद्धार्थ एतेन विगृह्यते महा-
नहो सुराणां च तमो धिगाढ्यताम् ॥ ४१ ॥

ययाच आनम्य किरीट कोटिभिः पादौ स्पृशन् अच्युतम् अर्थ साधनम् सिद्ध अर्थः एतेन विगृह्यते महान् अहो सुराणाम् च तमः धिक् आढ्यताम्

अथो मुहूर्त एकस्मिन् नानागारेषु ता: स्‍त्रिय: ।
यथोपयेमे भगवान् तावद् रूपधरोऽव्यय: ॥ ४२ ॥

अथ उ मुहूर्ते एकस्मिन् नाना अगारेषु ताः स्त्रियः यथा उपयेमे भगवान् तावत् रूप धरः अव्ययः

गृहेषु तासामनपाय्यतर्ककृ-
न्निरस्तसाम्यातिशयेष्ववस्थित: ।
रेमे रमाभिर्निजकामसम्प्लुतो
यथेतरो गार्हकमेधिकांश्चरन् ॥ ४३ ॥

गृहेषु तासाम् अनपायी अतर्क कृत् निरस्त साम्य अतिशयेषु अवस्थितः रेमे रमाभिः निज काम सम्प्लुतः यथा इतरः गार्हक-मेधिकान् चरन्

इत्थं रमापतिमवाप्य पतिं स्‍त्रियस्ता
ब्रह्मादयोऽपि न विदु: पदवीं यदीयाम् ।
भेजुर्मुदाविरतमेधितयानुराग-
हासावलोकनवसङ्गमजल्पलज्जा: ॥ ४४ ॥

इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः ब्रह्मा-आदयः अपि न विदुः पदवीम् यदीयाम् भेजुः मुदा अविरतम् एधितया अनुराग हास अवलोक नव सङ्गम जल्प लज्जाः

प्रत्युद्गमासनवरार्हणपादशौच-
ताम्बूलविश्रमणवीजनगन्धमाल्यै: ।
केशप्रसारशयनस्‍नपनोपहार्यै-
र्दासीशता अपि विभोर्विदधु: स्म दास्यम् ॥ ४५ ॥

प्रत्युद्गम आसन वर अर्हण पाद शौच ताम्बूल विश्रमण वीजन गन्ध माल्यैः केश प्रसार शयन स्नपन उपहार्यैः दासी शताः अपि विभोः विदधुः स्म दास्यम्

१०.६०

श्रीबादरायणिरुवाच
कर्हिचित् सुखमासीनं स्वतल्पस्थं जगद्गुरुम् ।
पतिं पर्यचरद् भैष्मी व्यजनेन सखीजनै: ॥ १ ॥

श्री-बादरायणिः उवाच कर्हिचित् सुखम् आसीनम् स्व तल्प स्थम् जगत् गुरुम् पतिम् पर्यचरत् भैष्मी व्यजनेन सखी-जनैः

यस्त्वेतल्ल‍ीलया विश्वं सृजत्यत्त्यवतीश्वर: ।
स हि जात: स्वसेतूनां गोपीथाय यदुष्वज: ॥ २ ॥

यः तु एतत् लीलया विश्वम् सृजति अत्ति अवति ईश्वरः सः हि जातः स्व सेतूनाम् गोपीथाय यदुषु अजः

तस्मिनन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना ।
विराजिते वितानेन दीपैर्मणिमयैरपि ॥ ३ ॥
मल्लिकादामभि: पुष्पैर्द्विरेफकुलनादिते ।
जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलै: ॥ ४ ॥
पारिजातवनामोदवायुनोद्यानशालिना ।
धूपैरगुरुजै राजन् जालरन्ध्रविनिर्गतै: ॥ ५ ॥
पय:फेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे ।
उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ॥ ६ ॥

तस्मिन् अन्तः-गृहे भ्राजत् मुक्ता दाम विलम्बिना विराजिते वितानेन दीपैः मणि मयैः अपि मल्लिका दामभिः पुष्पैः द्विरेफ कुल नादिते जाल रन्ध्र प्रविष्टैः च गोभिः चन्द्रमसः अमलैः पारिजात वन आमोद वायुना उद्यान शालिना धूपैः अगुरु जैः राजन् जाल-रन्ध्र विनिर्गतैः पयः फेन निभे शुभ्रे पर्यङ्के कशिपु उत्तमे उपतस्थे सुख आसीनम् जगताम् ईश्वरम् पतिम्

वालव्यजनमादाय रत्नदण्डं सखीकरात् ।
तेन वीजयती देवी उपासां चक्र ईश्वरम् ॥ ७ ॥

वाल व्यजनम् आदाय रत्न दण्डम् सखी करात् तेन वीजयती देवी उपासाम् चक्रे ईश्वरम्

सोपाच्युतं क्व‍णयती मणिनूपुराभ्यां
रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता ।
वस्‍त्रान्तगूढकुचकुङ्कुमशोणहार-
भासा नितम्बधृतया च परार्ध्यकाञ्च्या ॥ ८ ॥

सा उप अच्युतम् क्वणयती मणि नूपुराभ्याम् रेजे अङ्गुलीय वलय व्यजन अग्र-हस्ता वस्त्र अन्त गूढ कुच कुङ्कुम शोण हार भासा नितम्ब धृतया च परार्ध्य काञ्च्या

तां रूपिणीं श्रियमनन्यगतिं निरीक्ष्य
या लीलया धृततनोरनुरूपरूपा ।
प्रीत: स्मयन्नलककुण्डलनिष्ककण्ठ-
वक्त्रोल्ल‍सत्स्मितसुधां हरिराबभाषे ॥ ९ ॥

ताम् रूपिणीम् श्रीयम् अनन्य गतिम् निरीक्ष्य या लीलया धृत तनोः अनुरूप रूपा प्रीतः स्मयन् अलक कुण्डल निष्क कण्ठ वक्त्र उल्लसत् स्मित सुधाम् हरिः आबभाषे

श्रीभगवानुवाच
राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभि: ।
महानुभावै: श्रीमद्भ‍ी रूपौदार्यबलोर्जितै: ॥ १० ॥

श्री-भगवान् उवाच राज-पुत्रि ईप्सिता भू-पैः लोक पाल विभूतिभिः महा अनुभावैः श्री-मद्भिः रूप औदार्य बल ऊर्जितैः

तान्प्राप्तानर्थिनो हित्वा चैद्यादीन् स्मरदुर्मदान् ।
दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् ॥ ११ ॥

तान् प्राप्तान् अर्थिनः हित्वा चैद्य आदीन् स्मर दर्मदान् दत्ता भ्रात्रा स्व पित्रा च कस्मात् नः ववृषे असमान्

राजभ्यो बिभ्यत: सुभ्रु समुद्रं शरणं गतान् ।
बलवद्भ‍ि: कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥ १२ ॥

राजभ्यः बिभ्यतः सु-भ्रु समुद्रम् शरणम् गतान् बल-वद्भिः कृत-द्वेषान् प्रायः त्यक्त नृप आसनान्

अस्पष्टवर्त्मनां पुंसामलोकपथमीयुषाम् ।
आस्थिता: पदवीं सुभ्रु प्राय: सीदन्ति योषित: ॥ १३ ॥

अस्पष्ट वर्त्मनाम् पुंसाम् अलोक पथम् ईयुषां आस्थिताः पदवीम् सु-भ्रु प्रायः सीदन्ति योषितः

निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रिया: ।
तस्मात् प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे ॥ १४ ॥

निष्किञ्चनाः वयम् शश्वत् निष्किञ्चन-जन प्रियाः तस्मात् प्रायेण न हि आढ्याः माम् भजन्ति सु-मध्यमे

ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भव: ।
तयोर्विवाहो मैत्री च नोत्तमाधमयो: क्व‍‍चित् ॥ १५ ॥

ययोः आत्म-समम् वित्तम् जन्म ऐश्वर्य आकृतिः भवः तयोः विवाहः मैत्री च न उत्तम अधमयोः क्वचित्

वैदर्भ्येतदविज्ञाय त्वयादीर्घसमीक्षया ।
वृता वयं गुणैर्हीना भिक्षुभि: श्लाघिता मुधा ॥ १६ ॥

वैदर्भि एतत् अविज्ञाय त्वया अदीर्घ-समीक्षया वृताः वयम् गुणैः हीनाः भिक्षुभिः श्लाघिताः मुधा

अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् ।
येन त्वमाशिष: सत्या इहामुत्र च लप्स्यसे ॥ १७ ॥

अथ आत्मनः अनुरूपम् वै भजस्व क्षत्रिय-ऋषभम् येन त्वम् आशिषः सत्याः इह अमुत्र च लप्स्यसे

चैद्यशाल्वजरासन्धदन्तवक्रादयो नृपा: ।
मम द्विषन्ति वामोरु रुक्‍मी चापि तवाग्रज: ॥ १८ ॥

चैद्य-शाल्व-जरासन्ध-दन्तवक्र-आदयः नृपाः मम द्विषन्ति वाम-ऊरु रुक्मी च अपि तव अग्र-जः

तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये ।
आनितासि मया भद्रे तेजोपहरतासताम् ॥ १९ ॥

तेषाम् वीर्य मद अन्धानाम् दृप्तानाम् स्मय नुत्तये आनिता असि मया भद्रे तेजः उपहरता असताम्

उदासीना वयं नूनं न स्‍त्र्यपत्यार्थकामुका: ।
आत्मलब्ध्यास्महे पूर्णा गेहयोर्ज्योतिरक्रिया: ॥ २० ॥

उदासीनाः वयम् नूनम् न स्त्री अपत्य अर्थ कामुकाः आत्म-लब्ध्या आस्महे पूर्णाः गेहयोः ज्योतिः अक्रियाः

श्रीशुक उवाच
एतावदुक्त्वा भगवानात्मानं वल्ल‍भामिव ।
मन्यमानामविश्लेषात् तद्दर्पघ्न उपारमत् ॥ २१ ॥

श्री-शुकः उवाच एतावत् उक्त्वा भगवान् आत्मानम् वल्लभाम् इव मन्यमानाम् अविश्लेषात् तत् दर्प घ्नः उपारमत्

इति त्रिलोकेशपतेस्तदात्मन:
प्रियस्य देव्यश्रुतपूर्वमप्रियम् ।
आश्रुत्य भीता हृदि
जातवेपथु-
श्चिन्तां दुरन्तां रुदती जगाम ह ॥ २२ ॥

इति त्रि-लोक ईश पतेः तदा आत्मनः प्रियस्य देवी अश्रुत पूर्वम् अप्रियम् आश्रुत्य भीता हृदि जात वेपथुः चिन्ताम् दुरन्ताम् रुदती जगाम ह

पदा सुजातेन नखारुणश्रिया
भुवं लिखन्त्यश्रुभिरञ्जनासितै: ।
आसिञ्चती कुङ्कुमरूषितौ स्तनौ
तस्थावधोमुख्यतिदु:खरुद्धवाक् ॥ २३ ॥

पदा सु-जातेन नख अरुण श्रीया भुवम् लिखन्ती अश्रुभिः अञ्जन असितैः आसिञ्चती कुङ्कुम रूषितौ स्तनौ तस्थौ अधः मुखी अति दुःख रुद्ध वाक्

तस्या: सुदु:खभयशोकविनष्टबुद्धे-
र्हस्ताच्छ्‍लथद्वलयतो व्यजनं पपात ।
देहश्च विक्लवधिय: सहसैव मुह्यन्
रम्भेव वायुविहतो प्रविकीर्य केशान् ॥ २४ ॥

तष्याः सु-दुःख भय शोक विनष्ट बुद्धेः हस्तात् श्लथत् वलयतः व्यजनम् पपात देहः च विक्लव धियः सहसा एव मुह्यन् रम्भा इव वायु विहतः प्रविकीर्य केशान्

तद् द‍ृष्ट्वा भगवान् कृष्ण: प्रियाया: प्रेमबन्धनम् ।
हास्यप्रौढिमजानन्त्या: करुण: सोऽन्वकम्पत ॥ २५ ॥

तत् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम बन्धनम् हास्य प्रौढिम् अजानन्त्याः करुणः सः अन्वकम्पत

पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुज: ।
केशान् समुह्य तद्वक्त्रं प्रामृजत् पद्मपाणिना ॥ २६ ॥

पर्यङ्कात् अवरुह्य आशु ताम् उत्थाप्य चतुर्-भुजः केशान् समुह्य तत् वक्त्रम् प्रामृजत् पद्म-पाणिना

प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा ।
आश्लिष्य बाहुना राजननन्यविषयां सतीम् ॥ २७ ॥
सान्‍त्‍वयामास सान्‍त्‍वज्ञ: कृपया कृपणां प्रभु: ।
हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गति: ॥ २८ ॥

प्रमृज्य अश्रु-कले नेत्रे स्तनौ च उपहतौ शुचा अश्लिष्य बाहुना राजन् अनन्य विषयाम् सतीम् सान्त्वयाम् आस सान्त्व ज्ञः कृपया कृपणाम् प्रभुः हास्य प्रौढि भ्रमत् चित्ताम् अतत्-अर्हाम् सताम् गतिः

श्रीभगवानुवाच
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् ।
त्वद्वच: श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥ २९ ॥

श्री-भगवान् उवाच मा मा वैदर्भि असूयेथाः जाने त्वाम् मत् परायणाम् त्वत् वचः श्रोतु कामेन क्ष्वेल्या आचरितम् अङ्गने

मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम् ।
कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥ ३० ॥

मुखम् च प्रेम संरम्भ स्फुरित अधरम् ईक्षितुम् कटा क्षेप अरुण अपाङ्गम् सुन्दर भ्रु कुटी तटम्

अयं हि परमो लाभो गृहेषु गृहमेधिनाम् ।
यन्नर्मैरीयते याम: प्रियया भीरु भामिनि ॥ ३१ ॥

अयम् हि परमः लाभः गृहेषु गृह-मेधिनाम् यत् नर्मैः ईयते यामः प्रियया भीरु भामिनि

श्रीशुक उवाच
सैवं भगवता राजन् वैदर्भी परिसान्‍त्‍विता ।
ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ॥ ३२ ॥

श्री-शुकः उवाच सा एवम् भगवता राजन् वैदर्भी परिसान्त्विता ज्ञात्वा तत् परिहास उक्तिम् प्रिय त्याग भयम् जहौ

बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् ।
सव्रीडहासरुचिरस्‍निग्धापाङ्गेन भारत ॥ ३३ ॥

बभाष ऋषभम् पुंसाम् वीक्षन्ती भगवत् मुखम् स-व्रीड हास रुचिर स्निग्ध अपाङ्गेन भारत

श्रीरुक्‍मिण्युवाच
नन्वेवमेतदरविन्दविलोचनाह
यद्वै भवान् भगवतोऽसद‍ृशी विभूम्न: ।
क्व‍ स्वे महिम्न्यभिरतो भगवांस्‍त्र्यधीश:
क्व‍ाहं गुणप्रकृतिरज्ञगृहीतपादा ॥ ३४ ॥

श्री-रुक्मिणी उवाच ननु एवम् एतत् अरविन्द-विलोचन आह यत् वै भवान् भगवतः असदृशी विभूम्नः क्व स्वे महिम्नि अभिरतः भगवान् त्रि अधीशः क्व अहम् गुण प्रकृतिः अज्ञ गृहीत पादा

सत्यं भयादिव गुणेभ्य उरुक्रमान्त:
शेते समुद्र उपलम्भनमात्र आत्मा ।
नित्यं कदिन्द्रियगणै: कृतविग्रहस्त्वं
त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥ ३५ ॥

सत्यम् भयात् इव गुणेभ्यः उरुक्रम अन्तः शेते समुद्रे उपलम्भन-मात्रः आत्म नित्यम् कत् इन्द्रिय-गणैः कृत-विग्रहः त्वम् त्वत् सेवकैः नृप पदम् विधुतम् तमः अन्धम्

त्वत्पादपद्ममकरन्दजुषां मुनीनां
वर्त्मास्फुटं नृपशुभिर्ननु दुर्विभाव्यम् ।
यस्मादलौकिकमिवेहितमीश्वरस्य
भूमंस्तवेहितमथो अनु ये भवन्तम् ॥ ३६ ॥

त्वत् पाद पद्म मकरन्द जुषाम् मुनीनाम् वर्त्म अस्फुटम् नृ पशुभिः ननु दुर्विभाव्यम् यस्मात् अलौकिकम् इव ईहितम् ईश्वरस्य भूमन् तव ईहितम् अथ उ अनु ये भवन्तम्

निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद्
यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्या: ।
न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धा:
प्रेष्ठो भवान् बलिभुजामपि तेऽपि तुभ्यम् ॥ ३७ ॥

निष्किञ्चनः ननु भवान् न यतः अस्ति किञ्चित् यस्मै बलिम् बलि भुजः अपि हरन्ति अज-आद्याः न त्वा विदन्ति असु-तृपः अन्तकम् आढ्यता अन्धाः प्रेष्ठः भवान् बलि-भुजाम् अपि ते अपि तुभ्यम्

त्वं वै समस्तपुरुषार्थमय: फलात्मा
यद्वाञ्छया सुमतयो विसृजन्ति कृत्‍स्‍नम् ।
तेषां विभो समुचितो भवत: समाज:
पुंस: स्‍त्रियाश्च रतयो: सुखदु:खिनोर्न ॥ ३८ ॥

त्वम् वै समस्त पुरुष अर्थ मयः फल आत्मा यत् वाञ्छया सु-मतयः विसृजन्ति कृत्स्नम् तेषाम् विभो समुचितः भवतः समाजः पुंसः स्त्रियाः च रतयोः सुख-दुःखिनोः न

त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव
आत्मात्मदश्च जगतामिति मे वृतोऽसि ।
हित्वा भवद्भ्रुव उदीरितकालवेग
ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्ये ॥ ३९ ॥

त्वम् न्यस्त दण्ड मुनिभिः गदित अनुभावः आत्मा आत्मा दः च जगताम् इति मे वृतः असि हित्वा भवत् भ्रुवः उदीरित काल वेग ध्वस्त आशिषः अब्ज भव नाक पतीन् कुतः अन्ये

जाड्यं वचस्तव गदाग्रज यस्तु भूपान्
विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् ।
सिंहो यथा स्वबलिमीश पशून् स्वभागं
तेभ्यो भयाद् यदुदधिं शरणं प्रपन्न: ॥ ४० ॥

जाड्यम् वचः तव गदाग्रज यः तु भू-पान् विद्राव्य शार्ङ्ग निनदेन जहर्थ माम् त्वम् सिंहः यथा स्व बलिम् ईश पशून् स्व-भागम् तेभ्यः भयात् यत् उदधिम् शरणं-प्रपन्नः

यद्वाञ्छया नृपशिखामणयोऽङ्गवैन्य-
जायन्तनाहुषगयादय ऐक्यपत्यम् ।
राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष
सीदन्ति तेऽनुपदवीं त इहास्थिता: किम् ॥ ४१ ॥

यत् वाञ्छया नृप शिखामणयः अङ्ग-वैन्य-जायन्त-नाहुष-गय-आदयः ऐक्य पत्यम् राज्यम् विसृज्य विविशुः वनम् अम्बुज-अक्ष सीदन्ति ते अनुपदवीम् ते इह आस्थिताः किम्

कान्यं श्रयेत तव पादसरोजगन्ध-
माघ्राय सन्मुखरितं जनतापवर्गम् ।
लक्ष्म्यालयं त्वविगणय्य गुणालयस्य
मर्त्या सदोरुभयमर्थविविक्तद‍ृष्टि: ॥ ४२ ॥

क अन्यम् श्रयेत तव पाद सरोज गन्धम् आघ्राय सत् मुखरितम् जनता अपवर्गम् लक्ष्मी आलयम् तु अविगणय्य गुण आलयस्य मर्त्या सदा उरु भयम् अर्थ विविक्त दृष्टिः

तं त्वानुरूपमभजं जगतामधीश-
मात्मानमत्र च परत्र च कामपूरम् ।
स्यान्मे तवाङ्‍‍घ्रिररणं सृतिभिर्भ्रमन्त्या
यो वै भजन्तमुपयात्यनृतापवर्ग: ॥ ४३ ॥

तम् त्वा अनुरूपम् अभजम् जगताम् अधीशम् आत्मानम् अत्र च परत्र च काम पूरम् स्यात् मे तव अङ्घ्रिः अरणम् सृतिभिः भ्रमन्त्याः यः वै भजन्तम् उपयाति अनृत अपवर्गः

तस्या: स्युरच्युत नृपा भवतोपदिष्टा:
स्‍त्रीणां गृहेषु खरगोश्वविडालभृत्या: ।
यत्कर्णमूलमरिकर्षण नोपयायाद्
युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४४ ॥

तस्याः स्युः अच्युत नृपाः भवता उपदिष्टाः स्त्रीणाम् गृहेषु खर गो श्व विडाल भृत्याः यत् कर्ण मूलम् अरि कर्षण न उपयायात् युष्मत् कथा मृड विरिञ्च सभासु गीता

त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त-
र्मांसास्थिरक्तकृमिविट्कफपित्तवातम् ।
जीवच्छवं भजति कान्तमतिर्विमूढा
या ते पदाब्जमकरन्दमजिघ्रती स्‍त्री ॥ ४५ ॥

त्वक् श्मश्रु रोम नख केश पिनद्धम् अन्तः मांस अस्थि रक्त कृमि विट् कफ पित्त वातम् जीवत् शवम् भजति कान्त मतिः विमूढा या ते पद-अब्ज मकरन्दम् अजिघ्रती स्त्री

अस्त्वम्बुजाक्ष मम ते चरणानुराग
आत्मन् रतस्य मयि चानतिरिक्तद‍ृष्टे: ।
यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो
मामीक्षसे तदु ह न: परमानुकम्पा ॥ ४६ ॥

अस्तु अम्बुज-अक्ष मम ते चरण अनुरागः आत्मन् रतस्य मयि च अनतिरिक्त दृष्टेः यर्हि अस्य वृद्धये उपात्त रजः अति-मात्रः माम् ईक्षसे तत् उ ह नः परम अनुकम्पा

नैवालीकमहं मन्ये वचस्ते मधुसूदन ।
अम्बाया एव हि प्राय: कन्याया: स्याद् रति: क्व‍‍चित् ॥ ४७ ॥

न एव अलीकम् अहम् मन्ये वचः ते मधु-सूदन अम्बायाः एव हि प्रायः कन्यायाः स्यात् रतिः क्वचित्

व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात् तां बिभ्रदुभयच्युत: ॥ ४८ ॥

व्यूढायाः च अपि पुंश्चल्याः मनः अभ्येति नवम् नवम् बुधः असतीम् न बिभ्र्यात् ताम् बिभ्रत् उभय च्युतः

श्रीभगवानुवाच
साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्री प्रलम्भिता ।
मयोदितं यदन्वात्थ सर्वं तत् सत्यमेव हि ॥ ४९ ॥

श्री-भगवान् उवाच साध्वि एतत् श्रोतु कामैः त्वम् राज-पुत्रि प्रलम्भिता मया उदितम् यत् अन्वात्थ सर्वम् fअत् सत्यम् एव हि

यान् यान् कामयसे कामान् मय्यकामाय भामिनि ।
सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यद ॥ ५० ॥

यान् यान् कामयसे कामान् मयि अकामाय भामिनि सन्ति हि एक-अन्त भक्तायाः तव कल्याणि नित्यदा

उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे ।
यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥ ५१ ॥

उपलब्धम् पति प्रेम पाति व्रत्यम् च ते अनघे यत् वाक्यैः चाल्यमानायाः न धीः मयि अपकर्षिता

ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया ।
कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥ ५२ ॥

ये माम् भजन्ति दाम्पत्ये तपसा व्रत चर्यया काम-आत्मानः अपवर्ग ईशम् मोहिताः मम मायया

मां प्राप्य मानिन्यपवर्गसम्पदं
वाञ्छन्ति ये सम्पद एव तत्पतिम् ।
ते मन्दभागा निरयेऽपि ये नृणां
मात्रात्मकत्वात्निरय: सुसङ्गम: ॥ ५३ ॥

माम् प्राप्य मानिनि अपवर्ग सम्पदम् वाञ्छन्ति ये सम्पदः एव तत् पतिम् ते मन्द-भागाः निरये अपि ये नृणाम् मात्रा-आत्मकत्वात् निरयः सु-सङ्गमः

दिष्‍ट्या गृहेश्वर्यसकृन्मयि त्वया
कृतानुवृत्तिर्भवमोचनी खलै: ।
सुदुष्करासौ सुतरां दुराशिषो
ह्यसुंभराया निकृतिं जुष: स्‍त्रिया: ॥ ५४ ॥

दिष्ट्या गृह ईश्वरि असकृत् मयि त्वया कृता अनुवृत्तिः भव मोचनी खलैः सु-दुष्करा असौ सुतराम् दुराशिषः हि असुम् भरायाः निकृतिम् जुषः स्त्रियाः

न त्वाद‍ृशीं प्रणयिनीं गृहिणीं गृहेषु
पश्यामि मानिनि यया स्वविवाहकाले ।
प्राप्तान् नृपान्न विगणय्य रहोहरो मे
प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥ ५५ ॥

न त्वादृशीम् प्रणयिनीम् गृहिणीम् गृहेषु पश्यामि मानिनि यया स्व विवाह काले प्राप्तान् नृपान् न विगणय्य रहः हरः मे प्रस्थापितः द्विजः उपश्रुत सत् कथस्य

भ्रातुर्विरूपकरणं युधि निर्जितस्य
प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् ।
दु:खं समुत्थमसहोऽस्मदयोगभीत्या
नैवाब्रवी: किमपि तेन वयं जितास्ते ॥ ५६ ॥

भ्रातुः विरूप-करणम् युधि निर्जितस्य प्रोद्वाह पर्वणि च तत् वधम् अक्ष-गोष्ठ्याम् दुःखम् समुट्थम् असहः अस्मत् अयोग भीत्या न एव अब्रवीः किम् अपि तेन वयम् जिताः ते

दूतस्त्वयात्मलभने सुविविक्तमन्त्र:
प्रस्थापितो मयि चिरायति शून्यमेतत् ।
मत्वा जिहास इदमङ्गमनन्ययोग्यं
तिष्ठेत तत्त्वयि वयं प्रतिनन्दयाम: ॥ ५७ ॥

दूतः त्वया आत्म लभने सु-विविक्त मन्त्रः प्रस्थापितः मयि चिरायति शून्यम् एतत् मत्वा जिहासे इदम् अङ्गम् अनन्य योग्यम् तिष्ठेत तत् त्वयि वयम् प्रतिनन्द-यामः

श्रीशुक उवाच
एवं सौरतसंलापैर्भगवान् जगदीश्वर: ।
स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥ ५८ ॥

श्री-शुकः उवाच एवम् सौरत संलापैः भगवान् जगत् ईश्वरः स्व रतः रमया रेमे नर-लोकम् विडम्बयन्

तथान्यासामपि विभुर्गृहेषु गृहवानिव ।
आस्थितो गृहमेधीयान् धर्मान् लोकगुरुर्हरि: ॥ ५९ ॥

तथा अन्यासाम् अपि विभुः गृहेषु गृह-वान् इव आस्थितः गृह-मेधीयान् धर्मान् लोक गुरुः हरिः

१०.६१

श्रीशुक उवाच
एकैकशस्ता: कृष्णस्य पुत्रान् दश दशाबला: ।
अजीजनन्ननवमान्पितु: सर्वात्मसम्पदा ॥ १ ॥

श्री-शुकः उवाच एक-एकशः ताः कृष्णस्य पुत्रान् दश-दश अबलाः अजीजनन् अनवमान् पितुः सर्व आत्म सम्पदा

गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।
प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविद: स्‍त्रिय: ॥ २ ॥

गृहात् अनपगम् वीक्ष्य राज-पुत्र्यः अच्युतम् स्थितम् प्रेष्ठम् न्यमंसत स्वम् स्वम् न तत् तत्त्व विदः स्त्रियः

चार्वब्जकोशवदनायतबाहुनेत्र-
सप्रेमहासरसवीक्षितवल्गुजल्पै: ।
सम्मोहिता भगवतो न मनो विजेतुं
स्वैर्विभ्रमै: समशकन् वनिता विभूम्न: ॥ ३ ॥

चारु अब्ज कोश वदन आयत बाहु नेत्र स-प्रेम हास रस वीक्षित वल्गु जल्पैः सम्मोहिताः भगवतः न मनः विजेतुम् स्वैः विभ्रमैः समशकन् वनिताः विभूम्नः

स्मायावलोकलवदर्शितभावहारि-
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डै: ।
पत्न्‍यस्तु षोडशसहस्रमनङ्गबाणै-
र्यस्येन्द्रियं विमथितुं करणैर्न शेकु: ॥ ४ ॥

स्माय अवलोक लव दर्शित भाव हारि भ्रू मण्डल प्रहित सौरत मन्त्र शौण्डैः पत्न्यः तु षोडश सहस्रम् अनङ्ग बाणैः यस्य इन्द्रियम् विमथितुम् करणैः न शेकुः

इत्थं रमापतिमवाप्य पतिं स्‍त्रियस्ता
ब्रह्मादयोऽपि न विदु: पदवीं यदीयाम् ।
भेजुर्मुदाविरतमेधितयानुराग-
हासावलोकनवसङ्गमलालसाद्यम् ॥ ५ ॥

इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः ब्रह्म-आदयः अपि न विदुः पदवीम् यदीयाम् भेजुः मुदा अविरतम् एधितया अनुराग हास अवलोक नव सङ्गम लालस आद्यम्

प्रत्युद्गमासनवरार्हणपादशौच-
ताम्बूलविश्रमणवीजनगन्धमाल्यै: ।
केशप्रसारशयनस्‍नपनोपहार्यै-
र्दासीशता अपि विभोर्विदधु: स्म दास्यम् ॥ ६ ॥

प्रत्युद्गम आसन वर अर्हण पाद शौच ताम्बूल विश्रमण वीजन गन्ध माल्यैः केश प्रसार शयन स्नपन उपहार्यैः दासी शताः अपि विभोः विदधुः-स्म दास्यम्

तासां या दशपुत्राणां कृष्णस्‍त्रीणां पुरोदिता: ।
अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ ७ ॥

तासाम् याः दश पुत्राणाम् कृष्ण-स्त्रीणाम् पुरा उदिताः अष्टौ महिष्यः तत् पुत्रान् प्रद्युम्न-आदीन् गृणामि ते

चारुदेष्ण: सुदेष्णश्च चारुदेहश्च वीर्यवान् ।
सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापर: ॥ ८ ॥
चारुचन्द्रो विचारुश्च चारुश्च दशमो हरे: ।
प्रद्युम्नप्रमुखा जाता रुक्‍मिण्यां नावमा: पितु: ॥ ९ ॥

चारुदेष्णः सुदेष्णः च चारुदेहः च वीर्य-वान् सुचारुः चारुगुप्तः च भद्रचारुः तथा अपरः चारुचन्द्रः विचारः च चारः च दशमः हरेः प्रद्युम्न-प्रमुखाः जातः रुक्मिण्याम् न अवमाः पितुः

भानु: सुभानु: स्वर्भानु: प्रभानुर्भानुमांस्तथा ।
चन्द्रभानुर्बृहद्भ‍ानुरतिभानुस्तथाष्टम: ॥ १० ॥
श्रीभानु: प्रतिभानुश्च सत्यभामात्मजा दश ।
साम्ब: सुमित्र: पुरुजिच्छतजिच्च सहस्रजित् ॥ ११ ॥
विजयश्चित्रकेतुश्च वसुमान् द्रविड: क्रतु: ।
जाम्बवत्या: सुता ह्येते साम्बाद्या: पितृसम्मता: ॥ १२ ॥

भानुः सुभानुः स्वर्भानुः प्रभानः भानुमान् तथा चन्द्रभानुः बृहद्भानुः अतिभानुः तथा अष्टमः श्रीभानुः प्रतिभानुः च सत्यभामा आत्मजाः दश साम्बः सुमित्रः पुरुजित् शतजित् च सहस्रजित् विजयः चित्रकेतुः च वसुमान् द्रविडः क्रतुः जाम्बवत्याः सुताः हि एते साम्ब-आद्याः पितृ सम्मताः

वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृष: ।
आम: शङ्कुर्वसु: श्रीमान् कुन्तिर्नाग्नजिते: सुता: ॥ १३ ॥

वीरः चन्द्रः अश्वसेनः च चित्रगुः वेगवान् वृषः आमः शङ्कुः वसुः श्री-मान् कुन्तिः नाग्नजितेः सुताः

श्रुत: कविर्वृषो वीर: सुबाहुर्भद्र एकल: ।
शान्तिर्दर्श: पूर्णमास: कालिन्द्या: सोमकोऽवर: ॥ १४ ॥

श्रुतः कविः वृषः वीरः सुबाहुः भद्रः एकलः शान्तिः दर्शः पूर्णमासः कालिन्द्याः सोमकः अवरः

प्रघोषो गात्रवान्सिंहो बल: प्रबल ऊर्धग: ।
माद्रय‍ा: पुत्रा महाशक्ति: सह ओजोऽपराजित: ॥ १५ ॥

प्रघोषः गात्रवान् सिंहः बलः प्रबलः ऊर्धगः माद्र्याः पुत्राः महाशक्तिः सहः ओजः अपराजितः

वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च ।
महांस: पावनो वह्निर्मित्रविन्दात्मजा: क्षुधि: ॥ १६ ॥

वृकः हर्षः अनिलः गृध्रः वर्धन-उन्नादः एव च महांसः पावनः वह्निः मित्रविन्दा आत्मजाः क्षुधिः

सङ्ग्रामजिद् बृहत्सेन: शूर: प्रहरणोऽरिजित् ।
जय: सुभद्रो भद्राया वाम आयुश्च सत्यक: ॥ १७ ॥

सङ्ग्रामजित् बृहत्सेनः शूरः प्रहरणः अरिजित् जयः सुभद्रः भद्रायाः वामः आयुश् च सत्यकः

दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरे: ।
प्रद्यम्नाच्चानिरुद्धोऽभूद्रुक्‍मवत्यां महाबल: ।
पुत्र्यां तु रुक्‍मिणो राजन् नाम्ना भोजकटे पुरे ॥ १८ ॥

दीप्तिमान् ताम्रतप्त-आद्याः रोहिण्याः तनयाः हरेः प्रद्युम्नात् च अनिरुद्धः अभूत् रुक्मवत्याम् महा-बलः पुत्र्याम् तु रुक्मिणः राजन् नाम्ना भोजकटे पुरे

एतेषां पुत्रपौत्राश्च बभूवु: कोटिशो नृप ।
मातर: कृष्णजातीनां सहस्राणि च षोडश ॥ १९ ॥

एतेषाम् पुत्र पौत्राः च बभूवुः कोटिशः नृप मातरः कृष्ण-जातीनाम् सहस्राणि च षोडश

श्रीराजोवाच
कथं रुक्‍म्यरीपुत्राय प्रादाद् दुहितरं युधि ।
कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते ।
एतदाख्याहि मे विद्वन् द्विषोर्वैवाहिकं मिथ: ॥ २० ॥

श्री-राजा उवाच कथम् रुक्मी अरि पुत्राय प्रादात् दुहितरम् युधि कृष्णेन परिभूतः तम् हन्तुम् रन्ध्रम् प्रतीक्षते एतत् आख्याहि मे विद्वन् द्विषोः वैवाहिकम् मिथः

अनागतमतीतं च वर्तमानमतीन्द्रियम् ।
विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिन: ॥ २१ ॥

अनागतम् अतीतम् च वर्तमानम् अतीन्द्रियम् विप्रकृष्टम् व्यवहितम् सम्यक् पश्यन्ति योगिनः

श्रीशुक उवाच
वृत: स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया ।
राज्ञ: समेतान् निर्जित्य जहारैकरथो युधि ॥ २२ ॥

श्री-शुकः उवाच वृतः स्वयंवरे साक्षात् अनङ्गः अङ्ग-यतः तया राज्ञः समेतान् निर्जित्य जहार एक-रथः युधि

यद्यप्यनुस्मरन् वैरं रुक्‍मी कृष्णावमानित: ।
व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसु: प्रियम् ॥ २३ ॥

यदि अपि अनुस्मरन् वैरम् रुक्मी कृष्ण अवमानितः व्यतरत् भागिनेयाय सुताम् कुर्वन् स्वसुः प्रियम्

रुक्‍मिण्यास्तनयां राजन् कृतवर्मसुतो बली ।
उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ २४ ॥

रुक्मिण्याः तनयाम् राजन् कृतवर्म-सुतः बली उपयेमे विशाल अक्षीम् कन्याम् चारुमतीम् किल

दौहित्रायानिरुद्धाय पौत्रीं रुक्‍म्याददाद्धरे: ।
रोचनां बद्धवैरोऽपि स्वसु: प्रियचिकीर्षया ।
जानन्नधर्मं तद् यौनं स्‍नेहपाशानुबन्धन: ॥ २५ ॥

दौहित्राय अनिरुद्धाय पौत्रीम् रुक्मी आददात् हरेः रोचनाम् बद्ध वैरः अपि स्वसुः प्रिय-चिकीर्षया जानन् अधर्मम् तत् यौनम् स्नेह पाश अनुबन्धनः

तस्मिन्नभ्युदये राजन् रुक्‍मिणी रामकेशवौ ।
पुरं भोजकटं जग्मु: साम्बप्रद्युम्नकादय: ॥ २६ ॥

तस्मिन् अभ्युदये राजन् रुक्मिणी राम-केशवौ पुरम् भोजकटम् जग्मुः साम्ब-प्रद्युम्नक-आदयः

तस्मिन् निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपा: ।
द‍ृप्तास्ते रुक्‍मिणं प्रोचुर्बलमक्षैर्विनिर्जय ॥ २७ ॥
अनक्षज्ञो ह्ययं राजन्नपि तद्‌व्यसनं महत् ।
इत्युक्तो बलमाहूय तेनाक्षैर्रुक्‍म्यदीव्यत ॥ २८ ॥

तस्मिन् निवृत्ते उद्वाहे कालिङ्ग-प्रमुखाः नृपाः दृप्ताः ते रुक्मिणम् प्रोचुः बलम् अक्षैः विनिर्जय अनक्ष-ज्ञः हि अयम् राजन् अपि तत् व्यसनम् महत् इति उक्तः बलम् आहूय तेन अक्षैः रुक्मी अदीव्यत

शतं सहस्रमयुतं रामस्तत्राददे पणम् ।
तं तु रुक्‍म्यजयत्तत्र कालिङ्ग: प्राहसद् बलम् ।
दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुध: ॥ २९ ॥

शतम् सहस्रम् अयतम् रामः तत्र आददे पणम् तम् तु रुक्मी अजयत् तत्र कालिङ्गः प्राहसत् बलम् दन्तान् सन्दर्शयन् उच्चैः न अमृष्यत् तत् हल-आयुधः

ततो लक्षं रुक्‍म्यगृह्णाद्‌ग्लहं तत्राजयद् बल: ।
जितवानहमित्याह रुक्‍मी कैतवमाश्रित: ॥ ३० ॥

ततः लक्षम् रुक्मी अगृह्णात् ग्लहम् तत्र अजयत् बलः जितवान् अहम् इति आह रुक्मी कैतवम् आश्रितः

मन्युना क्षुभित: श्रीमान् समुद्र इव पर्वणि ।
जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे ॥ ३१ ॥

मन्युना क्षुभितः श्री-मान् समुद्रः इव पर्वणि जात्या अरुण अक्षः अति रुषा न्यर्बुदम् ग्लहम् आददे

तं चापि जितवान् रामो धर्मेण छलमाश्रित: ।
रुक्‍मी जितं मयात्रेमे वदन्तु प्राश्न‍िका इति ॥ ३२ ॥

तम् च अपि जितवान् रामः धर्मेण छलम् आश्रितः रुक्मी जितम् मया अत्र इमे वदन्तु प्राश्निकाः इति

तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लह: ।
धर्मतो वचनेनैव रुक्‍मी वदति वै मृषा ॥ ३३ ॥

तदा अब्रवीत् नभः वाणी बलेन एव जितः ग्लहः धर्मतः वचनेन एव रुक्मी वदति वै मृषा

तामनाद‍ृत्य वैदर्भो दुष्टराजन्यचोदित: ।
सङ्कर्षणं परिहसन् बभाषे कालचोदित: ॥ ३४ ॥

ताम् अनादृत्य वैदर्भः दुष्ट राजन्य चोदितः सङ्कर्षणम् परिहसन् बभाषे काल चोदितः

नैवाक्षकोविदा यूयं गोपाला वनगोचरा: ।
अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवाद‍ृशा: ॥ ३५ ॥

न एव अक्ष कोविदाः यूयम् गोपालाः वन गोचराः अक्षैः दीव्यन्ति राजानः बाणैः च न भवादृशाः

रुक्‍मिणैवमधिक्षिप्तो राजभिश्चोपहासित: ।
क्रुद्ध: परिघमुद्यम्य जघ्ने तं नृम्णसंसदि ॥ ३६ ॥

रुक्मिणा एवम् अधिक्षिप्तः राजभिः च उपहासितः क्रुद्धः परिघम् उद्यम्य जघ्ने तम् नृम्ण-संसदि

कलिङ्गराजं तरसा गृहीत्वा दशमे पदे ।
दन्तानपातयत् क्रुद्धो योऽहसद् विवृतैर्द्विजै: ॥ ३७ ॥

कलिङ्ग-राजम् तरसा गृहीत्वा दशमे पदे दन्तान् अपातयत् क्रुद्धः यः अहसत् विवृतैः द्विजैः

अन्ये निर्भिन्नबाहूरुशिरसो रुधिरोक्षिता: ।
राजानो दुद्रवर्भीता बलेन परिघार्दिता: ॥ ३८ ॥

अन्ये निर्भिन्न बाहु ऊरु शिरसः रुधिर उक्षिताः राजानः दुद्रुवुः भीताः बलेन परिघ अर्दिताः

निहते रुक्‍मिणि श्याले नाब्रवीत् साध्वसाधु वा ।
रक्‍मिणीबलयो राजन् स्‍नेहभङ्गभयाद्धरि: ॥ ३९ ॥

निहते रुक्मिणि श्याले न अब्रवीत् साधु असाधु वा रुक्मिणी-बलयोः राजन् स्नेह भङ्ग भयात् हरिः

ततोऽनिरुद्धं सह सूर्यया वरं
रथं समारोप्य ययु: कुशस्थलीम् ।
रामादयो भोजकटाद् दशार्हा:
सिद्धाखिलार्था मधुसूदनाश्रया: ॥ ४० ॥

ततः अनिरुद्धम् सह सूर्यया वरम् रथम् समारोप्य ययुः कुशस्थलीम् राम-आदयः भोजकटात् दशार्हाः सिद्ध अखिल अर्थाः मधुसूदन आश्रयाः

१०.६२

श्रीराजोवाच
बाणस्य तनयामूषामुपयेमे यदूत्तम: ।
तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् ।
एतत् सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १ ॥

श्री-राजा उवाच बाणस्य तनयाम् ऊषाम् उपयेमे यदु-उत्तमः तत्र युद्धम् अभूत् घोरम् हरि-शङ्करयोः महत् एतत् सर्वम् महा-योगिन् समाख्यातुम् त्वम् अर्हसि

श्रीशुक उवाच
बाण: पुत्रशतज्येष्ठो बलेरासीन्महात्मन: ।
येन वामनरूपाय हरयेऽदायि मेदिनी ॥
तस्यौरस: सुतो बाण: शिवभक्तिरत: सदा ।
मान्यो वदान्यो धीमांश्च सत्यसन्धो द‍ृढव्रत: ।
शोणिताख्ये पुरे रम्ये स राज्यमकरोत् पुरा ॥
तस्य शम्भो: प्रासादेन किङ्करा इव तेऽमरा: ।
सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ २ ॥

श्री-शुकः उवाच बाणः पुत्र अत ज्येष्ठः बलेः आसीत् महा-आत्मनः येन वामन-रूपाय हरये अदायि मेदिनी तस्य औरसः सुतः बाणः शिव-भक्ति रतः सद मान्यः वदान्यः धी-मन् च सत्य-सन्धः दृढ-व्रतः शोणित-आख्ये पुरे रम्ये सः राज्यम् अकरोत् पुरा तस्य शम्भोः प्रसादेन किन्कराः इव ते अमराः सहस्र बाहुः वाद्येन ताण्डवे अतोषयत् मृडम्

भगवान् सर्वभूतेश: शरण्यो भक्तवत्सल: ।
वरेण छन्दयामास स तं वव्रे पुराधिपम् ॥ ३ ॥

भगवान् सर्व भूत ईशः शरण्यः भक्त वत्सलः वरेण छन्दयाम् आस सः तम् वव्रे पुर अधिपम्

स एकदाह गिरिशं पार्श्वस्थं वीर्यदुर्मद: ।
किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ॥ ४ ॥

सः एकदा आह गिरि-शम् पार्श्व स्थम् वीर्य दुर्मदः किरीटेन अर्क वर्णेन संस्पृशन् तत् पद-अम्बुजम्

नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् ।
पुंसामपूर्णकामानां कामपूरामराङ्‍‍घ्रिपम् ॥ ५ ॥

नमस्ये त्वाम् महा-देव लोकानाम् गुरुम् ईश्वरम् पुंसाम् अपूर्ण कामानाम् काम-पूर अमर-अङ्घ्रिपम्

दो:सहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।
त्रिलोक्यां प्रतियोद्धारं न लभे त्वद‍ृते समम् ॥ ६ ॥

दोः सहस्रम् त्वया दत्तम् परम् भाराय मे अभवत् त्रि-लोक्यम् प्रतियोद्धारम् न लभे त्वत् ऋते समम्

कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम् ।
आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवु: ॥ ७ ॥

कण्डूत्या निभृतैः दोर्भिः युयुत्सुः दिक् गजान् अहम् आद्य अयम् चूर्णयन् अद्रीन् भीताः ते अपि प्रदुद्रुवुः

तच्छ्रुत्वा भगवान् क्रुद्ध: केतुस्ते भज्यते यदा ।
त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥ ८ ॥

तत् श्रुत्व भगवान् क्रुद्धः केतुः ते भज्यते यदा त्वत् दर्प घ्नम् भवेत् मूढ संयुगम् मत् समेन ते

इत्युक्त: कुमतिर्हृष्ट: स्वगृहं प्राविशन्नृप ।
प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधी: ॥ ९ ॥

इति उक्तः कु-मतिः हृष्टः स्व गृहम् प्राविशत् नृप प्रतीक्षन् गिरिश आदेशम् स्व-वीर्य नशनम् कु-धीः

तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।
कन्यालभत कान्तेन प्रागद‍ृष्टश्रुतेन सा ॥ १० ॥

तस्य ऊषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् कन्या अलभत कान्तेन प्राक् अदृष्ट श्रुतेन सा

सा तत्र तमपश्यन्ती क्व‍ासि कान्तेति वादिनी ।
सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ ११ ॥

सा तत्र तम् अपश्यन्ती क्व असि कान्त इति वादिनी सखीनाम् मध्ये उत्तस्थौ विह्वला व्रीडिता भृशम्

बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।
सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥ १२ ॥

बाणस्य मन्त्री कुम्भाण्डः Cइत्रलेखा च तत् सुता सखी अपृच्छत् सखीम् ऊषाम् कौतूहल समन्विता

कं त्वं मृगयसे सुभ्रु कीद‍ृशस्ते मनोरथ: ।
हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥ १३ ॥

कम् त्वम् मृगयसे सु-भ्रु कीदृषः ते मनः-रथः हस्त ग्राहम् न ते अद्य अपि राज-पुत्रि उपलक्षये

द‍ृष्ट: कश्चिन्नर: स्वप्ने श्याम: कमललोचन: ।
पीतवासा बृहद्ब‍ाहुर्योषितां हृदयंगम: ॥ १४ ॥

दृष्टः कश्चित् नरः स्वप्ने श्यामः कमल लोचनः पीत वासाः बृहत् बाहुः योषिताम् हृदयम् गमः

तमहं मृगये कान्तं पाययित्वाधरं मधु ।
क्व‍ापि यात: स्पृहयतीं क्षिप्‍त्‍वा मां वृजिनार्णवे ॥ १५ ॥

तम् अहम् मृगये कान्तम् पाययित्वा आधरम् मधु क्व अपि यातः स्पृहयतीम् क्षिप्त्वा माम् वृजिन अर्णवे

चित्रलेखोवाच
व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते ।
तमानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ १६ ॥

चित्रलेखा उवाच व्यसनम् ते अपकर्षामि त्रि-लोक्याम् यदि भाव्यते तम् आनेष्ये वरम् यः ते मनः हर्ता तम् आदिश

इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान् ।
दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १७ ॥

इति उक्त्वा देव-गन्धर्व सिद्ध-चारण-पन्नगान् दैत्य-विद्याधरान् यक्षान् मनु-जान् च यथा अलिखत्

मनुजेषु च सा वृष्णीन् शूरमानकदुन्दुभिम् ।
व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ १८ ॥
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्‍मुखी ह्रिया ।
सोऽसावसाविति प्राह स्मयमाना महीपते ॥ १९ ॥

मनुजेषु च सा वृष्णीन् शूरम् आनकदुन्दुभिम् व्यलिखत् राम-कृष्णौ च प्रद्युम्नम् वीक्ष्य लज्जिता अनिरुद्धम् विलिखितम् वीक्ष्य ऊषा अवाक् मुखी ह्रिया सः असौ असौ इति प्राह स्मयमाना मही-पते

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी ।
ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २० ॥

चित्रलेखा तम् आज्ञाय पौत्रम् कृष्णस्य योगिनी ययौ विहायसा राजन् द्वारकाम् कृष्ण-पालिताम्

तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता ।
गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ २१ ॥

तत्र सुप्तम् सु पर्यङ्के प्रद्युम्निम् योगम् आस्थिता गृहीत्वा शोणित-पुरम् सल्स्ह्यै प्रियम् अदर्शयत्

सा च तं सुन्दरवरं विलोक्य मुदितानना ।
दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २२ ॥

सा च तम् सुन्दर-वरम् विलोक्य मुदित आनना दुष्प्रेक्ष्ये स्व गृहे पुम्भिः रेमे प्रद्युम्निना समम्

परार्ध्यवास:स्रग्गन्धधूपदीपासनादिभि: ।
पानभोजनभक्ष्यैश्च वाक्यै: शुश्रूषणार्चित: ॥ २३ ॥
गूढ: कन्यापुरे शश्वत्प्रवृद्धस्‍नेहया तया ।
नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रिय: ॥ २४ ॥

परार्ध्य वासः स्रक् गन्ध धूप दीप आसन आदिभिः पान भोजन भक्ष्यैः च वाक्यैः शुश्रूषण अर्चितः गूढः कन्या-पुरे शश्वत् प्रवृद्ध स्नेहया तया न अहः-गणान् सः बुबुधे ऊषया अपहृत इन्द्रियः

तां तथा यदुवीरेण भुज्यमानां हतव्रताम् ।
हेतुभिर्लक्षयां चक्रुरापृईतां दुरवच्छदै: ॥ २५ ॥
भटा आवेदयां चक्रू राजंस्ते दुहितुर्वयम् ।
विचेष्टितं लक्षयाम कन्याया: कुलदूषणम् ॥ २६ ॥

ताम् तथा यदु-वीरेण भुज्यमानाम् हत व्रताम् हेतुभिः लक्षयाम् चक्रुः आ-प्रीताम् दुरवच्छदैः भटाः आवेदयाम् चक्रुः राजन् ते दुहितुः वयम् विचेष्टितम् लक्षयामः कन्यायाः कुल दूषणम्

अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ।
कन्याया दूषणं पुम्भिर्दुष्प्रेक्ष्याया न विद्महे ॥ २७ ॥

अनपायिभिः अस्माभिः गुप्तायाः च गृहे प्रभो कन्यायाः दूषणम् पुम्भिः दुष्प्रेक्ष्यायाः न विद्महे

तत: प्रव्यथितो बाणो दुहितु: श्रुतदूषण: ।
त्वरित: कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम् ॥ २८ ॥

ततः प्रव्यथितः बाणः दुहितुः श्रुत दूषणः त्वरितः कन्यका आगारम् प्राप्तः अद्राक्षीत् यदु-उद्वहम्

कामात्मजं तं भुवनैकसुन्दरं
श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।
बृहद्भ‍ुजं कुण्डलकुन्तलत्विषा
स्मितावलोकेन च मण्डिताननम् ॥ २९ ॥
दीव्यन्तमक्षै: प्रिययाभिनृम्णया
तदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।
बाह्वोर्दधानं मधुमल्लिकाश्रितां
तस्याग्र आसीनमवेक्ष्य विस्मित: ॥ ३० ॥

काम आत्मजम् तम् भुवन एक सुन्दरम् श्यामम् पिशङ्ग अम्बरम् अम्बुज ईक्षणम् बृहत् भुजम् कुण्डल कुन्तल त्विषा स्मित अवलोकेन च मण्डित आननम् दीव्यन्तम् अक्षैः प्रियया अभिनृम्णया तत् अङ्ग सङ्ग स्तन कुङ्कुम स्रजम् बाह्वोः दधानम् मधु मल्लिका आश्रिताम् तस्याः अग्रे आसीनम् अवेक्ष्य विस्मितः

स तं प्रविष्टं वृतमाततायिभि-
र्भटैरनीकैरवलोक्य माधव: ।
उद्यम्य मौर्वं परिघं व्यवस्थितो
यथान्तको दण्डधरो जिघांसया ॥ ३१ ॥

सः तम् प्रविष्टम् वृतम् आततायिभिः भटैः अनीकैः अवलोक्य माधवः उद्यम्य मौर्वम् परिघम् व्यवस्थितः यथा अन्टकः दण्ड धरः जिघांसया

जिघृक्षया तान् परित: प्रसर्पत:
शुनो यथा शूकरयूथपोऽहनत् ।
ते हन्यमाना भवनाद् विनिर्गता
निर्भिन्नमूर्धोरुभुजा: प्रदुद्रुवु: ॥ ३२ ॥

जिघृक्षया तान् परितः प्रसर्पतः शुनः यथा शूकर यूथ पः अहनत् ते हन्यमानाः भवनात् विनिर्गताः निर्भिन्न मूर्ध ऊरु भुजाः प्रदुद्रुवुः

तं नागपाशैर्बलिनन्दनो बली
घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह ।
ऊषा भृशं शोकविषादविह्वला
बद्धं निशम्याश्रुकलाक्ष्यरौत्सीत् ॥ ३३ ॥

तम् नाग-पाशैः बलि-नन्दनः बली घ्नन्तम् स्व सैन्यम् कुपितः बबन्ध ह ऊषा भृशम् शोक विषाद विह्वला बद्धम् निशम्य अश्रु-कला अक्षी अरौत्सीत्

१०.६३

श्रीशुक उवाच
अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत ।
चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥

श्री-शुकः उवाच अपश्यताम् च अनिरुद्धम् तत् बन्धूनाम् च भारत चत्वारः वार्षिकः मासाः व्यतीयुः अनुशोचताम्

नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।
प्रययु: शोणितपुरं वृष्णय: कृष्णदैवता: ॥ २ ॥

नारदात् तत् उपाकर्ण्य वार्ताम् बद्धस्य कर्म च प्रययुः शोणित-पुरम् वृष्णयः कृष्ण दैवताः

प्रद्युम्नो युयुधानश्च गद: साम्बोऽथ सारण: ।
नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिन: ॥ ३ ॥
अक्षौहिणीभिर्द्वादशभि: समेता: सर्वतोदिशम् ।
रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभा: ॥ ४ ॥

प्रद्युम्नः युयुधानः च गदः साम्बः अथ सारणः नन्द-उपनन्द-भद्र आद्याः राम-कृष्ण-अनुवर्तिनः अक्षौहिणीभिः द्वादशभिः समेताः सर्वतः दिशम् रुरुधुः बाण-नगरम् समन्तात् सात्वत-ऋषभाः

भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ।
प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ५ ॥

भज्यमान पुर उद्यान प्राकार अट्टाल गोपुरम् प्रेक्षमाणः रुषा आविष्टः तुल्य सैन्यः अभिनिर्ययौ

बाणार्थे भगवान् रुद्र: ससुत: प्रमथैर्वृत: ।
आरुह्य नन्दिवृषभं युयुधे रामकृष्णयो: ॥ ६ ॥

बाण-अर्थे भगवान् रुद्रः स-सुतः प्रमथैः वृतः आरुह्य नन्दि वृषभम् युयुधे राम-कृष्णयोः

आसीत्सुतुमुलं युद्धमद्भ‍ुतं रोमहर्षणम् ।
कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७ ॥

आसीत् सु-तुमुलम् युद्धम् अद्भुतम् रोम-हर्षणम् कृष्ण-शङ्करयोः राजन् प्रद्युम्न-गुहयोः अपि

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुग: ।
साम्बस्य बाणपुत्रेण बाणेन सह सात्यके: ॥ ८ ॥

कुम्भाण्ड-कूपकर्णाभ्याम् बलेन सह संयुगः साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः

ब्रह्मादय: सुराधीशा मुनय: सिद्धचारणा: ।
गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥

ब्रह्म-आदयः सुर अधीशाः मुनयः सिद्ध-चारणाः गन्धर्व-अप्सरसः यक्षाः विमानैः द्रष्टुम् आगमन्

शङ्करानुचरान् शौरिर्भूतप्रमथगुह्यकान् ।
डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १० ॥
प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।
द्रावयामास तीक्ष्णाग्रै: शरै: शार्ङ्गधनुश्‍च्युतै: ॥ ११ ॥

शङ्कर अनुचरान् शौरिः भूत-प्रमथ गुह्यकान् डाकिनीः यातुधानान् च वेतालान् स-विनायकान् प्रेत मातृ पिशाचान् च कुष्माण्डान् ब्रह्म-राक्षसान् द्रावयाम् आस तीक्ष्ण-अग्रैः शरैः शार्ङ्ग-धनुः च्युतैः

पृथग्विधानि प्रायुङ्क्त पिणाक्यस्‍त्राणि शार्ङ्गिणे ।
प्रत्यस्‍त्रै: शमयामास शार्ङ्गपाणिरविस्मित: ॥ १२ ॥

पृथक्-विधानि प्रायुङ्क्त पिणाकी अस्त्राणि शार्ङ्गिणे प्रति-अस्त्रैः शमयाम् आस शार्ङ्ग-पाणिः अविस्मितः

ब्रह्मास्‍त्रस्य च ब्रह्मास्‍त्रं वायव्यस्य च पार्वतम् ।
आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥

ब्रह्म-अस्त्रस्य च ब्रह्म-अस्त्रम् वायव्यस्य च पर्वतम् आग्नेयस्य च पार्जन्यम् नैजम् पाशुपतस्य च

मोहयित्वा तु गिरिशं जृम्भणास्‍त्रेण जृम्भितम् ।
बाणस्य पृतनां शौरिर्जघानासिगदेषुभि: ॥ १४ ॥

मोहयित्वा तु गिरिशम् जृम्भण-अस्त्रेण जृम्भितम् बाणस्य पृतनाम् शौरिः जघान असि गदा इषुभिः

स्कन्द: प्रद्युम्नबाणौघैरर्द्यमान: समन्तत: ।
असृग् विमुञ्चन् गात्रेभ्य: शिखिनापक्रमद् रणात् ॥ १५ ॥

स्कन्दः प्रद्युम्न-बाण ओघैः अर्द्यमानः समन्ततः असृक् विमुञ्चन् गात्रेभ्यः शिखिना अपाक्रमत् रणात्

कुम्भाण्डकूपकर्णश्च पेततुर्मुषलार्दितौ ।
दुद्रुवुस्तदनीकानि हतनाथानि सर्वत: ॥ १६ ॥

कुम्भाण्ड-कूपकर्णः च पेततुः मुषल अर्दितौ दुद्रुवुः तत् अनीकानि हत नाथानि सर्वतः

विशीर्यमाणं स्वबलं द‍ृष्ट्वा बाणोऽत्यमर्षित: ।
कृष्णमभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ १७ ॥

विशीर्यमाणम् स्व बलम् दृष्ट्वा बाणः अति अमर्षितः कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वा एव सात्यकिम्

धनूंष्याकृष्य युगपद् बाण: पञ्चशतानि वै ।
एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मद: ॥ १८ ॥

धनूंषि आकृष्य युगपत् बाणः पञ्च-शतानि वै एक-एकस्मिन् शरौ द्वौ द्वौ सन्दधे रण दुर्मदः

तानि चिच्छेद भगवान् धनूंषि युगपद्धरि: ।
सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९ ॥

तानि चिच्छेद भगवान् धनूंसि युगपत् हरिः सारथिम् रथम् अश्वान् च हत्वा शङ्खम् अपूरयत्

तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा ।
पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥

तत् माता कोटरा नाम नग्ना मुक्त शिरः-रुहा पुरः अवतस्थे कृष्णस्य पुत्र प्राण रिरक्षया

ततस्तिर्यङ्‍मुखो नग्नामनिरीक्षन् गदाग्रज: ।
बाणश्च तावद् विरथश्छिन्नधन्वाविशत् पुरम् ॥ २१ ॥

ततः तिर्यक् मुखः नग्नाम् अनिरीक्षन् गदाग्रजः बाणः च तावत् विरथः छिन्न धन्वा आविशत् पुरम्

विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्‍त्रीपात् ।
अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२ ॥

विद्राविते भूत-गणे ज्वरः तु त्रि शिराः त्रि पात् अभ्यधावत दाशार्हम् दहन् इव दिशः दश

अथ नारायण: देव: तं द‍ृष्ट्वा व्यसृजज्ज्वरम् ।
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३ ॥

अथ नारायणः देवः तम् दृष्ट्वा व्यसृजत् ज्वरम् माहेश्वरः वैष्णवः च युयुधाते ज्वरौ उभौ

माहेश्वर: समाक्रन्दन् वैष्णवेन बलार्दित: ।
अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वर: ।
शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलि: ॥ २४ ॥

माहेश्वरः समाक्रन्दन् वैष्णवेन बल अर्दितः अलब्ध्वा अभयम् अन्यत्र भीतः माहेश्वरः ज्वरः शरण अर्थी हृषीकेशम् तुष्टाव प्रयत-अञ्जलिः

ज्वर उवाच
नमामि त्वानन्तशक्तिं परेशं
सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।
विश्वोत्पत्तिस्थानसंरोधहेतुं
यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५ ॥

ज्वरः उवाच नमामि त्वा अनन्त शक्तिम् पर ईशम् सर्व आत्मानम् केवलम् ज्ञप्ति मात्रम् विश्व उत्पत्ति स्थान संरोध हेतुम् यत् तत् ब्रह्म ब्रह्म लिन्गम् प्रशान्तम्

कालो दैवं कर्म जीव: स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकार: ।
तत्सङ्घातो बीजरोहप्रवाह-
स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६ ॥

कालः दैवम् कर्म जीवः स्वभावः द्रव्यम् क्षेत्रम् प्राणः आत्मा विकारः तत् सङ्घाटः बीज रोह प्रवाहः त्वत् माया एषा तत् निषेधम् प्रपद्ये

नानाभावैर्लीलयैवोपपन्नै-
र्देवान् साधून् लोकसेतून् बिभर्षि ।
हंस्युन्मार्गान् हिंसया वर्तमानान्
जन्मैतत्ते भारहाराय भूमे: ॥ २७ ॥

नाना भावैः लीलया एव उपपन्नैः देवान् साधून् लोक सेतून् बिभर्षि हंसि उत्-मार्गान् हिंसया वर्तमानान् जन्म एतत् ते भार हाराय भूमेः

तप्तोऽहं ते तेजसा दु:सहेन
शान्तोग्रेणात्युल्बणेन ज्वरेण ।
तावत्तापो देहिनां तेऽङ्‍‍घ्रिमूलं
नो सेवेरन् यावदाशानुबद्धा: ॥ २८ ॥

तप्तः अहम् ते तेजसा दुःसहेन शान्त उग्रेण अति उल्बणेन ज्वरेण तावत् तापः देहिनाम् ते अङ्घ्रि मूलम् न उ सेवेरन् यावत् आशा अनुबद्धाः

श्रीभगवानुवाच
त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद् भयम् ।
यो नौ स्मरति संवादं तस्य त्वन्न भवेद् भयम् ॥ २९ ॥

श्री-भगवान् उवाच त्रि-शिरः ते प्रसन्नः अस्मि व्येतु ते मत् ज्वरात् भयम् यः नौ स्मरति संवादम् तस्य त्वत् न भवेत् भयम्

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वर: ।
बाणस्तु रथमारूढ: प्रागाद्योत्स्यन् जनार्दनम् ॥ ३० ॥

इति उक्तः अच्युतम् आनम्य गतः माहेश्वरः ज्वरः बाणः तु रथम् आरूढः प्रागात् योत्स्यन् जनार्दनम्

ततो बाहुसहस्रेण नानायुधधरोऽसुर: ।
मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१ ॥

ततः बाहु सहस्रेण नाना आयुध धरः असुरः मुमोच परम क्रुद्धः बाणान् चक्र-आयुधे नृप

तस्यास्यतोऽस्‍त्राण्यसकृच्चक्रेण क्षुरनेमिना ।
चिच्छेद भगवान् बाहून् शाखा इव वनस्पते: ॥ ३२ ॥

तस्य अस्यतः अस्त्राणि असकृत् चक्रेण क्षुर नेमिना चिच्छेद भगवान् बाहून् शाखाः इव वनस्पतेः

बाहुषु छिद्यमानेषु बाणस्य भगवान् भव: ।
भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥

बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः भक्त अनुकम्पी उपव्रज्य चक्र-आयुधम् अभाषत

श्रीरुद्र उवाच
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्‍मये ।
यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४ ॥

श्री-रुद्रः उवाच त्वम् हि ब्रह्म परम् ज्योतिः गूढम् ब्रह्मणि वाक्-मये यम् पश्यन्ति अमल आत्मानः आकाशम् इव केवलम्

नाभिर्नभोऽग्निर्मुखमम्बु रेतो
द्यौ: शीर्षमाशा: श्रुतिरङ्‍‍घ्रिरुर्वी ।
चन्द्रो मनो यस्य द‍ृगर्क आत्मा
अहं समुद्रो जठरं भुजेन्द्र: ॥ ३५ ॥
रोमाणि यस्यौषधयोऽम्बुवाहा:
केशा विरिञ्चो धिषणा विसर्ग: ।
प्रजापतिर्हृदयं यस्य धर्म:
स वै भवान् पुरुषो लोककल्प: ॥ ३६ ॥

नाभिः नभः अग्निः मुखम् अम्बु रेतः द्यौः शीर्षम् आशाः श्रुतिः अङ्घ्रिः उर्वी चन्द्रः मनः यस्य दृक् अर्कः आत्मा अहम् समुद्रः जठरम् भुज इन्द्रः रोमाणि यस्य ओषधयः अम्बु-वाहाः केशाः विरिञ्चः धिषणा विसर्गः प्रजा-पतिः हृदयम् यस्य धर्मः सः वै भवान् पुरुषः लोक कल्पः

तवावतारोऽयमकुण्ठधामन्
धर्मस्य गुप्‍त्‍यै जगतो हिताय ।
वयं च सर्वे भवतानुभाविता
विभावयामो भुवनानि सप्त ॥ ३७ ॥

तव अवतारः अयम् अकुण्ठ धामन् धर्मस्य गुप्त्यै जगतः हिताय वयम् च सर्वे भवता अनुभाविताः विभावयामः भुवनानि सप्त

त्वमेक आद्य: पुरुषोऽद्वितीय-
स्तुर्य: स्वद‍ृग् धेतुरहेतुरीश: ।
प्रतीयसेऽथापि यथाविकारं
स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८ ॥

त्वम् एकः आद्यः पुरुषः अद्वितीयः तुर्यः स्व-दृक् हेतुः अहेतुः ईशः प्रतीयसे अथ अपि यथा विकारम् स्व मायया सर्व गुण प्रसिद्ध्यै

यथैव सूर्य: पिहितश्छायया स्वया
छायां च रूपाणि च सञ्चकास्ति ।
एवं गुणेनापिहितो गुणांस्त्व-
मात्मप्रदीपो गुणिनश्च भूमन् ॥ ३९ ॥

यथा एव सूर्यः पिहितः छायया स्वया छायाम् च रूपाणि च सञ्चकास्ति एवम् गुणेन अपिहितः गुणान् त्वम् आत्म-प्रदीपः गुणिनः च भूमन्

यन्मायामोहितधिय: पुत्रदारगृहादिषु ।
उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४० ॥

यत् माया मोहित धियः पुत्र दार गृह आदिषु उन्मज्जन्ति निमज्जन्ति प्रसक्ताः वृजिन अर्णवे

देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रिय: ।
यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चक: ॥ ४१ ॥

देव दत्तम् इमम् लब्ध्वा नृ लोकम् अजित इन्द्रियः यः न आद्रियेत त्वत् पादौ सः शोच्यः हि आत्म वञ्चकः

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।
विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२ ॥

यः त्वाम् विसृजते मर्त्यः आत्मानम् प्रियम् ईश्वरम् विपर्यय इन्द्रिय-अर्थ अर्थम् विषम् अत्ति अमृतम् त्यजन्

अहं ब्रह्माथ विबुधा मुनयश्चामलाशया: ।
सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥ ४३ ॥

अहम् ब्रह्मा अथ विबुधाः मुनयः च अमल आशयाः सर्व-आत्मना प्रपन्नाः त्वाम् आत्मानम् प्रेष्ठम् ईश्वरम्

तं त्वा जगत्स्थित्युदयान्तहेतुं
समं प्रशान्तं सुहृदात्मदैवम् ।
अनन्यमेकं जगदात्मकेतं
भवापवर्गाय भजाम देवम् ॥ ४४ ॥

तम् त्वा जगत् स्थिति उदय अन्त हेतुम् समम् प्रशान्तम् सुहृत् आत्म दैवम् अनन्यम् एकम् जगत् आत्म केतम् भव अपवर्गाय भजाम देवम्

अयं ममेष्टो दयितोऽनुवर्ती
मयाभयं दत्तममुष्य देव ।
सम्पाद्यतां तद् भवत: प्रसादो
यथा हि ते दैत्यपतौ प्रसाद: ॥ ४५ ॥

अयम् मम इष्टः दयितः अनुवर्ती मया अभयम् दत्तम् अमुष्य देव सम्पाद्यताम् तत् भवतः प्रसादः यथा हि ते दैत्य पतौ प्रसादः

श्रीभगवानुवाच
यदात्थ भगवंस्त्वं न: करवाम प्रियं तव ।
भवतो यद् व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६ ॥

श्री-भगवान् उवाच यत् आत्थ भगवन् त्वम् नः करवाम प्रियम् तव भवतः यत् व्यवसितम् तत् मे साधु अनुमोदितम्

अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुर: ।
प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वय: ॥ ४७ ॥

अवध्यः अयम् मम अपि एषः वैरोचनि-सुतः असुरः प्रह्रादाय वरः दत्तः न वध्यः मे तव अन्वयः

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।
सूदितं च बलं भूरि यच्च भारायितं भुव: ॥ ४८ ॥

दर्प उपशमनाय अस्य प्रवृक्णाः बाहवः मया सूदितम् च बलम् भूरि यत् च भारायितम् भुवः

चत्वारोऽस्य भुजा: शिष्टा भविष्यत्यजरामर: ।
पार्षदमुख्यो भवतो न कुतश्चिद्भ‍योऽसुर: ॥ ४९ ॥

चत्वारः अस्य भुजाः शिष्टाः भविष्यति अजर अमरः पार्षद मुख्यः भवतः न कुतश्चित्-भयः असुरः

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुर: ।
प्राद्युम्निं रथमारोप्य सवध्वो समुपानयत् ॥ ५० ॥

इति लब्ध्वा अभयम् कृष्णम् प्रणम्य शिरसा असुरः प्रद्युम्निम् रथम् आरोप्य स-वध्वः समुपानयत्

अक्षौहिण्या परिवृतं सुवास:समलङ्कृतम् ।
सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदित: ॥ ५१ ॥

अक्षौहिण्या परिवृतम् सु वासः समलङ्कृतम् स-पत्नीकम् पुरः-कृत्य ययौ रुद्र अनुमोदितः

स्वराजधानीं समलङ्‍कृतां ध्वजै:
सतोरणैरुक्षितमार्गचत्वराम् ।
विवेश शङ्खानकदुन्दुभिस्वनै-
रभ्युद्यत: पौरसुहृद्‌‌द्विजातिभि: ॥ ५२ ॥

स्व राजधानीम् समलङ्कृताम् ध्वजैः स तोरणैः उक्षित मार्ग चत्वराम् विवेश शङ्ख आनक दुन्दुभि स्वनैः अभ्युद्यतः पौर सुहृत् द्विजातिभिः

य एवं कृष्णविजयं शङ्करेण च संयुगम् ।
संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजय: ॥ ५३ ॥

यः एवम् कृष्ण-विजयम् शङ्करेण च संयुगम् संस्मरेत् प्रातः उत्थाय न तस्य स्यात् पराजयः

१०.६४

श्रीबादरायणिरुवाच
एकदोपवनं राजन् जग्मुर्यदुकुमारका: ।
विहर्तुं साम्बप्रद्युम्नचारुभानुगदादय: ॥ १ ॥

श्री-बादरायणिः उवाच एकदा उपवनम् राजन् जग्मुः यदु-कुमारकाः विहर्तुम् साम्ब-प्रद्युम्न-चारु-भानु-गद-आदयः

क्रीडित्वा सुचिरं तत्र विचिन्वन्त: पिपासिता: ।
जलं निरुदके कूपे दद‍ृशु: सत्त्वमद्भ‍ुतम् ॥ २ ॥

क्रीडित्वा सु-चिरम् तत्र विचिन्वन्तः पिपासिताः जलम् निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम्

कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसा: ।
तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विता: ॥ ३ ॥

कृकलासम् गिरि निभम् वीक्ष्य विस्मित मानसाः तस्य च उद्धरणे यत्नम् चक्रुः ते कृपया अन्विताः

चर्मजैस्तान्तवै: पाशैर्बद्ध्वा पतितमर्भका: ।
नाशक्नुरन् समुद्धर्तुं कृष्णायाचख्युरुत्सुका: ॥ ४ ॥

चर्म-जैः तान्तवैः पाशैः बद्ध्वा पतितम् अर्भकाः न अशक्नुरन् समुद्धर्तुम् कृष्णाय आचख्युः उत्सुकाः

तत्रागत्यारविन्दाक्षो भगवान् विश्वभावन: ।
वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ ५ ॥

तत्र आगत्य अरविन्द-अक्षः भगवान् विश्व भावनः वीक्ष्य उज्जहार वामेन तम् करेण सः लीलया

स उत्तम:श्लोककराभिमृष्टो
विहाय सद्य: कृकलासरूपम् ।
सन्तप्तचामीकरचारुवर्ण:
स्वर्ग्यद्भ‍ुतालङ्करणाम्बरस्रक् ॥ ६ ॥

सः उत्तमः-श्लोक कर अभिमृष्टः विहाय सद्यः कृकलास रूपम् सन्तप्त चामीकर चरु वर्णः स्वर्गी अद्भुत अलङ्करण अम्बर स्रक्

पप्रच्छ विद्वानपि तन्निदानं
जनेषु विख्यापयितुं मुकुन्द: ।
कस्त्वं महाभाग वरेण्यरूपो
देवोत्तमं त्वां गणयामि नूनम् ॥ ७ ॥

पप्रच्छ विद्वान् अपि तत् निदानम् जनेषु विख्यापयितुम् मुकुन्दः कः त्वम् महा-भाग वरेण्य रूपः देव-उत्तमम् त्वाम् गणयामि नूनम्

सम्प्रापितोऽस्यतदर्ह: सुभद्र ।
आत्मानमाख्याहि विवित्सतां नो
यन्मन्यसे न: क्षममत्र वक्तुम् ॥ ८ ॥

दशाम् इमाम् वा कतमेन कर्मणा सम्प्रापितः असि अतत्-अर्हः सु-भद्र आत्मानम् आख्याहि विवित्सताम् नः यत् मन्यसे नः क्षमम् अत्र वक्तुम्

श्रीशुक उवाच
इति स्म राजा सम्पृष्ट: कृष्णेनानन्तमूर्तिना ।
माधवं प्रणिपत्याह किरीटेनार्कवर्चसा ॥ ९ ॥

श्री-शुकः उवाच इति स्म राजा सम्पृष्टः कृष्णेन अनन्त मूर्तिना माधवम् प्रणिपत्य आह किरीटेन अर्क वर्चस

नृग उवाच
नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनय: प्रभो ।
दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ॥ १० ॥

नृगः उवाच नृगः नाम नर-इन्द्रः अहम् इक्ष्वाकु-तनयः प्रभो दानिषु आख्यायमानेषु यदि ते कर्णम् अस्पृशम्

किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिण: ।
कालेनाव्याहतद‍ृशो वक्ष्येऽथापि तवाज्ञया ॥ ११ ॥

किम् नु ते अविदितम् नाथ सर्व भूत आत्म साक्षिणः कालेन अव्याहत दृशः वक्ष्ये अथ अपि तव आज्ञया

यावत्य: सिकता भूमेर्यावत्यो दिवि तारका: ।
यावत्यो वर्षधाराश्च तावतीरददं स्म गा: ॥ १२ ॥

यावत्यः सिकताः भूमेः यावत्यः दिवि तारकाः यावत्यः वर्ष धाराः च तावतीः अददम् स्म गाः

पयस्विनीस्तरुणी: शीलरूप-
गुणोपपन्ना: कपिला हेमश‍ृङ्गी: ।
न्यायार्जिता रूप्यखुरा: सवत्सा
दुकूलमालाभरणा ददावहम् ॥ १३ ॥

पयः-विनीः तरुणीः शील रूप गुण उपपन्नाः कपिलाः हेम शृङ्गीः न्याय अर्जिताः रूप्य खुराः स-वत्साः दुकूल माला आभरणाः ददौ अहम्

स्वलङ्कृतेभ्यो गुणशीलवद्‍भ्य:
सीदत्कुटुम्बेभ्य ऋतव्रतेभ्य: ।
तप:श्रुतब्रह्मवदान्यसद्‍भ्य:
प्रादां युवभ्यो द्विजपुङ्गवेभ्य: ॥ १४ ॥
गोभूहिरण्यायतनाश्वहस्तिन:
कन्या: सदासीस्तिलरूप्यशय्या: ।
वासांसि रत्नानि परिच्छदान् रथा-
निष्टं च यज्ञैश्चरितं च पूर्तम् ॥ १५ ॥

सु अलङ्कृतेभ्यः गुण शील वद्भ्यः सीदत् कुटुम्बेभ्यः ऋत व्रतेभ्यः तपः श्रुत ब्रह्म वदान्य सद्भ्यः प्रादाम् युवभ्यः द्विज पुम्-गवेभ्यः गो भू हिरण्य आयतन अश्व हस्तिनः कन्याः स दासीः तिल रूप्य शय्याः वासांसि रत्नानि परिच्छदान् रथान् इष्टम् च यज्ञैः चरितम् च पूर्तम्

कस्यचिद् द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने ।
सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ १६ ॥

कस्यचित् द्विज मुख्यस्य भ्रष्टा गौः मम गो-धने सम्पृक्ता अविदुषा सा च मया दत्ता द्वि-जातये

तां नीयमानां तत्स्वामी द‍ृष्ट्वोवाच ममेति तम् ।
ममेति परिग्राह्याह नृगो मे दत्तवानिति ॥ १७ ॥

ताम् नीयमानाम् तत् स्वामी दृष्ट्वा उवाच मम इति तम् मम इति परिग्राही आह नृगः मे दत्तवान् इति

विप्रौ विवदमानौ मामूचतु: स्वार्थसाधकौ ।
भवान् दातापहर्तेति तच्छ्रुत्वा मेऽभवद् भ्रम: ॥ १८ ॥

विप्रौ विवदमानौ माम् ऊचतुः स्व अर्थ साधकौ भवान् दाता अपहर्ता इति तत् श्रुत्वा मे अभवत् भ्रमः

अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै ।
गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् ॥ १९ ॥
भवन्तावनुगृह्णीतां किङ्करस्याविजानत: ।
समुद्धरतं मां कृच्छ्रात् पतन्तं निरयेऽशुचौ ॥ २० ॥

अनुनीतौ उभौ विप्रौ धर्म कृच्छ्र गतेन वै गवाम् लक्षम् प्रकृष्टानाम् दास्यामि एषा प्रदीयताम् भवन्तौ अनुगृह्णीताम् किङ्करस्य अविजानतः समुद्धरतम् माम् कृच्छ्रात् पतन्तम् निरये अशुचौ

नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् ।
नान्यद् गवामप्ययुतमिच्छामीत्यपरो ययौ ॥ २१ ॥

न अहम् प्रतीच्छे वै राजन् इति उक्त्वा स्वामी अपाक्रमत् न अन्यत् गवाम् अपि अयुतम् इच्छामि इति अपरः ययौ

एतस्मिन्नन्तरे यामैर्दूतैर्नीतो यमक्षयम् ।
यमेन पृष्टस्तत्राहं देवदेव जगत्पते ॥ २२ ॥

एतस्मिन् अन्तरे यामैः दूतैः नीतः यम-क्षयम् यमेन पृष्टः तत्र अहम् देव-देव जगत् पते

पूर्वं त्वमशुभं भुङ्‍क्ष उताहो नृपते शुभम् ।
नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वत: ॥ २३ ॥

पूर्वम् त्वम् अशुभम् भुङ्क्षे उत आह उ नृ-पते शुभम् न अन्तम् दानस्य धर्मस्य पश्ये लोकस्य भास्वतः

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति स: ।
तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ॥ २४ ॥

पूर्वम् देव अशुभम् भुञ्जे इति प्राह पत इति सः तावत् अद्राक्षम् आत्मानम् कृकलासम् पतन् प्रभो

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।
स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिन: ॥ २५ ॥

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव स्मृतिः न अद्य अपि विध्वस्ता भवत् सन्दर्शन अर्थिनः

स त्वं कथं मम विभोऽक्षिपथ: परात्मा
योगेश्वरै: श्रुतिद‍ृशामलहृद्विभाव्य: ।
साक्षादधोक्षज उरुव्यसनान्धबुद्धे:
स्यान्मेऽनुद‍ृश्य इह यस्य भवापवर्ग: ॥ २६ ॥

सः त्वम् कथम् मम विभो अक्षि-पथः पर-आत्मा योग ईश्वरैः श्रुति दृशा अमल हृत् विभाव्यः साक्षात् अधोक्षज उरु व्यसन अन्ध बुद्धेः स्यात् मे अनुदृश्यः इह यस्य भव अपवर्गः

देवदेव जगन्नाथ गोविन्द पुरुषोत्तम ।
नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ २७ ॥
अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो ।
यत्र क्व‍ापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ २८ ॥

देव-देव जगत् नाथ गो-विन्द पुरुष-उत्तम नारायण हृषीकेश पुण्य-श्लोक अच्युत अव्यय अनुजानीहि माम् कृष्ण यान्तम् देव-गतिम् प्रभो यत्र क्व अपि सतः चेतः भूयात् मे त्वत् पद आस्पदम्

नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये ।
कृष्णाय वासुदेवाय योगानां पतये नम: ॥ २९ ॥

नमः ते सर्व-भावाय ब्रह्मणे अनन्त शक्तये कृष्णाय वासुदेवाय योगानाम् पतये नमः

इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना ।
अनुज्ञातो विमानाग्र्‍यमारुहत् पश्यतां नृणाम् ॥ ३० ॥

इति उक्त्वा तम् परिक्रम्य पादौ स्पृष्ट्वा स्व मौलिना अनुज्ञातः विमान अग्र्यम् आरुहत् पश्यताम् नृणाम्

कृष्ण: परिजनं प्राह भगवान् देवकीसुत: ।
ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥ ३१ ॥

कृष्णः परिजनम् प्राह भगवान् देवकी-सुतः ब्रह्मण्य देवः धर्म आत्मा राजन्यान् अनुशिक्षयन्

दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि ।
तेजीयसोऽपि किमुत राज्ञां ईश्वरमानिनाम् ॥ ३२ ॥

दुर्जरम् बत ब्रह्म स्वम् भुक्तम् अग्नेः मनाक् अपि तेजीयसः अपि किम् उत राज्ञाम् ईश्वर मानिनाम्

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया ।
ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ॥ ३३ ॥

न अहम् हालाहलम् मन्ये विषम् यस्य प्रतिक्रिया ब्रह्म-स्वम् हि विषम् प्रोक्तम् न अस्य प्रतिविधिः भुवि

हिनस्ति विषमत्तारं वह्निरद्भ‍ि: प्रशाम्यति ।
कुलं समूलं दहति ब्रह्मस्वारणिपावक: ॥ ३४ ॥

हिनस्ति विषम् अत्तारम् वह्निः अद्भिः प्रशाम्यति कुलम् स-मूलम् दहति ब्रह्म-स्व अरणि पावकः

ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् ।
प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् ॥ ३५ ॥

ब्रह्म-स्वम् दुरनुज्ञातम् भुक्तम् हन्ति त्रि पूरुषम् प्रसह्य तु बलात् भुक्तम् दश पूर्वान् दश अपरान्

राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते ।
निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशा: ॥ ३६ ॥

राजानः राज लक्ष्म्या अन्धाः न आत्म पातम् विचक्षते निरयम् ये अभिमन्यन्ते ब्रह्म-स्वम् साधु बालिशः

गृह्णन्ति यावत: पांशून् क्रन्दतामश्रुबिन्दव: ।
विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनाम् ॥ ३७ ॥
राजानो राजकुल्याश्‍च तावतोऽब्दान्निरङ्कुशा: ।
कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिण: ॥ ३८ ॥

गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रु-बिन्दवः विप्राणाम् हृत वृत्तीनाम् वदान्यानाम् कुटुम्बिनाम् राजानः राज-कुल्याः च तावतः अब्दान् निरङ्कुशाः कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दाय अपहारिणः

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च य: ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमि: ॥ ३९ ॥

स्व दत्ताम् पर दत्ताम् वा ब्रह्म-वृत्तिम् हरेत् च यः षष्टि वर्ष सहस्राणि विष्ठायाम् जायते कृमिः

न मे ब्रह्मधनं भूयाद् यद् गृध्वाल्पायुषो नरा: ।
पराजिताश्‍च्युता राज्याद् भवन्त्युद्वेजिनोऽहय: ॥ ४० ॥

न मे ब्रह्म धनम् भूयात् यत् गृध्वा अल्प-आयुषः नराः पराजिताः च्युताः राज्यात् भवन्ति उद्वेजिनः अहयः

विप्रं कृतागसमपि नैव द्रुह्यत मामका: ।
घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यश: ॥ ४१ ॥

विप्रम् कृत आगसम् अपि न एव द्रुह्यत मामकाः घ्नन्तम् बहु शपन्तम् वा नमः-कुरुत नित्यशः

यथाहं प्रणमे विप्राननुकालं समाहित: ।
तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ॥ ४२ ॥

यथा अहम् प्रणमे विप्रान् अनु-कालम् समाहितः तथा नमत यूयम् च यः अन्यथा मे सः दण्ड भाक्

ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यध: ।
अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥ ४३ ॥

ब्राह्मण अर्थः हि अपहृतः हर्तारम् पातयति अधः अजानन्तम् अपि हि एनम् नृगम् ब्राह्मण गौः इव

एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकस: ।
पावन: सर्वलोकानां विवेश निजमन्दिरम् ॥ ४४ ॥

एवम् विश्राव्य भगवान् मुकुन्दः द्वारका-ओकसः पावनः सर्व लोकानाम् विवेश निज मन्दिरम्

१०.६५

श्रीशुक उवाच
बलभद्र: कुरुश्रेष्ठ भगवान् रथमास्थित: ।
सुहृद्दिद‍ृक्षुरुत्कण्ठ: प्रययौ नन्दगोकुलम् ॥ १ ॥

श्री-शुकः उवाच बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः सुहृत् दिदृक्षुः उत्कण्ठः प्रययौ नन्द-गोकुलम्

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च ।
रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दित: ॥ २ ॥

परिष्वक्तः चिर उत्कण्ठैः गोपैः गोपीभिः एव च रामः अभिवाद्य पितरौ आशीर्भिः अभिनन्दितः

चिरं न: पाहि दाशार्ह सानुजो जगदीश्वर: ।
इत्यारोप्याङ्कमालिङ्‍ग्य नेत्रै: सिषिचतुर्जलै: ॥ ३ ॥

चिरम् नः पाहि दाशार्ह स अनुजः जगत् ईश्वरः इति आरोप्य अङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुः जलैः

गोपवृद्धांश्च विधिवद् यविष्ठैरभिवन्दित: ।
यथावयो यथासख्यं यथासम्बन्धमात्मन: ॥ ४ ॥
समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभि: ।
विश्रान्तं सुखमासीनं पप्रच्छु: पर्युपागता: ॥ ५ ॥
पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा ।
कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधस: ॥ ६ ॥

गोप वृद्धान् च विधि-वत् यविष्ठैः अभिवन्दितः यथा-वयः यथा-सख्यम् यथा-सम्बन्धम् आत्मनः समुपेत्य अथ गोपालान् हास्य हस्त-ग्रह आदिभिः विश्रान्तम् सुखम् आसीनम् पप्रच्छुः पर्युपागताः पृष्टाः च अनामयम् स्वेषु प्रेम गद्गदया गिरा कृष्णे कमल पत्र अक्षे सन्न्यस्त अखिल राधसः

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते ।
कच्चित् स्मरथ नो राम यूयं दारसुतान्विता: ॥ ७ ॥

कच्चित् नः बान्धवाः राम सर्वे कुशलम् आसते कच्चित् स्मरथ नः राम यूयम् दार सुत अन्विताः

दिष्‍ट्या कंसो हत: पापो दिष्‍ट्या मुक्ता: सुहृज्जना: ।
निहत्य निर्जित्य रिपून् दिष्‍ट्या दुर्गं समाश्रिता: ॥ ८ ॥

दिष्ट्या कंसः हतः पापः दिष्ट्या मुक्ताः सुहृत्-जनाः निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गम् समाश्रीताः

गोप्यो हसन्त्य: पप्रच्छू रामसन्दर्शनाद‍ृता: ।
कच्चिदास्ते सुखं कृष्ण: पुरस्‍त्रीजनवल्ल‍भ: ॥ ९ ॥

गोप्यः हसन्त्यः पप्रच्छुः राम सन्दर्शन आदृताः कच्चित् आस्ते सुखम् कृष्णः पुर स्त्री-जन वल्लभः

कच्चित् स्मरति वा बन्धून् पितरं मातरं च स: ।
अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ।
अपि वा स्मरतेऽस्माकमनुसेवां महाभुज: ॥ १० ॥

कच्चित् स्मरति वा बन्धून् पितरम् मातरम् च सः अपि असौ मातरम् द्रष्टुम् सकृत् अपि आगमिष्यति अपि वा स्मरते अस्माकम् अनुसेवाम् महा भुजः

मातरं पितरं भ्रातृन् पतीन् पुत्रान् स्वसृनपि ।
यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११ ॥
ता न: सद्य: परित्यज्य गत: सञ्छिन्नसौहृद: ।
कथं नु ताद‍ृशं स्‍त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२ ॥

मातरम् पितरम् भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि यत् अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ताः नः सद्यः परित्यज्य गतः सञ्छिन्न सौहृदः कथम् नु तादृशम् स्त्रीभिः न श्रद्धीयेत भाषीतम्

कथं नु गृह्णन्त्यनवस्थितात्मनो
वच: कृतघ्नस्य बुधा: पुरस्‍त्रिय: ।
गृह्णन्ति वै चित्रकथस्य सुन्दर-
स्मितावलोकोच्छ्वसितस्मरातुरा: ॥ १३ ॥

कथम् नु गृह्णन्ति अनवस्थित आत्मनः वचः कृत-घ्नस्य बुधाः पुर स्त्रियः गृह्णन्ति वै चित्र कथस्य सुन्दर स्मित अवलोक उच्छ्वसित स्मर आतुराः

किं नस्तत्कथया गोप्य: कथा: कथयतापरा: ।
यात्यस्माभिर्विना कालो यदि तस्य तथैव न: ॥ १४ ॥

किम् नः तत् कथया गोप्यः कथाः कथयत अपराः याति अस्माभिः विना कालः यदि तस्य तथा एव नः

इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम् ।
गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदु: स्‍त्रिय: ॥ १५ ॥

इति प्रहसितम् शौरेः जल्पितम् चारु वीक्षितम् गतिम् प्रेम परिष्वङ्गम् स्मरन्त्यः रुरुदुः स्त्रियः

सङ्कर्षणस्ता: कृष्णस्य सन्देशैर्हृदयंगमै: ।
सान्‍त्‍वयामास भगवान् नानानुनयकोविद: ॥ १६ ॥

सङ्कर्षणः ताः कृष्णस्य सन्देशैः हृदयम् गमैः सान्त्वयाम् आस भगवान् नाना अनुनय कोविदः

द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च ।
राम: क्षपासु भगवान् गोपीनां रतिमावहन् ॥ १७ ॥

द्वौ मासौ तत्र च अवात्सीत् मधुम् माधवम् एव च रामः क्षपासु भगवान् गोपीनाम् रतिम् आवहन्

पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना ।
यमुनोपवने रेमे सेविते स्‍त्रीगणैर्वृत: ॥ १८ ॥

पूर्ण चन्द्र कला मृष्टे कौमुदी गन्ध वायुना यमुना उपवने रेमे सेविते स्त्री गणैः वृतः

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् ।
पतन्ती तद् वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ १९ ॥

वरुण प्रेषिता देवी वारुणी वृक्ष कोटरात् पतन्ती तत् वनम् सर्वम् स्व गन्धेन अध्यवासयत्

तं गन्धं मधुधाराया वायुनोपहृतं बल: ।
आघ्रायोपगतस्तत्र ललनाभि: समं पपौ ॥ २० ॥

तम् गन्धम् मधु धारायाः वायुना उपहृतम् बलः आघ्राय उपगतः तत्र ललनाभिः समम् पपौ

उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले ।
रेमे करेणुयूथेशो माहेन्द्र इव वारण: ॥ २१ ॥

उपगीयमानः गन्धर्वैः वनिता शोभि मण्डले रेमे करेणु यूथ ईशः माहा-इन्द्रः इव वारणः

नेदुर्दुन्दुभयो व्योम्नि ववृषु: कुसुमैर्मुदा ।
गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥ २२ ॥

नेदुः दुन्दुभयः व्योम्नि ववृषुः कुसुमैः मुदा गन्धर्वाः मुनयः रामम् तत्-वीर्यैः ईडिरे तदा

उपगीयमानचरितो वनिताभिर्हलायुध: ।
वनेषु व्यचरत् क्षीवो मदविह्वललोचन: ॥ २३ ॥

उपगीयमान चरितः वनिताभिः हलायुधः वनेषु व्यचरत् क्षीवः मद विह्वल लोचनः

स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया ।
बिभ्रत् स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ।
स आजुहाव यमुनां जलक्रीडार्थमीश्वर: ॥ २४ ॥
निजं वाक्यमनाद‍ृत्य मत्त इत्यापगां बल: ।
अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥ २५ ॥

स्रक्-वी एक कुण्डलः मत्तः वैजयन्त्या च मालया बिभ्रत् स्मित मुख अम्भोजम् स्वेद प्रालेय भूषितम् सः आजुहाव यमुनाम् जल कृईडा अर्थम् ईश्वरः निजम् वाक्यम् अनादृत्य मत्तः इति आप-गाम् बलः अनागताम् हल अग्रेण कुपितः विचकर्ष ह

पापे त्वं मामवज्ञाय यन्नायासि मयाहुता ।
नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ २६ ॥

पापे त्वम् माम् अवज्ञाय यत् न आयासि मया आहुता नेष्ये त्वाम् लाङ्गल अग्रेण शतधा काम चारिणीम्

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् ।
उवाच चकिता वाचं पतिता पादयोर्नृप ॥ २७ ॥

एवम् निर्भर्त्सिता भीता यमुना यदु-नन्दनम् उवाच चकिता वाचम् पतिता पादयोः नृप

राम राम महाबाहो न जाने तव विक्रमम् ।
यस्यैकांशेन विधृता जगती जगत: पते ॥ २८ ॥

राम राम महा-बाहो न जाने तव विक्रमम् यस्य एक अंशेन विधृता जगती जगतः पते

परं भावं भगवतो भगवन् मामजानतीम् ।
मोक्तुमर्हसि विश्‍वात्मन् प्रपन्नां भक्तवत्सल ॥ २९ ॥

परम् भावम् भगवतः भगवन् माम् अजानतीम् मोक्तुम् अर्हसि विश्व आत्मन् प्रपन्नाम् भक्त वत्सल

ततो व्यमुञ्चद् यमुनां याचितो भगवान् बल: ।
विजगाह जलं स्‍त्रीभि: करेणुभिरिवेभराट् ॥ ३० ॥

ततः व्यमुञ्चत् यमुनाम् याचितः भगवान् बलः विजगाह जलम् स्त्रीभिः करेणुभिः इव इभ राट्

कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे ।
भूषणानि महार्हाणि ददौ कान्ति: शुभां स्रजम् ॥ ३१ ॥

कामम् विहृत्य सलिलात् उत्तीर्णाय असित अम्बरे भूषणानि महा अर्हाणि ददौ कान्तिः शुभाम् स्रजम्

वसित्वा वाससी नीले मालामामुच्य काञ्चनीम् ।
रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारण: ॥ ३२ ॥

वसित्वा वाससी नीले मालाम् आमुच्य काञ्चनीम् रेजे सु अलङ्कृतः लिप्तः माहा-इन्द्रः इव वारणः

अद्यापि द‍ृश्यते राजन् यमुनाकृष्टवर्त्मना ।
बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३३ ॥

अद्य अपि दृश्यते राजन् यमुना आकृष्ट वर्त्मना बलस्य अनन्त वीर्यस्य वीर्यम् सूचयती इव हि

एवं सर्वा निशा याता एकेव रमतो व्रजे ।
रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ ३४ ॥

एवम् सर्वा निशाः याताः एका इव रमतः व्रजे रामस्य आक्षिप्त चित्तस्य माधुर्यैः व्रज-योषिताम्

१०.६६

श्रीशुक उवाच
नन्दव्रजं गते रामे करूषाधिपतिर्नृप ।
वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥ १ ॥

श्री-शुकः उवाच नन्द व्रजम् गते रामे करूष-अधिपतिः नृप वासुदेवः अहम् इति अज्ञः दूतम् कृष्णाय प्राहिणोत्

त्वं वासुदेवो भगवानवतीर्णो जगत्पति: ।
इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् ॥ २ ॥

त्वम् वासुदेवः भगवान् अवतीर्णः जगत् पतिः इति प्रस्तोभितः बालैः मेने आत्मानम् अच्युतम्

दूतं च प्राहिणोन्मन्द: कृष्णायाव्यक्तवर्त्मने ।
द्वारकायां यथा बालो नृपो बालकृतोऽबुध: ॥ ३ ॥

दूतम् च प्राहिणोत् मन्दः कृष्णाय अव्यक्त वर्त्मने द्वारकायाम् यथा बालः नृपः बाल कृतः अबुधः

दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् ।
कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥ ४ ॥

दूतः तु द्वारकाम् एत्य सभायाम् आस्थितम् प्रभुम् कृष्णम् कमल पत्र अक्षम् राज सन्देशम् अब्रवीत्

वासुदेवोऽवतीर्णोऽहमेक एव न चापर: ।
भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां
त्यज ॥ ५ ॥

वासुदेवः अवतीर्णः अहम् एकः एव न च अपरः भूतानाम् अनुकम्पा अर्थम् त्वम् तु मिथ्या अभिधाम् त्यज

यानि त्वमस्मच्चिह्नानि मौढ्याद् बिभर्षि सात्वत ।
त्यक्त्वैहि मां त्वं शरणं
नो
चेद् देहि ममाहवम् ॥ ६ ॥

यानि त्वम् अस्मत् चिह्नानि मौढ्यात् बिभर्षि सात्वत त्यक्त्वा एहि माम् त्वम् शरणम् न उ चेत् देहि मम आहवम्

श्रीशुक उवाच
कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधस: ।
उग्रसेनादय: सभ्या उच्चकैर्जहसुस्तदा ॥ ७ ॥

श्री-शुकः उवाच कत्थनम् तत् उपाकर्ण्य पौण्ड्रकस्य अल्प मेधसः उग्रसेन-आदयः सभ्याः उच्चकैः जहसुः तदा

उवाच दूतं भगवान् परिहासकथामनु ।
उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥ ८ ॥

उवाच दूतम् भगवान् परिहास कथाम् अनु उत्स्रक्ष्ये मूढ चिह्नानि यैः त्वम् एवम् विकत्थसे

मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृत: ।
शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ॥ ९ ॥

मुखम् तत् अपिधाय अज्ञ कङ्क गृध्र वटैः वृतः शयिष्यसे हतः तत्र भविता शरणम् शुनाम्

इति दूतस्तमाक्षेपं स्वामिने सर्वमाहरत् ।
कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह ॥ १० ॥

इति दूतः तम् आक्षेपम् स्वामिने सर्वम् आहरत् कृष्णः अपि रथम् आस्थाय काशीम् उपजगाम ह

पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथ: ।
अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् ॥ ११ ॥

पौण्ड्रकः अपि तत् उद्योगम् उपलभ्य महा-रथः अक्षौहिणीभ्याम् संयुक्तः निश्चक्राम पुरात् द्रुतम्

तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप ।
अक्षौहिणीभिस्तिसृभिरपश्यत् पौण्ड्रकं हरि: ॥ १२ ॥
शङ्खार्यसिगदाशार्ङ्गश्रीवत्साद्युपलक्षितम् ।
बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥ १३ ॥
कौशेयवाससी पीते वसानं गरुडध्वजम् ।
अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् ॥ १४ ॥

तस्य काशी-पतिः मित्रम् पार्ष्णि-ग्राहः अन्वयात् नृप अक्षौहिणीभिः तिसृभिः अपश्यत् पौण्ड्रकम् हरिः शङ्ख अरि असि गदा शार्ङ्ग श्रीवत्स आदि उपलक्षितम् बिभ्राणम् कौस्तुभ-मणिम् वन-माला विभूषितम् कौशेय वाससी पीते वसानम् गरुड-ध्वजम् अमूल्य मौलि आभरणम् स्फुरत् मकर कुण्डलम्

द‍ृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममास्थितम् ।
यथा नटं रङ्गगतं विजहास भृशं हरि: ॥ १५ ॥

दृष्ट्वा तम् आत्मनः तुल्यम् वेषम् कृत्रिमम् आस्थितम् यथा नटम् रङ्ग गतम् विजहास भृशम् हरिः

शूलैर्गदाभि: परिघै: शक्त्यृष्टिप्रासतोमरै: ।
असिभि: पट्टिशैर्बाणै: प्राहरन्नरयो हरिम् ॥ १६ ॥

शूलैः गदाभिः परिघैः शक्ति ऋष्टि प्रास तोमरैः असिभिः पट्टिशैः बाणैः प्राहरन् अरयः हरिम्

कृष्णस्तु तत्पौण्ड्रककाशिराजयो-
र्बलं गजस्यन्दनवाजिपत्तिमत् ।
गदासिचक्रेषुभिरार्दयद् भृशं
यथा युगान्ते हढतभुक् पृथक् प्रजा: ॥ १७ ॥

कृष्णः तु तत् पौण्ड्रक-काशिराजयोः बलम् गज स्यन्दन वाजि पत्ति मत् गदा असि चक्र इसुभिः आर्दयत् भृशम् यथा युग अन्ते हुत-भुक् पृथक् प्रजाः

आयोधनं तद्रथवाजिकुञ्जर-
द्विपत्खरोष्ट्रैररिणावखण्डितै: ।
बभौ चितं मोदवहं मनस्विना-
माक्रीडनं भूतपतेरिवोल्बणम् ॥ १८ ॥

आयोधनम् तत् रथ वाजि कुञ्जर द्विपत् खर उष्ट्रैः अरिणा अवखण्डितैः बभौ चितम् मोद वहम् मनस्विनाम् आक्रीडनम् भूत-पतेः इव उल्बणम्

अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद् भवान् ।
दूतवाक्येन मामाह तान्यस्‍त्रण्युत्सृजामि ते ॥ १९ ॥

अथ आह पौण्ड्रकम् शौरिः भोः भोः पौण्ड्रक यत् भवान् दूत वाक्येन माम् आह तानि अस्त्राणि उत्सृजामि ते

त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम् ।
व्रजामि शरनं तेऽद्य यदि नेच्छामि संयुगम् ॥ २० ॥

त्याजयिष्ये अभिधानम् मे यत् त्वया अज्ञ मृषा धृतम् व्रजामि शरणम् ते अद्य यदि न इच्छामि संयुगम्

इति क्षिप्‍त्‍वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् ।
शिरोऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरे: ॥ २१ ॥

इति क्षिप्त्वा शितैः बाणैः विरथी कृत्य पौण्ड्रकम् शिरः अवृश्चत् रथ-अङ्गेन वज्रेण इन्द्रः यथा गिरेः

तथा काशिपते: कायाच्छिर उत्कृत्य पत्रिभि: ।
न्यपातयत् काशिपुर्यां पद्मकोशमिवानिल: ॥ २२ ॥

तथा काशी-पतेः कायात् शिरः उत्कृत्य पत्रिभिः न्यपातयत् काशि-पुर्याम् पद्म कोशम् इव अनिलः

एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरि: ।
द्वारकामाविशत् सिद्धैर्गीयमानकथामृत: ॥ २३ ॥

एवम् मत्सरिणम् हत्वा पौण्ड्रकम् स सखम् हरिः द्वारकाम् आविशत् सिद्धैः गीयमान कथा अमृतः

स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धन: ।
बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत् ॥ २४ ॥

सः नित्यम् भगवत् ध्यान प्रध्वस्त अखिल बन्धनः बिभ्राणः च हरेः राजन् स्वरूपम् तत्-मयः अभवत्

शिर: पतितमालोक्य राजद्वारे सकुण्डलम् ।
किमिदं कस्य वा वक्त्रमिति संशिशिरे जना: ॥ २५ ॥

शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम् किम् इदम् कस्य वा वक्त्रम् इति संशिशिरे जनाः

राज्ञ: काशीपतेर्ज्ञात्वा महिष्य: पुत्रबान्धवा: ।
पौराश्च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ २६ ॥

राज्ञः काशी-पतेः ज्ञात्वा महिष्यः पुत्र बान्धवाः पौराः च हा हताः राजन् नाथ नाथ इति प्रारुदन्

सुदक्षिणस्तस्य सुत: कृत्वा संस्थाविधिं पते: ।
निहत्य पितृहन्तारं यास्याम्यपचितिं पितु: ॥ २७ ॥
इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् ।
सुदक्षिणोऽर्चयामास परमेण समाधिना ॥ २८ ॥

सुदक्षिणः तस्य सुतः कृत्वा संस्था-विधिम् पतेः निहत्य पितृ हन्तारम् यास्यामि अपचितिम् पितुः इति आत्मना अभिसन्धाय स उपाध्यायः महा-ईश्वरम् सु-दक्षिणः अर्चयाम् आस परमेण समाधिना

प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद् विभु: ।
पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् ॥ २९ ॥

प्रीतः अविमुक्ते भगवान् तस्मै वरम् अदात् विभुः पितृ हन्तृ वध उपायम् सः वव्रे वरम् ईप्सितम्

दक्षिणाग्निं परिचर ब्राह्मणै: सममृत्विजम् ।
अभिचारविधानेन स चाग्नि: प्रमथैर्वृत: ॥ ३० ॥
साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजित: ।
इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती ॥ ३१ ॥

दक्षिण-अग्निम् परिचर ब्राह्मणैः समम् ऋत्विजम् अभिचार-विधानेन सः च अग्निः प्रमथैः वृतः साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः इति आदिष्टः तथा चक्रे कृष्णाय अभिचरन् व्रती

ततोऽग्निरुत्थित: कुण्डान्मूर्तिमानतिभीषण: ।
तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचन: ॥ ३२ ॥
दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्य: स्वजिह्वया ।
आलिहन् सृक्व‍णी नग्नो विधुन्वंस्‍त्रिशिखं ज्वलत् ॥ ३३ ॥

ततः अग्निः उत्थितः कुण्डात् मूर्ति-मान् अति भीषणः तप्त ताम्र शिखा श्मश्रुः अङ्गार उद्गारि लोचनः दंष्ट्र उग्र भ्रु कुटी दण्ड कठोर आस्यः स्व जिह्वया आलिहन् सृक्वणी नग्नः विधुन्वन् त्रि-शिखम् ज्वलत्

पद्‍भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् ।
सोऽभ्यधावद् वृतो भूतैर्द्वारकां प्रदहन् दिश: ॥ ३४ ॥

पद्भ्याम् ताल प्रमाणाभ्याम् कम्पयन् अवनी तलम् सः अभ्यधावत् वृतः भूतैः द्वारकाम् प्रदहन् दिशः

तमाभिचारदहनमायान्तं द्वारकौकस: ।
विलोक्य तत्रसु: सर्वे वनदाहे मृगा यथा ॥ ३५ ॥

तम् आभिचार दहनम् आयान्तम् द्वारका-ओकसः विलोक्य तत्रसुः सर्वे वन-दाहे मृगाः यथा

अक्षै: सभायां क्रीडन्तं भगवन्तं भयातुरा: ।
त्राहि त्राहि त्रिलोकेश वह्ने: प्रदहत: पुरम् ॥ ३६ ॥

अक्षैः सभायाम् क्रीडन्तम् भगवन्तम् भय आतुराः त्राहि त्राहि त्रि लोक ईश वह्नेः प्रदहतः पुरम्

श्रुत्वा तज्जनवैक्लव्यं द‍ृष्ट्वा स्वानां च साध्वसम् ।
शरण्य: सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ॥ ३७ ॥

श्रुत्वा तत् जन वैक्लव्यम् दृष्ट्वा स्वानाम् च साध्वसम् शरण्यः सम्प्रहस्य आह मा भैष्ट इति अविता अस्मि अहम्

सर्वस्यान्तर्बहि:साक्षी कृत्यां माहेश्वरीं विभु: ।
विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥ ३८ ॥

सर्वस्य अन्तः बहिः साक्षी कृत्याम् माहा-ईश्वरीम् विभुः विज्ञाय तत् विघात अर्थम् पार्श्व स्थम् चक्रम् आदिशत्

तत् सूर्यकोटिप्रतिमं सुदर्शनं
जाज्वल्यमानं प्रलयानलप्रभम् ।
स्वतेजसा खं ककुभोऽथ रोदसी
चक्रं मुकुन्दास्‍त्रमथाग्निमार्दयत् ॥ ३९ ॥

तत् सूर्य कोटि प्रतिमम् सुदर्शनम् जाज्वल्यमानम् प्रलय अनल प्रभम् स्व तेजसा खम् ककुभः अथ रोदसी चक्रम् मुकुन्द अस्त्रम् अथ अग्निम् आर्दयत्

कृत्यानल: प्रतिहत: स रथाङ्गपाणे-
रस्त्रौजसा स नृप भग्नमुखो निवृत्त: ।
वाराणसीं परिसमेत्य सुदक्षिणं तं
सर्त्विग्जनं समदहत् स्वकृतोऽभिचार: ॥ ४० ॥

कृत्या अनलः प्रतिहतः सः रथ-अङ्ग-पाणेः अस्त्र ओजसा सः नृप भग्न-मुखः निवृत्तः वारानसीम् परिसमेत्य सुदक्षिणम् तम् स ऋत्विक्-जनम् समदहत् स्व कृतः अभिचारः

चक्रं च विष्णोस्तदनुप्रविष्टं
वाराणसीं साट्टसभालयापणाम् ।
सगोपुराट्टालककोष्ठसङ्कुलां
सकोशहस्त्यश्वरथान्नशालिनीम् ॥ ४१ ॥

चक्रम् च विष्णोः तत् अनुप्रविष्टम् वाराणसीम् स अट्ट सभा आलय आपणाम् स गोपुर अट्टालक कोष्ठ सङ्कुलाम् स कोश हस्ति अश्व रथ अन्न शालिनीम्

दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् ।
भूय: पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मण: ॥ ४२ ॥

दग्ध्वा वाराणसीम् सर्वाम् विष्णोः चक्रम् सुदर्शनम् भूयः पार्श्वम् उपातिष्ठत् कृष्णस्य अक्लिष्ट कर्मणः

य एनं श्रावयेन्मर्त्य उत्तम:श्लोकविक्रमम् ।
समाहितो वा श‍ृणुयात् सर्वपापै: प्रमुच्यते ॥ ४३ ॥

यः एनम् श्रावयेत् मर्त्यः उत्तमः-श्लोक विक्रमम् समाहितः वा शृणुयात् सर्व पापैः प्रमुच्यते

१०.६७

श्रीराजोवाच
भुयोऽहं श्रोतुमिच्छामि रामस्याद्भ‍ुतकर्मण: ।
अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभु: ॥ १ ॥

श्री-राजा उवाच भूयः अहम् श्रोतुम् इच्छामि रामस्य अद्भुत कर्मणः अनन्तस्य अप्रमेयस्य यत् अन्यत् कृतवान् प्रभुः

श्रीशुक उवाच
नरकस्य सखा कश्चिद् द्विविदो नाम वानर: ।
सुग्रीवसचिव: सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥ २ ॥

श्री-शुकः उवाच नरकस्य सखा कश्चित् द्विविदः नाम वानरः सुग्रीव सचिवः सः अथ भ्राता मैन्दस्य वीर्य-वान्

सख्यु: सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् ।
पुरग्रामाकरान् घोषानदहद् वह्निमुत्सृजन् ॥ ३ ॥

सख्युः सः अपचितिम् कुर्वन् वानरः राष्ट्र विप्लवम् पुर ग्राम आकरान् घोषान् अदहत् वह्निम् उत्सृजन्

क्व‍‍चित्स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् ।
आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरि: ॥ ४ ॥

क्वचित् सः शैलान् उत्पाट्य तैः देशान् समचूर्णयत् आनर्तान् सुतराम् एव यत्र आस्ते मित्र हा हरिः

क्व‍‍चित् समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम् ।
देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत् ॥ ५ ॥

क्वचित् समुद्र मध्य स्थः दोर्भ्याम् उत्क्षिप्य तत् जलम् देशान् नाग अयुत प्राणः वेला कूले न्यमज्जयत्

आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।
अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खल: ॥ ६ ॥

आश्रमान् ऋषि मुख्यानाम् कृत्व भग्न वनस्पतीन् अदूषयत् शकृत् मूत्रैः अग्नीन् वैतानिकान् खलः

पुरुषान् योषितो द‍ृप्त: क्ष्माभृद्‍द्रोणीगुहासु स: ।
निक्षिप्य चाप्यधाच्छैलै: पेशष्कारीव कीटकम् ॥ ७ ॥

पुरुषान् योषितः दृप्तः क्ष्मा-भृत् द्रोणी गुहासु सः निक्षिप्य च अप्यधात् शैलैः पेशष्कारी इव कीटकम्

एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्‍त्रिय: ।
श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥ ८ ॥

एवम् देशान् विप्रकुर्वन् दूषयन् च कुल स्त्रियः श्रुत्वा सु-ललितम् गीतम् गिरिम् रैवतकम् ययौ

तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम् ।
सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥ ९ ॥
गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् ।
विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥ १० ॥

तत्र अपश्यत् यदु-पतिम् रामम् पुष्कर मालिनम् सु-दर्शनीय सर्व अङ्गम् ललना यूथ मध्य-गम् गायन्तम् वारुणीम् पीत्वा मद विह्वल लोचनम् विभ्राजमानम् वपुषा प्रभिन्नम् इव वारणम्

दुष्ट: शाखामृग: शाखामारूढ: कम्पयन् द्रुमान् ।
चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ॥ ११ ॥

दुष्टः शाखा-मृगः शाखाम् आरूढः कम्पयन् द्रुमान् चक्रे किलकिला-शब्दम् आत्मानम् सम्प्रदर्शयन्

तस्य धार्ष्‍ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापला: ।
हास्यप्रिया विजहसुर्बलदेवपरिग्रहा: ॥ १२ ॥

तस्य धार्ष्ट्यम् कपेः वीक्ष्य तरुण्यः जाति चापलाः हास्य-प्रियाः विजहसुः बलदेव-परिग्रहाः

ता हेलयामास कपिर्भ्रूक्षेपैर्सम्मुखादिभि: ।
दर्शयन् स्वगुदं तासां रामस्य च निरीक्षित: ॥ १३ ॥

ताः हेलयाम् आस कपिः भ्रू क्षेपैः सम्मुख आदिभिः दर्शयन् स्व गुदम् तासाम् रामस्य च निरीक्षितः

तं ग्राव्णा प्राहरत् क्रुद्धो बल: प्रहरतां वर: ।
स वञ्चयित्वा ग्रावाणं मदिराकलशं कपि: ॥ १४ ॥
गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन् ।
निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद् बलम् ।
कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धत: ॥ १५ ॥

तम् ग्राव्णा प्राहरत् क्रुद्धः बलः प्रहरताम् वरः सः वञ्चयित्वा ग्रावाणम् मदिरा कलशम् कपिः गृहीत्वा हेलयाम् आस धूर्तः तम् कोपयन् हसन् निर्भिद्य कलशम् दुष्टः वासांसि आस्फालयत् बलम् कदर्थीकृत्य बल-वान् विप्रचक्रे मद उद्धतः

तं तस्याविनयं द‍ृष्ट्वा देशांश्च तदुपद्रुतान् ।
क्रुद्धो मुषलमादत्त हलं चारिजिघांसया ॥ १६ ॥

तम् तस्य अविनयम् दृष्ट्वा देशान् च तत् उपद्रुतान् क्रुद्धः मुषलम् आदत्त हलम् च अरि जिघांसया

द्विविदोऽपि महावीर्य: शालमुद्यम्य पाणिना ।
अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ॥ १७ ॥

द्विविदः अपि महा वीर्यः शालम् उद्यम्य पाणिना अभ्येत्य तरसा तेन बलम् मूर्धनि अताडयत्

तं तु सङ्कर्षणो मूर्ध्‍नि पतन्तमचलो यथा ।
प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् ॥ १८ ॥

तम् तु सङ्कर्षणः मूर्ध्नि पतन्तम् अचलः यथा प्रतिजग्राह बल-वान् सुनन्देन अहनत् च तम्

मूषलाहतमस्तिष्को विरेजे रक्तधारया ।
गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् ॥ १९ ॥
पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा ।
तेनाहनत् सुसङ्‌क्रु‌द्धस्तं बल: शतधाच्छिनत् ॥ २० ॥
ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ २१ ॥

मूषल आहत मस्तिष्कः विरेजे रक्त धारया गिरिः यथा गैरिकया प्रहारम् न अनुचिन्तयन् पुनः अन्यम् समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा तेन अहनत् सु-सङ्क्रुद्धः तम् बलः शतधा अच्छिनत् ततः अन्येन रुषा जघ्ने तम् च अपि शतधा अच्छिनत्

एवं युध्यन् भगवता भग्ने भग्ने पुन: पुन: ।
आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद् वनम् ॥ २२ ॥

एवम् युध्यन् भगवता भग्ने भग्ने पुनः पुनः आकृष्य सर्वतः वृक्षान् निर्वृक्षम् अकरोत् वनम्

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षित: ।
तत्सर्वं चूर्णयामास लीलया मुषलायुध: ॥ २३ ॥

ततः अमुञ्चत् शिला वर्षम् बलस्य उपरि अमर्षितः तत् सर्वम् चूर्णयाम् आस लीलया मुषल-आयुधः

स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वर: ।
आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ॥ २४ ॥

सः बाहू ताल सङ्काशौ मुष्टी कृत्य कपि ईश्वरः आसाद्य रोहिणी-पुत्रम् ताभ्याम् वक्षसि अरूरुजत्

यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुषललाङ्गले ।
जत्रावभ्यर्दयत्क्रुद्ध: सोऽपतद् रुधिरं वमन् ॥ २५ ॥

यादव-इन्द्रः अपि तम् दोर्भ्याम् त्यक्त्वा मुषल-लाङ्गले जत्रौ अभ्यर्दयत् क्रुद्धः सः अपतत् रुधिरम् वमन्

चकम्पे तेन पतता सटङ्क: सवनस्पति: ।
पर्वत: कुरुशार्दूल वायुना नौरिवाम्भसि ॥ २६ ॥

चकम्पे तेन पतता स टङ्कः स वनस्पतिः पर्वतः कुरु-शार्दूल वायुना नौः इव अम्भसि

जयशब्दो नम:शब्द: साधु साध्विति चाम्बरे ।
सुरसिद्धमुनीन्द्राणामासीत् कुसुमवर्षिणाम् ॥ २७ ॥

जय-शब्दः नमः-शब्दः साधु साधु इति च अम्बरे सुर सिद्ध मुनि-इन्द्राणाम् आसीत् कुसुम वर्षिणाम्

एवं निहत्य द्विविदं जगद्‍व्य‌‍‍तिकरावहम् ।
संस्तूयमानो भगवान् जनै: स्वपुरमाविशत् ॥ २८ ॥

एवम् निहत्य द्विविदम् जगत् व्यतिकर आवहम् संस्तूयमानः भगवान् जनैः स्व पुरम् आविशत्

१०.६८

श्रीशुक उवाच
दुर्योधनसुतां राजन् लक्ष्मणां समितिंजय: ।
स्वयंवरस्थामहरत् साम्बो जाम्बवतीसुत: ॥ १ ॥

श्री-शुकः उवाच दुर्योधन-सुताम् राजन् लक्ष्मणाम् समितिम्-जयः स्वयंवर स्थाम् अहरत् साम्बः जाम्बवती-सुतः

कौरवा: कुपिता ऊचुर्दुर्विनीतोऽयमर्भक: ।
कदर्थीकृत्य न: कन्यामकामामहरद् बलात् ॥ २ ॥

कौरवाः कुपिताः ऊचुः दुर्विनीतः अयम् अर्भकः कदर्थी-कृत्य नः कन्याम् अकामाम् अहरत् बलात्

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णय: ।
येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ ३ ॥

बध्नीत इमम् दुर्विनीतम् किम् करिष्यन्ति वृष्णयः ये अस्मत् प्रसाद उपचिताम् दत्ताम् नः भुञ्जते महीम्

निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णय: ।
भग्नदर्पा: शमं यान्ति प्राणा इव सुसंयता: ॥ ४ ॥

निगृहीतम् सुतम् श्रुत्वा यदि एष्यन्ति इह वृष्णयः भग्न दर्पाः शमम् यान्ति प्राणाः इव सु संयताः

इति कर्ण: शलो भूरिर्यज्ञकेतु: सुयोधन: ।
साम्बमारेभिरे योद्धुं कुरुवृद्धानुमोदिता: ॥ ५ ॥

इति कर्णः शलः भूरिः यज्ञकेतुः सुयोधनः साम्बम् आरेभिरे योद्धुम् कुरु-वृद्ध अनुमोदिताः

द‍ृष्ट्वानुधावत: साम्बो धार्तराष्ट्रान् महारथ: ।
प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकल: ॥ ६ ॥

दृष्ट्वा अनुधावतः साम्बः धार्तराष्ट्रान् महारथः प्रगृह्य रुचिरम् चापम् तस्थौ सिंहः इव एकलः

तं ते जिघृक्षव: क्रुद्धास्तिष्ठ तिष्ठेति भाषिण: ।
आसाद्य धन्विनो बाणै: कर्णाग्रण्य: समाकिरन् ॥ ७ ॥

तम् ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठ इति भाषिणः आसाद्य धन्विनः बाणैः कर्ण-अग्रण्यः समाकिरन्

सोऽपविद्ध: कुरुश्रेष्ठ कुरुभिर्यदुनन्दन: ।
नामृष्यत्तदचिन्त्यार्भ: सिंह क्षुद्रमृगैरिव ॥ ८ ॥

सः अपविद्धः कुरु-श्रेष्ठ कुरुभिः यदु-नन्दनः न अमृष्यत् तत् अचिन्त्य अर्भः सिंहः क्षुद्र मृगैः इव

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकै: ।
कर्णादीन् षड्रथान् वीरस्तावद्भ‍िर्युगपत् पृथक् ॥ ९ ॥
चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन् ।
रथिनश्च महेष्वासांस्तस्य तत्तेऽभ्यपूजयन् ॥ १० ॥

विस्फूर्ज्य रुचिरम् चापम् सर्वान् विव्याध सायकैः कर्ण-आदीन् षट् रथान् वीरः तावद्भिः युगपत् पृथक् चतुर्भिः चतुरः वाहान् एक-एकेन च सारथीन् रथिनः च महा-इषु-आसान् तस्य तत् ते अभ्यपूजयन्

तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् ।
एकस्तु सारथिं जघ्ने चिच्छेदान्य: शरासनम् ॥ ११ ॥

तम् तु ते विरथम् चक्रुः चत्वारः चतुरः हयान् एकः तु सारथिम् जघ्ने चिछेद अन्यः अर-असनम्

तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि ।
कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १२ ॥

तम् बद्ध्वा विरथी-कृत्य कृच्छ्रेण कुरवः युधि कुमारम् स्वस्य कन्याम् च स्व-पुरम् जयिनः अविशन्

तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यव: ।
कुरून् प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिता: ॥ १३ ॥

तत् श्रुत्वा नारद उक्तेन राजन् सञ्जात मन्यवः कुरून् प्रति उद्यमम् चक्रुः उग्रसेन प्रचोदिताः

सान्‍त्‍वयित्वा तु तान् राम: सन्नद्धान् वृष्णिपुङ्गवान् ।
नैच्छत् कुरूणां वृष्णीनां कलिं कलिमलापह: ॥ १४ ॥
जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।
ब्राह्मणै: कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहै: ॥ १५ ॥

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि-पुङ्गवान् न ऐच्छत् कुरूणाम् वृष्णीनाम् कलिम् कलि मल अपहः जगाम हास्तिन-पुरम् रथेन आदित्य वर्चसा ब्राह्मणैः कुल वृद्धैः च वृतः चन्द्रः इव ग्रहैः

गत्वा गजाह्वयं रामो बाह्योपवनमास्थित: ।
उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥ १६ ॥

गत्वा गजाह्वयम् रामः बाह्य उपवनम् आस्थितः उद्धवम् प्रेषयाम् आस धृतराष्ट्रम् बुभुत्सया

सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।
दुर्योधनं च विधिवद् राममागतमब्रवीत् ॥ १७ ॥

सः अभिवन्द्य अम्बिका-पुत्रम् भीष्मम् द्रोणम् च बाह्लिकम् दुर्योधनम् च विधि-वत् रामम् आगतम् अब्रवीत्

तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।
तमर्चयित्वाभिययु: सर्वे मङ्गलपाणय: ॥ १८ ॥

ते अति प्रीताः तम् आकर्ण्य प्राप्तम् रामम् सुहृत्-तमम् तम् अर्चयित्वा अभिययुः सर्वे मङ्गल पाणयः

तं सङ्गय यथान्यायं गामर्घ्यं च न्यवेदयन् ।
तेषां ये तत्प्रभावज्ञा: प्रणेमु: शिरसा बलम् ॥ १९ ॥

तम् सङ्गम्य यथा न्यायम् गाम् अर्घ्यम् च न्यवेदयन् तेषाम् ये तत् प्रभाव ज्ञाः प्रणेमुः शिरसा बलम्

बन्धून् कुशलिन: श्रुत्वा पृष्ट्वा शिवमनामयम् ।
परस्परमथो रामो बभाषेऽविक्लवं वच: ॥ २० ॥

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् परस्परम् अथ उ रामः बभाषे अविक्लवम् वचः

उग्रसेन: क्षितेशेशो यद् व आज्ञापयत् प्रभु: ।
तदव्यग्रधिय: श्रुत्वा कुरुध्वमविलम्बितम् ॥ २१ ॥

उग्रसेनः क्षित ईश ईशः यत् वः आज्ञापयत् प्रभुः तत् अव्यग्र-धियः श्रुत्वा कुरुध्वम् अविलम्बितम्

यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् ।
अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥ २२ ॥

यत् यूयम् बहवः तु एकम् जित्वा अधर्मेण धार्मिकम् अबध्नीत अथ तत् मृष्ये बन्धूनाम् ऐक्य काम्यया

वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वच: ।
कुरवो बलदेवस्य निशम्योचु: प्रकोपिता: ॥ २३ ॥

वीर्य शौर्य बल उन्नद्धम् आत्म शक्ति समम् वचः कुरवः बलदेवस्य निशम्य ऊचुः प्रकोपिताः

अहो महच्चित्रमिदं कालगत्या दुरत्यया ।
आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम् ॥ २४ ॥

अहो महत् चित्रम् इदम् काल गत्या दुरत्यया आरुरक्षति उपानत् वै शिरः मुकुट सेवितम्

एते यौनेन सम्बद्धा: सहशय्यासनाशना: ।
वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासना: ॥ २५ ॥

एते यौनेन सम्बद्धाः सह शय्या आसन अशनाः वृष्णयः तुल्यताम् नीताः अस्मत् दत्त नृप-आसनाः

चामरव्यजने शङ्खमातपत्रं च पाण्डुरम् ।
किरीटमासनं शय्यां भुञ्जतेऽस्मदुपेक्षया ॥ २६ ॥

चामर व्यजने शङ्खम् आतपत्रम् च पाण्डुरम् किरीटम् आसनम् शय्याम् भुञ्जते अस्मत् उपेक्षया

अलं यदूनां नरदेवलाञ्छनै-
र्दातु: प्रतीपै: फणिनामिवामृतम् ।
येऽस्मत्प्रसादोपचिता हि यादवा
आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७ ॥

अलम् यदूनाम् नर-देव लाञ्छनैः दातुः प्रतीपैः फणिनाम् इव अमृतम् ये अस्मत् प्रसाद उपचिताः हि यादवाः आज्ञापयन्ति अद्य गत-त्रपाः बत

कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभि: ।
अदत्तमवरुन्धीत सिंहग्रस्तमिवोरण: ॥ २८ ॥

कथम् इन्द्रः अपि कुरुभिः भीष्म-द्रोण-अर्जुन-आदिभिः अदत्तम् अवरुन्धीत सिंह ग्रस्तम् इव उरणः

श्रीबादरायणिरुवाच
जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ ।
आश्राव्य रामं दुर्वाच्यमसभ्या: पुरमाविशन् ॥ २९ ॥

श्री-बादरायनिः उवाच जन्म बन्धु श्रीया उन्नद्ध मदाः ते भरत-ऋषभ आश्राव्य रामम् दुर्वाच्यम् असभ्याः पुरम् आविशन्

द‍ृष्ट्वा कुरूणां दौ:शील्यं श्रुत्वावाच्यानि चाच्युत: ।
अवोचत् कोपसंरब्धो दुष्प्रेक्ष्य: प्रहसन् मुहु: ॥ ३० ॥

दृष्ट्वा कुरूणाम् दौःशील्यम् श्रुत्वा अवाच्यानि च अच्युतः अवोचत् कोप संरब्धः दुष्प्रेक्ष्यः प्रहसन् मुहुः

नूनं नानामदोन्नद्धा: शान्तिं नेच्छन्त्यसाधव: ।
तेषां हि प्रशमो दण्ड: पशूनां लगुडो यथा ॥ ३१ ॥

नूनम् नाना मद उन्नद्धाः शान्तिम् न इच्छन्ति असाधवः तेषाम् हि प्रशमः दण्डः पशूनाम् लगुडः यथा

अहो यदून् सुसंरब्धान् कृष्णं च कुपितं शनै: ।
सान्‍त्‍वयित्वाहमेतेषां शममिच्छन्निहागत: ॥ ३२ ॥
त इमे मन्दमतय: कलहाभिरता: खला: ।
तं मामवज्ञाय मुहुर्दुर्भाषान् मानिनोऽब्रुवन् ॥ ३३ ॥

अहो यदून् सु-संरब्धान् कृष्णम् च कुपितम् शनैः सान्त्वयित्वा अहम् एतेषाम् अमम् इच्छन् इह आगतः ते इमे मन्द-मतयः कलह अभिरताः खलाः तम् माम् अवज्ञाय मुहुः दुर्भाषान् मानिनः अब्रुवन्

नोग्रसेन: किल विभुर्भोजवृष्ण्यन्धकेश्वर: ।
शक्रादयो लोकपाला यस्यादेशानुवर्तिन: ॥ ३४ ॥

न उग्रसेनः किल विभुः भोज-वृष्णि-अन्धक ईश्वरः शक्र-आदयः लोक पालाः यस्य आदेश अनुवर्तिनः

सुधर्माक्रम्यते येन पारिजातोऽमराङ्‍‍घ्रिप: ।
आनीय भुज्यते सोऽसौ न किलाध्यासनार्हण: ॥ ३५ ॥

सुधर्मा आक्रम्यते येन पारिजातः अमर अङ्घ्रिपः आनीय भुज्यते सः असौ न किल अध्यासन अर्हणः

यस्य पादयुगं साक्षाच्छ्रीरुपास्तेऽखिलेश्वरी ।
स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥ ३६ ॥

यस्य पाद-युगम् साक्षात् श्रीः उपास्ते अखिल ईश्वरी सः न अर्हति किल श्री-ईशः नर-देव परिच्छदान्

यस्याङ्‍‍घ्रिपङ्कजरजोऽखिललोकपालै-
र्मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।
ब्रह्मा भवोऽहमपि यस्य कला: कलाया:
श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व‍ ॥ ३७ ॥

यस्य अङ्घ्रि पङ्कज रजः अखिल लोक पालैः मौलि उत्तमैः धृतम् उपासित तीर्थ तीर्थम् ब्रह्मा भवः अहम् अपि यस्य कलाः कलायाः श्रीः च उद्वहेम चिरम् अस्य नृप-आसनम् क्व

भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णय: किल ।
उपानह: किल वयं स्वयं तु कुरव: शिर: ॥ ३८ ॥

भुञ्जते कुरुभिः दत्तम् भू खण्डम् वृष्णयः किल उपानहः किल वयम् स्वयम् तु कुरवः शिरः

अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।
असम्बद्धा गिरो रुक्षा: क: सहेतानुशासिता ॥ ३९ ॥

अहो ऐश्वर्य मत्तानाम् मत्तानाम् इव मानिनाम् असम्बद्धाः गिरः रुक्षाः कः सहेत अनुशासीता

अद्य निष्कौरवं पृथ्वीं करिष्यामीत्यमर्षित: ।
गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्‍त्रयम् ॥ ४० ॥

अद्य निष्कौरवां पृथ्वीम् करिष्यामि इति अमर्षितः गृहीत्वा हलम् उत्तस्थौ दहन् इव जगत् त्रयम्

लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम् ।
विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षित: ॥ ४१ ॥

लाङ्गल अग्रेण नगरम् उद्विदार्य गजाह्वयम् विचकर्ष सः गङ्गायाम् प्रहरिष्यन् अमर्षितः

जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।
आकृष्यमाणमालोक्य कौरवा: जातसम्भ्रमा: ॥ ४२ ॥
तमेव शरणं जग्मु: सकुटुम्बा जिजीविषव: ।
सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलय: प्रभुम् ॥ ४३ ॥

जल-यानम् इव आघूर्णम् गङ्गायाम् नगरम् पतत् आकृष्यमाणम् आलोक्य कौरवाः जात सम्भ्रमाः तम् एव शरणम् जग्मुः स कुटुम्बः जिजीविषवः स लक्ष्मणम् पुरः-कृत्य साम्बम् प्राञ्जलयः प्रभुम्

राम रामाखिलाधार प्रभावं न विदाम ते ।
मूढानां न: कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ॥ ४४ ॥

राम राम अखिल आधार प्रभावम् न विदाम ते मूढानाम् नः कु बुद्धीनाम् क्षन्तुम् अर्हसि अतिक्रमम्

स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रय: ।
लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि ॥ ४५ ॥

स्थिति उत्पत्ति अप्ययानाम् त्वम् एकः हेतुः निराश्रयः लोकान् क्रीडनकान् ईश क्रीडतः ते वदन्ति हि

त्वमेव मूर्ध्नीदमनन्त लीलया
भूमण्डलं बिभर्षि सहस्रमूर्धन् ।
अन्ते च य: स्वात्मनिरुद्धविश्व:
शेषेऽद्वितीय: परिशिष्यमाण: ॥ ४६ ॥

त्वम् एव मूर्ध्नि इदम् अनन्त लीलया भू मण्डलम् बिभर्षि सहस्र-मूर्धन् अन्ते च यः स्व आत्म निरुद्ध विश्वः शेषे अद्वितीयः परिशिष्यमाणः

कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।
बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्पर: ॥ ४७ ॥

कोपः ते अखिल शिक्षा अर्थम् न द्वेषात् न च मत्सरात् बिभ्रतः भगवन् सत्त्वम् स्थिति पालन तत्-परः

नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय ।
विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गता: ॥ ४८ ॥

नमः ते सर्व भूत आत्मन् सर्व शक्ति धर अव्यय विश्व कर्मन् नमः ते अस्तु त्वाम् वयम् शरणम् गताः

श्रीशुक उवाच
एवं प्रपन्नै: संविग्नैर्वेपमानायनैर्बल: ।
प्रसादित: सुप्रसन्नो मा भैष्टेत्यभयं ददौ ॥ ४९ ॥

श्री-शुकः उवाच एवम् प्रपन्नैः संविग्नैः वेपमान अयनैः बलः प्रसादितः सु प्रसन्नः मा भैष्ट इति अभयम् ददौ

दुर्योधन: पारिबर्हं कुञ्जरान् षष्टिहायनान् ।
ददौ च द्वादशशतान्ययुतानि तुरङ्गमान् ॥ ५० ॥
रथानां षट्‍सहस्राणि रौक्‍माणां सूर्यवर्चसाम् ।
दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सल: ॥ ५१ ॥

दुर्योधनः पारिबर्हम् कुञ्जरान् षष्टि हायनान् ददौ च द्वादश शतानि अयुतानि तुरङ्गमान् रथानाम् अट्-सहस्राणि रौक्माणाम् सूर्य वर्चसाम् दासीनाम् निष्क कण्ट्थीनाम् सहस्रम् दुहितृ वत्सलः

प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभ: ।
ससुत: सस्‍नुष: प्रायात् सुहृद्भ‍िरभिनन्दित: ॥ ५२ ॥

प्रतिगृह्य तु तत् सर्वम् भगवान् सात्वत ऋषभः स सुतः स स्नुषः प्रायात् सु-हृद्भिः अभिनन्दितः

तत: प्रविष्ट: स्वपुरं हलायुध:
समेत्य बन्धूननुरक्तचेतस: ।
शशंस सर्वं यदुपुङ्गवानां
मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३ ॥

ततः प्रविष्टः स्व पुरम् हल-आयुधः समेत्य बन्धून् अनुरक्त चेतसः शशंस सर्वम् यदु-पुङ्गवानाम् मध्ये सभायाम् कुरुषु स्व चेष्टितम्

अद्यापि च पुरं ह्येतत् सूचयद् रामविक्रमम् ।
समुन्नतं दक्षिणतो गङ्गायामनुद‍ृश्यते ॥ ५४ ॥

अद्य अपि च पुरम् हि एतत् सूचयत् राम विक्रमम् समुन्नतम् दक्षिणतः गङ्गायाम् अनुदृश्यते

१०.६९

श्रीशुक उवाच
नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।
कृष्णेनैकेन बह्वीनां तद् दिद‍ृक्षु: स्म नारद: ॥ १ ॥
चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।
गृहेषु द्वय‍ष्टसाहस्रं स्‍त्रिय एक उदावहत् ॥ २ ॥
इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।
पुष्पितोपवनारामद्विजालिकुलनादिताम् ॥ ३ ॥
उत्फुल्ल‍ेन्दीवराम्भोजकह्लारकुमुदोत्पलै: ।
छुरितेषु सर:सूच्चै: कूजितां हंससारसै: ॥ ४ ॥
प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतै: ।
महामरकतप्रख्यै: स्वर्णरत्नपरिच्छदै: ॥ ५ ॥
विभक्तरथ्यापथचत्वरापणै:
शालासभाभी रुचिरां सुरालयै: ।
संसिक्तमार्गाङ्गनवीथिदेहलीं
पतत्पताकध्वजवारितातपाम् ॥ ६ ॥

श्री-शुकः उवाच नरकम् निहतम् श्रुत्वा तथा उद्वाहम् च योषिताम् कृष्णेन एकेन बह्वीनाम् तत् दिदृक्षुः स्म नारदः चित्रम् बत एतत् एकेन वपुषा युगपत् पृथक् गृहेषु द्वि अष्ट साहस्रम् स्त्रियः एकः उदावहत् इति उत्सुकः द्वारवतीम् देव ऋषिः द्रष्टुम् आगमत् पुष्पित उपवन आराम द्विज अलि कुल नादिताम् उत्फुल्ल इन्दीवर अम्भोज कह्लार कुमुद उत्पलैः छुरितेषु सरःसु उच्चैः कूजिताम् हंस सारसैः प्रासाद लक्षैः नवभिः जुष्टाम् स्फाटिक राजतैः महा-मरकत प्रख्यैः स्वर्ण रत्न परिच्छदैः विभक्त रथ्या पथ चत्वर आपणैः शाला-सभाभिः रुचिराम् सुर आलयैः संसिक्त मार्ग अङ्गन वीथि देहलीम् पतत् पताक ध्वज वारित आतपाम्

तस्यामन्त:पुरं श्रीमदर्चितं सर्वधिष्ण्यपै: ।
हरे: स्वकौशलं यत्र त्वष्ट्रा कार्त्स्‍न्येन दर्शितम् ॥ ७ ॥
तत्र षोडशभि: सद्मसहस्रै: समलङ्कृतम् ।
विवेशैकतोमं शौरे: पत्नीनां भवनं महत् ॥ ८ ॥

तस्याम् अन्तः-पुरम् श्री-मत् अर्चितम् सर्व धिष्ण्य पैः हरेः स्व कौशलम् यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् विवेश एकतमम् शौरेः पत्नीनाम् भवनम् महत्

विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमै: ।
इन्द्रनीलमयै: कुड्यैर्जगत्या चाहतत्विषा ॥ ९ ॥
वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभि: ।
दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतै: ॥ १० ॥
दासीभिर्निष्ककण्ठीभि: सुवासोभिरलङ्कृतम् ।
पुम्भि: सकञ्चुकोष्णीषसुवस्‍त्रमणिकुण्डलै: ॥ ११ ॥
रत्नप्रदीपनिकरद्युतिभिर्निरस्त-
ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।
नृत्यन्ति यत्र विहितागुरुधूपमक्षै-
र्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्त: ॥ १२ ॥

विष्टब्धम् विद्रुम स्तम्भैः वैदूर्य फलक उत्तमैः इन्द्रनील-मयैः कुड्यैः जगत्या च अहत त्विषा वितानैः निर्मितैः त्वष्ट्रा मुक्ता-दाम विलम्बिभिः दान्तैः आसन पर्यङ्कैः मणि उत्तम परिष्कृतैः दासीभिः निष्क कण्ठीभिः सु-वासोभिः अलङ्कृतम् पुम्भिः स-कञ्चुक उष्णीष सु-वस्त्र मणि कुण्डलैः रत्न प्रदीप निकर द्युतिभिः निरस्त ध्वान्तम् विचित्र वलभीषु शिखण्डिनः अङ्ग नृत्यन्ति यत्र विहित अगुरु धूपम् अक्षैः निर्यान्तम् ईक्ष्य घन बुद्धयः उन्नदन्तः

तस्मिन् समानगुणरूपवय:सुवेष-
दासीसहस्रयुतयानुसवं गृहिण्या ।
विप्रो ददर्श चमरव्यजनेन रुक्‍म-
दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३ ॥

तस्मिन् समान गुण रूप वयः सु-वेष दासी सहस्र युतया अनुसवम् गृहिण्या विप्रः ददर्श चामर व्यजनेन रुक्म दण्डेन सात्वत-पतिम् परिवीजयन्त्या

तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री-
पर्यङ्कत: सकलधर्मभृतां वरिष्ठ: ।
आनम्य पादयुगलं शिरसा किरीट-
जुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १४ ॥

तम् सन्निरीक्ष्य भगवान् सहसा उत्थित श्री पर्यङ्कतः सकल धर्म भृताम् वरिष्ठः आनम्य पाद-युगलम् शिरसा किरीट जुष्टेन स-अञ्जलिः अवीविशत् आसने स्वे

तस्यावनिज्य चरणौ तदप: स्वमूर्ध्ना
बिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि ।
ब्रह्मण्यदेव इति यद्गुणनाम युक्तं
तस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १५ ॥

तस्य अवनिज्य चरणौ तत् अपः स्व मूर्ध्ना बिभ्रत् जगत् गुरु-तमः अपि सताम् पतिः हि ब्रह्मण्य देवः इति यत् गुण नाम युक्तम् तस्य एव यत् चरण शौचम् अशेष तीर्थम्

सम्पूज्य देवऋषिवर्यमृषि: पुराणो
नारायणो नरसखो विधिनोदितेन ।
वाण्याभिभाष्य मितयामृतमिष्टया तं
प्राह प्रभो भगवते करवाम हे किम् ॥ १६ ॥

सम्पूज्य देव ऋषि वर्यम् ऋषिः पुराणः नारायणः नर-सखः विधिना उदितेन वाण्या अभिभाष्य मितया अमृत मिष्टया तम् प्राह प्रभो भगवते करवाम हे किम्

श्रीनारद उवाच
नैवाद्भ‍ुतं त्वयि विभोऽखिललोकनाथे
मैत्री जनेषु सकलेषु दम: खलानाम् ।
नि:श्रेयसाय हि जगत्स्थितिरक्षणाभ्यां
स्वैरावतार उरुगाय विदाम सुष्ठु ॥ १७ ॥

श्री-नारदः उवाच न एव अद्भुतम् त्वयि विभो अखिल लोक नाथे मैत्री जनेषु सकलेषु दमः खलानाम् निःश्रेयसाय हि जगत् स्थिति रक्षणाभ्याम् स्वैर अवतारः उरु-गाय विदाम सुष्ठु

द‍ृष्टं तवाङ्‍‍घ्रियुगलं जनतापवर्गं
ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधै: ।
संसारकूपपतितोत्तरणावलम्बं
ध्यायंश्चराम्यनुगृहाण यथा स्मृति: स्यात् ॥ १८ ॥

दृष्टम् तव अङ्घ्रि युगलम् जनता अपवर्गम् ब्रह्म-आदिभिः हृदि विचिन्त्यम् अगाध बोधैः संसार कूप पतित उत्तरण अवलम्बम् ध्यायन् चरामि अनुगृहाण यथा स्मृतिः स्यात्

ततोऽन्यदाविशद् गेहं कृष्णपत्न्‍या: स नारद: ।
योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ १९ ॥

ततः अन्यत् आविशत् गेहम् कृष्ण-पत्न्याः सः नारदः योग-ईश्वर ईश्वरस्य अङ्ग योग-माया विवित्सया

दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।
पूजित: परया भक्त्या प्रत्युत्थानासनादिभि: ॥ २० ॥
पृष्टश्चाविदुषेवासौ कदायातो भवानिति ।
क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभि: ॥ २१ ॥
अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु ।
स तु विस्मित उत्थाय तूष्णीमन्यदगाद् गृहम् ॥ २२ ॥

दीव्यन्तम् अक्षैः तत्र अपि प्रियया च उद्धवेन च पूजितः परया भक्त्या प्रत्युत्थान आसन आदिभिः पृष्टः च अविदुषा इव असौ कदा आयातः भवान् इति क्रियते किम् नु पूर्णानाम् अपूर्णैः अस्मत्-आदिभिः अथ अपि ब्रूहि नः ब्रह्मन् जन्म एतत् शोभनम् कुरु सः तु विस्मितः उत्थाय तूष्णीम् अन्यत् अगात् गृहम्

तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।
ततोऽन्यस्मिन् गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥ २३ ॥

तत्र अपि अचष्ट गोविन्दम् लालयन्तम् सुतान् शिशून् ततः अन्यस्मिन् गृहे अपश्यत् मज्जनाय कृत-उद्यमम्

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखै: ।
भोजयन्तं द्विजान् क्व‍ापि भुञ्जानमवशेषितम् ॥ २४ ॥

जुह्वन्तम् च वितान-अग्नीन् यजन्तम् पञ्चभिः मखैः भोजयन्तम् द्विजान् क्व अपि भुञ्जानम् अवशेषितम्

क्व‍ापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।
एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥ २५ ॥

क्व अपि सन्ध्याम् उपासीनम् जपन्तम् ब्रह्म वाक्-यतम् एकत्र च असि चर्माभ्याम् चरन्तम् असि-वर्त्मसु

अश्वैर्गजै रथै: क्व‍ापि विचरन्तं गदाग्रजम् ।
क्व‍‍चिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभि: ॥ २६ ॥

अश्वैः गजैः रथैः क्व अपि विचरन्तम् गद-अग्रजम् क्वचित् शयानम् पर्यङ्के स्तूयमानम् च वन्दिभिः

मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभि: ।
जलक्रीडारतं क्व‍ापि वारमुख्याबलावृतम् ॥ २७ ॥

मन्त्रयन्तम् च कस्मिंश्चित् मन्त्रि-भिः च उद्धव-आदिभिः जल क्रीडा रतम् क्व अपि वार-मुख्या अबला वृतम्

कुत्रचिद्‌‌द्विजमुख्येभ्यो ददतं गा: स्वलङ्कृता: ।
इतिहासपुराणानि श‍ृण्वन्तं मङ्गलानि च ॥ २८ ॥

कुत्रचित् द्विज मुख्येभ्यः ददतम् गाः सु अलङ्कृताः इतिहास पुराणानि शृण्वन्तम् मङ्गलानि च

हसन्तं हासकथया कदाचित् प्रियया गृहे ।
क्व‍ापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥ २९ ॥

हसन्तम् हास-कथया कदाचित् प्रियया गृहे क्व अपि धर्मम् सेवमानम् अर्थ कामौ च कुत्रचित्

ध्यायन्तमेकमासीनं पुरुषं प्रकृते: परम् ।
शुश्रूषन्तं गुरून् क्व‍ापि कामैर्भोगै: सपर्यया ॥ ३० ॥

ध्यायन्तम् एकम् आसीनम् पुरुषम् प्रकृतेः परम् शुश्रूषन्तम् गुरून् क्व अपि कामैः भोगैः सपर्यया

कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् ।
कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१ ॥

कुर्वन्तम् विग्रहम् कैश्चित् सन्धिम् च अन्यत्र केशवम् कुत्र अपि सह रामेण चिन्तयन्तम् सताम् शिवम्

पुत्राणां दुहितृणां च काले विध्युपयापनम् ।
दारैर्वरैस्तत्सद‍ृशै: कल्पयन्तं विभूतिभि: ॥ ३२ ॥

पुत्राणाम् दुहितॄणाम् च काले विधि उपयापनम् दारैः वरैः तत् सदृशैः कल्पयन्तम् विभूतिभिः

प्रस्थापनोपनयनैरपत्यानां महोत्सवान् ।
वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३ ॥

प्रस्थापन उपनयनैः अपत्यानाम् महा उत्सवान् वीक्ष्य योग-ईश्वर ईशस्य येषाम् लोकाः विसिस्मिरे

यजन्तं सकलान् देवान् क्व‍ापि क्रतुभिरूर्जितै: ।
पूर्तयन्तं क्व‍‍चिद् धर्मं कूर्पाराममठादिभि: ॥ ३४ ॥

यजन्तम् सकलान् देवान् क्व अपि क्रतुभिः ऊर्जितैः पूर्तयन्तम् क्वचित् धर्मम् कूर्प आराम मठ आदिभिः

चरन्तं मृगयां क्व‍ापि हयमारुह्य सैन्धवम् ।
घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवै: ॥ ३५ ॥

चरन्तम् मृगयाम् क्व अपि हयम् आरुह्य सैन्धवम् घ्नन्तम् तत्र पशून् मेध्यान् परीतम् यदु-पुङ्गवैः

अव्यक्तलिङ्गं प्रकृतिष्वन्त:पुरगृहादिषु ।
क्व‍‍चिच्चरन्तं योगेशं तत्तद्भ‍ावबुभुत्सया ॥ ३६ ॥

अव्यक्त लिङ्गम् प्रकृतिषु अन्तः-पुर गृह-आदिषु क्वचित् चरन्तम् योग-ईशम् तत्-तत् भाव बुभुत्सया

अथोवाच हृषीकेशं नारद: प्रहसन्निव ।
योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥ ३७ ॥

अथ उवाच हृषीकेशम् नारदः प्रहसन् इव योग-माया उदयम् वीक्ष्य मानुषीम् ईयुषः गतिम्

विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् ।
योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ ३८ ॥

विदाम योग-मायाः ते दुर्दर्शाः अपि मायिनाम् योग-ईश्वर आत्मन् निर्भाताः भवत् पाद निषेवया

अनुजानीहि मां देव लोकांस्ते यशसाप्लुतान् ।
पर्यटामि तवोद्गायन् लीला भुवनपावनी: ॥ ३९ ॥

अनुजानीहि माम् देव लोकान् ते यशसा आप्लुतान् पर्यटामि तव उद्गायन् लीलाः भुवन पावनीः

श्रीभगवानुवाच
ब्रह्मन् धर्मस्य वक्ताहं कर्ता तदनुमोदिता ।
तच्छिक्षयन् लोकमिममास्थित: पुत्र मा खिद: ॥ ४० ॥

श्री-भगवान् उवाच ब्रह्मन् धर्मस्य वक्ता अहम् कर्ता तत् अनुमोदिता तत् शिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः

श्रीशुक उवाच
इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् ।
तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४१ ॥

श्री-शुकः उवाच इति आचरन्तम् सत् धर्मान् पावनान् गृह-मेधिनाम् तम् एव सर्व गेहेषु सन्तम् एकम् ददर्श ह

कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ।
मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुक: ॥ ४२ ॥

कृष्णस्य अनन्त वीर्यस्य योग-माया महा उदयम् मुहुः दृष्ट्वा ऋषिः अभूत् विस्मितः जातकौतुकः

इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना ।
सम्यक् सभाजित: प्रीतस्तमेवानुस्मरन् ययौ ॥ ४३ ॥

इति अर्थ काम धर्मेषु कृष्णेन श्रद्धित आत्मना सम्यक् सभाजितः प्रीतः तम् एव अनुस्मरन् ययौ

एवं मनुष्यपदवीमनुवर्तमानो
नारायणोऽखिलभवाय गृहीतशक्ति: ।
रेमेऽङ्ग षोडशसहस्रवराङ्गनानां
सव्रीडसौहृदनिरीक्षणहासजुष्ट: ॥ ४४ ॥

एवम् मनुष्य पदवीम् अनुवर्तमानः नारायणः अखिल भवाय गृहीत शक्तिः रेमे अङ्ग षोडश सहस्र वर अङ्गनानाम् स-व्रीड सौहृद निरीक्षण हास जुष्टः

यानीह विश्वविलयोद्भववृत्तिहेतु:
कर्माण्यनन्यविषयाणि हरिश्चकार ।
यस्त्वङ्ग गायति श‍ृणोत्यनुमोदते वा
भक्तिर्भवेद् भगवति ह्यपवर्गमार्गे ॥ ४५ ॥
यस्यात्मबुद्धि: कुणपे त्रिधातुके
स्वधी: कलत्रादिषु भौम इज्यधी: ।
यत्तीर्थबुद्धि: सलिले न कर्हिचिज्
जनेष्वभिज्ञेषु स एव गोखर: ॥

यानि इह विश्व विलय उद्भव वृत्ति हेतुः कर्माणि अनन्य विषयाणि हरिः चकार यः तु अङ्ग गायति शृणोति अनुमोदते वा भक्तिः भवेत् भगवति हि अपवर्ग मार्गे

१०.७०

श्रीशुक उवाच
अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् ।
गृहीतकण्ठ्य: पतिभिर्माधव्यो विरहातुरा: ॥ १ ॥

श्री-शुकः उवाच अथ उषसि उपवृत्तायाम् कुक्कुटान् कूजतः अशपन् गृहीत कण्ठ्यः पतिभिः माधव्यः विरह आतुराः

वयांस्यरोरुवन्कृष्णं बोधयन्तीव वन्दिन: ।
गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभि: ॥ २ ॥

वयांसि अरोरुवन् कृष्णम् बोधयन्ति इव वन्दिनः गायत्सु अलिषु अनिद्राणि मन्दार वन वायुभिः

मुहूर्तं तं तु वैदर्भी नामृष्यदतिशोभनम् ।
परिरम्भणविश्लेषात् प्रियबाह्वन्तरं गता ॥ ३ ॥

मुहूर्तम् तम् तु वैदर्भी न अमृष्यत् अति शोभनम् परिरम्भण विश्लेषात् प्रिय बाहु अन्तरम् गता

ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधव: ।
दध्यौ प्रसन्नकरण आत्मानं तमस: परम् ॥ ४ ॥ एकं
स्वयंज्योतिरनन्यमव्ययंस्वसंस्थया नित्यनिरस्तकल्मषम् ।
ब्रह्माख्यमस्योद्भ‍वनाशहेतुभि:स्वशक्तिभिर्लक्षितभावनिर्वृतिम् ॥ ५ ॥

ब्राह्मे मुहूर्ते उत्थाय वारि उपस्पृश्य माधवः दध्यौ प्रसन्न करणः आत्मानम् तमसः परम् एकम् स्वयम्-ज्योतिः अनन्यम् अव्ययम् स्व-संस्थया नित्य निरस्त कल्मषम् ब्रह्म-आख्यम् अस्य उद्भव नाश हेतुभिः स्व शक्तिभिः लक्षित भाव निर्वृतिम्

अथाप्लुतोऽम्भस्यमले यथाविधि
क्रियाकलापं परिधाय वाससी ।
चकार सन्ध्योपगमादि सत्तमो
हुतानलो ब्रह्म जजाप वाग्यत: ॥ ६ ॥

अथ आप्लुतः अम्भसि अमले यथा-विधि क्रिया कलापम् परिधाय वाससी चकार सन्ध्या-उपगम आदि सत्-तमः हुत अनलः ब्रह्म जजाप वाक् यतः

उपस्थायार्कमुद्यन्तं तर्पयित्वात्मन: कला: ।
देवानृषीन् पितॄन्वृद्धान्विप्रानभ्यर्च्य चात्मवान् ॥ ७ ॥
धेनूनां रुक्‍मश‍ृङ्गीनां साध्वीनां मौक्तिकस्रजाम् ।
पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ ८ ॥
ददौ रूप्यखुराग्राणां क्षौमाजिनतिलै: सह ।
अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ ९ ॥

उपस्थाय अर्कम् उद्यन्तम् तर्पयित्वा आत्मनः कलाः देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य च आत्म-वान् धेनूनाम् रुक्म शृङ्गीनाम् साध्वीनाम् मौक्तिक स्रजाम् पयस्विनीनाम् गृष्टीनाम् स-वत्सानाम् सु-वाससाम् ददौ रूप्य खुर अग्राणाम् क्षौम अजिन तिलैः सह अलङ्कृतेभ्यः विप्रेभ्यः बद्वम् बद्वम् दिने दिने

गोविप्रदेवतावृद्धगुरून् भूतानि सर्वश: ।
नमस्कृत्यात्मसम्भूतीर्मङ्गलानि समस्पृशत् ॥ १० ॥

गो विप्र देवता वृद्ध गुरून् भूतानि सर्वशः नमस्कृत्य आत्म सम्भूतीः मङ्गलानि समस्पृशत्

आत्मानं भूषयामास नरलोकविभूषणम् ।
वासोभिर्भूषणै: स्वीयैर्दिव्यस्रगनुलेपनै: ॥ ११ ॥

आत्मानम् भूषयाम् आस नर-लोक विभूषणम् वासोभिः भूषणैः स्वीयैः दिव्य स्रक् अनुलेपनैः

अवेक्ष्याज्यं तथादर्शं गोवृषद्विजदेवता: ।
कामांश्च सर्ववर्णानां पौरान्त:पुरचारिणाम् ।
प्रदाप्य प्रकृती: कामै: प्रतोष्य प्रत्यनन्दत ॥ १२ ॥

अवेक्ष्य आज्यम् तथा आदर्शम् गो वृष द्विज देवताः कामान् च सर्व वर्णानाम् पौर अन्तः-पुर चारिणाम् प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत

संविभज्याग्रतो विप्रान् स्रक्‌ताम्बूलानुलेपनै: ।
सुहृद: प्रकृतीर्दारानुपायुङ्क्त तत: स्वयम् ॥ १३ ॥

संविभज्य अग्रतः विप्रान् स्रक् ताम्बूल अनुलेपनैः सुहृदः प्रकृतीः दारान् उपायुङ्क्त ततः स्वयम्

तावत् सूत उपानीय स्यन्दनं परमाद्भ‍ुतम् ।
सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रत: ॥ १४ ॥

तावत् सूतः उपानीय स्यन्दनम् परम अद्भुतम् सुग्रीव-आद्यैः हयैः युक्तम् प्रणम्य अवस्थितः अग्रतः

गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् ।
सात्यक्युद्धवसंयुक्त: पूर्वाद्रिमिव भास्कर: ॥ १५ ॥

गृहीत्वा पाणिना पाणी सारथेः तम् अथ आरुहत् सात्यकि-उद्धव संयुक्तः पूर्व अद्रिम् इव भास्करः

ईक्षितोऽन्त:पुरस्‍त्रीणां सव्रीडप्रेमवीक्षितै: ।
कृच्छ्राद् विसृष्टो निरगाज्जातहासो हरन् मन: ॥ १६ ॥

ईक्षितः अन्तः-पुर स्त्रीणाम् स-व्रीड प्रेम वीक्षितैः कृच्छ्रात् विसृष्टः निरगात् जात हासः हरन् मनः

सुधर्माख्यां सभां सर्वैर्वृष्णिभि: परिवारित: ।
प्राविशद् यन्निविष्टानां न सन्त्यङ्ग षडूर्मय: ॥ १७ ॥

सुधर्मा-आख्याम् सभाम् सर्वैः वृष्णिभिः परिवारितः प्राविशत् यत् निविस्तानाम् न सन्ति अङ्ग षट् ऊर्मयः

तत्रोपविष्ट: परमासने विभु-
र्बभौ स्वभासा ककुभोऽवभासयन् ।
वृतो नृसिंहैर्यदुभिर्यदूत्तमो
यथोडुराजो दिवि तारकागणै: ॥ १८ ॥

तत्र उपविष्टः परम-आसने विभुः बभौ स्व भासा ककुभः अवभासयन् वृतः न्र् सिंहैः यदुभिः यदु-उत्तमः यथा उडु-राजः दिवि तारका-गणैः

तत्रोपमन्त्रिणो राजन् नानाहास्यरसैर्विभुम् ।
उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवै: पृथक् ॥ १९ ॥

तत्र उपमन्त्रिणः राजन् नाना हास्य रसैः विभुम् उपतस्थुः नट-आचार्याः नर्तक्यः ताण्दवैः पृथक्

मृदङ्गवीणामुरजवेणुतालदरस्वनै: ।
ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिन: ॥ २० ॥

मृदङ्ग वीणा मुरज वेणु ताल दर स्वनैः ननृतुः जगुः तुष्टुवुः च सूत मागध वन्दिनः

तत्राहुर्ब्राह्मणा: केचिदासीना ब्रह्मवादिन: ।
पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथा: ॥ २१ ॥

तत्र आहुः ब्राह्मणाः केचित् आसीनाः ब्रह्म वादिनः पूर्वेषाम् पुण्य यशसाम् राज्ञाम् च आकथयन् कथाः

तत्रैक: पुरुषो राजन्नागतोऽपूर्वदर्शन: ।
विज्ञापितो भगवते प्रतीहारै: प्रवेशित: ॥ २२ ॥

तत्र एकः पुरुषः राजन् आगतः अपूर्व दर्शनः विज्ञापितः भगवते प्रतीहारैः प्रवेशितः

स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलि: ।
राज्ञामावेदयद् दु:खं जरासन्धनिरोधजम् ॥ २३ ॥

सः नमस्कृत्य कृष्णाय पर-ईशाय कृत-अञ्जलिः राज्ञाम् आवेदयत् दुःखम् जरासन्ध निरोध-जम्

ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपा: ।
प्रसह्य रुद्धास्तेनासन्नयुते द्वे गिरिव्रजे ॥ २४ ॥

ये च दिक्-विजये तस्य सन्नतिम् न ययुः नृपाः प्रसह्य रुद्धाः तेन आसन् अयुते द्वे गिरि-व्रजे

राजान ऊचु:
कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन ।
वयं त्वां शरणं यामो भवभीता: पृथग्धिय: ॥ २५ ॥

राजानः ऊचुः कृष्ण कृष्ण अप्रमेय-आत्मन् प्रपन्न भय भञ्जन वयम् त्वाम् शरणम् यामः भव भीताः पृथक् धियः

लोको विकर्मनिरत: कुशले प्रमत्त:
कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
यस्तावदस्य बलवानिह जीविताशां
सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ २६ ॥

लोकः विकर्म निरतः कुशले प्रमत्तः कर्मणि अयम् त्वत् उदिते भवत् अर्चने स्वे यः तावत् अस्य बल-वान् इह जीवित आशाम् सद्यः छिनत्ति अनिमिषाय नमः अस्तु तस्मै

लोके भवाञ्जगदिन: कलयावतीर्ण:
सद्रक्षणाय खलनिग्रहणाय चान्य: ।
कश्चित् त्वदीयमतियाति निदेशमीश
किं वा जन: स्वकृतमृच्छति तन्न विद्म: ॥ २७ ॥

लोके भवान् जगत् इनः कलया अवतीर्णः सत् रक्षणाय खल निग्रहणाय च अन्यः कश्चित् त्वदीयम् अतियाति निदेशम् ईश किम् वा जनः स्व कृतम् ऋच्छति तत् न विद्मः

स्वप्नायितं नृपसुखं परतन्त्रमीश
शश्वद्भ‍येन मृतकेन धुरं वहाम: ।
हित्वा तदात्मनि सुखं त्वदनीहलभ्यं
क्लिश्यामहेऽतिकृपणास्तव माययेह ॥ २८ ॥

स्वप्नायितम् नृप सुखम् पर-तन्त्रम् ईश शश्वत् भयेन मृतकेन धुरम् वहामः हित्वा तत् आत्मनि सुखम् त्वत् अनीह लभ्यम् क्लिश्यामहे अति कृपणाः तव मायया इह

तन्नो भवान् प्रणतशोकहराङ्‍‍घ्रियुग्मो
बद्धान् वियुङ्‍क्ष्व मगधाह्वयकर्मपाशात् ।
यो भूभुजोऽयुतमतङ्गजवीर्यमेको
बिभ्रद् रुरोध भवने मृगराडिवावी: ॥ २९ ॥

तत् नः भवान् प्रणत शोक हर अङ्घ्रि युग्मः बद्धान् वियुङ्क्ष्व मगध-आह्वय कर्म पाशात् यः भू-भुजः अयुत मतम् गज वीर्यम् एकः बिभ्रत् रुरोध भवने मृग-राट् इव अवीः

यो वै त्वया द्विनवकृत्व उदात्तचक्र
भग्नो मृधे खलु भवन्तमनन्तवीर्यम् ।
जित्वा नृलोकनिरतं सकृदूढदर्पो
युष्मत्प्रजा रुजति नोऽजित तद् विधेहि ॥ ३० ॥

यः वै त्वया द्वि नव कृत्वः उदात्त चक्र भग्नः मृधे खलु भवन्तम् अनन्त वीर्यम् जित्वा न्र्-लोक निरतम् सकृत् ऊढ दर्पः युष्मत् प्रजाः रुजति नः अजित तत् विधेहि

दूत उवाच
इति मागधसंरुद्धा भवद्दर्शनकाङ्‍‍क्षिण: ।
प्रपन्ना: पादमूलं ते दीनानां शं विधीयताम् ॥ ३१ ॥

दूतः उवाच इति मागध संरुद्धाः भवत् दर्शन काङ्क्षिणः प्रपन्नाः पाद मूलम् ते दीनानाम् अम् विधीयताम्

श्रीशुक उवाच
राजदूते ब्रुवत्येवं देवर्षि: परमद्युति: ।
बिभ्रत्पिङ्गजटाभारं प्रादुरासीद् यथा रवि: ॥ ३२ ॥

श्री-शुकः उवाच राज दूते ब्रुवति एवम् देव ऋषिः परम द्युतिः बिभ्रत् पिङ्ग जटा भारम् प्रादुरासीत् यथा रविः

तं द‍ृष्ट्वा भगवान् कृष्ण: सर्वलोकेश्वरेश्वर: ।
ववन्द उत्थित: शीर्ष्णा ससभ्य: सानुगो मुदा ॥ ३३ ॥

तम् दृष्ट्वा भगवन् कृष्णः सर्व लोक ईश्वर ईश्वरः ववन्द उत्थितः शीर्ष्णा स सभ्यः स अनुगः मुदा

सभाजयित्वा विधिवत् कृतासनपरिग्रहम् ।
बभाषे सुनृतैर्वाक्यै: श्रद्धया तर्पयन् मुनिम् ॥ ३४ ॥

सभाजयित्वा विधि-वत् कृत आसन परिग्रहम् बभाषे सु-नृतैः वाक्यैः श्रद्धया तर्पयन् मुनिम्

अपि स्विदद्य लोकानां त्रयाणामकुतोभयम् ।
ननु भूयान् भगवतो लोकान् पर्यटतो गुण: ॥ ३५ ॥

अपि स्वित् अद्य लोकानाम् त्रयाणाम् अकुतः-भयम् ननु भूयान् भगवतः लोकान् पर्यटतः गुणः

न हि तेऽविदितं किञ्चिल्ल‍ोकेष्वीश्वरकर्तृषु ।
अथ पृच्छामहे युष्मान्पाण्डवानां चिकीर्षितम् ॥ ३६ ॥

न हि ते अविदितम् किञ्चित् लोकेषु ईश्वर कर्तृषु अथ पृच्छामहे युष्मान् पाण्डवानाम् चिकीर्षितम्

श्रीनारद उवाच
द‍ृष्टा मया ते बहुशो दुरत्यया
माया विभो विश्वसृजश्च मायिन: ।
भूतेषु भूमंश्चरत: स्वशक्तिभि-
र्वह्नेरिवच्छन्नरुचो न मेऽद्भ‍ुतम् ॥ ३७ ॥

श्री-नारदः उवाच दृष्टा मया ते बहुशः दुरत्यया माया विभो विश्व सृजः च मायिनः भूतेषु भूमन् चरतः स्व शक्तिभिः वह्नेः इव छन्न रुचः न मे अद्भुतम्

तवेहितं कोऽर्हति साधु वेदितुं
स्वमाययेदं सृजतो नियच्छत: ।
यद् विद्यमानात्मतयावभासते
तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३८ ॥

तव ईहितम् कः अर्हति साधु वेदितुम् स्व मायया इदम् सृजतः नियच्छतः यत् विद्यमान आत्मतया अवभासते तस्मै नमः ते स्व विलक्षण-आत्मने

जीवस्य य: संसरतो विमोक्षणं
न जानतोऽनर्थवहाच्छरीरत: ।
लीलावतारै: स्वयश:प्रदीपकं
प्राज्वालयत्त्वा तमहं प्रपद्ये ॥ ३९ ॥

जीवस्य यः संसरतः विमोक्षणम् न जानतः अनर्थ वहात् शरीरतः लीला अवतारैः स्व यशः प्रदीपकम् प्राज्वालयत् त्वा तम् अहम् प्रपद्ये

अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् ।
राज्ञ: पैतृष्वस्रेयस्य भक्तस्य च चिकीर्षितम् ॥ ४० ॥

अथ अपि आश्रावये ब्रह्म नर-लोक विडम्बनम् राज्ञः पैतृ स्वस्रेयस्य भक्तस्य च चिकीर्षितम्

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डव: ।
पारमेष्ठ्यकामो नृपतिस्तद् भवाननुमोदताम् ॥ ४१ ॥

यक्ष्यति त्वाम् मख इन्द्रेण राजसूयेन पाण्डवः पारमेष्ठ्य कामः नृ-पतिः तत् भवान् अनुमोदताम्

तस्मिन् देव क्रतुवरे भवन्तं वै सुरादय: ।
दिद‍ृक्षव: समेष्यन्ति राजानश्च यशस्विन: ॥ ४२ ॥

तस्मिन् देव क्रतु वरे भवन्तम् वै सुर आदयः दिदृक्षवः समेष्यन्ति राजानः च यशस्विनः

श्रवणत्कीर्तनाद् ध्यानात्पूयन्तेऽन्तेवसायिन: ।
तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिन: ॥ ४३ ॥

श्रवणात् कीर्तनात् ध्यानात् पूयन्ते अन्ते-वसायिनः तव ब्रह्म-मयस्य अ किम् उत ईक्षा अभिमर्शिनः

यस्यामलं दिवि यश: प्रथितं रसायां
भूमौ च ते भुवनमङ्गल दिग्वितानम् ।
मन्दाकिनीति दिवि भोगवतीति चाधो
गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ ४४ ॥

यस्य अमलम् दिवि यशः प्रथितम् रसायाम् भूमौ च ते भुवन मङ्गल दिक् वितानम् मन्दाकिनी इति दिवि भोगवती इति च अधः गङ्गा इति च इह चरण अम्बु पुनाति विश्वम्

श्रीशुक उवाच
तत्र तेष्वात्मपक्षेष्वगृणत्सु विजिगीषया ।
वाच: पेशै: स्मयन् भृत्यमुद्धवं प्राह केशव: ॥ ४५ ॥

श्री-शुकः उवाच तत्र तेषु आत्म पक्षेषु अगृणत्सु विजिगीषया वाचः पेशैः स्मयन् भृत्यम् उद्धवम् प्राह केशवः

श्रीभगवानुवाच
त्वं हि न: परमं चक्षु: सुहृन्मन्त्रार्थतत्त्ववित् ।
अथात्र ब्रूह्यनुष्ठेयं श्रद्दध्म: करवाम तत् ॥ ४६ ॥

श्री-भगवान् उवाच त्वम् हि नः परमम् चक्षुः सुहृत् मन्त्र अर्थ तत्त्व-वित् अथ अत्र ब्रूहि अनुष्ठेयम् श्रद्दध्मः करवाम तत्

इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् ।
निदेशं शिरसाधाय उद्धव: प्रत्यभाषत ॥ ४७ ॥

इति उपामन्त्रितः भर्त्रा सर्व-ज्ञेन अपि मुग्ध वत् निदेशम् शिरस आधाय उद्धवः प्रत्यभाषत

१०.७१

श्रीशुक उवाच
इत्युदीरितमाकर्ण्य देवर्षेरुद्धवोऽब्रवीत् ।
सभ्यानां मतमाज्ञाय कृष्णस्य च महामति: ॥ १ ॥

श्री-शुकः उवाच इति उदीरितम् आकर्ण्य देव-ऋषेः उद्धवः अब्रवीत् सभ्यानाम् मतम् आज्ञाय कृष्णस्य च महा-मतिः

श्रीउद्धव उवाच
यदुक्तमृषिना देव साचिव्यं यक्ष्यतस्त्वया ।
कार्यं पैतृष्वस्रेयस्य रक्षा च शरणैषिणाम् ॥ २ ॥

श्री-उद्धवः उवाच यत् उक्तम् ऋषिना देव साचिव्यम् यक्ष्यतः त्वया कार्यम् पैतृ-ष्वस्रेयस्य रक्षा च शरण एषिणाम्

यष्टव्यं राजसूयेन दिक्च‍क्रजयिना विभो ।
अतो जरासुतजय उभयार्थो मतो मम ॥ ३ ॥

यष्टव्यम् राजसूयेन दिक् चक्र जयिना विभो अतः जरा-सुत जयः उभय अर्थः मतः मम

अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।
यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चत: ॥ ४ ॥

अस्माकम् च महान् अर्थः हि एतेन एव भविष्यति यशः च तव गोविन्द राज्ञः बद्धान् विमुञ्चतः

स वै दुर्विषहो राजा नागायुतसमो बले ।
बलिनामपि चान्येषां भीमं समबलं विना ॥ ५ ॥

सः वै दुर्विषहः राजा नाग अयुत समः बले बलिनाम् अपि च अन्येषाम् भीमम् सम-बलम् विना

द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुत: ।
ब्राह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् ॥ ६ ॥

द्वै-रथे सः तु जेतव्यः मा शत अक्षौहिणी युतः ब्राह्मण्यः अभ्यर्थितः विप्रैः न प्रत्याख्याति कर्हिचित्

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदर: ।
हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥ ७ ॥

ब्रह्म वेष धरः गत्वा तम् भिक्षेत वृक-उदरः हनिष्यति न सन्देहः द्वै-रथे तव सन्निधौ

निमित्तं परमीशस्य विश्वसर्गनिरोधयो: ।
हिरण्यगर्भ: शर्वश्च कालस्यारूपिणस्तव ॥ ८ ॥

निमित्तम् परम् ईशस्य विश्व सर्ग निरोधयोः हिरण्यगर्भः अर्वः च कालस्य अरूपिणः तव

गायन्ति ते विशदकर्म गृहेषु देव्यो
राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।
गोप्यश्च कुञ्जरपतेर्जनकात्मजाया:
पित्रोश्च लब्धशरणा मुनयो वयं च ॥ ९ ॥

गायन्ति ते विशद कर्म गृहेषु देव्यः राज्ञाम् स्व शत्रु वधम् आत्म विमोक्षणम् च गोप्यः च कुञ्जर पतेः जनक आत्म-जायाः पित्रोः च लब्ध शरणाः मुनयः वयम् च

जरासन्धवध: कृष्ण भूर्यर्थायोपकल्पते ।
प्राय: पाकविपाकेन तव चाभिमत: क्रतु: ॥ १० ॥

जरासन्ध-वधः कृष्ण भूरि अर्थाय उपकल्पते प्रायः पाक विपाकेन तव च अभिमतः क्रतुः

श्रीशुक उवाच
इत्युद्धववचो राजन् सर्वतोभद्रमच्युतम् ।
देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥ ११ ॥

श्री-शुकः उवाच इति उद्धव-वचः राजन् सर्वतः भद्रम् अच्युतम् देव-ऋषिः यदु-वृद्धाः च कृष्णः च प्रत्यपूजयन्

अथादिशत् प्रयाणाय भगवान् देवकीसुत: ।
भृत्यान् दारुकजैत्रादीननुज्ञाप्य गुरून् विभु: ॥ १२ ॥

अथ आदिशत् प्रयाणाय भगवान् देवकी-सुतः भृत्यान् दारुक-जैत्र-आदीन् अनुज्ञाप्य गुरून् विभुः

निर्गमय्यावरोधान्स्वान् ससुतान्सपरिच्छदान् ।
सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् ।
सूतोपनीतं स्वरथमारुहद् गरुडध्वजम् ॥ १३ ॥

निर्गमय्य अवरोधान् स्वान् स सुतान् स परिच्छदान् सङ्कर्षणम् अनुज्ञाप्य यदु-राजम् च शत्रु-हन् सूत उपनीतम् स्व रथम् आरुहत् गरुड ध्वजम्

ततो रथद्विपभटसादिनायकै:
करालया परिवृत आत्मसेनया ।
मृदङ्गभेर्यानकशङ्खगोमुखै:
प्रघोषघोषितककुभो निरक्रमत् ॥ १४ ॥

ततः रथ द्विप भट सादि नायकैः करालया परिवृतः आत्म सेनया मृदङ्ग भेरी आनक शङ्ख गो-मुखैः प्रघोष घोषित ककुभः निरक्रमत्

नृवाजिकाञ्चनशिबिकाभिरच्युतं
सहात्मजा: पतिमनु सुव्रता ययु: ।
वराम्बराभरणविलेपनस्रज:
सुसंवृता नृभिरसिचर्मपाणिभि: ॥ १५ ॥

नृ वाजि काञ्चन शिबिकाभिः अच्युतम् सह-आत्मजाः पतिम् अनु सु-व्रताः ययुः वर अम्बर आभरण विलेपन स्रजः सु संवृताः नृभिः असि चर्म पाणिभिः

नरोष्ट्रगोमहिषखराश्वतर्यन:-
करेणुभि: परिजनवारयोषित: ।
स्वलङ्कृता: कटकुटिकम्बलाम्बरा-
द्युपस्करा ययुरधियुज्य सर्वत: ॥ १६ ॥

नर उष्ट्र गो महिष खर अश्वतरी अनः करेणुभिः परिजन वार योषितः सु-अलङ्कृताः कट कुटि कम्बल अम्बर आदि उपस्कराः ययुः अधियुज्य सर्वतः

बलं बृहद्ध्वजपटछत्रचामरै-
र्वरायुधाभरणकिरीटवर्मभि: ।
दिवांशुभिस्तुमुलरवं बभौ रवे-
र्यथार्णव: क्षुभिततिमिङ्गिलोर्मिभि: ॥ १७ ॥

बलम् बृहत् ध्वज पट छत्र चामरैः वर आयुध आभरण किरीट वर्मभिः दिवा अंशुभिः तुमुल रवम् बभौ रवेः यथा अर्णवः क्षुभित तिमिङ्गिल ऊर्मिभिः

अथो मुनिर्यदुपतिना सभाजित:
प्रणम्य तं हृदि विदधद् विहायसा ।
निशम्य तद्व्‍यवसितमाहृतार्हणो
मुकुन्दसन्दरशननिर्वृतेन्द्रिय: ॥ १८ ॥

अथ उ मुनिः यदु-पतिना सभाजितः प्रणम्य तम् हृदि विदधत् विहायसा निशम्य तत् व्यवसितम् आहृत अर्हणः मुकुन्द सन्दरशन निर्वृत इन्द्रियः

राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा ।
मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ १९ ॥

राज दूतम् उवाच इदम् भगवान् प्रीणयन् गिरा मा भैष्ट दूत भद्रम् वः घाटयिष्यामि मागधम्

इत्युक्त: प्रस्थितो दूतो यथावदवदन्नृपान् ।
तेऽपि सन्दर्शनं शौरे: प्रत्यैक्षन् यन्मुमुक्षव: ॥ २० ॥

इति उक्तः प्रस्थितः दूतः यथा-वत् अवदत् नृपान् ते अपि सन्दर्शनम् शौरेः प्रत्यैक्षन् यत् मुमुक्षवः

आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरि: ।
गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान् ॥ २१ ॥

आनर्त-सौवीर-मरून् तीर्त्वा विनशनम् हरिः गिरीन् नदीः अतीयाय पुर ग्राम व्रज आकरान्

ततो द‍ृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।
पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥

ततः दृषद्वतीम् तीर्त्वा मुकुन्दः अथ सरस्वतीम् पञ्चालान् अथ मत्स्यान् च शक्र-प्रस्थम् अथ आगमत्

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।
अजातशत्रुर्निरगात् सोपध्याय: सुहृद्‌वृत: ॥ २३ ॥

तम् उपागतम् आकर्ण्य प्रीतः दुर्दर्शनम् नृणाम् अजात-शत्रुः निरगात् स उपध्यायः सुहृत् वृतः

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।
अभ्ययात्स हृषीकेशं प्राणा: प्राणमिवाद‍ृत: ॥ २४ ॥

गीत वादित्र घोषेण ब्रह्म घोषेण भूयसा अभ्ययात् सः हृषीकेशम् प्राणाः प्राणम् इव आदृतः

द‍ृष्ट्वा विक्लिन्नहृदय: कृष्णं स्‍नेहेन पाण्डव: ।
चिराद् द‍ृष्टं प्रियतमं सस्वजेऽथ पुन: पुन: ॥ २५ ॥

दृष्ट्वा विक्लिन्न हृदयः कृष्णम् स्नेहेन पाण्डवः चिरात् दृष्टम् प्रिय-तमम् सस्वजे अथ पुनः पुनः

दोर्भ्यां परिष्वज्य रमामलालयं
मुकुन्दगात्रं नृपतिर्हताशुभ: ।
लेभे परां निर्वृतिमश्रुलोचनो
हृष्यत्तनुर्विस्मृतलोकविभ्रम: ॥ २६ ॥

दोर्भ्याम् परिष्वज्य रमा अमल अलयम् मुकुन्द गात्रम् नृ-पतिः हत अशुभः लेभे पराम् निर्वृतिम् अश्रु लोचनः हृष्यत् तनुः विस्मृत लोक विभ्रमः

तं मातुलेयं परिरभ्य निर्वृतो
भीम: स्मयन् प्रेमजलाकुलेन्द्रिय: ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रवृद्धबाष्पा: परिरेभिरेऽच्युतम् ॥ २७ ॥

तम् मातुलेयम् परिरभ्य निर्वृतः भीमः स्मयन् प्रेम जल आकुल इन्द्रियः यमौ किरीती च सुहृत्-तमम् मुदा प्रवृद्ध बाष्पाः परिरेभिरे अच्युतम्

अर्जुनेन परिष्वक्तो यमाभ्यामभिवादित: ।
ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हत: ।
मानिनो मानयामास कुरुसृञ्जयकैकयान् ॥ २८ ॥

अर्जुनेन परिष्वक्तः यमाभ्याम् अभिवादितः ब्राह्मणेभ्यः नमस्कृत्य वृद्धेभ्यः च यथा-अर्हतः मानिनः मानयाम् आस कुरु-सृञ्जय-कैकयान्

सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिण: ।
मृदङ्गशङ्खपटहवीणापणवगोमुखै: ।
ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगु: ॥ २९ ॥

सूत मागध गन्धर्वाः वन्दिनः च उपमन्त्रिणः मृदङ्ग शङ्ख पटह वीणा पणव गोमुखैः ब्राह्मणाः च अरविन्द-अक्षम् तुष्टुवुः ननृतुः जगुः

एवं सुहृद्भ‍ि: पर्यस्त: पुण्यश्लोकशिखामणि: ।
संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ ३० ॥

एवम् सु-हृद्भिः पर्यस्तः पुण्य-श्लोक शिखा-मणिः संस्तूयमानः भगवान् विवेश अलङ्कृतम् पुरम्

संसिक्तवर्त्म करिणां मदगन्धतोयै-
श्चित्रध्वजै: कनकतोरणपूर्णकुम्भै: ।
मृष्टात्मभिर्नवदुकूलविभूषणस्रग्-
गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥ ३१ ॥
उद्दीप्तदीपबलिभि: प्रतिसद्मजाल-
निर्यातधूपरुचिरं विलसत्पताकम् ।
मूर्धन्यहेमकलशै रजतोरुश‍ृङ्गै-
र्जुष्टं ददर्श भवनै: कुरुराजधाम ॥ ३२ ॥

संसिक्त वर्त्म करिणाम् मद गन्ध तोयैः चित्र ध्वजैः कनक तोरण पूर्ण-कुम्भैः मृष्ट आत्मभिः नव दुकूल विभूषण स्रक् गन्धैः नृभिः युवतिभिः च विराजमानम् उद्दीप्त दीप बलिभिः प्रति सद्म जाल निर्यात धूप रुचिरम् विलसत् पताकम् मूर्धन्य हेम कलशैः रजत उरु शृङ्गैः जुष्टम् ददर्श भवनैः कुरु-राज धाम

प्राप्तं निशम्य नरलोचनपानपात्र-
मौत्सुक्यविश्लथितकेशदुकूलबन्धा: ।
सद्यो विसृज्य गृहकर्म पतींश्च तल्पे
द्रष्टुं ययुर्युवतय: स्म नरेन्द्रमार्गे ॥ ३३ ॥

प्राप्तम् निशम्य नर लोचन पान पात्रम् औत्सुक्य विश्लथित केश दुकूल बन्धाः सद्यः विसृज्य गृह कर्म पतीन् च तल्पे द्रष्टुम् ययुः युवतयः स्म नर-इन्द्र मार्गे

तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भ‍ि:
कृष्णं सभार्यमुपलभ्य गृहाधिरूढा: ।
नार्यो विकीर्य कुसुमैर्मनसोपगुह्य
सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥ ३४ ॥

तस्मिन् सु सङ्कुले इभ अश्व रथ द्वि-पद्भिः कृष्णम् स-भार्यम् उपलभ्य गृह अधिरूढाः नार्यः विकीर्य कुसुमैः मनसा उपगुह्य सु-स्वागतम् विदधुः उत्स्मय वीक्षितेन

ऊचु: स्‍त्रिय: पथि निरीक्ष्य मुकुन्दपत्नी-
स्तारा यथोडुपसहा: किमकार्यमूभि: ।
यच्चक्षुषां पुरुषमौलिरुदारहास-
लीलावलोककलयोत्सवमातनोति ॥ ३५ ॥

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द पत्नीः ताराः यथा उडु-प सहाः किम् अकारि अमूभिः यत् चक्षुषाम् पुरुष मौलिः उदार हास लीला अवलोक कलया उत्सवम् आतनोति

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणय: ।
चक्रु: सपर्यां कृष्णाय श्रेणीमुख्या हतैनस: ॥ ३६ ॥

तत्र तत्र उपसङ्गम्य पौराः मङ्गल पाणयः चक्रुः सपर्याम् कृष्णाय श्रेणी मुख्याः हत एनसः

अन्त:पुरजनै: प्रीत्या मुकुन्द: फुल्ल‍लोचनै: ।
ससम्भ्रमैरभ्युपेत: प्राविशद् राजमन्दिरम् ॥ ३७ ॥

अन्तः-पुर जनैः प्रीत्या मुकुन्दः फुल्ल लोचनैः स-सम्भ्रमैः अभ्युपेतः प्राविशत् राज मन्दिरम्

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।
प्रीतात्मोत्थाय पर्यङ्कात् सस्‍नुषा परिषस्वजे ॥ ३८ ॥

पृथा विलोक्य भ्रात्रेयम् कृष्णम् त्रि-भुवन ईश्वरम् प्रीत आत्मा उत्थाय पर्यङ्कात् स-स्नुषा परिषस्वजे

गोविन्दं गृहमानीय देवदेवेशमाद‍ृत: ।
पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृप: ॥ ३९ ॥

गोविन्दम् गृहम् आनीय देव देव-ईशम् आदृतः पूजायाम् न अविदत् कृत्यम् प्रमोद उपहतः नृपः

पितृष्वसुर्गुरुस्‍त्रीणां कृष्णश्चक्रेऽभिवादनम् ।
स्वयं च कृष्णया राजन्भगिन्या चाभिवन्दित: ॥ ४० ॥

पितृ स्वसुः गुरु स्त्रीणाम् कृष्णः चक्रे अभिवादनम् स्वयम् च कृष्णया राजन् भगिन्या च अभिवन्दितः

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वश: ।
आनर्च रुक्‍मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४१ ॥
कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।
अन्याश्चाभ्यागता यास्तु वास:स्रङ्‍मण्डनादिभि: ॥ ४२ ॥

श्वश्र्वा सञ्चोदिता कृष्णा कृष्ण-पत्नीः च सर्वशः आनर्च रुक्मिणीम् सत्याम् भद्राम् जाम्बवतीम् तथा कालिन्दीम् मित्रविन्दाम् च शैब्याम् नाग्नजितीम् सतीम् अन्याः च अभ्यागताः याः तु वासः स्रक् मण्डन आदिभिः

सुखं निवासयामास धर्मराजो जनार्दनम् ।
ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् ॥ ४३ ॥

सुखम् निवासयाम् आस धर्म-राजः जनार्दनम् स-सैन्यम् स-अनुग अमत्यम् स-भार्यम् च नवम् नवम्

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुत: ।
मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ ४४ ॥
उवास कतिचिन्मासान् राज्ञ: प्रियचिकीर्षया ।
विहरन् रथमारुह्य फाल्गुनेन भटैर्वृत: ॥ ४५ ॥

तर्पयित्वा खाण्डवेन वह्निम् फाल्गुन संयुतः मोचयित्वा मयम् येन राज्ञे दिव्या सभा कृता उवास कतिचित् मासान् राज्ञः प्रिय चिकीर्षया विहरन् रथम् आरुह्य फाल्गुनेन भटैः वृतः

१०.७२

श्रीशुक उवाच
एकदा तु सभामध्य आस्थितो मुनिभिर्वृत: ।
ब्राह्मणै: क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिर: ॥ १ ॥
आचार्यै: कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवै: ।
श‍ृण्वतामेव चैतेषामाभाष्येदमुवाच ह ॥ २ ॥

श्री-शुकः उवाच एकदा तु सभा मध्ये आस्थितः मुनिभिः वृतः ब्राह्मणैः क्षत्रियैः वैश्यैः भ्रातृभिः च युधिष्ठिरः आचार्यैः कुल वृद्धैः च ज्ञाति सम्बन्धि बान्धवैः शृण्वताम् एव च एतेषाम् आभाष्य इदम् उवाच ह

श्रीयुधिष्ठिर उवाच
क्रतुराजेन गोविन्द राजसूयेन पावनी: ।
यक्ष्ये विभूतीर्भवतस्तत् सम्पादय न: प्रभो ॥ ३ ॥

श्री-युधिष्ठिरः उवाच क्रतु राजेन गोविन्द राजसूयेन पावनीः यक्ष्ये विभूतीः भवतः तत् सम्पादय नः प्रभो

त्वत्पादुके अविरतं परि ये चरन्ति
ध्यायन्त्यभद्रनशने शुचयो गृणन्ति ।
विन्दन्ति ते कमलनाभ भवापवर्ग-
माशासते यदि त आशिष ईश नान्ये ॥ ४ ॥

त्वत् पादुके अविरतम् परि ये चरन्ति ध्यायन्ति अभद्र नशने शुचयः गृणन्ति विन्दन्ति ते कमल नाभ भव अपवर्गम् आशासते यदि ते आशिषः ईश न अन्ये

तद् देवदेव भवतश्चरणारविन्द-
सेवानुभावमिह पश्यतु लोक एष: ।
ये त्वां भजन्ति न भजन्त्युत वोभयेषां
निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् ॥ ५ ॥

तत् देव-देव भवतः चरण-अरविन्द सेवा अनुभावम् इह पश्यतु लोकः एषः ये त्वाम् भजन्ति न भजन्ति उत वा उभयेषाम् निष्ठाम् प्रदर्शय विभो कुरु-सृञ्जयानाम्

न ब्रह्मण: स्वपरभेदमतिस्तव स्यात्
सर्वात्मन: समद‍ृश: स्वसुखानुभूते: ।
संसेवतां सुरतरोरिव ते प्रसाद:
सेवानुरूपमुदयो न विपर्ययोऽत्र ॥ ६ ॥

न ब्रह्मणः स्व पर भेद मतिः तव स्यात् सर्व आत्मनः सम दृशः स्व सुख अनुभूतेः संसेवताम् सुर-तरोः इव ते प्रसादः सेवा अनुरूपम् उदयः न विपर्ययः अत्र

श्रीभगवानुवाच
सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन ।
कल्याणी येन ते कीर्तिर्लोकाननु भविष्यति ॥ ७ ॥

श्री-भगवान् उवाच सम्यक् व्यवसितम् राजन् भवता शत्रु कर्शन कल्याणी येन ते कीर्तिः लोकान् अनुभविष्यति

ऋषीणां पितृदेवानां सुहृदामपि न: प्रभो ।
सर्वेषामपि भूतानामीप्सित: क्रतुराडयम् ॥ ८ ॥

ऋषीणाम् पितृ देवानाम् सुहृदाम् अपि नः प्रभोः सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतु राट् अयम्

विजित्य नृपतीन्सर्वान् कृत्वा च जगतीं वशे ।
सम्भृत्य सर्वसम्भारानाहरस्व महाक्रतुम् ॥ ९ ॥

विजित्य नृ-पतीन् सर्वान् कृत्वा च जगतीम् वशे सम्भृत्य सर्व सम्भारान् आहरस्व महा क्रतुम्

एते ते भ्रातरो राजल्ँ लोकपालांशसम्भवा: ।
जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभि: ॥ १० ॥

एते ते भ्रातरः राजन् लोक पाल अंश सम्भवाः जितः अस्मि आत्म-वता ते अहम् दुर्जयः यः अकृत-आत्मभिः

न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया ।
विभूतिभिर्वाभिभवेद् देवोऽपि किमु पार्थिव: ॥ ११ ॥

न कश्चित् मत् परम् लोके तेजसा यशसा श्रिया विभूतिभिः वा अभिभवेत् देवः अपि किम् उ पार्थिवः

श्रीशुक उवाच
निशम्य भगवद्गीतं प्रीत: फुल्ल‍मुखाम्बुज: ।
भ्रातृन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान् ॥ १२ ॥

श्री-शुकः उवाच निशम्य भगवत् गीतम् प्रीतः फुल्ल मुख अम्बुजः भ्रातॄन् दिक् विजये अयुङ्क्त विष्णु तेजः उपबृंहितान्

सहदेवं दक्षिणस्यामादिशत् सह सृञ्जयै: ।
दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् ।
प्राच्यां वृकोदरं मत्स्यै: केकयै: सह मद्रकै: ॥ १३ ॥

सहदेवम् दक्षिणस्याम् आदिशत् सह सृञ्जयैः दिशि प्रतीच्याम् नकुलम् उदीच्याम् सव्यसाचिनम् प्राच्याम् वृकोदरम् मत्स्यैः केकयैः सह मद्रकैः

ते विजित्य नृपान्वीरा आजह्रुर्दिग्भ्य ओजसा ।
अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ १४ ॥

ते विजित्य नृपान् वीराः आजह्रुः दिग्भ्यः ओजसा अजात-शत्रवे भूरि द्रविणम् नृप यक्ष्यते

श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरि: ।
आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥

श्रुत्वा अजितम् जरासन्धम् नृपतेः ध्यायतः हरिः आह उपायम् तम् एव आद्यः उद्धवः यम् उवाच ह

भीमसेनोऽर्जुन: कृष्णो ब्रह्मलिङ्गधरास्‍त्रय: ।
जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यत: ॥ १६ ॥

भीमसेनः अर्जुनः कृष्णः ब्रह्म लिङ्ग धराः त्रयः जग्मुः गिरिव्रजम् तात बृहद्रथ-सुतः यतः

ते गत्वातिथ्यवेलायां गृहेषु गृहमेधिनम् ।
ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिन: ॥ १७ ॥

ते गत्वा आतिथ्य वेलायाम् गृहेषु गृह-मेधिनम् ब्रह्मण्यम् समयाचेरन् राजन्याः ब्रह्म-लिङ्गिनः

राजन् विद्ध्यतिथीन् प्राप्तानर्थिनो दूरमागतान् ।
तन्न: प्रयच्छ भद्रं ते यद्वयं कामयामहे ॥ १८ ॥

राजन् विद्धि अतिथीन् प्राप्तान् अर्थिनः दूरम् आगतान् तत् नः प्रयच्छ भद्रम् ते यत् वयम् कामयामहे

किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभि: ।
किं न देयं वदान्यानां क: पर: समदर्शिनाम् ॥ १९ ॥

किम् दुर्मर्षम् तितिक्षूणाम् किम् अकार्यम् असाधुभिः किम् न देयम् वदान्यानाम् कः परः सम दर्शिनाम्

योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।
नाचिनोति स्वयं कल्प: स वाच्य: शोच्य एव स: ॥ २० ॥

यः अनित्येन शरीरेण सताम् गेयम् यशः ध्रुवम् न आचिनोति स्वयम् कल्पः सः वाच्यः शोच्यः एव सः

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्ति: शिबिर्बलि: ।
व्याध: कपोतो बहवो ह्यध्रुवेण ध्रुवं गता: ॥ २१ ॥

हरिश्चन्द्रः रन्तिदेवः उञ्छ-वृत्तिः शिबिः बलिः व्याधः कपोतः बहवः हि अध्रुवेण ध्रुवम् गताः

श्रीशुक उवाच
स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि ।
राजन्यबन्धून् विज्ञाय द‍ृष्टपूर्वानचिन्तयत् ॥ २२ ॥

श्री-शुकः उवाच स्वरैः आकृतिभिः तान् तु प्रकोष्ठैः ज्या हतैः अपि राजन्य बन्धून् विज्ञाय दृष्ट पूर्वान् अचिन्तयत्

राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति ।
ददानि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥ २३ ॥

राजन्य-बन्धवः हि एते ब्रह्म लिङ्गानि बिभ्रति ददानि भिक्षितम् तेभ्यः आत्मानम् अपि दुस्त्यजम्

बलेर्नु श्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा ।
ऐश्वर्याद् भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥ २४ ॥
श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे ।
जानन्नपि महीं प्रादाद् वार्यमाणोऽपि दैत्यराट् ॥ २५ ॥

बलेः नु श्रूयते कीर्तिः वितता दिक्षु अकल्मषा ऐश्वर्यात् भ्रंशितस्य अपि विप्र व्याजेन विष्णुना श्रीयम् जिहीर्षता इन्द्रस्य विष्णवे द्विज-रूपिणे जानन् अपि महीम् प्रादात् वार्यमाणः अपि दैत्य राट्

जीवता ब्राह्मणार्थाय को न्वर्थ: क्षत्रबन्धुना ।
देहेन पतमानेन नेहता विपुलं यश: ॥ २६ ॥

जीवता ब्राह्मण-अर्थाय कः नु अर्थः क्षत्र-बन्धुना देहेन पतमानेन न ईहता विपुलम् यशः

इत्युदारमति: प्राह कृष्णार्जुनवृकोदरान् ।
हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि व: ॥ २७ ॥

इति उदार मतिः प्राह कृष्ण-अर्जुन-वृकोदरान् हे विप्रः व्रियताम् कामः ददामि आत्म शिरः अपि वः

श्रीभगवानुवाच
युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।
युद्धार्थिनो वयं प्राप्ता राजन्या नान्यकाङ्‍‍क्षिण: ॥ २८ ॥

श्री-भगवान् उवाच युद्धम् नः देहि राज-इन्द्र द्वन्द्वशः यदि मन्यसे युद्ध अर्थिनः वयम् प्राप्ताः राजन्याः न अन्य काङ्क्षिणः

असौ वृकोदर: पार्थस्तस्य भ्रातार्जुनो ह्ययम् ।
अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ २९ ॥

असौ वृकोदरः पार्थः तस्य भ्राता अर्जुनः हि अयम् अनयोः मातुलेयम् माम् कृष्णम् जानीहि ते रिपुम्

एवमावेदितो राजा जहासोच्चै: स्म मागध: ।
आह चामर्षितो मन्दा युद्धं तर्हि ददामि व: ॥ ३० ॥

एवम् आवेदितः राज जहास उच्चैः स्म मागधः आह च अमर्षितः मन्दाः युद्धम् तर्हि ददामि वः

न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा ।
मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गत: ॥ ३१ ॥

न त्वया भीरुणा योत्स्ये युधि विक्लव तेजसा मथुराम् स्व पुरीम् त्यक्त्वा समुद्रम् शरणम् गतः

अयं तु वयसातुल्यो नातिसत्त्वो न मे सम: ।
अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो मम ॥ ३२ ॥

अयम् तु वयसा अतुल्यः न अति सत्त्वः न मे समः अर्जुनः न भवेत् योद्धा भीमः तुल्य बलः मम

इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् ।
द्वितीयां स्वयमादाय निर्जगाम पुराद् बहि: ॥ ३३ ॥

इति उक्त्वा भीमसेनाय प्रादाय महतीम् गदाम् द्वितीयाम् स्वयम् आदाय निर्जगाम पुरात् बहिः

तत: समेखले वीरौ संयुक्तावितरेतरम् ।
जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥ ३४ ॥

ततः समेखले वीरौ संयुक्तौ इतर-इतरम् जघ्नतुः वज्र-कल्पाभ्याम् गदाभ्याम् रण दुर्मदौ

मण्डलानि विचित्राणि सव्यं दक्षिणमेव च ।
चरतो: शुशुभे युद्धं नटयोरिव रङ्गिणो: ॥ ३५ ॥

मण्डलानि विचित्राणि सव्यम् दक्षिणम् एव च चरतोः शुशुभे युद्धम् नटयोः इव रङ्गिणोः

ततश्चटचटाशब्दो वज्रनिष्पेससन्निभ: ।
गदयो: क्षिप्तयो राजन्दन्तयोरिव दन्तिनो: ॥ ३६ ॥

ततः चट-चटा-शब्दः वज्र निष्पेष सन्निभः गदयोः क्षिप्तयोः राजन् दन्तयोः इव दन्तिनोः

ते वै गदे भुजजवेन निपात्यमाने
अन्योन्यतोंऽसकटिपादकरोरुजत्रुम् ।
चूर्णीबभूवतुरुपेत्य यथार्कशाखे
संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्यो: ॥ ३७ ॥

ते वै गदे भुज जवेन निपात्यमाने अन्योन्यतः अंस कटि पाद कर ऊरु जत्रुम् चूर्णी बभूवतुः उपेत्य यथा अर्क-शाखे संयुध्यतोः द्विरदयोः इव दीप्त मन्व्योः

इत्थं तयो: प्रहतयोर्गदयोर्नृवीरौ
क्रुद्धौ स्वमुष्टिभिरय:स्परशैरपिष्टाम् ।
शब्दस्तयो: प्रहरतोरिभयोरिवासी-
न्निर्घातवज्रपरुषस्तलताडनोत्थ: ॥ ३८ ॥

इत्थम् तयोः प्रहतयोः गदयोः न्र् वीरौ क्रुद्धौ स्व मुष्टिभिः अयः स्परशैः अपिष्टाम् शब्दः तयोः प्रहरतोः इभयोः इव आसीत् निर्घात वज्र परुषः तल ताडन उत्थः

तयोरेवं प्रहरतो: समशिक्षाबलौजसो: ।
निर्विशेषमभूद् युद्धमक्षीणजवयोर्नृप ॥ ३९ ॥

तयोः एवम् प्रहरतोः सम शिक्षा बल ओजसोः निर्विशेषम् अभूत् युद्धम् अक्षीण जवयोः नृप

शत्रोर्जन्ममृती विद्वाञ्जीवितं च जराकृतम् ।
पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरि: ॥ ४० ॥

शत्रोः जन्म मृती विद्वान् जीवितम् च जरा कृतम् पार्थम् आप्याययन् स्वेन तेजसा अचिन्तयत् हरिः

सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शन: ।
दर्शयामास विटपं पाटयन्निव संज्ञया ॥ ४१ ॥

सञ्चिन्त्य अरि वध उपायम् भीमस्य अमोघ-दर्शनः दर्शयाम् आस विटपम् पाटयन् इव संज्ञया

तद् विज्ञाय महासत्त्वो भीम: प्रहरतां वर: ।
गृहीत्वा पादयो: शत्रुं पातयामास भूतले ॥ ४२ ॥

तत् विज्ञाय महा सत्त्वः भीमः प्रहरताम् वरः गृहीत्वा पादयोः शत्रुम् पातयाम् अस भू-तले

एकं पादं पदाक्रम्य दोर्भ्यामन्यं प्रगृह्य स: ।
गुदत: पाटयामास शाखमिव महागज: ॥ ४३ ॥

एकम् पादम् पदा आक्रम्य दोर्भ्याम् अन्यम् प्रगृह्य सः गुदतः पाटयाम् आस शाखाम् इव महा गजः

एकपादोरुवृषणकटिपृष्ठस्तनांसके ।
एकबाह्वक्षिभ्रूकर्णे शकले दद‍ृशु: प्रजा: ॥ ४४ ॥

एक पाद ऊरु वृषण कति पृष्ठ स्तन अंसके एक बाहु अक्षि भ्रू कर्णे शकले ददृशुः प्रजाः

हाहाकारो महानासीन्निहते मगधेश्वरे ।
पूजयामासतुर्भीमं परिरभ्य जयाच्युतौ ॥ ४५ ॥

हाहा-कारः महान् आसीत् निहते मगध-ईश्वरे पूजयाम् आसतुः भीमम् परिरभ्य जय अच्युतौ

सहदेवं तत्तनयं भगवान् भूतभावन: ।
अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभु: ।
मोचयामास राजन्यान्संरुद्धा मागधेन ये ॥ ४६ ॥

सहदेवम् तत् तनयम् भगवान् भूत भावनः अभ्यषिञ्चत् अमेय-आत्मा मगधानाम् पतिम् प्रभुः मोचयाम् आस राजन्यान् संरुद्धाः मागधेन ये

१०.७३

श्रीशुक उवाच
अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिता: ।
ते निर्गता गिरिद्रोण्यां मलिना मलवासस: ॥ १ ॥
क्षुत्क्षामा: शुष्कवदना: संरोधपरिकर्शिता: ।
दद‍ृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २ ॥
श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् ।
चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३ ॥
पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम् ।
किरीटहारकटककटिसूत्राङ्गदाञ्चितम् ॥ ४ ॥
भ्राजद्वरमणिग्रीवं निवीतं वनमालया ।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ ५ ॥
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभि: ।
प्रणेमुर्हतपाप्मानो मूर्धभि: पादयोर्हरे: ॥ ६ ॥

श्री-शुकः उवाच अयुते द्वे शतानि अष्टौ निरुद्धाः युधि निर्जिताः ते निर्गताः गिरिद्रोण्याम् मलिनाः मल वाससः क्षुत् क्षामाः शुष्क वदनाः संरोध परिकर्शिताः ददृशुः ते घन श्यामम् पीत कौशेय वाससम् श्रीवत्स अङ्कम् चतुः बाहुम् पद्म गर्भ अरुण ईक्षणम् चारु प्रसन्न वदनम् स्फुरत् मकर कुण्डलम् पद्म हस्तम् गदा शङ्ख रथ-अङ्गैः उपलक्षितम् किरीट हार कटक कटि-सूत्र अङ्गद अञ्चितम् भ्राजत् वर मणि ग्रीवम् निवीतम् वन मालया पिबन्तः इव चक्षुर्भ्याम् लिहन्तः इव जिह्वया जिघ्रन्तः इव नासाभ्याम् रम्भन्तः इव बाहुभिः प्रणेमुः हत पाप्मानः मूर्धभिः पादयोः हरेः

कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमा: ।
प्रशशंसुर्हृषीकेशं गीर्भि: प्राञ्जलयो नृपा: ॥ ७ ॥

कृष्ण-सन्दर्शन आह्लाद ध्वस्त संरोधन क्लमाः प्रशशंसुः हृषीका-ईशम् गीर्भिः प्राञ्जलयः नृपाः

राजान ऊचु:
नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय ।
प्रपन्नान् पाहि न: कृष्ण निर्विण्णान्घोरसंसृते: ॥ ८ ॥

राजानः ऊचुः नमः ते देव देव ईश प्रपन्न आर्ति हर अव्यय प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर संसृतेः

नैनं नाथानुसूयामो मागधं मधुसूदन ।
अनुग्रहो यद् भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९ ॥

न एनम् नाथ अनुसूयामः मागधम् मधुसूदन अनुग्रहः यत् भवतः राज्ञाम् राज्य च्युतिः विभो

राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृप: ।
त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचला: ॥ १० ॥

राज्य ऐश्वर्य मद उन्नद्धः न श्रेयः विन्दते नृपः त्वत् माया मोहितः अनित्याः मन्यते सम्पदः अचलाः

मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् ।
एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते ॥ ११ ॥

मृग-तृष्णाम् यथा बालाः मन्यन्ते उदक आशयम् एवम् वैकारिकीम् मायाम् अयुक्ताः वस्तु चक्षते

वयं पुरा श्रीमदनष्टद‍ृष्टयो
जिगीषयास्या इतरेतरस्पृध: ।
घ्नन्त: प्रजा: स्वा अतिनिर्घृणा: प्रभो
मृत्युं पुरस्त्वाविगणय्य दुर्मदा: ॥ १२ ॥
त एव कृष्णाद्य गभीररंहसा
दुरन्तेवीर्येण विचालिता: श्रिय: ।
कालेन तन्वा भवतोऽनुकम्पया
विनष्टदर्पाश्चरणौ स्मराम ते ॥ १३ ॥

वयम् पुरा श्री मद नष्ट दृष्टयः जिगीषया अस्याः इतर-इतर स्पृधः घ्नन्तः प्रजाः स्वाः अति निर्घृणाः प्रभो मृत्युम् पुरः त्वा अविगणय्य दुर्मदाः ते एव कृष्ण अद्य गभीर रंहसा दुरन्त वीर्येण विचालिताः श्रियः कालेन तन्वा भवतः अनुकम्पया विनष्ट दर्पाः चरणौ स्मराम ते

अथो न राज्यं मृगतृष्णिरूपितं
देहेन शश्वत् पतता रुजां भुवा ।
उपासितव्यं स्पृहयामहे विभो
क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४ ॥

अथ उ न राज्यम् मृग-तृष्णि रूपितम् देहेन शश्वत् पतता रुजाम् भुवा उपासितव्यम् स्पृहयामहे विभो क्रिया फलम् प्रेत्य च कर्ण रोचनम्

तं न: समादिशोपायं येन ते चरणाब्जयो: ।
स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ १५ ॥

तम् नः समादिश उपायम् येन ते चरण अब्जयोः स्मृतिः यथा न विरमेत् अपि संसरताम् इह

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नम: ॥ १६ ॥

कृष्णाय वासुदेवाय हरये परम-आत्मने प्रणत क्लेश नाशाय गोविन्दाय नमः नमः

श्रीशुक उवाच
संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनै: ।
तानाह करुणस्तात शरण्य: श्लक्ष्णया गिरा ॥ १७ ॥

श्री-शुकः उवाच संस्तूयमाणः भगवान् राजभिः मुक्त बन्धनैः तान् आह करुणः तात शरण्यः श्लक्ष्णया गिरा

श्रीभगवानुवाच
अद्यप्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।
सुद‍ृढा जायते भक्तिर्बाढमाशंसितं तथा ॥ १८ ॥

श्री-भगवान् उवाच अद्य प्रभृति वः भू-पाः मयि आत्मनि अखिल ईश्वरे सु दृढा जायते भक्तिः बाढम् आशंसितम् तथा

दिष्‍ट्या व्यवसितं भूपा भवन्त ऋतभाषिण: ।
श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ १९ ॥

दिष्ट्या व्यवसितम् भूपाः भवन्तः ऋत भाषिणः श्री ऐश्वर्य मद उन्नाहम् पश्ये उन्मादकम् नृणाम्

हैहयो नहुषो वेणो रावणो नरकोऽपरे ।
श्रीमदाद् भ्रंशिता: स्थानाद् देवदैत्यनरेश्वरा: ॥ २० ॥

हैहयः नहुषः वेणः रावणः नरकः अपरे श्री मदात् भ्रंशिताः स्थानात् देव दैत्य नर ईश्वराः

भवन्त एतद् विज्ञाय देहाद्युत्पाद्यमन्तवत् ।
मां यजन्तोऽध्वरैर्युक्ता: प्रजा धर्मेण रक्ष्यथ ॥ २१ ॥

भवन्तः एतत् विज्ञाय देह-आदि उत्पाद्यम् अन्त-वत् माम् यजन्तः अध्वरैः युक्ताः प्रजाः धर्मेण रक्ष्यथ

सन्तन्वन्त: प्रजातन्तून् सुखं दु:खं भवाभवौ ।
प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ २२ ॥

सन्तन्वन्तः प्रजा तन्तून् सुखम् दुःखम् भव अभवौ प्राप्तम् प्राप्तम् च सेवन्तः मत्-चित्ताः विचरिष्यथ

उदासीनाश्च देहादावात्मारामा धृतव्रता: ।
मय्यावेश्य मन: सम्यङ्‌मामन्ते ब्रह्म यास्यथ ॥ २३ ॥

उदासीनाः च देह-आदौ आत्म-आरामाः धृत व्रताः मयि आवेश्य मनः सम्यक् माम् अन्ते ब्रह्म यास्यथ

श्रीशुक उवाच
इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वर: ।
तेषां न्ययुङ्क्त पुरुषान् स्‍त्रियो मज्जनकर्मणि ॥ २४ ॥

श्री-शुकः उवाच इति आदिश्य नृपान् कृष्णः भगवान् भुवन ईश्वरः तेषाम् न्ययुङ्क्त पुरुषान् स्त्रियः मज्जन कर्मणि

सपर्यां कारयामास सहदेवेन भारत ।
नरदेवोचितैर्वस्‍त्रैर्भूषणै: स्रग्विलेपनै: ॥ २५ ॥

सपर्याम् कारयाम् आस सहदेवेन भारत नर-देव उचितैः वस्त्रैः भूषणैः स्रक् विलेपनैः

भोजयित्वा वरान्नेन सुस्‍नातान्समलङ्कृतान् ।
भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितै: ॥ २६ ॥

भोजयित्वा वर अन्नेन सु स्नातान् समलङ्कृतान् भोगैः च विविधैः युक्तान् ताम्बूल आद्यैः नृप उचितैः

ते पूजिता मुकुन्देन राजानो मृष्टकुण्डला: ।
विरेजुर्मोचिता: क्लेशात् प्रावृडन्ते यथा ग्रहा: ॥ २७ ॥

ते पूजिताः मुकुन्देन राजानः मृष्ट कुण्डलाः विरेजुः मोचिताः क्लेशात् प्रावृट् अन्ते यथा ग्रहाः

रथान्सदश्वानारोप्य मणिकाञ्चनभूषितान् ।
प्रीणय्य सुनृतैर्वाक्यै: स्वदेशान् प्रत्ययापयत् ॥ २८ ॥

रथान् सत् अश्वान् आरोप्य मणि काञ्चन भूषितान् प्रीणय्य सुनृतैः वाक्यैः स्व देशान् प्रत्ययापयत्

त एवं मोचिता: कृच्छ्रात् कृष्णेन सुमहात्मना ।
ययुस्तमेव ध्यायन्त: कृतानि च जगत्पते: ॥ २९ ॥

ते एवम् मोचिताः कृच्छ्रात् कृष्णेन सु-महा-आत्मना ययुः तम् एव ध्यायन्तः कृतानि च जगत्-पतेः

जगदु: प्रकृतिभ्यस्ते महापुरुषचेष्टितम् ।
यथान्वशासद् भगवांस्तथा चक्रुरतन्द्रिता: ॥ ३० ॥

जगदुः प्रकृतिभ्यः ते महा-पुरुष चेष्टितम् यथा अन्वशासत् भगवान् तथा चक्रुः अतन्द्रिताः

जरासन्धं घातयित्वा भीमसेनेन केशव: ।
पार्थाभ्यां संयुत: प्रायात् सहदेवेन पूजित: ॥ ३१ ॥

जरासन्धम् घातयित्वा भीमसेनेन केशवः पार्थाभ्यम् संयुतः प्रायात् सहदेवेन पूजितः

गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारय: ।
हर्षयन्त: स्वसुहृदो दुर्हृदां चासुखावहा: ॥ ३२ ॥

गत्वा ते खाण्डव-प्रस्थम् शङ्खान् दध्मुः जित अरयः हर्षयन्तः स्व सुहृदः दुर्हृदाम् च असुख आवहाः

तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिन: ।
मेनिरे मागधं शान्तं राजा चाप्तमनोरथ: ॥ ३३ ॥

तत् श्रुत्वा प्रीत मनसः इन्द्रप्रस्थ-निवासिनः मेनिरे मागधम् शान्तम् राजा च आप्त मनः-रथः

अभिवन्द्याथ राजानं भीमार्जुनजनार्दना: ।
सर्वमाश्रावयां चक्रुरात्मना यदनुष्ठितम् ॥ ३४ ॥

अभिवन्द्य अथ राजानम् भीम-अर्जुन-जनार्दनाः सर्वम् आश्रावयाम् चक्रुः आत्मना यत् अनुष्ठितम्

निशम्य धर्मराजस्तत् केशवेनानुकम्पितम् ।
आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५ ॥

निशम्य धर्म-राजः तत् केशवेन अनुकम्पितम् आनन्द अश्रु-कलाम् मुञ्चन् प्रेम्णा न उवाच किञ्चन

१०.७४

श्रीशुक उवाच
एवं युधिष्ठिरो राजा जरासन्धवधं विभो: ।
कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १ ॥

श्री-शुकः उवाच एवम् युधिष्ठिरः राजा जरासन्ध-वधम् विभोः कृष्णस्य च अनुभावम् तम् श्रुत्वा प्रीतः तम् अब्रवीत्

श्रीयुधिष्ठिर उवाच
ये स्युस्‍त्रैलोक्यगुरव: सर्वे लोकामहेश्वरा: ।
वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥ २ ॥

श्री-युधिष्ठिरः उवाच ये स्युः त्रै-लोक्य गुरवः सर्वे लोकाः महा-ईश्वराः वहन्ति दुर्लभम् लब्ध्वा शिरसा एव अनुशासनम्

स भवानरविन्दाक्षो दीनानामीशमानिनाम् ।
धत्तेऽनुशासनं भूमंस्तदत्यन्तविडम्बनम् ॥ ३ ॥

सः भवान् अरविन्द-अक्षः दीनानाम् ईश मानिनाम् धत्ते अनुशासनम् भूमन् तत् अत्यन्त विडम्बनम्

न ह्येकस्याद्वितीयस्य ब्रह्मण: परमात्मन: ।
कर्मभिर्वर्धते तेजो ह्रसते च यथा रवे: ॥ ४ ॥

न हि एकस्य अद्वितीयस्य ब्रह्मणः परम-आत्मनः कर्मभिः वर्धते तेजः ह्रसते च यथा रवेः

न वै तेऽजित भक्तानां ममाहमिति माधव ।
त्वं तवेति च नानाधी: पशूनामिव वैकृती ॥ ५ ॥

न वै ते अजित भक्तानाम् मम अहम् इति माधव त्वम् तव इति च नाना धीः पशूनाम् इव वैकृती

श्रीशुक उवाच
इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विज: ।
कृष्णानुमोदित: पार्थो ब्राह्मणान् ब्रह्मवादिन: ॥ ६ ॥

श्री-शुकः उवाच इति उक्त्वा यज्ञिये काले वव्रे युक्तान् सः ऋत्विजः कृष्ण अनुमोदितः पार्थः ब्राह्मणान् ब्रह्म वादिनः

द्वैपायनो भरद्वाज: सुमन्तुर्गोतमोऽसित: ।
वसिष्ठश्‍च्यवन: कण्वो मैत्रेय: कवषस्‍त्रित: ॥ ७ ॥
विश्वामित्रो वामदेव: सुमतिर्जैमिनि: क्रतु: ।
पैल: पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥
अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरि: ।
वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रण: ॥ ९ ॥

द्वैपायनः भरद्वाजः सुमन्तुः गोतमः असितः वसिष्ठः च्यवनः कण्वः मैत्रेयः कवषः त्रितः विश्वामित्रः वामदेवः सुमतिः जैमिनिः क्रतुः पैलः पराशरः गर्गः वैशम्पायनः एव च अथर्वा कश्यपः धौम्यः रामः भार्गवः आसुरिः वीतिहोत्रः मधुच्छन्दाः वीरसेनः अकृतव्रणः

उपहूतास्तथा चान्ये द्रोणभीष्मकृपादय: ।
धृतराष्ट्र: सहसुतो विदुरश्च महामति: ॥ १० ॥
ब्राह्मणा: क्षत्रिया वैश्या: शूद्रा यज्ञदिद‍ृक्षव: ।
तत्रेयु: सर्वराजानो राज्ञां प्रकृतयो नृप ॥ ११ ॥

उपहूताः तथा च अन्ये द्रोण-भीष्म-कृप-आदयः धृतराष्ट्रः सह-सुतः विदुरः च महा-मतिः ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः यज्ञ दिदृक्षवः तत्र ईयुः सर्व राजानः राज्ञाम् प्रकृतयः नृप

ततस्ते देवयजनं ब्राह्मणा: स्वर्णलाङ्गलै: ।
कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ १२ ॥

ततः ते देव-यजनम् ब्राह्मणाः स्वर्ण लाङ्गलैः कृष्ट्वा तत्र यथा-आम्नायम् दीक्षयाम् चक्रिरे नृपम्

हैमा: किलोपकरणा वरुणस्य यथा पुरा ।
इन्द्रादयो लोकपाला विरिञ्चिभवसंयुता: ॥ १३ ॥
सगणा: सिद्धगन्धर्वा विद्याधरमहोरगा: ।
मुनयो यक्षरक्षांसि खगकिन्नरचारणा: ॥ १४ ॥
राजानश्च समाहूता राजपत्न्‍यश्च सर्वश: ।
राजसूयं समीयु: स्म राज्ञ: पाण्डुसुतस्य वै ।
मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिता: ॥ १५ ॥

हैमाः किल उपकरणाः वरुणस्य यथा पुरा इन्द्र-आदयः लोक-पालाः विरिञ्चि-भव-संयुताः स-गणाः सिद्ध-गन्धर्वाः विद्याधर महा-उरगाः मुनयः यक्ष-रक्षांसि खग-किन्नर-चारणाः राजानः च समाहूताः राज पत्न्यः च सर्वशः राजसूयम् समीयुः स्म राज्ञः पाण्डु-सुतस्य वै मेनिरे कृष्ण-भक्तस्य सु-उपपन्नम् अविस्मिताः

अयाजयन् महाराजं याजका देववर्चस: ।
राजसूयेन विधिवत् प्रचेतसमिवामरा: ॥ १६ ॥

अयाजयन् महा-राजम् याजकाः देव वर्चसः राजसूयेन विधि-वत् प्रचेतसम् इव अमराः

सूत्येऽहन्यवनीपालो याजकान् सदसस्पतीन् ।
अपूजयन् महाभागान् यथावत् सुसमाहित: ॥ १७ ॥

सूत्ये अहनि अवनी-पालः याजकान् सदसः पतीन् अपूजयत् महा-भागान् यथावत् सु-समाहितः

सदस्याग्र्‍यार्हणार्हं वै विमृशन्त: सभासद: ।
नाध्यगच्छन्ननैकान्त्यात् सहदेवस्तदाब्रवीत् ॥ १८ ॥

सदस्य अग्र्य अर्हण अर्हम् वै विमृशन्तः सभा सदः न अध्यगच्छन् अनैक-अन्त्यात् सहदेवः तदा अब्रवीत्

अर्हति ह्यच्युत: श्रैष्ठ्यं भगवान् सात्वतां पति: ।
एष वै देवता: सर्वा देशकालधनादय: ॥ १९ ॥

अर्हति हि अच्युतः श्रैष्ठ्यम् भगवान् सात्वताम् पतिः एषः वै देवताः सर्वाः देश काल धन आदयः

यदात्मकमिदं विश्वं क्रतवश्च यदात्मका: ।
अग्निराहुतयो मन्त्रा साङ्ख्यं योगश्च यत्पर: ॥ २० ॥
एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत् ।
आत्मनात्माश्रय: सभ्या: सृजत्यवति हन्त्यज: ॥ २१ ॥

यत्-आत्मकम् इदम् विश्वम् क्रतवः च यत्-आत्मकाः अग्निः आहुतयः मन्त्राः साङ्ख्यम् योगः च यत् परः एकः एव अद्वितीयः असौ ऐतत्-आत्म्यम् इदम् जगत् आत्मना आत्म आश्रयः सभ्याः सृजति अवति हन्ति अजः

विविधानीह कर्माणि जनयन् यदवेक्षया ।
ईहते यदयं सर्व: श्रेयो धर्मादिलक्षणम् ॥ २२ ॥

विविधानि इह कर्माणि जनयन् यत् अवेक्षया ईहते यत् अयम् सर्वः श्रेयः धर्म-आदि लक्षणम्

तस्मात् कृष्णाय महते दीयतां परमार्हणम् ।
एवं चेत् सर्वभूतानामात्मनश्चार्हणं भवेत् ॥ २३ ॥

तस्मात् कृष्णाय महते दीयताम् परम अर्हणम् एवम् चेत् सर्व भूतानाम् आत्मनः च अर्हणम् भवेत्

सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने ।
देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता ॥ २४ ॥

सर्व भूत आत्म भूताय कृष्णाय अनन्य दर्शिने देयम् शान्ताय पूर्णाय दत्तस्य आनन्त्यम् इच्छता

इत्युक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाववित् ।
तच्छ्रुत्वा तुष्टुवु: सर्वे साधु साध्विति सत्तमा: ॥ २५ ॥

इति उक्त्वा सहदेवः अभूत् तूष्णीम् कृष्ण अनुभाव वित् तत् श्रुत्वा तुष्टुवुः सर्वे साधु साधु इति सत् तमाः

श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् ।
समर्हयद्‍धृषीकेशं प्रीत: प्रणयविह्वल: ॥ २६ ॥

श्रुत्वा द्विज ईरितम् राजा ज्ञात्वा हार्दम् सभा-सदाम् समर्हयत् हृषीकेशम् प्रीतः प्रणय विह्वलः

तत्पादाववनिज्याप: शिरसा लोकपावनी: ।
सभार्य: सानुजामात्य: सकुटुम्बो वहन्मुदा ॥ २७ ॥
वासोभि: पीतकौषेयैर्भूषणैश्च महाधनै: ।
अर्हयित्वाश्रुपूर्णाक्षो नाशकत् समवेक्षितुम् ॥ २८ ॥

तत् पादौ अवनिज्य आपः शिरसा लोक पावनीः स भार्यः स अनुज अमात्यः स कुटुम्बः वहन् मुदा वासोभिः पीत कौषेयैः भूषणैः च महा-धनैः अर्हयित्वा अश्रु पूर्ण अक्षः न अशकत् समवेक्षितुम्

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जना: ।
नमो जयेति नेमुस्तं निपेतु: पुष्पवृष्टय: ॥ २९ ॥

इत्थम् सभाजितम् वीक्ष्य सर्वे प्राञ्जलयः जनाः नमः जय इति नेमुः तम् निपेतुः पुष्प वृष्टयः

इत्थं निशम्य दमघोषसुत: स्वपीठा-
दुत्थाय कृष्णगुणवर्णनजातमन्यु: ।
उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी
संश्रावयन् भगवते परुषाण्यभीत: ॥ ३० ॥

इत्थम् निशम्य दमघोष-सुतः स्व पीठात् उत्थाय कृष्ण-गुण वर्णन जात मन्युः उत्क्षिप्य बाहुम् इदम् आह सदसि अमर्षी संश्रावयन् भगवते परुषाणि अभीतः

ईशो दुरत्यय: काल इति सत्यवती श्रुति: ।
वृद्धानामपि यद् बुद्धिर्बालवाक्यैर्विभिद्यते ॥ ३१ ॥

ईशः दुरत्ययः कालः इति सत्य-वती स्रुतिः वृद्धानाम् अपि यत् बुद्धिः बाल वाक्यैः विभिद्यते

यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषितम् ।
सदसस्पतय: सर्वे कृष्णो यत् सम्मतोऽर्हणे ॥ ३२ ॥

यूयम् पात्र विदाम् श्रेष्ठाः मा मन्ध्वम् बाल भाषितम् सदसः-पतयः सर्वे कृष्णः यत् सम्मतः अर्हणे

तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् ।
परमऋषीन्ब्रह्मनिष्ठाल्ँ लोकपालैश्च पूजितान् ॥ ३३ ॥
सदस्पतीनतिक्रम्य गोपाल: कुलपांसन: ।
यथा काक: पुरोडाशं सपर्यां कथमर्हति ॥ ३४ ॥

तपः विद्या व्रत धरान् ज्ञान विध्वस्त कल्मषान् परम ऋषीन् ब्रह्म निष्ठान् लोक-पालैः च पूजितान् सदः-पतीन् अतिक्रम्य गोपालः कुल पांसनः यथा काकः पुरोडाशम् सपर्याम् कथम् अर्हति

वर्णाश्रमकुलापेत: सर्वधर्मबहिष्कृत: ।
स्वैरवर्ती गुणैर्हीन: सपर्यां कथमर्हति ॥ ३५ ॥

वर्ण आश्रम कुल अपेतः सर्व धर्म बहिः-कृतः स्वैर वर्ती गुणैः हीनः सपर्याम् कथम् अर्हति

ययातिनैषां हि कुलं शप्तं सद्भ‍िर्बहिष्कृतम् ।
वृथापानरतं शश्वत् सपर्यां कथमर्हति ॥ ३६ ॥

ययातिना एषाम् हि कुलम् शप्तम् सद्भिः बहिः-कृतम् वृथा पान रतम् शश्वत् सपर्याम् कथम् अर्हति

ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम् ।
समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यव: प्रजा: ॥ ३७ ॥

ब्रह्म-ऋषि सेवितान् देशान् हित्वा एते अब्रह्म-वर्चसम् समुद्रम् दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः

एवमादीन्यभद्राणि बभाषे नष्टमङ्गल: ।
नोवाच किञ्चिद्भगवान्यथा सिंह: शिवारुतम् ॥ ३८ ॥

एवम् आदीनि अभद्राणि बभाषे नष्ट मङ्गलः न उवाच किञ्चित् भगवान् यथा सिंहः शिवा रुतम्

भगवन्निन्दनं श्रुत्वा दु:सहं तत् सभासद: ।
कर्णौ पिधाय निर्जग्मु: शपन्तश्चेदिपं रुषा ॥ ३९ ॥

भगवत् निन्दनम् श्रुत्वा दुःसहम् तत् सभा-सदः कर्णौ पिधाय निर्जग्मुः शपन्तः चेदि-पम् रुषा

निन्दां भगवत: श‍ृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति य: सोऽपि यात्यध: सुकृताच्च्युत: ॥ ४० ॥

निन्दाम् भगवतः शृण्वन् तत् परस्य जनस्य वा ततः न अपैति यः सः अपि याति अधः सु-कृतात् च्युतः

तत: पाण्डुसुता: क्रुद्धा मत्स्यकैकयसृञ्जया: ।
उदायुधा: समुत्तस्थु: शिशुपालजिघांसव: ॥ ४१ ॥

ततः पाण्डु-सुताः क्रुद्धाः मत्स्य-कैकय-सृञ्जयाः उत्-आयुधाः समुत्तस्थुः शिसुपाल-जिघांसवः

ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्‍गचर्मणी ।
भर्त्सयन् कृष्णपक्षीयान् राज्ञ: सदसि भारत ॥ ४२ ॥

ततः चैद्यः तु असम्भ्रान्तः जगृहे खड्ग चर्मणी भर्त्सयन् कृष्ण पक्षीयान् राज्ञः सदसि भारत

तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा ।
शिर: क्षुरान्तचक्रेण जहारपततो रिपो: ॥ ४३ ॥

तावत् उत्थाय भगवान् स्वान् निवार्य स्वयम् रुषा शिरः क्षुर अन्त चक्रेण जहार पततः रिपोः

शब्द: कोलाहलोऽथासीच्छिशुपाले हते महान् ।
तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिण: ॥ ४४ ॥

शब्दः कोलाहलः अथ आसीत् शिशुपाले हते महान् तस्य अनुयायिनः भूपाः दुद्रुवुः जीवित एषिणः

चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत् ।
पश्यतां सर्वभूतानामुल्केव भुवि खाच्च्युता ॥ ४५ ॥

चैद्य देह उत्थितम् ज्योतिः वासुदेवम् उपाविशत् पश्यताम् सर्व भूतानाम् उल्का इव भुवि खात् च्युता

जन्मत्रयानुगुणितवैरसंरब्धया धिया ।
ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् ॥ ४६ ॥

जन्म त्रय अनुगुणित वैर संरब्धया धिया ध्यायन् तत्-मयताम् यातः भावः हि भव कारणम्

ऋत्विग्भ्य: ससदस्येभ्यो दक्षिणां विपुलामदात् ।
सर्वान् सम्पूज्य विधिवच्चक्रेऽवभृथमेकराट् ॥ ४७ ॥

ऋत्विग्भ्यः स-सदस्येभ्यः दक्षिणाम् विपुलाम् अदात् सर्वान् सम्पूज्य विधि-वत् चक्रे अवभृथम् एक-राट्

साधयित्वा क्रतु: राज्ञ: कृष्णो योगेश्वरेश्वर: ।
उवास कतिचिन्मासान् सुहृद्भ‍िरभियाचित: ॥ ४८ ॥

साधयित्वा क्रतुः राज्ञः कृष्णः योग-ईश्वर ईश्वरः उवास कतिचित् मासान् सु-हृद्भिः अभियाचितः

ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वर: ।
ययौ सभार्य: सामात्य: स्वपुरं देवकीसुत: ॥ ४९ ॥

ततः अनुज्ञाप्य राजानम् अनिच्छन्तम् अपि ईश्वरः ययौ स-भार्यः स-अमात्यः स्व पुरम् देवकी-सुतः

वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् ।
वैकुण्ठवासिनोर्जन्म विप्रशापात् पुन: पुन: ॥ ५० ॥

वर्णितम् तत् उपाख्यानम् मया ते बहु विस्तरम् वैकुण्ठ-वासिनोः जन्म विप्र शापात् पुनः पुनः

राजसूयावभृथ्येन स्‍नातो राजा युधिष्ठिर: ।
ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥

राजसूय अवभृथ्येन स्नातः राजा युधिष्ठिरः ब्रह्म-क्षत्र सभा मध्ये शुशुभे सुर राट् इव

राज्ञा सभाजिता: सर्वे सुरमानवखेचरा: ।
कृष्णं क्रतुं च शंसन्त: स्वधामानि ययुर्मुदा ॥ ५२ ॥

राज्ञा सभाजिताः सर्वे सुर मानव खे-चराः कृष्णम् क्रतुम् च शंसन्तः स्व धामानि ययुः मुदा

दुर्योधनमृते पापं कलिं कुरुकुलामयम् ।
यो न सेहे श्रियं स्फीतां द‍ृष्ट्वा पाण्डुसुतस्य ताम् ॥ ५३ ॥

दुर्योधनम् ऋते पापम् कलिम् कुरु-कुल आमयम् यः न सेहे श्रीयम् स्फीताम् दृष्ट्वा पाण्डु-सुतस्य ताम्

य इदं कीर्तयेद् विष्णो: कर्म चैद्यवधादिकम् ।
राजमोक्षं वितानं च सर्वपापै: प्रमुच्यते ॥ ५४ ॥

यः इदम् कीर्तयेत् विष्णोः कर्म चैद्य-वध आदिकम् राज मोक्षम् वितानम् च सर्व पापैः प्रमुच्यते

१०.७५

श्रीराजोवाच
अजातशत्रोस्तं द‍ृष्ट्वा राजसूयमहोदयम् ।
सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागता: ॥ १ ॥
दुर्योधनं वर्जयित्वा राजान: सर्षय: सुरा: ।
इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ॥ २ ॥

श्री-राजा उवाच अजात-शत्रोः तम् दृष्ट्वा राजसूय महा उदयम् सर्वे मुमुदिरे ब्रह्मन् नृ-देवाः ये समागताः दुर्योधनम् वर्जयित्वा राजानः स ऋषयः सुराः इति श्रुतम् नः भगवन् तत्र कारणम् उच्यताम्

श्रीबादरायणिरुवाच
पितामहस्य ते यज्ञे राजसूये महात्मन: ।
बान्धवा: परिचर्यायां तस्यासन्प्रेमबन्धना: ॥ ३ ॥

श्री-बाडरायनिः उवाच पितामहस्य ते यज्ञे राजसूये महा-आत्मनः बान्धवाः परिचर्यायाम् तस्य आसन् प्रेम बन्धनाः

भीमो महानसाध्यक्षो धनाध्यक्ष: सुयोधन: ।
सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४ ॥
गुरुशुश्रूषणे जिष्णु: कृष्ण: पादावनेजने ।
परिवेषणे द्रुपदजा कर्णो दाने महामना: ॥ ५ ॥
युयुधानो विकर्णश्च हार्दिक्यो विदुरादय: ।
बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादय: ॥ ६ ॥
निरूपिता महायज्ञे नानाकर्मसु ते तदा ।
प्रवर्तन्ते स्म राजेन्द्र राज्ञ: प्रियचिकीर्षव: ॥ ७ ॥

भीमः महानस अध्यक्षः धन अध्यक्षः सुयोधनः सहदेवः तु पूजायाम् नकुलः द्रव्य साधने गुरु शुश्रूषणे जिष्णुः कृष्णः पाद अवनेजने परिवेषणे द्रुपद-जा कर्णः दाने महामनाः युयुधानः विकर्णः च हार्दिक्यः विदुर-आदयः बाह्लीक-पुत्राः भून्-आद्याः ये च सन्तर्दन-आदयः निरूपिताः महा यज्ञे नाना कर्मसु ते तदा प्रवर्तन्ते स्म राज-इन्द्र राज्ञः प्रिय चिकीर्षवः

ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु
स्विष्टेषु सूनृतसमर्हणदक्षिणाभि: ।
चैद्ये च सात्वतपतेश्चरणं प्रविष्टे
चक्रुस्ततस्त्ववभृथस्‍नपनं द्युनद्याम् ॥ ८ ॥

ऋत्विक् सदस्य बहु-वित्सु सुहृत्-तमेषु सु इष्टेषु सूनृत समर्हण दक्षिणाभिः चैद्ये च सात्वत-पतेः चरणम् प्रविष्टे चक्रुः ततः तु अवभृथ-स्नपनम् द्यु नद्याम्

मृदङ्गशङ्खपणवधुन्धुर्यानकगोमुखा: ।
वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥ ९ ॥

मृदङ्ग शङ्ख पणव धुन्धुरि आनक गो-मुखाः वादित्राणि विचित्राणि नेदुः आवभृथ उत्सवे

नार्तक्यो ननृतुर्हृष्टा गायका यूथशो जगु: ।
वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥ १० ॥

नार्तक्यः ननृतुः हृष्टाः गायकाः यूथशः जगुः वीणा वेणु तल उन्नादः तेषाम् सः दिवम् अस्पृशत्

चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभि: ।
स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्‍ममालिन: ॥ ११ ॥

चित्र ध्वज पताक अग्रैः इभ इन्द्र स्यन्दन अर्वभिः सु-अलङ्कृतैः भटैः भू-पाः निर्ययुः रुक्म मालिनः

यदुसृञ्जयकाम्बोजकुरुकेकयकोशला: ।
कम्पयन्तो भुवं सैन्यैर्यजमानपुर:सरा: ॥ १२ ॥

यदु-सृञ्जय-काम्बोज कुरु-केकय-कोशलाः कम्पयन्तः भुवम् सैन्यैः यजमान पुरः-सराः

सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेणभूयसा ।
देवर्षिपितृगन्धर्वास्तुष्टुवु: पुष्पवर्षिण: ॥ १३ ॥

सदस्य ऋत्विक् द्विज श्रेष्ठाः ब्रह्म घोषेण भूयसा देव ऋषि पितृ गन्धर्वाः तुष्टुवुः पुष्प वर्षिणः

स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरै: ।
विलिम्पन्त्योऽभिसिञ्चन्त्यो विजह्रुर्विविधै रसै: ॥ १४ ॥

सु-अलङ्कृताः नराः नार्यः गन्ध स्रक् भूषण अम्बरैः विलिम्पन्त्यः अभिषिञ्चन्त्यः विजह्रुः विविधैः रसैः

तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमै: ।
पुम्भिर्लिप्ता: प्रलिम्पन्त्यो विजह्रुर्वारयोषित: ॥ १५ ॥

तैल गो-रस गन्ध-उद हरिद्रा सान्द्र कुङ्कुमैः पुम्भिः लिप्ताः प्रलिम्पन्त्यः विजह्रुः वार-योषितः

गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद्
देव्यो यथा दिवि विमानवरैर्नृदेव्यो ।
ता मातुलेयसखिभि: परिषिच्यमाना:
सव्रीडहासविकसद्वदना विरेजु: ॥ १६ ॥

गुप्ताः नृभिः निरगमन् उपलब्धुम् एतत् देव्यः यथा दिवि विमान वरैः नृ-देव्यः ताः मातुलेय सखिभिः परिषिच्यमानाः स-व्रीड हास विकसत् वदनाः विरेजुः

ता देवरानुत सखीन् सिषिचुर्द‍ृतीभि:
क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्या: ।
औत्सुक्यमुक्तकवराच्च्यवमानमाल्या:
क्षोभं दधुर्मलधियां रुचिरैर्विहारै: ॥ १७ ॥

ताः देवरान् उत सखीन् सिषिचुः दृतीभिः क्लिन्न अम्बराः विवृत गात्र कुच ऊरु मध्याः औत्सुक्य मुक्त कवरात् च्यवमान माल्याः क्षोभम् दधुः मल धियम् रुचिरैः विहारैः

स सम्राड् रथमारुढ: सदश्वं रुक्‍ममालिनम् ।
व्यरोचत स्वपत्नीभि: क्रियाभि: क्रतुराडिव ॥ १८ ॥

सः सम्राट् रथम् आरुढः सत् अश्वम् रुक्म मालिनम् व्यरोचत स्व-पत्नीभिः क्रियाभिः क्रतु राट् इव

पत्नीसंयाजावभृथ्यैश्चरित्वा ते तमृत्विज: ।
आचान्तं स्‍नापयां चक्रुर्गङ्गायां सह कृष्णया ॥ १९ ॥

पत्नी-संयाज अवभृथ्यैः चरित्वा ते तम् ऋत्विजः आचान्तम् स्नापयाम् चक्रुः गङ्गायाम् सह कृष्णया

देवदुन्दुभयो नेदुर्नरदुन्दुभिभि: समम् ।
मुमुचु: पुष्पवर्षाणि देवर्षिपितृमानवा: ॥ २० ॥

देव दुन्दुभयः नेदुः नर दुन्दुभिभिः समम् मुमुचुः पुष्प वर्षाणि देव ऋषि पितृ मानवाः

सस्‍नुस्तत्र तत: सर्वे वर्णाश्रमयुता नरा: ।
महापातक्यपि यत: सद्यो मुच्येत किल्बिषात् ॥ २१ ॥

सस्नुः तत्र ततः सर्वे वर्ण-आश्रम युताः नराः महा पातकी अपि यतः सद्यः मुच्येत किल्बिषात्

अथ राजाहते क्षौमे परिधाय स्वलङ्कृत: ।
ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरै: ॥ २२ ॥

अथ राजा अहते क्षौमे परिधाय सु-अलङ्कृतः ऋत्विक् सदस्य विप्र आदीन् आनर्च आभरण अम्बरैः

बन्धूञ्ज्ञातीन् नृपान् मित्रसुहृदोऽन्यांश्च सर्वश: ।
अभीक्ष्णं पूजयामास नारायणपरो नृप: ॥ २३ ॥

बन्धून् ज्ञातीन् नृपान् मित्र सुहृदः अन्यान् च सर्वशः अभीक्ष्णम् पूजयाम् आस नारायण-परः नृपः

सर्वे जना: सुररुचो मणिकुण्डलस्र-
गुष्णीषकञ्चुकदुकूलमहार्घ्यहारा: ।
नार्यश्च कुण्डलयुगालकवृन्दजुष्ट-
वक्त्रश्रिय: कनकमेखलया विरेजु: ॥ २४ ॥

सर्वे जनाः सुर रुचः मणि कुण्डल स्रक् उष्णीष कञ्चुक दुकूल महा-अर्घ्य हाराः नार्यः च कुण्डल युग अलक-वृन्द जुष्ट वक्त्र श्रियः कनक मेखलया विरेजुः

अथर्त्विजो महाशीला: सदस्या ब्रह्मवादिन: ।
ब्रह्मक्षत्रियविट्‍शूद्रा राजानो ये समागता: ॥ २५ ॥
देवर्षिपितृभूतानि लोकपाला: सहानुगा: ।
पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप ॥ २६ ॥

अथ ऋत्विजः महा-शीलाः सदस्याः ब्रह्म वादिनः ब्रह्म क्षत्रिय विट् शूद्राः आजानः ये समागताः देव ऋषि पितृ भूतानि लोक पालाः सह अनुगाः पूजिताः तम् अनुज्ञाप्य स्व धामानि ययुः नृप

हरिदासस्य राजर्षे राजसूयमहोदयम् ।
नैवातृप्यन्प्रशंसन्त: पिबन्मर्त्योऽमृतं यथा ॥ २७ ॥

हरि दासस्य राज-ऋषेः राजसूय महा-उदयम् न एव अतृप्यन् प्रशंसन्तः पिबन् मर्त्यः अमृतम् यथा

ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् ।
प्रेम्णा निवारयामास कृष्णं च त्यागकातर: ॥ २८ ॥

ततः युधिष्ठिरः राजा सुहृत् सम्बन्धि बान्धवान् प्रेम्णा निवारयाम् आस कृष्णम् च त्याग कातरः

भगवानपि तत्राङ्ग न्यावात्सीत्तत्प्रियंकर: ।
प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥ २९ ॥

भगवान् अपि तत्र अङ्ग न्यावात्सीत् तत् प्रियम् करः प्रस्थाप्य यदु-वीरान् च साम्ब-आदीन् च कुशस्थलीम्

इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।
सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वर: ॥ ३० ॥

इत्थम् राजा धर्म सुतः मनः-रथ महा अर्णवम् सु दुस्तरम् समुत्तीर्य कृष्णेन आसीत् गत-ज्वरः

एकदान्त:पुरे तस्य वीक्ष्य दुर्योधन: श्रियम् ।
अतप्यद् राजसूयस्य महित्वं चाच्युतात्मन: ॥ ३१ ॥

एकदा अन्तः-पुरे तस्य वीक्ष्य दुर्योधनः श्रीयम् अतप्यत् राजसूयस्य महित्वम् च अच्युत-आत्मनः

यस्मिन् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मी-
र्नाना विभान्ति किल विश्वसृजोपक्लृप्ता: ।
ताभि: पतीन् द्रुपदराजसुतोपतस्थे
यस्यां विषक्तहृदय: कुरुराडतप्यत् ॥ ३२ ॥

यस्मिन् नर-इन्द्र दितिज-इन्द्र सुर-इन्द्र लक्ष्मीः नाना विभान्ति किल विश्व-सृजा उपकॢप्ताः ताभिः पतीन् द्रुपद-राज सुता उपतस्थे यस्याम् विषक्त हृदयः कुरु-राट् अतप्यत्

यस्मिन् तदा मधुपतेर्महिषीसहस्रं
श्रोणीभरेण शनकै: क्व‍णदङ्‍‍घ्रिशोभम् ।
मध्ये सुचारु कुचकुङ्कुमशोणहारं
श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ ३३ ॥

यस्मिन् तदा मधु पतेः महिषी सहस्रम् श्रोणी भरेण शनकैः क्वणत् अङ्घ्रि शोभम् मध्ये सु-चारु कुच कुङ्कुम शोण हारम् श्री-मत् मुखम् प्रचल कुण्डल कुन्तल आढ्यम्

सभायां मयक्लृप्तायां क्व‍ापि धर्मसुतोऽधिराट् ।
वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४ ॥
आसीन: काञ्चने साक्षादासने मघवानिव ।
पारमेष्ठ्यश्रिया जुष्ट: स्तूयमानश्च वन्दिभि: ॥ ३५ ॥

सभायाम् मय कॢप्तायाम् क्व अपि धर्म-सुतः अधिराट् वृतः अनुगैः बन्धुभिः च कृष्णेन अपि स्व चक्षुषा आसीनः काञ्चने साक्षात् आसने मघवान् इव पारमेष्ठ्य श्रिया जुष्टः स्तूयमानः च वन्दिभिः

तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप ।
किरीटमाली न्यविशदसिहस्त: क्षिपन् रुषा ॥ ३६ ॥

तत्र दुर्योधनः मानी परीतः भ्रातृभिः नृप किरीट माली न्यविशत् असि हस्तः क्षिपन् रुषा

स्थलेऽभ्यगृह्णाद् वस्‍त्रान्तं जलं मत्वा स्थलेऽपतत् ।
जले च स्थलवद् भ्रान्त्या मयमायाविमोहित: ॥ ३७ ॥

स्थले अभ्यगृह्णात् वस्त्र अन्तम् जलम् मत्वा स्थले अपतत् जले च स्थल वत् भ्रान्त्या मय माया विमोहितः

जहास भीमस्तं द‍ृष्ट्वा स्‍त्रियो नृपतयोऽपरे ।
निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिता: ॥ ३८ ॥

जहास भीमः तम् दृष्ट्वा स्त्रियः नृ-पतयः अपरे निवार्यमाणाः अपि अङ्ग राज्ञा कृष्ण अनुमोदिताः

स व्रीडितोऽवाग‍्वदनो रुषा ज्वलन्
निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
हाहेति शब्द: सुमहानभूत् सता-
मजातशत्रुर्विमना इवाभवत् ।
बभूव तूष्णीं भगवान् भुवो भरं
समुज्जिहीर्षुर्भ्रमति स्म यद् द‍ृशा ॥ ३९ ॥

सः व्रीडितः अवाक् वदनः रुषा ज्वलन् निष्क्रम्य तूष्णीम् प्रययौ गज-आह्वयम् हा-हा इति शब्दः सु-महान् अभूत् सताम् अजात-शत्रुः विमनाः इव अभवत् बभूव तूष्णीम् भगवान् भुवः भरम् समुज्जिहीर्षुः भ्रमति स्म यत् दृशा

एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया ।
सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४० ॥

एतत् ते अभिहितम् राजन् यत् पृष्टः अहम् इह त्वया सुयोधनस्य दौरात्म्यम् राजसूये महा-क्रतौ

१०.७६

श्रीशुक उवाच
अथान्यदपि कृष्णस्य श‍ृणु कर्माद्भ‍ुतं नृप ।
क्रीडानरशरीरस्य यथा सौभपतिर्हत: ॥ १ ॥

श्री-शुकः उवाच अथ अन्यत् अपि कृष्णस्य शृणु कर्म अद्भुतम् नृप क्रीडा नर शरीरस्य यथा सौभ-पतिः हतः

शिशुपालसख: शाल्वो रुक्‍मिण्युद्वाह आगत: ।
यदुभिर्निर्जित: सङ्ख्ये जरासन्धादयस्तथा ॥ २ ॥

शिशुपाल-सखः शाल्वः रुक्मिणी-उद्वाहे आगतः यदुभिः निर्जितः सङ्ख्ये जरासन्ध-आदयः तथा

शाल्व: प्रतिज्ञामकरोच्छृण्वतां सर्वभूभुजाम् ।
अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत ॥ ३ ॥

शाल्वः प्रतिज्ञाम् अकरोत् शृण्वताम् सर्व भू-भुजाम् अयादवाम् क्ष्माम् करिष्ये पौरुषम् मम पश्यत

इति मूढ: प्रतिज्ञाय देवं पशुपतिं प्रभुम् ।
आराधयामास नृप: पांशुमुष्टिं सकृद्ग्रसन् ॥ ४ ॥

इति मूढः प्रतिज्ञाय देवम् पशु-पतिम् प्रभुम् आरधयाम् आस नृपः पांशु मुष्टिम् सकृत् ग्रसन्

संवत्सरान्ते भगवानाशुतोष उमापति: ।
वरेणच्छन्दयामास शाल्वं शरणमागतम् ॥ ५ ॥

संवत्सर अन्ते भगवान् आशु-तोषः उमा-पतिः वरेण छन्दयाम् आस शाल्वम् शरणम् आगतम्

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ॥ ६ ॥

देव असुर मनुष्याणाम् गन्धर्व उरग रक्षसाम् अभेद्यम् काम गम् वव्रे सः यानम् वृष्णि भीषणम्

तथेति गिरिशादिष्टो मय: परपुरंजय: ।
पुरं निर्माय शाल्वाय प्रादात्सौभमयस्मयम् ॥ ७ ॥

तथा इति गिरि-श आदिष्टः मयः पर पुरम् जयः पुरम् निर्माय शाल्वाय प्रादात् सौभम् अयः मयम्

स लब्ध्वा कामगं यानं तमोधाम दुरासदम् ।
ययौ द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन् ॥ ८ ॥

सः लब्ध्वा काम-गम् यानम् तमः धाम दुरासदम् ययौ द्वारवतीम् शाल्वः वैरम् वृष्णि-कृतम् स्मरन्

निरुध्य सेनया शाल्वो महत्या भरतर्षभ ।
पुरीं बभञ्जोपवनानुद्यानानि च सर्वश: ॥ ९ ॥
सगोपुराणि द्वाराणि प्रासादाट्टालतोलिका: ।
विहारान् स विमानाग्र्‍यान्निपेतु: शस्‍त्रवृष्टय: ॥ १० ॥
शिला द्रुमाश्चाशनय: सर्पा आसारशर्करा: ।
प्रचण्डश्चक्रवातोऽभूद् रजसाच्छादिता दिश: ॥ ११ ॥

निरुध्य सेनया शाल्वः महत्या भरत-ऋषभ पुरीम् बभञ्ज उपवनान् उद्यनानि च सर्वशः स-गोपुराणि द्वाराणि प्रासाद अट्टाल तोलिकाः विहारान् सः विमान अग्र्यात् निपेतुः शस्त्र वृष्टयः शिला द्रुमाः च अशनयः सर्पाः आसार-शर्कराः प्रचण्डः चक्रवातः अभूत् रजसा आच्छाद्दिताः दिशः

इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।
नाभ्यपद्यत शं राजंस्‍त्रिपुरेण यथा मही ॥ १२ ॥

इति अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् न अभ्यपद्यत शम् राजन् त्रि-पुरेण यथा मही

प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजा: प्रजा: ।
मा भैष्टेत्यभ्यधाद् वीरो रथारूढो महायशा: ॥ १३ ॥

प्रद्युम्नः भगवान् वीक्ष्य बाध्यमानाः निजाः प्रजाः मा भैष्ट इति अभ्यधात् वीरः रथ आरूढः महा यशाः

सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूर: सहानुज: ।
हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ ॥ १४ ॥
अपरे च महेष्वासा रथयूथपयूथपा: ।
निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभि: ॥ १५ ॥

सात्यकिः चारुदेष्णः च साम्बः अक्रूरः सह अनुजः हार्दिक्यः भानुविन्दः च गदः च शुक-सारणौ अपरे च महा इष्व्-आसाः रथ यूथ-प यूथ-पाः निर्ययुः दंशिताः गुप्ताः रथ इभ अश्व पदातिभिः

तत: प्रववृते युद्धं शाल्वानां यदुभि: सह ।
यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ॥ १६ ॥

ततः प्रववृते युद्धम् शाल्वानाम् यदुभिः सह यथा असुराणाम् विबुधैः तुमुलम् लोम-हर्षणम्

ताश्च सौभपतेर्माया दिव्यास्‍त्रै रुक्‍मिणीसुत: ।
क्षणेन नाशयामास नैशं तम इवोष्णगु: ॥ १७ ॥

ताः च सौभ-पतेः मायाः दिव्य अस्त्रैः रुक्मिणी-सुतः क्षणेन नाशयाम् आस नैशम् तमः इव उष्ण गुः

विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखै: ।
शाल्वस्य ध्वजिनीपालं शरै: सन्नतपर्वभि: ॥ १८ ॥
शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान् ।
दशभिर्दशभिर्नेतृन् वाहनानि त्रिभिस्‍त्रिभि: ॥ १९ ॥

विव्याध पञ्च विंशत्या स्वर्ण पुङ्खैः अयः मुखैः शाल्वस्य ध्वजिनी-पालम् शरैः सन्नत पर्वभिः शतेन अताडयत् शाल्वम् एक-एकेन अस्य सैनिकान् दशभिः दशभिः नेतॄन् वाहनानि त्रिभिः त्रिभिः

तदद्भुचतं महत् कर्म प्रद्युम्नस्य महात्मन: ।
द‍ृष्ट्वा तं पूजयामासु: सर्वे स्वपरसैनिका: ॥ २० ॥

तत् अद्भुतम् महत् कर्म प्रद्युम्नस्य महा-आत्मनः दृष्ट्वा तम् पूजयाम् आसुः सर्वे स्व पर सैनिकाः

बहुरूपैकरूपं तद् द‍ृश्यते न च द‍ृश्यते ।
मायामयं मयकृतं दुर्विभाव्यं परैरभूत् ॥ २१ ॥

बहु रूप एक रूपम् तत् दृश्यते न च दृश्यते माया-मयम् मय कृतम् दुर्विभाव्यम् परैः अभूत्

क्व‍‍चिद्भ‍ूमौ क्व‍‍चिद् व्योम्नि गिरिमूर्ध्‍नि जले क्व‍‍चित् ।
अलातचक्रवद् भ्राम्यत् सौभं तद् दुरवस्थितम् ॥ २२ ॥

क्वचित् भूमौ क्वचित् व्योम्नि गिरि मूर्ध्नि जले क्वचित् अलात-चक्र वत् भ्राम्यत् सौभम् तत् दुरवस्थितम्

यत्र यत्रोपलक्ष्येत ससौभ: सहसैनिक: ।
शाल्वस्ततस्ततोऽमुञ्चञ् छरान् सात्वतयूथपा: ॥ २३ ॥

यत्र यत्र उपलक्ष्येत स-सौभः सह-सैनिकः शाल्वः ततः ततः अमुञ्चन् शरान् सात्वत यूथ-पाः

शरैरग्‍न्यर्कसंस्पर्शैराशीविषदुरासदै: ।
पीड्यमानपुरानीक: शाल्वोऽमुह्यत्परेरितै: ॥ २४ ॥

शरैः अग्नि अर्क संस्पर्शैः आशी विष दुरासदैः पीड्यमान पुर अनीकः शाल्वः अमुह्यत् पर ईरितैः

शाल्वानीकपशस्‍त्रौघैर्वृष्णिवीरा भृशार्दिता: ।
न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषव: ॥ २५ ॥

शाल्व अनीक-प शस्त्र ओघैः वृष्णि-वीराः भृश अर्दिताः न तत्यजुः रणम् स्वम् स्वम् लोक द्वय जिगीषवः

शाल्वामात्यो द्युमान्नाम प्रद्युम्नं प्राक्प्रपीडित: ।
आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली ॥ २६ ॥

शाल्व-अमात्यः द्युमान् नाम प्रद्युम्नम् प्राक् प्रपीडितः आसाद्य गदया मौर्व्या व्याहत्य व्यनदत् बली

प्रद्युम्नं गदया शीर्णवक्ष:स्थलमरिंदमम् ।
अपोवाह रणात्सूतो धर्मविद् दारुकात्मज: ॥ २७ ॥

प्रद्युम्नम् गदया शीर्ण वक्षः-स्थलम् अरिम् दमम् अपोवाह रणात् सूतः धर्म वित् दारुक-आत्मजः

लब्धसंज्ञो मुहूर्तेन कार्ष्णि: सारथिमब्रवीत् ।
अहो असाध्विदं सूत यद् रणान्मेऽपसर्पणम् ॥ २८ ॥

लब्ध संज्ञः मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् अहो असाधु इदम् सूत यत् रणात् मे अपसर्पणम्

न यदूनां कुले जात: श्रूयते रणविच्युत: ।
विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् ॥ २९ ॥

न यदूनाम् कुले जातः श्रूयते रण विच्युतः विना मत् क्लीब चित्तेन सूतेन प्राप्त किल्बिषात्

किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ ।
युद्धात्सम्यगपक्रान्त: पृष्टस्तत्रात्मन: क्षमम् ॥ ३० ॥

किम् नु वक्ष्ये अभिसङ्गम्य पितरौ राम-केशवौ युद्धात् सम्यक् अपक्रान्तः पृष्टः तत्र आत्मनः क्षमम्

व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामय: ।
क्लैब्यं कथं कथं वीर तवान्यै: कथ्यतां मृधे ॥ ३१ ॥

व्यक्तम् मे कथयिष्यन्ति हसन्त्यः भ्रातृ-जामयः क्लैब्यम् कथम् कथम् वीर तव अन्यैः कथ्यताम् मृधे

सारथिरुवाच
धर्मं विजानतायुष्मन् कृतमेतन्मया विभो ।
सूत: कृच्छ्रगतं रक्षेद् रथिनं सारथिं रथी ॥ ३२ ॥

सारथिः उवाच धर्मम् विजानता आयुः-मन् कृतम् एतत् मया विभो सूतः कृच्छ्र गतम् रक्षेत् रथिनम् सारथिम् रथी

एतद्विदित्वा तु भवान्मयापोवाहितो रणात् ।
उपसृष्ट: परेणेति मूर्च्छितो गदया हत: ॥ ३३ ॥

एतत् विदित्वा तु भवान् मया अपोवाहितः रणात् उपसृष्टः परेण इति मूर्च्छितः गदया हतः

१०.७७

श्रीशुक उवाच
स उपस्पृश्य सलिलं दंशितो धृतकार्मुक: ।
नय मां द्युमत: पार्श्वं वीरस्येत्याह सारथिम् ॥ १ ॥

श्री-शुकः उवाच सः उपस्पृश्य सलिलम् दंशितः धृत कार्मुकः नय मम् द्युमतः पार्श्वम् वीरस्य इति आह सारथिम्

विधमन्तं स्वसैन्यानि द्युमन्तं रुक्‍मिणीसुत: ।
प्रतिहत्य प्रत्यविध्यान्नाराचैरष्टभि: स्मयन् ॥ २ ॥

विधमन्तम् स्व सैन्यानि द्युमन्तम् रुक्मिणी-सुतः प्रतिहत्य प्रत्यविध्यात् नाराचैः अष्टभिः स्मयन्

चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् ।
द्वाभ्यं धनुश्च केतुं च शरेणान्येन वै शिर: ॥ ३ ॥

चतुर्भिः चतुरः वाहान् सूतम् एकेन च अहनत् द्वाभ्याम् धनुः च केतुम् च शरेण अन्येन वै शिरः

गदसात्यकिसाम्बाद्या जघ्नु: सौभपतेर्बलम् ।
पेतु: समुद्रे सौभेया: सर्वे सञ्छिन्नकन्धरा: ॥ ४ ॥

गद-सात्यकि-साम्ब-आद्याः जघ्नुः सौभ-पतेः बलम् पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्न कन्धराः

एवं यदूनां शाल्वानां निघ्नतामितरेतरम् ।
युद्धं त्रिनवरात्रं तदभूत्तुमुलमुल्बणम् ॥ ५ ॥

एवम् यदूनाम् शाल्वानाम् निघ्नताम् इतर-इतरम् युद्धम् त्रि नव रात्रम् तत् अभूत् तुमुलम् उल्बणम्

इन्द्रप्रस्थं गत: कृष्ण आहूतो धर्मसूनुना ।
राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते ॥ ६ ॥
कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् ।
निमित्तान्यतिघोराणि पश्यन् द्वारवतीं ययौ ॥ ७ ॥

इन्द्रप्रस्थम् गतः कृष्णः आहूतः धर्म-सूनुना राजसूये अथ निवृत्ते शिशुपाले च संस्थिते कुरु-वृद्धान् अनुज्ञाप्य मुनीन् च स सुताम् पृथाम् निमित्तानि अति घोराणि पश्यन् द्वारवतीम् ययौ

आह चाहमिहायात आर्यमिश्राभिसङ्गत: ।
राजन्याश्चैद्यपक्षीया नूनं हन्यु: पुरीं मम ॥ ८ ॥

आह च अहम् इह आयातः आर्य मिश्र अभिसङ्गतः राजन्याः चैद्य-पक्षीयाः नूनम् हन्युः पुरीम् मम

वीक्ष्य तत् कदनं स्वानां निरूप्य पुररक्षणम् ।
सौभं च शाल्वराजं च दारुकं प्राह केशव: ॥ ९ ॥

वीक्ष्य तत् कदनम् स्वानाम् निरूप्य पुर रक्षणम् सौभम् च शाल्व-राजम् च दारुकम् प्राह केशवः

रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै ।
सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ १० ॥

रथम् प्रापय मे सूत शाल्वस्य अन्तिकम् आशु वै सम्भ्रमः ते न कर्तव्यः माया-वी सौभ-राट् अयम्

इत्युक्तश्चोदयामास रथमास्थाय दारुक: ।
विशन्तं दद‍ृशु: सर्वे स्वे परे चारुणानुजम् ॥ ११ ॥

इति उक्तः चोदयाम् आस रथम् आस्थाय दारुकः विशन्तम् ददृशुः सर्वे स्वे परे च अरुण-अनुजम्

शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वर: ।
प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १२ ॥

शाल्वः च कृष्णम् आलोक्य हत प्राय बल ईश्वरः प्राहरत् कृष्ण-सूताय शक्तिम् भीम रवाम् मृधे

तामापतन्तीं नभसि महोल्कामिव रंहसा ।
भासयन्तीं दिश: शौरि: सायकै: शतधाच्छिनत् ॥ १३ ॥

ताम् आपतन्तीम् नभसि महा उल्काम् इव रंहसा भासयन्तीम् दिशः शौरिः सायकैः शतधा अच्छिनत्

तं च षोडशभिर्विद्ध्वा बाणै: सौभं च खे भ्रमत् ।
अविध्यच्छरसन्दोहै: खं सूर्य इव रश्मिभि: ॥ १४ ॥

तम् च षोडशभिः विद्ध्वा बाणैः सौभम् च खे भ्रमत् अविध्यत् शर सन्दोहैः खम् सूर्यः इव रश्मिभिः

शाल्व: शौरेस्तु दो: सव्यं सशार्ङ्गं शार्ङ्गधन्वन: ।
बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भ‍ुतम् ॥ १५ ॥

शाल्वः शौरेः तु दोः सव्यम् स शार्ङ्गम् शार्ङ्ग-धन्वनः बिभेद न्यपतत् हस्तात् शार्ङ्गम् असीत् तत् अद्भुतम्

हाहाकारो महानासीद् भूतानां तत्र पश्यताम् ।
निनद्य सौभराडुच्चैरिदमाह जनार्दनम् ॥ १६ ॥

हाहा-कारः महान् आसीत् भूतानाम् तत्र पश्यताम् निनद्य सौभ-राट् उच्चैः इदम् आह जनार्दनम्

यत्त्वया मूढ न: सख्युर्भ्रातुर्भार्या हृतेक्षताम् ।
प्रमत्त: स सभामध्ये त्वया व्यापादित: सखा ॥ १७ ॥
तं त्वाद्य निशितैर्बाणैरपराजितमानिनम् ।
नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रत: ॥ १८ ॥

यत् त्वया मूढ नः सख्युः भ्रातुः भार्या हृता ईक्षताम् प्रमत्तः सः सभा मध्ये त्वया व्यापादितः सखा तम् त्वा अद्य निशितैः बाणैः अपराजित मानिनम् नयामि अपुनः-आवृत्तिम् यदि तिष्ठेः मम अग्रतः

श्रीभगवानुवाच
वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् ।
पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिण: ॥ १९ ॥

श्री-भगवान् उवाच वृथा त्वम् कत्थसे मन्द न पश्यसि अन्तिके अन्तकम् पौरुषम् दर्शयन्ति स्म शूराः न बहु भाषिणः

इत्युक्त्वा भगवाञ्छाल्वं गदया भीमवेगया ।
तताड जत्रौ संरब्ध: स चकम्पे वमन्नसृक् ॥ २० ॥

इति उक्त्वा भगवान् शाल्वम् गदया भीम वेगया तताड जत्रौ संरब्धः सः चकम्पे वमन् असृक्

गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत ।
ततो मुहूर्त आगत्य पुरुष: शिरसाच्युतम् ।
देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २१ ॥

गदायाम् सन्निवृत्तायाम् शाल्वः तु अन्तरधीयत ततः मुहूर्ते आगत्य पुरुषः शिरसा अच्युतम् देवक्या प्रहितः अस्मि इति नत्वा प्राह वचः रुदन्

कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल ।
बद्ध्वापनीत: शाल्वेन सौनिकेन यथा पशु: ॥ २२ ॥

कृष्ण कृष्ण महा-बाहो पिता ते पितृ वत्सल बद्ध्वा अपनीतः शाल्वेन सौनिकेन यथा पशुः

निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गत: ।
विमनस्को घृणी स्‍नेहाद् बभाषे प्राकृतो यथा ॥ २३ ॥

निशम्य विप्रियम् कृष्णः मानुषीम् प्रकृतिम् गतः विमनस्कः घृणी स्नेहात् बभाषे प्राकृतः यथा

कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरै: ।
शाल्वेनाल्पीयसा नीत: पिता मे बलवान् विधि: ॥ २४ ॥

कथम् रामम् असम्भ्रान्तम् जित्वा अजेयम् सुर असुरैः शाल्वेन अल्पीयसा नीतः पिता मे बल-वान् विधिः

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थित: ।
वसुदेवमिवानीय कृष्णं चेदमुवाच स: ॥ २५ ॥

इति ब्रुवाणे गोविन्दे सौभ-राट् प्रत्युपस्थितः वसुदेवम् इव आनीय कृष्णम् च इदम् उवाच सः

एष ते जनिता तातो यदर्थमिह जीवसि ।
वधिष्ये वीक्षतस्तेऽमुमीशश्चेत् पाहि बालिश ॥ २६ ॥

एषः ते जनिता तातः यत्-अर्थम् इह जीवसि वधिष्ये वीक्षतः ते अमुम् ईशः चेत् पाहि बालिश

एवं निर्भर्त्स्य मायावी खड्‍गेनानकदुन्दुभे: ।
उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७ ॥

एवम् निर्भर्त्स्य माया-वी खड्गेन आनकदुन्दुभेः उत्कृत्य शिरः आदाय ख स्थम् सौभम् समाविशत्

ततो मुहूर्तं प्रकृतावुपप्लुत:
स्वबोध आस्ते स्वजनानुषङ्गत: ।
महानुभावस्तदबुध्यदासुरीं
मायां स शाल्वप्रसृतां मयोदिताम् ॥ २८ ॥

ततः मुहूर्तम् प्रकृतौ उपप्लुतः स्व-बोधः आस्ते स्व-जन अनुषङ्गतः महा-अनुभावः तत् अबुध्यत् आसुरीम् मायाम् सः शाल्व प्रसृताम् मय उदिताम्

न तत्र दूतं न पितु: कलेवरं
प्रबुद्ध आजौ समपश्यदच्युत: ।
स्वाप्नं यथा चाम्बरचारिणं रिपुं
सौभस्थमालोक्य निहन्तुमुद्यत: ॥ २९ ॥

न तत्र दूतम् न पितुः कलेवरम् प्रबुद्धः आजौ समपश्यत् अच्युतः स्वाप्नम् यथा च अम्बर चारिणम् रिपुम् सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः

एवं वदन्ति राजर्षे ऋषय: के च नान्विता: ।
यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥ ३० ॥

एवम् वदन्ति राज-ऋषे ऋषयः के च न अन्विताः यत् स्व वाचः विरुध्येत नूनम् ते न स्मरन्ति उत

क्व‍ शोकमोहौ स्‍नेहो वा भयं वा येऽज्ञसम्भवा: ।
क्व‍ चाखण्डितविज्ञानज्ञानैश्वर्यस्त्वखण्डित: ॥ ३१ ॥

क्व शोक मोहौ स्नेहः वा भयम् वा ये अज्ञा सम्भवाः क्व च अखण्डित विज्ञान ज्ञान ऐश्वर्यः तु अखण्डितः

यत्पादसेवोर्जितयात्मविद्यया
हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।
लभन्त आत्मीयमनन्तमैश्वरं
कुतो नु मोह: परमस्य सद्गते: ॥ ३२ ॥

यत् पाद सेवा ऊर्जितया आत्म-विद्यया हिन्वन्ति अनादि आत्म विपर्यय-ग्रहम् लभन्ते आत्मीयम् अनन्तम् ऐश्वरम् कुतः नु मोहः परमस्य सत् गतेः

तं शस्‍त्रपूगै: प्रहरन्तमोजसा
शाल्वं शरै: शौरिरमोघविक्रम: ।
विद्ध्वाच्छिनद् वर्म धनु: शिरोमणिं
सौभं च शत्रोर्गदया रुरोज ह ॥ ३३ ॥

तम् शस्त्र पूगैः प्रहरन्तम् ओजसा शाल्वम् शरैः शौरिः अमोघ विक्रमः विद्ध्वा अच्छिनत् वर्म धनुः शिरः मणिम् सौभम् च शत्रोः गदया रुरोज ह

तत् कृष्णहस्तेरितया विचूर्णितं
पपात तोये गदया सहस्रधा ।
विसृज्य तद् भूतलमास्थितो गदा-
मुद्यम्य शाल्वोऽच्युतमभ्यगाद्‌द्रुतम् ॥ ३४ ॥

तत् कृष्ण-हस्त ईरितया विचूर्णितम् पपात तोये गदया सहस्रधा विसृज्य तत् भू-तलम् आस्थितः गदाम् उद्यम्य शाल्वः अच्युतम् अभ्यगात् द्रुतम्

आधावत: सगदं तस्य बाहुं
भल्ल‍ेन छित्त्वाथ रथाङ्गमद्भ‍ुतम् ।
वधाय शाल्वस्य लयार्कसन्निभं
बिभ्रद् बभौ सार्क इवोदयाचल: ॥ ३५ ॥

आधावतः स-गदम् तस्य बाहुम् भल्लेन छित्त्वा अथ रथ-अङ्गम् अद्भुतम् वधाय शाल्वस्य लय अर्क सन्निभम् बिभ्रत् बभौ स-अर्कः इव उदय अचलः

जहार तेनैव शिर: सकुण्डलं
किरीटयुक्तं पुरुमायिनो हरि: ।
वज्रेण वृत्रस्य यथा पुरन्दरो
बभूव हाहेति वचस्तदा नृणाम् ॥ ३६ ॥

जहार तेन एव शिरः स कुण्डलम् किरीट युक्तम् पुरु मायिनः हरिः वज्रेण वृत्रस्य यथा पुरन्दरः बभूव हा-हा इति वचः तदा नृणाम्

तस्मिन् निपतिते पापे सौभे च गदया हते ।
नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिता: ।
सखीनामपचितिं कुर्वन्दन्तवक्रो रुषाभ्यगात् ॥ ३७ ॥

तस्मिन् निपतिते पापे सौभे च गदया हते नेदुः दुन्दुभयः राजन् दिवि देव-गण ईरिताः सखीनाम् अपचितिम् कुर्वन् दन्तवक्रः रूषा अभ्यगात्

१०.७८

श्रीशुक उवाच
शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मति: ।
परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥ १ ॥
एक: पदाति: सङ्‌क्रुद्धो गदापाणि: प्रकम्पयन् ।
पद्‍भ्यामिमां महाराज महासत्त्वो व्यद‍ृश्यत ॥ २ ॥

श्री-शुकः उवाच शिशुपालस्य शाल्वस्य पौण्ड्रकस्य अपि दुर्मतिः पर-लोक गतानां च कुर्वन् पारोक्ष्य सौहृदम् एकः पदातिः सङ्क्रुद्धः गदा पाणिः प्रकम्पयन् पद्भ्याम् इमम् महा-राज महा सत्त्वः व्यदृश्यत

तं तथायान्तमालोक्य गदामादाय सत्वर: ।
अवप्लुत्य रथात् कृष्ण: सिन्धुं वेलेव प्रत्यधात् ॥ ३ ॥

तम् तथा आयान्तम् आलोक्य गदाम् आदाय सत्वरः अवप्लुत्य रथात् कृष्णः सिन्धुम् वेला इव प्रत्यधात्

गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मद: ।
दिष्‍ट्या दिष्‍ट्या भवानद्य मम द‍ृष्टिपथं गत: ॥ ४ ॥

गदाम् उद्यम्य कारूषः मुकुन्दम् प्राह दुर्मदः दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि पथम् गतः

त्वं मातुलेयो न: कृष्ण मित्रध्रुङ्‍मां जिघांससि ।
अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥ ५ ॥

त्वम् मातुलेयः नः कृष्ण मित्र ध्रुक् माम् जिघांससि अतः त्वाम् गदया मन्द हनिष्ये वज्र-कल्पया

तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सल: ।
बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥ ६ ॥

तर्हि आनृण्यम् उपैमि अज्ञ मित्राणाम् मित्र-वत्सलः बन्धु रूपम् अरिम् हत्वा व्याधिम् देह-चरम् यथा

एवं रूक्षैस्तुदन् वाक्यै: कृष्णं तोत्रैरिव द्विपम् ।
गदया ताडयन्मूर्ध्‍नि सिंहवद् व्यनदच्च स: ॥ ७ ॥

एवम् रूक्षैः तुदन् वाक्यैः कृष्णम् तोत्रैः इव द्विपम् गदया अताडयत् मूर्ध्नि सिंह-वत् व्यनदत् च सः

गदयाभिहतोऽप्याजौ न चचाल यदूद्वह: ।
कृष्णोऽपि तमहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ ८ ॥

गदया अभिहतः अपि आजौ न चचाल यदु-उद्वहः कृष्णः अपि तम् अहन् गुर्व्या कौमोदक्या स्तन-अन्तरे

गदानिर्भिन्नहृदय उद्वमन् रुधिरं मुखात् ।
प्रसार्य केशबाह्वङ्‍‍घ्रीन् धरण्यां न्यपतद् व्यसु: ॥ ९ ॥

गदा निर्भिन्न हृदयः उद्वमन् रुधिरम् मुखात् प्रसार्य केश बाहु अङ्घ्रीन् धरण्याम् न्यपतत् व्यसुः

तत: सूक्ष्मतरं ज्योति: कृष्णमाविशदद्भ‍ुतम् ।
पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १० ॥

ततः सूक्ष्म-तरम् ज्योतिः कृष्णम् आविशत् अद्भुतम् पश्यताम् सर्व भूतानाम् यथा चैद्य-वधे नृप

विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुत: ।
आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ॥ ११ ॥

विदूरथः तु तत् भ्राता भ्रातृ शोक परिप्लुतः आगच्छत् असि चर्माभ्याम् उच्छ्वसन् तत् जिघांसया

तस्य चापतत: कृष्णश्चक्रेण क्षुरनेमिना ।
शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥ १२ ॥

तस्य च आपततः कृष्णः चक्रेण क्षुर नेमिना शिरः जहार राज-इन्द्र स किरीटम् स कुण्डलम्

एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् ।
हत्वा दुर्विषहानन्यैरीडित: सुरमानवै: ॥ १३ ॥
मुनिभि: सिद्धगन्धर्वैर्विद्याधरमहोरगै: ।
अप्सरोभि: पितृगणैर्यक्षै: किन्नरचारणै: ॥ १४ ॥
उपगीयमानविजय: कुसुमैरभिवर्षित: ।
वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥ १५ ॥

एवम् सौभम् च शाल्वम् च दन्तवक्रम् सह अनुजम् हत्वा दुर्विषहान् अन्यैः ईडितः सुर मानवैः मुनिभिः सिद्ध गन्धर्वैः विद्याधर महा-उरगैः अप्सरोभिः पितृ-गणैः यक्षैः किन्नर-चारणैः उपगीयमान विजयः कुसुमैः अभिवर्षितः वृतः च वृष्णि-प्रवरैः विवेश अलङ्कृताम् पुरीम्

एवं योगेश्वर: कृष्णो भगवान् जगदीश्वर: ।
ईयते पशुद‍ृष्टीनां निर्जितो जयतीति स: ॥ १६ ॥

एवम् योग ईश्वरः कृष्णः भगवान् जगत् ईश्वरः ईयते पशु दृष्टीनाम् निर्जितः जयति इति सः

श्रुत्वा युद्धोद्यमं राम: कुरूणां सह पाण्डवै: ।
तीर्थाभिषेकव्याजेन मध्यस्थ: प्रययौ किल ॥ १७ ॥

श्रुत्वा युद्ध उद्यमम् रामः कुरूणाम् सह पाण्डवैः तीर्थ अभिषेक व्याजेन मध्य-स्थः प्रययौ किल

स्‍नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् ।
सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृत: ॥ १८ ॥

स्नात्वा प्रभासे सन्तर्प्य देव ऋषि पितृ मानवान् सरस्वतीम् प्रति-स्रोतम् ययौ ब्राह्मण-संवृतः

पृथूदकं बिन्दुसरस्‍त्रितकूपं सुदर्शनम् ।
विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ १९ ॥
यमुनामनु यान्येव गङ्गामनु च भारत ।
जगाम नैमिषं यत्र ऋषय: सत्रमासते ॥ २० ॥

पृथु उदकम् बिन्दु-सरः त्रित-कूपम् सुदर्शनम् विशालम् ब्रह्म-तीर्थम् च चक्रम् प्राचीम् सरस्वतीम् यमुनाम् अनु यानि एव गङ्गाम् अनु च भारत जगाम नैमिषम् यत्र ऋषयः सत्रम् आसते

तमागतमभिप्रेत्य मुनयो दीर्घसत्रिण: ।
अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥ २१ ॥

तम् आगतम् अभिप्रेत्य मुनयः दीर्घ सत्रिणः अभिनन्द्य यथा न्यायम् प्रणम्य उत्थाय च आर्चयन्

सोऽर्चित: सपरीवार: कृतासनपरिग्रह: ।
रोमहर्षणमासीनं महर्षे: शिष्यमैक्षत ॥ २२ ॥

सः अर्चितः स परीवारः कृत आसन परिग्रहः रोमहर्षणम् आसीनम् महा-ऋषेः शिष्यम् ऐक्षत

अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम् ।
अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधव: ॥ २३ ॥

अप्रत्युत्थायिनम् सूतम् अकृत प्रह्वण अञ्जलिम् अध्यासीनम् च तान् विप्रान् चुकोप उद्वीक्ष्य माधवः

यस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमज: ।
धर्मपालांस्तथैवास्मान् वधमर्हति दुर्मति: ॥ २४ ॥

यस्मात् असौ इमान् विप्रान् अध्यास्ते प्रतिलोम-जः धर्म पालान् तथा एव अस्मान् वधम् अर्हति दुर्मतिः

ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च ।
सेतिहासपुराणानि धर्मशास्‍त्राणि सर्वश: ॥ २५ ॥
अदान्तस्याविनीतस्य वृथा पण्डितमानिन: ।
न गुणाय भवन्ति स्म नटस्येवाजितात्मन: ॥ २६ ॥

ऋषेः भगवतः भूत्वा शिष्यः अधीत्य बहूनि च स इतिहास पुराणानि धर्म-शास्त्राणि सर्वशः अदान्तस्य अविनीतस्य वृथा पण्डित मानिनः न गुणाय भवन्ति स्म नटस्य इव अजित आत्मनः

एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृत: ।
वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिका: ॥ २७ ॥

एतत् अर्थः हि लोके अस्मिन् अवतारः मया कृतः वध्याः मे धर्म-ध्वजिनः ते हि पातकिनः अधिकाः

एतावदुक्त्वा भगवान् निवृत्तोऽसद्वधादपि ।
भावित्वात् तं कुशाग्रेण करस्थेनाहनत् प्रभु: ॥ २८ ॥

एतावत् उक्त्वा भगवान् निवृत्तः असत् वधात् अपि भावित्वात् तम् कुश अग्रेण कर स्थेन अहनत् प्रभुः

हाहेति वादिन: सर्वे मुनय: खिन्नमानसा: ।
ऊचु: सङ्कर्षणं देवमधर्मस्ते कृत: प्रभो ॥ २९ ॥

हा-हा इति वादिनः सर्वे मुनयः खिन्न मानसाः ऊचुः सङ्कर्षणम् देवम् अधर्मः ते कृतः प्रभो

अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन ।
आयुश्चात्माक्लमं तावद् यावत् सत्रं समाप्यते ॥ ३० ॥

अस्य ब्रह्म-आसनम् दत्तम् अस्माभिः यदु-नन्दन आयुः च आत्म अक्लमम् तावत् यावत् सत्रम् समाप्यते

अजानतैवाचरितस्त्वया ब्रह्मवधो यथा ।
योगेश्वरस्य भवतो नाम्नायोऽपि नियामक: ॥ ३१ ॥
यद्येतद् ब्रह्महत्याया: पावनं लोकपावन ।
चरिष्यति भवाँल्ल‍ोकसङ्ग्रहोऽनन्यचोदित: ॥ ३२ ॥

अजानता एव आचरितः त्वया ब्रह्म वधः यथा योग ईश्वरस्य भवतः न आम्नायः अपि नियामकः यदि एतत् ब्रह्म हत्यायाः पावनम् लोक पावन चरिष्यति भवान् लोक-सङ्ग्रहः अनन्य चोदितः

श्रीभगवानुवाच
चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया ।
नियम: प्रथमे कल्पे यावान् स तु विधीयताम् ॥ ३३ ॥

श्री-भगवान् उवाच चरिष्ये वध निर्वेशम् लोक अनुग्रह काम्यया नियमः प्रथमे कल्पे यावान् सः तु विधीयताम्

दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रियमेव च ।
आशासितं यत्तद्ब्रूते साधये योगमायया ॥ ३४ ॥

दीर्घम् आयुः बत एतस्य सत्त्वम् इन्द्रियम् एव च आशासितम् यत् तत् ब्रूते साधये योग-मायया

ऋषय ऊचु:
अस्‍त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।
यथा भवेद्वच: सत्यं तथा राम विधीयताम् ॥ ३५ ॥

ऋषयः ऊचुः अस्त्रस्य तव वीर्यस्य मृत्योः अस्माकम् एव च यथा भवेत् वचः सत्यम् तथा राम विधीयताम्

श्रीभगवानुवाच
आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् ।
तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् ॥ ३६ ॥

श्री-भगवान् उवाच आत्मा वै पुत्रः उत्पन्नः इति वेद-अनुशासनम् तस्मात् अस्य भवेत् वक्ता आयुः इन्द्रिय सत्त्व वान्

किं व: कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ ।
अजानतस्त्वपचितिं यथा मे चिन्त्यतां बुधा: ॥ ३७ ॥

किम् वः कामः मुनि श्रेष्ठाः ब्रूत अहम् करवाणि अथ अजानतः तु अपचितिम् यथा मे चिन्त्यताम् बुधाः

ऋषय ऊचु:
इल्वलस्य सुतो घोरो बल्वलो नाम दानव: ।
स दूषयति न: सत्रमेत्य पर्वणि पर्वणि ॥ ३८ ॥

ऋषयः ऊचुः इल्वलस्य सुतः घोरः बल्वलः नाम दानवः सः दूषयति नः सत्रम् एत्य पर्वणि पर्वणि

तं पापं जहि दाशार्ह तन्न: शुश्रूषणं परम् ।
पूयशोणितविन् मूत्रसुरामांसाभिवर्षिणम् ॥ ३९ ॥

तम् पापम् जहि दाशार्ह तत् नः शुश्रूषणम् परम् पूय शोणित वित् मूत्र सुरा मांस अभिवर्षिणम्

ततश्च भारतं वर्षं परीत्य सुसमाहित: ।
चरित्वा द्वादश मासांस्तीर्थस्‍नायी विशुध्यसि ॥ ४० ॥

ततः च भारतम् वर्षम् परीत्य सु-समाहितः चरित्वा द्वादश मासान् तीर्थ स्नायी विशुध्यसि

१०.७९

श्रीशुक उवाच
तत: पर्वण्युपावृत्ते प्रचण्ड: पांशुवर्षण: ।
भीमो वायुरभूद् राजन्पूयगन्धस्तु सर्वश: ॥ १ ॥

श्री-शुकः उवाच ततः पर्वणि उपावृत्ते प्रचण्डः पांशु वर्षणः भीमः वायुः अभूत् राजन् पूय गन्धः तु सर्वशः

ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् ।
अभवद् यज्ञशालायां सोऽन्वद‍ृश्यत शूलधृक् ॥ २ ॥

ततः अमेध्य मयम् वर्षम् बल्वलेन विनिर्मितम् अभवत् यज्ञ शालायाम् सः अन्वदृश्यत शूल धृक्

तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् ।
तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ॥ ३ ॥
सस्मार मूषलं राम: परसैन्यविदारणम् ।
हलं च दैत्यदमनं ते तूर्णमुपतस्थतु: ॥ ४ ॥

तम् विलोक्य बृहत् कायम् भिन्न अञ्जन चय उपमम् तप्त ताम्र शिखा श्मश्रुम् दंष्ट्रा उग्र भ्रु कुटी मुखम् सस्मार मूषलम् रामः पर सैन्य विदारणम् हलम् च दैत्य दमनम् ते तूर्णम् उपतस्थतुः

तमाकृष्य हलाग्रेण बल्वलं गगनेचरम् ।
मूषलेनाहनत्क्रुद्धो मूर्ध्‍नि ब्रह्मद्रुहं बल: ॥ ५ ॥

तम् आकृष्य हल अग्रेण बल्वलम् गगने चरम् मूषलेन अहनत् क्रुद्धः मूर्ध्नि ब्रह्म द्रुहम् बलः

सोऽपतद्भ‍ुवि निर्भिन्नललाटोऽसृक् समुत्सृजन् ।
मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुण: ॥ ६ ॥

सः अपतत् भुवि निर्भिन्न ललाटः असृक् समुत्सृजन् मुञ्चन् आर्त स्वरम् शैलः यथा वज्र हतः अरुणः

संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिष: ।
अभ्यषिञ्चन् महाभागा वृत्रघ्नं विबुधा यथा ॥ ७ ॥

संस्तुत्य मुनयः रामम् प्रयुज्य अवितथ आशिषः अभ्यषिञ्चन् महा-भागाः वृत्र घ्नम् विबुधाः यथा

वैजयन्तीं ददुर्मालां श्रीधामाम्‍लानपङ्कजाम् ।
रामाय वाससी दिव्ये दिव्यान्याभरणानि च ॥ ८ ॥

वैजयन्तीम् ददुः मालाम् श्री धाम अम्लान पङ्कजाम् रामाय वाससी दिव्ये दिव्यानि आभरणानि च

अथ तैरभ्यनुज्ञात: कौशिकीमेत्य ब्राह्मणै: ।
स्‍नात्वा सरोवरमगाद् यत: सरयूरास्रवत् ॥ ९ ॥

अथ तैः अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः स्नात्वा सरोवरम् अगात् यतः सरयूः आस्रवत्

अनुस्रोतेन सरयूं प्रयागमुपगम्य स: ।
स्‍नात्वा सन्तर्प्य देवादीन्जगाम पुलहाश्रमम् ॥ १० ॥

अनु स्रोतेन सरयूम् प्रयागम् उपगम्य सः स्नात्वा सन्तर्प्य देव-आदीन् जगाम पुलह-आश्रमम्

गोमतीं गण्डकीं स्‍नात्वा विपाशां शोण आप्लुत: ।
गयां गत्वा पितृनिष्ट्वा गङ्गासागरसङ्गमे ॥ ११ ॥
उपस्पृश्य महेन्द्राद्रौ रामं द‍ृष्ट्वाभिवाद्य च ।
सप्तगोदावरीं वेणां पम्पां भीमरथीं तत: ॥ १२ ॥
स्कन्दं द‍ृष्ट्वा ययौ राम: श्रीशैलं गिरिशालयम् ।
द्रविडेषु महापुण्यं द‍ृष्ट्वाद्रिं वेङ्कटं प्रभु: ॥ १३ ॥
कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् ।
श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरि: ॥ १४ ॥
ऋषभाद्रिं हरे: क्षेत्रं दक्षिणां मथुरां तथा ।
सामुद्रं सेतुमगमत्महापातकनाशनम् ॥ १५ ॥

गोमतीम् गण्डकीम् स्नात्वा विपाशाम् शोणे आप्लुतः गयाम् गत्वा पितॄन् इष्ट्वा गङ्गा सागर सङ्गमे उपस्पृश्य महा-इन्द्र-अद्रौ रामम् दृष्ट्वा अभिवाद्य च सप्त-गोदावरीम् वेणाम् पम्पाम् भीमरथीम् ततः स्कन्दम् दृष्ट्वा ययौ रामः श्री-शैलम् गिरि-श आलयम् द्रविडेषु महा पुण्यम् दृष्ट्वा अद्रिम् वेङ्कटम् प्रभुः काम-कोष्णीम् पुरीम् काञ्चीम् कावेरीम् च सरित् वराम् श्री-रङ्ग-आख्यम् महा-पुण्यम् यत्र सन्निहितः हरिः ऋषभ-अद्रिम् हरेः क्षेत्रम् दक्षिणाम् मथुराम् तथा सामुद्रम् सेतुम् अगमत् महा पातक नाशनम्

तत्रायुतमदाद् धेनूर्ब्राह्मणेभ्यो हलायुध: ।
कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ १६ ॥
तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च ।
योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् ।
दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श स: ॥ १७ ॥

तत्र अयुतम् अदात् धेनूः ब्रह्मणेभ्यः हल-आयुधः कृतमालाम् ताम्रपर्णीम् मलयम् च कुल-अचलम् तत्र अगस्त्यम् समासीनम् नमस्कृत्य अभिवाद्य च योजितः तेन च आशीर्भिः अनुज्ञातः गतः अर्णवम् दक्षिणम् तत्र कन्या-आख्याम् दुर्गाम् देवीम् ददर्श सः

तत: फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् ।
विष्णु: सन्निहितो यत्र स्‍नात्वास्पर्शद् गवायुतम् ॥ १८ ॥

ततः फाल्गुनम् आसाद्य पञ्च-अप्सरसम् उत्तमम् विष्णुः सन्निहितः यत्र स्नात्वा अस्पर्शत् गव अयुतम्

ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्तकान् ।
गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटे: ॥ १९ ॥
आर्यां द्वैपायनीं द‍ृष्ट्वा शूर्पारकमगाद् बल: ।
तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् ॥ २० ॥
प्रविश्य रेवामगमद् यत्र माहिष्मती पुरी ।
मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् ॥ २१ ॥

ततः अभिव्रज्य भगवान् केरलान् तु त्रिगर्तकान् गोकर्ण-आख्यम् शिव-क्षेत्रम् सान्निध्यम् यत्र धूर्जटेः आर्याम् द्वैप अयनीम् दृष्ट्वा शूर्पारकम् अगात् बलः तापीम् पयोष्णीम् निर्विन्ध्याम् उपस्पृश्य अथ दण्डकम् प्रविश्य रेवाम् अगमत् यत्र माहिष्मती पुरी मनु-तीर्थम् उपस्पृश्य प्रभासम् पुनः आगमत्

श्रुत्वा द्विजै: कथ्यमानं कुरुपाण्डवसंयुगे ।
सर्वराजन्यनिधनं भारं मेने हृतं भुव: ॥ २२ ॥

श्रुत्वा द्विजैः कथ्यमानम् कुरु-पाण्डव संयुगे सर्व राजन्य निधनम् भारम् मेने हृतम् भुवः

स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे ।
वारयिष्यन् विनशनं जगाम यदुनन्दन: ॥ २३ ॥

सः भीम-दुर्योधनयोः गदाभ्याम् युध्यतोः मृधे वारयिष्यन् विनशनम् जगाम यदु नन्दनः

युधिष्ठिरस्तु तं द‍ृष्ट्वा यमौ कृष्णार्जुनावपि ।
अभिवाद्याभवंस्तुष्णीं किं विवक्षुरिहागत: ॥ २४ ॥

युधिष्ठिरः तु तम् दृष्ट्वा यमौ कृष्ण-अर्जुनौ अपि अभिवाद्य अभवन् तुष्णीम् किम् विवक्षुः इह आगतः

गदापाणी उभौ द‍ृष्ट्वा संरब्धौ विजयैषिणौ ।
मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् ॥ २५ ॥

गदा पाणी उभौ दृष्ट्वा संरब्धौ विजय एषिणौ मण्डलानि विचित्राणि चरन्तौ इदम् अब्रवीत्

युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर ।
एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥ २६ ॥

युवाम् तुल्य बलौ वीरौ हे राजन् हे वृकोदर एकम् प्राण अधिकम् मन्ये उत एकम् शिक्षया अधिकम्

तस्मादेकतरस्येह युवयो: समवीर्ययो: ।
न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रण: ॥ २७ ॥

तस्मात् एकतरस्य इह युवयोः सम वीर्ययोः न लक्ष्यते जयः अन्यः वा विरमतु अफलः रणः

न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् ।
अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च ॥ २८ ॥

न तत् वाक्यम् जगृहतुः बद्ध वैरौ नृप अर्थ-वत् अनुस्मरन्तौ अन्योन्यम् दुरुक्तम् दुष्कृतानि च

दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ ।
उग्रसेनादिभि: प्रीतैर्ज्ञातिभि: समुपागत: ॥ २९ ॥

दिष्टम् तत् अनुमन्वानः रामः द्वारवतीम् ययौ उग्रसेन-आदिभिः प्रीतैः ज्ञातिभिः समुपागतः

तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन् मुदा ।
क्रत्वङ्गं क्रतुभि: सर्वैर्निवृत्ताखिलविग्रहम् ॥ ३० ॥

तम् पुनः नैमिषम् प्राप्तम् ऋषयः अयाजयन् मुदा क्रतु अङ्गम् क्रतुभिः सर्वैः निवृत्त अखिल विग्रहम्

तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभु: ।
येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदु: ॥ ३१ ॥

तेभ्यः विशुद्धम् विज्ञानम् भगवान् व्यतरत् विभुः येन एव आत्मनि अदः विश्वम् आत्मानम् विश्व-गम् विदुः

स्वपत्यावभृथस्‍नातो ज्ञातिबन्धुसुहृद् वृत: ।
रेजे स्वज्योत्स्‍नयेवेन्दु: सुवासा: सुष्ठ्वलङ्कृत: ॥ ३२ ॥

स्व पत्या अवभृथ स्नातः ज्ञाति बन्धु सुहृत् वृतः रेजे स्व-ज्योत्स्नया इव इन्दुः सु वासाः सुष्ठु अलङ्कृतः

ईद‍ृग्विधान्यसङ्ख्यानि बलस्य बलशालिन: ।
अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ॥ ३३ ॥

ईदृक्-विधानि असङ्ख्यानि बलस्य बल-शालिनः अनन्तस्य अप्रमेयस्य माया मर्त्यस्य सन्ति हि

योऽनुस्मरेत रामस्य कर्माण्यद्भ‍ुतकर्मण: ।
सायं प्रातरनन्तस्य विष्णो: स दयितो भवेत् ॥ ३४ ॥

यः अनुस्मरेत रामस्य कर्माणि अद्भुत कर्मणः सायम् प्रातः अनन्तस्य विष्णोः सः दयितः भवेत्

१०.८०

श्रीराजोवाच
भगवन् यानि चान्यानि मुकुन्दस्य महात्मन: ।
वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ॥ १ ॥

श्री-राजा उवाच भगवन् यानि च अन्यानि मुकुन्दस्य महा-आत्मनः वीर्याणि अनन्त वीर्यस्य श्रोतुम् इच्छामि हे प्रभो

को नु श्रुत्वासकृद् ब्रह्मन्नुत्तम:श्लोकसत्कथा: ।
विरमेत विशेषज्ञो विषण्ण: काममार्गणै: ॥ २ ॥

कः नु श्रुत्वा असकृत् ब्रह्मन् उत्तमः-श्लोक सत् कथाः विरमेत विशेष ज्ञः विषण्णः काम मार्गणैः

सा वाग् यया तस्य गुणान् गृणीते
करौ च तत्कर्मकरौ मनश्च ।
स्मरेद् वसन्तं स्थिरजङ्गमेषु
श‍ृणोति तत्पुण्यकथा: स कर्ण: ॥ ३ ॥

सा वाक् यया तस्य गुणान् गृणीते करौ च तत् कर्म करौ मनः च स्मरेत् वसन्तम् स्थिर जङ्गमेषु शृणोति तत् पुण्य कथाः सः कर्णः

शिरस्तु तस्योभयलिङ्गमान-
मेत्तदेव यत् पश्यति तद्धि चक्षु: ।
अङ्गानि विष्णोरथ तज्जनानां
पादोदकं यानि भजन्ति नित्यम् ॥ ४ ॥

शिरः तु तस्य उभय लिङ्गम् आनमेत् तत् एव यत् पश्यति तत् हि चक्षुः अङ्गानि विष्णोः अथ तत् जनानाम् पाद-उदकम् यानि भजन्ति नित्यम्

सूत उवाच
विष्णुरातेन सम्पृष्टो भगवान् बादरायणि: ।
वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥

सूतः उवाच विष्णु-रातेन सम्पृष्टः भगवान् बादरायणिः वासुदेवे भगवति निमग्न हृदयः अब्रवीत्

श्रीशुक उवाच
कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तम: ।
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रिय: ॥ ६ ॥

श्री-शुकः उवाच कृष्णस्य आसीत् सखा कश्चित् ब्राह्मणः ब्रह्म वित्-तमः विरक्तः इन्द्रिय-अर्थेषु प्रशान्त आत्मा जित इन्द्रियः

यद‍ृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।
तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७ ॥

यदृच्छया उपपन्नेन वर्तमानः गृह-आश्रमी तस्य भार्या कु-चैलस्य क्षुत् क्षामा च तथा-विधा

पतिव्रता पतिं प्राह म्‍लायता वदनेन सा ।
दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ ८ ॥

पति-व्रता पतिम् प्राह म्लायता वदनेन सा दरिद्रम् सीदमाना वै वेपमाना अभिगम्य च

ननु ब्रह्मन् भगवत: सखा साक्षाच्छ्रिय: पति: ।
ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभ: ॥ ९ ॥

ननु ब्रह्मन् भगवतः सखा साक्षात् श्रियः पतिः ब्रह्मण्यः च शरण्यः च भगवान् सात्वत ऋषभः

तमुपैहि महाभाग साधूनां च परायणम् ।
दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १० ॥

तम् उपैहि महा-भग साधूनाम् च पर-अयणम् दास्यति द्रविणम् भूरि सीदते ते कुटुम्बिने

आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वर: ।
स्मरत: पादकमलमात्मानमपि यच्छति ।
किं न्वर्थकामान् भजतो नात्यभीष्टान् जगद्गुरु: ॥ ११ ॥

आस्ते अधुना द्वारवत्याम् भोज-वृष्णि-अन्धक ईश्वरः स्मरतः पाद-कमलम् आत्मनाम् अपि यच्छति किम् नु अर्थ कामान् भजतः न अति अभीष्टान् जगत् गुरुः

स एवं भार्यया विप्रो बहुश: प्रार्थितो मुहु: ।
अयं हि परमो लाभ उत्तम:श्लोकदर्शनम् ॥ १२ ॥
इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।
अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ १३ ॥

सः एवम् भार्यया विप्रः बहुशः प्रार्थितः मुहुः अयम् हि परमः लाभः उत्तमः-श्लोक दर्शनम् इति सञ्चिन्त्य मनसा गमनाय मतिम् दधे अपि अस्ति उपायनम् किञ्चित् गृहे कल्याणि दीयताम्

याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् ।
चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४ ॥

याचित्वा चतुरः मुष्टीन् विप्रान् पृथुक-तण्डुलान् चैल खण्डेन तान् बद्ध्वा भर्त्रे प्रादात् उपायनम्

स तानादाय विप्राग्र्‍य: प्रययौ द्वारकां किल ।
कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५ ॥

सः तान् आदाय विप्र-अग्र्यः प्रययौ द्वारकाम् किल कृष्ण-सन्दर्शनम् मह्यम् कथम् स्यात् इति चिन्तयन्

त्रीणि गुल्मान्यतीयाय तिस्र: कक्षाश्च सद्विज: ।
विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६ ॥
गृहं द्वय‍ष्टसहस्राणां महिषीणां हरेर्द्विज: ।
विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ १७ ॥

त्रीणि गुल्मानि अतीयाय तिस्रः कक्षाः च स-द्विजः विप्रः अगम्य अन्धक-वृष्णीनाम् गृहेषु अच्युत धर्मिणाम् गृहम् द्वि अष्ट सहस्राणाम् महिषीणाम् हरेः द्विजः विवेश एकतमम् श्री-मत् ब्रह्म-आनन्दम् गतः यथा

तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थित: ।
सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८ ॥

तम् विलोक्य अच्युतः दूरात् प्रिया पर्यङ्कम् आस्थितः सहसा उत्थाय च अभ्येत्य दोर्भ्याम् पर्यग्रहीत् मुदा

सख्यु: प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृत: ।
प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षण: ॥ १९ ॥

सख्युः प्रियस्य विप्र-ऋषेः अङ्ग सङ्ग अति निर्वृतः प्रीतः व्यमुञ्चत् अप् बिन्दून् नेत्राभ्याम् पुष्कर-ईक्षणः

अथोपवेश्य पर्यङ्के स्वयं सख्यु: समर्हणम् ।
उपहृत्यावनिज्यास्य पादौ पादावनेजनी: ॥ २० ॥
अग्रहीच्छिरसा राजन् भगवाँल्ल‍ोकपावन: ।
व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कुमै: ॥ २१ ॥
धूपै: सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा ।
अर्चित्वावेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२ ॥

अथ उपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् उपहृत्य अवनिज्य अस्य पादौ पाद-अवनेजनीः अग्रहीत् शिरसा राजन् भगवान् लोक पावनः व्यलिम्पत् दिव्य गन्धेन चन्दन अगुरु कुङ्कुमैः धूपैः सुरभिभिः मित्रम् प्रदीप अवलिभिः मुदा अर्चित्वा आवेद्य ताम्बूलम् गाम् च सु-आगतम् अब्रवीत्

कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम् ।
देवी पर्यचरत् साक्षाच्चामरव्यजनेन वै ॥ २३ ॥

कु चैलम् मलिनम् क्षामम् द्विजम् धमनि-सन्ततम् देवी पर्यचरत् साक्षात् चामर व्यजनेन वै

अन्त:पुरजनो द‍ृष्ट्वा कृष्णेनामलकीर्तिना ।
विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४ ॥

अन्तः-पुर जनः दृष्ट्वा कृष्णेन अमल कीर्तिना विस्मितः अभूत् अति प्रीत्या अवधूतम् सभाजितम्

किमनेन कृतं पुण्यमवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५ ॥
योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृत: ।
पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६ ॥

किम् अनेन कृतम् पुण्यम् अवधूतेन भिक्षुणा श्रिया हीनेन लोके अस्मिन् गर्हितेन अधमेन च यः असौ त्रि लोक गुरुणा श्री निवासेन सम्भृतः पर्यङ्क स्थाम् श्रीयम् हित्वा परिष्वक्तः अग्र-जः यथा

कथयां चक्रतुर्गाथा: पूर्वा गुरुकुले सतो: ।
आत्मनोर्ललिता राजन् करौ गृह्य परस्परम् ॥ २७ ॥

कथयाम् चक्रतुः गाथाः पूर्वाः गुरुकुले सतोः आत्मनोः ललिताः राजन् करौ गृह्य परस्परम्

श्रीभगवानुवाच
अपि ब्रह्मन् गुरुकुलाद् भवता लब्धदक्षिणात् ।
समावृत्तेन धर्मज्ञ भार्योढा सद‍ृशी न वा ॥ २८ ॥

श्री-भगवान् उवाच अपि ब्रह्मन् गुरुकुलात् भवता लब्ध दक्षिणात् समावृत्तेन धर्म ज्ञ भार्या ऊढा सदृशी न वा

प्रायो गृहेषु ते चित्तमकामविहितं तथा ।
नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९ ॥

प्रायः गृहेषु ते चित्तम् अकाम-विहितम् तथा न एव अति प्रीयसे विद्वन् धनेषु विदितम् हि मे

केचित् कुर्वन्ति कर्माणि कामैरहतचेतस: ।
त्यजन्त: प्रकृतीर्दैवीर्यथाहं लोकसङ्ग्रहम् ॥ ३० ॥

केचित् कुर्वन्ति कर्माणि कामैः अहत चेतसः त्ययन्तः प्रकृतीः दैवीः यथा अहम् लोक-सङ्ग्रहम्

कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नौ यत: ।
द्विजो विज्ञाय विज्ञेयं तमस: पारमश्न‍ुते ॥ ३१ ॥

कच्चित् गुरुकुले वासम् ब्रह्मन् स्मरसि नौ यतः द्विजः विज्ञाय विज्ञेयम् तमसः पारम् अश्नुते

स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भव: ।
आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरु: ॥ ३२ ॥

सः वै सत् कर्मणाम् साक्षात् द्वि-जातेः इह सम्भवः आद्यः अङ्ग यत्र आश्रमिणाम् यथा अहम् ज्ञान दः गुरुः

नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह ।
ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३ ॥

ननु अर्थ कोविदाः ब्रह्मन् वर्णाश्रम-वताम् इह ये मया गुरुणा वाचा तरन्ति अञ्जः भव अर्णवम्

नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।
तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४ ॥

न अहम् इज्या प्रजातिभ्याम् तपसा उपशमेन वा तुष्येयम् सर्व भूत आत्मा गुरु शुश्रूषया यथा

अपि न: स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ ।
गुरुदारैश्चोदितानामिन्धनानयने क्व‍‍चित् ॥ ३५ ॥
प्रविष्टानां महारण्यमपर्तौ सुमहद् द्विज ।
वातवर्षमभूत्तीव्रं निष्ठुरा: स्तनयित्नव: ॥ ३६ ॥

अपि नः स्मर्यते ब्रह्मन् वृत्तम् निवसताम् गुरौ गुरु दारैः चोदितानाम् इन्धन अनयने क्वचित् प्रविष्टानाम् महा-अरण्यम् अप-ऋतौ सु-महत् द्विज वात वर्षम् अभूत् तीव्रम् निष्ठुराः स्तनयित्नवः

सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिश: ।
निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७ ॥

सूर्यः च अस्तम् गतः तावत् तमसा च आवृताः दिशः निम्नम् कूलम् जल-मयम् न प्राज्ञायत किञ्चन

वयं भृशं तत्र महानिलाम्बुभि-
र्निहन्यमाना महुरम्बुसम्प्लवे ।
दिशोऽविदन्तोऽथ परस्परं वने
गृहीतहस्ता: परिबभ्रिमातुरा: ॥ ३८ ॥

वयम् भृशम् तत्र महा अनिल अम्बुभिः निहन्यमानाः मुहुः अम्बु-सम्प्लवे दिशः अविदन्तः अथ परस्परम् वने गृहीत हस्ताः परिबभ्रिम आतुराः

एतद् विदित्वा उदिते रवौ सान्दीपनिर्गुरु: ।
अन्वेषमाणो न: शिष्यानाचार्योऽपश्यदातुरान् ॥ ३९ ॥

एतत् विदित्वा उदिते रवौ सान्दीपनिः गुरुः अन्वेषमाणः नः शिष्यान् आचार्यः अपश्यत् आतुरान्

अहो हे पुत्रका यूयमस्मदर्थेऽतिदु:खिता: ।
आत्मा वै प्राणिनां प्रेष्ठस्तमनाद‍ृत्य मत्परा: ॥ ४० ॥

अहो हे पुत्रकः यूयम् अस्मत् अर्थे अति दुःखिताः आत्मा वै प्राणिनाम् प्रेष्ठः तम् अनादृत्य मत् पराः

एतदेव हि सच्छिष्यै: कर्तव्यं गुरुनिष्कृतम् ।
यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१ ॥

एतत् एव हि सत् शिष्यैः कर्तव्यम् गुरु निष्कृतम् यत् वै विशुद्ध भावेन सर्व अर्थ आत्मा अर्पणम् गुरौ

तुष्टोऽहं भो द्विजश्रेष्ठा: सत्या: सन्तु मनोरथा: ।
छन्दांस्ययातयामानि भवन्‍त्‍विह परत्र च ॥ ४२ ॥

तुष्टः अहम् भो द्विज श्रेष्ठाः सत्याः सन्तु मनः-रथाः छन्दांसि अयात-यामानि भवन्तु इह परत्र च

इत्थंविधान्यनेकानि वसतां गुरुवेश्मनि ।
गुरोरनुग्रहेणैव पुमान् पूर्ण: प्रशान्तये ॥ ४३ ॥

इत्थम्-विधानि अनेकानि वसताम् गुरु वेश्मनि गुरोः अनुग्रहेण एव पुमान् पूर्णः प्रशान्तये

श्रीब्राह्मण उवाच
किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो ।
भवता सत्यकामेन येषां वासो गुरोरभूत् ॥ ४४ ॥

श्री-ब्राह्मणः उवाच किम् अस्माभिः अनिर्वृत्तम् देव-देव जगत् गुरो भवता सत्य कामेन येषाम् वासः गुरोः अभूत्

यस्यच्छन्दोमयं ब्रह्म देह आवपनं विभो ।
श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५ ॥

यस्य छन्दः मयम् ब्रह्म देहे आवपनम् विभो श्रेयसाम् तस्य गुरुषु वासः अत्यन्त विडम्बनम्

१०.८१

श्रीशुक उवाच
स इत्थं द्विजमुख्येन सह सङ्कथयन् हरि: ।
सर्वभूतमनोऽभिज्ञ: स्मयमान उवाच तम् ॥ १ ॥
ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् ।
प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गति: ॥ २ ॥

श्री-शुकः उवाच सः इत्थम् द्विज मुख्येन सह सङ्कथयन् हरिः सर्व भूत मनः अभिज्ञः स्मयमानः उवाच तम् ब्रह्मण्यः ब्राह्मणम् कृष्णः भगवान् प्रहसन् प्रियम् प्रेम्णा निरीक्षणेन एव प्रेक्षन् खलु सताम् गतिः

श्रीभगवानुवाच
किमुपायनमानीतं ब्रह्मन् मे भवता गृहात् ।
अण्वप्युपाहृतं भक्तै: प्रेम्णा भूर्येव मे भवेत् ।
भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ ३ ॥

श्री-भगवान् उवाच किम् उपायनम् आनीतम् ब्रह्मन् मे भवता गृहात् अणु अपि उपाहृतम् भक्तैः प्रेम्णा भूरि एव मे भवेत् भूरि अपि अभक्त उपहृतम् न मे तोषाय कल्पते

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्न‍ामि प्रयतात्मन: ॥ ४ ॥

पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति तत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत-आत्मनः

इत्युक्तोऽपि द्वियस्तस्मै व्रीडित: पतये श्रिय: ।
पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्‍मुख: ॥ ५ ॥

इति उक्तः अपि द्विजः तस्मै व्रीडितः पतये श्रियः पृथुक प्रसृतिम् राजन् न प्रायच्छत् अवाक् मुखः

सर्वभूतात्मद‍ृक् साक्षात् तस्यागमनकारणम् ।
विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥ ६ ॥
पत्न्‍या: पतिव्रतायास्तु सखा प्रियचिकीर्षया ।
प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभा: ॥ ७ ॥

सर्व भूत आत्म दृक् साक्षात् तस्य आगमन कारणम् विज्ञाय अचिन्तयत् न अयम् श्री कामः मा अभजत् पुरा पत्न्याः पति व्रतायाः तु सखा प्रिय चिकीर्षया प्राप्तः माम् अस्य दास्यामि सम्पदः अमर्त्य दुर्लभाः

इत्थं विचिन्त्य वसनाच्चीरबद्धान्द्विजन्मन: ।
स्वयं जहार किमिदमिति पृथुकतण्डुलान् ॥ ८ ॥

इत्थम् विचिन्त्य वसनात् चीर बद्धान् द्वि-जन्मनः स्वयम् जहार किम् इदम् इति पृथुक-तण्डुलान्

नन्वेतदुपनीतं मे परमप्रीणनं सखे ।
तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुला: ॥ ९ ॥

ननु एतत् उपनीतम् मे परम प्रीणनम् सखे तर्पयन्ति अङ्ग माम् विश्वम् एते पृठुक-तण्डुलाः

इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे ।
तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिन: ॥ १० ॥

इति मुष्टिम् सकृत् जग्ध्वा द्वितीयम् जग्धुम् आददे तावत् श्रीः जगृहे हस्तम् तत् परा परमे-स्थिनः

एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये ।
अस्मिन्लोकेऽथवामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११ ॥

एतावता अलम् विश्व आत्मन् सर्व सम्पत् समृद्धये अस्मिन् लोके अथ वा अमुष्मिन् पुंसः त्वत् तोष कारणम्

ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे ।
भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ १२ ॥

ब्राह्मणः ताम् तु रजनीम् उषित्वा अच्युत मन्दिरे भुक्त्वा पीत्वा सुखम् मेने आत्मानम् स्वः गतम् यथा

श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दित: ।
जगाम स्वालयं तात पथ्यनुव्रज्य नन्दित: ॥ १३ ॥

श्वः-भूते विश्व भावेन स्व सुखेन अभिवन्दितः जगाम स्व आलयम् तात पथि अनुव्रज्य नन्दितः

स चालब्ध्वा धनं कृष्णान्न तु याचितवान्स्वयम् ।
स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृत: ॥ १४ ॥

सः च अलब्ध्वा धनम् कृष्णात् न तु याचितवान् स्वयम् स्व गृहान् व्रीडितः अगच्छत् महत् दर्शन निर्वृतः

अहो ब्रह्मण्यदेवस्य द‍ृष्टा ब्रह्मण्यता मया ।
यद् दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ १५ ॥

अहो ब्रह्मण्य देवस्य दृष्ट ब्रह्मण्यता मया यत् दरिद्र-तमः लक्ष्मीम् आश्लिष्टः बिभ्रता उरसि

क्व‍ाहं दरिद्र: पापीयान् क्व‍ कृष्ण: श्रीनिकेतन: ।
ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भित: ॥ १६ ॥

क्व अहम् दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः ब्रह्म-बन्धुः इति स्म अहम् बाहुभ्याम् परिरम्भितः

निवासित: प्रियाजुष्टे पर्यङ्के भ्रातरो यथा ।
महिष्या वीजित: श्रान्तो बालव्यजनहस्तया ॥ १७ ॥

निवासितः प्रिया जुष्टे पर्यङ्के भ्रातरः यथा महिष्या वीजितः श्रान्तः बाल व्यजन हस्तया

शुश्रूषया परमया पादसंवाहनादिभि: ।
पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८ ॥

शुश्रूषया परमया पाद संवाहन आदिभिः पूजितः देव-देवेन विप्र-देवेन देव वत्

स्वर्गापवर्गयो: पुंसां रसायां भुवि सम्पदाम् ।
सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९ ॥

स्वर्ग अपवर्गयोः पुंसाम् रसायाम् भुवि सम्पदाम् सर्वासाम् अपि सिद्धीनाम् मूलम् तत् चरण अर्चनम्

अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।
इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ २० ॥

अधनः अयम् धनम् प्राप्य माद्यन् उच्चैः न माम् स्मरेत् इति कारुणिकः नूनम् धनम् मे अभूरि न आददात्

इति तच्चिन्तयन्नन्त: प्राप्तो निजगृहान्तिकम् ।
सूर्यानलेन्दुसङ्काशैर्विमानै: सर्वतो वृतम् ॥ २१ ॥
विचित्रोपवनोद्यानै: कूजद्‌द्विजकुलाकुलै: ।
प्रोत्फुल्ल‍कमुदाम्भोजकह्लारोत्पलवारिभि: ॥ २२ ॥
जुष्टं स्वलङ्कृतै: पुम्भि: स्‍त्रीभिश्च हरिणाक्षिभि: ।
किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३ ॥

इति तत् चिन्तयन् अन्तः प्राप्तः निज गृह अन्तिकम् सूर्य अनल इन्दु सङ्काशैः विमानैः सर्वतः वृतम् विचित्र उपवन उद्यानैः कूजत् द्विज कुल आकुलैः प्रोत्फुल्ल कुमुद अम्भोज कह्लार उत्पल वारिभिः जुष्टम् सु अलङ्कृतैः पुम्भिः स्त्रीभिः च हरिणा अक्षिभिः किम् इदम् कस्य वा स्थानम् कथम् तत् इदम् इति अभूत्

एवं मीमांसमानं तं नरा नार्योऽमरप्रभा: ।
प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४ ॥

एवम् मीमांसमानम् तम् नराः नार्यः अमर प्रभाः प्रत्यगृह्णन् महा-भागम् गीत वाद्येन भूयसा

पतिमागतमाकर्ण्य पत्न्‍युद्धर्षातिसम्भ्रमा ।
निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥ २५ ॥

पतिम् आगतम् आकर्ण्य पत्नी उद्धर्षा अति सम्भ्रमा निश्चक्राम गृहात् तूर्णम् रूपिणी श्रीः इव आलयात्

पतिव्रता पतिं द‍ृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना ।
मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे ॥ २६ ॥

पति-व्रता पतिम् दृष्ट्वा प्रेम उत्कण्ठ अश्रु लोचना मीलित अक्षी अनमत् बुद्ध्या मनसा परिषस्वजे

पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव ।
दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मित: ॥ २७ ॥

पत्नीम् वीक्ष्य विस्फुरन्तीम् देवीम् वैमानिकीम् इव दासीनाम् निष्क कण्ठीनाम् मध्ये भान्तीम् सः विस्मितः

प्रीत: स्वयं तया युक्त: प्रविष्टो निजमन्दिरम् ।
मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८ ॥

प्रीतः स्वयम् तया युक्तः प्रविष्टः निज मन्दिरम् मणि स्तम्भ शत उपेतम् महा-इन्द्र भवनम् यथा

पय:फेननिभा: शय्या दान्ता रुक्‍मपरिच्छदा: ।
पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९ ॥
आसनानि च हैमानि मृदूपस्तरणानि च ।
मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ ३० ॥
स्वच्छस्फटिककुड्येषु महामारकतेषु च ।
रत्नदीपान् भ्राजमानान् ललनारत्नसंयुता: ॥ ३१ ॥
विलोक्य ब्राह्मणस्तत्र समृद्धी: सर्वसम्पदाम् ।
तर्कयामास निर्व्यग्र: स्वसमृद्धिमहैतुकीम् ॥ ३२ ॥

पयः फेन निभाः शय्याः दान्ताः रुक्म परिच्छदाः पर्यङ्काः हेम दण्डानि चामर-व्यजनानि च आसनानि च हैमानि मृदु उपस्तरणानि च मुक्ता-दाम विलम्बीनि वितानानि द्युमन्ति च स्वच्छ स्फटिक कुड्येषु महा-मारकतेषु च रत्न दीपान् भ्राजमानान् ललनाः रत्न संयुताः विलोक्य ब्राह्मणः तत्र समृद्धीः सर्व सम्पदाम् तर्कयाम् आस निर्व्यग्रः स्व समृद्धिम् अहैतुकीम्

नूनं बतैतन्मम दुर्भगस्य
शश्वद्दरिद्रस्य समृद्धिहेतु: ।
महाविभूतेरवलोकतोऽन्यो
नैवोपपद्येत यदूत्तमस्य ॥ ३३ ॥

नूनम् बत एतत् मम दुर्भगस्य शश्वत् दरिद्रस्य समृद्धि हेतुः महा-विभूतेः अवलोकतः अन्यः न एव उपपद्येत यदु-उत्तमस्य

नन्वब्रुवाणो दिशते समक्षं
याचिष्णवे भूर्यपि भूरिभोज: ।
पर्जन्यवत्तत् स्वयमीक्षमाणो
दाशार्हकाणामृषभ: सखा मे ॥ ३४ ॥

ननु अब्रुवानः दिशते समक्षम् याचिष्णवे भूरि अपि भूरि भोजः पर्जन्य-वत् तत् स्वयम् ईक्षमाणः दाशार्हकाणाम् ऋषभः सखा मे

किञ्चित्करोत्युर्वपि यत् स्वदत्तं
सुहृत्कृतं फल्ग्वपि भूरिकारी ।
मयोपनीतं पृथुकैकमुष्टिं
प्रत्यग्रहीत् प्रीतियुतो महात्मा ॥ ३५ ॥

किञ्चित् करोति उरु अपि यत् स्व दत्तम् सुहृत् कृतम् फल्गु अपि भूरि कारी मया उपनीतम् पृथुक एक मुष्टिम् प्रत्यग्रहीत् प्रीति-युतः महा-आत्मा

तस्यैव मे सौहृदसख्यमैत्री
दास्यं पुनर्जन्मनि जन्मनि स्यात् ।
महानुभावेन गुणालयेन
विषज्जतस्तत्पुरुषप्रसङ्ग: ॥ ३६ ॥

तस्य एव मे सौहृद सख्य मैत्री दास्यम् पुनः जन्मनि जन्मनि स्यात् महा-अनुभावेन गुण आलयेन विषज्जतः तत् पुरुष प्रसङ्गः

भक्ताय चित्रा भगवान् हि सम्पदो
राज्यं विभूतीर्न समर्थयत्यज: ।
अदीर्घबोधाय विचक्षण: स्वयं
पश्यन् निपातं धनिनां मदोद्भ‍वम् ॥ ३७ ॥

भक्ताय चित्राः भगवान् हि सम्पदः राज्यम् विभूतीः न समर्थयति अजः अदीर्घ बोधाय विचक्षनः स्वयम् पश्यन् निपातम् धनिनाम् मद उद्भवम्

इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने ।
विषयान् जायया त्यक्ष्यन्बुभुजे नातिलम्पट: ॥ ३८ ॥

इत्थम् व्यवसितः बुद्ध्या भक्तः अतीव जनार्दने विषयान् जायया त्यक्ष्यन् बुभुजे न अति-लम्पटः

तस्य वै देवदेवस्य हरेर्यज्ञपते: प्रभो: ।
ब्राह्मणा: प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९ ॥

तस्य वै देव-देवस्य हरेः यज्ञ पतेः प्रभोः ब्राह्मणाः प्रभवः दैवम् न तेभ्यः विद्यते परम्

एवं स विप्रो भगवत्सुहृत्तदा
द‍ृष्ट्वा स्वभृत्यैरजितं पराजितम् ।
तद्ध्यानवेगोद्ग्रथितात्मबन्धन-
स्तद्धाम लेभेऽचिरत: सतां गतिम् ॥ ४० ॥

एवम् सः विप्रः भगवत् सुहृत् तदा दृष्ट्वा स्व भृत्यैः अजितम् पराजितम् तत् ध्यान वेग उद्ग्रथित आत्म बन्धनः तत् धाम लेभे अचिरतः सताम् गतिम्

एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नर: ।
लब्धभावो भगवति कर्मबन्धाद् विमुच्यते ॥ ४१ ॥

एतत् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यताम् नरः लब्ध भावः भगवति कर्म बन्धात् विमुच्यते

१०.८२

श्रीशुक उवाच
अथैकदा द्वारवत्यां वसतो रामकृष्णयो: ।
सूर्योपराग: सुमहानासीत् कल्पक्षये यथा ॥ १ ॥

श्री-शुकः उवाच अथ एकदा द्वारवत्याम् वसतोः राम-कृष्णयोः सूर्य उपरागः सु-महान् आसीत् कल्प क्षये यथा

तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वत: ।
समन्तपञ्चकं क्षेत्रं ययु: श्रेयोविधित्सया ॥ २ ॥

तम् ज्ञात्वा मनुजाः राजन् पुरस्तात् एव सर्वतः समन्त-पञ्चकम् क्षेत्रम् ययुः श्रेयः विधित्सया

नि:क्षत्रियां महीं कुर्वन् राम: शस्‍त्रभृतां वर: ।
नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३ ॥
ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा ।
लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥ ४ ॥
महत्यां तीर्थयात्रायां तत्रागन् भारती: प्रजा: ।
वृष्णयश्च तथाक्रूरवसुदेवाहुकादय: ॥ ५ ॥
ययुर्भारत तत् क्षेत्रं स्वमघं क्षपयिष्णव: ।
गदप्रद्युम्नसाम्बाद्या: सुचन्द्रशुकसारणै: ।
आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथप: ॥ ६ ॥

निःक्षत्रियाम् महीम् कुर्वन् रामः शस्त्र भृताम् वरः नृपाणाम् रुधिर ओघेन यत्र चक्रे महा ह्रदान् ईजे च भगवान् रामः यत्र अस्पृष्टः अपि कर्मणा लोकम् सङ्ग्राहयन् ईशः यथा अन्यः अघ अपनुत्तये महत्याम् तीर्थ-यात्रायाम् तत्र आगन् भारतीः प्रजाः वृष्णयः च तथा अक्रूर-वसुदेव-आहुक-आदयः ययुः भारत तत् क्षेत्रम् स्वम् अघम् क्षपयिष्णवः गद-प्रद्युम्न-साम्ब-आदयः सुचन्द्र-शुक-सारणैः आस्ते अनिरुद्धः रक्षायाम् कृतवर्मा च यूथ-पः

ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवै: ।
गजैर्नदद्भ‍िरभ्राभैर्नृभिर्विद्याधरद्युभि: ॥ ७ ॥
व्यरोचन्त महातेजा: पथि काञ्चनमालिन: ।
दिव्यस्रग्वस्‍त्रसन्नाहा: कलत्रै: खेचरा इव ॥ ८ ॥

ते रथैः देव धिष्ण्य आभैः हयैः च तरल प्लवैः गजैः नदद्भिः अभ्र आभैः नृभिः विद्याधर द्युभिः व्यरोचन्त महा तेजाः पथि काञ्चन मालिनः दिव्य स्रक् वस्त्र सन्नाहाः कलत्रैः खे-चराः इव

तत्र स्‍नात्वा महाभागा उपोष्य सुसमाहिता: ।
ब्राह्मणेभ्यो ददुर्धेनूर्वास:स्रग्रुक्‍ममालिनी: ॥ ९ ॥

तत्र स्नात्वा महा-भागाः उपोष्य सु-समाहिताः ब्राह्मणेभ्यः ददुः धेनूः वासः स्रक् रुक्म मालिनीः

रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णय: ।
ददु: स्वन्नं द्विजाग्र्‍येभ्य: कृष्णे नो भक्तिरस्त्विति ॥ १० ॥

राम ह्रदेषु विधि-वत् पुनः आप्लुत्य वृष्णयः ददुः सु अन्नम् द्विज अग्र्येभ्यः कृष्णे नः भक्तिः अस्तु इति

स्वयं च तदनुज्ञाता वृष्णय: कृष्णदेवता: ।
भुक्त्वोपविविशु: कामं स्‍निग्धच्छायाङ्‍‍घ्रिपाङ्‍‍घ्रिषु ॥ ११ ॥

स्वयम् च तत् अनुज्ञाताः वृष्णयः कृष्ण देवताः भुक्त्वा उपविविशुः कामम् स्निग्ध छाया अङ्घ्रिप अङ्घ्रिषु

तत्रागतांस्ते दद‍ृशु: सुहृत्सम्बन्धिनो नृपान् ।
मत्स्योशीनरकौशल्यविदर्भकुरुसृञ्जयान् ।
काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान् ॥ १२ ॥
अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप ।
नन्दादीन्सुहृदो गोपान्गोपीश्चोत्कण्ठिताश्चिरम् ॥ १३ ॥

तत्र आगतान् ते ददृशुः सुहृत् सम्बन्धिनः नृपान् मत्स्य-उशीनर-कौशल्य-विदर्भ-कुरु-सृञ्जयान् काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान् अन्यान् च एव आत्म-पक्षीयान् परान् च शतशः नृप नन्द-आदीन् सुहृदः गोपान् गोपीः च उत्कण्ठिताः चिरम्

अन्योन्यसन्दर्शनहर्षरंहसा
प्रोत्फुल्ल‍हृद्वक्त्रसरोरुहश्रिय: ।
आश्लिष्य गाढं नयनै: स्रवज्जला
हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १४ ॥

अन्योन्य सन्दर्शन हर्ष रंहसा प्रोत्फुल्ल हृत् वक्त्र सरोरुह श्रियः आश्लिष्य गाढम् नयनैः स्रवत् जलाः हृष्यत् त्वचः रुद्ध गिरः ययुः मुदम्

स्‍त्रियश्च संवीक्ष्य मिथोऽतिसौहृद-
स्मितामलापाङ्गद‍ृशोऽभिरेभिरे ।
स्तनै: स्तनान् कुङ्कुमपङ्करूषितान्
निहत्य दोर्भि: प्रणयाश्रुलोचना: ॥ १५ ॥

स्त्रियः च संवीक्ष्य मिथः अति सौहृद स्मित अमल अपाङ्ग दृशः अभिरेभिरे स्तनैः स्तनान् कुङ्कुम पङ्क रूषितान् निहत्य दोर्भिः प्रणय अश्रु लोचनाः

ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिता: ।
स्वागतं कुशलं पृष्ट्वा चक्रु: कृष्णकथा मिथ: ॥ १६ ॥

ततः अभिवाद्य ते वृद्धान् यविष्ठैः अभिवादिताः सु-आगतम् कुशलम् पृष्ट्वा चक्रुः कृष्ण कथाः मिथः

पृथा भ्रातॄन् स्वसृर्वीक्ष्य तत्पुत्रान् पितरावपि ।
भ्रातॄपत्नीर्मुकुन्दं च जहौ सङ्कथया शुच: ॥ १७ ॥

पृथा भ्रातॄन् स्वसॄः वीक्ष्य तत् पुत्रान् पितरौ अपि भ्रातृ पत्नीः मुकुन्दम् च जहौ सङ्कथया शुचः

कुन्त्युवाच
आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् ।
यद् वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमा: ॥ १८ ॥

कुन्ती उवाच आर्य भ्रातः अहम् मन्ये आत्मानम् अकृत आशिषम् यत् वै आपत्सु मत् वार्ताम् न अनुस्मरथ सत्-तमाः

सुहृदो ज्ञातय: पुत्रा भ्रातर: पितरावपि ।
नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ १९ ॥

सुहृदः ज्ञातयः पुत्राः भ्रातरः पितरौ अपि न अनुस्मरन्ति स्व-जनम् यस्य दैवम् अदक्षिणम्

श्रीवसुदेव उवाच
अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् ।
ईशस्य हि वशे लोक: कुरुते कार्यतेऽथ वा ॥ २० ॥

श्री-वसुदेवः उवाच अम्ब मा अस्मान् असूयेथाः दैव क्रीडनकान् नरान् ईशस्य हि वशे लोकः कुरुते कार्यते अथ वा

कंसप्रतापिता: सर्वे वयं याता दिशं दिशम् ।
एतर्ह्येव पुन: स्थानं दैवेनासादिता: स्वस: ॥ २१ ॥

कंस प्रतापिताः सर्वे वयम् याताः दिशम् दिशम् एतर्हि एव पुनः स्थानम् दैवेन आसादिताः स्वसः

श्रीशुक उवाच
वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपा: ।
आसन्नच्युतसन्दर्शपरमानन्दनिर्वृता: ॥ २२ ॥

श्री-शुकः उवाच वसुदेव-उग्रसेन-आद्यैः यदुभिः ते अर्चिताः नृपाः आसन् अच्युत सन्दर्श परम आनन्द निर्वृताः

भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।
सदारा: पाण्डवा: कुन्ती सञ्जयो विदुर: कृप: ॥ २३ ॥
कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् ।
पुरुजिद्‌द्रुपद: शल्यो धृष्टकेतु: सकाशिराट् ॥ २४ ॥
दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।
युधामन्यु: सुशर्मा च ससुता बाह्लिकादय: ॥ २५ ॥
राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रता: ।
श्रीनिकेतं वपु: शौरे: सस्‍त्रीकं वीक्ष्य विस्मिता: ॥ २६ ॥

भीष्मः द्रोणः अम्बिका-पुत्रः गान्धारी स सुताः तथा स-दाराः पाण्डवाः कुन्ती सञ्जयः विदुरः कृपः कुन्तीभोजः विराटः च भीष्मकः नग्नजित् महान् पुरुजित् द्रुपदः शल्यः धृष्टकेतुः सः काशि-राट् दमघोषः विशालाक्षः मैथिलः मद्र-केकयौ युधामन्युः सुशर्मा च स-सुताः बाह्लिक-आदयः राजानः ये च राज-इन्द्र युधिष्ठिरम् अनुव्रताः श्री निकेतम् वपुः शौरेः स-स्तृईकम् वीक्ष्य विस्मिताः

अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणा: ।
प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २७ ॥

अथ ते राम-कृष्णाभ्याम् सम्यक् प्राप्त समर्हणाः प्रशशंसुः मुदा युक्ताः वृष्णीन् कृष्ण परिग्रहान्

अहो भोजपते यूयं जन्मभाजो नृणामिह ।
यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम् ॥ २८ ॥

अहो भोज-पते यूयम् जन्म-भाजः नृणाम् इह यत् पश्यथ असकृत् कृष्णम् दुर्दर्शम् अपि योगिनाम्

यद्विश्रुति: श्रुतिनुतेदमलं पुनाति
पादावनेजनपयश्च वचश्च शास्‍त्रम् ।
भू: कालभर्जितभगापि यदङ्‍‍घ्रिपद्म-
स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥ २९ ॥
तद्दर्शनस्पर्शनानुपथप्रजल्प-
शय्यासनाशनसयौनसपिण्डबन्ध: ।
येषां गृहे निरयवर्त्मनि वर्ततां व:
स्वर्गापवर्गविरम: स्वयमास विष्णु: ॥ ३० ॥

यत् विश्रुतिः श्रुति नुता इदम् अलम् पुनाति पाद अवनेजन पयः च वचः च शास्त्रम् भूः काल भर्जित भगा अपि यत् अङ्घ्रि पद्म स्पर्श उत्थ शक्तिः अभिवर्षति नः अखिल अर्थान् तत् दर्शन स्पर्शन अनुपथ प्रजल्प शय्या सन अशन स-यौन स-पिण्ड बन्धः येषाम् गृहे निरय वर्त्मनि वर्तताम् वः स्वर्ग अपवर्ग विरमः स्वयम् आस विष्णुः

श्रीशुक उवाच
नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् ।
तत्रागमद् वृतो गोपैरन:स्थार्थैर्दिद‍ृक्षया ॥ ३१ ॥

श्री-शुकः उवाच नन्दः तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण पुरः-गमान् तत्र अगमत् वृतः गोपैः अनः स्थ अर्थैः दिदृक्षया

तं द‍ृष्ट्वा वृष्णयो हृष्टास्तन्व: प्राणमिवोत्थिता: ।
परिषस्वजिरे गाढं चिरदर्शनकातरा: ॥ ३२ ॥

तम् दृष्ट्वा वृष्णयः हृष्टाः तन्वः प्राणम् इव उत्थिताः परिषश्वजिरे गाढम् चिर दर्शन कातराः

वसुदेव: परिष्वज्य सम्प्रीत: प्रेमविह्वल: ।
स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ३३ ॥

वसुदेवः परिष्वज्य सम्प्रीतः प्रेम विह्वलः स्मरन् कंस-कृतान् क्लेशान् पुत्र न्यासम् च गोकुले

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।
न किञ्चनोचतु: प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३४ ॥

कृष्ण-रामौ परिष्वज्य पितरौ अभिवाद्य च न किञ्चन ऊचतुः प्रेम्णा स-अश्रु कण्ठौ कुरु-उद्वह

तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च ।
यशोदा च महाभागा सुतौ विजहतु: शुच: ॥ ३५ ॥

तौ आत्म-आसनम् आरोप्य बाहुभ्याम् परिरभ्य च यशोदा च महा-भागा सुतौ विजहतुः शुचः

रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।
स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतु: ॥ ३६ ॥

रोहिणी देवकी च अथ परिष्वज्य व्रज-ईश्वरीम् स्मरन्त्यौ तत् कृतम् मैतृईम् बाष्प कण्ठ्यौ समूचतुः

का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि ।
अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३७ ॥

का विस्मरेत वाम् मैत्रीम् अनिवृत्ताम् व्रज-ईश्वरि अवाप्य अपि ऐन्द्रम् ऐश्वर्यम् यस्याः न इह प्रति-क्रिया

एतावद‍ृष्टपितरौ युवयो: स्म पित्रो:
सम्प्रीणनाभ्युदयपोषणपालनानि ।
प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णो-
र्न्यस्तावकुत्रचभयौ न सतां पर: स्व: ॥ ३८ ॥

एतौ अदृष्ट पितरौ युवयोः स्म पित्रोः सम्प्रीणन अभ्युदय पोषण पालनानि प्राप्य ऊषतुः भवति पक्ष्म ह यद्वत् अक्ष्णोः न्यस्तौ अकुत्र च भयौ न सताम् परः स्वः

श्रीशुक उवाच
गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं
यत्प्रेक्षणे द‍ृशिषु पक्ष्मकृतं शपन्ति ।
द‍ृग्भिर्हृदीकृतमलं परिरभ्य सर्वा-
स्तद्भ‍ावमापुरपि नित्ययुजां दुरापम् ॥ ३९ ॥

श्री-शुकः उवाच गोप्यः च कृष्णम् उपलभ्य चिरात् अभीष्टम् यत् प्रेक्षणे दृशिषु पक्ष्म कृतम् शपन्ति दृग्भिः हृदी-कृतम् अलम् परिरभ्य सर्वाः तत् भावम् आपुः अपि नित्य युजाम् दुरापम्

भगवांस्तास्तथाभूता विविक्त उपसङ्गत: ।
आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ४० ॥

भगवान् ताः तथा-भूताः विविक्ते उपसङ्गतः आश्लिष्य अनामयम् पृष्ट्वा प्रहसन् इदम् अब्रवीत्

अपि स्मरथ न: सख्य: स्वानामर्थचिकीर्षया ।
गतांश्चिरायिताञ्छत्रुपक्षक्षपणचेतस: ॥ ४१ ॥

अपि स्मरथ नः सख्यः स्वानाम् अर्थ चिकीर्षया गतान् चिरायितान् शत्रु पक्ष क्षपण चेतसः

अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया ।
नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४२ ॥

अपि अवध्यायथ अस्मान् स्वित् अकृत-ज्ञ आविशङ्कया नूनम् भूतानि भगवान् युनक्ति वियुनक्ति च

वायुर्यथा घनानीकं तृणं तूलं रजांसि च ।
संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ॥ ४३ ॥

वायुः यथा घन अनीकम् तृणम् तूलम् रजांसि च संयोज्य आक्षिपते भूयः तथा भूतानि भूत कृत्

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।
दिष्‍ट्या यदासीन्मत्स्‍नेहो भवतीनां मदापन: ॥ ४४ ॥

मयि भक्तिः हि भूतानाम् अमृतत्वाय कल्पते दिष्ट्या यत् आसीत् मत् स्नेहः भवतीनाम् मत् आपनः

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहि: ।
भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गना: ॥ ४५ ॥

अहम् हि सर्व भूतानाम् आदिः अन्तः अन्तरम् बहिः भौतिकानाम् यथा खम् वाः भूः वायुः ज्योतिः अङ्गनाः

एवं ह्येतानि भूतानि भूतेष्वात्मात्मना तत: ।
उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४६ ॥

एवम् हि एतानि भूतानि भूतेषु आत्मा आत्मना ततः उभयम् मयि अथ परे पश्यत आभातम् अक्षरे

श्रीशुक उवाच
अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिता: ।
तदनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ ४७ ॥

श्री-शुकः उवाच अध्यात्म शिक्षया गोप्यः एवम् कृष्णेन शिक्षिताः तत् अनुस्मरण ध्वस्त जीव-कोशाः तम् अध्यगन्

आहुश्च ते नलिननाभ पदारविन्दं
योगेश्वरैर्हृदि विचिन्त्यमगाधबोधै: ।
संसारकूपपतितोत्तरणावलम्बं
गेहं जुषामपि मनस्युदियात् सदा न: ॥ ४८ ॥

आहुः च ते नलिन-नभ पद-अरविन्दम् योग-ईश्वरैः हृदि विचिन्त्यम् अगाध-बोधैः संसार-कूप पतित उत्तरण अवलम्बम् गेहम् जुषाम् अपि मनसि उदियात् सदा नः

१०.८३

श्रीशुक उवाच
तथानुगृह्य भगवान् गोपीनां स गुरुर्गति: ।
युधिष्ठिरमथापृच्छत् सर्वांश्च सुहृदोऽव्ययम् ॥ १ ॥

श्री-शुकः उवाच तथा अनुगृह्य भगवान् गोपीनाम् सः गुरुः गतिः युधिष्ठिरम् अथ अपृच्छत् सर्वान् च सु-हृदः अव्ययम्

त एवं लोकनाथेन परिपृष्टा: सुसत्कृता: ।
प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहस: ॥ २ ॥

ते एवम् लोक नाथेन परिपृष्टाः सु सत्-कृताः प्रत्यूचुः हृष्ट मनसः तत् पाद ईक्षा हत अंहसः

कुतोऽशिवं त्वच्चरणाम्बुजासवं
महन्मनस्तो मुखनि:सृतं क्व‍‍चित् ।
पिबन्ति ये कर्णपुटैरलं प्रभो
देहंभृतां देहकृदस्मृतिच्छिदम् ॥ ३ ॥

कुतः अशिवम् त्वत् चरण अम्बुज आसवम् महत् मनस्तः मुख निःसृतम् क्वचित् पिबन्ति ये कर्ण पुटैः अलम् प्रभो देहम् भृताम् देह कृत् अस्मृति छिदम्

हि त्वात्मधामविधुतात्मकृतत्र्यवस्था-
मानन्दसम्प्लवमखण्डमकुण्ठबोधम् ।
कालोपसृष्टनिगमावन आत्तयोग-
मायाकृतिं परमहंसगतिं नता: स्म ॥ ४ ॥

हि त्वा आत्म धाम विधुत आत्म कृत त्रि अवस्थाम् आनन्द सम्प्लवम् अखण्डम् अकुण्ठ बोधम् काल उपसृष्ट निगम अवने आत्त योग-माया आकृतिम् परम-हंस गतिम् नताः स्म

श्रीऋषिरुवाच
इत्युत्तम:श्लोकशिखामणिं जने-
ष्वभिष्टुवत्स्वन्धककौरवस्‍त्रिय: ।
समेत्य गोविन्दकथा मिथोऽगृणं-
स्‍त्रिलोकगीता: श‍ृणु वर्णयामि ते ॥ ५ ॥

श्री-ऋषिः उवाच इति उत्तमः-श्लोक शिखा-मणिम् जनेषु अभिष्टुवत्सु अन्धक-कौरव स्त्रियः समेत्य गोविन्द-कथाः मिथः अगृणन् त्रि लोक गीताः शृणु वर्णयामि ते

श्रीद्रौपद्युवाच
हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौशले ।
हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ ६ ॥
हे कृष्णपत्न्‍य एतन्नो ब्रूते वो भगवान् स्वयम् ।
उपयेमे यथा लोकमनुकुर्वन् स्वमायया ॥ ७ ॥

श्री-द्रौपदी उवाच हे वैदर्भि अच्युतः भद्रे हे जाम्बवति कौशले हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे हे कृष्ण-पत्न्यः एतत् नः ब्रूते वः भगवान् स्वयम् उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया

श्रीरुक्‍मिण्युवाच
चैद्याय मार्पयितुमुद्यतकार्मुकेषु
राजस्वजेयभटशेखरिताङ्‍‍घ्रिरेणु: ।
निन्ये मृगेन्द्र इव भागमजावियूथात्
तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ॥ ८ ॥

श्री-रुक्मिणी उवाच चैद्याय मा अर्पयितुम् उद्यत कार्मुकेषु राजसु अजेय भट शेखरित अङ्घ्रि रेणुः निन्ये मृगेन्द्रः इव भागम् अज अवि यूथात् तत् श्री निकेत चरणः अस्तु मम अर्चनाय

श्रीसत्यभामोवाच
यो मे सनाभिवधतप्तहृदा ततेन
लिप्ताभिशापमपमार्ष्टुमुपाजहार ।
जित्वर्क्षराजमथ रत्नमदात् स तेन
भीत: पितादिशत मां प्रभवेऽपि दत्ताम् ॥ ९ ॥

श्री-सत्यभामा उवाच यः मे सनाभि वध तप्त हृदा ततेन लिप्त अभिशापम् अपमार्ष्टुम् उपाजहार जित्वा ऋक्ष-राजम् अथ रत्नम् अदात् सः तेन भीतः पिता अदिशत माम् प्रभवे अपि दत्ताम्

श्रीजाम्बवत्युवाच
प्राज्ञाय देहकृदमुं निजनाथदैवं
सीतापतिं त्रिनवहान्यमुनाभ्ययुध्यत् ।
ज्ञात्वा परीक्षित उपाहरदर्हणं मां
पादौ प्रगृह्य मणिनाहममुष्य दासी ॥ १० ॥

श्री-जाम्बवती उवाच प्राज्ञाय देह कृत् अमुम् निज नाथ दैवम् सीता पतिम् त्रि नव अहानि अमुना अभ्ययुध्यत् ज्ञात्वा परीक्षितः उपाहरत् अर्हणम् माम् पादौ प्रगृह्य मणिना अहम् अमुष्य दासी

श्रीकालिन्द्युवाच
तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया ।
सख्योपेत्याग्रहीत् पाणिं योऽहं तद्गृहमार्जनी ॥ ११ ॥

श्री-कालिन्दी उवाच तपः चरन्तीम् आज्ञाय स्व पाद स्पर्शन आशया सख्या उपेत्य अग्रहीत् पाणिम् यः अहम् तत् गृह मार्जनी

श्रीमित्रविन्दोवाच
यो मां स्वयंवर उपेत्य विजित्य भूपान्
निन्ये श्वयूथगमिवात्मबलिं द्विपारि: ।
भ्रातृंश्च मेऽपकुरुत: स्वपुरं श्रियौक-
स्तस्यास्तु मेऽनुभवमङ्घ्रय‍वनेजनत्वम् ॥ १२ ॥

श्री-मित्रविन्दा उवाच यः माम् स्वयं-वरे उपेत्य विजित्य भू-पान् निन्ये श्व यूथ गम् इव आत्म बलिम् द्विप-अरिः भ्रातॄन् च मे अपकुरुतः स्व पुरम् श्री ओकः तस्य अस्तु मे अनु-भवम् अङ्घ्रि अवनेजनत्वम्

श्रीसत्योवाच
सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णश‍ृङ्गान्
पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय ।
तान् वीरदुर्मदहनस्तरसा निगृह्य
क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान् ॥ १३ ॥
य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम् ।
पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे ॥ १४ ॥

श्री-सत्या उवाच सप्त उक्षणः अति बल वीर्य सु तीक्ष्ण शृङ्गान् पित्रा कृतान् क्षितिप वीर्य परीक्षणाय तान् वीर दुर्मद हनः तरसा निगृह्य क्रीडन् बबन्ध ह यथा शिशवः अज तोकान् यः इत्थम् वीर्य शुल्काम् माम् दासीभिः चतुः-अङ्गिणीम् पथि निर्जित्य राजन्यान् निन्ये तत् दास्यम् अस्तु मे

श्रीभद्रोवाच
पिता मे मातुलेयाय स्वयमाहूय दत्तवान् ।
कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनै: ॥ १५ ॥
अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि ।
कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मन: ॥ १६ ॥

श्री-भद्रा उवाच पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् कृष्णे कृष्णाय तत् चित्ताम् अक्षौहिण्या सखी-जनैः अस्य मे पाद संस्पर्शः भवेत् जन्मनि जन्मनि कर्मभिः भ्राम्यमाणायाः येन तत् श्रेयः आत्मनः

श्रीलक्ष्मणोवाच
ममापि राज्ञ्यच्युतजन्मकर्म
श्रुत्वा मुहुर्नारदगीतमास ह ।
चित्तं मुकुन्दे किल पद्महस्तया
वृत: सुसम्मृश्य विहाय लोकपान् ॥ १७ ॥

श्री-लक्ष्मणा उवाच मम अपि राज्ञि अच्युत जन्म कर्म श्रुत्वा मुहुः नारद गीतम् आस ह चित्तम् मुकुन्दे किल पद्म-हस्तया वृतः सु सम्मृश्य विहाय लोक पान्

ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सल: ।
बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥ १८ ॥

ज्ञात्वा मम मतम् साध्वि पिता दुहितृ वत्सलः बृहत्सेनः इति ख्यातः तत्र उपायम् अचीकरत्

यथा स्वयंवरे राज्ञि मत्स्य: पार्थेप्सया कृत: ।
अयं तु बहिराच्छन्नो द‍ृश्यते स जले परम् ॥ १९ ॥

यथा स्वयम्-वरे राज्ञि मत्स्यः पार्थ ईप्सया कृतः अयम् तु बहिः आच्छन्नः दृश्यते सः जले परम्

श्रुत्वैतत् सर्वतो भूपा आययुर्मत्पितु: पुरम् ।
सर्वास्‍त्रशस्‍त्रतत्त्वज्ञा: सोपाध्याया: सहस्रश: ॥ २० ॥

श्रुत्वा एतत् सर्वतः भू-पाः आययुः मत् पितुः पुरम् सर्व अस्त्र शस्त्र तत्त्व ज्ञाः स उपाध्यायाः सहस्रशः

पित्रा सम्पूजिता: सर्वे यथावीर्यं यथावय: ।
आददु: सशरं चापं वेद्धुं पर्षदि मद्धिय: ॥ २१ ॥

पित्रा सम्पूजिताः सर्वे यथा वीर्यम् यथा वयः आददुः स शरम् चापम् वेद्धुम् पर्षदि मत् धियः

आदाय व्यसृजन् केचित् सज्यं कर्तुमनीश्वरा: ।
आकोष्ठं ज्यां समुत्कृष्य पेतुरेकेऽमुना हता: ॥ २२ ॥

आदाय व्यसृजन् केचित् सज्यम् कर्तुम् अनीश्वराः आ-कोष्ठम् ज्याम् समुत्कृष्य पेतुः एके अमुना हताः

सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपा: ।
भीमो दुर्योधन: कर्णो नाविदंस्तदवस्थितिम् ॥ २३ ॥

सज्यम् कृत्वा अपरे वीराः मागध अम्बष्ठ चेदि-पाः भीमः दुर्योधनः कर्णः न अविदन् तद् अवस्थितिम्

मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम् ।
पार्थो यत्तोऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् ॥ २४ ॥

मत्स्य आभासम् जले वीक्ष्य ज्ञात्वा च तत् अवस्थितिम् पार्थः यत्तः असृजत् बाणम् न अच्छिनत् पस्पृशे परम्

राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु ।
भगवान् धनुरादाय सज्यं कृत्वाथ लीलया ॥ २५ ॥
तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले ।
छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते ॥ २६ ॥

राजन्येषु निवृत्तेषु भग्न मानेषु मानिषु भगवान् धनुः आदाय सज्यम् कृत्वा अथ लीलया तस्मिन् सन्धाय विशिखम् मत्स्यम् वीक्ष्य सकृत् जले छित्त्वा इषुणा अपातयत् तम् सूर्ये च अभिजिते स्थिते

दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि ।
देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वला: ॥ २७ ॥

दिवि दुन्दुभयः नेदुः जय शब्द युताः भुवि देवाः च कुसुम आसारान् मुमुचुः हर्ष विह्वलाः

तद् रङ्गमाविशमहं कलनूपुराभ्यां
पद्‍भ्यां प्रगृह्य कनकोज्ज्वलरत्नमालाम् ।
नूत्ने निवीय परिधाय च कौशिकाग्र्‍ये
सव्रीडहासवदना कवरीधृतस्रक् ॥ २८ ॥

तत् रङ्गम् आविशम् अहम् कल नूपुराभ्याम् पद्भ्याम् प्रगृह्य कनक उज्ज्वल रत्न मालाम् नूत्ने निवीय परिधाय च कौशिक अग्र्ये स-व्रीड हास वदना कवरी धृत स्रक्

उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड्
गण्डस्थलं शिशिरहासकटाक्षमोक्षै: ।
राज्ञो निरीक्ष्य परित: शनकैर्मुरारे-
रंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ २९ ॥

उन्नीय वक्त्रम् उरु कुन्तल कुण्डल त्विट् गण्ड-स्थलम् शिशिर हास कट-अक्ष मोक्षैः राज्ञः निरीक्ष्य परितः शनकैः मुरारेः अंसे अनुरक्त हृदया निदधे स्व मालाम्

तावन्मृदङ्गपटहा: शङ्खभेर्यानकादय: ।
निनेदुर्नटनर्तक्यो ननृतुर्गायका जगु: ॥ ३० ॥

तावत् मृदङ्ग-पटहाः शङ्ख भेरी आनक आदयः निनेदुः नट नर्तक्यः ननृतुः गायकाः जगुः

एवं वृते भगवति मयेशे नृपयूथपा: ।
न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुरा: ॥ ३१ ॥

एवम् वृते भगवति मया ईशे नृप यूथ-पाः न सेहिरे याज्ञसेनि स्पर्धन्तः हृत्-शय आतुराः

मां तावद् रथमारोप्य हयरत्नचतुष्टयम् ।
शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुज: ॥ ३२ ॥

माम् तावत् रथम् आरोप्य हय रत्न चतुष्टयम् शार्ङ्गम् उद्यम्य सन्नद्धः तस्थौ आजौ चतुः भुजः

दारुकश्चोदयामास काञ्चनोपस्करं रथम् ।
मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव ॥ ३३ ॥

दारुकः चोदयाम् आस काञ्चन उपस्करम् रथम् मिषताम् भू-भुजाम् राज्ञि मृगाणाम् मृग-राट् इव

तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन ।
संयत्ता उद्‍धृतेष्वासा ग्रामसिंहा यथा हरिम् ॥ ३४ ॥

ते अन्वसज्जन्त राजन्याः निषेद्धुम् पथि केचन संयत्ताः उद्धृत इषु-आसाः ग्राम-सिंहा यथा हरिम्

ते शार्ङ्गच्युतबाणौघै: कृत्तबाह्वङ्‍‍घ्रिकन्धरा: ।
निपेतु: प्रधने केचिदेके सन्त्यज्य दुद्रुवु: ॥ ३५ ॥

ते शार्ङ्ग च्युत बाण ओघैः कृत्त बाहु अङ्घ्रि कन्धराः निपेतुः प्रधने केचित् एके सन्त्यज्य दुद्रुवुः

तत: पुरीं यदुपतिरत्यलङ्कृतां
रविच्छदध्वजपटचित्रतोरणाम् ।
कुशस्थलीं दिवि भुवि चाभिसंस्तुतां
समाविशत्तरणिरिव स्वकेतनम् ॥ ३६ ॥

ततः पुरीम् यदु-पतिः अति अलङ्कृताम् रवि छद ध्वज पट चित्र तोरणाम् कुशस्थलीम् दिवि भुवि च अभिसंस्तुताम् समाविशत् तरणिः इव स्व केतनम्

पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् ।
महार्हवासोऽलङ्कारै: शय्यासनपरिच्छदै: ॥ ३७ ॥

पिता मे पूजयाम् आस सुहृत् सम्बन्धि बान्धवान् महा अर्ह वासः अलङ्कारैः शय्या आसन परिच्छदैः

दासीभि: सर्वसम्पद्भ‍िर्भटेभरथवाजिभि: ।
आयुधानि महार्हाणि ददौ पूर्णस्य भक्तित: ॥ ३८ ॥

दासीभिः सर्व सम्पद्भिः भट इभ रथ वाजिभिः आयुधानि महा-अर्हाणि ददौ पूर्णस्य भक्तितः

आत्मारामस्य तस्येमा वयं वै गृहदासिका: ।
सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ॥ ३९ ॥

आत्म-आरामस्य तस्य इमाः वयम् वै गृह दासिकाः सर्व सङ्ग निवृत्त्या अद्धा तपसा च बभूविम

महिष्य ऊचु:
भौमं निहत्य सगणं युधि तेन रुद्धा
ज्ञात्वाथ न: क्षितिजये जितराजकन्या: ।
निर्मुच्य संसृतिविमोक्षमनुस्मरन्ती:
पादाम्बुजं परिणिनाय य आप्तकाम: ॥ ४० ॥

महिष्यः ऊचुः भौमम् निहत्य स गणम् युधि तेन रुद्धाः ज्ञात्वा अथ नः क्षिति-जये जित राज कन्याः निर्मुच्य संसृति विमोक्षम् अनुस्मरन्तीः पाद-अम्बुजम् परिणिनाय यः आप्त-कामः

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरे: पदम् ॥ ४१ ॥
कामयामह एतस्य श्रीमत्पादरज: श्रिय: ।
कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृत: ॥ ४२ ॥

न वयम् साध्वि साम्राज्यम् स्व-राज्यम् भौज्यम् अपि उत वैराज्यम् पारमेष्ठ्यम् च आनन्त्यम् वा हरेः पदम् कामयामहे एतस्य श्री-मत् पाद रजः श्रीयः कुच कुङ्कुम गन्ध आढ्यम् मूर्ध्ना वोढुम् गदाभृतः

व्रजस्‍त्रियो यद् वाञ्छन्ति पुलिन्द्यस्तृणवीरुध: ।
गावश्चारयतो गोपा: पदस्पर्शं महात्मन: ॥ ४३ ॥

व्रज स्त्रियः यत् वाञ्छन्ति पुलिन्द्यः तृण वीरुधः गावः चारयतः गोपाः पाद स्पर्शम् महा-आत्मनः

१०.८४

श्रीशुक उवाच
श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी
माधव्यथ क्षितिपपत्न्‍य उत स्वगोप्य: ।
कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं
सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्य: ॥ १ ॥

श्री-शुकः उवाच श्रुत्वा पृथा सुबल-पुत्री अथ याज्ञसेनी माधवी अथ क्षिति-प पत्न्यः उत स्व गोप्यः कृष्णे अखिल आत्मनि हरौ प्रणय अनुबन्धम् सर्वाः विसिस्म्युः अलम् अश्रु-कल आकुल अक्ष्यः

इति सम्भाषमाणासु स्‍त्रीभि: स्‍त्रीषु नृभिर्नृषु ।
आययुर्मुनयस्तत्र कृष्णरामदिद‍ृक्षया ॥ २ ॥
द्वैपायनो नारदश्च च्यवनो देवलोऽसित: ।
विश्वामित्र: शतानन्दो भरद्वाजोऽथ गौतम: ॥ ३ ॥
राम: सशिष्यो भगवान् वसिष्ठो गालवो भृगु: ।
पुलस्त्य: कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पति: ॥ ४ ॥
द्वितस्‍त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिरा: ।
अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥

इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिः नृषु आययुः मुनयः तत्र कृष्ण-राम दिदृक्षया द्वैपायनः नारदः च च्यवनः देवलः असितः विश्वामित्रः शतानन्दः भरद्वाजः अथ गौतमः रामः स शिष्यः भगवान् वसिष्ठः गालवः भृगुः पुलस्त्यः कश्यपः अत्रिः च मार्कण्डेयः बृहस्पतिः द्वितः त्रितः च एकतः च ब्रह्म-पुत्राः तथा अङ्गिराः अगस्त्यः याज्ञवल्क्यः च वामदेव-आदयः अपरे

तान् द‍ृष्ट्वा सहसोत्थाय प्रागासीना नृपादय: ।
पाण्डवा: कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ॥ ६ ॥

तान् दृष्ट्वा सहसा उत्थाय प्राक् आसीनाः नृप-आदयः पाण्डवाः कृष्ण-रामौ च प्रणेमुः विश्व वन्दितान्

तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् ।
स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनै: ॥ ७ ॥

तान् आनर्चुः यथा सर्वे सह-राम अच्युतः अर्चयत् स्व्-आगत आसन पाद्य अर्घ्य माल्य धूप अनुलेपनैः

उवाच सुखमासीनान् भगवान् धर्मगुप्तनु: ।
सदसस्तस्य महतो यतवाचोऽनुश‍ृण्वत: ॥ ८ ॥

उवाच सुखम् आसीनान् भगवान् धर्म गुप् तनुः सदसः तस्य महतः यत वाचः अनुशृण्वतः

श्रीभगवानुवाच
अहो वयं जन्मभृतो लब्धं कार्त्स्‍न्येन तत्फलम् ।
देवानामपि दुष्प्रापं यद् योगेश्वरदर्शनम् ॥ ९ ॥

श्री-भगवान् उवाच अहो वयम् जन्म-भृतः लब्धम् कार्त्स्न्येन तत् फलम् देवानाम् अपि दुष्प्रापम् यत् योग-ईश्वर दर्शनम्

किं स्वल्पतपसां नृणामर्चायां देवचक्षुषाम् ।
दर्शनस्पर्शनप्रश्न‍प्रह्वपादार्चनादिकम् ॥ १० ॥

किम् सु-अल्प तपसाम् नॄणाम् अर्चायाम् देव चक्षुषाम् दर्शन स्पर्शन प्रश्न प्रह्व पाद-अर्चन आदिकम्

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामया: ।
ते पुनन्त्युरुकालेन दर्शनादेव साधव: ॥ ११ ॥

न हि अप् मयानि तीर्थानि न देवाः मृत् शिला मयाः ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः

नाग्निर्न सूर्यो न च चन्द्रतारका
न भूर्जलं खं श्वसनोऽथ वाङ्‍मन: ।
उपासिता भेदकृतो हरन्त्यघं
विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥

न अग्निः न सूर्यः न च चन्द्र तारकाः न भूः जलम् खम् श्वसनः अथ वाक् मनः उपासिताः भेद कृतः हरन्ति अघम् विपश्चितः घ्नन्ति मुहूर्त सेवया

यस्यात्मबुद्धि: कुणपे त्रिधातुके
स्वधी: कलत्रादिषु भौम इज्यधी: ।
यत्तीर्थबुद्धि: सलिले न कर्हिचि-
ज्जनेष्वभिज्ञेषु स एव गोखर: ॥ १३ ॥

यस्य आत्म बुद्धिः कुणपे त्रि-धातुके स्व धीः कलत्र-आदिषु भौमे इज्य धीः यत् तीर्थ बुद्धिः सलिले न कर्हिचित् जनेषु अभिज्ञेषु सः एव गः खरः

श्रीशुक उवाच
निशम्येत्थं भगवत: कृष्णस्याकुण्ठमेधस: ।
वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धिय: ॥ १४ ॥

श्री-शुकः उवाच निशम्य इत्थम् भगवतः कृष्णस्य अकुण्ठ मेधसः वचः दुरन्वयम् विप्राः तूष्णीम् आसन् भ्रमत् धियः

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।
जनसङ्ग्रह इत्यूचु: स्मयन्तस्तं जगद्गुरुम् ॥ १५ ॥

चिरम् विमृश्य मुनयः ईश्वरस्य ईशितव्यताम् जन-सङ्ग्रहः इति ऊचुः स्मयन्तः तम् जगत् गुरुम्

श्रीमुनय ऊचु:
यन्मायया तत्त्वविदुत्तमा वयं
विमोहिता विश्वसृजामधीश्वरा: ।
यदीशितव्यायति गूढ ईहया
अहो विचित्रं भगवद्विचेष्टितम् ॥ १६ ॥

श्री-मुनयः ऊचुः यत् मायया तत्त्व वित् उत्तमाः वयम् विमोहिताः विश्व सृजाम् अधीश्वरः यत् ईशितव्यायति गूढः ईहया अहो विचित्रम् भगवत् विचेष्टितम्

अनीह एतद् बहुधैक आत्मना
सृजत्यवत्यत्ति न बध्यते यथा ।
भौमैर्हि भूमिर्बहुनामरूपिणी
अहो विभूम्नश्चरितं विडम्बनम् ॥ १७ ॥

अनीहः एतत् बहुधा एकः आत्मना सृजति अवति अत्ति न बध्यते यथा भौमैः हि भूमिः बहु नाम-रूपिणी अहो विभूम्नः चरितम् विडम्बनम्

अथापि काले स्वजनाभिगुप्तये
बिभर्षि सत्त्वं खलनिग्रहाय च ।
स्वलीलया वेदपथं सनातनं
वर्णाश्रमात्मा पुरुष: परो भवान् ॥ १८ ॥

अथ अपि काले स्व-जन अभिगुप्तये बिभर्षि सत्त्वम् खल निग्रहाय च स्व लीलया वेद-पथम् सनातनम् वर्ण-आश्रम आत्मा पुरुषः परः भवान्

ब्रह्म ते हृदयं शुक्लं तप:स्वाध्यायसंयमै: ।
यत्रोपलब्धं सद् व्यक्तमव्यक्तं च तत: परम् ॥ १९ ॥

ब्रह्म ते हृदयम् शुक्लम् तपः स्वाध्याय संयमैः यत्र उपलब्धम् सत् व्यक्तम् अव्यक्तम् च ततः परम्

तस्माद् ब्रह्मकुलं ब्रह्मन् शास्‍त्रयोनेस्त्वमात्मन: ।
सभाजयसि सद्धाम तद् ब्रह्मण्याग्रणीर्भवान् ॥ २० ॥

तस्मात् ब्रह्म कुलम् ब्रह्मन् शास्त्र योनेः त्वम् आत्मनः सभाजयसि सत् धाम तत् ब्रह्मण्य अग्रनीः भवान्

अद्य नो जन्मसाफल्यं विद्यायास्तपसो द‍ृश: ।
त्वया सङ्गम्य सद्गत्या यदन्त: श्रेयसां पर: ॥ २१ ॥

अद्य नः जन्म साफल्यम् विद्यायाः तपसः दृशः त्वया सङ्गम्य सत् गत्या यत् अन्तः श्रेयसाम् परः

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
स्वयोगमाययाच्छन्नमहिम्ने परमात्मने ॥ २२ ॥

नमः तस्मै भगवते कृष्णाय अकुण्ठ मेधसे स्व योग-मायया आच्छन्न महिम्ने परम-आत्मने

न यं विदन्त्यमी भूपा एकारामाश्च वृष्णय: ।
मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम् ॥ २३ ॥

न यम् विदन्ति अमी भू-पाः एक आरामाः च वृष्णयः माया जवनिका आच्छन्नम् आत्मानम् कालम् ईश्वरम्

यथा शयान: पुरुष आत्मानं गुणतत्त्वद‍ृक् ।
नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ २४ ॥
एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया ।
मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् ॥ २५ ॥

यथा शयानः पुरुषः आत्मानम् गुण तत्त्व दृक् नाम मात्र इन्द्रिय आभातम् न वेद रहितम् परम् एवम् त्वा नाम-मात्रेषु विषयेषु इन्द्रिय ईहया मायया विभ्रमत् चित्तः न वेद स्मृति उपप्लवात्

तस्याद्य ते दद‍ृशिमाङ्‍‍घ्रिमघौघमर्ष-
तीर्थास्पदं हृदि कृतं सुविपक्व‍योगै: ।
उत्सिक्तभक्त्युपहताशयजीवकोशा
आपुर्भवद्गतिमथानुगृहाण भक्तान् ॥ २६ ॥

तस्य अद्य ते ददृशिम अङ्घ्रिम् अघ ओघ मर्ष तीर्थ आस्पदम् हृदि कृतम् सु विपक्व योगैः उत्सिक्त भक्ति उपहत आशय जीव कोशाः आपुः भवत् गतिम् अथ अनुगृहाण भक्तान्

श्रीशुक उवाच
इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।
राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मन: ॥ २७ ॥

श्री-शुकः उवाच इति अनुज्ञाप्य दाशार्हम् धृतराष्ट्रम् युधिष्ठिरम् राज ऋषे स्व आश्रमान् गन्तुम् मुनयः दधिरे मनः

तद् वीक्ष्य तानुपव्रज्य वसुदेवो महायशा: ।
प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रित: ॥ २८ ॥

तत् वीक्ष्य तान् उपव्रज्य वसुदेवः महा यशाः प्रणम्य च उपसङ्गृह्य बभाष इदम् सु यन्त्रितः

श्रीवसुदेव उवाच
नमो व: सर्वदेवेभ्य ऋषय: श्रोतुमर्हथ ।
कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २९ ॥

श्री-वसुदेवः उवाच नमः वः सर्व देवेभ्यः ऋषयः श्रोतुम् अर्हथ कर्मणा कर्म निर्हारः यथा स्यात् नः तत् उच्यताम्

श्रीनारद उवाच
नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया ।
कृष्णं मत्वार्भकं यन्न: पृच्छति श्रेय आत्मन: ॥ ३० ॥

श्री-नारदः उवाच न अति चित्रम् इदम् विप्राः वसुदेवः बुभुत्सया कृष्णम् मत्वा अर्भकम् यत् नः पृच्छति श्रेयः आत्मनः

सन्निकर्षोऽत्र मर्त्यानामनादरणकारणम् ।
गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये ॥ ३१ ॥

सन्निकर्षः अत्र मर्त्यानाम् अनादरण कारणम् गाङ्गम् हित्वा यथा अन्य अम्भः तत्रत्यः याति शुद्धये

यस्यानुभूति: कालेन लयोत्पत्त्यादिनास्य वै ।
स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥ ३२ ॥
तं क्लेशकर्मपरिपाकगुणप्रवाहै-
रव्याहतानुभवमीश्वरमद्वितीयम् ।
प्राणादिभि: स्वविभवैरुपगूढमन्यो
मन्येत सूर्यमिव मेघहिमोपरागै: ॥ ३३ ॥

यस्य अनुभूतिः कालेन लय उत्पत्ति आदिना अस्य वै स्वतः अन्यस्मात् च गुणतः न कुतश्चन रिष्यति तम् क्लेश कर्म परिपाक गुण प्रवाहैः अव्याहत अनुभवम् ईश्वरम् अद्वितीयम् प्राण आदिभिः स्व विभवैः उपगूढम् अन्यः मन्येत सूर्यम् इव मेघ हिम उपरागैः

अथोचुर्मुनयो राजन्नाभाष्यानकदुन्दुभिम् ।
सर्वेषां श‍ृण्वतां राज्ञां तथैवाच्युतरामयो: ॥ ३४ ॥

अथ ऊचुः मुनयः राजन् आभाष्य आनक-दुन्दुभिम् सर्वेषाम् शृण्वताम् राज्ञाम् तथा एव अच्युत-रामयोः

कर्मणा कर्मनिर्हार एष साधु निरूपित: ।
यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखै: ॥ ३५ ॥

कर्मणा कर्म निर्हारः एषः साधु निरूपितः यत् श्रद्धया यजेत् विष्णुम् सर्व यज्ञ ईश्वरम् मखैः

चित्तस्योपशमोऽयं वै कविभि: शास्‍त्रचक्षुषा ।
दर्शित: सुगमो योगो धर्मश्चात्ममुदावह: ॥ ३६ ॥

चित्तस्य उपशमः अयम् वै कविभिः शास्त्र चक्षुषा दर्शितः सु-गमः योगः धर्मः च आत्म मुत् आवहः

अयं स्वस्त्ययन: पन्था द्विजातेर्गृहमेधिन: ।
यच्छ्रद्धयाप्तवित्तेन शुक्लेनेज्येत पूरुष: ॥ ३७ ॥

अयम् स्वस्ति अयनः पन्था द्वि-जातेः गृह मेधिनः यत् श्रद्धया आप्त वित्तेन शुक्लेन ईज्येत पूरुषः

वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम् ।
आत्मलोकैषणां देव कालेन विसृजेद्ब‍ुध: ।
ग्रामे त्यक्तैषणा: सर्वे ययुर्धीरास्तपोवनम् ॥ ३८ ॥

वित्त एषणाम् यज्ञ दानैः गृहैः दार सुत एषणाम् आत्म लोक एषणाम् देव कालेन विसृजेत् बुधः ग्रामे त्यक्त एषणाः सर्वे ययुः धीराः तपः वनम्

ऋणैस्‍त्रिभिर्द्विजो जातो देवर्षिपितृणां प्रभो ।
यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन् पतेत् ॥ ३९ ॥

ऋणैः त्रिभिः द्वि-जः जातः देव ऋषि पितॄणाम् प्रभो यज्ञ अध्ययन पुत्रैः तानि अनिस्तीर्य त्यजन् पतेत्

त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते ।
यज्ञैर्देवर्णमुन्मुच्य निर्ऋणोऽशरणो भव ॥ ४० ॥

त्वम् तु अद्य मुक्तः द्वाभ्याम् वै ऋषि पित्रोः महा-मते यज्ञैः देव ऋणम् उन्मुच्य निरृणः अशरणः भव

वसुदेव भवान् नूनं भक्त्या परमया हरिम् ।
जगतामीश्वरं प्रार्च: स यद् वां पुत्रतां गत: ॥ ४१ ॥

वसुदेव भवान् नूनम् भक्त्या परमया हरिम् जगताम् ईश्वरम् प्रार्चः सः यत् वाम् पुत्रताम् गतः

श्रीशुक उवाच
इति तद्वचनं श्रुत्वा वसुदेवो महामना: ।
तानृषीनृत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च ॥ ४२ ॥

श्री-शुकः उवाच इति तत् वचनम् श्रुत्वा वसुदेवः महा-मनाः तान् ऋषीन् ऋत्विजः वव्रे मूर्ध्ना आनम्य प्रसाद्य च

त एनमृषयो राजन् वृता धर्मेण धार्मिकम् ।
तस्मिन्नयाजयन् क्षेत्रे मखैरुत्तमकल्पकै: ॥ ४३ ॥

ते एनम् ऋषयः राजन् वृताः धर्मेण धार्मिकम् तस्मिन् अयाजयन् क्षेत्रे मखैः उत्तम कल्पकैः

तद्दीक्षायां प्रवृत्तायां वृष्णय: पुष्करस्रज: ।
स्‍नाता: सुवाससो राजन् राजान: सुष्ठ्वलङ्कृता: ॥ ४४ ॥
तन्महिष्यश्च मुदिता निष्ककण्ठ्य: सुवासस: ।
दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणय: ॥ ४५ ॥

तत् दीक्षायाम् प्रवृत्तायाम् वृष्णयः पुष्कर स्रजः स्नाताः सुवाससः राजन् राजानः सुष्ठु अलङ्कृताः तत् महिष्यः च मुदिताः निष्क कण्ठ्यः सु-वाससः दीक्षा शालाम् उपाजग्मुः आलिप्ताः वस्तु पाणयः

नेदुर्मृदङ्गपटहशङ्खभेर्यानकादय: ।
ननृतुर्नटनर्तक्यस्तुष्टुवु: सूतमागधा: ।
जगु: सुकण्ठ्यो गन्धर्व्य: सङ्गीतं सहभर्तृका: ॥ ४६ ॥

नेदुः मृदङ्ग-पटह शङ्ख भेरी-आनक आदयः ननृतुः नट-नर्तक्यः तुष्टुवुः सूत-मागधाः जगुः सु-कण्ठ्यः गन्धर्व्यः सङ्गीतम् सह भर्तृकाः

तमभ्यषिञ्चन् विधिवदक्तमभ्यक्तमृत्विज: ।
पत्नीभिरष्टादशभि: सोमराजमिवोडुभि: ॥ ४७ ॥

तम् अभ्यषिञ्चन् विधिवत् अक्तम् अभ्यक्तम् ऋत्विजः पत्नीभिः अष्टा-दशभिः सोम-राजम् इव उडुभिः

ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलै: ।
स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृत: ॥ ४८ ॥

ताभिः दुकूल वलयैः हार नूपुर कुण्डलैः सु अलङ्कृताभिः विबभौ दीक्षितः अजिन संवृतः

तस्यर्त्विजो महाराज रत्नकौशेयवासस: ।
ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ४९ ॥

तस्य ऋत्विजः महा-राज रत्न कौशेय वाससः स सदस्याः विरेजुः ते यथा वृत्र-हणः अध्वरे

तदा रामश्च कृष्णश्च स्वै: स्वैर्बन्धुभिरन्वितौ ।
रेजतु: स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभि: ॥ ५० ॥

तदा रामः च कृष्णः च स्वैः स्वैः बन्धुभिः अन्वितौ रेजतुः स्व सुतैः दारैः जीव ईशौ स्व-विभूतिभिः

ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणै: ।
प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् ॥ ५१ ॥

ईजे अनु-यज्ञम् विधिना अग्नि-होत्र आदि लक्षणैः प्राकृतैः वैकृतैः यज्ञैः द्रव्य ज्ञान क्रिया ईश्वरम्

अथर्त्विग्भ्योऽददात् काले यथाम्नातं स दक्षिणा: ।
स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधना: ॥ ५२ ॥

अथ ऋत्विग्भ्यः अददात् काले यथा-आम्नातम् सः दक्षिणाः सु-अलङ्कृतेभ्यः अलङ्कृत्य गो भू कन्याः महा धनाः

पत्नीसंयाजावभृथ्यैश्चरित्वा ते महर्षय: ।
सस्‍नू रामह्रदे विप्रा यजमानपुर:सरा: ॥ ५३ ॥

पत्नी-संयाज अवभृथ्यैः चरित्वा ते महाऋषयः सस्नुः राम ह्रदे विप्राः यजमान पुरः-सराः

स्‍नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्‍त्रिय: ।
तत: स्वलङ्कृतो वर्णानाश्वभ्योऽन्नेन पूजयत् ॥ ५४ ॥

स्नातः अलङ्कार वासांसि वन्दिभ्यः अदात् तथा स्त्रियः ततः सु-अलङ्कृतः वर्णान् आ श्वभ्यः अन्नेन पूजयत्

बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा ।
विदर्भकोशलकुरून् काशिकेकयसृञ्जयान् ॥ ५५ ॥
सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् ।
श्रीनिकेतमनुज्ञाप्य शंसन्त: प्रययु: क्रतुम् ॥ ५६ ॥

बन्धून् स-दारान् स-सुतान् पारिबर्हेण भूयसा विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान् सदस्य ऋत्विक् सुर-गणान् नृ भूत पितृ चारणान् श्री-निकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम्

धृतराष्ट्रोऽनुज: पार्था भीष्मो द्रोण: पृथा यमौ ।
नारदो भगवान् व्यास: सुहृत्सम्बन्धिबान्धवा: ॥ ५७ ॥
बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्नचेतस: ।
ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जना: ॥ ५८ ॥

धृतराष्ट्रः अनुजः पार्थाः भीष्मः द्रोणः पृथा यमौ नारदः भगवान् व्यासः सुहृत् सम्बन्धि बान्धवाः बन्धून् परिष्वज्य यदून् सौहृद आक्लिन्न चेतसः ययुः विरह कृच्छ्रेण स्व देशान् च अपरे जनाः

नन्दस्तु सह गोपालैर्बृहत्या पूजयार्चित: ।
कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद् बन्धुवत्सल: ॥ ५९ ॥

नन्दः तु सह गोपालैः बृहत्या पूजया अर्चितः कृष्ण-राम-उग्रसेन-आद्यैः न्यवात्सीत् बन्धु वत्सलः

वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् ।
सुहृद् वृत: प्रीतमना नन्दमाह करे स्पृशन् ॥ ६० ॥

वसुदेवः अञ्जसा उत्तीर्य मनः-रथ महा अर्णवम् सुहृत् वृतः प्रीत मनाः नन्दम् आह करे स्पृशन्

श्रीवसुदेव उवाच
भ्रातरीशकृत: पाशो नृणां य: स्‍नेहसंज्ञित: ।
तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥ ६१ ॥

श्री-वसुदेवः उवाच भ्रातः ईश कृतः पाशः नृणाम् यः स्नेह संज्ञितः तम् दुस्त्यजम् अहम् मन्ये शूराणाम् अपि योगिनाम्

अस्मास्वप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमै: ।
मैत्र्यर्पिताफला चापि न निवर्तेत कर्हिचित् ॥ ६२ ॥

अस्मासु अप्रतिकल्पा इयम् यत् कृत-अज्ञेषु सत्-तमैः मैत्री अर्पिता अफला च अपि न निवर्तेत कर्हिचित्

प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि ।
अधुना श्रीमदान्धाक्षा न पश्याम: पुर: सत: ॥ ६३ ॥

प्राक् अकल्पात् च कुशलम् भ्रातः वः न आचराम हि अधुना श्री मद अन्ध अक्षाः न पश्यामः पुरः सतः

मा राज्यश्रीरभूत् पुंस: श्रेयस्कामस्य मानद ।
स्वजनानुत बन्धून् वा न पश्यति ययान्धद‍ृक् ॥ ६४ ॥

मा राज्य श्रीः अभूत् पुंसः श्रेयः कामस्य मान-द स्व-जनान् उत बन्धून् वा न पश्यति यया अन्ध दृक्

श्रीशुक उवाच
एवं सौहृदशैथिल्यचित्त आनकदुन्दुभि: ।
रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचन: ॥ ६५ ॥

श्री-शुकः उवाच एवम् सौहृद शैथिल्य चित्तः आनकदुन्दुभिः रुरोद तत् कृताम् मैत्रीम् स्मरन् अश्रु विलोचनः

नन्दस्तु सख्यु: प्रियकृत् प्रेम्णा गोविन्दरामयो: ।
अद्य श्व इति मासांस्‍त्रीन् यदुभिर्मानितोऽवसत् ॥ ६६ ॥

नन्दः तु सख्युः प्रिय कृत् प्रेम्णा गोविन्द-रामयोः अद्य श्वः इति मासान् त्रीन् यदुभिः मानितः अवसत्

तत: कामै: पूर्यमाण: सव्रज: सहबान्धव: ।
परार्ध्याभरणक्षौमनानानर्घ्यपरिच्छदै: ॥ ६७ ॥
वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभि: ।
दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥ ६८ ॥

ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः पर अर्ध्य आभरण क्षौम नाना अनर्घ्य परिच्छदैः वसुदेव-उग्रसेनाभ्याम् कृष्ण-उद्धव-बल-आदिभिः दत्तम् आदाय पारिबर्हम् यापितः यदुभिः ययौ

नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे ।
मन: क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययु: ॥ ६९ ॥

नन्दः गोपाः च गोप्यः च गोविन्द चरण-अम्बुजे मनः क्षिप्तम् पुनः हर्तुम् अनीशाः मथुराम् ययुः

बन्धुषु प्रतियातेषु वृष्णय: कृष्णदेवता: ।
वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुन: ॥ ७० ॥

बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः वीक्ष्य प्रावृषम् आसन्नात् ययुः द्वारवतीम् पुनः

जनेभ्य: कथयां चक्रुर्यदुदेवमहोत्सवम् ।
यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् ॥ ७१ ॥

जनेभ्यः कथयाम् चक्रुः यदु-देव महा-उत्सवम् यत् आसीत् तीर्थ-यात्रायाम् सुहृत् सन्दर्शन आदिकम्

१०.८५

श्रीबादरायणिरुवाच
अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ ।
वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ १ ॥

श्री-बादरायणिः उवाच अथ एकदा आत्मजौ प्राप्तौ कृत पाद अभिवन्दनौ वसुदेवः अभिनन्द्य आह प्रीत्या सङ्कर्षण-अच्युतौ

मुनीनां स वच: श्रुत्वा पुत्रयोर्धामसूचकम् ।
तद्वीर्यैर्जातविश्रम्भ: परिभाष्याभ्यभाषत ॥ २ ॥

मुनीनाम् सः वचः श्रुत्वा पुत्रयोः धाम सूचकम् तत् वीर्यैः जात विस्रम्भः परिभाष्य अभ्यभाषत

कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन ।
जाने वामस्य यत् साक्षात् प्रधानपुरुषौ परौ ॥ ३ ॥

कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन जाने वाम् अस्य यत् साक्षात् प्रधान पुरुषौ परौ

यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा ।
स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वर: ॥ ४ ॥

यत्र येन यतः यस्य यस्मै यत् यत् यथा यदा स्यात् इदम् भगवान् साक्षात् प्रधान-पुरुष ईश्वरः

एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज ।
आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्यज ॥ ५ ॥

एतत् नाना-विधम् विश्वम् आत्म सृष्टम् अधोक्षज आत्मना अनुप्रविश्य आत्मन् प्राणः जीवः बिभर्षि अज

प्राणादीनां विश्वसृजां शक्तयो या: परस्य ता: ।
पारतन्त्र्याद् वैसाद‍ृश्याद् द्वयोश्चेष्टैव चेष्टताम् ॥ ६ ॥

प्राण आदीनाम् विश्व सृजाम् शक्तयः याः परस्य ताः पारतन्त्र्यात् वैसादृश्यात् द्वयोः चेष्टा एव चेष्टताम्

कान्तिस्तेज: प्रभा सत्ता चन्द्राग्‍न्यर्कर्क्षविद्युताम् ।
यत् स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ॥ ७ ॥

कान्तिः तेजः प्रभा सत्ता चन्द्र अग्नि अर्क ऋक्ष विद्युताम् यत् स्थैर्यम् भू-भृताम् भूमेः वृत्तिः गन्धः अर्थतः भवान्

तर्पणं प्राणनमपां देवत्वं ताश्च तद्रस: ।
ओज: सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ॥ ८ ॥

तर्पणम् प्राणनम् अपाम् देव त्वम् ताः च तत् रसः ओजः सहः बलम् चेष्टा गतिः वायोः तव ईश्वर

दिशां त्वमवकाशोऽसि दिश: खं स्फोट आश्रय: ।
नादो वर्णस्त्वम् ॐकार आकृतीनां पृथक्कृति: ॥ ९ ॥

दिशाम् त्वम् अवकाशः असि दिशः खम् स्फोटः आश्रयः नादः वर्णः त्वम् ओंकारः आकृतीनाम् पृथक्-कृतिः

इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रह: ।
अवबोधो भवान् बुद्धेर्जीवस्यानुस्मृति: सती ॥ १० ॥

इन्द्रियम् तु इन्द्रियाणाम् त्वम् देवाः च तत् अनुग्रहः अवबोधः भवान् बुद्धेः जीवस्य अनुस्मृतिः सती

भूतानामसि भूतादिरिन्द्रियाणां च तैजस: ।
वैकारिको विकल्पानां प्रधानमनुशायिनम् ॥ ११ ॥

भूतानाम् असि भूत-आदिः इन्द्रियाणाम् च तैजसः वैकारिकः विकल्पानाम् प्रधानम् अनुशायिनम्

नश्वरेष्विह भावेषु तदसि त्वमनश्वरम् ।
यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् ॥ १२ ॥

नश्वरेषु इह भावेषु तत् असि त्वम् अनश्वरम् यथा द्रव्य विकारेषु द्रव्य-मात्रम् निरूपितम्

सत्त्वं रजस्तम इति गुणास्तद्‌वृत्तयश्च या: ।
त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ १३ ॥

सत्त्वम् रजः तमः इति गुणाः तत् वृत्तयः च याः त्वयि अद्धाः ब्रह्मणि परे कल्पिताः योग-मायया

तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिता: ।
त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिक: ॥ १४ ॥

तस्मात् न सन्ति अमी भावाः यर्हि त्वयि विकल्पिताः त्वम् च अमीषु विकारेषु हि अन्यदा अव्यावहारिकः

गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मन: ।
गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभि: ॥ १५ ॥

गुण प्रवाहे एतस्मिन् अबुधाः तु अखिल आत्मनः गतिम् सूक्ष्माम् अबोधेन संसरन्ति इह कर्मभिः

यद‍ृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम् ।
स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥ १६ ॥

यदृच्छया नृताम् प्राप्य सु-कल्पाम् इह दुर्लभाम् स्व अर्थे प्रमत्तस्य वयः गतम् त्वत् मायया ईश्वर

असावहं ममैवैते देहे चास्यान्वयादिषु ।
स्‍नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत् ॥ १७ ॥

असौ अहम् मम एव एते देहे च अस्य अन्वय-आदिषु स्नेह पाशैः निबध्नाति भवान् सर्वम् इदम् जगत्

युवां न न: सुतौ साक्षात् प्रधानपुरुषेश्वरौ ।
भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह ॥ १८ ॥

युवाम् न नः सुतौ साक्षात् प्रधान-पुरुष ईश्वरौ भू भार क्षत्र क्षपणे अवतीर्णौ तथा आत्थ ह

तत्ते गतोऽस्म्यरणमद्य पदारविन्द-
मापन्नसंसृतिभयापहमार्तबन्धो ।
एतावतालमलमिन्द्रियलालसेन
मर्त्यात्मद‍ृक् त्वयि परे यदपत्यबुद्धि: ॥ १९ ॥

तत् ते गतः अस्मि अरणम् अद्य पाद-अरविन्दम् आपन्न संसृति भय अपहम् आर्त बन्धो एतावता अलम् अलम् इन्द्रिय लालसेन मर्त्य आत्म दृक् त्वयि परे यत् अपत्य बुद्धिः

सूतीगृहे ननु जगाद भवानजो नौ
सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्‍त्‍यै ।
नानातनूर्गगनवद् विदधज्जहासि
को वेद भूम्न उरुगाय विभूतिमायाम् ॥ २० ॥

सूती-गृहे ननु जगाद भवान् अजः नौ सञ्जज्ञे इति अनु-युगम् निज धर्म गुप्त्यै नाना तनूः गगन-वत् विदधत् जहासि कः वेद भूम्नः उरु-गाय विभूति मायाम्

श्रीशुक उवाच
आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभ: ।
प्रत्याह प्रश्रयानम्र: प्रहसन् श्लक्ष्णया गिरा ॥ २१ ॥

श्री-शुकः उवाच आकर्ण्य इत्थम् पितुः वाक्यम् भगवान् सात्वत-ऋषभः प्रत्याह प्रश्रय आनम्रः प्रहसन् श्लक्ष्णया गिरा

श्रीभगवानुवाच
वचो व: समवेतार्थं तातैतदुपमन्महे ।
यन्न: पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृत: ॥ २२ ॥

श्री-भगवान् उवाच वचः वः समवेत अर्थम् तात एतत् उपमन्महे यत् नः पुत्रान् समुद्दिश्य तत्त्व ग्रामः उदाहृतः

अहं यूयमसावार्य इमे च द्वारकौकस: ।
सर्वेऽप्येवं यदुश्रेष्ठ विमृग्या: सचराचरम् ॥ २३ ॥

अहम् यूयम् असौ आर्यः इमे च द्वारका-ओकसः सर्वे अपि एवम् यदु-श्रेष्ठ विमृग्याः स चर अचरम्

आत्मा ह्येक: स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणै: ।
आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥ २४ ॥

आत्मा हि एकः स्वयम्-ज्योतिः नित्यः अन्यः निर्गुणः गुणैः आत्म सृष्टैः तत् कृतेषु भूतेषु बहुधा ईयते

खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् ।
आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ॥ २५ ॥

खम् वायुः ज्योतिः आपः भूः तत् कृतेषु यथा-आशयम् आविः तिरः अल्प भूरि एकः नानात्वम् याति असौ अपि

श्रीशुक उवाच
एवं भगवता राजन् वसुदेव उदाहृत: ।
श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् ॥ २६ ॥

श्री-शुकः उवाच एवम् भगवता राजन् वसुदेवः उदाहृतः श्रुत्वा विनष्ट नाना धीः तूष्णीम् प्रीत मनाः अभूत्

अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता ।
श्रुत्वानीतं गुरो: पुत्रमात्मजाभ्यां सुविस्मिता ॥ २७ ॥
कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् ।
स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना ॥ २८ ॥

अथ तत्र कुरु-श्रेष्ठ देवकी सर्व देवता श्रुत्वा नीतम् गुरोः पुत्रम् आत्मजाभ्याम् सु विस्मिता कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् स्मरन्ती कृपणम् प्राह वैक्लव्यात् अश्रु लोचना

श्रीदेवक्युवाच
राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर ।
वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ ॥ २९ ॥

श्री-देवकी उवाच राम राम अप्रमेय-आत्मन् कृष्ण योग-ईश्वर ईश्वर वेद अहम् वाम् विश्व सृजाम् ईश्वरौ आदि पूरुषौ

कालविध्वस्तसत्त्वानां राज्ञामुच्छास्‍त्रवर्तिनाम् ।
भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे ॥ ३० ॥

काल विध्वस्त सत्त्वानाम् राज्ञाम् उत्-शास्त्र वर्तिनाम् भूमेः भारायमाणानाम् अवतीर्णौ किल अद्य मे

यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदया: ।
भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ॥ ३१ ॥

यस्य अंश अंश अंश भागेन विश्व उत्पत्ति लय उदयाः भवन्ति किल विश्व-आत्मन् तत् त्वा अद्य अहम् गतिम् गता

चिरान्मृतसुतादाने गुरुणा किल चोदितौ ।
आनिन्यथु: पितृस्थानाद् गुरवे गुरुदक्षिणाम् ॥ ३२ ॥
तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ ।
भोजराजहतान् पुत्रान् कामये द्रष्टुमाहृतान् ॥ ३३ ॥

चिरात् मृत सुत आदाने गुरुणा किल चोदितौ आनिन्यथुः पितृ स्थानात् गुरवे गुरु-दक्षिणाम् तथा मे कुरुतम् कामम् युवाम् योग-ईश्वर ईश्वरौ भोज-राज हतान् पुत्रान् कामये द्रष्टुम् आहृतान्

ऋषिरुवाच
एवं सञ्चोदितौ मात्रा राम: कृष्णश्च भारत ।
सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥ ३४ ॥

ऋषिः उवाच एवम् सञ्चोदितौ मात्रा रामः कृष्णः च भारत सुतलम् संविविशतुः योग-मायायम् उपाश्रितौ

तस्मिन् प्रविष्टावुपलभ्य दैत्यराड्
विश्वात्मदैवं सुतरां तथात्मन: ।
तद्दर्शनाह्लादपरिप्लुताशय:
सद्य: समुत्थाय ननाम सान्वय: ॥ ३५ ॥

तस्मिन् प्रविष्टौ उपलभ्य दैत्य-राट् विश्व आत्म दैवम् सुतराम् तथा आत्मनः तत् दर्शन आह्लाद परिप्लुत आशयः सद्यः समुत्थाय ननाम स अन्वयः

तयो: समानीय वरासनं मुदा
निविष्टयोस्तत्र महात्मनोस्तयो: ।
दधार पादाववनिज्य तज्जलं
सवृन्द आब्रह्म पुनद् यदम्बु ह ॥ ३६ ॥

तयोः समानीय वर आसनम् मुदा निविष्टयोः तत्र महा-आत्मनोः तयोः दधार पादौ अवनिज्य तत् जलम् स वृन्दः आ-ब्रह्म पुनत् यत् अम्बु ह

समर्हयामास स तौ विभूतिभि-
र्महार्हवस्‍त्राभरणानुलेपनै: ।
ताम्बूलदीपामृतभक्षणादिभि:
स्वगोत्रवित्तात्मसमर्पणेन च ॥ ३७ ॥

समर्हयाम् आस सः तौ विभूतिभिः महा-अर्ह वस्त्र आभरण अनुलेपनैः ताम्बूल दीप अमृत भक्षण आदिभिः स्व गोत्र वित्त आत्म समर्पणेन च

स इन्द्रसेनो भगवत्पदाम्बुजं
बिभ्रन्मुहु: प्रेमविभिन्नया धिया ।
उवाच हानन्दजलाकुलेक्षण:
प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ ३८ ॥

सः इन्द्र-सेनः भगवत् पाद-अम्बुजम् बिभ्रत् मुहुः प्रेम विभिन्नया धिया उवाच ह आनन्द जल आकुल ईक्षणः प्रहृष्ट रोमा नृप गद्गद अक्षरम्

बलिरुवाच
नमोऽनन्ताय बृहते नम: कृष्णाय वेधसे ।
साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥ ३९ ॥

बलिः उवाच नमः अनन्ताय बृहते नमः कृष्णाय वेधसे साङ्ख्य योग वितानाय ब्रह्मणे परम-आत्मने

दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम् ।
रजस्तम:स्वभावानां यन्न: प्राप्तौ यद‍ृच्छया ॥ ४० ॥

दर्शनम् वाम् हि भूतानाम् दुष्प्रापम् च अपि अदुर्लभम् रजः तमः स्वभावानाम् यत् नः प्राप्तौ यदृच्छया

दैत्यदानवगन्धर्वा: सिद्धविद्याध्रचारणा: ।
यक्षरक्ष:पिशाचाश्च भूतप्रमथनायका: ॥ ४१ ॥
विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्‍त्रशरीरिणि ।
नित्यं निबद्धवैरास्ते वयं चान्ये च ताद‍ृशा: ॥ ४२ ॥
केचनोद्बद्धवैरेण भक्त्या केचन कामत: ।
न तथा सत्त्वसंरब्धा: सन्निकृष्टा: सुरादय: ॥ ४३ ॥

दैत्य-दानव गन्धर्वाः सिद्ध-विद्याधर-चारणाः यक्ष रक्षः पिशाचाः च भूत प्रमथ-नायकाः विशुद्ध सत्त्व धाम्नि अद्धा त्वयि शास्त्र शरीरिणि नित्यम् निबद्ध वैराः ते वयम् च अन्ये च तादृशाः केचन उद्बद्ध वैरेण भक्त्या केचन कामतः न तथा सत्त्व संरब्धाः सन्निकृष्टाः सुर आदयः

इदमित्थमिति प्रायस्तव योगेश्वरेश्वर ।
न विदन्त्यपि योगेशा योगमायां कुतो वयम् ॥ ४४ ॥

इदम् इत्थम् इति प्रायः तव योग-ईश्वर ईश्वर न विदन्ति अपि योग-ईशाः योग-मायाम् कुतः वयम्

तन्न: प्रसीद निरपेक्षविमृग्ययुष्मत्-
पादारविन्दधिषणान्यगृहान्धकूपात् ।
निष्क्रम्य विश्वशरणाङ्घ्रय‍ुपलब्धवृत्ति:
शान्तो यथैक उत सर्वसखैश्चरामि ॥ ४५ ॥

तत् नः प्रसीद निरपेक्ष विमृग्य युष्मत् पाद अरविन्द धिषण अन्य गृह अन्ध कूपात् निष्क्रम्य विश्व शरण अङ्घ्रि उपलब्ध वृत्तिः शान्तः यथा एकः उत सर्व सखैः चरामि

शाध्यस्मानीशितव्येश निष्पापान् कुरु न: प्रभो ।
पुमान् यच्छ्रद्धयातिष्ठंश्चोदनाया विमुच्यते ॥ ४६ ॥

शाधि अस्मान् ईशितव्य ईश निष्पापान् कुरु नः प्रभो पुमान् यत् श्रद्धया आतिष्ठन् चोदनायाः विमुच्यते

श्रीभगवानुवाच
आसन्मरीचे: षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे ।
देवा: कं जहसुर्वीक्ष्य सुतं यभितुमुद्यतम् ॥ ४७ ॥

श्री-भगवान् उवाच आसन् मरीचेः षट् पुत्राः ऊर्णायाम् प्रथमे अन्तरे देवाः कम् जहसुः वीक्ष्य सुताम् यभितुम् उद्यतम्

तेनासुरीमगन् योनिमधुनावद्यकर्मणा ।
हिरण्यकशिपोर्जाता नीतास्ते योगमायया ॥ ४८ ॥
देवक्या उदरे जाता राजन् कंसविहिंसिता: ।
सा तान् शोचत्यात्मजान् स्वांस्त इमेऽध्यासतेऽन्तिके ॥ ४९ ॥

तेन आसुरीम् अगन् योनिम् अधुना अवद्य कर्मणा हिरण्यकशिपोः जाताः नीताः ते योग-मायया देवक्याः उदरे जाताः राजन् कंस विहिंसिताः सा तान् शोचति आत्म-जान् स्वान् ते इमे अध्यासते अन्तिके

इत एतान् प्रणेष्यामो मातृशोकापनुत्तये ।
तत: शापाद् विनिर्मुक्ता लोकं यास्यन्ति विज्वरा: ॥ ५० ॥

इतः एतान् प्रणेष्यामः मातृ शोक अपनुत्तये ततः शापात् विनिर्मुक्ताः लोकम् यास्यन्ति विज्वराः

स्मरोद्गीथ: परिष्वङ्ग: पतङ्ग: क्षुद्रभृद् घृणी ।
षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ॥ ५१ ॥

स्मर-उद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृत् घृणी षट् इमे मत् प्रसादेन पुनः यास्यन्ति सत् गतिम्

इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ ।
पुनर्द्वारवतीमेत्य मातु: पुत्रानयच्छताम् ॥ ५२ ॥

इति उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ पुनः द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम्

तान् द‍ृष्ट्वा बालकान् देवी पुत्रस्‍नेहस्‍नुतस्तनी ।
परिष्वज्याङ्कमारोप्य मूर्ध्‍न्यजिघ्रदभीक्ष्णश: ॥ ५३ ॥

तान् दृष्ट्वा बालकान् देवी पुत्र स्नेह स्नुत स्तनी परिष्वज्य अङ्कम् आरोप्य मूर्ध्नि अजिघ्रत् अभीक्ष्णशः

अपाययत् स्तनं प्रीता सुतस्पर्शपरिस्‍नुतम् ।
मोहिता मायया विष्णोर्यया सृष्टि: प्रवर्तते ॥ ५४ ॥

अपाययत् स्तनम् प्रीता सुत स्पर्श परिस्नुतम् मोहिता मायया विष्णोः यया सृष्टिः प्रवर्तते

पीत्वामृतं पयस्तस्या: पीतशेषं गदाभृत: ।
नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शना: ॥ ५५ ॥
ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् ।
मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ॥ ५६ ॥

पीत्वा अमृतम् पयः तस्याः पीत शेषम् गदा-भृतः नारायण अङ्ग संस्पर्श प्रतिलब्ध आत्म दर्शनाः ते नमस्कृत्य गोविन्दम् देवकीम् पितरम् बलम् मिषताम् सर्व भूतानाम् ययुः धाम दिव-ओकसाम्

तं द‍ृष्ट्वा देवकी देवी मृतागमननिर्गमम् ।
मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥ ५७ ॥

तम् दृष्ट्वा देवकी देवी मृत आगमन निर्गमम् मेने सु विस्मिता मायाम् कृष्णस्य रचिताम् नृप

एवंविधान्यद्भ‍ुतानि कृष्णस्य परमात्मन: ।
वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५८ ॥

एवम्-विधानि अद्भुतानि कृष्णस्य परम-आत्मनः वीर्याणि अनन्त वीर्यस्य सन्ति अनन्तानि भारत

श्रीसूत उवाच
य इदमनुश‍ृणोति श्रावयेद् वा मुरारे-
श्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रै: ।
जगदघभिदलं तद्भ‍क्तसत्कर्णपूरं
भगवति कृतचित्तो याति तत्क्षेमधाम ॥ ५९ ॥

श्री-सूतः उवाच यः इदम् अनुशृणोति श्रावयेत् वा मुरारेः चरितम् अमृत कीर्तेः वर्णितम् व्यास-पुत्रैः जगत् अघ भित् अलम् तत् भक्त सत् कर्ण-पूरम् भगवति कृत चित्तः याति तत् क्षेम धाम

१०.८६

श्रीराजोवाच
ब्रह्मन् वेदितुमिच्छाम: स्वसारां रामकृष्णयो: ।
यथोपयेमे विजयो या ममासीत् पितामही ॥ १ ॥

श्री-राजा उवाच ब्रह्मन् वेदितुम् इच्छामः स्वसारम् राम-कृष्णयोः यथा उपयेमे विजयः या मम आसीत् पितामही

श्रीशुक उवाच
अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभु: ।
गत: प्रभासमश‍ृणोन्मातुलेयीं स आत्मन: ॥ २ ॥
दुर्योधनाय रामस्तां दास्यतीति न चापरे ।
तल्लिप्सु: स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ॥ ३ ॥

श्री-शुकः उवाच अर्जुनः तीर्थ यात्रायाम् पर्यटन् अवनीम् प्रभुः गतः प्रभासम् अशृणोत् मातुलेयीम् सः आत्मनः दुर्योधनाय रामः ताम् दास्यति इति न च अपरे तत् लिप्सुः सः यतिः भूत्वा त्रि-दण्डी द्वारकाम् अगात्

तत्र वै वार्षितान् मासानवात्सीत् स्वार्थसाधक: ।
पौरै: सभाजितोऽभीक्ष्णं रामेणाजानता च स: ॥ ४ ॥

तत्र वै वार्षिकान् मासान् अवात्सीत् स्व अर्थ साधकः पौरैः सभाजितः अभीक्ष्णम् रामेण अजानता च सः

एकदा गृहमानीय आतिथ्येन निमन्‍त्र्य तम् ।
श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ ५ ॥

एकदा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् श्रद्धया उपहृतम् भैक्ष्यम् बलेन बुभुजे किल

सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् ।
प्रीत्युत्फुल्ल‍ेक्षणस्तस्यां भावक्षुब्धं मनो दधे ॥ ६ ॥

सः अपश्यत् तत्र महतीम् कन्याम् वीर मनः-हराम् प्रीति उत्फुल्ल ईक्षनः तस्याम् भाव क्षुब्धम् मनः दधे

सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम् ।
हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा ॥ ७ ॥

सा अपि तम् चकमे वीक्ष्य नारीणाम् हृदयम्-गमम् हसन्ती व्रीडिता अपाङ्गी तत् न्यस्त हृदय ईक्षणा

तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुन: ।
न लेभे शं भ्रमच्चित्त: कामेनातिबलीयसा ॥ ८ ॥

ताम् परम् समनुध्यायन् अन्तरम् प्रेप्सुः अर्जुनः न लेभे शम् भ्रमत् चित्तः कामेन अति-बलीयसा

महत्यां देवयात्रायां रथस्थां दुर्गनिर्गताम् ।
जहारानुमत: पित्रो: कृष्णस्य च महारथ: ॥ ९ ॥

महत्याम् देव यात्रायाम् रथ स्थाम् दुर्ग निर्गताम् जहार अनुमतः पित्रोः कृष्णस्य च महा-रथः

रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् ।
विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव ॥ १० ॥

रथ स्थः धनुः आदाय शूरान् च अरुन्धतः भटान् विद्राव्य क्रोशताम् स्वानाम् स्व भागम् मृग-राट् इव

तच्छ्रुत्वा क्षुभितो राम: पर्वणीव महार्णव: ।
गृहीतपाद: कृष्णेन सुहृद्भ‍िश्चानुसान्‍त्‍वित: ॥ ११ ॥

तत् श्रुत्वा क्षुभितः रामः पर्वणि इव महा-अर्णवः गृहीत पादः कृष्णेन सुहृद्भिः च अनुसान्त्वितः

प्राहिणोत् पारिबर्हाणि वरवध्वोर्मुदा बल: ।
महाधनोपस्करेभरथाश्वनरयोषित: ॥ १२ ॥

प्राहिणोत् पारिबर्हाणि वर-वध्वोः मुदा बलः महा-धन उपस्कर इभ रथ अश्व नर योषितः

श्रीशुक उवाच
कृष्णस्यासीद् द्विजश्रेष्ठ: श्रुतदेव इति श्रुत: ।
कृष्णैकभक्त्या पूर्णार्थ: शान्त: कविरलम्पट: ॥ १३ ॥

श्री-शुकः उवाच कृष्णस्य आसीत् द्विज श्रेष्ठः श्रुतदेवः इति श्रुतः कृष्ण एक भक्त्या पूर्ण अर्थः शान्तः कविः अलम्पटः

स उवास विदेहेषु मिथिलायां गृहाश्रमी ।
अनीहयागताहार्यनिर्वर्तितनिजक्रिय: ॥ १४ ॥

सः उवास विदेहेषु मिथिलायाम् गृह-आश्रमी अनीहया आगत आहार्य निर्वर्तित निज क्रियः

यात्रामात्रं त्वहरहर्दैवादुपनमत्युत ।
नाधिकं तावता तुष्ट: क्रिया चक्रे यथोचिता: ॥ १५ ॥

यात्रा-मात्रम् तु अहः अहः दैवात् उपनमति उत न अधिकम् तावता तुष्टः क्रियाः चक्रे यथा उचिताः

तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुत: ।
मैथिलो निरहम्मान उभावप्यच्युतप्रियौ ॥ १६ ॥

तथा तत् राष्ट्र पालः अङ्ग बहुलाश्वः इति श्रुतः मैथिलः निरहम्-मानः उभौ अपि अच्युत-प्रियौ

तयो: प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।
आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभु: ॥ १७ ॥

तयोः प्रसन्नः भगवान् दारुकेण आहृतम् रथम् आरुह्य साकम् मुनिभिः विदेहान् प्रययौ प्रभुः

नारदो वामदेवोऽत्रि: कृष्णो रामोऽसितोऽरुणि: ।
अहं बृहस्पति: कण्वो मैत्रेयश्‍च्यवनादय: ॥ १८ ॥

नारदः वामदेवः अत्रिः कृष्णः रामः असितः अरुणिः अहम् बृहस्पतिः कण्वः मैत्रेयः च्यवन आदयः

तत्र तत्र तमायान्तं पौरा जानपदा नृप ।
उपतस्थु: सार्घ्यहस्ता ग्रहै: सूर्यमिवोदितम् ॥ १९ ॥

तत्र तत्र तम् आयान्तम् पौराः जानपदाः नृप उपतस्थुः स अर्घ्य हस्ताः ग्रहैः सूर्यम् इव उदितम्

आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य-
पाञ्चालकुन्तिमधुकेकयकोशलार्णा: ।
अन्ये च तन्मुखसरोजमुदारहास-
स्‍निग्धेक्षणं नृप पपुर्द‍ृशिभिर्नृनार्य: ॥ २० ॥

आनर्त धन्व कुरु-जाङ्गल कङ्क मत्स्य पाञ्चाल कुन्ति मधु केकय कोशल अर्णाः अन्ये च तत् मुख सरोजम् उदार हास स्निग्ध ईक्षणम् नृप पपुः दृशिभिः नृ-नार्यः

तेभ्य: स्ववीक्षणविनष्टतमिस्रद‍ृग्भ्य:
क्षेमं त्रिलोकगुरुरर्थद‍ृशं च यच्छन् ।
श‍ृण्वन् दिगन्तधवलं स्वयशोऽशुभघ्नं
गीतं सुरैर्नृभिरगाच्छनकैर्विदेहान् ॥ २१ ॥

तेभ्यः स्व वीक्षण विनष्ट तमिस्र दृग्भ्यः क्षेमम् त्रि लोक गुरुः अर्थ-दृशम् च यच्छन् शृण्वन् दिक् अन्त धवलम् स्व यशः अशुभ घ्नम् गीतम् सुरैः नृभिः अगात् शनकैः विदेहान्

तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप ।
अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणय: ॥ २२ ॥

ते अच्युतम् प्राप्तम् आकर्ण्य पौराः जानपदाः नृप अभीयुः मुदिताः तस्मै गृहीत अर्हण पाणयः

द‍ृष्ट्वा त उत्तम:श्लोकं प्रीत्युत्फुलाननाशया: ।
कैर्धृताञ्जलिभिर्नेमु: श्रुतपूर्वांस्तथा मुनीन् ॥ २३ ॥

दृष्ट्वा ते उत्तमः-श्लोकम् प्रीति उत्फुल्ल आनन आशयाः कैः धृत अञ्जलिभिः नेमुः श्रुत पूर्वान् तथा मुनीन्

स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् ।
मैथिल: श्रुतदेवश्च पादयो: पेततु: प्रभो: ॥ २४ ॥

स्त अनुग्रहाय सम्प्राप्तम् मन्वानौ तम् जगत् गुरुम् मैथिलः श्रुतदेवः च पादयोः पेततुः प्रभोः

न्यमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजै: ।
मैथिल: श्रुतदेवश्च युगपत् संहताञ्जली ॥ २५ ॥

न्यमन्त्रयेताम् दाशार्हम् आतिथ्येन सह द्विजैः मैथिलः श्रुतदेवः च युगपत् संहत अञ्जली

भगवांस्तदभिप्रेत्य द्वयो: प्रियचिकीर्षया ।
उभयोराविशद् गेहमुभाभ्यां तदलक्षित: ॥ २६ ॥

भगवान् तत् अभिप्रेत्य द्वयोः प्रिय चिकीर्षया उभयोः आविशत् गेहम् उभाभ्याम् तत् अलक्षितः

श्रान्तानप्यथ तान् दूराज्जनक: स्वगृहागतान् ।
आनीतेष्वासनाग्र्‍येषु सुखासीनान् महामना: ॥ २७ ॥
प्रवृद्धभक्त्या उद्धर्षहृदयास्राविलेक्षण: ।
नत्वा तदङ्‍‍घ्रीन् प्रक्षाल्य तदपो लोकपावनी: ॥ २८ ॥
सकुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् ।
गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषै: ॥ २९ ॥

श्रान्तान् अपि अथ तान् दूरात् जनकः स्व गृह आगतान् आनीतेषु आसन अग्र्येषु सुख आसीनान् महा-मनाः प्रवृद्ध भक्त्या उत्-धर्ष हृदय अस्र आविल ईक्षणः नत्वा तत् अङ्घ्रीन् प्रक्षाल्य तत् अपः लोक पावनीः स कुटुम्बः वहन् मूर्ध्ना पूजयाम् चक्रे ईश्वरान् गन्ध माल्य अम्बर आकल्प धूप दीप अर्घ्य गो वृषैः

वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान् ।
पादावङ्कगतौ विष्णो: संस्पृशञ्छनकैर्मुदा ॥ ३० ॥

वाचा मधुरया प्रीणन् इदम् आह अन्न तर्पितान् पादौ अङ्क गतौ विष्णोः संस्पृशन् शनकैः मुदा

श्रीबहुलाश्‍व उवाच
भवान् हि सर्वभूतानामात्मा साक्षी स्वद‍ृग् विभो ।
अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गत: ॥ ३१ ॥

श्री-बहुलाश्वः उवाच भवान् हि सर्व भूतानाम् आत्मा साक्षी स्व-दृक् विभो अथ नः त्वत् पद-अम्भोजम् स्मरताम् दर्शनम् गतः

स्ववचस्तद‍ृतं कर्तुमस्मद्‌दृग्गोचरो भवान् ।
यदात्थैकान्तभक्तान् मे नानन्त: श्रीरज: प्रिय: ॥ ३२ ॥

स्व वचः तत् ऋतम् कर्तुम् अस्मत् दृक् गोचरः भवान् यत् आत्थ एक-अन्त भक्तात् मे न अनन्तः श्रीः अजः प्रियः

को नु त्वच्चरणाम्भोजमेवंविद् विसृजेत् पुमान् ।
निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मद: ॥ ३३ ॥

कः नु त्वत् चरण-अम्भोजम् एवम् वित् विसृजेत् पुमान् निष्किञ्चनानाम् शान्तानाम् मुनीनाम् यः त्वम् आत्म दः

योऽवतीर्य यदोर्वंशे नृणां संसरतामिह ।
यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥ ३४ ॥

यः अवतीर्य यदोः वंशे नृणाम् संसरताम् इह यशः वितेने तत् शान्त्यै त्रै-लोक्य वृजिन अपहम्

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।
नारायणाय ऋषये सुशान्तं तप ईयुषे ॥ ३५ ॥

नमः तुभ्यम् भगवते कृष्णाय अकुण्ठ मेधसे नारायणाय ऋषये सु-शान्तम् तपः ईयुषे

दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजै: ।
समेत: पादरजसा पुनीहीदं निमे: कुलम् ॥ ३६ ॥

दिनानि कतिचित् भूमन् गृहान् नः निवस द्विजैः समेतः पाद रजसा पुनीहि इदम् निमेः कुलम्

इत्युपामन्त्रितो राज्ञा भगवाल्ँ लोकभावन: ।
उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥ ३७ ॥

इति उपामन्त्रितः रज्ञा भगवान् लोक भावनः उवास कुर्वन् कल्याणम् मिथिला नर योषिताम्

श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा ।
नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह ॥ ३८ ॥

श्रुतदेवः अच्युतम् प्राप्तम् स्व-गृहान् जनकः यथा नत्वा मुनीन् सु संहृष्टः धुन्वन् वासः ननर्त ह

तृणपीठबृषीष्वेतानानीतेषूपवेश्य स: ।
स्वागतेनाभिनन्द्याङ्‍‍घ्रीन् सभार्योऽवनिजे मुदा ॥ ३९ ॥

तृण पीठ बृषीषु एतान् आनीतेषु उपवेश्य सः स्व-आगतेन अभिनन्द्य अङ्घ्रीन् स-भार्यः अवनिजे मुदा

तदम्भसा महाभाग आत्मानं सगृहान्वयम् ।
स्‍नापयां चक्र उद्धर्षो लब्धसर्वमनोरथ: ॥ ४० ॥

तत् अम्भसा महा-भागः आत्मानम् स गृह अन्वयम् स्नापयाम् चक्रे उद्धर्षः लब्ध सर्व मनः-रथः

फलार्हणोशीरशिवामृताम्बुभि-
र्मृदा सुरभ्या तुलसीकुशाम्बुजै: ।
आराधयामास यथोपपन्नया
सपर्यया सत्त्वविवर्धनान्धसा ॥ ४१ ॥

फल अर्हण उशीर शिव अमृत अम्बुभिः मृदा सुरभ्या तुलसी कुश अम्बुजैः आराधयाम् आस यथा उपपन्नया सपर्यया सत्त्व विवर्धन अन्धसा

स तर्कयामास कुतो ममान्वभूत्
गृहान्धकूपे पतितस्य सङ्गम: ।
य: सर्वतीर्थास्पदपादरेणुभि:
कृष्णेन चास्यात्मनिकेतभूसुरै: ॥ ४२ ॥

सः तर्कयाम् आस कुतः मम अनु अभूत् गृह अन्ध कूपे पतितस्य सङ्गमः यः सर्व तीर्थ आस्पद पाद रेणुभिः कृष्णेन च अस्य आत्म निकेत भू-सुरैः

सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थित: ।
सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शन: ॥ ४३ ॥

सु-उपविष्टान् कृत आतिथ्यान् श्रुतदेवः उपस्थितः स-भार्य स्व-जन अपत्यः उवाच अङ्घ्रि अभिमर्शनः

श्रुतदेव उवाच
नाद्य नो दर्शनं प्राप्त: परं परमपूरुष: ।
यर्हीदं शक्तिभि: सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ॥ ४४ ॥

श्रुतदेवः उवाच न अद्य नः दर्शनम् प्राप्तः परम् परम पूरुषः यर्हि इदम् शक्तिभिः सृष्ट्वा प्रविष्टः हि आत्म सत्तया

यथा शयान: पुरुषो मनसैवात्ममायया ।
सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते ॥ ४५ ॥

यथा शयानः पुरुषः मनसा एव आत्म मायया सृष्ट्वा लोकम् परम् स्वाप्नम् अनुविश्य अवभासते

श‍ृण्वतां गदतां शश्वदर्चतां त्वाभिवन्दताम् ।
नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम् ॥ ४६ ॥

शृण्वताम् गदताम् शश्वत् अर्चताम् त्वा अभिवन्दताम् नृणाम् संवदताम् अन्तः हृदि भासि अमल आत्मनाम्

हृदिस्थोऽप्यतिदूरस्थ: कर्मविक्षिप्तचेतसाम् ।
आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम् ॥ ४७ ॥

हृदि स्थः अपि अति दूर-स्थः कर्म विक्षिप्त चेतसाम् आत्म शक्तिभिः अग्राह्यः अपि अन्ति उपेत गुण आत्मनाम्

नमोऽस्तु तेऽध्यात्मविदां परात्मने
अनात्मने स्वात्मविभक्तमृत्यवे ।
सकारणाकारणलिङ्गमीयुषे
स्वमाययासंवृतरुद्धद‍ृष्टये ॥ ४८ ॥

नमः अस्तु ते अध्यात्म विदाम् पर-आत्मने अनात्मने स्व-आत्म विभक्त मृत्यवे स-कारण अकारण लिङ्गम् ईयुषे स्व-मायया असंवृत रुद्ध दृष्टये

स त्वं शाधि स्वभृत्यान् न: किं देव करवाम हे ।
एतदन्तो नृणां क्लेशो यद् भवानक्षिगोचर: ॥ ४९ ॥

सः त्वम् शाधि स्व भृत्यान् नः किम् देव करवाम हे एतत् अन्तः नृणाम् क्लेशः यत् भवान् अक्षि गो-चरः

श्रीशुक उवाच
तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा ।
गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाच ह ॥ ५० ॥

श्री-शुकः उवाच तत् उक्तम् इति उपाकर्ण्य भगवान् प्रणत आर्ति हा गृहीत्वा पाणिना पाणिम् प्रहसन् तम् उवाच ह

श्रीभगवानुवाच
ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।
सञ्चरन्ति मया लोकान् पुनन्त: पादरेणुभि: ॥ ५१ ॥

श्री-भगवान् उवाच ब्रह्मन् ते अनुग्रह अर्थाय सम्प्राप्तान् विद्धि अमून् मुनीन् सञ्चरन्ति मया लोकान् पुनन्तः पाद रेणुभिः

देवा: क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनै: ।
शनै: पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥ ५२ ॥

देवाः क्षेत्राणि तीर्थानि दर्शन स्पर्शन अर्चनैः शनैः पुनन्ति कालेन तत् अपि अर्हत्-तम ईक्षया

ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह ।
तपसा विद्यया तुष्‍ट्या किमु मत्कलया युत: ॥ ५३ ॥

ब्राह्मणः जन्मना श्रेयान् सर्वेषाम् प्राणिनाम् इह तपसा विद्यया तुष्ट्या किम् उ मत् कलया युतः

न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् ।
सर्ववेदमयो विप्र: सर्वदेवमयो ह्यहम् ॥ ५४ ॥

न ब्राह्मणात् मे दयितम् रूपम् एतत् चतुः-भुजम् सर्व वेद मयः विप्रः सर्व देव मयः हि अहम्

दुष्प्रज्ञा अविदित्वैवमवजानन्त्यसूयव: ।
गुरुं मां विप्रमात्मानमर्चादाविज्यद‍ृष्टय: ॥ ५५ ॥

दुष्प्रज्ञाः अविदित्वा एवम् अवजानन्ति असूयवः गुरुम् माम् विप्रम् आत्मानम् अर्चा-आदऊ इज्य दृष्टयः

चराचरमिदं विश्वं भावा ये चास्य हेतव: ।
मद्रूपाणीति चेतस्याधत्ते विप्रो मदीक्षया ॥ ५६ ॥

चर अचरम् इदम् विश्वम् भावाः ये च अस्य हेतवः मत् रूपाणि इति चेतसि आधत्ते विप्रः मत् ईक्षया

तस्माद् ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय ।
एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभि: ॥ ५७ ॥

तस्मात् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मत् श्रद्धया अर्चय एवम् चेत् अर्चितः अस्मि अद्धा न अन्यथा भूरि भूतिभिः

श्रीशुक उवाच
स इत्थं प्रभुनादिष्ट: सहकृष्णान् द्विजोत्तमान् ।
आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम् ॥ ५८ ॥

श्री-शुकः उवाच सः इत्थम् प्रभुना आदिष्टः सह कृष्णान् द्विज उत्तमान् आराध्य एक-आत्म भवेन मैथिलः च आप सत् गतिम्

एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् ।
उषित्वादिश्य सन्मार्गं पुनर्द्वारवतीमगात् ॥ ५९ ॥

एवम् स्व भक्तयोः राजन् भगवान् भक्त भक्ति-मन् उषित्वा आदिश्य सत् मार्गम् पुनः द्वारवतीम् अगात्

१०.८७

श्रीपरीक्षिदुवाच
ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तय: ।
कथं चरन्ति श्रुतय: साक्षात् सदसत: परे ॥ १ ॥

श्री-परीक्षित् उवाच ब्रह्मन् ब्रह्मणि अनिर्देश्ये निर्गुणे गुण वृत्तयः कथम् चरन्ति श्रुतयः साक्षात् सत् असतः परे

श्रीशुक उवाच
बुद्धीन्द्रियमन:प्राणान् जनानामसृजत् प्रभु: ।
मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २ ॥

श्री-शुकः उवाच बुद्धि इन्द्रिय मनः प्राणान् जनाणाम् असृजत् प्रभुः मात्र अर्थम् च भव अर्थम् च आत्मने अकल्पनाय च

सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता ।
श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चन: ॥ ३ ॥

सा एषा हि उपनिषत् ब्राह्मी पूर्वेषाम् पूर्व-जैः धृत श्रद्धया धारयेत् यः ताम् क्षेमम् गच्छेत् अकिञ्चनः

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४ ॥

अत्र ते वर्णयिष्यामि गाथाम् नारायण-अन्विताम् नारदस्य च संवादम् ऋषेः नारायणस्य च

एकदा नारदो लोकान् पर्यटन् भगवत्प्रिय: ।
सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥

एकदा नारदः लोकान् पर्यटन् भगवत् प्रियः सनातनम् ऋषिम् द्रष्टुम् ययौ नारायण-आश्रमम्

यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् ।
धर्मज्ञानशमोपेतमाकल्पादास्थितस्तप: ॥ ६ ॥

यः वै भारत-वर्षे अस्मिन् क्षेमाय स्वस्तये नृणाम् धर्म ज्ञान शम उपेतम् आ-कल्पात् आस्थितः तपः

तत्रोपविष्टमृषिभि: कलापग्रामवासिभि: ।
परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ ७ ॥

तत्र उपविष्टम् ऋषिभिः कलाप-ग्राम वासिभिः परीतम् प्रणतः अपृच्छत् इदम् एव कुरु-उद्वह

तस्मै ह्यवोचद् भगवानृषीणां श‍ृ‍ण्वतामिदम् ।
यो ब्रह्मवाद: पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥

तस्मै हि अवोचत् भगवान् ऋषीणाम् शृण्वताम् इदम् यः ब्रह्म वादः पूर्वेषाम् जन-लोक-निवासिनाम्

श्रीभगवानुवाच
स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा ।
तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥

श्री-भगवान् उवाच स्वायम्भुव ब्रह्म सत्रम् जन-लोके अभवत् पुरा तत्र स्थानाम् मानसानाम् मुनीनाम् ऊर्ध्व रेतसाम्

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
ब्रह्मवाद: सुसंवृत्त: श्रुतयो यत्र शेरते ।
तत्र हायमभूत् प्रश्न‍स्त्वं मां यमनुपृच्छसि ॥ १० ॥

श्वेतद्वीपम् गतवति त्वयि द्रष्टुम् तत् ईश्वरम् ब्रह्म वादः सु संवृत्तः श्रुतयः यत्र शेरते तत्र ह अयम् अभूत् प्रश्नः त्वम् माम् यम् अनुपृच्छसि

तुल्यश्रुततप:शीलास्तुल्यस्वीयारिमध्यमा: ।
अपि चक्रु: प्रवचनमेकं शुश्रूषवोऽपरे ॥ ११ ॥

तुल्य श्रुत तपः शीलाः तुल्य स्वीय अरि मध्यमाः अपि चक्रुः प्रवचनम् एकम् शुश्रूषवः अपरे

श्रीसनन्दन उवाच
स्वसृष्टमिदमापीय शयानं सह शक्तिभि: ।
तदन्ते बोधयां चक्रुस्तल्लिङ्गै: श्रुतय: परम् ॥ १२ ॥
यथा शयानं संराजं वन्दिनस्तत्पराक्रमै: ।
प्रत्यूषेऽभेत्य सुश्लोकैर्बोधयन्त्यनुजीविन: ॥ १३ ॥

श्री-सनन्दनः उवाच स्व सृष्टम् इदम् आपीय शयानम् सह शक्तिभिः तत् अन्ते बोधयाम् चक्रुः तत् लिङ्गैः श्रुतयः परम् यथा शयानम् संराजम् वन्दिनः तत् पराक्रमैः प्रत्यूषे अभेत्य सुश्लोकैः बोधयन्ति अनुजीविनः

श्रीश्रुतय ऊचु:
जय जय जह्यजामजित दोषगृभीतगुणां
त्वमसि यदात्मना समवरुद्धसमस्तभग: ।
अगजगदोकसामखिलशक्त्यवबोधक ते
क्व‍‍चिदजयात्मना च चरतोऽनुचरेन्निगम: ॥ १४ ॥

श्री-श्रुतयः ऊचुः जयजय जहि अजाम् अजित दोष गृभीत गुणाम् त्वम् असि यत् आत्मना समवरुद्ध समस्त भगः अग जगत् ओकसाम् अखिल शक्ति अवबोधक ते क्वचित् अजया आत्मना च चरतः अनुचरेत् निगमः

बृहदुपलब्धमेतदवयन्त्यवशेषतया
यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।
अत ऋषयो दधुस्त्वयि मनोवचनाचरितं
कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५ ॥

बृहत् उपलब्धम् एतत् अवयन्ति अवशेषतया यतः उदय अस्तम्-अयौ विकृतेः मृदि वा अविकृतात् अतः ऋषयः दधुः त्वयि मनः वचन आचरितम् कथम् अयथा भवन्ति भुवि दत्त पदानि नृणाम्

इति तव सूरयस्‍त्र्यधिपतेऽखिललोकमल-क्षपणकथामृताब्धिमवगाह्य तपांसि जहु: ।
किमुत पुन:
स्वधामविधुताशयकालगुणा:परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६ ॥

इति तव सूरयः त्रि अधिपते अखिल लोक मल क्षपण कथा अमृत अब्धिम् अवगाह्य तपांसि जहुः किम् उत पुनः स्व धाम विधुत आशय काल गुणाः परम भजन्ति ये पदम् अजस्र सुख अनुभवम्

द‍ृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा
महदहमादयोऽण्डमसृजन् यदनुग्रहत: ।
पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु य:
सदसत: परं त्वमथ यदेष्ववशेषमृतम् ॥ १७ ॥

दृतयः इव श्वसन्ति असु-भृतः यदि ते अनुविधाः महत् अहम् आदयः अण्डम् असृजन् यत् अनुग्रहतः पुरुष विधः अन्वयः अत्र चरमः अन्न-मय-आदिषु यः सत्-असतः परम् त्वम् अथ यत् एषु अवशेषम् ऋतम्

उदरमुपासते य ऋषिवर्त्मसु कूर्पद‍ृश:
परिसरपद्धतिं हृदयमारुणयो दहरम् ।
तत उदगादनन्त तव धाम शिर: परमं
पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १८ ॥

उदरम् उपासते ये ऋषि वर्त्मसु कूर्प दृशः परिसर पद्धतिम् हृदयम् आरुणयः दहरम् ततः उदगात् अनन्त तव धाम शिरः परमम् पुनः इह यत् समेत्य न पतन्ति कृत-अन्त मुखे

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया
तरतमतश्चकास्स्यनलवत् स्वकृतानुकृति: ।
अथ वितथास्वमूष्ववितथं तव धाम समं
विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् ॥ १९ ॥

स्व कृत विचित्र योनिषु विशन् इव हेतुतया तरतमतः चकास्सि अनल-वत् स्व कृत अनुकृतिः अथ वितथासु अमूषु अवितथम् तव धाम समम् विरज धियः अनुयन्ति अभिविपण्यवः एक-रसम्

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं
तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।
इति नृगतिं विविच्य कवयो निगमावपनं
भवत उपासतेऽङ्‍‍घ्रिमभवं भुवि विश्वसिता: ॥ २० ॥

स्व कृत पुरेषु अमीषु अबहिः अन्तर संवरणम् तव पुरुषम् वदन्ति अखिल शक्ति धृतः अंश कृतम् इति नृ गतिम् विविच्य कवयः निगम आवपनम् भवतः उपासते अङ्घ्रिम् अभवम् भुवि विश्वसिताः

दुरवगमात्मतत्त्वनिगमाय तवात्ततनो-
श्चरितमहामृताब्धिपरिवर्तपरिश्रमणा: ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते
चरणसरोजहंसकुलसङ्गविसृष्टगृहा: ॥ २१ ॥

दुरवगम आत्म तत्त्व निगमाय तव आत्त तनोः चरित महा अमृत अब्धि परिवर्त परिश्रमणाः न परिलषन्ति केचित् अपवर्गम् अपि ईश्वर ते चरण सरोज हंस कुल सङ्ग विसृष्ट गृहाः

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियव-
च्चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।
न बत रमन्त्यहो असदुपासनयात्महनो
यदनुशया भ्रमन्त्युरुभये कुशरीरभृत: ॥ २२ ॥

त्वत् अनुपथम् कुलायम् इदम् आत्म सुहृत् प्रिय वत् चरति तथा उन्मुखे त्वयि हिते प्रिये आत्मनि च न बत रमन्ति अहो असत् उपासनया आत्म हनः यत् अनुशयाः भ्रमन्ति उरु भये कु शरीर भृतः

निभृतमरुन्मनोऽक्षद‍ृढयोगयुजो हृदि य-
न्मुनय उपासते तदरयोऽपि ययु: स्मरणात् ।
स्‍त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो
वयमपि ते समा: समद‍ृशोऽङ्‍‍घ्रिसरोजसुधा: ॥ २३ ॥

निभृत मरुत् मनः अक्ष दृढ-योग युजः हृदि यत् मुनयः उपासते तत् अरयः अपि ययुः स्मरणात् स्त्रियः उरग-इन्द्र भोग भुज दण्ड विषक्त धियः वयम् अपि ते समाः सम दृशः अङ्घ्रि सरोज सुधाः

क इह नु वेद बतावरजन्मलयोऽग्रसरं
यत उदगाद‍ृषिर्यमनु देवगणा उभये ।
तर्हि न सन्न चासदुभयं न च कालजव:
किमपि न तत्र शास्‍त्रमवकृष्य शयीत यदा ॥ २४ ॥

कः इह नु वेद बत अवर जन्म लयः अग्र-सरम् यतः उदगात् ऋषिः यम् अनु देव-गणाः उभये तर्हि न सत् न च असत् उभयम् न च काल जवः किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा

जनिमसत: सतो मृतिमुतात्मनि ये च भिदां
विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितै: ।
त्रिगुणमय: पुमानिति भिदा यदबोधकृता
त्वयि न तत: परत्र स भवेदवबोधरसे ॥ २५ ॥

जनिम् असतः सतः मृतिम् उत आत्मनि ये च भिदाम् विपणम् ऋतम् स्मरन्ति उपदिशन्ति ते आरुपितैः त्रि गुण मयः पुमान् इति भिदा यत् अबोध कृता त्वयि न ततः परत्र सः भवेत् अवबोध रसे

सदिव मनस्‍त्रिवृत्त्वयि विभात्यसदामनुजात्
सदभिमृशन्त्यशेषमिदमात्मतयात्मविद: ।
न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया
स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६ ॥

सत् इव मनः त्रि-वृत् त्वयि विभाति असत् आ-मनुजात् सत् अभिमृशन्ति अशेषम् इदम् आत्मतया आत्म-विदः न हि विकृतिम् त्यजन्ति कनकस्य तत्-आत्मतया स्व कृतम् अनुप्रविष्टम् इदम् आत्मतया अवसितम्

तव परि ये चरन्त्यखिलसत्त्वनिकेततया
त उत पदाक्रमन्त्यविगणय्य शिरो निर्ऋतेः ।
परिवयसे पशूनिव गिरा विबुधानपि तां-
स्त्वयि कृतसौहृदा: खलु पुनन्ति न ये विमुखा: ॥ २७ ॥

तव परि ये चरन्ति अखिल सत्त्व निकेततया ते उत पदा आक्रमन्ति अविगणय्य शिरः निरृतेः परिवयसे पशून् इव गिरा विबुधान् अपि तान् त्वयि कृत सौहृदाः खलु पुनन्ति न ये विमुखाः

त्वमकरण: स्वराडखिलकारकशक्तिधर-
स्तव बलिमुद्वहन्ति समदन्त्यजयानिमिषा: ।
वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो
विदधति यत्र ये त्वधिकृता भवतश्चकिता: ॥ २८ ॥

त्वम् अकरणः स्व-राट् अखिल कारक शक्ति धरः तव बलिम् उद्वहन्ति समदन्ति अजया अनिमिषाः वर्ष भुजः अखिल क्षिति पतेः इव विश्व सृजः विदधति यत्र ये तु अधिकृता भवतः चकिताः

स्थिरचरजातय: स्युरजयोत्थनिमित्तयुजो
विहर उदीक्षया यदि परस्य विमुक्त तत: ।
न हि परमस्य कश्चिदपरो न परश्च भवेद्
वियत इवापदस्य तव शून्यतुलां दधत: ॥ २९ ॥

स्थिर चर जातयः स्युः अजया उत्थ निमित्त युजः विहरः उदीक्षया यदि परस्य विमुक्त ततः न हि परमस्य कश्चित् अपरः न परः च भवेत् वियतः इव अपदस्य तव शून्य तुलाम् दधतः

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता-
स्तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्
सममनुजानतां यदमतं मतदुष्टतया ॥ ३० ॥

अपरिमिताः ध्रुवाः तनु-भृतः यदि सर्व-गताः तर्हि न शास्यता इति नियमः ध्रुव न इतरथा अजनि च यत्-मयम् तत् अविमुच्य नियन्तृ भवेत् समम् अनुजानताम् यत् अमतम् मत दुष्टतया

न घटत उद्भ‍व: प्रकृतिपूरुषयोरजयो-
रुभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् ।
त्वयि त इमे ततो विविधनामगुणै: परमे
सरित इवार्णवे मधुनि लिल्युरशेषरसा: ॥ ३१ ॥

न घटते उद्भवः प्रकृति पूरुषयोः अजयोः उभय युजा भवन्ति असु-भृतः जल बुद्बुद वत् त्वयि ते इमे ततः विविध नाम गुणैः परमे सरितः इव अर्णवे मधुनि लिल्युः अशेष रसाः

नृषु तव मयया भ्रमममीष्ववगत्य भृशं
त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।
कथमनुवर्ततां भवभयं तव यद् भ्रुकुटि:
सृजति मुहुस्‍त्रिनेमिरभवच्छरणेषु भयम् ॥ ३२ ॥

नृषु तव मायया भ्रमम् अमीषु अवगत्य भृशम् त्वयि सु-धियः अभवे दधति भावम् अनुप्रभवम् कथम् अनुवर्तताम् भव भयम् तव यत् भ्रु कुटिः सृजति मुहुः त्रि-नेमिः अ भवत् शरणेषु भयम्

विजितहृषीकवायुभिरदान्तमनस्तुरगं
य इह यतन्ति यन्तुमतिलोलमुपायखिद: ।
व्यसनशतान्विता: समवहाय गुरोश्चरणं
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३ ॥

विजित हृषीक वायुभिः अदान्त मनः तुर-गम् ये इह यतन्ति यन्तुम् अति लोलम् उपाय खिदः व्यसन अत अन्विताः समवहाय गुरोः चरणम् वणिजः इव अज सन्ति अकृत कर्ण-धराः जल-धौ

स्वजनसुतात्मदारधनधामधरासुरथै-
स्त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।
इति सदजानतां मिथुनतो रतये चरतां
सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४ ॥

स्वजन सुत आत्म दार धन धाम धरा असु रथैः त्वयि सति किम् नृणाम् श्रयतः आत्मनि सर्व-रसे इति सत् अजानताम् मिथुनतः रतये चरताम् सुखयति कः नु इह स्व विहते स्व निरस्त भगे

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदा-
स्त उत भवत्पदाम्बुजहृदोऽघभिदङ्‍‍घ्रिजला: ।
दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे
न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५ ॥

भुवि पुरु पुण्य तीर्थ सदनानि ऋषयः विमदः ते उत भवत् पद अम्बुज हृदः अघ भित् अङ्घ्रि जलाः दधति सकृत् मनः त्वयि ये आत्मनि नित्य सुखे न पुनः उपासते पुरुष सार हर आवसथान्

सत इदमुत्थितं सदिति चेन्ननु तर्कहतं
व्यभिचरति क्व‍ च क्व‍ च मृषा न तथोभययुक् ।
व्यवहृतये विकल्प इषितोऽन्धपरम्परया
भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६ ॥

सतः इदम् उत्थितम् सत् इति चेत् ननु तर्क हतम् व्यभिचरति क्व च क्व च मृषा न तथा उभय युक् व्यवहृतये विकल्पः इषितः अन्ध परम्परया भ्रमयति भारती ते उरु वृत्तिभिः उक्थ जडान्

न यदिदमग्र आस न भविष्यदतो निधना-
दनुमितमन्तरा त्वयि विभाति मृषैकरसे ।
अत उपमीयते द्रविणजातिविकल्पपथै-
र्वितथमनोविलासमृतमित्यवयन्त्यबुधा: ॥ ३७ ॥

न यत् इदम् अग्रे आस न भविष्यत् अतः निधनात् अनु मितम् अन्तरा त्वयि विभाति मृषा एकरसे अतः उपमीयते द्रविण जाति विकल्प पथैः वितथ मनः विलासम् ऋतम् इति अवयन्ति अबुधः

स यदजया त्वजामनुशयीत गुणांश्च जुषन्
भजति सरूपतां तदनु मृत्युमपेतभग: ।
त्वमुत जहासि तामहिरिव त्वचमात्तभगो
महसि महीयसेऽष्टगुणितेऽपरिमेयभग: ॥ ३८ ॥

सः यत् अजया तु अजाम् अनुशयीत गुणान् च जुषन् भजति स-रूपताम् तत्-अनु मृत्युम् अपेत भगः त्वम् उत जहासि ताम् अहिः इव त्वचम् आत्त-भगः महसि महीयसे अष्ट-गुणिते अपरिमेय भगः

यदि न समुद्धरन्ति यतयो हृदि कामजटा
दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणि: ।
असुतृपयोगिनामुभयतोऽप्यसुखं भगव-
न्ननपगतान्तकादनधिरूढपदाद् भवत: ॥ ३९ ॥

यदि न समुद्धरन्ति यतयः हृदि काम जटाः दुरधिगमः असताम् हृदि गतः अस्मृत कण्ठ मणिः असु तृप योगिनाम् उभयतः अपि असुखम् भगवन् अनपगत अन्तकात् अनधिरूढ पदात् भवतः

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयो-
र्गुणविगुणान्वयांस्तर्हि देहभृतां च गिर: ।
अनुयुगमन्वहं सगुण गीतपरम्परया
श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजै: ॥ ४० ॥

त्वत् अवगमी न वेत्ति भवत् उत्थ शुभ-अशुभयोः गुण-विगुण अन्वयान् तर्हि देह-भृताम् च गिरः अनु-युगम् अनु-अहम् स-गुण गीत परम्परया श्रवण भृतः यतः त्वम् अपवर्ग गतिः मनुजैः

द्युपतय एव ते न ययुरन्तमनन्ततयात्वमपि यदन्तराण्डनिचया ननु सावरणा: ।
ख इव रजांसि
वान्ति वयसा सह यच्छ्रुतय-स्त्वयि हि फलन्त्यतन्निरसनेन भवन्निधना: ॥ ४१ ॥

द्यु पतयः एव ते न ययुः अन्तम् अनन्ततया त्वम् अपि यत् अन्तर अण्ड निचयाः ननु स आवरनाः खे इव रजांसि वान्ति वयसा सह यत् श्रुतयः त्वयि हि फलन्ति अतत् निरसनेन भवत् निधनाः

श्रीभगवानुवाच
इत्येतद् ब्रह्मण: पुत्रा आश्रुत्यात्मानुशासनम् ।
सनन्दनमथानर्चु: सिद्धा ज्ञात्वात्मनो गतिम् ॥ ४२ ॥

श्री-भगवान् उवाच इति एतत् ब्रह्मणः पुत्राः आश्रुत्य आत्म अनुशासनम् सनन्दनम् अथ आनर्चुः सिद्धाः ज्ञात्वा आत्मनः गतिम्

इत्यशेषसमाम्नायपुराणोपनिषद्रस: ।
समुद्‍धृत: पूर्वजातैर्व्योमयानैर्महात्मभि: ॥ ४३ ॥

इति अशेष समाम्नाय पुराण उपनिषत् रसः समुद्धृतः पूर्व जातैः व्योम यानैः महा-आत्मभिः

त्वं चैतद् ब्रह्मदायाद श्रद्धयात्मानुशासनम् ।
धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४ ॥

त्वम् च एतत् ब्रह्म दायाद श्रद्धया आत्म-आनुशासनम् धारयन् चर गाम् कामम् कामानाम् भर्जनम् नृणाम्

श्रीशुक उवाच
एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् ।
पूर्ण: श्रुतधरो राजन्नाह वीरव्रतो मुनि: ॥ ४५ ॥

श्री-शुकः उवाच एवम् सः ऋषिणा आदिष्टम् गृहीत्वा श्रद्धया आत्म-वान् पूर्णः श्रुत धरः राजन् आह वीर व्रतः मुनिः

श्रीनारद उवाच
नमस्तस्मै भगवते कृष्णायामलकीर्तये ।
यो धत्ते सर्वभूतानामभवायोशती: कला: ॥ ४६ ॥

श्री-नारदः उवाच नमः तस्मै भगवते कृष्णाय अमल कीर्तये यः धत्ते सर्व भूतानाम् अभवाय उशतीः कलाः

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मन: ।
ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥

इति आद्यम् ऋषिम् आनम्य तत् शिष्यान् च महा-आत्मनः ततः अगात् आश्रमम् साक्षात् पितुः द्वैपायनस्य मे

सभाजितो भगवता कृतासनपरिग्रह: ।
तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥

सभाजितः भगवता कृत आसन परिग्रहः तस्मै तत् वर्णयाम् आस नारायण-मुखात् श्रुतम्

इत्येतद् वर्णितं राजन् यन्न: प्रश्न‍: कृतस्त्वया ।
यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ ४९ ॥

इति एतत् वर्णितम् राजन् यत् नः प्रश्नः कृतः त्वया यथा ब्रह्मणि अनिर्देश्ये निर्गुणे अपि मनः चरेत्

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो
य: सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुर: शास्ति ता: ।
यं सम्पद्य जहात्यजामनुशयी सुप्त: कुलायं यथा
तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥

यः अस्य उत्प्रेक्षकः आदि मध्य निधने यः अव्यक्त जीव ईश्वरः यः सृष्ट्वा इदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः यम् सम्पद्य जहाति अजाम् अनुशयी सुप्तः कुलायम् यथा तम् कैवल्य निरस्त योनिम् अभयम् ध्यायेत् अजस्रम् हरिम्

१०.८८

श्रीराजोवाच
देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।
प्रायस्ते धनिनो भोजा न तु लक्ष्म्या: पतिं हरिम् ॥ १ ॥

श्री-राजा उवाच देव असुर मनुष्येषु ये भजन्ति अशिवम् शिवम् प्रायः ते धनिनः भोजाः न तु लक्ष्म्याः पतिम् हरिम्

एतद् वेदितुमिच्छाम: सन्देहोऽत्र महान् हि न: ।
विरुद्धशीलयो: प्रभ्वोर्विरुद्धा भजतां गति: ॥ २ ॥

एतत् वेदितुम् इच्छामः सन्देहः अत्र महान् हि नः विरुद्ध शीलयोः प्रभ्वोः विरुद्धा भजताम् गतिः

श्रीशुक उवाच
शिव: शक्तियुत: शश्वत् त्रिलिङ्गो गुणसंवृत: ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ३ ॥

श्री-शुकः उवाच शिवः शक्ति युतः शश्वत् त्रि लिङ्गः गुण संवृतः वैकारिकः तैजसः च तामसः च इति अहम् त्रिधा

ततो विकारा अभवन् षोडशामीषु कञ्चन ।
उपधावन् विभूतीनां सर्वासामश्न‍ुते गतिम् ॥ ४ ॥

ततः विकाराः अभवन् षोडश अमीषु कञ्चन उपधावन् विभूतीनाम् सर्वासाम् अश्नुते गतिम्

हरिर्हि निर्गुण: साक्षात् पुरुष: प्रकृते: पर: ।
स सर्वद‍ृगुपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ ५ ॥

हरिः हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः सः सर्व दृक् उपद्रष्टा तम् भजन् निर्गुणः भवेत्

निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामह: ।
श‍ृण्वन् भगवतो धर्मानपृच्छदिदमच्युतम् ॥ ६ ॥

निवृत्तेषु अश्व-मेधेषु राजा युष्मत् पितामहाः शृण्वन् भगवतः धर्मान् अपृच्छत् इदम् अच्युतम्

स आह भगवांस्तस्मै प्रीत: शुश्रूषवे प्रभु: ।
नृणां नि:श्रेयसार्थाय योऽवतीर्णो यदो: कुले ॥ ७ ॥

सः ह भगवान् तस्मै प्रीतः शुश्रूषवे प्रभुः नृणाम् निःश्रेयस अर्थाय यः अवतीर्णः यदोः कुले

श्रीभगवानुवाच
यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनै: ।
ततोऽधनं त्यजन्त्यस्य स्वजना दु:खदु:खितम् ॥ ८ ॥

श्री-भगवान् उवाच यस्य अहम् अनुगृह्णामि हरिष्ये तत् धनम् शनैः ततः अधनम् त्यजन्ति अस्य स्व-जनाः दुःख-दुःखितम्

स यदा वितथोद्योगो निर्विण्ण: स्याद् धनेहया ।
मत्परै: कृतमैत्रस्य करिष्ये मदनुग्रहम् ॥ ९ ॥

सः यदा वितथ उद्योगः निर्विण्णः स्यात् धन ईहया मत् परैः कृत मैत्रस्य करिष्ये मत् अनुग्रहम्

तद् ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् ।
विज्ञायात्मतया धीर: संसारात्परिमुच्यते ॥ १० ॥

तत् ब्रह्म परमम् सूक्ष्मम् चित् मात्रम् सत् अनन्तकम् विज्ञाय आत्मतया धीरः संसारात् परिमुच्यते

अतो मां सुदुराराध्यं हित्वान्यान् भजते जन: ।
ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धता: ।
मत्ता: प्रमत्ता वरदान् विस्मयन्त्यवजानते ॥ ११ ॥

अतः माम् सु दुराराध्यम् हित्वा अन्यान् भजते जनः ततः ते आशु तोषेभ्यः लब्ध राज्य श्रिया उद्धताः मत्ताः प्रमत्ताः वर दान् विस्मयन्ति अवजानते

श्रीशुक उवाच
शापप्रसादयोरीशा ब्रह्मविष्णुशिवादय: ।
सद्य:शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युत: ॥ १२ ॥

श्री-शुकः उवाच शाप प्रसादयोः ईशाः ब्रह्म-विष्णु-शिव-आदयः सद्यः शाप-प्रसादः अङ्ग शिवः ब्रह्मा न च अच्युतः

अत्र चोदाहरन्तीममितिहासं पुरातनम् ।
वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् ॥ १३ ॥

अत्र च उदाहरन्ति इमम् इतिहासम् पुरातनम् वृक-असुराय गिरि-शः वरम् दत्त्वा आप सङ्कटम्

वृको नामासुर: पुत्र: शकुने: पथि नारदम् ।
द‍ृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मति: ॥ १४ ॥

वृकः नाम असुरः पुत्रः शकुनेः पथि नारदम् दृष्ट्वा आशु तोषम् पप्रच्छ देवेषु त्रिषु दुर्मतिः

स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि ।
योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति ॥ १५ ॥

सः आह देवम् गिरिशम् उपाधाव आशु सिद्ध्यसि यः अल्पाभ्याम् गुण दोषाभ्याम् आशु तुष्यति कुप्यति

दशास्यबाणयोस्तुष्ट: स्तुवतोर्वन्दिनोरिव ।
ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् ॥ १६ ॥

दश-आस्य बाणयोः तुष्टः स्तुवतोः वन्दिनोः इव ऐश्वर्यम् अतुलम् दत्त्वा ततः आप सु सङ्कटम्

इत्यादिष्टस्तमसुर उपाधावत् स्वगात्रत: ।
केदार आत्मक्रव्येण जुह्वानोऽग्निमुखं हरम् ॥ १७ ॥

इति आदिष्टः तम् असुरः उपाधावत् स्व गात्रतः केदारे आत्म क्रव्येण जुह्वानः अग्नि मुखम् हरम्

देवोपलब्धिमप्राप्य निर्वेदात् सप्तमेऽहनि ।
शिरोऽवृश्चत् सुधितिना तत्तीर्थक्लिन्नमूर्धजम् ॥ १८ ॥
तदा महाकारुणिको स धूर्जटि-
र्यथा वयं चाग्निरिवोत्थितोऽनलात् ।
निगृह्य दोर्भ्यां भुजयोर्न्यवारयत्
तत्स्पर्शनाद् भूय उपस्कृताकृति: ॥ १९ ॥

देव उपलब्धिम् अप्राप्य निर्वेदात् सप्तमे अहनि शिरः अवृश्चत् सुधितिना तत् तीर्थ क्लिन्न मूर्ध-जम् तदा महा कारुणिकः सः धूर्जटिः यथा वयम् च अग्निः इव उत्थितः अनलात् निगृह्य दोर्भ्याम् भुजयोः न्यवारयत् तत् स्पर्शनात् भूयः उपस्कृत आकृतिः

तमाह चाङ्गालमलं वृणीष्व मे
यथाभिकामं वितरामि ते वरम् ।
प्रीयेय तोयेन नृणां प्रपद्यता-
महो त्वयात्मा भृशमर्द्यते वृथा ॥ २० ॥

तम् ह च अङ्ग अलम् अलम् वृणीष्व मे यथा अभिकामम् वितरामि ते वरम् प्रीयेय तोयेन नृणाम् प्रपद्यताम् अहो त्वया आत्मा भृशम् अर्द्यते वृथा

देवं स वव्रे पापीयान् वरं भूतभयावहम् ।
यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति ॥ २१ ॥

देवम् सः वव्रे पापीयान् वरम् भूत भय आवहम् यस्य यस्य करम् शीर्ष्णि धास्ये सः म्रियताम् इति

तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ।
ॐ इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा ॥ २२ ॥

तत् श्रुत्वा भगवान् रुद्रः दुर्मनाः इव भारत ओम् इति प्रहसन् तस्मै ददे अहेः अमृतम् यथा

स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्‍नि किलासुर: ।
स्वहस्तं धातुमारेभे सोऽबिभ्यत् स्वकृताच्छिव: ॥ २३ ॥

सः तत् वर परीक्षा-अर्थम् शम्भोः मूर्ध्नि किल असुरः स्व हस्तम् धातुम् आरेभे सः अबिभ्यत् स्व कृतात् शिवः

तेनोपसृष्ट: सन्त्रस्त: पराधावन् सवेपथु: ।
यावदन्तं दिवो भूमे: कष्ठानामुदगादुदक् ॥ २४ ॥

तेन उपसृष्टः सन्त्रस्तः पराधावन् स वेपथुः यावत् अन्तम् दिवः भूमेः काष्ठानाम् उदगात् उदक्

अजानन्त: प्रतिविधिं तूष्णीमासन् सुरेश्वरा: ।
ततो वैकुण्ठमगमद् भास्वरं तमस: परम् ॥ २५ ॥
यत्र नारायण: साक्षान्न्यासिनां परमो गति: ।
शान्तानां न्यस्तदण्डानां यतो नावर्तते गत: ॥ २६ ॥

अजानन्तः प्रति-विधिम् तूष्णीम् आसन् सुर ईश्वराः ततः वैकुण्ठम् अगमत् भास्वरम् तमसः परम् यत्र नारायणः साक्षात् न्यासिनाम् परमः गतिः शान्तानाम् न्यस्त दण्डानाम् यतः न आवर्तते गतः

तं तथाव्यसनं द‍ृष्ट्वा भगवान् वृजिनार्दन: ।
दूरात् प्रत्युदियाद् भूत्वा बटुको योगमायया ॥ २७ ॥
मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन् ।
अभिवादयामास च तं कुशपाणिर्विनीतवत् ॥ २८ ॥

तम् तथा व्यसनम् दृष्ट्वा भगवान् वृजिन अर्दनः दूरात् प्रत्युदियात् भूत्वा बटुकः योग-मायया मेखल अजिन दण्ड अक्षैः तेजसा अग्निः इव ज्वलन् अभिवादयाम् आस च तम् कुश-पाणिः विनीत-वत्

श्रीभगवानुवाच
शाकुनेय भवान् व्यक्तं श्रान्त: किं दूरमागत: ।
क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् ॥ २९ ॥

श्री-भगवान् उवाच शाकुनेय भवान् व्यक्तम् श्रान्तः किम् दूरम् आगतः क्षणम् विश्रम्यताम् पुंसः आत्मा अयम् सर्व काम धुक्

यदि न: श्रवणायालं युष्मद्‌व्यवसितं विभो ।
भण्यतां प्रायश: पुम्भिर्धृतै: स्वार्थान् समीहते ॥ ३० ॥

यदि नः श्रवणाय अलम् युष्मत् व्यवसितम् विभो भण्यताम् प्रायशः पुम्भिः धृतैः स्व अर्थान् समीहते

श्रीशुक उवाच
एवं भगवता पृष्टो वचसामृतवर्षिणा ।
गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् ॥ ३१ ॥

श्री-शुकः उवाच एवम् भगवता पृष्टः वचसा अमृत वर्षिणा गत क्लमः अब्रवीत् तस्मै यथा पूर्वम् अनुष्ठितम्

श्रीभगवानुवाच
एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि ।
यो दक्षशापात् पैशाच्यं प्राप्त: प्रेतपिशाचराट् ॥ ३२ ॥

श्री-भगवान् उवाच एवम् चेत् तर्हि तत् वाक्यम् न वयम् श्रद्दधीमहि यः दक्ष-शापात् पैशाच्यम् प्राप्तः प्रेत-पिशाच राट्

यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ ।
तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ॥ ३३ ॥

यदि वः तत्र विश्रम्भः दानव-इन्द्र जगत् गुरौ तर्हि अङ्ग आशु स्व शिरसि हस्तम् न्यस्य प्रतीयताम्

यद्यसत्यं वच: शम्भो: कथञ्चिद् दानवर्षभ ।
तदैनं जह्यसद्वाचं न यद वक्तानृतं पुन: ॥ ३४ ॥

यदि असत्यम् वचः शम्भोः कथञ्चित् दानव-ऋषभ तदा एनम् जहि असत् वाचम् न यत् वक्ता अनृतम् पुनः

इत्थं भगवतश्चित्रैर्वचोभि: स सुपेशलै: ।
भिन्नधीर्विस्मृत: शीर्ष्णि स्वहस्तं कुमतिर्न्यधात् ॥ ३५ ॥

इत्थम् भगवतः चित्रैः वचोभिः सः सु पेशलैः भिन्न धीः विस्मृतः शीर्ष्णि स्व हस्तम् कु-मतिः न्यधात्

अथापतद् भिन्नशिरा: वज्राहत इव क्षणात् ।
जयशब्दो नम:शब्द: साधुशब्दोऽभवद् दिवि ॥ ३६ ॥

अथ अपतत् भिन्न शिराः वज्र आहतः इव क्षणात् जय शब्दः नमः शब्दः साधु शब्दः अभवत् दिवि

मुमुचु: पुष्पवर्षाणि हते पापे वृकासुरे ।
देवर्षिपितृगन्धर्वा मोचित: सङ्कटाच्छिव: ॥ ३७ ॥

मुमुचुः पुष्प वर्षाणि हते पापे वृक-असुरे देव-ऋषि पितृ गन्धर्वाः मोचितः सङ्कटात् शिवः

मुक्तं गिरिशमभ्याह भगवान् पुरुषोत्तम: ।
अहो देव महादेव पापोऽयं स्वेन पाप्मना ॥ ३८ ॥
हत: को नु महत्स्वीश जन्तुर्वै कृतकिल्बिष: ।
क्षेमी स्यात् किमु विश्वेशे कृतागस्को जगद्गुरौ ॥ ३९ ॥

मुक्तम् गिरिशम् अभ्याह भगवान् पुरुष-उत्तमः अहो देव महा-देव पापः अयम् स्वेन पाप्मना हतः कः नु महत्सु ईश जन्तुः वै कृत किल्बिषः क्षेमी स्यात् किम् उ विश्व ईशे कृत-आगस्कः जगत् गुरौ

य एवमव्याकृतशक्त्युदन्वत:
परस्य साक्षात् परमात्मनो हरे: ।
गिरित्रमोक्षं कथयेच्छृणोति वा
विमुच्यते संसृतिभिस्तथारिभि: ॥ ४० ॥

यः एवम् अव्याकृत शक्ति उदन्वतः परस्य साक्षात् परम-आत्मनः हरेः गिरित्र मोक्षम् कथयेत् शृणोति वा विमुच्यते संसृतिभिः तथा अरिभिः

१०.८९

श्रीशुक उवाच
सरस्वत्यास्तटे राजन्नृषय: सत्रमासत ।
वितर्क: समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ १ ॥

श्री-शुकः उवाच सरस्वत्याः तटे राजन् ऋषयः सत्रम् आसत वितर्कः समभूत् तेषाम् त्रिषु अधीशेषु कः महान्

तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप ।
तज्ज्ञप्‍त्‍यै प्रेषयामासु: सोऽभ्यगाद् ब्रह्मण: सभाम् ॥ २ ॥

तस्य जिज्ञासया ते वै भृगुम् ब्रह्म-सुतम् नृप तत् ज्ञप्त्यै प्रेषयाम् आसुः सः अभ्यगात् ब्रह्मणः सभाम्

न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया ।
तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ ३ ॥

न तस्मै प्रह्वणम् स्तोत्रम् चक्रे सत्त्व परीक्षया तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा

स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभु: ।
अशीशमद् यथा वह्निं स्वयोन्या वारिणात्मभू: ॥ ४ ॥

सः आत्मनि उत्थितम् मन्युम् आत्म-जाय आत्मना प्रभुः अशीशमत् यथा वह्निम् स्व योन्या वारिणा आत्म-भूः

तत: कैलासमगमत् स तं देवो महेश्वर: ।
परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥ ५ ॥

ततः कैलासम् अगमत् सः तम् देवः महा-ईश्वरः परिरब्धुम् समारेभे उत्थाय भ्रातरम् मुदा

नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह ।
शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचन: ॥ ६ ॥
पतित्वा पादयोर्देवी सान्‍त्‍वयामास तं गिरा ।
अथो जगाम वैकुण्ठं यत्र देवो जनार्दन: ॥ ७ ॥

न ऐच्छत् त्वम् असि उत्पथ-गः इति देवः चुकोप ह शूलम् उद्यम्य तम् हन्तुम् आरेभे तिग्म लोचनः पतित्वा पादयोः देवी सान्त्वयाम् आस तम् गिरा अथ उ जगाम वैकुण्ठम् यत्र देवः जनार्दनः

शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत् ।
तत उत्थाय भगवान् सह लक्ष्म्या सतां गति: ॥ ८ ॥
स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम् ।
आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् ।
अजानतामागतान् व: क्षन्तुमर्हथ न: प्रभो ॥ ९ ॥

शयानम् श्रियः उत्सङ्गे पदा वक्षसि अताडयत् ततः उत्थाय भगवान् सह लक्ष्म्या सताम् गतिः स्व तल्पात् अवरुह्य अथ ननाम शिरसा मुनिम् आह ते सु-आगतम् ब्रह्मन् निषीद अत्र आसने क्षणम् अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो

पुनीहि सहलोकं मां लोकपालांश्च मद्गतान् ।
पादोदकेन भवतस्तीर्थानां तीर्थकारिणा ॥ १० ॥
अद्याहं भगवँल्ल‍क्ष्‍म्‍या आसमेकान्तभाजनम् ।
वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहस: ॥ ११ ॥

पुनीहि सह लोकम् माम् लोक पालान् च मत्-गतान् पाद उदकेन भवतः तीर्थानाम् तीर्थ कारिणा अद्य अहम् भगवन् लक्ष्म्याः आसम् एक-अन्त भाजनम् वत्स्यति उरसि मे भूतिः भवत् पाद हत अंहसः

श्रीशुक उवाच
एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा ।
निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचन: ॥ १२ ॥

श्री-शुकः उवाच एवम् ब्रुवाणे वैकुण्ठे भृगुः तत् मन्द्रया गिरा निर्वृतः तर्पितः तूष्णीम् भक्ति उत्कण्ठः अश्रु लोचनः

पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम् ।
स्वानुभूतमशेषेण राजन् भृगुरवर्णयत् ॥ १३ ॥

पुनः च सत्रम् आव्रज्य मुनीनाम् ब्रह्म-वादिनाम् स्व अनुभूतम् अशेषेण राजन् भृगुः अवर्णयत्

तन्निशम्याथ मुनयो विस्मिता मुक्तसंशया: ।
भूयांसं श्रद्दधुर्विष्णुं यत: शान्तिर्यतोऽभयम् ॥ १४ ॥
धर्म: साक्षाद् यतो ज्ञानं वैराग्यं च तदन्वितम् ।
ऐश्वर्यं चाष्टधा यस्माद् यशश्चात्ममलापहम् ॥ १५ ॥
मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् ।
अकिञ्चनानां साधूनां यमाहु: परमां गतिम् ॥ १६ ॥
सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवता: ।
भजन्त्यनाशिष: शान्ता यं वा निपुणबुद्धय: ॥ १७ ॥

तत् निशम्य अथ मुनयः विस्मिताः मुक्त संशयाः भूयांसम् श्रद्दधुः विष्णुम् यतः शान्तिः यतः अभयम् धर्मः साक्षात् यतः ज्ञानम् वैराग्यम् च तत् अन्वितम् ऐश्वर्यम् च अष्टधा यस्मात् यशः च आत्म मल अपहम् मुनीनाम् न्यस्त दण्डानाम् शान्तानाम् सम चेतसाम् अकिञ्चनानाम् साधूनाम् यम् आहुः परमाम् गतिम् सत्त्वम् यस्य प्रिया मूर्तिः ब्राह्मणाः तु इष्ट देवताः भजन्ति अनाशिषः शान्ताः यम् वा निपुण बुद्धयः

त्रिविधाकृतयस्तस्य राक्षसा असुरा: सुरा: ।
गुणिन्या मायया सृष्टा: सत्त्वं तत्तीर्थसाधनम् ॥ १८ ॥

त्रि-विध आकृतयः तस्य राक्षसाः असुराः सुराः गुणिन्याः मायया सृष्टाः सत्त्वम् तत् तीर्थ साधनम्

श्रीशुक उवाच
इत्थं सारस्वता विप्रा नृणां संशयनुत्तये ।
पुरुषस्य पदाम्भोजसेवया तद्गतिं गता: ॥ १९ ॥

श्री-शुकः उवाच इत्थम् सारस्वताः विप्राः नृणाम् संशय नुत्तये पुरुषस्य पद-अम्भोज सेवया तत् गतिम् गतः

श्रीसूत उवाच
इत्येतन्मुनितनयास्यपद्मगन्ध-
पीयूषं भवभयभित् परस्य पुंस: ।
सुश्लोकं श्रवणपुटै: पिबत्यभीक्ष्णं
पान्थोऽध्वभ्रमणपरिश्रमं जहाति ॥ २० ॥

श्री-सूतः उवाच इति एतत् मुनि तनय आस्य पद्म गन्ध पीयूषम् भव भय भित् परस्य पुंसः सु-श्लोकम् श्रवण पुटैः पिबति अभीक्ष्णम् पान्थः अध्व भ्रमण परिश्रमम् जहाति

श्रीशुक उवाच
एकदा द्वारवत्यां तु विप्रपत्न्‍या: कुमारक: ।
जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥ २१ ॥

श्री-शुकः उवाच एकदा द्वारवत्याम् तु विप्र पत्न्याः कुमारकः जात मात्रः भुवम् स्पृष्ट्वा ममार किल भारत

विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय स: ।
इदं प्रोवाच विलपन्नातुरो दीनमानस: ॥ २२ ॥

विप्रः गृहीत्वा मृतकम् राज द्वारि उपधाय सः इदम् प्रोवाच विलपन् आतुरः दीन मानसः

ब्रह्मद्विष: शठधियो लुब्धस्य विषयात्मन: ।
क्षत्रबन्धो: कर्मदोषात् पञ्चत्वं मे गतोऽर्भक: ॥ २३ ॥

ब्रह्म द्विषः शठ धियः लुब्धस्य विषय-आत्मनः क्षत्र-बन्धोः कर्म दोषात् पञ्चत्वम् मे गतः अर्भकः

हिंसाविहारं नृपतिं दु:शीलमजितेन्द्रियम् ।
प्रजा भजन्त्य: सीदन्ति दरिद्रा नित्यदु:खिता: ॥ २४ ॥

हिंसा विहारम् नृ-पतिम् दुःशीलम् अजित इन्द्रियम् प्रजाः भजन्त्यः सीदन्ति दरिद्राः नित्य दुःखिताः

एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च ।
विसृज्य स नृपद्वारि तां गाथां समगायत ॥ २५ ॥

एवम् द्वितीयम् विप्र-ऋषिः तृतीयम् तु एवम् एव च विसृज्य सः नृप-द्वारि ताम् गाथाम् समगायत

तामर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके ।
परेते नवमे बाले ब्राह्मणं समभाषत ॥ २६ ॥
किंस्विद् ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धर: ।
राजन्यबन्धुरेते वै ब्राह्मणा: सत्रमासते ॥ २७ ॥

ताम् अर्जुनः उपश्रुत्य कर्हिचित् केशव अन्तिके परेते नवमे बाले ब्राह्मणम् समभाषत किम् स्वित् ब्रह्मन् त्वत् निवासे इह न अस्ति धनुः-धरः राजन्य-बन्धुः एते वः ब्राह्मणाः सत्रे आसते

धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणा: ।
ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भरा: ॥ २८ ॥

धन दार आत्मज अपृक्ताः यत्र शोचन्ति ब्राह्मणाः ते वै राजन्य-वेषेण नटाः जीवन्ति असुम्-भराः

अहं प्रजा: वां भगवन् रक्षिष्ये दीनयोरिह ।
अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मष: ॥ २९ ॥

अहम् प्रजाः वाम् भगवन् रक्षिष्ये दीनयोः इह अनिस्तीर्ण प्रतिज्ञः अग्निम् प्रवेक्ष्ये हत कल्मषः

श्रीब्राह्मण उवाच
सङ्कर्षणो वासुदेव: प्रद्युम्नो धन्विनां वर: ।
अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३० ॥
तत् कथं नु भवान् कर्म दुष्करं जगदीश्वरै: ।
त्वं चिकीर्षसि बालिश्यात् तन्न श्रद्दध्महे वयम् ॥ ३१ ॥

श्री-ब्राह्मणः उवाच सङ्कर्षणः वासुदेवः प्रद्युम्नः धन्विनाम् वरः अनिरुद्धः अप्रति-रथः न त्रातुम् शक्नुवन्ति यत् तत् कथम् नु भवान् कर्म दुष्करम् जगत् ईश्वरैः त्वम् चिकीर्षसि बालिश्यात् तत् न श्रद्दध्महे वयम्

श्रीअर्जुन उवाच
नाहं सङ्कर्षणो ब्रह्मन् न कृष्ण: कार्ष्णिरेव च ।
अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनु: ॥ ३२ ॥

श्री-अर्जुनः उवाच न अहम् सङ्कर्षणः ब्रह्मन् न कृष्णः कार्ष्णिः एव च अहम् वै अर्जुनः नाम गाण्डीवम् यस्य वै धनुः

मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम् ।
मृत्युं विजित्य प्रधने आनेष्ये ते प्रजा: प्रभो ॥ ३३ ॥

मा अवमंस्थाः मम ब्रह्मन् वीर्यम् त्रि-अम्बक तोषणम् मृत्युम् विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो

एवं विश्रम्भितो विप्र: फाल्गुनेन परन्तप ।
जगाम स्वगृहं प्रीत: पार्थवीर्यं निशामयन् ॥ ३४ ॥

एवम् विश्रम्भितः विप्रः फाल्गुनेन परम् तप जगाम स्व गृहम् प्रीतः पार्थ वीर्यम् निशामयन्

प्रसूतिकाल आसन्ने भार्याया द्विजसत्तम: ।
पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुर: ॥ ३५ ॥

प्रसूति काले आसन्ने भार्यायाः द्विज सत्-तमः पाहि पाहि प्रजाम् मृत्योः इति आह अर्जुनम् आतुरः

स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् ।
दिव्यान्यस्‍त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ॥ ३६ ॥

सः उपस्पृश्य शुचि अम्भः नमः-कृत्य महा-ईश्वरम् दिव्यानि अस्त्राणि संस्मृत्य सज्यम् गाण्डीवम् आददे

न्यरुणत् सूतिकागारं शरैर्नानास्‍त्रयोजितै: ।
तिर्यगूर्ध्वमध: पार्थश्चकार शरपञ्जरम् ॥ ३७ ॥

न्यरुणत् सूतिका-आगारम् शरैः नाना अस्त्र योजितैः तिर्यक् ऊर्ध्वम् अधः पार्थः चकार शर पञ्जरम्

तत: कुमार: सञ्जातो विप्रपत्न्‍या रुदन्मुहु: ।
सद्योऽदर्शनमापेदे सशरीरो विहायसा ॥ ३८ ॥

ततः कुमारः सञ्जातः विप्र पत्न्याः रुदन् मुहुः सद्यः अदर्शनम् आपेदे स शरीरः विहायसा

तदाह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ ।
मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥ ३९ ॥

तदा आह विप्रः विजयम् विनिन्दन् कृष्ण-सन्निधौ मौढ्यम् पश्यत मे यः अहम् श्रद्दधे क्लीब कत्थनम्

न प्रद्युम्नो नानिरुद्धो न रामो न च केशव: ।
यस्य शेकु: परित्रातुं कोऽन्यस्तदवितेश्वर: ॥ ४० ॥

न प्रद्युम्नः न अनिरुद्धः न रामः न च केशवः यस्य शेकुः परित्रातुम् कः अन्यः तत् अविता ईश्वरः

धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनु: ।
दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मति: ॥ ४१ ॥

धिक् अर्जुनम् मृषा वादम् धिक् आत्म श्लाघिनः धनुः दैव उपसृष्टम् यः मौढ्यात् आनिनीषति दुर्मतिः

एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुन: ।
ययौ संयमनीमाशु यत्रास्ते भगवान् यम: ॥ ४२ ॥

एवम् शपति विप्र-ऋषौ विद्याम् आस्थाय फाल्गुनः ययौ संयमनीम् असु यत्र आस्ते भगवान् यमः

विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात् पुरीम् ।
आग्नेयीं नैऋर्तीं सौम्यां वायव्यां वारुणीमथ ।
रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुध: ॥ ४३ ॥
ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुत: ।
अग्निं विविक्षु: कृष्णेन प्रत्युक्त: प्रतिषेधता ॥ ४४ ॥

विप्र अपत्यम् अचक्षाणः ततः ऐन्द्रीम् अगात् पुरीम् आग्नेयीम् नैरृतीम् सौम्यम् वायव्याम् वारुणीम् अथ रसातलम् नाक-पृष्ठम् धिष्ण्यानि अन्यानि उदायुधः ततः अलब्ध द्विज सुतः हि अनिस्तीर्ण प्रतिश्रुतः अग्निम् विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता

दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना ।
ये ते न: कीर्तिं विमलां मनुष्या: स्थापयिष्यन्ति ॥ ४५ ॥

दर्शये द्विज सूनून् ते मा अवज्ञ आत्मानम् आत्मना ये ते नः कीर्तिम् विमलाम् मनुष्याः स्थापयिष्यन्ति

इति सम्भाष्य भगवानर्जुनेन सहेश्वर: ।
दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् ॥ ४६ ॥

इति सम्भाष्य भगवान् अर्जुनेन सह ईश्वरः दिव्यम् स्व रथम् आस्थाय प्रतीचीम् दिशम् आविशत्

सप्त द्वीपान् ससिन्धूंश्च सप्तसप्तगिरीनथ ।
लोकालोकं तथातीत्य विवेश सुमहत्तम: ॥ ४७ ॥

सप्त द्वीपान् स सिन्धून् च सप्त सप्त गिरीन् अथ लोक-अलोकम् तथा अतीत्य विवेश सु-महत् तमः

तत्राश्वा: शैब्यसुग्रीवमेघपुष्पबलाहका: ।
तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ ॥ ४८ ॥
तान् द‍ृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वर: ।
सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत् पुर: ॥ ४९ ॥

तत्र अश्वाः शैब्य-सुग्रीव-मेघपुष्प-बलाहकाः तमसि भ्रष्ट गतयः बभूवुः भरत-ऋषभ तान् दृष्ट्वा भगवान् कृष्णः महा योग-ईश्वर ईश्वरः सहस्र आदित्य सङ्काशम् स्व चक्रम् प्राहिणोत् पुरः

तम: सुघोरं गहनं कृतं महद्
विदारयद् भूरितरेण रोचिषा ।
मनोजवं निर्विविशे सुदर्शनं
गुणच्युतो रामशरो यथा चमू: ॥ ५० ॥

तमः सु घोरम् गहनम् कृतम् महत् विदारयत् भूरि-तरेण रोचिषा मनः जवम् निर्विविशे सुदर्शनम् गुण च्युतः राम शरः यथा चमूः

द्वारेण चक्रानुपथेन तत्तम:
परं परं ज्योतिरनन्तपारम् ।
समश्न‍ुवानं प्रसमीक्ष्य फाल्गुन:
प्रताडिताक्षो पिदधेऽक्षिणी उभे ॥ ५१ ॥

द्वारेण चक्र अनुपथेन तत् तमः परम् परम् ज्योतिः अनन्त पारम् समश्नुवानम् प्रसमीक्ष्य फाल्गुनः प्रताडित अक्षः अपिदधे अक्षिणी उभे

तत: प्रविष्ट: सलिलं नभस्वता
बलीयसैजद् बृहदूर्मिभूषणम् ।
तत्राद्भ‍ुतं वै भवनं द्युमत्तमं
भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥ ५२ ॥

ततः प्रविष्टः सलिलम् नभस्वता बलीयसा एजत् बृहत् ऊर्मि भूषणम् तत्र अद्भुतम् वै भवनम् द्युमत्-तमम् भ्राजत् मणि स्तम्भ सहस्र शोभितम्

तस्मिन् महाभोगमनन्तमद्भ‍ुतं
सहस्रमूर्धन्यफणामणिद्युभि: ।
विभ्राजमानं द्विगुणेक्षणोल्बणं
सिताचलाभं शितिकण्ठजिह्वम् ॥ ५३ ॥

तस्मिन् महा भोगम् अनन्तम् अद्भुतम् सहस्र मूर्धन्य फणा मणि द्युभिः विभ्राजमानम् द्वि गुण ईक्षण उल्बणम् सित अचल आभम् शिति कण्ठ जिह्वम्

ददर्श तद्भ‍ोगसुखासनं विभुं
महानुभावं पुरुषोत्तमोत्तमम् ।
सान्द्राम्बुदाभं सुपिशङ्गवाससं
प्रसन्नवक्त्रं रुचिरायतेक्षणम् ॥ ५४ ॥
महामणिव्रातकिरीटकुण्डल-
प्रभापरिक्षिप्तसहस्रकुन्तलम् ।
प्रलम्बचार्वष्टभुजं सकौस्तुभं
श्रीवत्सलक्ष्मं वनमालया वृतम् ॥ ५५ ॥
सुनन्दनन्दप्रमुखै: स्वपार्षदै-
श्चक्रादिभिर्मूर्तिधरैर्निजायुधै: ।
पुष्‍ट्या श्रिया कीर्त्यजयाखिलर्धिभि-
र्निषेव्यमानं परमेष्ठिनां पतिम् ॥ ५६ ॥

ददर्श तत् भोग सुख आसनम् विभुम् महा-अनुभावम् पुरुष-उत्तम उत्तमम् सान्द्र अम्बुद आभम् सु पिशङ्ग वाससम् प्रसन्न वक्त्रम् रुचिर आयत ईक्षणम् महा मणि व्रात किरीट कुण्डल प्रभा परिक्षिप्त सहस्र कुन्तलम् प्रलम्ब चारु अष्ट भुजम् स कौस्तुभम् श्रीवत्स-लक्ष्मम् वन मालया आवृतम् सुनन्द-नन्द-प्रमुखैः स्व-पार्षदैः चक्र-आदिभिः मूर्ति धरैः निज आयुधैः पुष्ट्या श्रिया कीर्ति-अजया अखिल ऋधिभिः निषेव्यमानम् परमेष्ठिनम् पतिम्

ववन्द आत्मानमनन्तमच्युतो
जिष्णुश्च तद्दर्शनजातसाध्वस: ।
तावाह भूमा परमेष्ठिनां प्रभु-
र्बद्धाञ्जली सस्मितमूर्जया गिरा ॥ ५७ ॥

ववन्द आत्मानम् अनन्तम् अच्युतः जिष्णुः च तत् दर्शन जात साध्वसः तौ आह भूमा परमे-स्थिनाम् प्रभुः बद्ध-अञ्जली स स्मितम् ऊर्जया गिरा

द्विजात्मजा मे युवयोर्दिद‍ृक्षुणा
मयोपनीता भुवि धर्मगुप्तये ।
कलावतीर्णाववनेर्भरासुरान्
हत्वेह भूयस्त्वरयेतमन्ति मे ॥ ५८ ॥

द्विज आत्म-जाः मे युवयोः दिदृक्षुणा मया उपनीताः भुवि धर्म गुप्तये कला अवतीर्णौ अवनेः भर असुरान् हत्वा इह भूयः त्वरया इतम् अन्ति मे

पूर्णकामावपि युवां नरनारायणावृषी ।
धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ ५९ ॥

पूर्ण कामौ अपि युवाम् नर-नारायणौ ऋषी धर्मम् आचरताम् स्थित्यै ऋषभौ लोक-सङ्ग्रहम्

इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना ।
ॐ इत्यानम्य भूमानमादाय द्विजदारकान् ॥ ६० ॥
न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथागतम् ।
विप्राय ददतु: पुत्रान् यथारूपं यथावय: ॥ ६१ ॥

इति आदिष्टौ भगवता तौ कृष्णौ परमे-ष्ठिना ओम् इति आनम्य भूमानम् आदाय द्विज दारकान् न्यवर्तेताम् स्वकम् धाम सम्प्रहृष्टौ यथा गतम् विप्राय ददतुः पुत्रान् यथा रूपम् यथा वयः

निशाम्य वैष्णवं धाम पार्थ: परमविस्मित: ।
यत्किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ ६२ ॥

निशाम्य वैष्णवम् धाम पार्थः परम विस्मितः यत् किञ्चित् पौरुषम् पुंसाम् मेने कृष्ण अनुकम्पितम्

इतीद‍ृशान्यनेकानि वीर्याणीह प्रदर्शयन् ।
बुभुजे विषयान् ग्राम्यानीजे चात्युर्जितैर्मखै: ॥ ६३ ॥

इति ईदृशानि अनेकानि वीर्याणि इह प्रदर्शयन् बुभुजे विषयान् ग्राम्यान् ईजे च अति उर्जितैः मखैः

प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु ।
यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यमास्थित: ॥ ६४ ॥

प्रववर्ष अखिलान् कामान् प्रजासु ब्राह्मण-आदिषु यथा-कालम् यथा एव इन्द्रः भगवान् श्रैष्ठ्यम् आस्थितः

हत्वा नृपानधर्मिष्ठान् घातयित्वार्जुनादिभि: ।
अञ्जसा वर्तयामास धर्मं धर्मसुतादिभि: ॥ ६५ ॥

हत्वा नृपान् अधर्मिष्ठान् घातयित्वा अर्जुन-आदिभिः अञ्जसा वर्तयाम् आस धर्मम् धर्म-सुत-आदिभिः

१०.९०

श्रीशुक उवाच
सुखं स्वपुर्यां निवसन् द्वारकायां श्रिय: पति: ।
सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवै: ॥ १ ॥
स्‍त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभि: ।
कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्‌द्युभि: ॥ २ ॥
नित्यं सङ्कुलमार्गायां मदच्युद्भ‍िर्मतङ्गजै: ।
स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलै: ॥ ३ ॥
उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।
निर्विशद् भृङ्गविहगैर्नादितायां समन्तत: ॥ ४ ॥
रेमे षोडशसाहस्रपत्नीनामेकवल्ल‍भ: ।
तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु ॥ ५ ॥
प्रोत्फुल्ल‍ोत्पलकह्लारकुमुदाम्भोजरेणुभि: ।
वासितामलतोयेषु कूजद्‌द्विजकुलेषु च ॥ ६ ॥
विजहार विगाह्याम्भो ह्रदिनीषु महोदय: ।
कुचकुङ्कुमलिप्ताङ्ग: परिरब्धश्च योषिताम् ॥ ७ ॥

श्री-शुकः उवाच सुखम् स्व पुर्याम् निवसन् द्वारकायाम् श्रियः पतिः सर्व सम्पत् समृद्धायाम् जुष्टायाम् वृष्णि-पुङ्गवैः स्त्रीभिः च उत्तम वेषाभिः नव यौवन कान्तिभिः कन्दुक-आदिभिः हर्म्येषु क्रीडन्तीभिः तडित् द्युभिः नित्यम् सङ्कुल मार्गायाम् मद-च्युद्भिः मतम् गजैः सु अलङ्कृतैः भटैः अश्वैः रथैः च कनक उज्ज्वलैः उद्यान उपवन आढ्यायाम् पुष्पित द्रुम राजिषु निर्विशत् भृङ्ग विहगैः नादितायाम् समन्ततः रेमे षोडश साहस्र पत्नीनाम् एक वल्लभः तावत् विचित्र रूपः असौ तत् गेहेषु महा-ऋद्धिषु प्रोत्फुल्ल उत्पल कह्लार कुमुद अम्भोज रेणुभिः वासित अमल तोयेषु कूजत् द्विज कुलेषु च विजहार विगाह्य अम्भः ह्रदिनीषु महा-उदयः कुच कुङ्कुम लिप्त अङ्गः परिरब्धः च योषिताम्

उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान् ।
वादयद्भ‍िर्मुदा वीणां सूतमागधवन्दिभि: ॥ ८ ॥
सिच्यमानोऽच्युतस्ताभिर्हसन्तीभि: स्म रेचकै: ।
प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९ ॥

उपगीयमानः गन्धर्वैः मृदङ्ग-पणव-आनकान् वादयद्भिः मुदा वीणाम् सूत-मागध-वन्दिभिः सिच्यमानः अच्युतः ताभिः हसन्तीभिः स्म रेचकैः प्रतिषिञ्चन् विचिक्रीडे यक्षीभिः यक्ष-राट् इव

ता: क्लिन्नवस्‍त्रविवृतोरुकुचप्रदेशा:
सिञ्चन्त्य उद्‍धृतबृहत्कवरप्रसूना: ।
कान्तं स्म रेचकजिहीर्षययोपगुह्य
जातस्मरोत्स्मयलसद्वदना विरेजु: ॥ १० ॥

ताः क्लिन्न वस्त्र विवृत ऊरु कुच प्रदेशाः सिञ्चन्त्यः उद्धृत बृहत् कवर प्रसूनाः कान्तम् स्म रेचक जिहीर्षयया उपगुह्य जात स्मर उत्स्मय लसद् वदनाः विरेजुः

कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक्
क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्ध: ।
सिञ्चन् मुहुर्युवतिभि: प्रतिषिच्यमानो
रेमे करेणुभिरिवेभपति: परीत: ॥ ११ ॥

कृष्णः तु तत् स्तन विषज्जित कुङ्कुम स्रक् क्रीडा अभिषङ्ग धुत कुन्तल वृन्द बन्धः सिञ्चन् मुहुः युवतिभिः प्रतिषिच्यमानः रेमे करेणुभिः इव इभ-पतिः परीतः

नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।
क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्‍त्रिय: ॥ १२ ॥

नटानाम् नर्तकीनाम् च गीत वाद्य उपजीविनाम् क्रीडा अलङ्कार वासांसि कृष्णः अदात् तस्य च स्त्रियः

कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितै: ।
नर्मक्ष्वेलिपरिष्वङ्गै: स्‍त्रीणां किल हृता धिय: ॥ १३ ॥

कृष्णस्य एवम् विहरतः गति आलाप ईक्षित स्मितैः नर्म क्ष्वेलि परिष्वङ्गैः स्त्रीणाम् किल हृताः धियः

ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदत: श‍ृणु ॥ १४ ॥

ऊचुः मुकुन्द एक धियः गिरः उन्मत्त वत् जडम् चिन्तयन्त्यः अरविन्द-अक्षम् तानि मे गदतः शृणु

महिष्य ऊचु:
कुररि विलपसि त्वं वीतनिद्रा न शेषे
स्वपिति जगति रात्र्यामीश्वरो गुप्तबोध: ।
वयमिव सखि कच्चिद् गाढनिर्विद्धचेता
नलिननयनहासोदारलीलेक्षितेन ॥ १५ ॥

महिष्यः ऊचुः कुररि विलपसि त्वम् वीत निद्रा न शेषे स्वपिति जगति रात्र्याम् ईश्वरः गुप्त बोधः वयम् इव सखि कच्चित् गाढ निर्विद्ध चेताः नलिन नयन हास उदार लीला ईक्षितेन

नेत्रे निमीलयसि नक्तमद‍ृष्टबन्धु-
स्त्वं रोरवीषि करुणं बत चक्रवाकि ।
दास्यं गत वयमिवाच्युतपादजुष्टां
किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥ १६ ॥

नेत्रे निमीलयसि नक्तम् अदृष्ट बन्धुः त्वम् रोरवीषि करुणम् बत चक्रवाकि दास्यम् गता वयम् इव अच्युत पाद जुष्टाम् किम् वा स्रजम् स्पृहयसे कवरेण वोढुम्

भो भो: सदा निष्टनसे उदन्व-
न्नलब्धनिद्रोऽधिगतप्रजागर: ।
किं वा मुकुन्दापहृतात्मलाञ्छन:
प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७ ॥

भोः भोः सदा निष्टनसे उदन्वन् अलब्ध निद्रः अधिगत प्रजागरः किम् वा मुकुन्द अपहृत आत्म लाञ्छनः प्राप्ताम् दशाम् त्वम् च गतः दुरत्ययाम्

त्वं यक्ष्मणा बलवतासि गृहीत इन्दो
क्षीणस्तमो न निजदीधितिभि: क्षिणोषि ।
कच्चिन्मुकुन्दगदितानि यथा वयं त्वं
विस्मृत्य भो: स्थगितगीरुपलक्ष्यसे न: ॥ १८ ॥

त्वम् यक्ष्मणा बल-वता असि गृहीतः इन्दो क्षीणः तमः न निज दीधितिभिः क्षिणोषि कच्चित् मुकुन्द-गदितानि यथा वयम् त्वम् विस्मृत्य भोः स्थगित गीः उपलक्ष्यसे नः

किं न्वाचरितमस्माभिर्मलयानिल तेऽप्रियम् ।
गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि न: स्मरम् ॥ १९ ॥

किम् नु आचरितम् अस्माभिः मलय अनिल ते अप्रियम् गोविन्द अपाङ्ग निर्भिन्ने हृदि ईरयसि नः स्मरम्

मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं
श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्ध: ।
अत्युत्कण्ठ: शवलहृदयोऽस्मद्विधो बाष्पधारा:
स्मृत्वा स्मृत्वा विसृजसि मुहुर्दु:खदस्तत्प्रसङ्ग: ॥ २० ॥

मेघ श्री-मन् त्वम् असि दयितः यादव-इन्द्रस्य नूनम् श्रीवत्स-अङ्कम् वयम् इव भवान् ध्यायति प्रेम बद्धः अति उत्कण्ठः शवल हृदयः अस्मत् विधः बाष्प धाराः स्मृत्वा स्मृत्वा विसृजसि मुहुः दुःख दः तत् प्रसङ्गः

प्रियरावपदानि भाषसे मृत-
सञ्जीविकयानया गिरा ।
करवाणि किमद्य ते प्रियं
वद मे वल्गितकण्ठ कोकिल ॥ २१ ॥

प्रिय राव पदानि भाषसे मृत सञ्जीविकया अनया गिरा करवाणि किम् अद्य ते प्रियम् वद मे वल्गित कण्ठ कोकिल

न चलसि न वदस्युदारबुद्धे
क्षितिधर चिन्तयसे महान्तमर्थम् ।
अपि बत वसुदेवनन्दनाङ्‍‍घ्रि
वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२ ॥

न चलसि न वदसि उदार बुद्धे क्षिति-धर चिन्तयसे महान्तम् अर्थम् अपि बत वसुदेव-नन्दन अङ्घ्रिम् वयम् इव कामयसे स्तनैः विधर्तुम्

शुष्यद्‌ध्रदा: करशिता बत सिन्धुपत्न्‍य:
सम्प्रत्यपास्तकमलश्रिय इष्टभर्तु: ।
यद्वद् वयं मधुपते: प्रणयावलोक-
मप्राप्य मुष्टहृदया: पुरुकर्शिता: स्म ॥ २३ ॥

शुष्यत् ह्रदाः करशिताः बत सिन्धु पत्न्यः सम्प्रति अपास्त कमल श्रीयः इष्ट भर्तुः यद्वत् वयम् मधु-पतेः प्रणय अवलोकम् अप्राप्य मुष्ट हृदयाः पुरु कर्शिताः स्म

हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरे: कथां
दूतं त्वां नु विदाम कच्चिदजित: स्वस्त्यास्त उक्तं पुरा ।
किं वा नश्चलसौहृद: स्मरति तं कस्माद् भजामो वयं
क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्‍त्रियाम् ॥ २४ ॥

हंस सु-आगतम् आस्यताम् पिब पयः ब्रूहि अङ्ग शौरेः कथाम् दूतम् त्वाम् नु विदाम कच्चित् अजितः स्वस्ति आस्ते उक्तम् पुरा किम् वा नः चल सौहृदः स्मरति तम् कस्मात् भजामः वयम् क्षौद्र आलापय काम दम् श्रियम् ऋते सा एव एक-निष्ठा स्त्रियाम्

श्रीशुक उवाच
इतीद‍ृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५ ॥

श्री-शुकः उवाच इति ईदृशेन भावेन कृष्णे योग-ईश्वर ईश्वरे क्रियमाणेन माधव्यः लेभिरे परमाम् गतिम्

श्रुतमात्रोऽपि य: स्‍त्रीणां प्रसह्याकर्षते मन: ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुन: ॥ २६ ॥

श्रुत मात्रः अपि यः स्त्रीणाम् प्रसह्य आकर्षते मनः उरु गाय उरु गीतः वा पश्यन्तीनाम् च किम् पुनः

या: सम्पर्यचरन्प्रेम्णा पादसंवाहनादिभि: ।
जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तप: ॥ २७ ॥

याः सम्पर्यचरन् प्रेम्णा पाद संवाहन आदिभिः जगत् गुरुम् भर्तृ बुद्ध्या तासाम् किम् वर्ण्यते तपः

एवं वेदोदितं धर्ममनुतिष्ठन् सतां गति: ।
गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम् ॥ २८ ॥

एवम् वेद उदितम् धर्मम् अनुतिष्ठन् सताम् गतिः गृहम् धर्म अर्थ कामानाम् मुहुः च आदर्शयत् पदम्

आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।
आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥ २९ ॥

आस्थितस्य परम् धर्मम् कृष्णस्य गृह-मेधिनाम् आसन् षोडश साहस्रम् महिष्यः च शत अधिकम्

तासां स्‍त्रीरत्नभूतानामष्टौ या: प्रागुदाहृता: ।
रुक्‍मिणीप्रमुखा राजंस्तत्पुत्राश्चानुपूर्वश: ॥ ३० ॥

तासाम् स्त्री रत्न भूतानाम् अष्टौ याः प्राक् उदाहृताः रुक्मिणी-प्रमुखाः राजन् तत् पुत्राः च अनुपूर्वशः

एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।
यावत्य आत्मनो भार्या अमोघगतिरीश्वर: ॥ ३१ ॥

एक-एकस्याम् दश दश कृष्णः अजीजनत् आत्म-जान् यावत्यः आत्मनः भार्याः अमोघ गतिः ईश्वरः

तेषामुद्दामवीर्याणामष्टादश महारथा: ।
आसन्नुदारयशसस्तेषां नामानि मे श‍ृणु ॥ ३२ ॥

तेषाम् उद्दाम वीर्याणाम् अष्टा-दश महा-रथाः आसन् उदार यशसः तेषाम् नामानि मे शृणु

प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।
साम्बो मधुर्बृहद्भ‍ानुश्चित्रभानुर्वृकोऽरुण: ॥ ३३ ॥
पुष्करो वेदबाहुश्च श्रुतदेव: सुनन्दन: ।
चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४ ॥

प्रद्युम्नः च अनिरुद्धः च दीप्तिमान् भानुः एव च साम्बः मधुः बृहत्-भानुः चित्र-भानुः वृकः अरुणः पुष्करः वेद-बाहुः च श्रुतदेवः सुनन्दनः चित्र-बाहुः विरूपः च कविः न्यग्रोधः एव च

एतेषामपि राजेन्द्र तनुजानां मधुद्विष: ।
प्रद्युम्न आसीत् प्रथम: पितृवद् रुक्‍मिणीसुत: ॥ ३५ ॥

एतेषाम् अपि राज-इन्द्र तनु-जानाम् मधु-द्विषः प्रद्युम्नः आसीत् प्रथमः पितृवत् रुक्मिणी-सुतः

स रुक्‍मिणो दुहितरमुपयेमे महारथ: ।
तस्यां ततोऽनिरुद्धोऽभूत्नागायतबलान्वित: ॥ ३६ ॥

सः रुक्मिणः दुहितरम् उपयेमे महा-रथः तस्याम् ततः अनिरुद्धः अभूत् नाग अयुत बल अन्वितः

स चापि रुक्‍मिण: पौत्रीं दौहित्रो जगृहे तत: ।
वज्रस्तस्याभवद् यस्तु मौषलादवशेषित: ॥ ३७ ॥

सः च अपि रुक्मिणः पौत्रीम् दौहित्रः जगृहे ततः वज्रः तस्य अभवत् यः तु मौषलात् अवशेषितः

प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मज: ।
सुबाहो: शान्तसेनोऽभूच्छतसेनस्तु तत्सुत: ॥ ३८ ॥

प्रति-बाहुः अभूत् तस्मात् सुबाहुः तस्य च आत्म-जः सु-बाहोः शान्त-सेनः अभूत् शत-सेनः तु तत् सुतः

न ह्येतस्मिन् कुले जाता अधना अबहुप्रजा: ।
अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥ ३९ ॥

न हि एतस्मिन् कुले जाताः अधनः अ-बहु प्रजाः अल्प-आयुषः अल्प वीर्याः च अब्रह्मण्याः च जज्ञिरे

यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।
सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप ॥ ४० ॥

यदु-वंश प्रसूतानाम् पुंसाम् विख्यात कर्मणाम् सङ्ख्या न शक्यते कर्तुम् अपि वर्ष अयुतैः नृप

तिस्र: कोट्य: सहस्राणामष्टाशीतिशतानि च ।
आसन् यदुकुलाचार्या: कुमाराणामिति श्रुतम् ॥ ४१ ॥

तिस्रः कोट्यः सहस्राणाम् अष्टा-अशीति शतानि च आसन् यदु-कुल आचार्याः कुमाराणाम् इति श्रुतम्

सङ्ख्यानं यादवानां क: करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते स आहुक: ॥ ४२ ॥

सङ्ख्यानम् यादवानाम् कः करिष्यति महा-आत्मनाम् यत्र अयुतानाम् अयुत लक्षेण आस्ते सः आहुकः

देवासुराहवहता दैतेया ये सुदारुणा: ।
ते चोत्पन्ना मनुष्येषु प्रजा द‍ृप्ता बबाधिरे ॥ ४३ ॥

देव-असुर आहव हताः दैतेयाः ये सु दारुणाः ते च उत्पन्नाः मनुष्येषु प्रजाः दृप्ताः बबाधिरे

तन्निग्रहाय हरिणा प्रोक्ता देवा यदो: कुले ।
अवतीर्णा: कुलशतं तेषामेकाधिकं नृप ॥ ४४ ॥

तत् निग्रहाय हरिणा प्रोक्ताः देवाः यदोः कुले अवतीर्णाः कुल शतम् तेषाम् एक-अधिकम् नृप

तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरि: ।
ये चानुवर्तिनस्तस्य ववृधु: सर्वयादवा: ॥ ४५ ॥

तेषाम् प्रमाणम् भगवान् प्रभुत्वेन अभवत् हरिः ये च अनुवर्तिनः तस्य ववृधुः सर्व यादवाः

शय्यासनाटनालापक्रीडास्‍नानादिकर्मसु ।
न विदु: सन्तमात्मानं वृष्णय: कृष्णचेतस: ॥ ४६ ॥

शय्या आसन अटन आलाप क्रीड स्नान आदि कर्मसु न विदुः सन्तम् आत्मानम् वृष्णयः कृष्ण चेतसः

तीर्थं चक्रे नृपोनं यदजनि यदुषु स्व:सरित्पादशौचं
विद्विट्‌स्‍निग्धा: स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्न: ।
यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्म:
कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ४७ ॥

तीर्थम् चक्रे नृप ऊनम् यत् अजनि यदुषु स्वः सरित् पाद शौचम् विद्विट् स्निग्धाः स्वरूपम् ययुः अजित परा श्रीः यत् अर्थे अन्य यत्नः यत् नाम अमङ्गल घ्नम् श्रुतम् अथ गदितम् यत् कृतः गोत्र धर्मः कृष्णस्य एतत् न चित्रम् क्षिति भर हरणम् काल चक्र आयुधस्य

जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्न: सुस्मितश्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८ ॥

जयति जन-निवासः देवकी-जन्म-वादः यदु-वर-परिषत् स्वैः दोर्भिः अस्यन् अधर्मम् स्थिर-चर-वृजिन-घ्नः सु-स्मित श्री-मुखेन व्रज-पुर-वनितानाम् वर्धयन् काम-देवम्

इत्थं परस्य निजवर्त्मरिरक्षयात्त-
लीलातनोस्तदनुरूपविडम्बनानि ।
कर्माणि कर्मकषणानि यदूत्तमस्य
श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४९ ॥

इत्थम् परस्य निज वर्त्म रिरक्षया आत्त लीला तनोः तत् अनुरूप विडम्बनानि कर्माणि कर्म कषणानि यदु-उत्तमस्य श्रूयात् अमुष्य पदयोः अनुवृत्तिम् इच्छन्

मर्त्यस्तयानुसवमेधितया मुकुन्द-
श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।
तद्धाम दुस्तरकृतान्तजवापवर्गं
ग्रामाद् वनं क्षितिभुजोऽपि ययुर्यदर्था: ॥ ५० ॥

मर्त्यः तया अनुसवम् एधितया मुकुन्द श्रीमत् कथा श्रवण कीर्तन चिन्तया एति तत् धाम दुस्तर कृत-अन्त जव अपवर्गम् ग्रामात् वनम् क्षिति-भुजः अपि ययुः यत् अर्थाः