श्रीमद्भागवतम् पदच्छेद - स्कंध ११

११.१

श्रीशुक उवाच
कृत्वा दैत्यवधं कृष्ण: सरामो यदुभिर्वृत: ।
भुवोऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥ १ ॥

श्री-शुकः उवाच कृत्वा दैत्य वधम् कृष्णः स-रामः यदुभिः वृतः भुवः अवतारयत् भारम् जविष्ठम् जनयन् कलिम्

ये कोपिता: सुबहु पाण्डुसुता: सपत्नै-
र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् ।
कृत्वा निमित्तमितरेतरत: समेतान्
हत्वा नृपान् निरहरत् क्षितिभारमीश: ॥ २ ॥

ये कोपिताः सु-बहु पाण्डु-सुताः सपत्नैः दुः-द्यूत हेलन कच-ग्रहण आदिभिः तान् कृत्वा निमित्तम् इतर-इतरतः समेतान् हत्वा नृपान् निरहरत् क्षिति भारम् ईशः

भूभारराजपृतना यदुभिर्निरस्य
गुप्तै: स्वबाहुभिरचिन्तयदप्रमेय: ।
मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं
यद् यादवं कुलमहो अविषह्यमास्ते ॥ ३ ॥

भू-भार राज पृतनाः यदुभिः निरस्य गुप्तैः स्व-बाहुभिः अचिन्तयत् अप्रमेयः मन्ये अवनेः ननु गतः अपि अगतम् हि भारम् यत् यादवम् कुलम् अहो अविषह्यम् आस्ते

नैवान्यत: परिभवोऽस्य भवेत् कथञ्चिन्
मत्संश्रयस्य विभवोन्नहनस्य नित्यम् ।
अन्त:कलिं यदुकुलस्य विधाय वेणु-
स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥ ४ ॥

न एव अन्यतः परिभवः अस्य भवेत् कथञ्चित् मत्-संश्रयस्य विभव उन्नहनस्य नित्यम् अन्तः कलिम् यदु-कुलस्य विधाय वेणु-स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम

एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वर: ।
शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभु: ॥ ५ ॥

एवम् व्यवसितः राजन् सत्य-सङ्कल्पः ईश्वरः शाप-व्याजेन विप्राणाम् सञ्जह्रे स्व-कुलम् विभुः

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।
गीर्भिस्ता: स्मरतां चित्तं पदैस्तानीक्षतां क्रिया: ॥ ६ ॥
आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ ।
तमोऽनया तरिष्यन्तीत्यगात् स्वं पदमीश्वर: ॥ ७ ॥

स्व-मूर्त्या लोक लावण्य निर्मुक्त्या लोचनम् नृणाम् गीर्भिः ताः स्मरताम् चित्तम् पदैः तान् ईक्षताम् क्रियाः आच्छिद्य कीर्तिम् सु-श्लोकाम् वितत्य हि अञ्जसा नु कौ तमः अनया तरिष्यन्ति इति अगात् स्वम् पदम् ईश्वरः

११.२

श्रीशुक उवाच
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालस: ॥ १ ॥

श्री-शुकः उवाच गोविन्द भुज गुप्तायाम् द्वारवत्याम् कुरु-उद्वह अवात्सीत् नारदः अभीक्ष्णम् कृष्ण-उपासन लालसः

को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् ।
न भजेत् सर्वतोमृत्युरुपास्यममरोत्तमै: ॥ २ ॥

कः नु राजन् इन्द्रिय-वान् मुकुन्द-चरण-अम्बुजम् न भजेत् सर्वतः-मृत्युः उपाश्यम् अमर-उत्तमैः

तमेकदा तु देवर्षिं वसुदेवो गृहागतम् ।
अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३ ॥

तम् एकदा तु देव-ऋषिम् वसुदेवः गृह-आगतम् अर्चितम् सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत्

श्रीवसुदेव उवाच
भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् ।
कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम् ॥ ४ ॥

श्री-वसुदेवः उवाच भगवन् भवतः यात्रा स्वस्तये सर्व-देहिनाम् कृपणानाम् यथा पित्रोः उत्तम-श्लोक वर्त्मनाम्

भूतानां देवचरितं दु:खाय च सुखाय च ।
सुखायैव हि साधूनां त्वाद‍ृशामच्युतात्मनाम् ॥ ५ ॥

भूतानाम् देव-चरितम् दुःखाय च सुखाय च सुखाय एव हि साधूनाम् त्वादृशाम् अच्युत आत्मनाम्

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।
छायेव कर्मसचिवा: साधवो दीनवत्सला: ॥ ६ ॥

भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् छाया इव कर्म सचिवाः साधवः दीन-वत्सलाः

ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव ।
यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात् ॥ ७ ॥

ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतः भयात्

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् ।
अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥

अहम् किल पुरा अनन्तम् प्रजा-अर्थः भुवि मुक्ति-दम् अपूजयम् न मोक्षाय मोहितः देव-मायया

यथा विचित्रव्यसनाद् भवद्भ‍िर्विश्वतोभयात् ।
मुच्येम ह्यञ्जसैवाद्धा तथा न: शाधि सुव्रत ॥ ९ ॥

यथा विचित्र-व्यसनात् भवद्भिः विश्वतः-भयात् मुच्येम हि अञ्जसा एव अद्धा तथा नः शाधि सु-व्रत

श्रीशुक उवाच
राजन्नेवं कृतप्रश्न‍ो वसुदेवेन धीमता ।
प्रीतस्तमाह देवर्षिर्हरे: संस्मारितो गुणै: ॥ १० ॥

श्री-शुकः उवाच राजन् एवम् कृत-प्रश्नः वसुदेवेन धीमता प्रीतः तम् आह देव-ऋषिः हरेः संस्मारितः गुणैः

श्रीनारद उवाच
सम्यगेतद् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् ॥ ११ ॥

श्री-नारदः उवाच सम्यक् एतत् व्यवसितम् भवता सात्वत-ऋषभ यत् पृच्छसे भागवतान् धर्मान् त्वम् विश्व-भावनान्

श्रुतोऽनुपठितो ध्यात आद‍ृतो वानुमोदित: ।
सद्य: पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि ॥ १२ ॥

श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः सद्यः पुनाति सत्-धर्मः देव विश्व द्रुहः अपि हि

त्वया परमकल्याण: पुण्यश्रवणकीर्तन: ।
स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥

त्वया परम कल्याणः पुण्य श्रवण कीर्तनः स्मारितः भगवान् अद्य देवः नारायणः मम

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मन: ॥ १४ ॥

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् आर्षभाणाम् च संवादम् विदेहस्य महा-आत्मनः

प्रियव्रतो नाम सुतो मनो: स्वायम्भुवस्य य: ।
तस्याग्नीध्रस्ततो नाभिऋर्षभस्तत्सुत: स्मृत: ॥ १५ ॥

प्रियव्रतः नाम सुतः मनोः स्वायम्भुवस्य यः तस्य आग्नीध्रः ततः नाभिः ऋषभः तत्-सुतः स्मृतः

तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया ।
अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥

तम् आहुः वासुदेव-अंशम् मोक्ष-धर्म विवक्षया अवतीर्णम् सुत शतम् तस्य आसीत् ब्रह्म पार-गम्

तेषां वै भरतो ज्येष्ठो नारायणपरायण: ।
विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्भ‍ुतम् ॥ १७ ॥

तेषाम् वै भरतः ज्येष्ठः नारायण-परायणः विख्यातम् वर्षम् एतत् यत्-नाम्ना भारतम् अद्भुतम्

स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् ।
उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभि: ॥ १८ ॥

सः भुक्त भोगाम् त्यक्त्वा इमाम् निर्गतः तपसा हरिम् उपासीनः तत्-पदवीम् लेभे वै जन्मभिः त्रिभिः

तेषां नव नवद्वीपपतयोऽस्य समन्तत: ।
कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातय: ॥ १९ ॥

तेषाम् नव नव-द्वीप पतयः अस्य समन्ततः कर्म-तन्त्र प्रणेतारः एकाशीतिः द्वि-जातयः

नवाभवन् महाभागा मुनयो ह्यर्थशंसिन: ।
श्रमणा वातरसना आत्मविद्याविशारदा: ॥ २० ॥
कविर्हविरन्तरीक्ष: प्रबुद्ध: पिप्पलायन: ।
आविर्होत्रोऽथ द्रुमिलश्चमस: करभाजन: ॥ २१ ॥

नव अभवन् महा-भागाः मुनयः हि अर्थ-शंसिनः श्रमणाः वात-रसनाः आत्म-विद्या विशारदाः कविः हविः अन्तरीक्षः प्रबुद्धः पिप्पलायनः आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः

त एते भगवद्रूपं विश्वं सदसदात्मकम् ।
आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ २२ ॥

ते एते भगवत् रूपम् विश्वम् सत्-असत्-आत्मकम् आत्मनः अव्यतिरेकेण पश्यन्तः व्यचरन् महीम्

अव्याहतेष्टगतय: सुरसिद्धसाध्य-
गन्धर्वयक्षनरकिन्नरनागलोकान् ।
मुक्ताश्चरन्ति मुनिचारणभूतनाथ-
विद्याधरद्विजगवां भुवनानि कामम् ॥ २३ ॥

अव्याहत इष्ट-गतयः सुर सिद्ध साध्य गन्धर्व यक्ष नर किन्नर नाग लोकान् मुक्ताः चरन्ति मुनि चारण भूत-नाथ विद्याधर द्विज गवाम् भुवनानि कामम्

त एकदा निमे: सत्रमुपजग्मुर्यद‍ृच्छया ।
वितायमानमृषिभिरजनाभे महात्मन: ॥ २४ ॥

ते एकदा निमेः सत्रम् उपजग्मुः यदृच्छया वितायमानम् ऋषिभिः अजनाभे महा-आत्मनः

तान् द‍ृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप ।
यजमानोऽग्नयो विप्रा: सर्व एवोपतस्थिरे ॥ २५ ॥

तान् दृष्ट्वा सूर्य सङ्काशान् महा-भागवतान् नृप यजमानः अग्नयः विप्राः सर्वे एव उपतस्थिरे

विदेहस्तानभिप्रेत्य नारायणपरायणान् ।
प्रीत: सम्पूजयां चक्रे आसनस्थान् यथार्हत: ॥ २६ ॥

विदेहः तान् अभिप्रेत्य नारायण-परायणान् प्रीतः सम्पूजयाम् चक्रे आसन-स्थान् यथा-अर्हतः

तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव ।
पप्रच्छ परमप्रीत: प्रश्रयावनतो नृप: ॥ २७ ॥

तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्र-उपमान् नव पप्रच्छ परम-प्रीतः प्रश्रय अवनतः नृपः

श्रीविदेह उवाच
मन्ये भगवत: साक्षात् पार्षदान् वो मधुद्विष: ।
विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८ ॥

श्री-विदेहः उवाच मन्ये भगवतः साक्षात् पार्षदान् वः मधु-द्विषः विस्णोः भूतानि लोकानाम् पावनाय चरन्ति हि

दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुर: ।
तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९ ॥

दुर्लभः मानुषः देहः देहिनाम् क्षण-भङ्गुरः तत्र अपि दुर्लभम् मन्ये वैकुण्ठप्रिय दर्शनम्

अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघा: ।
संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्ग: शेवधिर्नृणाम् ॥ ३० ॥

अतः आत्यन्तिकम् क्षेमम् पृच्छामः भवतः अनघाः संसारे अस्मिन् क्षण-अर्धः अपि सत्-सङ्गः शेवधिः नृणाम्

धर्मान् भागवतान् ब्रूत यदि न: श्रुतये क्षमम् ।
यै: प्रसन्न: प्रपन्नाय दास्यत्यात्मानमप्यज: ॥ ३१ ॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् यैः प्रसन्नः प्रपन्नाय दास्यति आत्मानम् अपि अजः

११.३

श्रीराजोवाच
परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् ।
मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु न: ॥ १ ॥

श्री-राजा उवाच परस्य विष्णोः ईशस्य मायिनाम् अपि मोहिनीम् मायाम् वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः

नानुतृप्ये जुषन्युष्मद्वचोहरिकथामृतम् ।
संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥ २ ॥

न अनुतृप्ये जुषन् युष्मत् वचः हरि-कथा अमृतम् संसार ताप निस्तप्तः मर्त्यः तत्-ताप भेषजम्

श्रीअन्तरीक्ष उवाच
एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ।
ससर्जोच्चावचान्याद्य: स्वमात्रात्मप्रसिद्धये ॥ ३ ॥

श्री-अन्तरीक्षः उवाच एभिः भूतानि भूत-आत्मा महा-भूतैः महा-भुज ससर्ज उच्च-अवचानि आद्यः स्व मात्रा आत्म प्रसिद्धये

एवं सृष्टानि भूतानि प्रविष्ट: पञ्चधातुभि: ।
एकधा दशधात्मानं विभजन्जुषते गुणान् ॥ ४ ॥

एवम् सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः एकधा दशधा आत्मानम् विभजन् जुषते गुणान्

गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितै: प्रभु: ।
मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥

गुणैः गुणान् सः भुञ्जानः आत्म प्रद्योतितैः प्रभुः मन्यमानः इदम् सृष्टम् आत्मानम् इह सज्जते

कर्माणि कर्मभि: कुर्वन्सनिमित्तानि देहभृत् ।
तत्तत्कर्मफलं गृह्णन्भ्रमतीह सुखेतरम् ॥ ६ ॥

कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् तत् तत् कर्म-फलम् गृह्णन् भ्रमति इह सुख इतरम्

इत्थं कर्मगतीर्गच्छन्बह्वभद्रवहा: पुमान् ।
आभूतसम्प्लवात्सर्गप्रलयावश्न‍ुतेऽवश: ॥ ७ ॥

इत्थम् कर्म-गतीः गच्छन् बहु-अभद्र वहाः पुमान् आभूत-सम्प्लवात् सर्ग-प्रलयौ अश्नुते अवशः

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
अनादिनिधन: कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥

धातु उपप्लवे आसन्ने व्यक्तम् द्रव्य गुण आत्मकम् अनादि निधनः कालः हि अव्यक्ताय अपकर्षति

शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि ।
तत्कालोपचितोष्णार्को लोकांस्त्रीन्प्रतपिष्यति ॥ ९ ॥

शत-वर्षा हि अनावृष्टिः भविष्यति उल्बणा भुवि तत्-काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति

पातालतलमारभ्य सङ्कर्षणमुखानल: ।
दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरित: ॥ १० ॥

पाताल-तलम् आरभ्य सङ्कर्षण-मुख अनलः दहन् ऊर्ध्व-शिखः विष्वक् वर्धते वायुना ईरितः

संवर्तको मेघगणो वर्षति स्म शतं समा: ।
धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११ ॥

संवर्तकः मेघ-गणः वर्षति स्म शतम् समाः धाराभिः हस्ति-हस्ताभिः लीयते सलिले विराट्

ततो विराजमुत्सृज्य वैराज: पुरुषो नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानल: ॥ १२ ॥

ततः विराजम् उत्सृज्य वैराजः पुरुषः नृप अव्यक्तम् विशते सूक्ष्मम् निरिन्धनः इव अनलः

वायुना हृतगन्धा भू: सलिलत्वाय कल्पते ।
सलिलं तद्‍धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥

वायुना हृत गन्धा भूः सलिलत्वाय कल्पते सलिलम् तत् हृत-रसम् ज्योतिष्ट्वाय उपकल्पते

हृतरूपं तु तमसा वायौ ज्योति: प्रलीयते ।
हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ।
कालात्मना हृतगुणं नभ आत्मनि लीयते ॥ १४ ॥

हृत-रूपम् तु तमसा वायौ ज्योतिः प्रलीयते हृत-स्पर्शः अवकाशेन वायुः नभसि लीयते काल-आत्मना हृत-गुणम् नभः आत्मनि लीयते

इन्द्रियाणि मनो बुद्धि: सह वैकारिकैर्नृप ।
प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥ १५ ॥

इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप प्रविशन्ति हि अहङ्कारम् स्व-गुणैः अहम् आत्मनि

एषा माया भगवत: सर्गस्थित्यन्तकारिणी ।
त्रिवर्णा वर्णितास्माभि: किं भूय: श्रोतुमिच्छसि ॥ १६ ॥

एषा माया भगवतः सर्ग स्थिति अन्त कारिणी त्रि-वर्णा वर्णिता अस्माभिः किम् भूयः श्रोतुम् इच्छसि

श्रीराजोवाच
यथैतामैश्वरीं मायां दुस्तरामकृतात्मभि: ।
तरन्त्यञ्ज: स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥

श्री-राजा उवाच यथा एताम् ऐश्वरीम् मायाम् दुस्तराम् अकृत-आत्मभिः तरन्ति अञ्जः स्थूल-धियः मह-ऋषे इदम् उच्यताम्

श्रीप्रबुद्ध उवाच
कर्माण्यारभमाणानां दु:खहत्यै सुखाय च ।
पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥

श्री-प्रबुद्धः उवाच कर्माणि आरभमाणानाम् दुःख-हत्यै सुखाय च पश्येत् पाक विपर्यासम् मिथुनी-चारिणाम् नृणाम्

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।
गृहापत्याप्तपशुभि: का प्रीति: साधितैश्चलै: ॥ १९ ॥

नित्य आर्ति-देन वित्तेन दुर्लभेन आत्म-मृत्युना गृह अपत्य आप्त पशुभिः का प्रीतिः साधितैः चलैः

एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।
सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥

एवम् लोकम् परम् विद्यात् नश्वरम् कर्म-निर्मितम् स-तुल्य अतिशय ध्वंसम् यथा मण्डल-वर्तिनाम्

तस्माद् गुरुं प्रपद्येत जिज्ञासु: श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥

तस्मात् गुरुम् प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् शाब्दे परे च निष्णातम् ब्रह्मणि उपशम-आश्रयम्

तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवत: ।
अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदोहरि: ॥ २२ ॥

तत्र भागवतान् धर्मान् शिक्षेत् गुरु-आत्म-दैवतः अमायया अनुवृत्त्या यैः तुष्येत् आत्मा आत्म-दः हरिः

सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥

सर्वतः मनसः असङ्गम् आदौ सङ्गम् च साधुषु दयाम् मैत्रीम् प्रश्रयम् च भूतेषु अद्धा यथा उचितम्

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।
ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयो: ॥ २४ ॥

शौचम् तपः तितिक्षाम् च मौनम् स्वाध्यायम् आर्जवम् ब्रह्मचर्यम् अहिंसाम् च समत्वम् द्वन्द्व-संज्ञयोः

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।
विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥

सर्वत्र आत्म ईश्वर अन्वीक्षाम् कैवल्यम् अनिकेतताम् विविक्त-चीर वसनम् सन्तोषम् येन केनचित्

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।
मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥

श्रद्धाम् भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि मनः वाक् कर्म दण्डम् च सत्यम् शम दमौ अपि

श्रवणं कीर्तनं ध्यानं हरेरद्भ‍ुतकर्मण: ।
जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥
इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मन: प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥

श्रवणम् कीर्तनम् ध्यानम् हरेः अद्भुत-कर्मणः जन्म कर्म गुणानाम् च तत्-अर्थे अखिल चेष्टितम् इष्टम् दत्तम् तपः जप्तम् वृत्तम् यत् च आत्मनः प्रियम् दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥

एवम् कृष्ण-आत्म-नाथेषु मनुष्येषु च सौहृदम् परिचर्याम् च उभयत्र महत्सु नृषु साधुषु

परस्परानुकथनं पावनं भगवद्यश: ।
मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मन: ॥ ३० ॥

परस्पर अनुकथनम् पावनम् भगवत् यशः मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः

स्मरन्त: स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥

स्मरन्तः स्मारयन्तः च मिथः अघ-ओघ-हरम् हरिम् भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकाम् तनुम्

क्व‍‍चिद् रुदन्त्यच्युतचिन्तया क्व‍‍चि-
द्धसन्ति नन्दन्ति वदन्त्यलौकिका: ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निवृता: ॥ ३२ ॥

क्वचित् रुदन्ति अच्युत चिन्तया क्वचित् हसन्ति नन्दन्ति वदन्ति अलौकिकाः नृत्यन्ति गायन्ति अनुशीलयन्ति अजम् भवन्ति तूष्णीम् परम् एत्य निर्वृताः

इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।
नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ३३ ॥

इति भागवतान् धर्मान् शिक्षन् भक्त्या तत्-उत्थया नारायण-परः मायाम् अञ्जः तरति दुस्तराम्

श्रीराजोवाच
नारायणाभिधानस्य ब्रह्मण: परमात्मन: ।
निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमा: ॥ ३४ ॥

श्री-राजा उवाच नारायण-अभिधानस्य ब्रह्मणः परम-आत्मनः निष्ठाम् अर्हथ नः वक्तुम् यूयम् हि ब्रह्म-वित्-तमाः

श्रीपिप्पलायन उवाच
स्थित्युद्भ‍वप्रलयहेतुरहेतुरस्य
यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च ।
देहेन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥

श्री-पिप्पलायनः उवाच स्थिति उद्भव प्रलय हेतुः अहेतुः अस्य यत् स्वप्न जागर सुषुप्तिषु सत् बहिः च देह इन्द्रिय आसु हृदयानि चरन्ति येन सञ्जीवितानि तत् अवेहि परम् नर-इन्द्र

नैतन्मनो विशति वागुत चक्षुरात्मा
प्राणेन्द्रियाणि च यथानलमर्चिष: स्वा: ।
शब्दोऽपि बोधकनिषेधतयात्ममूल-
मर्थोक्तमाह यद‍ृते न निषेधसिद्धि: ॥ ३६ ॥

न एतत् मनः विशति वाक् उत चक्षुः आत्मा प्राण इन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः शब्दः अपि बोधक निषेधतया आत्म मूलम् अर्थ-उक्तम् आह यत्-ऋते न निषेध सिद्धिः

सत्त्वं रजस्तम इति त्रिवृदेकमादौ
सूत्रं महानहमिति प्रवदन्ति जीवम् ।
ज्ञानक्रियार्थफलरूपतयोरुशक्ति
ब्रह्मैव भाति सदसच्च तयो: परं यत् ॥ ३७ ॥

सत्त्वम् रजः तमः इति त्रि-वृत् एकम् आदौ सूत्रम् महान् अहम् इति प्रवदन्ति जीवम् ज्ञान क्रिया अर्थ फल रूपतया उरु-शक्ति ब्रह्म एव भाति सत् असत् च तयोः परम् यत्

नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद् व्यभिचारिणां हि ।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३८ ॥

न आत्मा जजान न मरिष्यति न एधते असौ न क्षीयते सवन-वित् व्यभिचारिणाम् हि सर्वत्र शश्वत् अनपायि उपलब्धि-मात्रम् प्राणः यथा इन्द्रिय-बलेन विकल्पितम् सत्

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु
प्राणो हि जीवमुपधावति तत्र तत्र ।
सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते
कूटस्थ आशयमृते तदनुस्मृतिर्न: ॥ ३९ ॥

अण्डेषु पेशिषु तरुषु अविनिश्चितेषु प्राणः हि जीवम् उपधावति तत्र तत्र सन्ने यत् इन्द्रिय-गणे अहमि च प्रसुप्ते कूट-स्थः आशयम् ऋते तत् अनुस्मृतिः नः

यर्ह्यब्जनाभचरणैषणयोरुभक्त्या
चेतोमलानि विधमेद् गुणकर्मजानि ।
तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं
साक्षाद् यथामलद‍ृशो: सवितृप्रकाश: ॥ ४० ॥

यर्हि अब्ज-नाभ चरण एषणया उरु-भक्त्या चेतः मलानि विधमेत् गुण-कर्म-जानि तस्मिन् विशुद्धे उपलभ्यते आत्म-तत्त्वम् साक्षात् यथा अमल-दृशोः सवितृ प्रकाशः

श्रीराजोवाच
कर्मयोगं वदत न: पुरुषो येन संस्कृत: ।
विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥

श्री-राजा उवाच कर्म-योगम् वदत नः पुरुषः येन संस्कृतः विधूय इह आशु कर्माणि नैष्कर्म्यम् विन्दते परम्

एवं प्रश्न‍मृषीन् पूर्वमपृच्छं पितुरन्तिके ।
नाब्रुवन् ब्रह्मण: पुत्रास्तत्र कारणमुच्यताम् ॥ ४२ ॥

एवम् प्रश्नम् ऋषीन् पूर्वम् अपृच्छम् पितुः अन्तिके न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम्

श्रीआविर्होत्र उवाच
कर्माकर्मविकर्मेति वेदवादो न लौकिक: ।
वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरय: ॥ ४३ ॥

श्री-आविर्होत्रः उवाच कर्म अकर्म विकर्म इति वेद-वादः न लौकिकः वेदस्य च ईश्वर-आत्मत्वात् तत्र मुह्यन्ति सूरयः

परोक्षवादो वेदोऽयं बालानामनुशासनम् ।
कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥

परोक्ष-वादः वेदः अयम् बालानाम् अनुशासनम् कर्म-मोक्षाय कर्माणि विधत्ते हि अगदम् यथा

नाचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रिय: ।
विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति स: ॥ ४५ ॥

न आचरेत् यः तु वेद-उक्तम् स्वयम् अज्ञः अजित-इन्द्रियः विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः

वेदोक्तमेव कुर्वाणो नि:सङ्गोऽर्पितमीश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुति: ॥ ४६ ॥

वेद-उक्तम् एव कुर्वाणः निह्सङ्गः अर्पितम् ईश्वरे नैष्कर्म्यम् लभते सिद्धिम् रोचन-अर्था फल-श्रुतिः

य आशु हृदयग्रन्थिं निर्जिहीर्षु: परात्मन: ।
विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥

यः आशु हृदय-ग्रन्थिम् निर्जिहीर्षुः परात्मनः विधिना उपचरेत् देवम् तन्त्र-उक्तेन च केशवम्

लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागम: ।
महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मन: ॥ ४८ ॥

लब्ध्वा अनुग्रहः आचार्यात् तेन सन्दर्शित आगमः महा-पुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः

शुचि: सम्मुखमासीन: प्राणसंयमनादिभि: ।
पिण्डं विशोध्य सन्न्यासकृतरक्षोऽर्चयेद्धरिम् ॥ ४९ ॥

शुचिः सम्मुखम् आसीनः प्राण-संयमन-आदिभिः पिण्डम् विशोध्य सन्न्यास कृत-रक्षः अर्चयेत् हरिम्

अर्चादौ हृदये चापि यथालब्धोपचारकै: ।
द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥
पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहित: ।
हृदादिभि: कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ५१ ॥

अर्चा-आदौ हृदये च अपि यथा-लब्ध उपचारकैः द्रव्य क्षिति आत्म लिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् पाद्य-आदीन् उपकल्प्य अथ सन्निधाप्य समाहितः हृत्-आदिभिः कृत-न्यासः मूल-मन्त्रेण च अर्चयेत्

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रत: ।
पाद्यार्घ्याचमनीयाद्यै: स्न‍ानवासोविभूषणै: ॥ ५२ ॥
गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकै: ।
साङ्गंसम्पूज्य विधिवत् स्तवै: स्तुत्वा नमेद्धरिम् ॥ ५३ ॥

स-अङ्ग उपाङ्गाम् स-पार्षदाम् ताम् ताम् मूर्तिम् स्व-मन्त्रतः पाद्य अर्घ्य आचमनीय आद्यैः स्नान वासः विभूषणैः गन्ध माल्य अक्षत स्रग्भिः धूप दीप उपहारकैः स-अङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम्

आत्मानम् तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरे: ।
शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥

आत्मानम् तत् मयम् ध्यायन् मूर्तिम् सम्पूजयेत् हरेः शेषाम् आधाय शिरसा स्व-धाम्नि उद्वास्य सत्-कृतम्

एवमग्‍न्यर्कतोयादावतिथौ हृदये च य: ।
यजतीश्वरमात्मानमचिरान्मुच्यते हि स: ॥ ५५ ॥

एवम् अग्नि अर्क तोय आदौ अतिथौ हृदये च यः यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः

११.४

श्रीराजोवाच
यानि यानीह कर्माणि यैर्यै: स्वच्छन्दजन्मभि: ।
चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु न: ॥ १ ॥

श्री-राजा उवाच यानि यानि इह कर्माणि यैः यैः स्वच्छन्द जन्मभिः चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः

श्रीद्रुमिल उवाच
यो वा अनन्तस्य गुणाननन्ता-
ननुक्रमिष्यन् स तु बालबुद्धि: ।
रजांसि भूमेर्गणयेत् कथञ्चित्
कालेन नैवाखिलशक्तिधाम्न: ॥ २ ॥

श्री-द्रुमिलः उवाच यः वै अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् सः तु बाल-बुद्धिः रजांसि भूमेः गणयेत् कथञ्चित् कालेन न एव अखिल-शक्ति-धाम्नः

भूतैर्यदा पञ्चभिरात्मसृष्टै:
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्ट: पुरुषाभिधान-
मवाप नारायण आदिदेव: ॥ ३ ॥

भूतैः यदा पञ्चभिः आत्म-सृष्टैः पुरम् विराजम् विरचय्य तस्मिन् स्व-अंशेन विष्टः पुरुष-अभिधानम् अवाप नारायणः आदि-देवः

यत्काय एष भुवनत्रयसन्निवेशो
यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ।
ज्ञानं स्वत: श्वसनतो बलमोज ईहा
सत्त्वादिभि: स्थितिलयोद्भ‍व आदिकर्ता ॥ ४ ॥

यत्-काये एषः भुवन-त्रय सन्निवेशः यस्य इन्द्रियैः तनु-भृताम् उभय-इन्द्रियाणि ज्ञानम् स्वतः श्वसनतः बलम् ओजः ईहा सत्त्व-आदिभिः स्थिति लय उद्भवे आदि-कर्ता

आदावभूच्छतधृती रजसास्य सर्गे
विष्णु: स्थितौ क्रतुपतिर्द्विजधर्मसेतु: ।
रुद्रोऽप्ययाय तमसा पुरुष: स आद्य
इत्युद्भ‍वस्थितिलया: सततं प्रजासु ॥ ५ ॥

आदौ अभूत् शत-धृतिः रजसा अस्य सर्गे विष्णुः स्थितौ क्रतु-पतिः द्विज धर्म सेतुः रुद्रः अप्ययाय तमसा पुरुषः सः आद्यः इति उद्भव-स्थिति-लयाः सततम् प्रजासु

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां
नारायणो नर ऋषिप्रवर: प्रशान्त: ।
नैष्कर्म्यलक्षणमुवाच चचार कर्म
योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्‍‌घ्रि: ॥ ६ ॥

धर्मस्य दक्ष-दुहितरि अजनिष्ट मूर्त्याम् नारायणः नरः ऋषि-प्रवरः प्रशान्तः नैष्कर्म्य-लक्षणम् उवाच चचार कर्म यः अद्य अपि च आस्ते ऋषि-वर्य निषेवित अङ्घ्रिः

इन्द्रो विशङ्‍क्य मम धाम जिघृक्षतीति
कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् ।
गत्वाप्सरोगणवसन्तसुमन्दवातै:
स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञ: ॥ ७ ॥

इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामम् न्ययुङ्क्त स-गणम् सः बदरी-उपाख्यम् गत्वा अप्सरः-गण वसन्त सु-मन्द-वातैः स्त्री-प्रेक्षण इषुभिः अविध्यत् अतत्-महि-ज्ञः

विज्ञाय शक्रकृतमक्रममादिदेव:
प्राह प्रहस्य गतविस्मय एजमानान् ।
मा भैष्टभो मदन मारुत देववध्वो
गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८ ॥

विज्ञाय शक्र कृतम् अक्रमम् आदि-देवः प्राह प्रहस्य गत-विस्मयः एजमानान् मा भैः विभो मदन मारुत देव-वध्वः गृह्णीत नः बलिम् अशून्यम् इमम् कुरुध्वम्

इत्थं ब्रुवत्यभयदे नरदेव देवा:
सव्रीडनम्रशिरस: सघृणं तमूचु: ।
नैतद् विभो त्वयि परेऽविकृते विचित्रं
स्वारामधीरनिकरानतपादपद्मे ॥ ९ ॥

इत्थम् ब्रुवति अभय-दे नर-देव देवाः स-व्रीड नम्र शिरसः स-घृणम् तम् ऊचुः न एतत् विभो त्वयि परे अविकृते विचित्रम् स्व-आराम धीर निकर आनत पाद-पद्मे

त्वां सेवतां सुरकृता बहवोऽन्तराया:
स्वौको विलङ्‍घ्य परमं व्रजतां पदं ते ।
नान्यस्य बर्हिषि बलीन् ददत: स्वभागान्
धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १० ॥

त्वाम् सेवताम् सुर-कृताः बहवः अन्तरायाः स्व-ओकः विलङ्घ्य परमम् व्रजताम् पदम् ते न अन्यस्य बर्हिषि बलीन् ददतः स्व-भागान् धत्ते पदम् त्वम् अविता यदि विघ्न मूर्ध्नि

क्षुत्तृट्‌त्रिकालगुणमारुतजैह्वशैष्णा-
नस्मानपारजलधीनतितीर्य केचित् ।
क्रोधस्य यान्ति विफलस्य वशं पदे गो-
र्मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥

क्षुत् तृट् त्रि-काल-गुण मारुत जैह्व शैष्णान् अस्मान् अपार जल-धीन् अतितीर्य केचित् क्रोधस्य यान्ति विफलस्य वशम् पदे गोः मज्जन्ति दुश्चर तपः च वृथा उत्सृजन्ति

इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुरतदर्शना: ।
दर्शयामास शुश्रूषां स्वर्चिता: कुर्वतीर्विभु: ॥ १२ ॥

इति प्रगृणताम् तेषाम् स्त्रियः अति-अद्भुत दर्शनाः दर्शयाम् आस शुश्रूषाम् सु-अर्चिताः कुर्वतीः विभुः

ते देवानुचरा द‍ृष्ट्वा स्त्रिय: श्रीरिव रूपिणी: ।
गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रिय: ॥ १३ ॥

ते देव-अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः गन्धेन मुमुहुः तासाम् रूप औदार्य हत श्रियः

तानाह देवदेवेश: प्रणतान् प्रहसन्निव ।
आसामेकतमां वृङ्‍ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४ ॥

तान् आह देव-देव-ईशः प्रणतान् प्रहसन् इव आसाम् एकतमाम् वृङ्ध्वम् स-वर्णाम् स्वर्ग भूषणाम्

ओमित्यादेशमादाय नत्वा तं सुरवन्दिन: ।
उर्वशीमप्सर:श्रेष्ठां पुरस्कृत्य दिवं ययु: ॥ १५ ॥

ओम् इति आदेशम् आदाय नत्वा तम् सुर वन्दिनः उर्वशीम् अप्सरः-श्रेष्ठाम् पुरः-कृत्य दिवम् ययुः

इन्द्रायानम्य सदसि श‍ृण्वतां त्रिदिवौकसाम् ।
ऊचुर्नारायणबलं शक्रस्तत्रास विस्मित: ॥ १६ ॥

इन्द्राय आनम्य सदसि शृण्वताम् त्रि-दिव ओकसाम् ऊचुः नारायण-बलम् शक्रः तत्र आस विस्मितः

हंसस्वरूप्यवददच्युत आत्मयोगं
दत्त: कुमार ऋषभो भगवान् पिता न: ।
विष्णु: शिवाय जगतां कलयावतीर्ण-
स्तेनाहृता मधुभिदा श्रुतयोहयास्ये ॥ १७ ॥

हंस-स्वरूपी अवदत् अच्युतः आत्म-योगम् दत्तः कुमारः ऋषभः भगवान् पिता नः विष्णुः शिवाय जगताम् कलया अवतीर्णः तेन आहृताः मधु-भिदा श्रुतयः हय-आस्ये

गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये
क्रौडे हतो दितिज उद्धरताम्भस: क्ष्माम् ।
कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे
ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥

गुप्तः अप्यये मनुः इला ओषधयः च मात्स्ये क्रौडे हतः दिति-जः उद्धरता अम्भसः क्ष्माम् कौर्मे धृतः अद्रिः अमृत-उन्मथने स्व-पृष्ठे ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चत् आर्तम्

संस्तुन्वतो निपतितान् श्रमणानृषींश्च
शक्रं च वृत्रवधतस्तमसि प्रविष्टम् ।
देवस्त्रियोऽसुरगृहे पिहिता अनाथा
जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥

संस्तुन्वतः निपतितान् श्रमणान् ऋषीन् च शक्रम् च वृत्र-वधतः तमसि प्रविष्टम् देव-स्त्रियः असुर-गृहे पिहिताः अनाथाः जघ्ने असुर-इन्द्रम् अभयाय सताम् नृसिंहे

देवासुरे युधि च दैत्यपतीन् सुरार्थे
हत्वान्तरेषु भुवनान्यदधात् कलाभि: ।
भूत्वाथ वामन इमामहरद् बले: क्ष्मां
याच्ञाच्छलेन समदाददिते: सुतेभ्य: ॥ २० ॥

देव-असुरे युधि च दैत्य-पतीन् सुर-अर्थे हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम् याच्ञा-छलेन समदात् अदितेः सुतेभ्यः

नि:क्षत्रियामकृत गां च त्रि:सप्तकृत्वो
रामस्तु हैहयकुलाप्ययभार्गवाग्नि: ।
सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं
सीतापतिर्जयति लोकमलघ्नकीर्ति: ॥ २१ ॥

निःक्षत्रियाम् अकृत गाम् च त्रिः-सप्त-कृत्वः रामः तु हैहय-कुल अप्यय भार्गव अग्निः सः अब्धिम् बबन्ध दश-वक्त्रम् अहन् स-लङ्कम् सीता-पतिः जयति लोक मल घ्न कीर्तिः

भूमेर्भरावतरणाय यदुष्वजन्मा
जात: करिष्यति सुरैरपि दुष्कराणि ।
वादैर्विमोहयति यज्ञकृतोऽतदर्हान्
शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२ ॥

भूमेः भर अवतरणाय यदुषु अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि वादैः विमोहयति यज्ञ-कृतः अतत्-अर्हान् शूद्रान् कलौ क्षिति-भुजः न्यहनिष्यत् अन्ते

एवंविधानि कर्माणि जन्मानि च जगत्पते: ।
भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३ ॥

एवम्-विधानि जन्मानि कर्माणि च जगत्-पतेः भूरीणि भूरि-यशसः वर्णितानि महा-भुज

११.५

श्रीराजोवाच
भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमा: ।
तेषामशान्तकामानां क निष्ठाविजितात्मनाम् ॥ १ ॥

श्री-राजा उवाच भगवन्तम् हरिम् प्रायः न भजन्ति आत्म-वित्तमाः तेषाम् अशान्त कामानाम् का निष्ठा अविजित आत्मनाम्

श्रीचमस उवाच
मुखबाहूरुपादेभ्य: पुरुषस्याश्रमै: सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादय: पृथक् ॥ २ ॥

श्री-चमसः उवाच मुख बाहु ऊरु पादेभ्यः पुरुषस्य आश्रमैः सह चत्वारः जज्ञिरे वर्णाः गुणैः विप्र-आदयः पृथक्

य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद् भ्रष्टा: पतन्त्यध: ॥ ३ ॥

यः एषाम् पुरुषं साक्षात् आत्म-प्रभवम् ईश्वरम् न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधः

दूरे हरिकथा: केचिद् दूरे चाच्युतकीर्तना: ।
स्त्रिय: शूद्रादयश्चैव तेऽनुकम्प्या भवाद‍ृशाम् ॥ ४ ॥

दूरे हरि-कथाः केचित् दूरे च अच्युत कीर्तनाः स्त्रियः शूद्र-आदयः च एव ते अनुकम्प्याः भवादृशाम्

विप्रो राजन्यवैश्यौ वा हरे: प्राप्ता: पदान्तिकम् ।
श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिन: ॥ ५ ॥

विप्रः राजन्य-वैश्यौ वा हरेः प्राप्ताः पद-अन्तिकम् श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नाय-वादिनः

कर्मण्यकोविदा: स्तब्धा मूर्खा: पण्डितमानिन: ।
वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुका: ॥ ६ ॥

कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डित-मानिनः वदन्ति चाटुकान् मूढाः यया माध्व्या गिरा उत्सुकाः

रजसा घोरसङ्कल्पा: कामुका अहिमन्यव: ।
दाम्भिका मानिन: पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥

रजसा घोर-सङ्कल्पाः कामुकाः अहि-मन्यवः दाम्भिकाः मानिनः पापाः विहसन्ति अच्युत-प्रियान्

वदन्ति तेऽन्योन्यमुपासितस्त्रियो
गृहेषु मैथुन्यपरेषु चाशिष: ।
यजन्त्यसृष्टान्नविधानदक्षिणं
वृत्त्यै परं घ्नन्ति पशूनतद्विद: ॥ ८ ॥

वदन्ति ते अन्योन्यम् उपासित-स्त्रियः गृहेषु मैथुन्य-परेषु च आशिषः यजन्ति असृष्ट अन्न-विधान दक्षिणम् वृत्त्यै परम् घ्नन्ति पशून् अतत्-विदः

श्रिया विभूत्याभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा ।
जातस्मयेनान्धधिय: सहेश्वरान्
सतोऽवमन्यन्ति हरिप्रियान् खला: ॥ ९ ॥

श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा जात स्मयेन अन्ध धियः सह-ईश्वरान् सतः अवमन्यन्ति हरि-प्रियान् खलाः

सर्वेषु शश्वत्तनुभृत्स्ववस्थितं
यथा खमात्मानमभीष्टमीश्वरम् ।
वेदोपगीतं च न श‍ृण्वतेऽबुधा
मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥

सर्वेषु शश्वत् तनु-भृत्सु अवस्थितम् यथा खम् आत्मानम् अभीष्टम् ईश्वरम् वेद-उपगीतम् च न शृण्वते अबुधाः मनः-रथानाम् प्रवदन्ति वार्तया

लोके व्यवायामिषमद्यसेवा
नित्या हि जन्तोर्न हि तत्र चोदना ।
व्यवस्थितिस्तेषु विवाहयज्ञ-
सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११ ॥

लोके व्यवाय आमिष मद्य सेवाः नित्याः हि जन्तोः न हि तत्र चोदना व्यवस्थितिः तेषु विवाह यज्ञ सुरा-ग्रहैः आसु निवृत्तिः इष्टा

धनं च धर्मैकफलं यतो वै
ज्ञानं सविज्ञानमनुप्रशान्ति ।
गृहेषु युञ्जन्ति कलेवरस्य
मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥

धनम् च धर्म-एक-फलम् यतः वै ज्ञानम् स-विज्ञानम् अनुप्रशान्ति गृहेषु युञ्जन्ति कलेवरस्य मृत्युम् न पश्यन्ति दुरन्त वीर्यम्

यद् घ्राणभक्षो विहित: सुराया-
स्तथा पशोरालभनं न हिंसा ।
एवं व्यवाय: प्रजया न रत्या
इमं विशुद्धं न विदु: स्वधर्मम् ॥ १३ ॥

यत् घ्राण भक्षः विहितः सुरायाः तथा पशोः आलभनम् न हिंसा एवम् व्यवायः प्रजया न रत्यै इमम् विशुद्धम् न विदुः स्व-धर्मम्

ये त्वनेवंविदोऽसन्त: स्तब्धा: सदभिमानिन: ।
पशून् द्रुह्यन्ति विश्रब्धा: प्रेत्य खादन्ति ते च तान् ॥ १४ ॥

ये तु अनेवम्-विदः असन्तः स्तब्धाः सत्-अभिमानिनः पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान्

द्विषन्त: परकायेषु स्वात्मानं हरिमीश्वरम् ।
मृतके सानुबन्धेऽस्मिन् बद्धस्‍नेहा: पतन्त्यध: ॥ १५ ॥

द्विषन्तः पर-कायेषु स्व-आत्मानम् हरिम् ईश्वरम् मृतके स-अनुबन्धे अस्मिन् बद्ध-स्नेहाः पतन्ति अधः

ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् ।
त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६ ॥

ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढताम् त्रै-वर्गिकाः हि अक्षणिकाः आत्मानम् घातयन्ति ते

एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिन: ।
सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथा: ॥ १७ ॥

एते आत्म-हनः अशान्ताः अज्ञाने ज्ञान-मानिनः सीदन्ति अकृत कृत्याः वै काल ध्वस्त मनः-रथाः

हित्वात्ममायारचिता गृहापत्यसुहृत्स्त्रिय: ।
तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्‍मुखा: ॥ १८ ॥

हित्वा आत्म-माया रचिताः गृह अपत्य सुहृत् स्त्रियः तमः विशन्ति अनिच्छन्तः वसुदेव-पराक्-मुखाः

श्री राजोवाच
कस्मिन् काले स भगवान् किं वर्ण: कीद‍ृशो नृभि: ।
नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥

श्री-राजा उवाच कस्मिन् काले सः भगवान् किम् वर्णः कीदृशः नृभिः नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम्

श्रीकरभाजन उवाच
कृतं त्रेता द्वापरं च कलिरित्येषु केशव: ।
नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥

श्री-करभाजनः उवाच कृतम् त्रेता द्वापरम् च कलिः इति एषु केशवः नाना वर्ण अभिधा आकारः नाना एव विधिना इज्यते

कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बर: ।
कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥

कृते शुक्लः चतुः-बाहुः जटिलः वल्कल-अम्बरः कृष्ण-अजिन उपवीत अक्षान् बिभ्रत् दन्द कमण्डलू

मनुष्यास्तु तदा शान्ता निर्वैरा: सुहृद: समा: ।
यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥

मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः यजन्ति तपसा देवम् शमेन च दमेन च

हंस: सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमल: ।
ईश्वर: पुरुषोऽव्यक्त: परमात्मेति गीयते ॥ २३ ॥

हंसः सु-पर्णः वैकुण्ठः धर्मः योग-ईश्वरः अमलः ईश्वरः पुरुषः अव्यक्तः परम-आत्मा इति गीयते

त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखल: ।
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षण: ॥ २४ ॥

त्रेतायाम् रक्त-वर्णः असौ चतुः-बाहुः त्रि-मेखलः हिरण्य-केशः त्रयि-आत्मा स्रुक्-स्रुव-आदि उपलक्षणः

तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिन: ॥ २५ ॥

तम् तदा मनुजाः देवम् सर्व-देव-मयम् हरिम् यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्म-वादिनः

विष्णुर्यज्ञ: पृश्न‍िगर्भ: सर्वदेव उरुक्रम: ।
वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥

विष्णुः यज्ञः पृश्नि-गर्भः सर्व-देवः उरु-क्रमः वृषाकपिः जयन्तः च उरु-गायः इति ईर्यते

द्वापरे भगवाञ्श्याम: पीतवासा निजायुध: ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षित: ॥ २७ ॥

द्वापरे भगवान् श्यामः पीत-वासाः निज-आयुधः श्रीवत्स-आदिभिः अङ्कैः च लक्षणैः उपलक्षितः

तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥

तम् तदा पुरुषम् मर्त्याः महा-राज उपलक्षणम् यजन्ति वेद-तन्त्राभ्याम् परम् जिज्ञासवः नृप

नमस्ते वासुदेवाय नम: सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नम: ॥ २९ ॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्वभूतात्मने नम: ॥ ३० ॥

नमः ते वासुदेवाय नमः सङ्कर्षणाय च प्रद्युम्नाय अनिरुद्धाय तुभ्यम् भगवते नमः नारायणाय ऋषये पुरुषाय महा-आत्मने विश्व-ईश्वराय विश्वाय सर्व-भूत-आत्मने नमः

इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।
नानातन्त्रविधानेन कलावपि तथा श‍ृणु ॥ ३१ ॥

इति द्वापरे उरु-ईश स्तुवन्ति जगत्-ईश्वरम् नाना तन्त्र विधानेन कलौ अपि तथा शृणु

कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।
यज्ञै: सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधस: ॥ ३२ ॥

कृष्ण-वर्णम् त्विषा अकृष्णम् स-अङ्ग उप-अङ्ग अस्त्र पार्षदम् यज्ञैः सङ्कीर्तन-प्रायैः यजन्ति हि सु-मेधसः

ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३ ॥

ध्येयम् सदा परिभव घ्नम् अभीष्ट दोहम् तीर्थ आस्पदम् शिव-विरिञ्चि नुतम् शरण्यम् भृत्य आर्ति-हम् प्रणत-पाल भव-अब्धि पोतम् वन्दे महा-पुरुष ते चरण-अरविन्दम्

त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद्
वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४ ॥

त्यक्त्वा सु-दुस्त्यज सुर-ईप्सित राज्य-लक्ष्मीम् धर्मिष्ठः आर्य-वचसा यत् अगात् अरण्यम् माया-मृगम् दयितया ईप्सितम् अन्वधावत् वन्दे महा-पुरुष ते चरण-अरविन्दम्

एवं युगानुरूपाभ्यां भगवान् युगवर्तिभि: ।
मनुजैरिज्यते राजन् श्रेयसामीश्वरोहरि: ॥ ३५ ॥

एवम् युग-अनुरूपाभ्याम् भगवान् युग-वर्तिभिः मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः

कलिं सभाजयन्त्यार्या गुणज्ञा: सारभागिन: ।
यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६ ॥

कलिम् सभाजयन्ति आर्याः गुण-ज्ञः सार-भागिनः यत्र सङ्कीर्तनेन एव सर्व स्व-अर्थः अभिलभ्यते

न ह्यत: परमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्यति संसृति: ॥ ३७ ॥

न हि अतः परमः लाभः देहिनाम् भ्राम्यताम् इह यतः विन्देत परमाम् शान्तिम् नश्यति संसृतिः

कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायणपरायणा: ।
क्व‍‍चित् क्व‍‍चिन्महाराज द्रविडेषु च भूरिश: ॥ ३८ ॥
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ।
कावेरी च महापुण्या प्रतीची च महानदी ॥ ३९ ॥
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति वासुदेवेऽमलाशया: ॥ ४० ॥

कृत-आदिषु प्रजाः राजन् कलौ इच्छन्ति सम्भवम् कलौ खलु भविष्यन्ति नारायण-परायणाः क्वचित् क्वचित् महा-राज द्रविडेषु च भूरिशः ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी कावेरी च महा-पुण्या प्रतीची च महा-नदी ये पिबन्ति जलम् तासाम् मनुजाः मनुज-ईश्वर प्रायः भक्ताः भगवति वासुदेवे अमल-आशयाः

देवर्षिभूताप्तनृणां पितृणां
न किङ्करो नायमृणी च राजन् ।
सर्वात्मना य: शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१ ॥

देव ऋषि भूत आप्त नृणाम् पितॄणाम् न किङ्करः न अयम् ऋणी च राजन् सर्व-आत्मना यः शरणम् शरण्यम् गतः मुकुन्दम् परिहृत्य कर्तम्

स्वपादमूलं भजत: प्रियस्य
त्यक्तान्यभावस्य हरि: परेश: ।
विकर्म यच्चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्ट: ॥ ४२ ॥

स्व-पाद-मूलम् भजतः प्रियस्य त्यक्त अन्य भावस्य हरिः पर-ईशः विकर्म यत् च उत्पतितम् कथञ्चित् धुनोति सर्वम् हृदि सन्निविष्टः

श्रीनारद उवाच
धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वर: ।
जायन्तेयान् मुनीन् प्रीत: सोपाध्यायो ह्यपूजयत् ॥ ४३ ॥

श्री-नारदः उवाच धर्मान् भागवतान् इत्थम् श्रुत्वा अथ मिथिला-ईश्वरः जायन्तेयान् मुनीन् प्रीतः स-उपाध्यायः हि अपूजयत्

ततोऽन्तर्दधिरे सिद्धा: सर्वलोकस्य पश्यत: ।
राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥ ४४ ॥

ततः अन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः राजा धर्मान् उपातिष्ठन् अवाप परमाम् गतिम्

त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् ।
आस्थित: श्रद्धया युक्तो नि:सङ्गो यास्यसे परम् ॥ ४५ ॥

त्वम् अपि एतान् महा-भाग धर्मान् भागवतान् श्रुतान् आस्थितः श्रद्धया युक्तः निःसङ्गः यास्यसे परम्

युवयो: खलु दम्पत्योर्यशसा पूरितं जगत् ।
पुत्रतामगमद् यद् वां भगवानीश्वरोहरि: ॥ ४६ ॥

युवयोः खलु दम्-पत्योः यशसा पूरितम् जगत् पुत्रताम् अगमत् यत् वाम् भगवान् ईश्वरः हरिः

दर्शनालिङ्गनालापै: शयनासनभोजनै: ।
आत्मा वां पावित: कृष्णे पुत्रस्‍नेहं प्रकुर्वतो: ॥ ४७ ॥

दर्शन आलिङ्गन आलापैः शयन आसन भोजनैः आत्मा वाम् पावितः कृष्णे पुत्र-स्नेहम् प्रकुर्वतोः

वैरेण यं नृपतय: शिशुपालपौण्ड्र-
शाल्वादयो गतिविलासविलोकनाद्यै: ।
ध्यायन्त आकृतधिय: शयनासनादौ
तत्साम्यमापुरनुरक्तधियां पुन: किम् ॥ ४८ ॥

वैरेण यम् नृ-पतयः शिशुपाल-पौण्ड्र-शाल्व-आदयः गति विलास विलोकन आद्यैः ध्यायन्तः आकृत धियः शयन आसन-आदौ तत्-साम्यम् आपुः अनुरक्त-धियाम् पुनः किम्

मापत्यबुद्धिमकृथा: कृष्णे सर्वात्मनीश्वरे ।
मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९ ॥

मा अपत्य-बुद्धिम् अकृथाः कृष्णे सर्व-आत्मनि ईश्वरे माया मनुष्य-भावेन गूढ-ऐश्वर्ये परे अव्यये

भूभारासुरराजन्यहन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५० ॥

भू-भार असुर राजन्य हन्तवे गुप्तये सताम् अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते

श्रीशुक उवाच
एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मित: ।
देवकी च महाभागा जहतुर्मोहमात्मन: ॥ ५१ ॥

श्री-शुकः उवाच एतत् श्रुत्वा महा-भागः वसुदेवः अति-विस्मितः देवकी च महा-भागा जहतुः मोहम् आत्मनः

इतिहासमिमं पुण्यं धारयेद् य: समाहित: ।
स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२ ॥

इतिहासम् इमम् पुण्यम् धारयेत् यः समाहितः सः विधूय इह शमलम् ब्रह्म-भूयाय कल्पते

११.६

श्रीशुक उवाच
अथ ब्रह्मात्मजै: देवै: प्रजेशैरावृतोऽभ्यगात् ।
भवश्च भूतभव्येशो ययौ भूतगणैर्वृत: ॥ १ ॥

श्री-शुकः उवाच अथ ब्रह्मा आत्म-जैः देवैः प्रजा-ईशैः आवृतः अभ्यगात् भवः च भूत भव्य-ईशः ययौ भूत गणैः वृतः

इन्द्रो मरुद्भ‍िर्भगवानादित्या वसवोऽश्विनौ ।
ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवता: ॥ २ ॥
गन्धर्वाप्सरसो नागा: सिद्धचारणगुह्यका: ।
ऋषय: पितरश्चैव सविद्याधरकिन्नरा: ॥ ३ ॥
द्वारकामुपसञ्जग्मु: सर्वे कृष्णदिद‍ृक्षव: ।
वपुषा येन भगवान् नरलोकमनोरम: ।
यशो वितेने लोकेषु सर्वलोकमलापहम् ॥ ४ ॥

इन्द्रः मरुद्भिः भगवान् आदित्याः वसवः अश्विनौ ऋभवः अङ्गिरसः रुद्राः विश्वे साध्याः च देवताः गन्धर्व-अप्सरसः नागाः सिद्ध-चारण गुह्यकाः ऋषयः पितरः च एव स विद्याधर-किन्नराः द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः वपुषा येन भगवान् नर-लोक मनः-रमः यशः वितेने लोकेषु सर्व-लोक मल अपहम्

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभि: ।
व्यचक्षतावितृप्ताक्षा: कृष्णमद्भ‍ुतदर्शनम् ॥ ५ ॥

तस्याम् विभ्राजमानायाम् समृद्धायाम् महा-ऋद्धिभिः व्यचक्षत अवितृप्त अक्षाः कृष्णम् अद्भुत-दर्शनम्

स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो यदूत्तमम् ।
गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥ ६ ॥

स्वर्ग-उद्यान उपगैः माल्यैः छादयन्तः यदु-उत्तमम् गीर्भिः चित्र पद-अर्थाभिः तुष्टुवुः जगत्-ईश्वरम्

श्रीदेवा ऊचु:
नता: स्म ते नाथ पदारविन्दं
बुद्धीन्द्रियप्राणमनोवचोभि: ।
यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तै-
र्मुमुक्षुभि: कर्ममयोरुपाशात् ॥ ७ ॥

श्री-देवाः ऊचुः नताः स्म ते नाथ पद-अरविन्दम् बुद्धि इन्द्रिय प्राण मनः वचोभिः यत् चिन्त्यते अन्तः हृदि भाव-युक्तैः मुमुक्षुभिः कर्म-मय उरु-पाशात्

त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं
व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थ: ।
नैतैर्भवानजित कर्मभिरज्यते वै
यत् स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्य: ॥ ८ ॥

त्वम् मायया त्रि-गुणया आत्मनि दुर्विभाव्यम् व्यक्तम् सृजसि अवसि लुम्पसि तत् गुण स्थः न एतैः भवान् अजित कर्मभिः अज्यते वै यत् स्वे सुखे अव्यवहिते अभिरतः अनवद्यः

शुद्धिर्नृणां न तु तथेड्य दुराशयानां
विद्याश्रुताध्ययनदानतप:क्रियाभि: ।
सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध-
सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९ ॥

शुद्धिः नृणाम् न तु तथा ईड्य दुराशयानाम् विद्या श्रुत अध्ययन दान तपः क्रियाभिः सत्त्व-आत्मनाम् ऋषभ ते यशसि प्रवृद्ध सत् श्रद्धया श्रवण-सम्भृतया यथा स्यात्

स्यान्नस्तवाङ्‍‍घ्रिरशुभाशयधूमकेतु:
क्षेमाय यो मुनिभिरार्द्रहृदोह्यमान: ।
य: सात्वतै: समविभूतय आत्मवद्भ‍ि-
र्व्यूहेऽर्चित: सवनश: स्वरतिक्रमाय ॥ १० ॥

स्यात् नः तव अङ्घ्रिः अशुभ-आशय धूम-केतुः क्षेमाय यः मुनिभिः आर्द्र-हृदा उह्यमानः यः सात्वतैः सम-विभूतये आत्म-वद्भिः व्यूहे अर्चितः सवनशः स्वः-अतिक्रमाय

यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ
त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा ।
अध्यात्मयोग उत योगिभिरात्ममायां
जिज्ञासुभि: परमभागवतै: परीष्ट: ॥ ११ ॥

यः चिन्त्यते प्रयत-पाणिभिः अध्वर-अग्नौ त्रय्या निरुक्त विधिना ईश हविः गृहीत्वा अध्यात्म-योगे उत योगिभिः आत्म-मायाम् जिज्ञासुभिः परम-भागवतैः परीष्टः

पर्युष्टया तव विभो वनमालयेयं
संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्री: ।
य: सुप्रणीतममुयार्हणमाददन्नो
भूयात् सदाङ्‍‍घ्रिरशुभाशयधूमकेतु: ॥ १२ ॥

पर्युष्टया तव विभो वनमालया इयम् संस्पार्धिनी भगवती प्रति-पत्नी-वत् श्रीः यः सु-प्रणीतम् अमुया अर्हणम् आददन् नः भूयात् सदा अङ्घ्रिः अशुभ-आशय धूम-केतुः

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको
यस्ते भयाभयकरोऽसुरदेवचम्वो: ।
स्वर्गाय साधुषु खलेष्वितराय भूमन्
पाद: पुनातु भगवन् भजतामघं न: ॥ १३ ॥

केतुः त्रि-विक्रम यतः त्रि-पतत् पताकः यः ते भय-अभय करः असुर-देव चम्वोः स्वर्गाय साधुषु खलेषु इतराय भूमन् पादः पुनातु भगवन् भजताम् अघम् नः

नस्योतगाव इव यस्य वशे भवन्ति
ब्रह्मादयस्तनुभृतो मिथुरर्द्यमाना: ।
कालस्य ते प्रकृतिपूरुषयो: परस्य
शं नस्तनोतु चरण: पुरुषोत्तमस्य ॥ १४ ॥

नसि ओत गावः इव यस्य वशे भवन्ति ब्रह्म-आदयः तनु-भृतः मिथुः अर्द्यमानाः कालस्य ते प्रकृति-पूरुषयोः परस्य शम् नः तनोतु चरणः पुरुष-उत्तमस्य

अस्यासि हेतुरुदयस्थितिसंयमाना-
मव्यक्तजीवमहतामपि कालमाहु: ।
सोऽयं त्रिणाभिरखिलापचये प्रवृत्त:
कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥

अस्य असि हेतुः उदय स्थिति संयमानाम् अव्यक्त जीव महताम् अपि कालम् आहुः सः अयम् त्रि-णाभिः अखिल अपचये प्रवृत्तः कालः गभीर रयः उत्तम-पूरुषः त्वम्

त्वत्त: पुमान् समधिगम्य ययास्य वीर्यं
धत्ते महान्तमिव गर्भममोघवीर्य: ।
सोऽयं तयानुगत आत्मन आण्डकोशं
हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥

त्वत्तः पुमान् समधिगम्य यया अस्य वीर्यम् धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः सः अयम् तया अनुगतः आत्मनः आण्ड-कोशम् हैमम् ससर्ज बहिः आवरणैः उपेतम्

तत्तस्थूषश्च जगतश्च भवानधीशो
यन्माययोत्थगुणविक्रिययोपनीतान् ।
अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो
येऽन्ये स्वत: परिहृतादपि बिभ्यति स्म ॥ १७ ॥

तत् तस्थूषः च जगतः च भवान् अधीशः यत् मायया उत्थ गुण विक्रियया उपनीतान् अर्थान् जुषन् अपि हृषीक-पते न लिप्तः ये अन्ये स्वतः परिहृतात् अपि बिभ्यति स्म

स्मायावलोकलवदर्शितभावहारि-
भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डै: ।
पत्न्‍यस्तु षोडशसहस्रमनङ्गबाणै-
र्यस्येन्द्रियं विमथितुं करणैर्न विभ्व्य: ॥ १८ ॥

स्माय अवलोक लव दर्शित भाव हारि भ्रू-मण्डल प्रहित सौरत मन्त्र शौण्डैः पत्न्यः तु षोडश-सहस्रम् अनङ्ग बाणैः यस्य इन्द्रियम् विमथितुम् करणैः न विभ्व्यः

विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्या:
पादावनेजसरित: शमलानि हन्तुम् ।
आनुश्रवं श्रुतिभिरङ्‍‍घ्रिजमङ्गसङ्गै-
स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १९ ॥

विभ्व्यः तव अमृत कथा उद-वहाः त्रि-लोक्याः पाद-अवने ज सरितः शमलानि हन्तुम् आनुश्रवम् श्रुतिभिः अङ्घ्रि-जम् अङ्ग-सङ्गैः तीर्थ-द्वयम् शुचि-षदः ते उपस्पृशन्ति

११.७

श्री-भगवान् उवाच यत् आत्थ माम् महा-भाग तत् चिकीर्षितम् एव मे ब्रह्मा भवः लोक-पालाः स्वः-वासम् मे अभिकाङ्क्षिणः

मया निष्पादितं ह्यत्र देवकार्यमशेषत: ।
यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थित: ॥ २ ॥

मया निष्पादितम् हि अत्र देव-कार्यम् अशेषतः यत् अर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणा अर्थितः

कुलं वै शापनिर्दग्धं नङ्‍क्ष्यत्यन्योन्यविग्रहात् ।
समुद्र: सप्तमे ह्येनां पुरीं च प्लावयिष्यति ॥ ३ ॥

कुलम् वै शाप निर्दग्धम् नङ्क्ष्यति अन्योन्य विग्रहात् समुद्रः सप्तमे हि एनाम् पुरीम् च प्लावयिष्यति

यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गल: ।
भविष्यत्यचिरात्साधो कलिनापि निराकृत: ॥ ४ ॥

यर्हि एव अयम् मया त्यक्तः लोकः अयम् नष्ट-मङ्गलः भविष्यति अचिरात् साधो कलिना अपि निराकृतः

न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले ।
जनोऽभद्ररुचिर्भद्र भविष्यति कलौ युगे ॥ ५ ॥

न वस्तव्यम् त्वया एव इह मया त्यक्ते महीतले जनः अभद्र रुचिः भद्र भविष्यति कलौ युगे

त्वं तु सर्वं परित्यज्य स्‍नेहं स्वजनबन्धुषु ।
मय्यावेश्य मन: सम्यक् समद‍ृग् विचरस्व गाम् ॥ ६ ॥

त्वम् तु सर्वम् परित्यज्य स्नेहम् स्व-जन-बन्धुषु मयि आवेश्य मनः संयक् सम-दृक् विचरस्व गाम्

यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभि: ।
नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ ७ ॥

यत् इदम् मनसा वाचा चक्षुर्भ्याम् श्रवण-आदिभिः नश्वरम् गृह्यमाणम् च विद्धि माया-मनः-मयम्

पुंसोऽयुक्तस्य नानार्थो भ्रम: स गुणदोषभाक् ।
कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥

पुंसः अयुक्तस्य नाना अर्थः भ्रमः सः गुण दोष भाक् कर्म अकर्म विकर्म इति गुण दोष धियः भिदा

तस्माद् युक्तेन्द्रियग्रामो युक्तचित्त इदम् जगत् ।
आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥

तस्मात् युक्त इन्द्रिय-ग्रामः युक्त चित्तः इदम् जगत् आत्मनि ईक्षस्व विततम् आत्मानम् मयि अधीश्वरे

ज्ञानविज्ञानसंयुक्त आत्मभूत: शरीरिणाम् ।
आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे ॥ १० ॥

ज्ञान विज्ञान संयुक्तः आत्म-भूतः शरीरिणाम् आत्म-अनुभव तुष्ट-आत्मा न अन्तरायैः विहन्यसे

दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।
गुणबुद्ध्या च विहितं न करोति यथार्भक: ॥ ११ ॥

दोष-बुद्ध्या उभय-अतीतः निषेधात् न निवर्तते गुण-बुद्ध्या च विहितम् न करोति यथा अर्भकः

सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चय: ।
पश्यन् मदात्मकं विश्वं न विपद्येत वै पुन: ॥ १२ ॥

सर्व-भूत सु-हृत् शान्तः ज्ञान-विज्ञान निश्चयः पश्यन् मत्-आत्मकम् विश्वम् न विपद्येत वै पुनः

श्रीशुक उवाच
इत्यादिष्टो भगवता महाभागवतो नृप ।
उद्धव: प्रणिपत्याह तत्त्वंजिज्ञासुरच्युतम् ॥ १३ ॥

श्री-शुकः उवाच इति आदिष्टः भगवता महा-भागवतः नृप उद्धवः प्रणिपत्य आह तत्त्वम् जिज्ञासुः अच्युतम्

श्रीउद्धव उवाच
योगेश योगविन्यास योगात्मन् योगसम्भव ।
नि:श्रेयसाय मे प्रोक्तस्त्याग: सन्न्यासलक्षण: ॥ १४ ॥

श्री-उद्धवः उवाच योग-ईश योग-विन्यास योग-आत्मन् योग-सम्भव निःश्रेयसाय मे प्रोक्तः त्यागः सन्न्यास लक्षणः

त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभि: ।
सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मति: ॥ १५ ॥

त्यागः अयम् दुष्करः भूमन् कामानाम् विषय आत्मभिः सुतराम् त्वयि सर्व-आत्मन् अभक्तैः इति मे मतिः

सोऽहं ममाहमिति मूढमतिर्विगाढ-
स्त्वन्मायया विरचितात्मनि सानुबन्धे ।
तत्त्वञ्जसा निगदितं भवता यथाहं
संसाधयामि भगवन्ननुशाधि भृत्यम् ॥ १६ ॥

सः अहम् मम अहम् इति मूढ मतिः विगाढः त्वत्-मायया विरचित आत्मनि स-अनुबन्धे तत् तु अञ्जसा निगदितम् भवता यथा अहम् संसाधयामि भगवन् अनुशाधि भृत्यम्

सत्यस्य ते स्वद‍ृश आत्मन आत्मनोऽन्यं
वक्तारमीश विबुधेष्वपि नानुचक्षे ।
सर्वे विमोहितधियस्तव माययेमे
ब्रह्मादयस्तनुभृतो बहिरर्थभावा: ॥ १७ ॥

सत्यस्य ते स्व-दृशः आत्मनः आत्मनः अन्यम् वक्तारम् ईश विबुधेषु अपि न अनुचक्षे सर्वे विमोहित धियः तव मायया इमे ब्रह्म-आदयः तनु-भृतः बहिः अर्थ भावाः

तस्माद् भवन्तमनवद्यमनन्तपारं
सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् ।
निर्विण्णधीरहमु हे वृजिनाभितप्तो
नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥

तस्मात् भवन्तम् अनवद्यम् अनन्त-पारम् सर्व-ज्ञम् ईश्वरम् अकुण्ठ विकुण्ठ धिष्ण्यम् निर्विण्ण धीः अहम् उ हे वृजिन अभितप्तः नारायणम् नर-सखम् शरणम् प्रपद्ये

श्रीभगवानुवाच
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणा: ।
समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥

श्री-भगवान् उवाच प्रायेण मनुजाः लोके लोक-तत्त्व विचक्षणाः समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभ-आशयात्

११.८

श्रीब्राह्मण उवाच
सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च ।
देहिनां यद् यथा दु:खं तस्मान्नेच्छेत तद् बुध: ॥ १ ॥

श्री-ब्राह्मणः उवाच सुखम् ऐन्द्रियकम् राजन् स्वर्गे नरके एव च देहिनाम् यत् यथा दुःखम् तस्मात् न इच्छेत तत् बुधः

ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा ।
यद‍ृच्छयैवापतितं ग्रसेदाजगरोऽक्रिय: ॥ २ ॥

ग्रासम् सु-मृष्टम् विरसम् महान्तम् स्तोकम् एव वा यदृच्छया एव आपतितम् ग्रसेत् आजगरः अक्रियः

शयीताहानि भूरीणि निराहारोऽनुपक्रम: ।
यदि नोपनयेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥

शयीत अहानि भूरीणि निराहारः अनुपक्रमः यदि न उपनयेत् ग्रासः महा-अहिः इव दिष्ट भुक्

ओज:सहोबलयुतं बिभ्रद् देहमकर्मकम् ।
शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥

ओजः सहः बल युतम् बिभ्रत् देहम् अकर्मकम् शयानः वीत निद्रः च न ईहेत इन्द्रिय-वान् अपि

मुनि: प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्यय: ।
अनन्तपारो ह्यक्षोभ्य: स्तिमितोद इवार्णव: ॥ ५ ॥

मुनिः प्रसन्न गम्भीरः दुर्विगाह्यः दुरत्ययः अनन्त-पारः हि अक्षोभ्यः स्तिमित उदः इव अर्णवः

समृद्धकामोहीनो वा नारायणपरो मुनि: ।
नोत्सर्पेत न शुष्येत सरिद्भ‍िरिव सागर: ॥ ६ ॥

समृद्ध कामः हीनः वा नारायण परः मुनिः न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः

द‍ृष्ट्वा स्त्रियं देवमायां तद्भ‍ावैरजितेन्द्रिय: ।
प्रलोभित: पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥

दृष्ट्वा स्त्रियम् देव-मायाम् तत्-भावैः अजित इन्द्रियः प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्ग-वत्

योषिद्धिरण्याभरणाम्बरादि-
द्रव्येषु मायारचितेषु मूढ: ।
प्रलोभितात्मा ह्युपभोगबुद्ध्या
पतङ्गवन्नश्यति नष्टद‍ृष्टि: ॥ ८ ॥

योषित् हिरण्य आभरण अम्बर आदि द्रव्येषु माया रचितेषु मूढः प्रलोभित आत्मा हि उपभोग बुद्ध्या पतङ्ग-वत् नश्यति नष्ट दृष्टिः

स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता ।
गृहानहिंसन्नातिष्ठेद् वृत्तिं माधुकरीं मुनि: ॥ ९ ॥

स्तोकम् स्तोकम् ग्रसेत् ग्रासम् देहः वर्तेत यावता गृहान् अहिंसन् आतिष्ठेत् वृत्तिम् माधु-करीम् मुनिः

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्य: कुशलो नर: ।
सर्वत: सारमादद्यात् पुष्पेभ्य इव षट्पद: ॥ १० ॥

अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः सर्वतः सारम् आदद्यात् पुष्पेभ्यः इव षट्पदः

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११ ॥

सायन्तनम् श्वस्तनम् वा न सङ्गृह्णीत भिक्षितम् पाणि पात्र उदर अमत्रः मक्षिका इव न सङ्ग्रही

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुक: ।
मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥

सायन्तनम् श्वस्तनम् वा न सङ्गृह्णीत भिक्षुकः मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति

पदापि युवतीं भिक्षुर्न स्पृशेद् दारवीमपि ।
स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गत: ॥ १३ ॥

पदा अपि युवतीम् भिक्षुः न स्पृशेत् दारवीम् अपि स्पृशन् करी इव बध्येत करिण्याः अङ्ग-सङ्गतः

नाधिगच्छेत् स्त्रियं प्राज्ञ: कर्हिचिन्मृत्युमात्मन: ।
बलाधिकै: स हन्येत गजैरन्यैर्गजो यथा ॥ १४ ॥

न अधिगच्छेत् स्त्रियम् प्राज्ञः कर्हिचित् मृत्युम् आत्मनः बल अधिकैः सः हन्येत गजैः अन्यैः गजः यथा

न देयं नोपभोग्यं च लुब्धैर्यद् दु:खसञ्चितम् ।
भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५ ॥

न देयम् न उपभोग्यम् च लुब्धैः यत् दुःख सञ्चितम् भुङ्क्ते तत् अपि तत् च अन्यः मधु-हा इव अर्थ वित् मधु

सुदु:खोपार्जितैर्वित्तैराशासानां गृहाशिष: ।
मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६ ॥

सु-दुःख उपार्जितैः वित्तैः आशासानाम् गृह आशिषः मधु-हा इव अग्रतः भुङ्क्ते यतिः वै गृह-मेधिनाम्

ग्राम्यगीतं न श‍ृणुयाद् यतिर्वनचर: क्व‍‍चित् ।
शिक्षेत हरिणाद् बद्धान्मृगयोर्गीतमोहितात् ॥ १७ ॥

ग्राम्य गीतम् न शृणुयात् यतिः वन चरः क्वचित् शिक्षेत हरिणात् बद्धात् मृगयोः गीत मोहितात्

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनको वश्य ऋष्यश‍ृङ्गो मृगीसुत: ॥ १८ ॥

नृत्य वादित्र गीतानि जुषन् ग्राम्यानि योषिताम् आसाम् क्रीडनकः वश्यः ऋष्य-शृङ्गः मृगी-सुतः

जिह्वयातिप्रमाथिन्या जनो रसविमोहित: ।
मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु बडिशैर्यथा ॥ १९ ॥

जिह्वया अति-प्रमाथिन्या जनः रस-विमोहितः मृत्युम् ऋच्छति असत् बुद्धिः मीनः तु बडिशैः यथा

इन्द्रियाणि जयन्त्याशु निराहारा मनीषिण: ।
वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २० ॥

इन्द्रियाणि जयन्ति आशु निराहाराः मनीषिणः वर्जयित्वा तु रसनम् तत् निरन्नस्य वर्धते

तावज्जितेन्द्रियो न स्याद् विजितान्येन्द्रिय: पुमान् ।
न जयेद् रसनं यावज्जितं सर्वं जिते रसे ॥ २१ ॥

तावत् जित-इन्द्रियः न स्यात् विजित-अन्य-इन्द्रियः पुमान् न जयेत् रसनम् यावत् जितम् सर्वम् जिते रसे

पिङ्गला नाम वेश्यासीद् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन ॥ २२ ॥

पिङ्गला नाम वेश्या आसीत् विदेह-नगरे पुरा तस्याः मे शिक्षितं किञ्चित् निबोध नृप-नन्दन

सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
अभूत् काले बहिर्द्वारे बिभ्रती रूपमुत्तमम् ॥ २३ ॥

सा स्वैरिणी एकदा कान्तम् सङ्केते उपनेष्यती अभूत् काले बहिः द्वारे बिभ्रती रूपम् उत्तमम्

मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।
तान् शुल्कदान् वित्तवत: कान्तान् मेनेऽर्थकामुकी ॥ २४ ॥

मार्गे आगच्छतः वीक्ष्य पुरुषान् पुरुष-ऋषभ तान् शुल्क-दान् वित्त-वतः कान्तान् मेने अर्थ-कामुकी

आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।
अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिद: ॥ २५ ॥
एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६ ॥

आगतेषु अपयातेषु सा सङ्केत-उपजीविनी अपि अन्यः वित्त-वान् कः अपि माम् उपैष्यति भूरि-दः एवम् दुराशया ध्वस्त निद्रा द्वारि अवलम्बती निर्गच्छन्ती प्रविशती निशीथम् समपद्यत

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतस: ।
निर्वेद: परमो जज्ञे चिन्ताहेतु: सुखावह: ॥ २७ ॥

तस्याः वित्त आशया शुष्यत् वक्त्रायाः दीन चेतसः निर्वेदः परमः जज्ञे चिन्ता हेतुः सुख आवहः

तस्या निर्विण्णचित्ताया गीतं श‍ृणु यथा मम ।
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसि: ॥ २८ ॥

तस्याः निर्विण्ण चित्तायाः गीतम् शृणु यथा मम निर्वेदः आशा पाशानाम् पुरुषस्य यथा हि असिः

न ह्यङ्गाजातनिर्वेदो देहबन्धं जिहासति ।
यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९ ॥

न हि अङ्ग अजात निर्वेदः देह बन्धम् जिहासति यथा विज्ञान रहितः मनुजः ममताम् नृप

पिङ्गलोवाच
अहो मे मोहविततिं पश्यताविजितात्मन: ।
या कान्तादसत: कामं कामये येन बालिशा ॥ ३० ॥

पिङ्गला उवाच अहो मे मोह विततिम् पश्यत अविजित-आत्मनः या कान्तात् असतः कामम् कामये येन बालिशा

सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यमिमं विहाय ।
अकामदं दु:खभयाधिशोक-
मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥

सन्तम् समीपे रमणम् रति प्रदम् वित्त प्रदम् नित्यम् इमम् विहाय अकाम-दम् दुःख भय आधि शोक मोह प्रदम् तुच्छम् अहम् भजे अज्ञा

अहो मयात्मा परितापितो वृथा
साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया ।
स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात्
क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२ ॥

अहो मया आत्मा परितापितः वृथा साङ्केत्य वृत्त्या अति-विगर्ह्य वार्तया स्त्रैणात् नरात् या अर्थ-तृषः अनुशोच्यात् क्रीतेन वित्तम् रतिम् आत्मना इच्छती

यदस्थिभिर्निर्मितवंशवंश्य-
स्थूणं त्वचा रोमनखै: पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥

यत् अस्थिभिः निर्मित वंश वंश्य स्थूणम् त्वचा रोम-नखैः पिनद्धम् क्षरत् नव द्वारम् अगारम् एतत् विट् मूत्र पूर्णम् मत् उपैति का अन्या

विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधी: ।
यान्यमिच्छन्त्यसत्यस्मादात्मदात् काममच्युतात् ॥ ३४ ॥

विदेहानाम् पुरे हि अस्मिन् अहम् एका एव मूढ धीः या अन्यम् इच्छन्ती असती अस्मात् आत्म-दात् कामम् अच्युतात्

सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५ ॥

सु-हृत् प्रेष्ठ-तमः नाथः आत्मा च अयम् शरीरिणाम् तम् विक्रीय आत्मना एव अहम् रमे अनेन यथा रमा

कियत् प्रियं ते व्यभजन् कामा ये कामदा नरा: ।
आद्यन्तवन्तो भार्याया देवा वा कालविद्रुता: ॥ ३६ ॥

कियत् प्रियम् ते व्यभजन् कामाः ये काम-दाः नराः आदि अन्त वन्तः भार्यायाः देवाः वा काल विद्रुताः

नूनं मे भगवान् प्रीतो विष्णु: केनापि कर्मणा ।
निर्वेदोऽयं दुराशाया यन्मे जात: सुखावह: ॥ ३७ ॥

नूनम् मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा निर्वेदः अयम् दुराशायाः यत् मे जातः सुख आवहः

मैवं स्युर्मन्दभाग्याया: क्लेशा निर्वेदहेतव: ।
येनानुबन्धं निर्हृत्य पुरुष: शममृच्छति ॥ ३८ ॥

मा एवम् स्युः मन्द-भाग्यायाः क्लेशाः निर्वेद हेतवः येन अनुबन्धम् निर्हृत्य पुरुषः शमम् ऋच्छति

तेनोपकृतमादाय शिरसा ग्राम्यसङ्गता: ।
त्यक्त्वा दुराशा: शरणं व्रजामि तमधीश्वरम् ॥ ३९ ॥

तेन उपकृतम् आदाय शिरसा ग्राम्य सङ्गताः त्यक्त्वा दुराशाः शरणम् व्रजामि तम् अधीश्वरम्

सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४० ॥

सन्तुष्टा श्रद्दधती एतत् यथा-लाभेन जीवती विहरामि अमुना एव अहम् आत्मना रमणेन वै

संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वर: ॥ ४१ ॥

संसार कूपे पतितम् विषयैः मुषित ईक्षणम् ग्रस्तम् काल अहिना आत्मानम् कः अन्यः त्रातुम् अधीश्वरः

आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४२ ॥

आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदा अखिलात् अप्रमत्तः इदम् पश्येत् ग्रस्तम् काल अहिना जगत्

श्रीब्राह्मण उवाच
एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।
छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३ ॥

श्री-ब्राह्मणः उवाच एवम् व्यवसित मतिः दुराशाम् कान्त तर्ष जाम् छित्त्वा उपशमम् आस्थाय शय्याम् उपविवेश सा

आशा हि परमं दु:खं नैराश्यं परमं सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४ ॥

आशा हि परमम् दुःखम् नैराश्यम् परमम् सुखम् यथा सञ्छिद्य कान्त आशाम् सुखम् सुष्वाप पिङ्गला

११.९

श्रीब्राह्मण उवाच
परिग्रहो हि दु:खाय यद् यत्प्रियतमं नृणाम् ।
अनन्तं सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चन: ॥ १ ॥

श्री-ब्राह्मणः उवाच परिग्रहः हि दुःखाय यत् यत् प्रिय-तमम् नृणाम् अनन्तम् सुखम् आप्नोति तत् विद्वान् यः तु अकिञ्चनः

सामिषं कुररं जघ्नुर्बलिनोऽन्ये निरामिषा: ।
तदामिषं परित्यज्य स सुखं समविन्दत ॥ २ ॥

स-आमिषम् कुररम् जघ्नुः बलिनः अन्ये निरामिषाः तदा आमिषम् परित्यज्य सः सुखम् समविन्दत

न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।
आत्मक्रीड आत्मरतिर्विचरामीह बालवत् ॥ ३ ॥

न मे मान अपमानौ स्तः न चिन्ता गेह पुत्रिणाम् आत्म क्रीडः आत्म रतिः विचरामि इह बाल-वत्

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।
यो विमुग्धो जडो बालो यो गुणेभ्य: परं गत: ॥ ४ ॥

द्वौ एव चिन्तया मुक्तौ परम-आनन्दे आप्लुतौ यः विमुग्धः जडः बालः यः गुणेभ्यः परम् गतः

क्व‍‍चित् कुमारी त्वात्मानं वृणानान् गृहमागतान् ।
स्वयं तानर्हयामास क्व‍ापि यातेषु बन्धुषु ॥ ५ ॥

क्वचित् कुमारी तु आत्मानम् वृणानान् गृहम् आगतान् स्वयम् तान् अर्हयाम् आस क्व अपि यातेषु बन्धुषु

तेषामभ्यवहारार्थं शालीन् रहसि पार्थिव ।
अवघ्नन्त्या: प्रकोष्ठस्थाश्चक्रु: शङ्खा: स्वनं महत् ॥ ६ ॥

तेषाम् अभ्यवहार-अर्थम् शालीन् रहसि पार्थिव अवघ्नन्त्याः प्रकोष्ठ स्थाः चक्रुः शङ्खाः स्वनम् महत्

सा तज्जुगुप्सितं मत्वा महती व्रीडिता तत: ।
बभञ्जैकैकश: शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७ ॥

सा तत् जुगुप्सितम् मत्वा महती व्रीडिता ततः बभञ्ज एक-एकशः शङ्खान् द्वौ द्वौ पाण्योः अशेषयत्

उभयोरप्यभूद् घोषो ह्यवघ्नन्त्या: स्वशङ्खयो: ।
तत्राप्येकं निरभिददेकस्मान्नाभवद् ध्वनि: ॥ ८ ॥

उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्व-शङ्खयोः तत्र अपि एकम् निरभिदत् एकस्मात् न अभवत् ध्वनिः

अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।
लोकाननुचरन्नेतान् लोकतत्त्वविवित्सया ॥ ९ ॥

अन्वशिक्षम् इमम् तस्याः उपदेशम् अरिम्-दम लोकान् अनुचरन् एतान् लोक तत्त्व विवित्सया

वासे बहूनां कलहो भवेद् वार्ता द्वयोरपि ।
एक एव वसेत्तस्मात् कुमार्या इव कङ्कण: ॥ १० ॥

वासे बहूनाम् कलहः भवेत् वार्ता द्वयोः अपि एकः एव वसेत् तस्मात् कुमार्याः इव कङ्कणः

मन एकत्र संयुञ्ज्याज्जितश्वासो जितासन: ।
वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रित: ॥ ११ ॥

मनः एकत्र संयुञ्ज्यात् जित श्वासः जित आसनः वैराग्य अभ्यास-योगेन ध्रियमाणम् अतन्द्रितः

यस्मिन् मनो लब्धपदं यदेत-
च्छनै: शनैर्मुञ्चति कर्मरेणून् ।
सत्त्वेन वृद्धेन रजस्तमश्च
विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥

यस्मिन् मनः लब्ध पदम् यत् एतत् शनैः शनैः मुञ्चति कर्म रेणून् सत्त्वेन वृद्धेन रजः तमः च विधूय निर्वाणम् उपैति अनिन्धनम्

तदैवमात्मन्यवरुद्धचित्तो
न वेद किञ्चिद् बहिरन्तरं वा ।
यथेषुकारो नृपतिं व्रजन्त-
मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥

तदा एवम् आत्मनि अवरुद्ध चित्तः न वेद किञ्चित् बहिः अन्तरम् वा यथा इषु कारः नृ-पतिम् व्रजन्तम् इषौ गत-आत्मा न ददर्श पार्श्वे

एकचार्यनिकेत: स्यादप्रमत्तो गुहाशय: ।
अलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषण: ॥ १४ ॥

एक चारी अनिकेतः स्यात् अप्रमत्तः गुहा-आशयः अलक्ष्यमाणः आचारैः मुनिः एकः अल्प भाषणः

गृहारम्भो हि दु:खाय विफलश्चाध्रुवात्मन: ।
सर्प: परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥

गृह आरम्भः हि दुःखाय विफलः च अध्रुव आत्मनः सर्पः परकृतम् वेश्म प्रविश्य सुखम् एधते

एको नारायणो देव: पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वर: ।
एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रय: ॥ १६ ॥

एकः नारायणः देवः पूर्व सृष्टम् स्व-मायया संहृत्य काल कलया कल्प-अन्ते इदम् ईश्वरः एकः एव अद्वितीयः अभूत् आत्म-आधारः अखिल आश्रयः

कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्वादिपुरुष: प्रधानपुरुषेश्वर: ॥ १७ ॥
परावराणां परम आस्ते कैवल्यसंज्ञित: ।
केवलानुभवानन्दसन्दोहो निरुपाधिक: ॥ १८ ॥

कालेन आत्म-अनुभावेन साम्यम् नीतासु शक्तिषु सत्त्व-आदिषु आदि-पुरुषः प्रधान-पुरुष-ईश्वरः पर अवराणाम् परमः आस्ते कैवल्य संज्ञितः केवल अनुभव आनन्द सन्दोहः निरुपाधिकः

केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९ ॥

केवल आत्म अनुभावेन स्व-मायाम् त्रि गुण आत्मिकाम् सङ्क्षोभयन् सृजति आदौ तया सूत्रम् अरिन्दम

तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २० ॥

ताम् आहुः त्रि-गुण व्यक्तिम् सृजन्तीम् विश्वतः-मुखम् यस्मिन् प्रोतम् इदम् विश्वम् येन संसरते पुमान्

यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रत: ।
तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वर: ॥ २१ ॥

यथा ऊर्न-नाभिः हृदयात् ऊर्णाम् सन्तत्य वक्त्रतः तया विहृत्य भूयः ताम् ग्रसति एवम् महा-ईश्वरः

यत्र यत्र मनो देही धारयेत् सकलं धिया ।
स्‍नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्स्वरूपताम् ॥ २२ ॥

यत्र यत्र मनः देही धारयेत् सकलम् धिया स्नेहात् द्वेषात् भयात् वा अपि याति तत्-तत् स्वरूपताम्

कीट: पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशित: ।
याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३ ॥

कीटः पेशस्कृतम् ध्यायन् कुड्याम् तेन प्रवेशितः याति तत् स-आत्मताम् राजन् पूर्व-रूपम् असन्त्यजन्

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मति: ।
स्वात्मोपशिक्षितां बुद्धिं श‍ृणु मे वदत: प्रभो ॥ २४ ॥

एवम् गुरुभ्यः एतेभ्यः एषा मे शिक्षिता मतिः स्व-आत्म उपशिक्षिताम् बुद्धिम् शृणु मे वदतः प्रभो

देहो गुरुर्मम विरक्तिविवेकहेतु-
र्बिभ्रत् स्म सत्त्वनिधनं सततार्त्युदर्कम् ।
तत्त्वान्यनेन विमृशामि यथा तथापि
पारक्यमित्यवसितो विचराम्यसङ्ग: ॥ २५ ॥

देहः गुरुः मम विरक्ति विवेक हेतुः बिभ्रत् स्म सत्त्व निधनम् सतत आर्ति उदर्कम् तत्त्वानि अनेन विमृशामि यथा तथा अपि पारक्यम् इति अवसितः विचरामि असङ्गः

जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्
पुष्णाति यत्प्रियचिकीर्षया वितन्वन् ।
स्वान्ते सकृच्छ्रमवरुद्धधन: स देह:
सृष्ट्वास्य बीजमवसीदति वृक्षधर्म: ॥ २६ ॥

जाया आत्म-ज अर्थ पशु भृत्य गृह आप्त वर्गान् पुष्णाति यत् प्रिय-चिकीर्षया वितन्वन् स्व-अन्ते स-कृच्छ्रम् अवरुद्ध धनः सः देहः सृष्ट्वा अस्य बीजम् अवसीदति वृक्ष धर्मः

जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा
शिश्न‍ोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलद‍ृक् क्व‍ च कर्मशक्ति-
र्बह्व्य: सपत्न्‍य इव गेहपतिं लुनन्ति ॥ २७ ॥

जिह्वा एकतः अमुम् अपकर्षति कर्हि तर्षा शिश्नः अन्यतः त्वक् उदरम् श्रवणम् कुतश्चित् घ्राणः अन्यतः चपल-दृक् क्व च कर्म-शक्तिः बह्व्यः स-पत्न्यः इव गेह-पतिम् लुनन्ति

सृष्ट्वा पुराणि विविधान्यजयात्मशक्त्या
वृक्षान् सरीसृपपशून् खगदन्दशूकान् ।
तैस्तैरतुष्टहृदय: पुरुषं विधाय
ब्रह्मावलोकधिषणं मुदमाप देव: ॥ २८ ॥

सृष्ट्वा पुराणि विविधानि अजया आत्म-शक्त्या वृक्षान् सरीसृप पशून् खग दन्द-शूकान् तैः तैः अतुष्ट हृदयः पुरुषम् विधाय ब्रह्म अवलोक धिषणम् मुदम् आपा देवः

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते
मानुष्यमर्थदमनित्यमपीह धीर: ।
तूर्णं यतेत न पतेदनुमृत्यु याव-
न्नि:श्रेयसाय विषय: खलु सर्वत: स्यात् ॥ २९ ॥

लब्ध्वा सु-दुर्लभम् इदम् बहु सम्भव अन्ते मानुष्यम् अर्थ-दम् अनित्यम् अपि इह धीरः तूर्णम् यतेत न पतेत् अनु-मृत्यु यावत् निःश्रेयसाय विषयः खलु सर्वतः स्यात्

एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि ।
विचरामि महीमेतां मुक्तसङ्गोऽनहङ्‍कृत: ॥ ३० ॥

एवम् सञ्जात वैराग्यः विज्ञान आलोकः आत्मनि विचरामि महीम् एताम् मुक्त सङ्गः अनहङ्कृतः

न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभि: ॥ ३१ ॥

न हि एकस्मात् गुरोः ज्ञानम् सु-स्थिरम् स्यात् सु-पुष्कलम् ब्रह्म एतत् अद्वितीयम् वै गीयते बहुधा ऋषिभिः

श्रीभगवानुवाच
इत्युक्त्वा स यदुं विप्रस्तमामन्‍त्र्य गभीरधी: ।
वन्दित: स्वर्चितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२ ॥

श्री-भगवान् उवाच इति उक्त्वा सः यदुम् विप्रः तम् आमन्त्र्य गभीर धीः वन्दितः सु-अर्चितः राज्ञा ययौ प्रीतः यथा आगतम्

अवधूतवच: श्रुत्वा पूर्वेषां न: स पूर्वज: ।
सर्वसङ्गविनिर्मुक्त: समचित्तो बभूव ह ॥ ३३ ॥

अवधूत वचः श्रुत्वा पूर्वेषाम् नः सः पूर्वजः सर्व सङ्ग विनिर्मुक्तः सम-चित्तः बभूव ह

११.१०

श्रीभगवानुवाच
मयोदितेष्ववहित: स्वधर्मेषु मदाश्रय: ।
वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥ १ ॥

श्री-भगवान् उवाच मया उदितेषु अवहितः स्व-धर्मेषु मत्-आश्रयः वर्ण-आश्रम कुल आचारम् अकाम आत्मा समाचरेत्

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।
गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २ ॥

अन्वीक्षेत विशुद्ध आत्मा देहिनाम् विषय-आत्मनाम् गुणेषु तत्त्व ध्यानेन सर्व आरम्भ विपर्ययम्

सुप्तस्य विषयालोको ध्यायतो वा मनोरथ: ।
नानात्मकत्वाद् विफलस्तथा भेदात्मधीर्गुणै: ॥ ३ ॥

सुप्तस्य विषय आलोकः ध्यायतः वा मनः-रथः नाना आत्मकत्वात् विफलः तथा भेद-आत्म धीः गुणैः

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् ।
जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥

निवृत्तम् कर्म सेवेत प्रवृत्तम् मत्-परः त्यजेत् जिज्ञासायाम् सम्प्रवृत्तः न आद्रियेत् कर्म चोदनाम्

यमानभीक्ष्णं सेवेत नियमान् मत्पर: क्व‍‍चित् ।
मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥

यमान् अभीक्ष्णम् सेवेत नियमान् मत्-परः क्वचित् मत्-अभिज्ञम् गुरुम् शान्तम् उपासीत मत्-आत्मकम्

अमान्यमत्सरो दक्षो निर्ममोद‍ृढसौहृद: ।
असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ ६ ॥

अमानी अमत्सरः दक्षः निर्ममः दृढ-सौहृदः असत्वरः अर्थ-जिज्ञासुः अनसूयुः अमोघ-वाक्

जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु ।
उदासीन: समं पश्यन् सर्वेष्वर्थमिवात्मन: ॥ ७ ॥

जाया अपत्य गृह क्षेत्र स्वजन द्रविण आदिषु उदासीनः समम् पश्यन् सर्वेषु अर्थम् इव आत्मनः

विलक्षण: स्थूलसूक्ष्माद् देहादात्मेक्षिता स्वद‍ृक् ।
यथाग्निर्दारुणो दाह्याद् दाहकोऽन्य: प्रकाशक: ॥ ८ ॥

विलक्षणः स्थूल सूक्ष्मात् देहात् आत्मा ईक्षिता स्व-दृक् यथा अग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः

निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् ।
अन्त:प्रविष्ट आधत्त एवं देहगुणान् पर: ॥ ९ ॥

निरोध उत्पत्ति अणु बृहत् नानात्वम् तत्-कृतान् गुणान् अन्तः प्रविष्टः आधत्ते एवम् देह गुणान् परः

योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि ।
संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मन: ॥ १० ॥

यः असौ गुणैः विरचितः देहः अयम् पुरुषस्य हि संसारः तत्-निबन्धः अयम् पुंसः विद्या छित् आत्मनः

तस्माज्जिज्ञासयात्मानमात्मस्थं केवलं परम् ।
सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥

तस्मात् जिज्ञासया आत्मानम् आत्म स्थम् केवलम् परम् सङ्गम्य निरसेत् एतत् वस्तु बुद्धिम् यथा-क्रमम्

आचार्योऽरणिराद्य: स्यादन्तेवास्युत्तरारणि: ।
तत्सन्धानं प्रवचनं विद्यासन्धि: सुखावह: ॥ १२ ॥

आचार्यः अरणिः आद्यः स्यात् अन्ते-वासी उत्तर अरणिः तत्-सन्धानम् प्रवचनम् विद्या सन्धिः सुख आवहः

वैशारदी सातिविशुद्धबुद्धि-
र्धुनोति मायां गुणसम्प्रसूताम् ।
गुणांश्च सन्दह्य यदात्ममेतत्
स्वयं च शाम्यत्यसमिद् यथाग्नि: ॥ १३ ॥

वैशारदी सा अति-विशुद्ध बुद्धिः धुनोति मायाम् गुण सम्प्रसूताम् गुणान् च सन्दह्य यत् आत्मम् एतत् स्वयम् च शांयति असमित् यथा अग्निः

अथैषाम् कर्मकर्तृणां भोक्तृणां सुखदु:खयो: ।
नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥
मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा ।
तत्तदाकृतिभेदेन जायते भिद्यते च धी: ॥ १५ ॥
एवमप्यङ्ग सर्वेषां देहिनां देहयोगत: ।
कालावयवत: सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥

अथ एषाम् कर्म कर्तॄणाम् भोक्तॄणाम् सुख-दुःखयोः नानात्वम् अथ नित्यत्वम् लोक काल आगम आत्मनाम् मन्यसे सर्व भावानाम् संस्था हि औत्पत्तिकी यथा तत्-तत् आकृति भेदेन जायते भिद्यते च धीः एवम् अपि अङ्ग सर्वेषाम् देहिनाम् देह-योगतः काल अवयवतः सन्ति भावाः जन्म आदयः असकृत्

तत्रापि कर्मणां कर्तुरस्वातन्‍त्र्‍यं च लक्ष्यते ।
भोक्तुश्च दु:खसुखयो: को न्वर्थो विवशं भजेत् ॥ १७ ॥

तत्र अपि कर्मणाम् कर्तुः अस्वातन्त्र्यम् च लक्ष्यते भोक्तुः च दुःख-सुखयोः कः नु अर्थः विवशम् भजेत्

न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि ।
तथा च दु:खं मूढानां वृथाहङ्करणं परम् ॥ १८ ॥

न देहिनाम् सुखम् किञ्चित् विद्यते विदुषाम् अपि तथा च दुःखम् मूढानाम् वृथा अहङ्करणम् परम्

यदि प्राप्तिं विघातं च जानन्ति सुखदु:खयो: ।
तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥

यदि प्राप्तिम् विघातम् च जानन्ति सुख दुःखयोः ते अपि अद्धा न विदुः योगम् मृत्युः न प्रभवेत् यथा

कोऽन्वर्थ: सुखयत्येनं कामो वा मृत्युरन्तिके ।
आघातं नीयमानस्य वध्यस्येव न तुष्टिद: ॥ २० ॥

कः नु अर्थः सुखयति एनम् कामः वा मृत्युः अन्तिके आघातम् नीयमानस्य वध्यस्य इव न तुष्टि-दः

श्रुतं च द‍ृष्टवद् दुष्टं स्पर्धासूयात्ययव्ययै: ।
बह्वन्तरायकामत्वात् कृषिवच्चापि निष्फलम् ॥ २१ ॥

श्रुतम् च दृष्ट-वत् दुष्टम् स्पर्धा असूया अत्यय व्ययैः बहु अन्तराय कामत्वात् कृषि-वत् च अपि निष्फलम्

अन्तरायैरविहितो यदि धर्म: स्वनुष्ठित: ।
तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥ २२ ॥

अन्तरायैः अविहितः यदि धर्मः स्व्-अनुष्ठितः तेन अपि निर्जितम् स्थानम् यथा गच्छति तत् शृणु

इष्ट्वेह देवता यज्ञै: स्वर्लोकं याति याज्ञिक: ।
भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान् ॥ २३ ॥

इष्ट्वा इह देवताः यज्ञैः स्वः-लोकम् याति याज्ञिकः भुञ्जीत देव-वत् तत्र भोगान् दिव्यान् निज अर्जितान्

स्वपुण्योपचिते शुभ्रे विमान उपगीयते ।
गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ २४ ॥

स्व पुण्य उपचिते शुभ्रे विमाने उपगीयते गन्धर्वैः विहरन् मध्ये देवीनाम् हृद्य वेष धृक्

स्त्रीभि: कामगयानेन किङ्किणीजालमालिना ।
क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृत: ॥ २५ ॥

स्त्रीभिः काम-ग यानेन किङ्किणी-जाल-मालिना क्रीडन् न वेद आत्म पातम् सुर आक्रीडेषु निर्वृतः

तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते ।
क्षीणपुण्य: पतत्यर्वागनिच्छन् कालचालित: ॥ २६ ॥

तावत् सः मोदते स्वर्गे यावत् पुण्यम् समाप्यते क्षीण पुण्यः पतति अर्वाक् अनिच्छन् काल चालितः

यद्यधर्मरत: सङ्गादसतां वाजितेन्द्रिय: ।
कामात्मा कृपणो लुब्ध: स्त्रैणो भूतविहिंसक: ॥ २७ ॥
पशूनविधिनालभ्य प्रेतभूतगणान् यजन् ।
नरकानवशो जन्तुर्गत्वा यात्युल्बणं तम: ॥ २८ ॥
कर्माणि दु:खोदर्काणि कुर्वन् देहेन तै: पुन: ।
देहमाभजते तत्र किं सुखं मर्त्यधर्मिण: ॥ २९ ॥

यदि अधर्म रतः सङ्गात् असताम् वा अजित इन्द्रियः काम आत्मा कृपणः लुब्धः स्त्रैणः भूत विहिंसकः पशून् अविधिना आलभ्य प्रेत-भूत गणान् यजन् नरकान् अवशः जन्तुः गत्वा याति उल्बणम् तमः कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः देहम् आभजते तत्र किम् सुखम् मर्त्य धर्मिणः

लोकानां लोकपालानां मद्भ‍यं कल्पजीविनाम् ।
ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुष: ॥ ३० ॥

लोकानाम् लोक-पालानाम् मत् भयम् कल्प-जीविनाम् ब्रह्मणः अपि भयम् मत्तः द्वि-परार्ध पर आयुषः

गुणा: सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् ।
जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥

गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् जीवः तु गुण संयुक्तः भुङ्क्ते कर्म फलानि असौ

यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मन: ।
नानात्वमात्मनो यावत् पारतन्‍त्र्‍यं तदैव हि ॥ ३२ ॥

यावत् स्यात् गुण वैषम्यम् तावत् नानात्वम् आत्मनः नानात्वम् आत्मनः यावत् पारतन्त्र्यम् तदा एव हि

यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् ।
य एतत् समुपासीरंस्ते मुह्यन्ति शुचार्पिता: ॥ ३३ ॥

यावत् अस्य अस्वतन्त्रत्वम् तावत् ईश्वरतः भयम् ये एतत् समुपासीरन् ते मुह्यन्ति शुचा अर्पिताः

काल आत्मागमो लोक: स्वभावो धर्म एव च ।
इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ॥ ३४ ॥

कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च इति माम् बहुधा प्राहुः गुण व्यतिकरे सति

श्रीउद्धव उवाच
गुणेषु वर्तमानोऽपि देहजेष्वनपावृत: ।
गुणैर्न बध्यते देही बध्यते वा कथं विभो ॥ ३५ ॥

श्री-उद्धवः उवाच गुणेषु वर्तमानः अपि देह जेषु अनपावृतः गुणैः न बध्यते देही बध्यते वा कथम् विभो

कथं वर्तेत विहरेत् कैर्वा ज्ञायेत लक्षणै: ।
किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ॥ ३६ ॥
एतदच्युत मे ब्रूहि प्रश्न‍ं प्रश्न‍‌विदां वर ।
नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रम: ॥ ३७ ॥

कथम् वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः किम् भुञ्जीत उत विसृजेत् शयीत आसीत याति वा एतत् अच्युत मे ब्रूहि प्रश्नम् प्रश्न-विदाम् वर नित्य-बद्धः नित्य-मुक्तः एकः एव इति मे भ्रमः

११.११

श्रीभगवानुवाच
बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुत: ।
गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ॥ १ ॥

श्री-भगवान् उवाच बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतः गुणस्य माया मूलत्वात् न मे मोक्षः न बन्धनम्

शोकमोहौ सुखं दु:खं देहापत्तिश्च मायया ।
स्वप्नो यथात्मन: ख्याति: संसृतिर्न तु वास्तवी ॥ २ ॥

शोक मोहौ सुखम् दुःखम् देह-आपत्तिः च मायया स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी

विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् ।
मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ ३ ॥

विद्या अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् मोक्ष बन्ध करी आद्ये मायया मे विनिर्मिते

एकस्यैव ममांशस्य जीवस्यैव महामते ।
बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतर: ॥ ४ ॥

एकस्य एव मम अंशस्य जीवस्य एव महा-मते बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ॥ ५ ॥

अथ बद्धस्य मुक्तस्य वैलक्षण्यम् वदामि ते विरुद्ध धर्मिणोः तात स्थितयोः एक-धर्मिणि

सुपर्णावेतौ सद‍ृशौ सखायौ
यद‍ृच्छयैतौ कृतनीडौ च वृक्षे ।
एकस्तयो: खादति पिप्पलान्न-
मन्यो निरन्नोऽपि बलेन भूयान् ॥ ६ ॥

सुपर्णौ एतौ सदृशौ सखायौ यदृच्छया एतौ कृत नीडौ च वृक्षे एकः तयोः खादति पिप्पल अन्नम् अन्यः निरन्नः अपि बलेन भूयान्

आत्मानमन्यं च स वेद विद्वा-
नपिप्पलादो न तु पिप्पलाद: ।
योऽविद्यया युक् स तु नित्यबद्धो
विद्यामयो य: स तु नित्यमुक्त: ॥ ७ ॥

आत्मानम् अन्यम् च सः वेद विद्वान् अपिप्पल-अदः न तु पिप्पल-अदः यः अविद्यया युक् सः तु नित्य बद्धः विद्या-मयः यः सः तु नित्य मुक्तः

देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थित: ।
अदेहस्थोऽपि देहस्थ: कुमति: स्वप्नद‍ृग् यथा ॥ ८ ॥

देह स्थः अपि न देह स्थः विद्वान् स्वप्नात् यथा उत्थितः अदेह स्थः अपि देह स्थः कु-मतिः स्वप्न दृक् यथा

इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च ।
गृह्यमाणेष्वहं कुर्यान्न विद्वान् यस्त्वविक्रिय: ॥ ९ ॥

इन्द्रियैः इन्द्रिय अर्थेषु गुणैः अपि गुणेषु च गृह्यमाणेषु अहम् कुर्यात् न विद्वान् यः तु अविक्रियः

दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा ।
वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते ॥ १० ॥

दैव अधीने शरीरे अस्मिन् गुण भाव्येन कर्मणा वर्तमानः अबुधः तत्र कर्ता अस्मि इति निबध्यते

एवं विरक्त: शयन आसनाटनमज्जने ।
दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ।
न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ॥ ११ ॥

एवम् विरक्तः शयने आसन अटन मज्जने दर्शन स्पर्शन घ्राण भोजन श्रवण आदिषु न तथा बध्यते विद्वान् तत्र तत्र आदयन् गुणान्

प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिल: ।
वैशारद्येक्षयासङ्गशितया छिन्नसंशय: ॥ १२ ॥
प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते ॥ १३ ॥

प्रकृति स्थः अपि असंसक्तः यथा खम् सविता अनिलः वैशारद्या ईक्षया असङ्ग शितया छिन्न संशयः प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते

यस्य स्युर्वीतसङ्कल्पा: प्राणेन्द्रियमनोधियाम् ।
वृत्तय: स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणै: ॥ १४ ॥

यस्य स्युः वीत सङ्कल्पाः प्राण इन्द्रिय मनः धियाम् वृत्तयः सः विनिर्मुक्तः देह स्थः अपि हि तत् गुणैः

यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यद‍ृच्छया ।
अर्च्यते वा क्व‍‍चित्तत्र न व्यतिक्रियते बुध: ॥ १५ ॥

यस्य आत्मा हिंस्यते हिंस्रैः येन किञ्चित् यदृच्छया अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः

न स्तुवीत न निन्देत कुर्वत: साध्वसाधु वा ।
वदतो गुणदोषाभ्यां वर्जित: समद‍ृङ्‍मुनि: ॥ १६ ॥

न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा वदतः गुण-दोषाभ्याम् वर्जितः सम-दृक् मुनिः

न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनि: ॥ १७ ॥

न कुर्यात् न वदेत् किञ्चित् न ध्यायेत् साधु असाधु वा आत्म-आरामः अनया वृत्त्या विचरेत् जड-वत् मुनिः

शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षत: ॥ १८ ॥

शब्द-ब्रह्मणि निष्णातः न निष्णायात् परे यदि श्रमः तस्य श्रम फलः हि अधेनुम् इव रक्षतः

गां दुग्धदोहामसतीं च भार्यां
देहं पराधीनमसत्प्रजां च ।
वित्तं त्वतीर्थीकृतमङ्ग वाचं
हीनां मया रक्षति दु:खदु:खी ॥ १९ ॥

गाम् दुग्ध दोहाम् असतीम् च भार्याम् देहम् पर अधीनम् असत् प्रजाम् च वित्तम् तु अतीर्थी-कृतम् अङ्ग वाचम् हीनाम् मया रक्षति दुःख-दुःखी

यस्यां न मे पावनमङ्ग कर्म
स्थित्युद्भ‍वप्राणनिरोधमस्य ।
लीलावतारेप्सितजन्म वा स्याद्
वन्ध्यां गिरं तां बिभृयान्न धीर: ॥ २० ॥

यस्याम् न मे पावनम् अङ्ग कर्म स्थिति उद्भव प्राण-निरोधम् अस्य लीला-अवतार ईप्सित जन्म वा स्यात् वन्ध्याम् गिरम् ताम् बिभृयात् न धीरः

एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि ।
उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ २१ ॥

एवम् जिज्ञासया अपोह्य नानात्व भ्रमम् आत्मनि उपारमेत विरजम् मनः मयि अर्प्य सर्व-गे

यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्ष: समाचर ॥ २२ ॥

यदि अनीशः धारयितुम् मनः ब्रह्मणि निश्चलम् मयि सर्वाणि कर्माणि निरपेक्षः समाचर

श्रद्धालुर्मत्कथा: श‍ृण्वन् सुभद्रा लोकपावनी: ।
गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहु: ॥ २३ ॥
मदर्थे धर्मकामार्थानाचरन् मदपाश्रय: ।
लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ २४ ॥

श्रद्धालुः मत्-कथाः शृण्वन् सु-भद्राः लोक पावनीः गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुः मत्-अर्थे धर्म काम अर्थान् आचरन् मत् अपाश्रयः लभते निश्चलाम् भक्तिम् मयि उद्धव सनातने

सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता ।
स वै मे दर्शितं सद्भ‍िरञ्जसा विन्दते पदम् ॥ २५ ॥

सत् सङ्ग लब्धया भक्त्या मयि माम् सः उपासिता सः वै मे दर्शितम् सद्भिः अञ्जसा विन्दते पदम्

श्रीउद्धव उवाच
साधुस्तवोत्तमश्लोक मत: कीद‍ृग्विध: प्रभो ।
भक्तिस्त्वय्युपयुज्येत कीद‍ृशी सद्भ‍िराद‍ृता ॥ २६ ॥
एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो ।
प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥ २७ ॥

श्री-उद्धवः उवाच साधुः तव उत्तम-श्लोक मतः कीदृक्-विधः प्रभो भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता एतत् मे पुरुष-अध्यक्ष लोक-अध्यक्ष जगत्-प्रभो प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम्

त्वं ब्रह्म परमं व्योम पुरुष: प्रकृते: पर: ।
अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपु: ॥ २८ ॥

त्वम् ब्रह्म परमम् व्योम पुरुषः प्रकृतेः परः अवतीर्णः असि भगवन् स्व इच्छा उपात्त पृथक् वपुः

श्रीभगवानुवाच
कृपालुरकृतद्रोहस्तितिक्षु: सर्वदेहिनाम् ।
सत्यसारोऽनवद्यात्मा सम: सर्वोपकारक: ॥ २९ ॥
कामैरहतधीर्दान्तो मृदु: शुचिरकिञ्चन: ।
अनीहो मितभुक् शान्त: स्थिरो मच्छरणो मुनि: ॥ ३० ॥
अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्‍गुण: ।
अमानी मानद: कल्यो मैत्र: कारुणिक: कवि: ॥ ३१ ॥
आज्ञायैवं गुणान् दोषान् मयादिष्टानपि स्वकान् ।
धर्मान् सन्त्यज्य य: सर्वान् मां भजेत स तु सत्तम: ॥ ३२ ॥

श्री-भगवान् उवाच कृपालुः अकृत-द्रोहः तितिक्षुः सर्व-देहिनाम् सत्य-सारः अनवद्य-आत्मा समः सर्व-उपकारकः कामैः अहत धीः दान्तः मृदुः शुचिः अकिञ्चनः अनीहः मित-भुक् शान्तः स्थिरः मत्-शरणः मुनिः अप्रमत्तः गभीर-आत्मा धृति-मान् जित षट्-गुणः अमानी मान-दः कल्यः मैत्रः कारुणिकः कविः आज्ञाय एवम् गुणान् दोषान् मया आदिष्टान् अपि स्वकान् धर्मान् सन्त्यज्य यः सर्वान् माम् भजेत सः तु सत्-तमः

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि याद‍ृश: ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मता: ॥ ३३ ॥

ज्ञात्वा अज्ञात्वा अथ ये वै माम् यावान् यः च अस्मि यादृशः भजन्ति अनन्य-भावेन ते मे भक्त-तमाः मताः

मल्लिङ्गमद्भ‍क्तजनदर्शनस्पर्शनार्चनम् ।
परिचर्या स्तुति: प्रह्वगुणकर्मानुकीर्तनम् ॥ ३४ ॥
मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव ।
सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ ३५ ॥
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् ।
गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सव: ॥ ३६ ॥
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ ३७ ॥
ममार्चास्थापने श्रद्धा स्वत: संहत्य चोद्यम: ।
उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥ ३८ ॥
सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनै: ।
गृहशुश्रूषणं मह्यं दासवद् यदमायया ॥ ३९ ॥
अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् ।
अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥ ४० ॥
यद् यदिष्टतमं लोके यच्चातिप्रियमात्मन: ।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ४१ ॥

मत्-लिङ्ग मत्-भक्त-जन दर्शन स्पर्शन अर्चनम् परिचर्या स्तुतिः प्रह्व गुण कर्म अनुकीर्तनम् मत्-कथा श्रवणे श्रद्धा मत्-अनुध्यानम् उद्धव सर्व-लाभ उपहरणम् दास्येन आत्म-निवेदनम् मत्-जन्म-कर्म-कथनम् मम पर्व अनुमोदनम् गीत ताण्डव वादित्र गोष्ठीभिः मत्-गृह उत्सवः यात्रा बलि-विधानम् च सर्व वार्षिक पर्वसु वैदिकी तान्त्रिकी दीक्षा मदीय व्रत धारणम् मम अर्चा स्थापने श्रद्धा स्वतः संहत्य च उद्यमः उद्यान उपवन आक्रीड पुर मन्दिर कर्मणि सम्मार्जन उपलेपाभ्याम् सेक मण्डल-वर्तनैः गृह शुश्रूषणम् मह्यम् दास-वत् यत् अमायया अमानित्वम् अदम्भित्वम् कृतस्य अपरिकीर्तनम् अपि दीप अवलोकम् मे न उपयुञ्ज्यात् निवेदितम् यत् यत् इष्ट-तमम् लोके यत् च अति-प्रियम् आत्मनः तत् तत् निवेदयेत् मह्यम् तत् आनन्त्याय कल्पते

सूर्योऽग्निर्ब्राह्मणा गावो वैष्णव: खं मरुज्जलम् ।
भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ॥ ४२ ॥

सूर्यः अग्निः ब्राह्मणाः गावः वैष्णवः खम् मरुत् जलम् भूः आत्मा सर्व-भूतानि भद्र पूजा पदानि मे

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्‍ये गोष्वङ्ग यवसादिना ॥ ४३ ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुर:सरै: ॥ ४४ ॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।
क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ ४५ ॥

सूर्ये तु विद्यया त्रय्या हविषा अग्नौ यजेत माम् आतिथ्येन तु विप्र अग्र्ये गोषु अङ्ग यवस-आदिना वैष्णवे बन्धु सत्-कृत्या हृदि खे ध्यान निष्ठया वायौ मुख्य धिया तोये द्रव्यैः तोय-पुरः-सरैः स्थण्डिले मन्त्र-हृदयैः भोगैः आत्मानम् आत्मनि क्षेत्र-ज्ञम् सर्व-भूतेषु समत्वेन यजेत माम्

धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजै: ।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहित: ॥ ४६ ॥

धिष्ण्येषु इति एषु मत्-रूपम् शङ्ख चक्र गदा अम्बुजैः युक्तम् चतुः-भुजम् शान्तम् ध्यायन् अर्चेत् समाहितः

इष्टापूर्तेन मामेवं यो यजेत समाहित: ।
लभते मयि सद्भ‍‍क्तिं मत्स्मृति: साधुसेवया ॥ ४७ ॥

इष्टा पूर्तेन माम् एवम् यः यजेत समाहितः लभते मयि सत्-भक्तिम् मत्-स्मृतिः साधु सेवया

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव ।
नोपायो विद्यते सम्यक् प्रायणं हि सतामहम् ॥ ४८ ॥

प्रायेण भक्ति-योगेन सत्-सङ्गेन विना उद्धव न उपायः विद्यते सम्यक् प्रायणम् हि सताम् अहम्

अथैतत् परमं गुह्यं श‍ृण्वतो यदुनन्दन ।
सुगोप्यमपि वक्ष्यामि त्वं मे भृत्य: सुहृत् सखा ॥ ४९ ॥

अथ एतत् परमम् गुह्यम् शृण्वतः यदु-नन्दन सु-गोप्यम् अपि वक्ष्यामि त्वम् मे भृत्यः सु-हृत् सखा

११.१२

श्रीभगवानुवाच
न रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ १ ॥
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमा: ।
यथावरुन्धे सत्सङ्ग: सर्वसङ्गापहो हि माम् ॥ २ ॥

श्री-भगवान् उवाच न रोधयति माम् योगः न साङ्ख्यम् धर्मः एव च न स्वाध्यायः तपः त्यागः न इष्टा-पूर्तम् न दक्षिणा व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः यथा अवरुन्धे सत्-सङ्गः सर्व सङ्ग अपहः हि माम्

सत्सङ्गेन हि दैतेया यातुधाना मृगा: खगा: ।
गन्धर्वाप्सरसो नागा: सिद्धाश्चारणगुह्यका: ॥ ३ ॥
विद्याधरा मनुष्येषु वैश्या: शूद्रा: स्त्रियोऽन्त्यजा: ।
रजस्तम:प्रकृतयस्तस्मिंस्तस्मिन् युगे युगे ॥ ४ ॥
बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादय: ।
वृषपर्वा बलिर्बाणो मयश्चाथ विभीषण: ॥ ५ ॥
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथ: ।
व्याध: कुब्जा व्रजे गोप्यो यज्ञपत्न्‍यस्तथापरे ॥ ६ ॥

सत्-सङ्गेन हि दैतेयाः यातुधानाः मृगाः खगाः गन्धर्व अप्सरसः नागाः सिद्धाः चारण गुह्यकाः विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्य-जाः रजः-तमः-प्रकृतयः तस्मिन् तस्मिन् युगे युगे बहवः मत् पदम् प्राप्ताः त्वाष्ट्र कायाधव आदयः वृषपर्वा बलिः बाणः मयः च अथ विभीषणः सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः व्याधः कुब्जा व्रजे गोप्यः यज्ञ-पत्न्यः तथा अपरे

ते नाधीतश्रुतिगणा नोपासितमहत्तमा: ।
अव्रतातप्ततपस: मत्सङ्गान्मामुपागता: ॥ ७ ॥

ते न अधीत श्रुति-गणाः न उपासित महत्-तमः अव्रत अतप्त तपसः मत्-सङ्गात् माम् उपागताः

केवलेन हि भावेन गोप्यो गावो नगा मृगा: ।
येऽन्ये मूढधियो नागा: सिद्धा मामीयुरञ्जसा ॥ ८ ॥

केवलेन हि भावेन गोप्यः गावः नगाः मृगाः ये अन्ये मूढ-धियः नागाः सिद्धाः माम् ईयुः अञ्जसा

यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरै: ।
व्याख्यास्वाध्यायसन्न्यासै: प्राप्नुयाद् यत्नवानपि ॥ ९ ॥

यम् न योगेन साङ्ख्येन दान व्रत तपः अध्वरैः व्याख्या स्वाध्याय सन्न्यासैः प्राप्नुयात् यत्न-वान् अपि

रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मय्यनुरक्तचित्ता: ।
विगाढभावेन न मे वियोग-
तीव्राधयोऽन्यं दद‍ृशु: सुखाय ॥ १० ॥

रामेण सार्धम् मथुराम् प्रणीते श्वाफल्किना मयि अनुरक्त चित्ताः विगाढ भावेन न मे वियोग तीव्र आधयः अन्यम् ददृशुः सुखाय

तास्ता: क्षपा: प्रेष्ठतमेन नीता
मयैव वृन्दावनगोचरेण ।
क्षणार्धवत्ता: पुनरङ्ग तासां
हीना मया कल्पसमा बभूवु: ॥ ११ ॥

ताः ताः क्षपाः प्रेष्ठ-तमेन नीताः मया एव वृन्दावन गो-चरेण क्षण अर्ध-वत् ताः पुनः अङ्ग तासाम् हीनाः मया कल्प समाः बभूवुः

ता नाविदन् मय्यनुषङ्गबद्ध-
धिय: स्वमात्मानमदस्तथेदम् ।
यथा समाधौ मुनयोऽब्धितोये
नद्य: प्रविष्टा इव नामरूपे ॥ १२ ॥

ताः न अविदन् मयि अनुषङ्ग बद्ध धियः स्वम् आत्मानम् अदः तथा इदम् यथा समाधौ मुनयः अब्धि तोये नद्यः प्रविष्टाः इव नाम रूपे

मत्कामा रमणं जारमस्वरूपविदोऽबला: ।
ब्रह्म मां परमं प्रापु: सङ्गाच्छतसहस्रश: ॥ १३ ॥

मत् कामाः रमणम् जारम् अस्वरूप-विदः अबलाः ब्रह्म माम् परमम् प्रापुः सङ्गात् शत-सहस्रशः

तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्या ह्यकुतोभय: ॥ १५ ॥

तस्मात् त्वम् उद्धव उत्सृज्य चोदनाम् प्रतिचोदनाम् प्रवृत्तिम् च निवृत्तिम् च श्रोतव्यम् श्रुतम् एव च माम् एकम् एव शरणम् आत्मानम् सर्व-देहिनाम् याहि सर्व-आत्म-भावेन मया स्याः हि अकुतः-भयः

श्रीउद्धव उवाच
संशय: श‍ृण्वतो वाचं तव योगेश्वरेश्वर ।
न निवर्तत आत्मस्थो येन भ्राम्यति मे मन: ॥ १६ ॥

श्री-उद्धवः उवाच संशयः शृण्वतः वाचम् तव योग-ईश्वर ईश्वर न निवर्तते आत्म स्थः येन भ्राम्यति मे मनः

श्रीभगवानुवाच
स एष जीवो विवरप्रसूति:
प्राणेन घोषेण गुहां प्रविष्ट: ।
मनोमयं सूक्ष्ममुपेत्य रूपं
मात्रा स्वरो वर्ण इति स्थविष्ठ: ॥ १७ ॥

श्री-भगवान् उवाच सः एषः जीवः विवर प्रसूतिः प्राणेन घोषेण गुहाम् प्रविष्टः मनः-मयम् सूक्ष्मम् उपेत्य रूपम् मात्रा स्वरः वर्णः इति स्थविष्ठः

यथानल: खेऽनिलबन्धुरुष्मा
बलेन दारुण्यधिमथ्यमान: ।
अणु: प्रजातो हविषा समेधते
तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥

यथा अनलः खे अनिल बन्धुः उष्मा बलेन दारुणि अधिमथ्यमानः अणुः प्रजातः हविषा समेधते तथा एव मे व्यक्तिः इयम् हि वाणी

एवं गदि: कर्म गतिर्विसर्गो
घ्राणो रसो द‍ृक् स्पर्श: श्रुतिश्च ।
सङ्कल्पविज्ञानमथाभिमान:
सूत्रं रज:सत्त्वतमोविकार: ॥ १९ ॥

एवम् गदिः कर्म गतिः विसर्गः घ्राणः रसः दृक् स्पर्शः श्रुतिः च सङ्कल्प विज्ञानम् अथ अभिमानः सूत्रम् रजः सत्त्व तमः विकारः

अयं हि जीवस्त्रिवृदब्जयोनि-
रव्यक्त एको वयसा स आद्य: ।
विश्लिष्टशक्तिर्बहुधेव भाति
बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥

अयम् हि जीवः त्रि-वृत् अब्ज योनिः अव्यक्तः एकः वयसा सः आद्यः विश्लिष्ट शक्तिः बहुधा इव भाति बीजानि योनिम् प्रतिपद्य यत्-वत्

यस्मिन्निदं प्रोतमशेषमोतं
पटो यथा तन्तुवितानसंस्थ: ।
य एष संसारतरु: पुराण:
कर्मात्मक: पुष्पफले प्रसूते ॥ २१ ॥

यस्मिन् इदम् प्रोतम् अशेषम् ओतम् पटः यथा तन्तु वितान संस्थः यः एषः संसार तरुः पुराणः कर्म आत्मकः पुष्प फले प्रसूते

द्वे अस्य बीजे शतमूलस्त्रिनाल:
पञ्चस्कन्ध: पञ्चरसप्रसूति: ।
दशैकशाखो द्विसुपर्णनीड-
स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्ट: ॥ २२ ॥
अदन्ति चैकं फलमस्य गृध्रा
ग्रामेचरा एकमरण्यवासा: ।
हंसा य एकं बहुरूपमिज्यै-
र्मायामयं वेद स वेद वेदम् ॥ २३ ॥

द्वे अस्य बीजे शत मूलः त्रि नालः पञ्च स्कन्धः पञ्च रस प्रसूतिः दश एक शाखः द्वि सुपर्ण नीडः त्रि वल्कलः द्वि फलः अर्कम् प्रविष्टः अदन्ति च एकम् फलम् अस्य गृध्राः ग्रामे चराः एकम् अरण्य वासाः हंसाः यः एकम् बहु-रूपम् इज्यैः माया-मयम् वेद सः वेद वेदम्

एवं गुरूपासनयैकभक्त्या
विद्याकुठारेण शितेन धीर: ।
विवृश्‍च्‍य जीवाशयमप्रमत्त:
सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥

एवम् गुरु उपासनया एक भक्त्या विद्या कुठारेण शितेन धीरः विवृश्च्य जीव आशयम् अप्रमत्तः सम्पद्य च आत्मानम् अथ त्यज अस्त्रम्

११.१३

श्रीभगवानुवाच
सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मन: ।
सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ १ ॥

श्री-भगवान् उवाच सत्त्वम् रजः तमः इति गुणाः बुद्धेः न च आत्मनः सत्त्वेन अन्यतमौ हन्यात् सत्त्वम् सत्त्वेन च एव हि

सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्भ‍‍‍क्तिलक्षण: ।
सात्त्विकोपासया सत्त्वं ततो धर्म: प्रवर्तते ॥ २ ॥

सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मत्-भक्ति लक्षणः सात्त्विक उपासया सत्त्वम् ततः धर्मः प्रवर्तते

धर्मो रजस्तमो हन्यात् सत्त्ववृद्धिरनुत्तम: ।
आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ ३ ॥

धर्मः रजः तमः हन्यात् सत्त्व वृद्धिः अनुत्तमः आशु नश्यति तत् मूलः हि अधर्मः उभये हते

आगमोऽप: प्रजा देश: काल: कर्म च जन्म च ।
ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतव: ॥ ४ ॥

आगमः अपः प्रजाः देशः कालः कर्म च जन्म च ध्यानम् मन्त्रः अथ संस्कारः दश एते गुण हेतवः

तत्तत् सात्त्विकमेवैषां यद् यद् वृद्धा: प्रचक्षते ।
निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम् ॥ ५ ॥

तत् तत् सात्त्विकम् एव एषाम् यत् यत् वृद्धाः प्रचक्षते निन्दन्ति तामसम् तत् तत् राजसम् तत् उपेक्षितम्

सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये ।
ततो धर्मस्ततो ज्ञानं यावत् स्मृतिरपोहनम् ॥ ६ ॥

सात्त्विकानि एव सेवेत पुमान् सत्त्व विवृद्धये ततः धर्मः ततः ज्ञानम् यावत् स्मृतिः अपोहनम्

वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजो देह: शाम्यति तत्क्रिय: ॥ ७ ॥

वेणु सङ्घर्ष-जः वह्निः दग्ध्वा शाम्यति तत् वनम् एवम् गुण व्यत्यय-जः देहः शाम्यति तत् क्रियः

श्रीउद्धव उवाच
विदन्ति मर्त्या: प्रायेण विषयान् पदमापदाम् ।
तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ ८ ॥

श्री-उद्धवः उवाच विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् तथा अपि भुञ्जते कृष्ण तत् कथम् श्व खर अज वत्

श्रीभगवानुवाच
अहमित्यन्यथाबुद्धि: प्रमत्तस्य यथा हृदि ।
उत्सर्पति रजो घोरं ततो वैकारिकं मन: ॥ ९ ॥
रजोयुक्तस्य मनस: सङ्कल्प: सविकल्पक: ।
तत: कामो गुणध्यानाद् दु:सह: स्याद्धि दुर्मते: ॥ १० ॥

श्री-भगवान् उवाच अहम् इति अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि उत्सर्पति रजः घोरम् ततः वैकारिकम् मनः रजः युक्तस्य मनसः सङ्कल्पः स-विकल्पकः ततः कामः गुण ध्यानात् दुःसहः स्यात् हि दुर्मतेः

करोति कामवशग: कर्माण्यविजितेन्द्रिय: ।
दु:खोदर्काणि सम्पश्यन् रजोवेगविमोहित: ॥ ११ ॥

करोति काम वश गः कर्माणि अविजित इन्द्रियः दुःख उदर्काणि सम्पश्यन् रजः वेग विमोहितः

रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधी: पुन: ।
अतन्द्रितो मनो युञ्जन् दोषद‍ृष्टिर्न सज्जते ॥ १२ ॥

रजः-तमोभ्याम् यत् अपि विद्वान् विक्षिप्त धीः पुनः अतन्द्रितः मनः युञ्जन् दोष दृष्टिः न सज्जते

अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनै: ।
अनिर्विण्णो यथाकालं जितश्वासो जितासन: ॥ १३ ॥

अप्रमत्तः अनुयुञ्जीत मनः मयि अर्पयन् शनैः अनिर्विण्णः यथा-कालम् जित श्वासः जित आसनः

एतावान् योग आदिष्टो मच्छिष्यै: सनकादिभि: ।
सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा ॥ १४ ॥

एतावान् योगः आदिष्टः मत्-शिष्यैः सनक-आदिभिः सर्वतः मनः आकृष्य मयि अद्धा आवेश्यते यथा

श्रीउद्धव उवाच
यदा त्वं सनकादिभ्यो येन रूपेण केशव ।
योगमादिष्टवानेतद् रूपमिच्छामि वेदितुम् ॥ १५ ॥

श्री-उद्धवः उवाच यदा त्वम् सनक-आदिभ्यः येन रूपेण केशव योगम् आदिष्टवान् एतत् रूपम् इच्छामि वेदितुम्

श्रीभगवानुवाच
पुत्रा हिरण्यगर्भस्य मानसा: सनकादय: ।
पप्रच्छु: पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १६ ॥

श्री-भगवान् उवाच पुत्राः हिरण्य-गर्भस्य मानसाः सनक-आदयः पप्रच्छुः पितरम् सूक्ष्माम् योगस्य एकान्तिकीम् गतिम्

सनकादय ऊचु:
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।
कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षो: ॥ १७ ॥

सनक-आदयः ऊचुः गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो कथम् अन्योन्य सन्त्यागः मुमुक्षोः अतितितीर्षोः

श्रीभगवानुवाच
एवं पृष्टो महादेव: स्वयम्भूर्भूतभावन: ।
ध्यायमान: प्रश्न‍बीजं नाभ्यपद्यत कर्मधी: ॥ १८ ॥

श्री-भगवान् उवाच एवम् पृष्टः महा-देवः स्वयम्-भूः भूत भावनः ध्यायमानः प्रश्न बीजम् न अभ्यपद्यत कर्म-धीः

स मामचिन्तयद् देव: प्रश्न‍पारतितीर्षया ।
तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १९ ॥

सः माम् अचिन्तयत् देवः प्रश्न पार तितीर्षया तस्य अहम् हंस-रूपेण सकाशम् अगमम् तदा

द‍ृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।
ब्रह्माणमग्रत: कृत्वा पप्रच्छु: को भवानिति ॥ २० ॥

दृष्ट्वा माम् ते उपव्रज्य कृत्वा पाद अभिवन्दनम् ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः कः भवान् इति

इत्यहं मुनिभि: पृष्टस्तत्त्वजिज्ञासुभिस्तदा ।
यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥ २१ ॥

इति अहम् मुनिभिः पृष्टः तत्त्व जिज्ञासुभिः तदा यत् अवोचम् अहम् तेभ्यः तत् उद्धव निबोध मे

वस्तुनो यद्यनानात्व आत्मन: प्रश्न‍ ईद‍ृश: ।
कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रय: ॥ २२ ॥

वस्तुनः यदि अनानात्वे आत्मनः प्रश्नः ईदृशः कथम् घटेत वः विप्राः वक्तुः वा मे कः आश्रयः

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुत: ।
को भवानिति व: प्रश्न‍ो वाचारम्भो ह्यनर्थक: ॥ २३ ॥

पञ्च आत्मकेषु भूतेषु समानेषु च वस्तुतः कः भवान् इति वः प्रश्नः वाचा आरम्भः हि अनर्थकः

मनसा वचसा द‍ृष्‍ट्या गृह्यतेऽन्यैरपीन्द्रियै: ।
अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥ २४ ॥

मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः अहम् एव न मत्तः अन्यत् इति बुध्यध्वम् अञ्जसा

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजा: ।
जीवस्य देह उभयं गुणाश्चेतो मदात्मन: ॥ २५ ॥

गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः जीवस्य देहः उभयम् गुणाः चेतः मत्-आत्मनः

गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया ।
गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६ ॥

गुणेषु च आविशत् चित्तम् अभीक्ष्णम् गुण-सेवया गुणाः च चित्त प्रभवाः मत्-रूपः उभयम् त्यजेत्

जाग्रत् स्वप्न: सुषुप्तं च गुणतो बुद्धिवृत्तय: ।
तासां विलक्षणो जीव: साक्षित्वेन विनिश्चित: ॥ २७ ॥

जाग्रत् स्वप्नः सु-सुप्तम् च गुणतः बुद्धि वृत्तयः तासाम् विलक्षणः जीवः साक्षित्वेन विनिश्चितः

यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिद: ।
मयि तुर्ये स्थितो जह्यात् त्यागस्तद् गुणचेतसाम् ॥ २८ ॥

यर्हि संसृति बन्धः अयम् आत्मनः गुण वृत्ति-दः मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुण चेतसाम्

अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् ।
विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ २९ ॥

अहङ्कार कृतम् बन्धम् आत्मनः अर्थ विपर्ययम् विद्वान् निर्विद्य संसार चिन्ताम् तुर्ये स्थितः त्यजेत्

यावन्नानार्थधी: पुंसो न निवर्तेत युक्तिभि: ।
जागर्त्यपि स्वपन्नज्ञ: स्वप्ने जागरणं यथा ॥ ३० ॥

यावत् नाना अर्थ धीः पुंसः न निवर्तेत युक्तिभिः जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणम् यथा

असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा ।
गतयो हेतवश्चास्य मृषा स्वप्नद‍ृशो यथा ॥ ३१ ॥

असत्त्वात् आत्मनः अन्येषाम् भावानाम् तत् कृता भिदा गतयः हेतवः च अस्य मृषा स्वप्न दृशः यथा

यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्
भुङ्क्ते समस्तकरणैर्हृदि तत्सद‍ृक्षान् ।
स्वप्ने सुषुप्त उपसंहरते स एक:
स्मृत्यन्वयात्‍त्रिगुणवृत्तिद‍ृगिन्द्रियेश: ॥ ३२ ॥

यः जागरे बहिः अनुक्षण धर्मिणः अर्थान् भुङ्क्ते समस्त करणैः हृदि तत्-सदृक्षान् स्वप्ने सुषुप्ते उपसंहरते सः एकः स्मृति अन्वयात् त्रि-गुण वृत्ति दृक् इन्द्रिय ईशः

एवं विमृश्य गुणतो मनसस्त्र्यवस्था
मन्मायया मयि कृता इति निश्चितार्था: ।
सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण-
ज्ञानासिना भजत माखिलसंशयाधिम् ॥ ३३ ॥

एवम् विमृश्य गुणतः मनसः त्रि-अवस्थाः मत्-मायया मयि कृताः इति निश्चित-अर्थाः सञ्छिद्य हार्दम् अनुमान सत्-उक्ति तीक्ष्ण ज्ञान असिना भजत मा अखिल संशय आधिम्

ईक्षेत विभ्रममिदं मनसो विलासं
द‍ृष्टं विनष्टमतिलोलमलातचक्रम् ।
विज्ञानमेकमुरुधेव विभाति माया
स्वप्नस्‍त्रिधा गुणविसर्गकृतो विकल्प: ॥ ३४ ॥

ईक्षेत विभ्रमम् इदम् मनसः विलासम् दृष्टम् विनष्टम् अति-लोलम् अलात-चक्रम् विज्ञानम् एकम् उरुधा इव विभाति माया स्वप्नः त्रिधा गुण विसर्ग कृतः विकल्पः

द‍ृष्टिं तत: प्रतिनिवर्त्य निवृत्ततृष्ण-
स्तूष्णीं भवेन्निजसुखानुभवो निरीह:
सन्दृश्यते क्व‍ च यदीदमवस्तुबुद्ध्या
त्यक्तं भ्रमाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥

दृष्टिम् ततः प्रतिनिवर्त्य निवृत्त तृष्णः तूष्णीम् भवेत् निज सुख अनुभवः निरीहः सन्दृश्यते क्व च यदि इदम् अवस्तु बुद्ध्या त्यक्तम् भ्रमाय न भवेत् स्मृतिः आ-निपातात्

देहं च नश्वरमवस्थितमुत्थितं वा
सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् ।
दैवादपेतमथ दैववशादुपेतं
वासो यथा परिकृतं मदिरामदान्ध: ॥ ३६ ॥

देहम् च नश्वरम् अवस्थितम् उत्थितम् वा सिद्धः न पश्यति यतः अध्यगमत् स्व-रूपम् दैवात् अपेतम् अथ दैव वशात् उपेतम् वासः यथा परिकृतम् मदिरा मद अन्धः

देहोऽपि दैववशग: खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासु: ।
तं सप्रपञ्चमधिरूढसमाधियोग:
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तु: ॥ ३७ ॥

देहः अपि दैव वश-गः खलु कर्म यावत् स्व-आरम्भकम् प्रतिसमीक्षते एव स-असुः तम् स-प्रपञ्चम् अधिरूढ समाधि योगः स्वाप्नम् पुनः न भजते प्रतिबुद्ध वस्तुः

मयैतदुक्तं वो विप्रा गुह्यं यत् साङ्ख्ययोगयो: ।
जानीत मागतं यज्ञं युष्मद्धर्मविवक्षया ॥ ३८ ॥

मया एतत् उक्तम् वः विप्राः गुह्यम् यत् साङ्ख्य योगयोः जानीत मा आगतम् यज्ञम् युष्मत् धर्म विवक्षया

अहं योगस्य सांख्यस्य सत्यस्यर्तस्य तेजस: ।
परायणं द्विजश्रेष्ठा: श्रिय: कीर्तेर्दमस्य च ॥ ३९ ॥

अहम् योगस्य साङ्ख्यस्य सत्यस्य ऋतस्य तेजसः पर-अयणम् द्विज-श्रेष्ठाः श्रियः कीर्तेः दमस्य च

मां भजन्ति गुणा: सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणा: ॥ ४० ॥

माम् भजन्ति गुणाः सर्वे निर्गुणम् निरपेक्षकम् सु-हृदम् प्रियम् आत्मानम् साम्य असङ्ग आदयः अगुणाः

इति मे छिन्नसन्देहा मुनय: सनकादय: ।
सभाजयित्वा परया भक्त्यागृणत संस्तवै: ॥ ४१ ॥

इति मे छिन्न सन्देहाः मुनयः सनक-आदयः सभाजयित्वा परया भक्त्या अगृणत संस्तवैः

तैरहं पूजित: सम्यक् संस्तुत: परमर्षिभि: ।
प्रत्येयाय स्वकं धाम पश्यत: परमेष्ठिन: ॥ ४२ ॥

तैः अहम् पूजितः संयक् संस्तुतः परम-ऋषिभिः प्रत्येयाय स्वकम् धाम पश्यतः परमेष्ठिनः

११.१४

श्रीउद्धव उवाच
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिन: ।
तेषां विकल्पप्राधान्यमुताहो एकमुख्यता ॥ १ ॥

श्री-उद्धवः उवाच वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः तेषाम् विकल्प प्राधान्यम् उत अहो एक मुख्यता

भवतोदाहृत: स्वामिन् भक्तियोगोऽनपेक्षित: ।
निरस्य सर्वत: सङ्गं येन त्वय्याविशेन्मन: ॥ २ ॥

भवता उदाहृतः स्वामिन् भक्ति-योगः अनपेक्षितः निरस्य सर्वतः सङ्गम् येन त्वयि आविशेत् मनः

श्रीभगवानुवाच
कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मक: ॥ ३ ॥

श्री-भगवान् उवाच कालेन नष्टा प्रलये वाणी इयम् वेद-संज्ञिता मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्याम् मत्-आत्मकः

तेन प्रोक्ता स्व पुत्राय मनवे पूर्वजाय सा ।
ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षय: ॥ ४ ॥

तेन प्रोक्ता स्व-पुत्राय मनवे पूर्व-जाय सा ततः भृगु-आदयः अगृह्णन् सप्त ब्रह्म महा-ऋषयः

तेभ्य: पितृभ्यस्तत्पुत्रा देवदानवगुह्यका: ।
मनुष्या: सिद्धगन्धर्वा: सविद्याधरचारणा: ॥ ५ ॥
किन्देवा: किन्नरा नागा रक्ष:किम्पुरुषादय: ।
बह्वयस्तेषां प्रकृतयो रज:सत्त्वतमोभुव: ॥ ६ ॥
याभिर्भूतानि भिद्यन्ते भूतानां पतयस्तथा ।
यथाप्रकृति सर्वेषां चित्रा वाच: स्रवन्ति हि ॥ ७ ॥

तेभ्यः पितृभ्यः तत् पुत्राः देव दानव गुह्यकाः मनुष्याः सिद्ध-गन्धर्वाः स-विद्याधर-चारणाः किन्देवाः किन्नराः नागाः रक्षः किम्पुरुष आदयः बह्व्यः तेषाम् प्रकृतयः रजः-सत्त्व-तमः-भुवः याभिः भूतानि भिद्यन्ते भूतानाम् पतयः तथा यथा-प्रकृति सर्वेषाम् चित्राः वाचः स्रवन्ति हि

एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।
पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे ॥ ८ ॥

एवम् प्रकृति वैचित्र्यात् भिद्यन्ते मतयः नृणाम् पारम्पर्येण केषाञ्चित् पाषण्ड मतयः अपरे

मन्मायामोहितधिय: पुरुषा: पुरुषर्षभ ।
श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥

मत्-माया मोहित धियः पुरुषाः पुरुष-ऋषभ श्रेयः वदन्ति अनेक-अन्तम् यथा-कर्म यथा-रुचि

धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।
अन्ये वदन्ति स्वार्थं वा ऐश्व‍‍र्यं त्यागभोजनम् ।
केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥

धर्मम् एके यशः च अन्ये कामम् सत्यम् दमम् शमम् अन्ये वदन्ति स्व-अर्थम् वै ऐश्वर्यम् त्याग भोजनम् केचित् यज्ञम् तपः दानम् व्रतानि नियमान् यमान्

आद्यन्तवन्त एवैषां लोका: कर्मविनिर्मिता: ।
दु:खोदर्कास्तमोनिष्ठा: क्षुद्रा मन्दा: शुचार्पिता: ॥ ११ ॥

आदि-अन्त-वन्तः एव एषाम् लोकाः कर्म विनिर्मिताः दुःख उदर्काः तमः निष्ठाः क्षुद्राः मन्दाः शुचा अर्पिताः

मय्यर्पितात्मन: सभ्य निरपेक्षस्य सर्वत: ।
मयात्मना सुखं यत्तत् कुत: स्याद् विषयात्मनाम् ॥ १२ ॥

मयि अर्पित आत्मनः सभ्य निरपेक्षस्य सर्वतः मया आत्मना सुखम् यत् तत् कुतः स्यात् विषय आत्मनाम्

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतस: ।
मया सन्तुष्टमनस: सर्वा: सुखमया दिश: ॥ १३ ॥

अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः मया सन्तुष्ट मनसः सर्वाः सुख-मयाः दिशः

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ १४ ॥

न पारमेष्ठ्यम् न महा-इन्द्र-धिष्ण्यम् न सार्वभौमम् न रस-आधिपत्यम् न योग-सिद्धीः अपुनः-भवम् वा मयि अर्पित आत्मा इच्छति मत् विना अन्यत्

न तथा मे प्रियतम आत्मयोनिर्न शङ्कर: ।
न च सङ्कर्षणो न श्रीर्नैवात्मा च यथा भवान् ॥ १५ ॥

न तथा मे प्रिय-तमः आत्म-योनिः न शङ्करः न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान्

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्‍‍घ्रिरेणुभि: ॥ १६ ॥

निरपेक्षम् मुनिम् शान्तम् निर्वैरम् सम-दर्शनम् अनुव्रजामि अहम् नित्यम् पूयेय इति अङ्घ्रि रेणुभिः

निष्किञ्चना मय्यनुरक्तचेतस:
शान्ता महान्तोऽखिलजीववत्सला: ।
कामैरनालब्धधियो जुषन्ति ते
यन्नैरपेक्ष्यं न विदु: सुखं मम ॥ १७ ॥

निष्किञ्चनाः मयि अनुरक्त-चेतसः शान्ताः महान्तः अखिल जीव वत्सलाः कामैः अनालब्ध धियः जुषन्ति ते यत् नैरपेक्ष्यम् न विदुः सुखम् मम

बाध्यमानोऽपि मद्भ‍क्तो विषयैरजितेन्द्रिय: ।
प्राय: प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८ ॥

बाध्यमानः अपि मत्-भक्तः विषयैः अजित इन्द्रियः प्रायः प्रगल्भया भक्त्या विषयैः न अभिभूयते

यथाग्नि: सुसमृद्धार्चि: करोत्येधांसि भस्मसात् ।
तथा मद्विषया भक्तिरुद्धवैनांसि कृत्‍स्‍नश: ॥ १९ ॥

यथा अग्निः सु-समृद्ध अर्चिः करोति एधांसि भस्म-सात् तथा मत्-विषया भक्तिः उद्धव एनांसि कृत्स्नशः

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २० ॥

न साधयति माम् योगः न साङ्ख्यम् धर्मः उद्धव न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता

भक्त्याहमेकया ग्राह्य: श्रद्धयात्मा प्रिय: सताम् ।
भक्ति: पुनाति मन्निष्ठा श्वपाकानपि सम्भवात् ॥ २१ ॥

भक्त्या अहम् एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् भक्तिः पुनाति मत्-निष्ठा श्व-पाकान् अपि सम्भवात्

धर्म: सत्यदयोपेतो विद्या वा तपसान्विता ।
मद्भ‍क्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२ ॥

धर्मः सत्य दया उपेतः विद्या वा तपसा अन्विता मत्-भक्त्या अपेतम् आत्मानम् न सम्यक् प्रपुनाति हि

कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्दाश्रुकलया शुध्येद् भक्त्या विनाशय: ॥ २३ ॥

कथम् विना रोम-हर्षम् द्रवता चेतसा विना विना आनन्द अश्रु-कलया शुध्येत् भक्त्या विना आशयः

वाग् गद्गदा द्रवते यस्य चित्तं
रुदत्यभीक्ष्णं हसति क्व‍‍चिच्च ।
विलज्ज उद्गायति नृत्यते च
मद्भ‍‍क्तियुक्तो भुवनं पुनाति ॥ २४ ॥

वाक् गद्गदा द्रवते यस्य चित्तम् रुदति अभीक्ष्णम् हसति क्वचित् च विलज्जः उद्गायति नृत्यते च मत्-भक्ति-युक्तः भुवनम् पुनाति

यथाग्निना हेम मलं जहाति
ध्मातं पुन: स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भ‍‍क्तियोगेन भजत्यथो माम् ॥ २५ ॥

यथा अग्निना हेम मलम् जहाति ध्मातम् पुनः स्वम् भजते च रूपम् आत्मा च कर्म अनुशयम् विधूय मत्-भक्ति-योगेन भजति अथो माम्

यथा यथात्मा परिमृज्यतेऽसौ
मत्पुण्यगाथाश्रवणाभिधानै: ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥ २६ ॥

यथा यथा आत्मा परिमृज्यते असौ मत्-पुण्य-गाथा श्रवण अभिधानैः तथा तथा पश्यति वस्तु सूक्ष्मम् चक्षुः यथा एव अञ्जन सम्प्रयुक्तम्

विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।
मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥

विषयान् ध्यायतः चित्तम् विषयेषु विषज्जते माम् अनुस्मरतः चित्तम् मयि एव प्रविलीयते

तस्मादसदभिध्यानं यथा स्वप्नमनोरथम् ।
हित्वा मयि समाधत्स्व मनो मद्भ‍ावभावितम् ॥ २८ ॥

तस्मात् असत् अभिध्यानम् यथा स्वप्न मनः-रथम् हित्वा मयि समाधत्स्व मनः मत्-भाव भावितम्

स्‍त्रीणां स्‍त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।
क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रित: ॥ २९ ॥

स्त्रीणाम् स्त्री सङ्गिनाम् सङ्गम् त्यक्त्वा दूरतः आत्म-वान् क्षेमे विविक्ते आसीनः चिन्तयेत् माम् अतन्द्रितः

न तथास्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गत: ।
योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गत: ॥ ३० ॥

न तथा अस्य भवेत् क्लेशः बन्धः च अन्य-प्रसङ्गतः योषित् सङ्गात् यथा पुंसः यथा तत् सङ्गि सङ्गतः

श्रीउद्धव उवाच
यथा त्वामरविन्दाक्ष याद‍ृशं वा यदात्मकम् ।
ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१ ॥

श्री-उद्धवः उवाच यथा त्वाम् अरविन्द-अक्ष यादृशम् वा यत्-आत्मकम् ध्यायेत् मुमुक्षुः एतत् मे ध्यानम् त्वम् वक्तुम् अर्हसि

श्रीभगवानुवाच
सम आसन आसीन: समकायो यथासुखम् ।
हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षण: ॥ ३२ ॥
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकै: ।
विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रिय: ॥ ३३ ॥

श्री-भगवान् उवाच समे आसने आसीनः सम-कायः यथा-सुखम् हस्तौ उत्सङ्गे आधाय स्व-नास-अग्र कृत ईक्षणः प्राणस्य शोधयेत् मार्गम् पूर-कुम्भक-रेचकैः विपर्ययेण अपि शनैः अभ्यसेत् निर्जित इन्द्रियः

हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् ।
प्राणेनोदीर्य तत्राथ पुन: संवेशयेत् स्वरम् ॥ ३४ ॥

हृदि अविच्छिन्नम् ओंकारम् घण्टा नादम् बिस-ऊर्ण-वत् प्राणेन उदीर्य तत्र अथ पुनः संवेशयेत् स्वरम्

एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।
दशकृत्वस्‍त्रिषवणं मासादर्वाग् जितानिल: ॥ ३५ ॥

एवम् प्रणव संयुक्तम् प्राणम् एव समभ्यसेत् दश-कृत्वः त्रि-सवनम् मासात् अर्वाक् जित अनिलः

हृत्पुण्डरीकमन्त:स्थमूर्ध्वनालमधोमुखम् ।
ध्यात्वोर्ध्वमुखमुन्निद्रमष्टपत्रं सकर्णिकम् ।
कर्णिकायां न्यसेत् सूर्यसोमाग्नीनुत्तरोत्तरम् ॥ ३६ ॥
वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम् ।
समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ॥ ३७ ॥
सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ।
समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ॥ ३८ ॥
हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ।
शङ्खचक्रगदापद्मवनमालाविभूषितम् ॥ ३९ ॥
नूपुरैर्विलसत्पादं कौस्तुभप्रभया युतम् ।
द्युमत्किरीटकटककटिसूत्राङ्गदायुतम् ॥ ४० ॥
सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षणम् ।
सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥
इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन्मन: ।
बुद्ध्या सारथिना धीर: प्रणयेन्मयि सर्वत: ॥ ४२ ॥

हृत् पुण्डरीकम् अन्तः-स्थम् ऊर्ध्व-नालम् अधः-मुखम् ध्यात्वा ऊर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रम् स-कर्णिकम् कर्णिकायाम् न्यसेत् सूर्य सोम अग्नीन् उत्तर-उत्तरम् वह्नि-मध्ये स्मरेत् रूपम् मम एतत् ध्यान-मङ्गलम् समम् प्रशान्तम् सु-मुखम् दीर्घ-चारु-चतुः-भुजम् सु-चारु सुन्दर ग्रीवम् सु-कपोलम् शुचि-स्मितम् समान कर्ण विन्यस्त स्फुरत् मकर कुण्डलम् हेम अम्बरम् घन-श्यामम् श्री-वत्स श्री-निकेतनम् शङ्ख चक्र गदा पद्म वन-माला विभूषितम् नूपुरैः विलसत् पादम् कौस्तुभ प्रभया युतम् द्युमत् किरीट कटक कटि-सूत्र अङ्गद आयुतम् सर्व-अङ्ग सुन्दरम् हृद्यम् प्रसाद सुमुख ईक्षणम् सु-कुमारम् अभिध्यायेत् सर्व-अङ्गेषु मनः दधत् इन्द्रियाणि इन्द्रिय-अर्थेभ्यः मनसा आकृष्य तत् मनः बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतः

तत् सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् ।
नान्यानि चिन्तयेद् भूय: सुस्मितं भावयेन्मुखम् ॥ ४३ ॥

तत् सर्व व्यापकम् चित्तम् आकृष्य एकत्र धारयेत् न अन्यानि चिन्तयेत् भूयः सु-स्मितम् भावयेत् मुखम्

तत्र लब्धपदं चित्तमाकृष्य व्योम्नि धारयेत् ।
तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥

तत्र लब्ध-पदम् चित्तम् आकृष्य व्योम्नि धारयेत् तत् च त्यक्त्वा मत् आरोहः न किञ्चित् अपि चिन्तयेत्

एवं समाहितमतिर्मामेवात्मानमात्मनि ।
विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥

एवम् समाहित मतिः माम् एव आत्मानम् आत्मनि विचष्टे मयि सर्व-आत्मन् ज्योतिः ज्योतिषि संयुतम्

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मन: ।
संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रम: ॥ ४६ ॥

ध्यानेन इत्थम् सु-तीव्रेण युञ्जतः योगिनः मनः संयास्यति आशु निर्वाणम् द्रव्य-ज्ञान-क्रिया भ्रमः

११.१५

श्रीभगवानुवाच
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिन: ।
मयि धारयतश्चेत उपतिष्ठन्ति सिद्धय: ॥ १ ॥

श्री-भगवान् उवाच जित-इन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः

श्रीउद्धव उवाच
कया धारणया कास्वित् कथं वा सिद्धिरच्युत ।
कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् ॥ २ ॥

श्री-उद्धवः उवाच कया धारणया का स्वित् कथम् वा सिद्धिः अच्युत कति वा सिद्धयः ब्रूहि योगिनाम् सिद्धि-दः भवान्

श्रीभगवानुवाच
सिद्धयोऽष्टादश प्रोक्ता धारणा योगपारगै: ।
तासामष्टौ मत्प्रधाना दशैव गुणहेतव: ॥ ३ ॥

श्री-भगवान् उवाच सिद्धयः अष्टादश प्रोक्ताः धारणाः योग पार-गैः तासाम् अष्टौ मत्-प्रधानाः दश एव गुण-हेतवः

अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियै: ।
प्राकाम्यं श्रुतद‍ृष्टेषु शक्तिप्रेरणमीशिता ॥ ४ ॥
गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति ।
एता मे सिद्धय: सौम्य अष्टावौत्पत्तिका मता: ॥ ५ ॥

अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः प्राकाम्यम् श्रुत दृष्टेषु शक्ति-प्रेरणम् ईशिता गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति एताः मे सिद्धयः सौम्य अष्टौ औत्पत्तिकाः मताः

अनूर्मिमत्त्वं देहेऽस्मिन् दूरश्रवणदर्शनम् ।
मनोजव: कामरूपं परकायप्रवेशनम् ॥ ६ ॥
स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् ।
यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहता गति: ॥ ७ ॥

अनूर्मि-मत्त्वम् देहे अस्मिन् दूर श्रवण दर्शनम् मनः-जवः काम-रूपम् पर-काय प्रवेशनम् स्व-छन्द मृत्युः देवानाम् सह क्रीडा अनुदर्शनम् यथा सङ्कल्प संसिद्धिः आज्ञा अप्रतिहता गतिः

त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता ।
अग्‍न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजय: ॥ ८ ॥
एताश्चोद्देशत: प्रोक्ता योगधारणसिद्धय: ।
यया धारणया या स्याद् यथा वा स्यान्निबोध मे ॥ ९ ॥

त्रि-काल-ज्ञत्वम् अद्वन्द्वम् पर चित्त आदि अभिज्ञता अग्नि अर्क अम्बु विष आदीनाम् प्रतिष्टम्भः अपराजयः एताः च उद्देशतः प्रोक्ताः योग धारण सिद्धयः यया धारणया या स्यात् यथा वा स्यात् निबोध मे

भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मन: ।
अणिमानमवाप्नोति तन्मात्रोपासको मम ॥ १० ॥

भूत-सूक्ष्म आत्मनि मयि तत्-मात्रम् धारयेत् मनः अणिमानम् अवाप्नोति तत्-मात्र उपासकः मम

महत्तत्त्वात्मनि मयि यथासंस्थं मनो दधत् ।
महिमानमवाप्नोति भूतानां च पृथक् पृथक् ॥ ११ ॥

महत्-तत्त्व आत्मनि मयि यथा संस्थम् मनः दधत् महिमानम् अवाप्नोति भूतानाम् च पृथक् पृथक्

परमाणुमये चित्तं भूतानां मयि रञ्जयन् ।
कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् ॥ १२ ॥

परम-अणु-मये चित्तम् भूतानाम् मयि रञ्जयन् काल सूक्ष्म अर्थताम् योगी लघिमानम् अवाप्नुयात्

धारयन् मय्यहंतत्त्वे मनो वैकारिकेऽखिलम् ।
सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मना: ॥ १३ ॥

धारयन् मयि अहम्-तत्त्वे मनः वैकारिके अखिलम् सर्व इन्द्रियाणाम् आत्मत्वम् प्राप्तिम् प्राप्नोति मत्-मनाः

महत्यात्मनि य: सूत्रे धारयेन्मयि मानसम् ।
प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मन: ॥ १४ ॥

महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् प्राकाम्यम् पारमेष्ठ्यम् मे विन्दते अव्यक्त-जन्मनः

विष्णौ त्र्यधीश्वरे चित्तं धारयेत् कालविग्रहे ।
स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् ॥ १५ ॥

विष्णौ त्रि-अधीश्वरे चित्तम् धारयेत् काल विग्रहे सः ईशित्वम् अवाप्नोति क्षेत्र-ज्ञ क्षेत्र चोदनाम्

नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते ।
मनो मय्यादधद् योगी मद्धर्मा वशितामियात् ॥ १६ ॥

नारायणे तुरीय-आख्ये भगवत् शब्द-शब्दिते मनः मयि आदधत् योगी मत्-धर्मा वशिताम् इयात्

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मन: ।
परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ १७ ॥

निर्गुणे ब्रह्मणि मयि धारयन् विशदम् मनः परम-आनन्दम् आप्नोति यत्र कामः अवसीयते

श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि ।
धारयञ्छ्वेततां याति षडूर्मिरहितो नर: ॥ १८ ॥

श्वेत-द्वीप पतौ चित्तम् शुद्धे धर्म-मये मयि धारयन् श्वेतताम् याति षट्-ऊर्मि रहितः नरः

मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् ।
तत्रोपलब्धा भूतानां हंसो वाच: श‍ृणोत्यसौ ॥ १९ ॥

मयि आकाश-आत्मनि प्राणे मनसा घोषम् उद्वहन् तत्र उपलब्धाः भूतानाम् हंसः वाचः शृणोति असौ

चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरत: ॥ २० ॥

चक्षुः त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि माम् तत्र मनसा ध्यायन् विश्वम् पश्यति दूरतः

मनो मयि सुसंयोज्य देहं तदनुवायुना ।
मद्धारणानुभावेन तत्रात्मा यत्र वै मन: ॥ २१ ॥

मनः मयि सु-संयोज्य देहम् तत् अनु-वायुना मत्-धारणा अनुभावेन तत्र आत्मा यत्र वै मनः

यदा मन उपादाय यद् यद् रूपं बुभूषति ।
तत्तद् भवेन्मनोरूपं मद्योगबलमाश्रय: ॥ २२ ॥

यदा मनः उपादाय यत् यत् रूपम् बुभूषति तत् तत् भवेत् मनः-रूपम् मत्-योग-बलम् आश्रयः

परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणो वायुभूत: षडङ्‍‍घ्रिवत् ॥ २३ ॥

पर कायम् विशन् सिद्धः आत्मानम् तत्र भावयेत् पिण्डम् हित्वा विशेत् प्राणः वायु-भूतः षट्-अङ्घ्रि-वत्

पार्ष्ण्यापीड्य गुदं प्राणं हृदुर:कण्ठमूर्धसु ।
आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् ॥ २४ ॥

पार्ष्ण्या आपीड्य गुदम् प्राणम् हृत् उरः कण्ठ मूर्धसु आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम्

विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् ।
विमानेनोपतिष्ठन्ति सत्त्ववृत्ती: सुरस्‍त्रिय: ॥ २५ ॥

विहरिष्यन् सुर आक्रीडे मत् स्थम् सत्त्वम् विभावयेत् विमानेन उपतिष्ठन्ति सत्त्व वृत्तीः सुर स्त्रियः

यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्पर: पुमान् ।
मयि सत्ये मनो युञ्जंस्तथा तत् समुपाश्न‍ुते ॥ २६ ॥

यथा सङ्कल्पयेत् बुद्ध्या यदा वा मत्-परः पुमान् मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते

११.१६

श्रीउद्धव उवाच
त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् ।
सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भ‍व: ॥ १ ॥

श्री-उद्धवः उवाच त्वम् ब्रह्म परमम् साक्षात् अनादि अन्तम् अपावृतम् सर्वेषाम् अपि भावानाम् त्राण स्थिति अप्यय उद्भवः

उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभि: ।
उपासते त्वां भगवन् याथातथ्येन ब्राह्मणा: ॥ २ ॥

उच्च अवचेषु भूतेषु दुर्ज्ञेयम् अकृत-आत्मभिः उपासते त्वाम् भगवन् याथा-तथ्येन ब्राह्मणाः

येषु येषु च भूतेषु भक्त्या त्वां परमर्षय: ।
उपासीना: प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ ३ ॥

येषु येषु च भूतेषु भक्त्या त्वाम् परम-ऋषयः उपासीनाः प्रपद्यन्ते संसिद्धिम् तत् वदस्व मे

गूढश्चरसि भूतात्मा भूतानां भूतभावन ।
न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४ ॥

गूढः चरसि भूत-आत्मा भूतानाम् भूत-भावन न त्वाम् पश्यन्ति भूतानि पश्यन्तम् मोहितानि ते

या: काश्च भूमौ दिवि वै रसायां
विभूतयो दिक्षु महाविभूते ।
ता मह्यमाख्याह्यनुभावितास्ते
नमामि ते तीर्थपदाङ्‍‍घ्रिपद्मम् ॥ ५ ॥

याः काः च भूमौ दिवि वै रसायाम् विभूतयः दिक्षु महा-विभूते ताः मह्यम् आख्याहि अनुभाविताः ते नमामि ते तीर्थ-पद अङ्घ्रि-पद्मम्

श्रीभगवानुवाच
एवमेतदहं पृष्ट: प्रश्न‍ं प्रश्न‍‍विदां वर ।
युयुत्सुना विनशने सपत्नैरर्जुनेन वै ॥ ६ ॥

श्री-भगवान् उवाच एवम् एतत् अहम् पृष्टः प्रश्नम् प्रश्न-विदाम् वर युयुत्सुना विनशने सपत्नैः अर्जुनेन वै

ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् ।
ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिक: ॥ ७ ॥

ज्ञात्वा ज्ञाति वधम् गर्ह्यम् अधर्मम् राज्य हेतुकम् ततः निवृत्तः हरता अहम् हतः अयम् इति लौकिकः

स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधित: ।
अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥ ८ ॥

सः तदा पुरुष-व्याघ्रः युक्त्या मे प्रतिबोधितः अभ्यभाषत माम् एवम् यथा त्वम् रण मूर्धनि

अहमात्मोद्धवामीषां भूतानां सुहृदीश्वर: ।
अहं सर्वाणि भूतानि तेषां स्थित्युद्भ‍वाप्यय: ॥ ९ ॥

अहम् आत्मा उद्धव अमीषाम् भूतानाम् सु-हृत् ईश्वरः अहम् सर्वाणि भूतानि तेषाम् स्थिति उद्भव अप्ययः

अहं गतिर्गतिमतां काल: कलयतामहम् ।
गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुण: ॥ १० ॥

अहम् गतिः गति-मताम् कालः कलयताम् अहम् गुनाणाम् च अपि अहम् साम्यम् गुणिनि औत्पत्तिकः गुणः

गुणिनामप्यहं सूत्रं महतां च महानहम् ।
सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मन: ॥ ११ ॥

गुणिनाम् अपि अहम् सूत्रम् महताम् च महान् अहम् सूक्ष्माणाम् अपि अहम् जीवः दुर्जयानाम् अहम् मनः

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्‍त्रिवृत् ।
अक्षराणामकारोऽस्मि पदानिच्छन्दसामहम् ॥ १२ ॥

हिरण्य-गर्भः वेदानाम् मन्त्राणाम् प्रणवः त्रि-वृत् अक्षराणाम् अ-कारः अस्मि पदानि छन्दसाम् अहम्

इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।
आदित्यानामहं विष्णू रुद्राणां नीललोहित: ॥ १३ ॥

इन्द्रः अहम् सर्व-देवानाम् वसूनाम् अस्मि हव्य-वाट् आदित्यानाम् अहम् विष्णुः रुद्राणाम् नील-लोहितः

ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनु: ।
देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४ ॥

ब्रह्म-ऋषीणाम् भृगुः अहम् राज-ऋषीणाम् अहम् मनुः देव-ऋषीणाम् नारदः अहम् हविर्धानी अस्मि धेनुषु

सिद्धेश्वराणां कपिल: सुपर्णोऽहं पतत्रिणाम् ।
प्रजापतीनां दक्षोऽहं पितृणामहमर्यमा ॥ १५ ॥

सिद्ध-ईश्वराणाम् कपिलः सुपर्णः अहम् पतत्रिणाम् प्रजापतीनाम् दक्षः अहम् पितॄणाम् अहम् अर्यमा

मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् ।
सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ १६ ॥

माम् विद्धि उद्धव दैत्यानाम् प्रह्लादम् असुर-ईश्वरम् सोमम् नक्षत्र-ओषधीनाम् धन-ईशम् यक्ष-रक्षसाम्

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।
तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७ ॥

ऐरावतम् गज-इन्द्राणाम् यादसाम् वरुणम् प्रभुम् तपताम् द्यु-मताम् सूर्यम् मनुष्याणाम् च भू-पतिम्

उच्चै:श्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।
यम: संयमतां चाहम् सर्पाणामस्मि वासुकि: ॥ १८ ॥

उच्चैःश्रवाः तुरङ्गाणाम् धातूनाम् अस्मि काञ्चनम् यमः संयमताम् च अहम् सर्पाणाम् अस्मि वासुकिः

नागेन्द्राणामनन्तोऽहं मृगेन्द्र: श‍ृङ्गिदंष्ट्रिणाम् ।
आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ ॥ १९ ॥

नाग-इन्द्राणाम् अनन्तः अहम् मृग-इन्द्रः शृङ्गि-दंष्ट्रिणाम् आश्रमाणाम् अहम् तुर्यः वर्णानाम् प्रथमः अनघ

तीर्थानां स्रोतसां गङ्गा समुद्र: सरसामहम् ।
आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥ २० ॥

तिर्थानाम् स्रोतसाम् गङ्गा समुद्रः सरसाम् अहम् आयुधानाम् धनुः अहम् त्रि-पुर-घ्नः धनुः-मताम्

धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालय: ।
वनस्पतीनामश्वत्थ ओषधीनामहं यव: ॥ २१ ॥

धिष्ण्यानाम् अस्मि अहम् मेरुः गहनानाम् हिमालयः वनस्पतीनाम् अश्वत्थः ओषधीनाम् अहम् यवः

पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पति: ।
स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानज: ॥ २२ ॥

पुरोधसाम् वसिष्ठः अहम् ब्रह्मिष्ठानाम् बृहस्पतिः स्कन्दः अहम् सर्व-सेनान्याम् अग्रण्याम् भगवान् अजः

यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् ।
वाय्वग्‍न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचि: ॥ २३ ॥

यज्ञानाम् ब्रह्म-यज्ञः अहम् व्रतानाम् अविहिंसनम् वायु अग्नि अर्क अम्बु वाक् आत्मा शुचीनाम् अपि अहम् शुचिः

योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्प: ख्यातिवादिनाम् ॥ २४ ॥

योगानाम् आत्म-संरोधः मन्त्रः अस्मि विजिगीषताम् आन्वीक्षिकी कौशलानाम् विकल्पः ख्याति-वादिनाम्

स्‍त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनु: ।
नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५ ॥

स्त्रीणाम् तु शतरूपा अहम् पुंसाम् स्वायम्भुवः मनुः नारायणः मुनीनाम् च कुमारः ब्रह्मचारिणाम्

धर्माणामस्मि संन्यास: क्षेमाणामबहिर्मति: ।
गुह्यानां सुनृतं मौनं मिथुनानामजस्त्वहम् ॥ २६ ॥

धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिः-मतिः गुह्यानाम् सुनृतम् मौनम् मिथुनानाम् अजः तु अहम्

संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ ।
मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७ ॥

संवत्सरः अस्मि अनिमिषाम् ऋतूनाम् मधु-माधवौ मासानाम् मार्गशीर्षः अहम् नक्षत्राणाम् तथा अभिजित्

अहं युगानां च कृतं धीराणां देवलोऽसित: ।
द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८ ॥

अहम् युगानाम् च कृतम् धीराणाम् देवलः असितः द्वैपायनः अस्मि व्यासानाम् कवीनाम् काव्यः आत्म-वान्

वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।
किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शन: ॥ २९ ॥

वासुदेवः भगवताम् त्वम् तु भागवतेषु अहम् किम्पुरुषाणाम् हनुमान् विद्याध्राणाम् सुदर्शनः

रत्नानां पद्मरागोऽस्मि पद्मकोश: सुपेशसाम् ।
कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हवि:ष्वहम् ॥ ३० ॥

रत्नानाम् पद्म-रागः अस्मि पद्म-कोशः सु-पेशसाम् कुशः अस्मि दर्भ-जातीनाम् गव्यम् आज्यम् हविःषु अहम्

व्यवसायिनामहं लक्ष्मी: कितवानां छलग्रह: ।
तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ॥ ३१ ॥

व्यवसायिनाम् अहम् लक्ष्मीः कितवानाम् छल-ग्रहः तितिक्षा अस्मि तितिक्षूणाम् सत्त्वम् सत्त्व-वताम् अहम्

ओज: सहो बलवतां कर्माहं विद्धि सात्वताम् ।
सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥ ३२ ॥

ओजः सहः बलवताम् कर्म अहम् विद्धि सात्वताम् सात्वताम् नव-मूर्तीनाम् आदि-मूर्तिः अहम् परा

विश्वावसु: पूर्वचित्तिर्गन्धर्वाप्सरसामहम् ।
भूधराणामहं स्थैर्यं गन्धमात्रमहं भुव: ॥ ३३ ॥

विश्वावसुः पूर्वचित्तिः गन्धर्व-अप्सरसाम् अहम् भूधराणाम् अहम् स्थैर्यम् गन्ध-मात्रम् अहम् भुवः

अपां रसश्च परमस्तेजिष्ठानां विभावसु: ।
प्रभा सूर्येन्दुताराणां शब्दोऽहं नभस: पर: ॥ ३४ ॥

अपाम् रसः च परमः तेजिष्ठानाम् विभावसुः प्रभा सूर्य इन्दु ताराणाम् शब्दः अहम् नभसः परः

ब्रह्मण्यानां बलिरहं वीराणामहमर्जुन: ।
भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रम: ॥ ३५ ॥

ब्रह्मण्यानाम् बलिः अहम् वीराणाम् अहम् अर्जुनः भूतानाम् स्थितिः उत्पत्तिः अहम् वै प्रतिसङ्क्रमः

गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् ।
आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ॥ ३६ ॥

गति उक्ति उत्सर्ग उपादानम् आनन्द स्पर्श लक्षणम् आस्वाद श्रुति अवघ्राणम् अहम् सर्व-इन्द्रिय इन्द्रियम्

पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।
विकार: पुरुषोऽव्यक्तं रज: सत्त्वं तम: परम् ।
अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चय: ॥ ३७ ॥

पृथिवी वायुः आकाशः आपः ज्योतिः अहम् महान् विकारः पुरुषः अव्यक्तम् रजः सत्त्वम् तमः परम् अहम् एतत् प्रसङ्ख्यानम् ज्ञानम् तत्त्व-विनिश्चयः

मयेश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मनापि सर्वेण न भावो विद्यते क्व‍‍चित् ॥ ३८ ॥

मया ईश्वरेण जीवेन गुणेन गुणिना विना सर्व-आत्मना अपि सर्वेण न भावः विद्यते क्वचित्

सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतोऽण्डानि कोटिश: ॥ ३९ ॥

सङ्ख्यानम् परम-अणूनाम् कालेन क्रियते मया न तथा मे विभूतीनाम् सृजतः अण्डानि कोटिशः

तेज: श्री: कीर्तिरैश्वर्यं ह्रीस्त्याग: सौभगं भग: ।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशक: ॥ ४० ॥

तेजः श्रीः कीर्तिः ऐश्वर्यम् ह्रीः त्यागः सौभगम् भगः वीर्यम् तितिक्षा विज्ञानम् यत्र यत्र सः मे अंशकः

एतास्ते कीर्तिता: सर्वा: सङ्‍क्षेपेण विभूतय: ।
मनोविकारा एवैते यथा वाचाभिधीयते ॥ ४१ ॥

एताः ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः मनः विकाराः एव एते यथा वाचा अभिधीयते

वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च ।
आत्मानमात्मना यच्छ न भूय: कल्पसेऽध्वने ॥ ४२ ॥

वाचम् यच्छ मनः यच्छ प्राणान् यच्छ इन्द्रियाणि च आत्मानम् आत्मना यच्छ न भूयः कल्पसे अध्वने

यो वै वाङ्‍मनसी सम्यगसंयच्छन् धिया यति: ।
तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ॥ ४३ ॥

यः वै वाक्-मनसी संयक् असंयच्छन् धिया यतिः तस्य व्रतम् तपः दानम् स्रवति आम घट अम्बु-वत्

तस्माद्वचोमन:प्राणान् नियच्छेन्मत्परायण: ।
मद्भ‍‍क्तियुक्तया बुद्ध्या तत: परिसमाप्यते ॥ ४४ ॥

तस्मात् वचः मनः प्राणान् नियच्छेत् मत्-परायणः मत् भक्ति युक्तया बुद्ध्या ततः परिसमाप्यते

११.१७

श्रीउद्धव उवाच
यस्त्वयाभिहित: पूर्वं धर्मस्त्वद्भ‍‍क्तिलक्षण: ।
वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥
यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् ।
स्वधर्मेणारविन्दाक्ष तन् ममाख्यातुमर्हसि ॥ २ ॥

श्री-उद्धवः उवाच यः त्वया अभिहितः पूर्वम् धर्मः त्वत्-भक्ति-लक्षणः वर्ण-आश्रम आचारवताम् सर्वेषाम् द्वि-पदाम् अपि यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणाम् भवेत् स्व-धर्मेण अरविन्द-अक्ष तत् मम आख्यातुम् अर्हसि

पुरा किल महाबाहो धर्मं परमकं प्रभो ।
यत्तेन हंसरूपेण ब्रह्मणेऽभ्यात्थ माधव ॥ ३ ॥
स इदानीं सुमहता कालेनामित्रकर्शन ।
न प्रायो भविता मर्त्यलोके प्रागनुशासित: ॥ ४ ॥

पुरा किल महा-बाहो धर्मम् परमकम् प्रभो यत् तेन हंस-रूपेण ब्रह्मणे अभ्यात्थ माधव सः इदानीम् सु-महता कालेन अमित्र-कर्शन न प्रायः भविता मर्त्य-लोके प्राक् अनुशासितः

वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।
सभायामपि वैरिञ्च्यां यत्र मूर्तिधरा: कला: ॥ ५ ॥
कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते महीतले देव विनष्टं क: प्रवक्ष्यति ॥ ६ ॥

वक्ता कर्ता अविता न अन्यः धर्मस्य अच्युत ते भुवि सभायाम् अपि वैरिञ्च्याम् यत्र मूर्ति-धराः कलाः कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन त्यक्ते मही-तले देव विनष्टम् कः प्रवक्ष्यति

तत्त्वं न: सर्वधर्मज्ञ धर्मस्त्वद्भ‍‍क्तिलक्षण: ।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७ ॥

तत् त्वम् नः सर्व-धर्म-ज्ञ धर्मः त्वत्-भक्ति लक्षणः यथा यस्य विधीयेत तथा वर्णय मे प्रभो

श्रीशुक उवाच
इत्थं स्वभृत्यमुख्येन पृष्ट: स भगवान् हरि: ।
प्रीत: क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८ ॥

श्री-शुकः उवाच इत्थम् स्व-भृत्य-मुख्येन पृष्टः सः भगवान् हरिः प्रीतः क्षेमाय मर्त्यानाम् धर्मान् आह सनातनान्

श्रीभगवानुवाच
धर्म्य एष तव प्रश्न‍ो नै:श्रेयसकरो नृणाम् ।
वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥

श्री-भगवान् उवाच धर्म्यः एषः तव प्रश्नः नैःश्रेयस-करः नृणाम् वर्ण-आश्रम आचार-वताम् तम् उद्धव निबोध मे

आदौ कृतयुगे वर्णो नृणां हंस इति स्मृत: ।
कृतकृत्या: प्रजा जात्या तस्मात् कृतयुगं विदु: ॥ १० ॥

आदौ कृत-युगे वर्णः नृणाम् हंसः इति स्मृतः कृत-कृत्याः प्रजाः जात्या तस्मात् कृत-युगम् विदुः

वेद: प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् ।
उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषा: ॥ ११ ॥

वेदः प्रणवः एव अग्रे धर्मः अहम् वृष-रूप-धृक् उपासते तपः-निष्ठाः हंसम् माम् मुक्त किल्बिषाः

त्रेतामुखे महाभाग प्राणान्मे हृदयात्‍त्रयी ।
विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मख: ॥ १२ ॥

त्रेता-मुखे महा-भाग प्राणात् मे हृदयात् त्रयी विद्या प्रादुरभूत् तस्याः अहम् आसम् त्रि-वृत् मखः

विप्रक्षत्रियविट्‍शूद्रा मुखबाहूरुपादजा: ।
वैराजात् पुरुषाज्जाता य आत्माचारलक्षणा: ॥ १३ ॥

विप्र क्षत्रिय विट् शूद्राः मुख बाहु ऊरु पाद जाः वैराजात् पुरुषात् जाताः ये आत्म आचार लक्षणाः

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
वक्ष:स्थलाद्वनेवास: संन्यास: शिरसि स्थित: ॥ १४ ॥

गृह-आश्रमः जघनतः ब्रह्मचर्यम् हृदः मम वक्षः-स्थलात् वने वासः सन्न्यासः शिरसि स्थितः

वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणी: ।
आसन् प्रकृतयो नृणां नीचैर्नीचोत्तमोत्तमा: ॥ १५ ॥

वर्णानाम् आश्रमाणाम् च जन्म भूमि अनुसारिणीः आसन् प्रकृतयः नॄणाम् नीचैः नीच उत्तम उत्तमाः

शमो दमस्तप: शौचं सन्तोष: क्षान्तिरार्जवम् ।
मद्भ‍‍क्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमा: ॥ १६ ॥

शमः दमः तपः शौचम् सन्तोषः क्षान्तिः आर्जवम् मत्-भक्तिः च दया सत्यम् ब्रह्म प्रकृतयः तु इमाः

तेजो बलं धृति: शौर्यं तितिक्षौदार्यमुद्यम: ।
स्थैर्यं ब्रह्मण्यमैश्वर्यं क्षत्रप्रकृतयस्त्विमा: ॥ १७ ॥

तेजः बलम् धृतिः शौर्यम् तितिक्षा औदार्यम् उद्यमः स्थैर्यम् ब्रह्मण्यम् ऐश्वर्यम् क्षत्र प्रकृतयः तु इमाः

आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् ।
अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमा: ॥ १८ ॥

आस्तिक्यम् दान-निष्ठा च अदम्भः ब्रह्म-सेवनम् अतुष्टिः अर्थ उपचयैः वैश्य प्रकृतयः तु इमाः

शुश्रूषणं द्विजगवां देवानां चाप्यमायया ।
तत्र लब्धेन सन्तोष: शूद्रप्रकृतयस्त्विमा: ॥ १९ ॥

शुश्रूषणम् द्विज गवाम् देवानाम् च अपि अमायया तत्र लब्धेन सन्तोषः शूद्र प्रकृतयः तु इमाः

अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रह: ।
काम: क्रोधश्च तर्षश्च स भावोऽन्त्यावसायिनाम् ॥ २० ॥

अशौचम् अनृतम् स्तेयम् नास्तिक्यम् शुष्क-विग्रहः कामः क्रोधः च तर्षः च सः भावः अन्त्य अवसायिनाम्

अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।
भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिक: ॥ २१ ॥

अहिंसा सत्यम् अस्तेयम् अ-काम-क्रोध-लोभता भूत प्रिय हित ईहा च धर्मः अयम् सार्व-वर्णिकः

द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विज: ।
वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूत: ॥ २२ ॥

द्वितीयम् प्राप्य आनुपूर्व्यात् जन्म उपनयनम् द्विजः वसन् गुरुकुले दान्तः ब्रह्म अधीयीत च आहूतः

मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् ।
जटिलोऽधौतदद्वासोऽरक्तपीठ: कुशान् दधत् ॥ २३ ॥

मेखला अजिन दण्ड अक्ष ब्रह्म-सूत्र कमण्डलून् जटिलः अधौत दत्-वासः अरक्त-पीठः कुशान् दधत्

स्‍नानभोजनहोमेषु जपोच्चारे च वाग्यत: ।
न च्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि ॥ २४ ॥

स्नान भोजन होमेषु जप उच्चारे च वाक्-यतः न छिन्द्यात् नख रोमाणि कक्ष उपस्थ गतानि अपि

रेतो नावकिरेज्जातु ब्रह्मव्रतधर: स्वयम् ।
अवकीर्णेऽवगाह्याप्सु यतासुस्‍त्रिपदां जपेत् ॥ २५ ॥

रेतः न अवकिरेत् जातु ब्रह्म-व्रत-धरः स्वयम् अवकीर्णे अवगाह्य अप्सु यत-असुः त्रि-पदाम् जपेत्

अग्‍न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ्शुचि: ।
समाहित उपासीत सन्ध्ये द्वे यतवाग् जपन् ॥ २६ ॥

अग्नि अर्क आचार्य गो विप्र गुरु वृद्ध सुरान् शुचिः समाहितः उपासीत सन्ध्ये द्वे यत-वाक् जपन्

आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरु: ॥ २७ ॥

आचार्यम् माम् विजानीयात् न अवमन्येत कर्हिचित् न मर्त्य-बुद्ध्या असूयेत सर्व-देव मयः गुरुः

११.१८

श्रीभगवानुवाच
वनं विविक्षु: पुत्रेषु भार्यां न्यस्य सहैव वा ।
वन एव वसेच्छान्तस्तृतीयं भागमायुष: ॥ १ ॥

श्री-भगवान् उवाच वनम् विविक्षुः पुत्रेषु भार्याम् न्यस्य सह एव वा वने एव वसेत् शान्तः तृतीयम् भागम् आयुषः

कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासस्तृणपर्णाजिनानि वा ॥ २ ॥

कन्द मूल फलैः वन्यैः मेध्यैः वृत्तिम् प्रकल्पयेत् वसीत वल्कलम् वासः तृण पर्ण अजिनानि वा

केशरोमनखश्मश्रुमलानि बिभृयाद् दत: ।
न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशय: ॥ ३ ॥

केश रोम नख श्मश्रु मलानि बिभृयात् दतः न धावेत् अप्सु मज्जेत त्रि-कालम् स्थण्डिले शयः

ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड्‍जले ।
आकण्ठमग्न: शिशिर एवंवृत्तस्तपश्चरेत् ॥ ४ ॥

ग्रीष्मे तप्येत पञ्च-अग्नीन् वर्षासु आसार षाट् जले आ-कण्ठ मग्नः शिशिरे एवम् वृत्तः तपः चरेत्

अग्निपक्वं समश्न‍ीयात् कालपक्व‍मथापि वा ।
उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५ ॥

अग्नि पक्वम् समश्नीयात् काल पक्वम् अथ अपि वा उलूखल अश्म कुट्टः वा दन्त उलूखलः एव वा

स्वयं सञ्चिनुयात् सर्वमात्मनो वृत्तिकारणम् ।
देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥ ६ ॥

स्वयम् सञ्चिनुयात् सर्वम् आत्मनः वृत्ति कारणम् देश काल बल अभिज्ञः न आददीत अन्यदा आहृतम्

वन्यैश्चरुपुरोडाशैर्निर्वपेत् कालचोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७ ॥

वन्यैः चरु पुरोडाशैः निर्वपेत् काल-चोदितान् न तु श्रौतेन पशुना माम् यजेत वन-आश्रमी

अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् ।
चातुर्मास्यानि च मुनेराम्नातानि च नैगमै: ॥ ८ ॥

अग्नि-होत्रम् च दर्शः च पौर्ण-मासः च पूर्व-वत् चातुः-मास्यानि च मुनेः आम्नातानि च नैगमैः

एवं चीर्णेन तपसा मुनिर्धमनिसन्तत: ।
मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९ ॥

एवम् चीर्णेन तपसा मुनिः धमनि-सन्ततः माम् तपः-मयम् आराध्य र्षि-लोकात् उपैति माम्

यस्त्वेतत् कृच्छ्रतश्चीर्णं तपो नि:श्रेयसं महत् ।
कामायाल्पीयसे युञ्ज्याद् बालिश: कोऽपरस्तत: ॥ १० ॥

यः तु एतत् कृच्छ्रतः चीर्णम् तपः निःश्रेयसम् महत् कामाय अल्पीयसे युञ्ज्यात् बालिशः कः अपरः ततः

यदासौ नियमेऽकल्पो जरया जातवेपथु: ।
आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११ ॥

यदा असौ नियमे अकल्पः जरया जात वेपथुः आत्मनि अग्नीन् समारोप्य मत्-चित्तः अग्निम् समाविशेत्

यदा कर्मविपाकेषु लोकेषु निरयात्मसु ।
विरागो जायते सम्यङ् न्यस्ताग्नि: प्रव्रजेत्तत: ॥ १२ ॥

यदा कर्म विपाकेषु लोकेषु निरय-आत्मसु विरागः जायते सम्यक् न्यस्त अग्निः प्रव्रजेत् ततः

इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे ।
अग्नीन् स्वप्राण आवेश्य निरपेक्ष: परिव्रजेत् ॥ १३ ॥

इष्ट्वा यथा उपदेशम् माम् दत्त्वा सर्व-स्वम् ऋत्विजे अग्नीन् स्व-प्राणे आवेश्य निरपेक्षः परिव्रजेत्

विप्रस्य वै सन्न्यसतो देवा दारादिरूपिण: ।
विघ्नान् कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥

विप्रस्य वै सन्न्यसतः देवाः दार-आदि-रूपिणः विघ्नान् कुर्वन्ति अयम् हि अस्मान् आक्रम्य समियात् परम्

बिभृयाच्चेन्मुनिर्वास: कौपीनाच्छादनं परम् ।
त्यक्तं न दण्डपात्राभ्यामन्यत् किञ्चिदनापदि ॥ १५ ॥

बिभृयात् चेत् मुनिः वासः कौपीन आच्छादनम् परम् त्यक्तम् न दण्ड पात्राभ्याम् अन्यत् किञ्चित् अनापदि

द‍ृष्टिपूतं न्यसेत् पादं वस्‍त्रपूतं पिबेज्जलम् ।
सत्यपूतां वदेद् वाचं मन:पूतं समाचरेत् ॥ १६ ॥

दृष्टि पूतम् न्यसेत् पादम् वस्त्र पूतम् पिबेत् जलम् सत्य पूताम् वदेत् वाचम् मनः पूतम् समाचरेत्

मौनानीहानिलायामा दण्डा वाग्देहचेतसाम् ।
न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यति: ॥ १७ ॥

मौन अनीह अनिल-आयामाः दण्डाः वाक् देह चेतसाम् न हि एते यस्य सन्ति अङ्ग वेणुभिः न भवेत् यतिः

भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश्चरेत् ।
सप्तागारानसङ्‍क्लृप्तांस्तुष्येल्ल‍ब्धेन तावता ॥ १८ ॥

भिक्षाम् चतुर्षु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् सप्त आगारान् असङ्कॢप्तान् तुष्येत् लब्धेन तावता

बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यत: ।
विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९ ॥

बहिः जल आशयम् गत्वा तत्र उपस्पृश्य वाक्-यतः विभज्य पावितम् शेषम् भुञ्जीत अशेषम् आहृतम्

एकश्चरेन्महीमेतां नि:सङ्ग: संयतेन्द्रिय: ।
आत्मक्रीड आत्मरत आत्मवान् समदर्शन: ॥ २० ॥

एकः चरेत् महीम् एताम् निःसङ्गः संयत-इन्द्रियः आत्म-क्रीडः आत्म-रतः आत्म-वान् सम-दर्शनः

विविक्तक्षेमशरणो मद्भ‍ावविमलाशय: ।
आत्मानं चिन्तयेदेकमभेदेन मया मुनि: ॥ २१ ॥

विविक्त क्षेम शरणः मत् भाव विमल आशयः आत्मानम् चिन्तयेत् एकम् अभेदेन मया मुनिः

अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।
बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयम: ॥ २२ ॥

अन्वीक्षेत आत्मनः बन्धम् मोक्षम् च ज्ञान निष्ठया बन्धः इन्द्रिय विक्षेपः मोक्षः एषाम् च संयमः

तस्मान्नियम्य षड्‍वर्गं मद्भ‍ावेन चरेन्मुनि: ।
विरक्त: क्षुद्रकामेभ्यो लब्ध्वात्मनि सुखं महत् ॥ २३ ॥

तस्मात् नियम्य षट्-वर्गम् मत्-भावेन चरेत् मुनिः विरक्तः क्षुद्र कामेभ्यः लब्ध्वा आत्मनि सुखम् महत्

पुरग्रामव्रजान्सार्थान् भिक्षार्थं प्रविशंश्चरेत् ।
पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥ २४ ॥

पुर ग्राम व्रजान् स-अर्थान् भिक्षा-अर्थम् प्रविशन् चरेत् पुण्य देश सरित् शैल वन आश्रम-वतीम् महीम्

वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत् ।
संसिध्यत्याश्वसम्मोह: शुद्धसत्त्व: शिलान्धसा ॥ २५ ॥

वानप्रस्थ-आश्रम पदेषु अभीक्ष्णम् भैक्ष्यम् आचरेत् संसिध्यति आशु असम्मोहः शुद्ध सत्त्वः शील अन्धसा

नैतद् वस्तुतया पश्येद् द‍ृश्यमानं विनश्यति ।
असक्तचित्तो विरमेदिहामुत्र चिकीर्षितात् ॥ २६ ॥

न एतत् वस्तुतया पश्येत् दृश्यमानम् विनश्यति असक्त चित्तः विरमेत् इह अमुत्र चिकीर्षितात्

यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम् ।
सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥

यत् एतत् आत्मनि जगत् मनः वाक् प्राण संहतम् सर्वम् माया इति तर्केण स्व-स्थः त्यक्त्वा न तत् स्मरेत्

ज्ञाननिष्ठो विरक्तो वा मद्भ‍क्तो वानपेक्षक: ।
सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचर: ॥ २८ ॥

ज्ञान निष्ठः विरक्तः वा मत्-भक्तः वा अनपेक्षकः स-लिङ्गान् आश्रमान् त्यक्त्वा चरेत् अविधि-गोचरः

बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् ।
वदेदुन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९ ॥

बुधः बालक-वत् क्रीडेत् कुशलः जड-वत् चरेत् वदेत् उन्मत्त-वत् विद्वान् गो-चर्याम् नैगमः चरेत्

वेदवादरतो न स्यान्न पाषण्डी न हैतुक: ।
शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३० ॥

वेद-वाद रतः न स्यात् न पाषण्डी न हैतुकः शुष्क-वाद विवादे न कञ्चित् पक्षम् समाश्रयेत्

नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन्न तु ।
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
देहमुद्दिश्य पशुवद् वैरं कुर्यान्न केनचित् ॥ ३१ ॥

न उद्विजेत जनात् धीरः जनम् च उद्वेजयेत् न तु अति-वादान् तितिक्षेत न अवमन्येत कञ्चन देहम् उद्दिश्य पशु-वत् वैरम् कुर्यात् न केनचित्

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थित: ।
यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२ ॥

एकः एव परः हि आत्मा भूतेषु आत्मनि अवस्थितः यथा इन्दुः उद पात्रेषु भूतानि एक आत्मकानि च

अलब्ध्वा न विषीदेत काले कालेऽशनं क्व‍‍चित् ।
लब्ध्वा न हृष्येद् धृतिमानुभयं दैवतन्त्रितम् ॥ ३३ ॥

अलब्ध्वा न विषीदेत काले काले अशनम् क्वचित् लब्ध्वा न हृष्येत् धृति-मान् उभयम् दैव तन्त्रितम्

आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ ३४ ॥

आहार अर्थम् समीहेत युक्तम् तत् प्राण धारणम् तत्त्वम् विमृश्यते तेन तत् विज्ञाय विमुच्यते

यद‍ृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् ।
तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनि: ॥ ३५ ॥

यदृच्छया उपपन्न अन्नम् अद्यात् श्रेष्ठम् उत अपरम् तथा वासः तथा शय्याम् प्राप्तम् प्राप्तम् भजेत् मुनिः

शौचमाचमनं स्‍नानं न तु चोदनया चरेत् ।
अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वर: ॥ ३६ ॥

शौचम् आचमनम् स्नानम् न तु चोदनया चरेत् अन्यान् च नियमान् ज्ञानी यथा अहम् लीलया ईश्वरः

न हि तस्य विकल्पाख्या या च मद्वीक्षया हता ।
आदेहान्तात् क्व‍‍चित् ख्यातिस्तत: सम्पद्यते मया ॥ ३७ ॥

न हि तस्य विकल्प आख्या या च मत् वीक्षया हता आ देह अन्तात् क्वचित् ख्यातिः ततः सम्पद्यते मया

दु:खोदर्केषु कामेषु जातनिर्वेद आत्मवान् ।
अजिज्ञासितमद्धर्मो मुनिं गुरुमुपव्रजेत् ॥ ३८ ॥

दुःख उदर्केषु कामेषु जात निर्वेदः आत्म-वान् अजिज्ञासित मत् धर्मः मुनिम् गुरुम् उपव्रजेत्

तावत् परिचरेद् भक्त: श्रद्धावाननसूयक: ।
यावद् ब्रह्म विजानीयान्मामेव गुरुमाद‍ृत: ॥ ३९ ॥

तावत् परिचरेत् भक्तः श्रद्धा-वान् अनसूयकः यावत् ब्रह्म विजानीयात् माम् एव गुरुम् आदृतः

यस्त्वसंयतषड्‍वर्ग: प्रचण्डेन्द्रियसारथि: ।
ज्ञानवैराग्यरहितस्‍त्रिदण्डमुपजीवति ॥ ४० ॥
सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा ।
अविपक्व‍कषायोऽस्मादमुष्माच्च विहीयते ॥ ४१ ॥

यः तु असंयत षट् वर्गः प्रचण्ड इन्द्रिय सारथिः ज्ञान वैराग्य रहितः त्रिदण्डम् उपजीवति सुरान् आत्मानम् आत्म-स्थम् निह्नुते माम् च धर्म-हा अविपक्व कषायः अस्मात् अमुष्मात् च विहीयते

भिक्षोर्धर्म: शमोऽहिंसा तप ईक्षा वनौकस: ।
गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२ ॥

भिक्षोः धर्मः शमः अहिंसा तपः ईक्षा वन ओकसः गृहिणः भूत-रक्षा इज्या द्वि-जस्य आचार्य सेवनम्

ब्रह्मचर्यं तप: शौचं सन्तोषो भूतसौहृदम् ।
गृहस्थस्याप्यृतौ गन्तु: सर्वेषां मदुपासनम् ॥ ४३ ॥

ब्रह्म-चर्यम् तपः शौचम् सन्तोषः भूत सौहृदम् गृहस्थस्य अपि ऋतौ गन्तुः सर्वेषाम् मत् उपासनम्

इति मां य: स्वधर्मेण भजेन् नित्यमनन्यभाक् ।
सर्वभूतेषु मद्भ‍ावो मद्भ‍‍क्तिं विन्दते द‍ृढाम् ॥ ४४ ॥

इति माम् यः स्व-धर्मेण भजेत् नित्यम् अनन्य-भाक् सर्व-भूतेषु मत् भावः मत्-भक्तिम् विन्दते दृढाम्

भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् ।
सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति स: ॥ ४५ ॥

भक्त्या उद्धव अनपायिन्या सर्व लोक महा-ईश्वरम् सर्व उत्पत्ति अप्ययम् ब्रह्म कारणम् मा उपयाति सः

इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गति: ।
ज्ञानविज्ञानसम्पन्नो नचिरात् समुपैति माम् ॥ ४६ ॥

इति स्व-धर्म निर्णिक्त सत्त्वः निर्ज्ञात मत्-गतिः ज्ञान विज्ञान सम्पन्नः न चिरात् समुपैति माम्

वर्णाश्रमवतां धर्म एष आचारलक्षण: ।
स एव मद्भ‍‍क्तियुतो नि:श्रेयसकर: पर: ॥ ४७ ॥

वर्णाश्रम-वताम् धर्मः एषः आचार लक्षणः सः एव मत्-भक्ति युतः निःश्रेयस करः परः

एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् ।
यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ ४८ ॥

एतत् ते अभिहितम् साधो भवान् पृच्छति यत् च माम् यथा स्व-धर्म संयुक्तः भक्तः माम् समियात् परम्

११.१९

श्रीभगवानुवाच
यो विद्याश्रुतसम्पन्न: आत्मवान् नानुमानिक: ।
मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १ ॥

श्री-भगवान् उवाच यः विद्या श्रुत सम्पन्नः आत्म-वान् न आनुमानिकः माया मात्रम् इदम् ज्ञात्वा ज्ञानम् च मयि सन्न्यसेत्

ज्ञानिनस्त्वहमेवेष्ट: स्वार्थो हेतुश्च सम्मत: ।
स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मद‍ृते प्रिय: ॥ २ ॥

ज्ञानिनः तु अहम् एव इष्टः स्व-अर्थः हेतुः च सम्मतः स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मत् र्ते प्रियः

ज्ञानविज्ञानसंसिद्धा: पदं श्रेष्ठं विदुर्मम ।
ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ ३ ॥

ज्ञान विज्ञान संसिद्धाः पदम् श्रेष्ठम् विदुः मम ज्ञानी प्रिय-तमः अतः मे ज्ञानेन असौ बिभर्ति माम्

तपस्तीर्थं जपो दानं पवित्राणीतराणि च ।
नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४ ॥

तपः तीर्थम् जपः दानम् पवित्राणि इतराणि च न अलम् कुर्वन्ति ताम् सिद्धिम् या ज्ञान कलया कृता

तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ।
ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावत: ॥ ५ ॥

तस्मात् ज्ञानेन सहितम् ज्ञात्वा स्व-आत्मानम् उद्धव ज्ञान विज्ञान सम्पन्नः भज माम् भक्ति भावतः

ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि ।
सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ॥ ६ ॥

ज्ञान विज्ञान यज्ञेन माम् इष्ट्वा आत्मानम् आत्मनि सर्व यज्ञ पतिम् माम् वै संसिद्धिम् मुनयः अगमन्

त्वय्युद्धवाश्रयति यस्‍त्रिविधो विकारो
मायान्तरापतति नाद्यपवर्गयोर्यत् ।
जन्मादयोऽस्य यदमी तव तस्य किं स्यु-
राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७ ॥

त्वयि उद्धव आश्रयति यः त्रि-विधः विकारः माया अन्तरा आपतति न आदि अपवर्गयोः यत् जन्म आदयः अस्य यत् अमी तव तस्य किम् स्युः आदि अन्तयोः यत् असतः अस्ति तत् एव मध्ये

श्रीउद्धव उवाच
ज्ञानं विशुद्धं विपुलं यथैत-
द्वैराग्यविज्ञानयुतं पुराणम् ।
आख्याहि विश्वेश्वर विश्वमूर्ते
त्वद्भ‍‍क्तियोगं च महद्विमृग्यम् ॥ ८ ॥

श्री-उद्धवः उवाच ज्ञानम् विशुद्धम् विपुलम् यथा एतत् वैरग्य विज्ञान युतम् पुराणम् आख्याहि विश्व-ईश्वर विश्व-मूर्ते त्वत् भक्ति-योगम् च महत् विमृग्यम्

तापत्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच्छरणं तवाङ्‍‍घ्रि-
द्वन्द्वातपत्रादमृताभिवर्षात् ॥ ९ ॥

ताप त्रयेण अभिहतस्य घोरे सन्तप्यमानस्य भव अध्वनि ईश पश्यामि न अन्यत् शरणम् तव अङ्घ्रि द्वन्द्व आतपत्रात् अमृत अभिवर्षात्

दष्टं जनं सम्पतितं बिलेऽस्मिन्
कालाहिना क्षुद्रसुखोरुतर्षम् ।
समुद्धरैनं कृपयापवर्ग्यै-
र्वचोभिरासिञ्च महानुभाव ॥ १० ॥

दष्टम् जनम् सम्पतितम् बिले अस्मिन् काल अहिना क्षुद्र सुख उरु तर्षम् समुद्धर एनम् कृपया आपवर्ग्यैः वचोभिः आसिञ्च महा-अनुभाव

श्रीभगवानुवाच
इत्थमेतत् पुरा राजा भीष्मं धर्मभृतां वरम् ।
अजातशत्रु: पप्रच्छ सर्वेषां नोऽनुश‍ृण्वताम् ॥ ११ ॥

श्री-भगवान् उवाच इत्थम् एतत् पुरा राजा भीष्मम् धर्म भृताम् वरम् अजात-शत्रुः पप्रच्छ सर्वेषाम् नः अनुशृण्वताम्

निवृत्ते भारते युद्धे सुहृन्निधनविह्वल: ।
श्रुत्वा धर्मान् बहून् पश्चान्मोक्षधर्मानपृच्छत ॥ १२ ॥

निवृत्ते भारते युद्धे सुहृत् निधन विह्वलः श्रुत्वा धर्मान् बहून् पश्चात् मोक्ष धर्मान् अपृच्छत

तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान् ।
ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपबृंहितान् ॥ १३ ॥

तान् अहम् ते अभिधास्यामि देव-व्रत मुखात् श्रुतान् ज्ञान वैराग्य विज्ञान श्रद्धा भक्ति उप-बृंहितान्

नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।
ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४ ॥

नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै ईक्षेत अथ एकम् अपि एषु तत् ज्ञानम् मम निश्चितम्

एतदेव हि विज्ञानं न तथैकेन येन यत् ।
स्थित्युत्पत्त्यप्ययान् पश्येद् भावानां त्रिगुणात्मनाम् ॥ १५ ॥

एतत् एव हि विज्ञानम् न तथा एकेन येन यत् स्थिति उत्पत्ति अप्ययान् पश्येत् भावानाम् त्रि-गुण आत्मनाम्

आदावन्ते च मध्ये च सृज्यात् सृज्यं यदन्वियात् ।
पुनस्तत्प्रतिसङ्‍क्रामे यच्छिष्येत तदेव सत् ॥ १६ ॥

आदौ अन्ते च मध्ये च सृज्यात् सृज्यम् यत् अन्वियात् पुनः तत् प्रतिसङ्क्रामे यत् शिष्येत तत् एव सत्

श्रुति: प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।
प्रमाणेष्वनवस्थानाद् विकल्पात् स विरज्यते ॥ १७ ॥

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानम् चतुष्टयम् प्रमानेषु अनवस्थानात् विकल्पात् सः विरज्यते

कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम् ।
विपश्चिन्नश्वरं पश्येदद‍ृष्टमपि द‍ृष्टवत् ॥ १८ ॥

कर्मणाम् परिणामित्वात् आ विरिञ्च्यात् अमङ्गलम् विपश्चित् नश्वरम् पश्येत् अदृष्टम् अपि दृष्ट-वत्

भक्तियोग: पुरैवोक्त: प्रीयमाणाय तेऽनघ ।
पुनश्च कथयिष्यामि मद्भ‍क्ते: कारणं परं ॥ १९ ॥

भक्ति-योगः पुरा एव उक्तः प्रीयमाणाय ते अनघ पुनः च कथयिष्यामि मत् भक्तेः कारणम् परम्

श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभि: स्तवनं मम ॥ २० ॥
आदर: परिचर्यायां सर्वाङ्गैरभिवन्दनम् ।
मद्भ‍क्तपूजाभ्यधिका सर्वभूतेषु मन्मति: ॥ २१ ॥
मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् ।
मय्यर्पणं च मनस: सर्वकामविवर्जनम् ॥ २२ ॥
मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मदर्थं यद् व्रतं तप: ॥ २३ ॥
एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् ।
मयि सञ्जायते भक्ति: कोऽन्योऽर्थोऽस्यावशिष्यते ॥ २४ ॥

श्रद्धा अमृत कथायाम् मे शश्वत् मत् अनुकीर्तनम् परिनिष्ठा च पूजायाम् स्तुतिभिः स्तवनम् मम आदरः परिचर्यायाम् सर्व-अङ्गैः अभिवन्दनम् मत् भक्त पूजा अभ्यधिका सर्व-भूतेषु मत् मतिः मत्-अर्थेषु अङ्ग-चेष्टा च वचसा मत्-गुण ईरणम् मयि अर्पणम् च मनसः सर्व-काम विवर्जनम् मत्-अर्थे अर्थ परित्यागः भोगस्य च सुखस्य च इष्टम् दत्तम् हुतम् जप्तम् मत्-अर्थम् यत् व्रतम् तपः एवम् धर्मैः मनुष्यानाम् उद्धव आत्म-निवेदिनाम् मयि सञ्जायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते

यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् ।
धर्मं ज्ञानं सवैराग्यमैश्वर्यं चाभिपद्यते ॥ २५ ॥

यदा आत्मनि अर्पितम् चित्तम् शान्तम् सत्त्व उपबृंहितम् धर्मम् ज्ञानम् सः वैराग्यम् ऐश्वर्यम् च अभिपद्यते

यदर्पितं तद् विकल्पे इन्द्रियै: परिधावति ।
रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६ ॥

यत् अर्पितम् तत् विकल्पे इन्द्रियैः परिधावति रजः-वलम् च असत् निष्ठम् चित्तम् विद्धि विपर्ययम्

धर्मो मद्भ‍‍क्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।
गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादय: ॥ २७ ॥

धर्मः मत् भक्ति कृत् प्रोक्तः ज्ञानम् च ऐकात्म्य दर्शनम् गुणेषु असङ्गः वैराग्यम् ऐश्वर्यम् च अणिमा आदयः

श्रीउद्धव उवाच
यम: कतिविध: प्रोक्तो नियमो वारिकर्षण ।
क: शम: को दम: कृष्ण का तितिक्षा धृति: प्रभो ॥ २८ ॥
किं दानं किं तप: शौर्यं किम् सत्यमृतमुच्यते ।
कस्त्याग: किं धनं चेष्टं को यज्ञ: का च दक्षिणा ॥ २९ ॥
पुंस: किं स्विद् बलं श्रीमन् भगो लाभश्च केशव ।
का विद्या ह्री: परा का श्री: किं सुखं दु:खमेव च ॥ ३० ॥
क: पण्डित: कश्च मूर्ख: क: पन्था उत्पथश्च क: ।
क: स्वर्गो नरक: क: स्वित् को बन्धुरुत किं गृहम् ॥ ३१ ॥
क आढ्य: को दरिद्रो वा कृपण: क: क ईश्वर: ।
एतान् प्रश्न‍ान् मम ब्रूहि विपरीतांश्च सत्पते ॥ ३२ ॥

श्री-उद्धवः उवाच यमः कति-विधः प्रोक्तः नियमः वा अरि-कर्षण कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो किम् दानम् किम् तपः शौर्यम् किम् सत्यम् ऋतम् उच्यते कः त्यागः किम् धनम् च इष्टम् कः यज्ञः का च दक्षिणा पुंसः किम् स्वित् बलम् श्री-मन् भगः लाभः च केशव का विद्या ह्रीः परा का श्रीः किम् सुखम् दुःखम् एव च कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः कः स्वर्गः नरकः कः स्वित् कः बन्धुः उत किम् गृहम् कः आढ्यः कः दरिद्रः वा कृपणः कः कः ईश्वरः एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्-पते

श्रीभगवानुवाच
अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चय: ।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ ३३ ॥
शौचं जपस्तपो होम: श्रद्धातिथ्यं मदर्चनम् ।
तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥ ३४ ॥
एते यमा: सनियमा उभयोर्द्वादश स्मृता: ।
पुंसामुपासितास्तात यथाकामं दुहन्ति हि ॥ ३५ ॥

श्री-भगवान् उवाच अहिंसा सत्यम् अस्तेयम् असङ्गः ह्रीः असञ्चयः आस्तिक्यम् ब्रह्मचर्यम् च मौनम् स्थैर्यम् क्षमा अभयम् शौचम् जपः तपः होमः श्रद्धा आतिथ्यम् मत्-अर्चनम् तीर्थ-अटनम् पर-अर्थ-ईहा तुष्टिः आचार्य-सेवनम् एते यमाः स-नियमाः उभयोः द्वादश स्मृताः पुंसाम् उपासिताः तात यथा-कामम् दुहन्ति हि

शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयम: ।
तितिक्षा दु:खसम्मर्षो जिह्वोपस्थजयो धृति: ॥ ३६ ॥
दण्डन्यास: परं दानं कामत्यागस्तप: स्मृतम् ।
स्वभावविजय: शौर्यं सत्यं च समदर्शनम् ॥ ३७ ॥
अन्यच्च सुनृता वाणी कविभि: परिकीर्तिता ।
कर्मस्वसङ्गम: शौचं त्याग: सन्न्यास उच्यते ॥ ३८ ॥
धर्म इष्टं धनं नृणां यज्ञोऽहं भगवत्तम: ।
दक्षिणा ज्ञानसन्देश: प्राणायाम: परं बलम् ॥ ३९ ॥

शमः मत् निष्ठता बुद्धेः दमः इन्द्रिय संयमः तितिक्षा दुःख सम्मर्षः जिह्वा उपस्थ जयः धृतिः दण्ड न्यासः परम् दानम् काम त्यागः तपः स्मृतम् स्वभाव विजयः शौर्यम् सत्यम् च सम-दर्शनम् अन्यत् च सु-नृता वाणी कविभिः परिकीर्तिता कर्मसु असङ्गमः शौचम् त्यागः सन्न्यासः उच्यते धर्मः इष्टम् धनम् नॄणाम् यज्ञः अहम् भगवत्-तमः दक्षिणा ज्ञान-सन्देशः प्राणायामः परम् बलम्

भगो म ऐश्वरो भावो लाभो मद्भ‍‍क्तिरुत्तम: ।
विद्यात्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ॥ ४० ॥
श्रीर्गुणा नैरपेक्ष्याद्या: सुखं दु:खसुखात्यय: ।
दु:खं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥ ४१ ॥
मूर्खो देहाद्यहंबुद्धि: पन्था मन्निगम: स्मृत: ।
उत्पथश्चित्तविक्षेप: स्वर्ग: सत्त्वगुणोदय: ॥ ४२ ॥
नरकस्तमउन्नाहो बन्धुर्गुरुरहं सखे ।
गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥ ४३ ॥
दरिद्रो यस्त्वसन्तुष्ट: कृपणो योऽजितेन्द्रिय: ।
गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्यय: ॥ ४४ ॥
एत उद्धव ते प्रश्न‍ा: सर्वे साधु निरूपिता: ।
किं वर्णितेन बहुना लक्षणं गुणदोषयो: ।
गुणदोषद‍ृशिर्दोषो गुणस्तूभयवर्जित: ॥ ४५ ॥

भगः मे ऐश्वरः भावः लाभः मत्-भक्तिः उत्तमः विद्या आत्मनि भिदा बाधः जुगुप्सा ह्रीः अकर्मसु श्रीः गुणाः नैरपेक्ष्य आद्याः सुखम् दुःख सुख अत्ययः दुःखम् काम सुख अपेक्षा पण्डितः बन्ध मोक्ष वित् मूर्खः देह आदि अहम्-बुद्धिः पन्थाः मत् निगमः स्मृतः उत्पथः चित्त विक्षेपः स्वर्गः सत्त्व-गुण उदयः नरकः तमः उन्नाहः बन्धुः गुरुः अहम् सखे गृहम् शरीरम् मानुष्यम् गुण आढ्यः हि आढ्यः उच्यते दरिद्रः यः तु असन्तुष्टः कृपणः यः अजित इन्द्रियः गुणेषु असक्त धीः ईशः गुण सङ्गः विपर्ययः एते उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः किम् वर्णितेन बहुना लक्षणम् गुण दोषयोः गुण-दोष दृशिः दोषः गुणः तु उभय वर्जितः

११.२०

श्रीउद्धव उवाच
विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते ।
अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १ ॥

श्री-उद्धवः उवाच विधिः च प्रतिषेधः च निगमः हि ईश्वरस्य ते अवेक्षते अरविण्ड-अक्ष गुणम् दोषम् च कर्मणाम्

वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् ।
द्रव्यदेशवय:कालान् स्वर्गं नरकमेव च ॥ २ ॥

वर्ण-आश्रम विकल्पम् च प्रतिलोम अनुलोम-जम् द्रव्य देश वयः कालान् स्वर्गम् नरकम् एव च

गुणदोषभिदाद‍ृष्टिमन्तरेण वचस्तव ।
नि:श्रेयसं कथं नृणां निषेधविधिलक्षणम् ॥ ३ ॥

गुण दोष भिदा दृष्टिम् अन्तरेण वचः तव निःश्रेयसम् कथम् नॄणाम् निषेध विधि लक्षणम्

पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर ।
श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४ ॥

पितृ देव मनुष्याणाम् वेदः चक्षुः तव ईश्वर श्रेयः तु अनुपलब्धे अर्थे साध्य-साधनयोः अपि

गुणदोषभिदाद‍ृष्टिर्निगमात्ते न हि स्वत: ।
निगमेनापवादश्च भिदाया इति ह भ्रम: ॥ ५ ॥

गुण दोष भिदा दृष्टिः निगमात् ते न हि स्वतः निगमेन अपवादः च भिदायाः इति ह भ्रमः

श्रीभगवानुवाच
योगास्‍त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥

श्री-भगवान् उवाच योगाः त्रयः मया प्रोक्ताः नॄणाम् श्रेयः विधित्सया ज्ञानम् कर्म च भक्तिः च न उपायः अन्यः अस्ति कुत्रचित्

निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।
तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ ७ ॥

निर्विण्णानाम् ज्ञान-योगः न्यासिनाम् इह कर्मसु तेषु अनिर्विण्ण चित्तानाम् कर्म-योगः तु कामिनाम्

यद‍ृच्छया मत्कथादौ जातश्रद्धस्तु य: पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिद: ॥ ८ ॥

यदृच्छया मत्-कथा-आदौ जात श्रद्धः तु यः पुमान् न निर्विण्णः न अति-सक्तः भक्ति-योगः अस्य सिद्धि-दः

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९ ॥

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता मत्-कथा श्रवण-आदौ वा श्रद्धा यावत् न जायते

स्वधर्मस्थो यजन् यज्ञैरनाशी:काम उद्धव ।
न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १० ॥

स्व-धर्म स्थः यजन् यज्ञैः अनाशीः-कामः उद्धव न याति स्वर्ग नरकौ यदि अन्यत् न समाचरेत्

अस्मिंल्ल‍ोके वर्तमान: स्वधर्मस्थोऽनघ: शुचि: ।
ज्ञानं विशुद्धमाप्नोति मद्भ‍‍क्तिं वा यद‍ृच्छया ॥ ११ ॥

अस्मिन् लोके वर्तमानः स्व-धर्म स्थः अनघः शुचिः ज्ञानम् विशुद्धम् आप्नोति मत् भक्तिम् वा यदृच्छया

स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा ।
साधकं ज्ञानभक्तिभ्यामुभयं तदसाधकम् ॥ १२ ॥

स्वर्गिणः अपि एतम् इच्छन्ति लोकम् निरयिणः तथा साधकम् ज्ञान-भक्तिभ्याम् उभयम् तत् असाधकम्

न नर: स्वर्गतिं काङ्‍क्षेन्नारकीं वा विचक्षण: ।
नेमं लोकं च काङ्‍क्षेत देहावेशात् प्रमाद्यति ॥ १३ ॥

न नरः स्वः-गतिम् काङ्क्षेत् नारकीम् वा विचक्षणः न इमम् लोकम् च काङ्क्षेत देह आवेशात् प्रमाद्यति

एतद् विद्वान् पुरा मृत्योरभवाय घटेत स: ।
अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४ ॥

एतत् विद्वान् पुरा मृत्योः अभवाय घटेत सः अप्रमत्तः इदम् ज्ञात्वा मर्त्यम् अपि अर्थ सिद्धि-दम्

छिद्यमानं यमैरेतै: कृतनीडं वनस्पतिम् ।
खग: स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पट: ॥ १५ ॥

छिद्यमानम् यमैः एतैः कृत-नीडम् वनस्पतिम् खगः स्व-केतम् उत्सृज्य क्षेमम् याति हि अलम्पटः

अहोरात्रैश्छिद्यमानं बुद्ध्वायुर्भयवेपथु: ।
मुक्तसङ्ग: परं बुद्ध्वा निरीह उपशाम्यति ॥ १६ ॥

अहः रात्रैः छिद्यमानम् बुद्ध्वा आयुः भय वेपथुः मुक्त-सङ्गः परम् बुद्ध्वा निरीहः उपशाम्यति

नृदेहमाद्यं सुलभं सुदुर्लभं
प्लवं सुकल्पं गुरुकर्णधारम् ।
मयानुकूलेन नभस्वतेरितं
पुमान् भवाब्धिं न तरेत् स आत्महा ॥ १७ ॥

नृ देहम् आद्यम् सु-लभम् सु-दुर्लभम् प्लवम् सु-कल्पम् गुरु कर्ण-धारम् मया अनुकूलेन नभस्वता ईरितम् पुमान् भव अब्धिम् न तरेत् सः आत्म-हा

यदारम्भेषु निर्विण्णो विरक्त: संयतेन्द्रिय: ।
अभ्यासेनात्मनो योगी धारयेदचलं मन: ॥ १८ ॥

यदा आरम्भेषु निर्विण्णः विरक्तः संयत इन्द्रियः अभ्यासेन आत्मनः योगी धारयेत् अचलम् मनः

धार्यमाणं मनो यर्हि भ्राम्यदश्वनवस्थितम् ।
अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९ ॥

धार्यमाणम् मनः यर्हि भ्राम्यत् आशु अनवस्थितम् अतन्द्रितः अनुरोधेन मार्गेण आत्म वशम् नयेत्

मनोगतिं न विसृजेज्जितप्राणो जितेन्द्रिय: ।
सत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २० ॥

मनः गतिम् न विसृजेत् जित-प्राणः जित-इन्द्रियः सत्त्व सम्पन्नया बुद्ध्या मनः आत्म-वशम् नयेत्

एष वै परमो योगो मनस: सङ्ग्रह: स्मृत: ।
हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहु: ॥ २१ ॥

एषः वै परमः योगः मनसः सङ्ग्रहः स्मृतः हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्य इव अर्वतः मुहुः

साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमत: ।
भवाप्ययावनुध्यायेन्मनो यावत् प्रसीदति ॥ २२ ॥

साङ्ख्येन सर्व भावानाम् प्रतिलोम अनुलोमतः भव अप्ययौ अनुध्यायेत् मनः यावत् प्रसीदति

निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिन: ।
मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ २३ ॥

निर्विण्णस्य विरक्तस्य पुरुषस्य उक्त-वेदिनः मनः त्यजति दौरात्म्यम् चिन्तितस्य अनुचिन्तया

यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया ।
ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मन: ॥ २४ ॥

यम-आदिभिः योग-पथैः आन्वीक्षिक्या च विद्यया मम अर्चा उपासनाभिः वा न अन्यैः योग्यम् स्मरेत् मनः

यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।
योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५ ॥

यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् योगेन एव दहेत् अंहः न अन्यत् तत्र कदाचन

स्वे स्वेऽधिकारे या निष्ठा स गुण: परिकीर्तित: ।
कर्मणां जात्यशुद्धानामनेन नियम: कृत: ।
गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६ ॥

स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः कर्मणाम् जाति अशुद्धानाम् अनेन नियमः कृतः गुण दोष विधानेन सङ्गानाम् त्याजन इच्छया

जातश्रद्धो मत्कथासु निर्विण्ण: सर्वकर्मसु ।
वेद दु:खात्मकान् कामान् परित्यागेऽप्यनीश्वर: ॥ २७ ॥
ततो भजेत मां प्रीत: श्रद्धालुर्दृढनिश्चय: ।
जुषमाणश्च तान् कामान् दु:खोदर्कांश्च गर्हयन् ॥ २८ ॥

जात श्रद्धः मत्-कथासु निर्विण्णः सर्व कर्मसु वेद दुःख आत्मकान् कामान् परित्यागे अपि अनीश्वरः ततः भजेत माम् प्रीतः श्रद्धालुः दृढ निश्चयः जुषमाणः च तान् कामान् दुःख उदर्कान् च गर्हयन्

प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुने: ।
कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९ ॥

प्रोक्तेन भक्ति-योगेन भजतः मा असकृत् मुनेः कामाः हृदय्याः नश्यन्ति सर्वे मयि हृदि स्थिते

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया: ।
क्षीयन्ते चास्य कर्माणि मयि द‍ृष्टेऽखिलात्मनि ॥ ३० ॥

भिद्यते हृदय ग्रन्थिः छिद्यन्ते सर्व संशयाः क्षीयन्ते च अस्य कर्माणि मयि दृष्टे अखिल-आत्मनि

तस्मान्मद्भ‍‍क्तियुक्तस्य योगिनो वै मदात्मन: ।
न ज्ञानं न च वैराग्यं प्राय: श्रेयो भवेदिह ॥ ३१ ॥

तस्मात् मत्-भक्ति-युक्तस्य योगिनः वै मत्-आत्मनः न ज्ञानम् न च वैराग्यम् प्रायः श्रेयः भवेत् इह

यत् कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ।
योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३२ ॥
सर्वं मद्भ‍‍क्तियोगेन मद्भ‍क्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३३ ॥

यत् कर्मभिः यत् तपसा ज्ञान वैराग्यतः च यत् योगेन दान धर्मेण श्रेयोभिः इतरैः अपि सर्वम् मत्-भक्ति-योगेन मत्-भक्तः लभते अञ्जसा स्वर्ग अपवर्गम् मत्-धाम कथञ्चित् यदि वाञ्छति

न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम ।
वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३४ ॥

न किञ्चित् साधवः धीराः भक्ताः हि एकान्तिनः मम वाञ्छन्ति अपि मया दत्तम् कैवल्यम् अपुनः-भवम्

नैरपेक्ष्यं परं प्राहुर्नि:श्रेयसमनल्पकम् ।
तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३५ ॥

नैरपेक्ष्यम् परम् प्राहुः निःश्रेयसम् अनल्पकम् तस्मात् निराशिषः भक्तिः निरपेक्षस्य मे भवेत्

न मय्येकान्तभक्तानां गुणदोषोद्भ‍वा गुणा: ।
साधूनां समचित्तानां बुद्धे: परमुपेयुषाम् ॥ ३६ ॥

न मयि एक-अन्त भक्तानाम् गुण दोष उद्भवाः गुणाः साधूनाम् सम-चित्तानाम् बुद्धेः परम् उपेयुषाम्

एवमेतान् मया दिष्टाननुतिष्ठन्ति मे पथ: ।
क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदु: ॥ ३७ ॥

एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः क्षेमम् विन्दन्ति मत्-स्थानम् यत् ब्रह्म परमम् विदुः

११.२१

श्रीभगवानुवाच
य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् ।
क्षुद्रान् कामांश्चलै: प्राणैर्जुषन्त: संसरन्ति ते ॥ १ ॥

श्री-भगवान् उवाच ये एतान् मत्-पथः हित्वा भक्ति ज्ञान क्रिया आत्मकान् क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते

स्वे स्वेऽधिकारे या निष्ठा स गुण: परिकीर्तित: ।
विपर्ययस्तु दोष: स्यादुभयोरेष निश्चय: ॥ २ ॥

स्वे स्वे अधिकारे या निष्ठा सः गुणः परिकीर्तितः विपर्ययः तु दोषः स्यात् उभयोः एषः निश्चयः

शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ।
धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ ॥ ३ ॥

शुद्धि अशुद्धी विधीयेते समानेषु अपि वस्तुषु द्रव्यस्य विचिकित्सा अर्थम् गुण-दोषौ शुभ-अशुभौ धर्म-अर्थम् व्यवहार-अर्थम् यात्रा-अर्थम् इति च अनघ

दर्शितोऽयं मयाचारो धर्ममुद्वहतां धुरम् ॥ ४ ॥

दर्शितः अयम् मया आचारः धर्मम् उद्वहताम् धुरम्

भूम्यम्ब्वग्‍न्यनिलाकाशा भूतानां पञ्चधातव: ।
आब्रह्मस्थावरादीनां शारीरा आत्मसंयुता: ॥ ५ ॥

भूमि अम्बु अग्नि अनिल आकाशाः भूतानाम् पञ्च धातवः आ-ब्रह्म स्थावर-आदीनाम् शारीराः आत्म संयुताः

वेदेन नामरूपाणि विषमाणि समेष्वपि ।
धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६ ॥

वेदेन नाम रूपाणि विषमाणि समेषु अपि धातुषु उद्धव कल्प्यन्ते एतेषाम् स्व-अर्थ सिद्धये

देशकालादिभावानां वस्तूनां मम सत्तम ।
गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७ ॥

देश काल आदि भावानाम् वस्तूनाम् मम सत्-तम गुण-दोषौ विधीयेते नियम-अर्थम् हि कर्मणाम्

अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत् ।
कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणम् ॥ ८ ॥

अकृष्ण-सारः देशानाम् अब्रह्मण्यः अशुचिः भवेत् कृष्ण-सारः अपि असौवीर कीकट असंस्कृत ईरणम्

कर्मण्यो गुणवान् कालो द्रव्यत: स्वत एव वा ।
यतो निवर्तते कर्म स दोषोऽकर्मक: स्मृत: ॥ ९ ॥

कर्मण्यः गुणवान् कालः द्रव्यतः स्वतः एव वा यतः निवर्तते कर्म सः दोषः अकर्मकः स्मृतः

द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च ।
संस्कारेणाथ कालेन महत्वाल्पतयाथवा ॥ १० ॥

द्रव्यस्य शुद्धि अशुद्धी च द्रव्येण वचनेन च संस्कारेण अथ कालेन महत्व-अल्पतया अथ वा

शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने ।
अघं कुर्वन्ति हि यथा देशावस्थानुसारत: ॥ ११ ॥

शक्त्या अशक्त्या अथ वा बुद्ध्या समृद्ध्या च यत् आत्मने अघम् कुर्वन्ति हि यथा देश अवस्था अनुसारतः

धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् ।
कालवाय्वग्निमृत्तोयै: पार्थिवानां युतायुतै: ॥ १२ ॥

धान्य दारु अस्थि तन्तूनाम् रस तैजस चर्मणाम् काल वायु अग्नि मृत् तोयैः पार्थिवानाम् युत अयुतैः

अमेध्यलिप्तं यद् येन गन्धलेपं व्यपोहति ।
भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते ॥ १३ ॥

अमेध्य लिप्तम् यत् येन गन्ध लेपम् व्यपोहति भजते प्रकृतिम् तस्य तत् शौचम् तावत् इष्यते

स्‍नानदानतपोऽवस्थावीर्यसंस्कारकर्मभि: ।
मत्स्मृत्या चात्मन: शौचं शुद्ध: कर्माचरेद्‌द्विज: ॥ १४ ॥

स्नान दान तपः अवस्था वीर्य संस्कार कर्मभिः मत्-स्मृत्या च आत्मनः शौचम् शुद्धः कर्म आचरेत् द्विजः

मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम् ।
धर्म: सम्पद्यते षड्‌भिरधर्मस्तु विपर्यय: ॥ १५ ॥

मन्त्रस्य च परिज्ञानम् कर्म शुद्धिः मत्-अर्पणम् धर्मः सम्पद्यते षड्भिः अधर्मः तु विपर्ययः

क्व‍‍चिद् गुणोऽपि दोष: स्याद् दोषोऽपि विधिना गुण: ।
गुणदोषार्थनियमस्तद्भ‍िदामेव बाधते ॥ १६ ॥

क्वचित् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः गुण-दोष अर्थ नियमः तत् भिदाम् एव बाधते

समानकर्माचरणं पतितानां न पातकम् ।
औत्पत्तिको गुण: सङ्गो न शयान: पतत्यध: ॥ १७ ॥

समान कर्म आचरणम् पतितानाम् न पातकम् औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधः

यतो यतो निवर्तेत विमुच्येत ततस्तत: ।
एष धर्मो नृणां क्षेम: शोकमोहभयापह: ॥ १८ ॥

यतः यतः निवर्तेत विमुच्येत ततः ततः एषः धर्मः नृणाम् क्षेमः शोक मोह भय अपहः

विषयेषु गुणाध्यासात् पुंस: सङ्गस्ततो भवेत् ।
सङ्गात्तत्र भवेत् काम: कामादेव कलिर्नृणाम् ॥ १९ ॥

विषयेषु गुण-अध्यासात् पुंसः सङ्गः ततः भवेत् सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नृणाम्

कलेर्दुर्विषह: क्रोधस्तमस्तमनुवर्तते ।
तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् ॥ २० ॥

कलेः दुर्विषहः क्रोधः तमः तम् अनुवर्तते तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम्

तया विरहित: साधो जन्तु: शून्याय कल्पते ।
ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च ॥ २१ ॥

तया विरहितः साधो जन्तुः शून्याय कल्पते ततः अस्य स्व-अर्थ विभ्रंशः मूर्च्छितस्य मृतस्य च

विषयाभिनिवेशेन नात्मानं वेद नापरम् ।
वृक्षजीविकया जीवन् व्यर्थं भस्त्र‍ोव य: श्वसन् ॥ २२ ॥

विषय अभिनिवेशेन न आत्मानम् वेद न अपरम् वृक्ष जीवकया जीवन् व्यर्थम् भस्त्रा इव यः श्वसन्

फलश्रुतिरियं नृणां न श्रेयो रोचनं परम् ।
श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३ ॥

फल-श्रुतिः इयम् नॄणाम् न श्रेयः रोचनम् परम् श्रेयः विवक्षया प्रोक्तम् यथा भैषज्य रोचनम्

उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च ।
आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४ ॥

उत्पत्त्या एव हि कामेषु प्राणेषु स्व-जनेषु च आसक्त-मनसः मर्त्याः आत्मनः अनर्थ हेतुषु

न तानविदुष: स्वार्थं भ्राम्यतो वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुध: ॥ २५ ॥

नतान् अविदुषः स्व-अर्थम् भ्राम्यतः वृजिन अध्वनि कथम् युञ्ज्यात् पुनः तेषु तान् तमः विशतः बुधः

एवं व्यवसितं केचिदविज्ञाय कुबुद्धय: ।
फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि ॥ २६ ॥

एवम् व्यवसितम् केचित् अविज्ञाय कु-बुद्धयः फल-श्रुतिम् कुसुमिताम् न वेद-ज्ञाः वदन्ति हि

कामिन: कृपणा लुब्धा: पुष्पेषु फलबुद्धय: ।
अग्निमुग्धा धूमतान्ता: स्वं लोकं न विदन्ति ते ॥ २७ ॥

कामिनः कृपणाः लुब्धाः पुष्पेषु फल-बुद्धयः अग्नि मुग्धाः धूम-तान्ताः स्वम् लोकम् न विदन्ति ते

न ते मामङ्ग जानन्ति हृदिस्थं य इदं यत: ।
उक्थशस्‍‍‍‍‍त्रा ह्यसुतृपो यथा नीहारचक्षुष: ॥ २८ ॥

न ते माम् अङ्ग जानन्ति हृदि-स्थम् यः इदम् यतः उक्थ-शस्त्राः हि असु-तृपः यथा नीहार चक्षुषः

ते मे मतमविज्ञाय परोक्षं विषयात्मका: ।
हिंसायां यदि राग: स्याद् यज्ञ एव न चोदना ॥ २९ ॥
हिंसाविहारा ह्यालब्धै: पशुभि: स्वसुखेच्छया ।
यजन्ते देवता यज्ञै: पितृभूतपतीन् खला: ॥ ३० ॥

ते मे मतम् अविज्ञाय परोक्षम् विषय-आत्मकाः हिंसायाम् यदि रागः स्यात् यज्ञे एव न चोदना हिंसा-विहाराः हि आलब्धैः पशुभिः स्व-सुख इच्छया यजन्ते देवताः यज्ञैः पितृ भूत-पतीन् खलाः

स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम् ।
आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान् यथा वणिक् ॥ ३१ ॥

स्वप्न उपमम् अमुम् लोकम् असन्तम् श्रवण-प्रियम् आशिषः हृदि सङ्कल्प्य त्यजन्ति अर्थान् यथा वणिक्

रज:सत्त्वतमोनिष्ठा रज:सत्त्वतमोजुष: ।
उपासत इन्द्रमुख्यान् देवादीन् न यथैव माम् ॥ ३२ ॥

रजः सत्त्व तमः निष्ठाः रजः सत्त्व तमः जुषः उपासते इन्द्र-मुख्यान् देव-आदीन् न यथा एव माम्

इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि ।
तस्यान्त इह भूयास्म महाशाला महाकुला: ॥ ३३ ॥
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् ।
मानिनां चातिलुब्धानां मद्वार्तापि न रोचते ॥ ३४ ॥

इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि तस्य अन्ते इह भूयास्मः महा-शालाः महा-कुलाः एवम् पुष्पितया वाचा व्याक्षिप्त-मनसाम् नृणाम् मानिनाम् च अति-लुब्धानाम् मद्-वार्ता अपि न रोचते

वेदा ब्रह्मात्मविषयास्‍त्रिकाण्डविषया इमे ।
परोक्षवादा ऋषय: परोक्षं मम च प्रियम् ॥ ३५ ॥

वेदाः ब्रह्म-आत्म विषयाः त्रि-काण्ड-विषयाः इमे परोक्ष-वादाः ऋषयः परोक्षम् मम च प्रियम्

शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् ।
अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६ ॥

शब्द-ब्रह्म सु-दुर्बोधम् प्राण इन्द्रिय मनः मयम् अनन्त-पारम् गम्भीरम् दुर्विगाह्यम् समुद्र-वत्

मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना ।
भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७ ॥

मया उपबृंहितम् भूम्ना ब्रह्मणा अनन्त-शक्तिना भूतेषु घोष-रूपेण विसेषु ऊर्णा इव लक्ष्यते

यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् ।
आकाशाद् घोषवान् प्राणो मनसा स्पर्शरूपिणा ॥ ३८ ॥
छन्दोमयोऽमृतमय: सहस्रपदवीं प्रभु: ।
ओङ्काराद् व्यञ्जितस्पर्शस्वरोष्मान्त स्थभूषिताम् ॥ ३९ ॥
विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरै: ।
अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४० ॥

यथा ऊर्ण-नाभिः हृदयात् ऊर्णाम् उद्वमते मुखात् आकाशात् घोष-वान् प्राणः मनसा स्पर्श-रूपिणा छन्दः-मयः अमृत-मयः सहस्र-पदवीम् प्रभुः ओंकारात् व्यञ्जित स्पर्श स्वर उष्म अन्त-स्थ भूषिताम् विचित्र भाषा वितताम् छन्दोभिः चतुः-उत्तरैः अनन्त-पाराम् बृहतीम् सृजति आक्षिपते स्वयम्

गायत्र्युष्णिगनुष्टुप् च बृहती पङ्‌क्तिरेव च ।
त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्‍ट्यतिजगद् विराट् ॥ ४१ ॥

गायत्री उष्णिक् अनुष्टुप् च बृहती पङ्क्तिः एव च त्रिष्टुप् जगती अतिच्छन्दः हि अत्यष्टि-अतिजगत्-विराट्

किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
इत्यस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ ४२ ॥

किम् विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् इति अस्याः हृदयम् लोके न अन्यः मत् वेद कश्चन

मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् ।
एतावान् सर्ववेदार्थ: शब्द आस्थाय मां भिदाम् ।
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ ४३ ॥

माम् विधत्ते अभिधत्ते माम् विकल्प्य अपोह्यते तु अहम् एतावान् सर्व-वेद अर्थः शब्दः आस्थाय माम् भिदाम् माया-मात्रम् अनूद्य अन्ते प्रतिषिध्य प्रसीदति

११.२२

श्रीउद्धव उवाच
कति तत्त्वानि विश्वेश सङ्ख्यातान्यृषिभि: प्रभो ।
नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम ॥ १ ॥
केचित् षड्‌विंशतिं प्राहुरपरे पञ्चविंशतिम् ।
सप्तैके नव षट् केचिच्चत्वार्येकादशापरे ।
केचित् सप्तदश प्राहु: षोडशैके त्रयोदश ॥ २ ॥
एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया ।
गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि ॥ ३ ॥

श्री-उद्धवः उवाच कति तत्त्वानि विश्व-ईश सङ्ख्यातानि ऋषिभिः प्रभो नव एकादश पञ्च त्रीणि आत्थ त्वम् इह शुश्रुम केचित् षट्-विंशतिम् प्राहुः अपरे पञ्च-विंशतिम् सप्त एके नव षट् केचित् चत्वारि एकादश अपरे केचित् सप्तदश प्राहुः षोडश एके त्रयोदश एतावत्त्वम् हि सङ्ख्यानाम् ऋषयः यत्-विवक्षया गायन्ति पृथक् आयुः-मन् इदम् नः वक्तुम् अर्हसि

श्रीभगवानुवाच
युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा ।
मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४ ॥

श्री-भगवान् उवाच युक्तम् च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा मायाम् मदीयाम् उद्गृह्य वदताम् किम् नु दुर्घटम्

नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा ।
एवं विवदतां हेतुं शक्तयो मे दुरत्यया: ॥ ५ ॥

न एतत् एवम् यथा आत्थ त्वम् यत् अहम् वच्मि तत् तथा एवम् विवदताम् हेतुम् शक्तयः मे दुरत्ययाः

यासां व्यतिकरादासीद् विकल्पो वदतां पदम् ।
प्राप्ते शमदमेऽप्येति वादस्तमनुशाम्यति ॥ ६ ॥

यासाम् व्यतिकरात् आसीत् विकल्पः वदताम् पदम् प्राप्ते शम दमे अप्येति वादः तम् अनु शाम्यति

परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७ ॥

परस्पर अनुप्रवेशात् तत्त्वानाम् पुरुष-ऋषभ पौर्व अपर्य प्रसङ्ख्यानम् यथा वक्तुः विवक्षितम्

एकस्मिन्नपि द‍ृश्यन्ते प्रविष्टानीतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वश: ॥ ८ ॥

एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः

पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम् ।
यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥ ९ ॥

पौर्व अपर्यम् अतः अमीषाम् प्रसङ्ख्यानम् अभीप्सताम् यथा विविक्तम् यत्-वक्त्रम् गृह्णीमः युक्ति सम्भवात्

अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् ।
स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत् ॥ १० ॥

अनादि अविद्या युक्तस्य पुरुषस्य आत्म-वेदनम् स्वतः न सम्भवात् अन्यः तत्त्व-ज्ञः ज्ञान-दः भवेत्

पुरुषेश्व‍रयोरत्र न वैलक्षण्यमण्वपि ।
तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुण: ॥ ११ ॥

पुरुष ईश्वरयोः अत्र न वैलक्षण्यम् अणु अपि तत् अन्य कल्पना अपार्था ज्ञानम् च प्रकृतेः गुणः

प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणा: ।
सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतव: ॥ १२ ॥

प्रकृतिः गुण साम्यम् वै प्रकृतेः न आत्मनः गुणाः सत्त्वम् रजः तमः इति स्थिति उत्पत्ति अन्त हेतवः

सत्त्वं ज्ञानं रज: कर्म तमोऽज्ञानमिहोच्यते ।
गुणव्यतिकर: काल: स्वभाव: सूत्रमेव च ॥ १३ ॥

सत्त्वम् ज्ञानम् रजः कर्म तमः अज्ञानम् इह उच्यते गुण व्यतिकरः कालः स्वभावः सूत्रम् एव च

पुरुष: प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिल: ।
ज्योतिराप: क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४ ॥

पुरुषः प्रकृतिः व्यक्तम् अहङ्कारः नभः अनिलः ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव

श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तय: ।
वाक्पाण्युपस्थपाय्वङ्‍‍घ्रि: कर्माण्यङ्गोभयं मन: ॥ १५ ॥

श्रोत्रम् त्वक् दर्शनम् घ्राणः जिह्वा इति ज्ञान-शक्तयः वाक् पाणि उपस्थ पायु अङ्घ्रिः कर्माणि अङ्ग उभयम् मनः

शब्द: स्पर्शो रसो गन्धो रूपं चेत्यर्थजातय: ।
गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धय: ॥ १६ ॥

शब्दः स्पर्शः रसः गन्धः रूपम् च इति अर्थ जातयः गति उक्ति उत्सर्ग शिल्पानि कर्म-आयतन सिद्धयः

सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी ।
सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते ॥ १७ ॥

सर्ग आदौ प्रकृतिः हि अस्य कार्य कारण रूपिणी सत्त्व-आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते

व्यक्तादयो विकुर्वाणा धातव: पुरुषेक्षया ।
लब्धवीर्या: सृजन्त्यण्डं संहता: प्रकृतेर्बलात् ॥ १८ ॥

व्यक्त-आदयः विकुर्वाणाः धातवः पुरुष ईक्षया लब्ध वीर्याः सृजन्ति अण्डम् संहताः प्रकृतेः बलात्

सप्तैव धातव इति तत्रार्था: पञ्चखादय: ।
ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासव: ॥ १९ ॥

सप्त एव धातवः इति तत्र अर्थाः पञ्च ख-आदयः ज्ञानम् आत्मा उभय आधारः ततः देह इन्द्रिय असवः

षडित्यत्रापि भूतानि पञ्चषष्ठ: पर: पुमान् ।
तैर्युक्त आत्मसम्भूतै: सृष्ट्वेदं समपाविशत् ॥ २० ॥

षट् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान् तैः युक्तः आत्म सम्भूतैः सृष्ट्वा इदम् समुपाविशत्

चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मन: ।
जातानि तैरिदं जातं जन्मावयविन: खलु ॥ २१ ॥

चत्वारि एव इति तत्र अपि तेजः आपः अन्नम् आत्मनः जातानि तैः इदम् जातम् जन्म अवयविनः खलु

सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च ।
पञ्च पञ्चैकमनसा आत्मा सप्तदश: स्मृत: ॥ २२ ॥

सङ्ख्याने सप्तदशके भूत मात्र इन्द्रियाणि च पञ्च पञ्च एक-मनसा आत्मा सप्तदशः स्मृतः

तद्वत् षोडशसङ्ख्याने आत्मैव मन उच्यते ।
भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३ ॥

तद्वत् षोडश-सङ्ख्याने आत्मा एव मनः उच्यते भूत इन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदश

एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च ।
अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ ॥ २४ ॥

एकादशत्वे आत्मा असौ महा-भूत इन्द्रियाणि च अष्टौ प्रकृतयः च एव पुरुषः च नव इति अथ

इति नानाप्रसङ्ख्यानं तत्त्वानामृषिभि: कृतम् ।
सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम् ॥ २५ ॥

इति नाना प्रसङ्ख्यानम् तत्त्वानाम् ऋषिभिः कृतम् सर्वम् न्याय्यम् युक्ति-मत्त्वात् विदुषाम् किम् अशोभनम्

श्रीउद्धव उवाच
प्रकृति: पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ ।
अन्योन्यापाश्रयात् कृष्ण द‍ृश्यते न भिदा तयो: ।
प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथात्मनि ॥ २६ ॥

श्री-उद्धवः उवाच प्रकृतिः पुरुषः च उभौ यदि अपि आत्म विलक्षणौ अन्योन्य अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि

एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।
छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणै: ॥ २७ ॥

एवम् मे पुण्डरीक-अक्ष महान्तम् संशयम् हृदि छेत्तुम् अर्हसि सर्व-ज्ञ वचोभिः नय नैपुणैः

त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तित: ।
त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापर: ॥ २८ ॥

त्वत्तः ज्ञानम् हि जीवानाम् प्रमोषः ते अत्र शक्तितः त्वम् एव हि आत्म मायायाः गतिम् वेत्थ न च अपरः

श्रीभगवानुवाच
प्रकृति: पुरुषश्चेति विकल्प: पुरुषर्षभ ।
एष वैकारिक: सर्गो गुणव्यतिकरात्मक: ॥ २९ ॥

श्री-भगवान् उवाच प्रकृतिः पुरुषः च इति विकल्पः पुरुष-ऋषभ एषः वैकारिकः सर्गः गुण व्यतिकर आत्मकः

ममाङ्ग माया गुणमय्यनेकधा
विकल्पबुद्धीश्च गुणैर्विधत्ते ।
वैकारिकस्‍त्रिविधोऽध्यात्ममेक-
मथाधिदैवमधिभूतमन्यत् ॥ ३० ॥

मम अङ्ग माया गुण-मयी अनेकधा विकल्प बुद्धीः च गुणैः विधत्ते वैकारिकः त्रि-विधः अध्यात्मम् एकम् अथ अधिदैवम् अधिभूतम् अन्यत्

द‍ृग् रूपमार्कं वपुरत्र रन्ध्रे
परस्परं सिध्यति य: स्वत: खे ।
आत्मा यदेषामपरो य आद्य:
स्वयानुभूत्याखिलसिद्धसिद्धि: ॥ ३१ ॥

दृक् रूपम् आर्कम् वपुः अत्र रन्ध्रे परस्परम् सिध्यति यः स्वतः खे आत्मा यत् एषाम् अपरः यः आद्यः स्वया अनुभूत्या अखिल सिद्ध सिद्धिः

एवं त्वगादि श्रवणादि चक्षु- ।
र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३२ ॥

एवम् त्वक्-आदि श्रवण-आदि चक्षुः जिह्वा-अदि नास-आदि च चित्त-युक्तम्

योऽसौ गुणक्षोभकृतो विकार:
प्रधानमूलान्महत: प्रसूत: ।
अहं त्रिवृन्मोहविकल्पहेतु-
र्वैकारिकस्तामस ऐन्द्रियश्च ॥ ३३ ॥

यः असौ गुण क्षोभ कृतः विकारः प्रधान-मूलात् महतः प्रसूतः अहम् त्रि-वृत् मोह विकल्प हेतुः वैकारिकः तामसः ऐन्द्रियः च

आत्मा परिज्ञानमयो विवादो
ह्यस्तीति नास्तीति भिदार्थनिष्ठ: ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्त: परावृत्तधियां स्वलोकात् ॥ ३४ ॥

आत्म अपरिज्ञान-मयः विवादः हि अस्ति इति न अस्ति इति भिदा अर्थ-निष्ठः व्यर्थः अपि न एव उपरमेत पुंसाम् मत्तः परावृत्त धियाम् स्व-लोकात्

श्रीउद्धव उवाच
त्वत्त: परावृत्तधिय: स्वकृतै: कर्मभि: प्रभो ।
उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३५ ॥
तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभि: ।
न ह्येतत् प्रायशो लोके विद्वांस: सन्ति वञ्चिता: ॥ ३६ ॥

श्री-उद्धवः उवाच त्वत्तः परावृत्त धियः स्व-कृतैः कर्मभिः प्रभो उच्च-अवचान् यथा देहान् गृह्णन्ति विसृजन्ति च तत् मम आख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः न हि एतत् प्रायशः लोके विद्वांसः सन्ति वञ्चिताः

श्रीभगवानुवाच
मन: कर्ममयं नृणामिन्द्रियै: पञ्चभिर्युतम् ।
लोकाल्ल‍ोकं प्रयात्यन्य आत्मा तदनुवर्तते ॥ ३७ ॥

श्री-भगवान् उवाच मनः कर्म-मयम् नॄणाम् इन्द्रियैः पञ्चभिः युतम् लोकात् लोकम् प्रयाति अन्यः आत्मा तत् अनुवर्तते

ध्यायन् मनोऽनु विषयान् द‍ृष्टान् वानुश्रुतानथ ।
उद्यत् सीदत् कर्मतन्त्रं स्मृतिस्तदनु शाम्यति ॥ ३८ ॥

ध्यायत् मनः अनु विषयान् दृष्टान् वा अनुश्रुतान् अथ उद्यत् सीदत् कर्म-तन्त्रम् स्मृतिः तत् अनु शाम्यति

विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुन: ।
जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृति: ॥ ३९ ॥

विषय अभिनिवेशेन न आत्मानम् यत् स्मरेत् पुनः जन्तोः वै कस्यचित् हेतोः मृत्युः अत्यन्त विस्मृतिः

जन्म त्वात्मतया पुंस: सर्वभावेन भूरिद ।
विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथ: ॥ ४० ॥

जन्म तु आत्मतया पुंसः सर्व-भावेन भूरि-द विषय स्वी-कृतिम् प्राहुः यथा स्वप्न मनः-रथः

स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ ।
तत्र पूर्वमिवात्मानमपूर्वम् चानुपश्यति ॥ ४१ ॥

स्वप्नम् मनः-रथम् च इत्थम् प्राक्तनम् न स्मरति असौ तत्र पूर्वम् इव आत्मानम् अपूर्वम् च अनुपश्यति

इन्द्रियायनसृष्‍ट्येदं त्रैविध्यं भाति वस्तुनि ।
बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा ॥ ४२ ॥

इन्द्रिय-अयन सृष्ट्या इदम् त्रै-विध्यम् भाति वस्तुनि बहिः अन्तः भिदा हेतुः जनः असत्-जन कृत् यथा

नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च ।
कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न द‍ृश्यते ॥ ४३ ॥

नित्यदा हि अङ्ग भूतानि भवन्ति न भवन्ति च कालेन अलक्ष्य वेगेन सूक्ष्मत्वात् तत् न दृश्यते

यथार्चिषां स्रोतसां च फलानां वा वनस्पते: ।
तथैव सर्वभूतानां वयोऽवस्थादय: कृता: ॥ ४४ ॥

यथा अर्चिषाम् स्रोतसाम् च फलानाम् वा वनस्पतेः तथा एव सर्व-भूतानाम् वयः अवस्था आदयः कृताः

सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् ।
सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम् ॥ ४५ ॥

सः अयम् दीपः अर्चिषाम् यद्वत् स्रोतसाम् तत् इदम् जलम् सः अयम् पुमान् इति नृणाम् मृषा गीः धीः मृषा-आयुषाम्

मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान् ।
म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुत: ॥ ४६ ॥

मा स्वस्य कर्म-बीजेन जायते सः अपि अयम् पुमान् म्रियते वा अमरः भ्रान्त्या यथा अग्निः दारु संयुतः

निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।
वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ॥ ४७ ॥

निषेक गर्भ जन्मानि बाल्य कौमार यौवनम् वयः-मध्यम् जरा मृत्युः इति अवस्थाः तनोः नव

एता मनोरथमयीर्हान्यस्योच्चावचास्तनू: ।
गुणसङ्गादुपादत्ते क्व‍‍चित् कश्चिज्जहाति च ॥ ४८ ॥

एताः मनः-रथः-मयीः ह अन्यस्य उच्च अवचाः तनूः गुण-सङ्गात् उपादत्ते क्वचित् कश्चित् जहाति च

आत्मन: पितृपुत्राभ्यामनुमेयौ भवाप्ययौ ।
न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षण: ॥ ४९ ॥

आत्मनः पितृ पुत्राभ्याम् अनुमेयौ भव अप्ययौ न भव-अप्यय-वस्तूनाम् अभिज्ञः द्वय लक्षणः

तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ ।
तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनो: पृथक् ॥ ५० ॥

तरोः बीज विपाकाभ्याम् यः विद्वान् जन्म संयमौ तरोः विलक्षणः द्रष्टा एवम् द्रष्टा तनोः पृथक्

प्रकृतेरेवमात्मानमविविच्याबुध: पुमान् ।
तत्त्वेन स्पर्शसम्मूढ: संसारं प्रतिपद्यते ॥ ५१ ॥

प्रकृतेः एवम् आत्मानम् अविविच्य अबुधः पुमान् तत्त्वेन स्पर्श सम्मूढः संसारम् प्रतिपद्यते

सत्त्वसङ्गाद‍ृषीन्देवान् रजसासुरमानुषान् ।
तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभि: ॥ ५२ ॥

सत्त्व-सङ्गात् ऋषीन् देवान् रजसा असुर मानुषान् तमसा भूत तिर्यक्त्वम् भ्रामितः याति कर्मभिः

नृत्यतो गायत: पश्यन् यथैवानुकरोति तान् ।
एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५३ ॥

नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् एवम् बुद्धि गुणान् पश्यन् अनीहः अपि अनुकार्यते

यथाम्भसा प्रचलता तरवोऽपि चला इव ।
चक्षुषा भ्राम्यमाणेन द‍ृश्यते भ्रमतीव भू: ॥ ५४ ॥
यथा मनोरथधियो विषयानुभवो मृषा ।
स्वप्नद‍ृष्टाश्च दाशार्ह तथा संसार आत्मन: ॥ ५५ ॥

यथा अम्भसा प्रचलता तरवः अपि चलाः इव चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमती इव भूः यथा मनः-रथ धियः विषय अनुभवः मृषा स्वप्न-दृष्टाः च दाशार्ह तथा संसारः आत्मनः

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ५६ ॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा

तस्मादुद्धव मा भुङ्‍क्ष्व विषयानसदिन्द्रियै: ।
आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ ५७ ॥

तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत् इन्द्रियैः आत्म अग्रहण निर्भातम् पश्य वैकल्पिकम् भ्रमम्

क्षिप्तोऽवमानितोऽसद्भ‍ि: प्रलब्धोऽसूयितोऽथवा ।
ताडित: सन्निरुद्धो वा वृत्त्या वा परिहापित: ॥ ५८ ॥
निष्ठ्युतो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पित: ।
श्रेयस्काम: कृच्छ्रगत आत्मनात्मानमुद्धरेत् ॥ ५९ ॥

क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथ वा ताडितः सन्निरुद्धः वा वृत्त्या वा परिहापितः निष्ठ्युतः मूत्रितः वा अज्ञैः बहुधा एवम् प्रकम्पितः श्रेयः-कामः कृच्छ्र-गतः आत्मना आत्मानम् उद्धरेत्

श्रीउद्धव उवाच
यथैवमनुबुध्येयं वद नो वदतां वर ॥ ६० ॥

श्री-उद्धवः उवाच यथा एवम् अनुबुध्येयम् वद नः वदताम् वर

सुदु:सहमिमं मन्ये आत्मन्यसदतिक्रमम् ।
विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसी ।
ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान् ॥ ६१ ॥

सु-दुःसहम् इमम् मन्ये आत्मनि असत् अतिक्रमम् विदुषाम् अपि विश्व-आत्मन् प्रकृतिः हि बलीयसी ऋते त्वत्-धर्म निरतान् शान्तान् ते चरण-आलयान्

११.२३

श्रीबादरायणिरुवाच
स एवमाशंसित उद्धवेन
भागवतमुख्येन दाशार्हमुख्य: ।
सभाजयन् भृत्यवचो मुकुन्द-
स्तमाबभाषे श्रवणीयवीर्य: ॥ १ ॥

श्री-बादरायणिः उवाच सः एवम् आशंसितः उद्धवेन भागवत मुख्येन दाशार्ह मुख्यः सभाजयन् भृत्य वचः मुकुन्दः तम् आबभाषे श्रवणीय वीर्यः

श्रीभगवानुवाच
बार्हस्पत्य स नास्त्यत्र साधुर्वै दुर्जनेरितै: ।
दुरक्तैर्भिन्नमात्मानं य: समाधातुमीश्वर: ॥ २ ॥

श्री-भगवान् उवाच बार्हस्पत्य सः न अस्ति अत्र साधुः वै दुर्जन ईरितैः दुरुक्तैः भिन्नम् आत्मानम् यः समाधातुम् ईश्वरः

न तथा तप्यते विद्ध: पुमान् बाणैस्तु मर्मगै: ।
यथा तुदन्ति मर्मस्था ह्यसतां परुषेषव: ॥ ३ ॥

न तथा तप्यते विद्धः पुमान् बाणैः तु मर्म-गैः यथा तुदन्ति मर्म-स्थाः हि असताम् परुष इषवः

कथयन्ति महत्पुण्यमितिहासमिहोद्धव ।
तमहं वर्णयिष्यामि निबोध सुसमाहित: ॥ ४ ॥

कथयन्ति महत् पुण्यम् इतिहासम् इह उद्धव तम् अहम् वर्णयिष्यामि निबोध सु-समाहितः

केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनै: ।
स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ॥ ५ ॥

केनचित् भिक्षुणा गीतम् परिभूतेन दुर्जनैः स्मरता धृति-युक्तेन विपाकम् निज-कर्मणाम्

अवन्तिषु द्विज: कश्चिदासीदाढ्यतम: श्रिया ।
वार्तावृत्ति: कदर्यस्तु कामी लुब्धोऽतिकोपन: ॥ ६ ॥

अवन्तिषु द्विजः कश्चित् आसीत् आढ्य-तमः श्रिया वार्ता वृत्तिः कदर्यः तु कामी लुब्धः अति-कोपनः

ज्ञातयोऽतिथयस्तस्य वाङ्‍मात्रेणापि नार्चिता: ।
शून्यावसथ आत्मापि काले कामैरनर्चित: ॥ ७ ॥

ज्ञातयः अतिथयः तस्य वाक्-मात्रेण अपि न अर्चिताः शून्य-अवसथे आत्मा अपि काले कामैः अनर्चितः

दु:शीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवा: ।
दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ ८ ॥

दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्र बान्धवाः दाराः दुहितरः भृत्याः विसण्णाः न आचरन् प्रियम्

तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकत: ।
धर्मकामविहीनस्य चुक्रुधु: पञ्चभागिन: ॥ ९ ॥

तस्य एवम् यक्ष-वित्तस्य च्युतस्य उभय लोकतः धर्म काम विहीनस्य चुक्रुधुः पञ्च-भागिनः

तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद ।
अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रम: ॥ १० ॥

तत् अवध्यान विस्रस्त पुण्य स्कन्धस्य भूरि-द अर्थः अपि अगच्छत् निधनम् बहु आयास परिश्रमः

ज्ञातयो जगृहु: किञ्चित् किञ्चिद् दस्यव उद्धव ।
दैवत: कालत: किञ्चिद् ब्रह्मबन्धोर्नृपार्थिवात् ॥ ११ ॥

ज्ञातयः जगृहुः किञ्चित् किञ्चित् दस्यवः उद्धव दैवतः कालतः किञ्चित् ब्रह्म-बन्धोः नृ पार्थिवात्

स एवं द्रविणे नष्टे धर्मकामविवर्जित: ।
उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् ॥ १२ ॥

सः एवम् द्रविणे नष्टे धर्म काम विवर्जितः उपेक्षितः च स्व-जनैः चिन्ताम् आप दुरत्ययाम्

तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विन: ।
खिद्यतो बाष्पकण्ठस्य निर्वेद: सुमहानभूत् ॥ १३ ॥

तस्य एवम् ध्यायतः दीर्घम् नष्ट-रायः तपस्विनः खिद्यतः बाष्प-कण्ठस्य निर्वेदः सु-महान् अभूत्

स चाहेदमहो कष्टं वृथात्मा मेऽनुतापित: ।
न धर्माय न कामाय यस्यार्थायास ईद‍ृश: ॥ १४ ॥

सः च आह इदम् अहो कष्टम् वृथा आत्मा मे अनुतापितः न धर्माय न कामाय यस्य अर्थ आयासः ईदृशः

प्रायेणार्था: कदर्याणां न सुखाय कदाचन ।
इह चात्मोपतापाय मृतस्य नरकाय च ॥ १५ ॥

प्रायेण अर्थाः कदर्याणाम् न सुखाय कदाचन इह च आत्म उपतापाय मृतस्य नरकाय च

यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणा: ।
लोभ: स्वल्पोऽपि तान् हन्ति श्वित्रो रूपमिवेप्सितम् ॥ १६ ॥

यशः यशस्विनाम् शुद्धम् श्लाघ्याः ये गुणिनाम् गुणाः लोभः सु-अल्पः अपि तान् हन्ति श्वित्रः रूपम् इव ईप्सितम्

अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये ।
नाशोपभोग आयासस्‍‍‍‍‍त्रासश्चिन्ता भ्रमो नृणाम् ॥ १७ ॥

अर्थय्स साधने सिद्धे उत्कर्षे रक्षणे व्यये नाश उपभोगे आयासः त्रासः चिन्ता भ्रमः नृणाम्

स्तेयं हिंसानृतं दम्भ: काम: क्रोध: स्मयो मद: ।
भेदो वैरमविश्वास: संस्पर्धा व्यसनानि च ॥ १८ ॥
एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।
तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ १९ ॥

स्तेयम् हिंसा अनृतम् दम्भः कामः क्रोधः स्मयः मदः भेदः वैरम् अविश्वासः संस्पर्धा व्यसनानि च एते पञ्चदश अनर्थाः हि अर्थ-मूलाः मताः नृणाम् तस्मात् अनर्थम् अर्थ-आख्यम् श्रेयः-अर्थी दूरतः त्यजेत्

भिद्यन्ते भ्रातरो दारा: पितर: सुहृदस्तथा ।
एकास्‍निग्धा: काकिणिना सद्य: सर्वेऽरय: कृता: ॥ २० ॥

भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा एक आस्निग्धाः काकिणिना सद्यः सर्वे अरयः कृताः

अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यव: ।
त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ २१ ॥

अर्थेन अल्पीयसा हि एते संरब्धाः दीप्त मन्यवः त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम्

लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्‍यताम् ।
तदनाद‍ृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् ॥ २२ ॥

लब्ध्वा जन्म अमर प्रार्थ्यम् मानुष्यम् तत् द्विज-आग्र्यताम् तत् अनादृत्य ये स्व-अर्थम् घ्नन्ति यान्ति अशुभाम् गतिम्

स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् ।
द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि ॥ २३ ॥

स्वर्ग अपवर्गयोः द्वारम् प्राप्य लोकम् इमम् पुमान् द्रविणे कः अनुषज्जेत मर्त्यः अनर्थस्य धामनि

देवर्षिपितृभूतानि ज्ञातीन् बन्धूंश्च भागिन: ।
असंविभज्य चात्मानं यक्षवित्त: पतत्यध: ॥ २४ ॥

देव ऋषि पितृ भूतानि ज्ञातीन् बन्धून् च भागिनः असंविभज्य च आत्मानम् यक्ष-वित्तः पतति अधः

व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् ।
कुशला येन सिध्यन्ति जरठ: किं नु साधये ॥ २५ ॥

व्यर्थया अर्थ ईहया वित्तम् प्रमत्तस्य वयः बलम् कुशलाः येन सिध्यन्ति जरठः किम् नु साधये

कस्मात् सङ्‍‍क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् ।
कस्यचिन्मायया नूनं लोकोऽयं सुविमोहित: ॥ २६ ॥

कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थया अर्थ-ईहया असकृत् कस्यचित् मायया नूनम् लोकः अयम् सु-विमोहितः

किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत ।
मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदै: ॥ २७ ॥

किम् धनैः धन-दैः वा किम् कामैः वा काम-दैः उत मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्म-दैः

नूनं मे भगवांस्तुष्ट: सर्वदेवमयो हरि: ।
येन नीतो दशामेतां निर्वेदश्चात्मन: प्लव: ॥ २८ ॥

नूनम् मे भगवान् तुष्टः सर्व-देव-मयः हरिः येन नीतः दशाम् एताम् निर्वेदः च आत्मनः प्लवः

सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मन: ।
अप्रमत्तोऽखिलस्वार्थे यदि स्यात् सिद्ध आत्मनि ॥ २९ ॥

सः अहम् काल-अवशेषेण शोषयिष्ये अङ्गम् आत्मनः अप्रमत्तः अखिल स्व-अर्थे यदि स्यात् सिद्धः आत्मनि

तत्र मामनुमोदेरन् देवात्रिभुवनेश्वरा: ।
मुहूर्तेन ब्रह्मलोकं खट्‍वाङ्ग: समसाधयत् ॥ ३० ॥

तत्र माम् अनुमोदेरन् देवाः त्रि-भुवन ईश्वराः मुहूर्तेन ब्रह्मलोकम् खट्वाङ्ग समसाधयत्

श्रीभगवानुवाच
इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तम: ।
उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनि: ॥ ३१ ॥

श्री-भगवान् उवाच इति अभिप्रेत्य मनसा हि आवन्त्यः द्विज-सत्-तमः उन्मुच्य हृदय ग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः

स चचार महीमेतां संयतात्मेन्द्रियानिल: ।
भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ॥ ३२ ॥

सः चचार महीम् एताम् संयत आत्म इन्द्रिय अनिलः भिक्षा-अर्थम् नगर ग्रामान् असङ्गः अलक्षितः अविशत्

तं वै प्रवयसं भिक्षुमवधूतमसज्जना: ।
द‍ृष्ट्वा पर्यभवन् भद्र बह्वीभि: परिभूतिभि: ॥ ३३ ॥

तम् वै प्रवयसम् भिक्षुम् अवधूतम् असत् जनाः दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः

केचित्‍त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् ।
पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन ।
प्रदाय च पुनस्तानि दर्शितान्याददुर्मुने: ॥ ३४ ॥

केचित् त्रि-वेणुम् जगृहुः एके पात्रम् कमण्डलुम् पीठम् च एके अक्ष-सूत्रम् च कन्थाम् चीराणि केचन प्रदाय च पुनः तानि दर्शितानि आददुः मुनेः

अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे ।
मूत्रयन्ति च पापिष्ठा: ष्ठीवन्त्यस्य च मूर्धनि ॥ ३५ ॥

अन्नम् च भैक्ष्य सम्पन्नम् भुञ्जानस्य सरित् तटे मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि

यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ।
तर्जयन्त्यपरे वाग्भि: स्तेनोऽयमिति वादिन: ।
बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यतामिति ॥ ३६ ॥

यत-वाचम् वाचयन्ति ताडयन्ति न वक्ति चेत् तर्जयन्ति अपरे वाग्भिः स्तेनः अयम् इति वादिनः बध्नन्ति रज्ज्वा तम् केचित् बध्यताम् बध्यताम् इति

क्षिपन्त्येकेऽवजानन्त एष धर्मध्वज: शठ: ।
क्षीणवित्त इमां वृत्तिमग्रहीत् स्वजनोज्झित: ॥ ३७ ॥

क्षिपन्ति एके अवजानन्तः एषः धर्म-ध्वजः शठः क्षीण-वित्तः इमाम् वृत्तिम् अग्रहीत् स्व-जन उज्झितः

अहो एष महासारो धृतिमान् गिरिराडिव ।
मौनेन साधयत्यर्थं बकवद् द‍ृढनिश्चय: ॥ ३८ ॥
इत्येके विहसन्त्येनमेके दुर्वातयन्ति च ।
तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ॥ ३९ ॥

अहो एषः महा-सारः धृतिमान् गिरि-राट् इव मौनेन साधयति अर्थम् बक-वत् दृढ निश्चयः इति एके विहसन्ति एनम् एके दुर्वातयन्ति च तम् बबन्धुः निरुरुधुः यथा क्रीडनकम् द्विजम्

एवं स भौतिकं दु:खं दैविकं दैहिकं च यत् ।
भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ॥ ४० ॥

एवम् सः भौतिकम् दुःखम् दैविकम् दैहिकम् च यत् भोक्तव्यम् आत्मनः दिष्टम् प्राप्तम् प्राप्तम् अबुध्यत

परिभूत इमां गाथामगायत नराधमै: ।
पातयद्भ‍ि: स्व धर्मस्थो धृतिमास्थाय सात्त्विकीम् ॥ ४१ ॥

परिभूतः इमाम् गाथाम् अगायत नर-अधमैः पातयद्भिः स्व-धर्म स्थः धृतिम् आस्थाय सात्त्विकीम्

द्विज उवाच
नायं जनो मे सुखदु:खहेतु-
र्न देवतात्मा ग्रहकर्मकाला: ।
मन: परं कारणमामनन्ति
संसारचक्रं परिवर्तयेद् यत् ॥ ४२ ॥

द्विजः उवाच न अयम् जनः मे सुख दुःख हेतुः न देवता आत्मा ग्रह कर्म कालाः मनः परम् कारणं आमनन्ति संसार चक्रम् परिवर्तयेत् यत्

मनो गुणान् वै सृजते बलीय-
स्ततश्च कर्माणि विलक्षणानि ।
शुक्लानि कृष्णान्यथ लोहितानि
तेभ्य: सवर्णा: सृतयो भवन्ति ॥ ४३ ॥

मनः गुणान् वै सृजते बलीयः ततः च कर्माणि विलक्षणानि शुक्लानि कृष्णानि अथ लोहितानि तेभ्यः स-वर्णाः सृतयः भवन्ति

अनीह आत्मा मनसा समीहता
हिरण्मयो मत्सख उद्विचष्टे ।
मन: स्वलिङ्गं परिगृह्य कामान्
जुषन् निबद्धो गुणसङ्गतोऽसौ ॥ ४४ ॥

अनीहः आत्मा मनसा समीहता हिरण्-मयः मत्-सखः उद्विचष्टे मनः स्व-लिङ्गम् परिगृह्य कामान् जुषन् निबद्धः गुण-सङ्गतः असौ

दानं स्वधर्मो नियमो यमश्च
श्रुतं च कर्माणि च सद्‍व्रतानि ।
सर्वे मनोनिग्रहलक्षणान्ता:
परो हि योगो मनस: समाधि: ॥ ४५ ॥

दानम् स्व-धर्मः नियमः यमः च श्रुतम् च कर्माणि च सत् व्रतानि सर्वे मनः-निग्रहः लक्षण अन्ताः परः हि योगः मनसः समाधिः

समाहितं यस्य मन: प्रशान्तं
दानादिभि: किं वद तस्य कृत्यम् ।
असंयतं यस्य मनो विनश्यद्
दानादिभिश्चेदपरं किमेभि: ॥ ४६ ॥

समाहितम् यस्य मनः प्रशान्तम् दान-आदिभिः किम् वद तस्य कृत्यम् असंयतम् यस्य मनः विनश्यत् दान-आदिभिः चेत् अपरम् किम् एभिः

मनोवशेऽन्ये ह्यभवन् स्म देवा
मनश्च नान्यस्य वशं समेति ।
भीष्मो हि देव: सहस: सहीयान्
युञ्ज्याद वशे तं स हि देवदेव: ॥ ४७ ॥

मनः वशे अन्ये हि अभवन् स्म देवाः मनः च न अन्यस्य वशम् समेति भीष्मः हि देवः सहसः सहीयान् युञ्ज्यात् वशे तम् सः हि देव-देवः

तं दुर्जयं शत्रुमसह्यवेग-
मरुन्तुदं तन्न विजित्य केचित् ।
कुर्वन्त्यसद्विग्रहमत्र मर्त्यै-
र्मित्राण्युदासीनरिपून् विमूढा: ॥ ४८ ॥

तम् दुर्जयम् शत्रुम् असह्य वेगम् अरुम्-तुदम् तत् न विजित्य केचित् कुर्वन्ति असत् विग्रहम् अत्र मर्त्यैः मित्राणि उदासीन रिपून् विमूढाः

देहं मनोमात्रमिमं गृहीत्वा
ममाहमित्यन्धधियो मनुष्या: ।
एषोऽहमन्योऽयमिति भ्रमेण
दुरन्तपारे तमसि भ्रमन्ति ॥ ४९ ॥

देहम् मनः-मात्रम् इमम् गृहीत्वा मम अहम् इति अन्ध धियः मनुष्याः एषः अहम् अन्यः अयम् इति भ्रमेण दुरन्त-पारे तमसि भ्रमन्ति

जनस्तु हेतु: सुखदु:खयोश्चेत्
किमात्मनश्चात्र हि भौमयोस्तत् ।
जिह्वां क्व‍‍चित् सन्दशति स्वदद्भ‍ि-
स्तद्वेदनायां कतमाय कुप्येत् ॥ ५० ॥

जनः तु हेतुः सुख-दुःखयोः चेत् किम् आत्मनः च अत्र हि भौमयोः तत् जिह्वाम् क्वचित् सन्दशति स्व दद्भिः तत् वेदनायाम् कतमाय कुप्येत्

दु:खस्य हेतुर्यदि देवतास्तु
किमात्मनस्तत्र विकारयोस्तत् ।
यदङ्गमङ्गेन निहन्यते क्व‍‍चित्
क्रुध्येत कस्मै पुरुष: स्वदेहे ॥ ५१ ॥

दुःखस्य हेतुः यदि देवताः तु किम् आत्मनः तत्र विकारयोः तत् यत् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्व-देहे

आत्मा यदि स्यात् सुखदु:खहेतु:
किमन्यतस्तत्र निजस्वभाव: ।
न ह्यात्मनोऽन्यद् यदि तन्मृषा स्यात्
क्रुध्येत कस्मान्न सुखं न दु:खम् ॥ ५२ ॥

आत्मा यदि स्यात् सुख-दुःख हेतुः किम् अन्यतः तत्र निज स्वभावः न हि आत्मनः अन्यत् यदि तत् मृषा स्यात् क्रुध्येत कस्मात् न सुखम् न दुःखम्

ग्रहानिमित्तं सुखदु:खयोश्चेत्
किमात्मनोऽजस्य जनस्य ते वै ।
ग्रहैर्ग्रहस्यैववदन्तिपीडां
क्रुध्येत कस्मैपुरुषस्ततोऽन्य: ॥ ५३ ॥

ग्रहाः निमित्तम् सुख-दुःखयोः चेत् किम् आत्मनः अजस्य जनस्य ते वै ग्रहैः ग्रहस्य एव वदन्ति पीडाम् क्रुध्येत कस्मै पुरुषः ततः अन्यः

कर्मास्तुहेतु: सुखदु:खयोश्चेत्
किमात्मनस्तद्धिजडाजडत्वे ।
देहस्त्वचित् पुरुषोऽयं सुपर्ण:
क्रुध्येत कस्मै न हि कर्ममूलम् ॥ ५४ ॥

कर्म अस्तु हेतुः सुख-दुःखयोः चेत् किम् आत्मनः तत् हि जड-अजडत्वे देहः तु अचित् पुरुषः अयम् सु-पर्णः क्रुध्येत कस्मै न हि कर्म मूलम्

कालस्तुहेतु: सुखदु:खयोश्चेत्
किमात्मनस्तत्रतदात्मकोऽसौ ।
नाग्नेर्हि तापो न हिमस्य तत् स्यात्
क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५५ ॥

कालः तु हेतुः सुख-दुःखयोः चेत् किम् आत्मनः तत्र तत्-आत्मकः असौ न अग्नेः हि तापः न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम्

न केनचित् क्व‍ापि कथञ्चनास्य
द्वन्द्वोपराग: परत: परस्य ।
यथाहम: संसृतिरूपिण: स्या-
देवं प्रबुद्धो न बिभेति भूतै: ॥ ५६ ॥

न केनचित् क्व अपि कथञ्चन अस्य द्वन्द्व उपरागः परतः परस्य यथा अहमः संसृति रूपिणः स्यात् एवम् प्रबुद्धः न बिभेति भूतैः

एतां स आस्थाय परात्मनिष्ठा-
मध्यासितां पूर्वतमैर्महर्षिभि: ।
अहं तरिष्यामि दुरन्तपारं
तमो मुकुन्दाङ्‍‍घ्रिनिषेवयैव ॥ ५७ ॥

एताम् सः आस्थाय पर-आत्म-निष्ठाम् अध्यासिताम् पूर्व-तमैः महा-ऋषिभिः अहम् तरिष्यामि दुरन्त-पारम् तमः मुकुन्द-अङ्घ्रि निषेवया एव

श्रीभगवानुवाच
निर्विद्य नष्टद्रविणे गतक्लम:
प्रव्रज्य गां पर्यटमान इत्थम् ।
निराकृतोऽसद्भ‍िरपि स्वधर्मा-
दकम्पितोऽमूं मुनिराह गाथाम् ॥ ५८ ॥

श्री-भगवान् उवाच निर्विद्य नष्ट-द्रविणे गत-क्लमः प्रव्रज्य गाम् पर्यटमानः इत्थम् निराकृतः असद्भिः अपि स्व-धर्मात् अकम्पितः अमूम् मुनिः आह गाथाम्

सुखदु:खप्रदो नान्य: पुरुषस्यात्मविभ्रम: ।
मित्रोदासीनरिपव: संसारस्तमस: कृत: ॥ ५९ ॥

सुख-दुःख-प्रदः न अन्यः पुरुषस्य आत्म विभ्रमः मित्र उदासीन रिपवः संसारः तमसः कृतः

तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।
मय्यावेशितया युक्त एतावान् योगसङ्ग्रह: ॥ ६० ॥

तस्मात् सर्व-आत्मना तात निगृहाण मनः धिया मयि आवेशितया युक्तः एतावान् योग-सङ्ग्रहः

य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहित: ।
धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते ॥ ६१ ॥

यः एताम् भिक्षुणा गीताम् ब्रह्म निष्ठाम् समाहितः धारयन् श्रावयन् शृण्वन् द्वन्द्वैः न एव अभिभूयते

११.२४

श्रीभगवानुवाच
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्च‍ितम् ।
यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ १ ॥

श्री-भगवान् उवाच अथ ते सम्प्रवक्ष्यामि साङ्ख्यम् पूर्वैः विनिश्चितम् यत् विज्ञाय पुमान् सद्यः जह्यात् वैकल्पिकम् भ्रमम्

आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम् ।
यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २ ॥

आसीत् ज्ञानम् अथ उ अर्थः एकम् एव अविकल्पितम् यदा विवेक निपुणाः आदौ कृत-युगे अयुगे

तन्मायाफलरूपेण केवलं निर्विकल्पितम् ।
वाङ्‍मनोऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥

तत् माया फल रूपेण केवलम् निर्विकल्पितम् वाक् मनः अगोचरम् सत्यम् द्विधा समभवत् बृहत्

तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।
ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४ ॥

तयोः एकतरः हि अर्थः प्रकृतिः सा उभय-आत्मिका ज्ञानम् तु अन्यतमः भावः पुरुषः सः अभिधीयते

तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः ।
मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५ ॥

तमः रजः सत्त्वम् इति प्रकृतेः अभवन् गुणाः मया प्रक्षोभ्यमाणायाः पुरुष अनुमतेन च

तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।
ततो विकुर्वतो जातो योऽहङ्कारो विमोहनः ॥ ६ ॥

तेभ्यः समभवत् सूत्रम् महान् सूत्रेण संयुतः ततः विकुर्वतः जातः यः अहङ्कारः विमोहनः

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।
तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥

वैकारिकः तैजसः च तामसः च इति अहम् त्रि-वृत् तत्-मात्र इन्द्रिय मनसाम् कारणम् चित्-अचित् मयः

अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च ।
तैजसाद् देवता आसन्नेकादश च वैकृतात् ॥ ८ ॥

अर्थः तत्-मात्रिकात् जज्ञे तामसात् इन्द्रियाणि च तैजसात् देवताः आसन् एकादश च वैकृतात्

मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः ।
अण्डमुत्पादयामासुर्ममायतनमुत्तमम् ॥ ९ ॥

मया सञ्चोदिताः भावाः सर्वे संहत्य कारिणः अण्डम् उत्पादयाम् आसुः मम आयतनम् उत्तमम्

तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ ।
मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १० ॥

तस्मिन् अहम् समभवम् अण्डे सलिल संस्थितौ मम नाभ्याम् अभूत् पद्मम् विश्व-आख्यम् तत्र च आत्म-भूः

सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् ।
लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा ॥ ११ ॥

सः असृजत् तपसा युक्तः रजसा मत् अनुग्रहात् लोकान् स-पालान् विश्व आत्मा भूः भुवः स्वः इति त्रिधा

देवानामोक आसीत् स्वर्भूतानां च भुवः पदम् ।
मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥ १२ ॥

देवानाम् ओकः आसीत् स्वः भूतानाम् च भुवः पदम् मर्त्य-आदीनाम् च भूः लोकः सिद्धानाम् त्रितयात् परम्

अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः ।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३ ॥

अधः असुराणाम् नागानाम् भूमेः ओकः असृजत् प्रभुः त्रि-लोक्याम् गतयः सर्वाः कर्मणाम् त्रि-गुण-आत्मनाम्

योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः ।
महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥

योगस्य तपसः च एव न्यासस्य गतयः अमलाः महः जनः तपः सत्यम् भक्ति-योगस्य मत् गतिः

मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।
गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५ ॥

मया काल-आत्मना धात्रा कर्म-युक्तम् इदम् जगत् गुण-प्रवाहे एतस्मिन् उन्मज्जति निमज्जति

अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति ।
सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६ ॥

अणुः बृहत् कृशः स्थूलः यः यः भावः प्रसिध्यति सर्वः अपि उभय संयुक्तः प्रकृत्या पुरुषेण च

यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् ।
विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥

यः तु यस्य आदिः अन्तः च सः वै मध्यम् च तस्य सन् विकारः व्यवहार-अर्थः यथा तैजस पार्थिवाः

यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् ।
आदिरन्तो यदा यस्य तत् सत्यमभिधीयते ॥ १८ ॥

यत् उपादाय पूर्वः तु भावः विकुरुते अपरम् आदिः अन्तः यदा यस्य तत् सत्यम् अभिधीयते

प्रकृतिर्यस्योपादानमाधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत्‍त्रितयं त्वहम् ॥ १९ ॥

प्रकृतिः यस्य उपादानम् आधारः पुरुषः परः सतः अभिव्यञ्जकः कालः ब्रह्म तत् त्रितयम् तु अहम्

सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः ।
महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥

सर्गः प्रवर्तते तावत् पौर्व-अपर्येण नित्यशः महान् गुण-विसर्ग अर्थः स्थिति-अन्तः यावत् ईक्षणम्

विराण्मयासाद्यमानो लोककल्पविकल्पकः ।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१ ॥

विराट् मया आसाद्यमानः लोक कल्प विकल्पकः पञ्चत्वाय विशेषाय कल्पते भुवनैः सह

अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते ।
धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥
अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे ।
लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३ ॥
रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे ।
अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥
२४ ॥
योनिर्वैकारिके सौम्य लीयते मनसीश्व‍रे ।
शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥
स लीयते महान् स्वेषु गुणेषु गुणवत्तमः ।
तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥ २६ ॥
कालो मायामये जीवे जीव आत्मनि मय्यजे ।
आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥

अन्ने प्रलीयते मर्त्यम् अन्नम् धानासु लीयते धानाः भूमौ प्रलीयन्ते भूमिः गन्धे प्रलीयते अप्सु प्रलीयते गन्धः आपः च स्व-गुणे रसे लीयते ज्योतिषि रसः ज्योतिः रूपे प्रलीयते रूपम् वायौ सः च स्पर्शे लीयते सः अपि च अम्बरे अम्बरम् शब्द तत्-मात्रे इन्द्रियाणि स्व-योनिषु योनिः वैकारिके सौम्य लीयते मनसि ईश्वरे शब्दः भूत-आदिम् अप्येति भूत-आदिः महति प्रभुः सः लीयते महान् स्वेषु गुणेषु गुण-वत्-तमः ते अव्यक्ते सम्प्रलीयन्ते तत् काले लीयते अव्यये कालः माया-मये जीवे जीवः आत्मनि मयि अजे आत्मा केवलः आत्म-स्थः विकल्प अपाय लक्षणः

एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।
मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८ ॥

एवम् अन्वीक्षमाणस्य कथम् वैकल्पिकः भ्रमः मनसः हृदि तिष्ठेत व्योम्नि इव अर्क उदये तमः

एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।
प्रतिलोमानुलोमाभ्यां परावरद‍ृशा मया ॥ २९ ॥

एषः साङ्ख्य-विधिः प्रोक्तः संशय ग्रन्थि भेदनः प्रतिलोम-अनुलोमाभ्याम् पर अवर दृशा मया

११.२५

श्रीभगवानुवाच
गुणानामसम्मिश्राणां पुमान् येन यथा भवेत् ।
तन्मे पुरुषवर्येदमुपधारय शंसत: ॥ १ ॥

श्री-भगवान् उवाच गुणानाम् असम्मिश्राणाम् पुमान् येन यथा भवेत् तत् मे पुरुष-वर्य इदम् उपधारय शंसतः

शमो दमस्तितिक्षेक्षा तप: सत्यं दया स्मृति: ।
तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादि: स्वनिर्वृति: ॥ २ ॥
काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् ।
मदोत्साहो यश:प्रीतिर्हास्यं वीर्यं बलोद्यम: ॥ ३ ॥
क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भ: क्लम: कलि: ।
शोकमोहौ विषादार्ती निद्राशा भीरनुद्यम: ॥ ४ ॥
सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वश: ।
वृत्तयो वर्णितप्राया: सन्निपातमथो श‍ृणु ॥ ५ ॥

शमः दमः तितिक्षा ईक्षा तपः सत्यम् दया स्मृतिः तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया-आदिः स्व-निर्वृतिः कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम् मद-उत्साहः यशः-प्रीतिः हास्यम् वीर्यम् बल-उद्यमः क्रोधः लोभः अनृतम् हिंसा याच्ञा दम्भः क्लमः कलिः शोक-मोहौ विषाद-आर्ती निद्रा आशा भीः अनुद्यमः सत्त्वस्य रजसः च एताः तमसः च आनुपूर्वशः वृत्तयः वर्णित प्रायाः सन्निपातम् अथो शृणु

सन्निपातस्त्वहमिति ममेत्युद्धव या मति: ।
व्यवहार: सन्निपातो मनोमात्रेन्द्रियासुभि: ॥ ६ ॥

सन्निपातः तु अहम् इति मम इति उद्धव या मतिः व्यवहारः सन्निपातः मनः मात्रा इन्द्रिय असुभिः

धर्मे चार्थे च कामे च यदासौ परिनिष्ठित: ।
गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावह: ॥ ७ ॥

धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः गुणानाम् सन्निकर्षः अयम् श्रद्धा रति धन आवहः

प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे ।
स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥ ८ ॥

प्रवृत्ति लक्षणे निष्ठा पुमान् यर्हि गृह-आश्रमे स्व-धर्मे च अनु तिष्ठेत गुणानाम् समितिः हि सा

पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभि: ।
कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ॥ ९ ॥

पुरुषम् सत्त्व-संयुक्तम् अनुमीयात् शम-आदिभिः काम-आदिभिः रजः-युक्तम् क्रोध-आद्यैः तमसा युतम्

यदा भजति मां भक्त्या निरपेक्ष: स्वकर्मभि: ।
तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्‍त्रियमेव वा ॥ १० ॥

यदा भजति माम् भक्त्या निरपेक्षः स्व-कर्मभिः तम् सत्त्व-प्रकृतिम् विद्यात् पुरुषम् स्त्रियम् एव वा

यदा आशिष आशास्य मां भजेत स्वकर्मभि: ।
तं रज:प्रकृतिं विद्यात् हिंसामाशास्य तामसम् ॥ ११ ॥

यदा आशिषः आशास्य माम् भजेत स्व-कर्मभिः तम् रजः-प्रकृतिम् विद्यात् हिंसाम् आशास्य तामसम्

सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे ।
चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते ॥ १२ ॥

सत्त्वम् रजः तमः इति गुणाः जीवस्य न एव मे चित्त-जाः यैः तु भूतानाम् सज्जमानः निबध्यते

यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् ।
तदा सुखेन युज्येत धर्मज्ञानादिभि: पुमान् ॥ १३ ॥

यदा इतरौ जयेत् सत्त्वम् भास्वरम् विशदम् शिवम् तदा सुखेन युज्येत धर्म ज्ञान आदिभिः पुमान्

यदा जयेत्तम: सत्त्वं रज: सङ्गं भिदा चलम् ।
तदा दु:खेन युज्येत कर्मणा यशसा श्रिया ॥ १४ ॥

यदा जयेत् तमः सत्त्वम् रजः सङ्गम् भिदा चलम् तदा दुःखेन युज्येत कर्मणा यशसा श्रिया

यदा जयेद् रज: सत्त्वं तमो मूढं लयं जडम् ।
युज्येत शोकमोहाभ्यां निद्रयाहिंसयाशया ॥ १५ ॥

यदा जयेत् रजः सत्त्वम् तमः मूढम् लयम् जडम् युज्येत शोक मोहाभ्याम् निद्रया हिंसया आशया

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृति: ।
देहेऽभयं मनोऽसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ १६ ॥

यदा चित्तम् प्रसीदेत इन्द्रियाणाम् च निर्वृतिः देहे अभयम् मनः असङ्गम् तत् सत्त्वम् विद्धि मत् पदम्

विकुर्वन् क्रियया चाधीरनिवृत्तिश्च चेतसाम् ।
गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय ॥ १७ ॥

विकुर्वन् क्रियया च आ धीः अनिवृत्तिः च चेतसाम् गात्र अस्वास्थ्यम् मनः भ्रान्तम् रजः एतैः निशामय

सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् ।
मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय ॥ १८ ॥

सीदत् चित्तम् विलीयेत चेतसः ग्रहणे अक्षमम् मनः नष्टम् तमः ग्लानिः तमः तत् उपधारय

एधमाने गुणे सत्त्वे देवानां बलमेधते ।
असुराणां च रजसि तमस्युद्धव रक्षसाम् ॥ १९ ॥

एधमाने गुणे सत्त्वे देवानाम् बलम् एधते असुराणाम् च रजसि तमसि उद्धव रक्षसाम्

सत्त्वाज्जागरणं विद्याद् रजसा स्वप्नमादिशेत् ।
प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् ॥ २० ॥

सत्त्वात् जागरणम् विद्यात् रजसा स्वप्नम् आदिशेत् प्रस्वापम् तमसा जन्तोः तुरीयम् त्रिषु सन्ततम्

उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जना: ।
तमसाधोऽध आमुख्याद् रजसान्तरचारिण: ॥ २१ ॥

उपरि उपरि गच्छन्ति सत्त्वेन ब्राह्मणाः जनाः तमसा अधः अधः आ-मुख्यात् रजसा अन्तर-चारिणः

सत्त्वे प्रलीना: स्वर्यान्ति नरलोकं रजोलया: ।
तमोलयास्तु निरयं यान्ति मामेव निर्गुणा: ॥ २२ ॥

सत्त्वे प्रलीनाः स्वः यान्ति नर-लोकम् रजः-लयाः तमः-लयाः तु निरयम् यान्ति माम् एव निर्गुणाः

मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् ।
राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३ ॥

मत्-अर्पणम् निष्फलम् वा सात्त्विकम् निज कर्म तत् राजसम् फल-सङ्कल्पम् हिंसा-प्राय-आदि तामसम्

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४ ॥

कैवल्यम् सात्त्विकम् ज्ञानम् रजः वैकल्पिकम् च यत् प्राकृतम् तामसम् ज्ञानम् मत्-निष्ठम् निर्गुणम् स्मृतम्

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ २५ ॥

वनम् तु सात्त्विकः वासः ग्रामः राजसः उच्यते तामसम् द्यूत-सदनम् मत्-निकेतम् तु निर्गुणम्

सात्त्विक: कारकोऽसङ्गी रागान्धो राजस: स्मृत: ।
तामस: स्मृतिविभ्रष्टो निर्गुणो मदपाश्रय: ॥ २६ ॥

सात्त्विकः कारकः असङ्गी राग-अन्धः राजसः स्मृतः तामसः स्मृति विभ्रष्टः निर्गुणः मत्-अपाश्रयः

सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७ ॥

सात्त्विकी आध्यात्मिकी श्रद्धा कर्म श्रद्धा तु राजसी तामसी अधर्मे या श्रद्धा मत्-सेवायाम् तु निर्गुणा

पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् ।
राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥ २८ ॥

पथ्यम् पूतम् अनायस्तम् आहार्यम् सात्त्विकम् स्मृतम् राजसम् च इन्द्रिय-प्रेष्ठम् तामसम् च आर्ति-द अशुचि

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९ ॥

सात्त्विकम् सुखम् आत्म-उत्थम् विषय-उत्थम् तु राजसम् तामसम् मोह दैन्य उत्थम् निर्गुणम् मत्-अपाश्रयम्

द्रव्यं देश: फलं कालो ज्ञानं कर्म च कारक: ।
श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्य: सर्व एव हि ॥ ३० ॥

द्रव्यम् देशः फलम् कालः ज्ञानम् कर्म च कारकः श्रद्धा अवस्था आकृतिः निष्ठा त्रै-गुण्यः सर्वः एव हि

सर्वे गुणमया भावा: पुरुषाव्यक्तधिष्ठिता: ।
द‍ृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ ३१ ॥

सर्वे गुण-मयाः भावाः पुरुष अव्यक्त धिष्ठिताः दृष्टम् श्रुतम् अनुध्यातम् बुद्ध्या वा पुरुष-ऋषभ

एता: संसृतय: पुंसो गुणकर्मनिबन्धना: ।
येनेमे निर्जिता: सौम्य गुणा जीवेन चित्तजा: ।
भक्तियोगेन मन्निष्ठो मद्भ‍ावाय प्रपद्यते ॥ ३२ ॥

एताः संसृतयः पुंसः गुण कर्म निबन्धनाः येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्त-जाः भक्ति-योगेन मत्-निष्ठः मत्-भावाय प्रपद्यते

तस्माद् देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ।
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणा: ॥ ३३ ॥

तस्मात् देहम् इमम् लब्ध्वा ज्ञान विज्ञान सम्भवम् गुण-सङ्गम् विनिर्धूय माम् भजन्तु विचक्षणाः

नि:सङ्गो मां भजेद् विद्वानप्रमत्तो जितेन्द्रिय: ।
रजस्तमश्चाभिजयेत् सत्त्वसंसेवया मुनि: ॥ ३४ ॥

निःसङ्गः माम् भजेत् विद्वान् अप्रमत्तः जित-इन्द्रियः रजः तमः च अभिजयेत् सत्त्व-संसेवया मुनिः

सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्तधी: ।
सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ॥ ३५ ॥

सत्त्वम् च अभिजयेत् युक्तः नैरपेक्ष्येण शान्त धीः सम्पद्यते गुणैः मुक्तः जीवः जीवम् विहाय माम्

जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवै: ।
मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् ॥ ३६ ॥

जीवः जीव-विनिर्मुक्तः गुणैः च आशय-सम्भवैः मया एव ब्रह्मणा पूर्णः न बहिः न अन्तरः चरेत्

११.२६

श्रीभगवानुवाच
मल्ल‍क्षणमिमं कायं लब्ध्वा मद्धर्म आस्थित: ।
आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १ ॥

श्री-भगवान् उवाच मत्-लक्षणम् इमम् कायम् लब्ध्वा मत्-धर्मे आस्थितः आनन्दम् परम-आत्मानम् आत्म-स्थम् समपैति माम्

गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।
गुणेषु मायामात्रेषु द‍ृश्यमानेष्ववस्तुत: ।
वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणै: ॥ २ ॥

गुण-मय्या जीव-योन्या विमुक्तः ज्ञान निष्ठया गुणेषु माया-मात्रेषु दृश्यमानेषु अवस्तुतः वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः

सङ्गं न कुर्यादसतां शिश्न‍ोदरतृपां क्व‍‍चित् ।
तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ॥

सङ्गम् न कुर्यात् असताम् शिश्न उदर तृपाम् क्वचित् तस्य अनुगः तमसि अन्धे पतति अन्ध-अनुग अन्ध-वत्

ऐल: सम्राडिमां गाथामगायत बृहच्छ्रवा: ।
उर्वशीविरहान् मुह्यन् निर्विण्ण: शोकसंयमे ॥ ४ ॥

ऐलः सम्राट् इमाम् गाथाम् अगायत बृहत् श्रवाः उर्वशी-विरहात् मुह्यन् निर्विण्णः शोक संयमे

त्यक्त्वात्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृप: ।
विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लव: ॥ ५ ॥

त्यक्त्वा आत्मानम् व्रजन्तीम् ताम् नग्नः उन्मत्त-वत् नृपः विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः

कामानतृप्तोऽनुजुषन् क्षुल्ल‍कान् वर्षयामिनी: ।
न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतन: ॥ ६ ॥

कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्ष यामिनीः न वेद यान्तीः न आयान्तीः उर्वशी आकृष्ट चेतनः

ऐल उवाच
अहो मे मोहविस्तार: कामकश्मलचेतस: ।
देव्या गृहीतकण्ठस्य नायु:खण्डा इमे स्मृता: ॥ ७ ॥

ऐलः उवाच अहो मे मोह विस्तारः काम कश्मल चेतसः देव्या गृहीत कण्ठस्य न आयुः खण्डाः इमे स्मृताः

नाहं वेदाभिनिर्मुक्त: सूर्यो वाभ्युदितोऽमुया ।
मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ ॥

न अहम् वेद अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया मूषितः वर्ष पूगानाम् बत अहानि गतानि उत

अहो मे आत्मसम्मोहो येनात्मा योषितां कृत: ।
क्रीडामृगश्चक्रवर्ती नरदेवशिखामणि: ॥ ९ ॥

अहो मे आत्म सम्मोहः येन आत्मा योषिताम् कृतः क्रीडा-मृगः चक्रवर्ती नरदेव शिखा-मणिः

सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।
यान्तीं स्‍त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० ॥

स-परिच्छदम् आत्मानम् हित्वा तृणम् इव ईश्वरम् यान्तीम् स्त्रियम् च अन्वगमन् नग्नः उन्मत्त-वत् रुदन्

कुतस्तस्यानुभाव: स्यात् तेज ईशत्वमेव वा ।
योऽन्वगच्छंस्‍त्रियं यान्तीं खरवत् पादताडित: ॥ ११ ॥

कुतः तस्य अनुभावः स्यात् तेजः ईशत्वम् एव वा यः अन्वगच्छम् स्त्रियम् यान्तीम् खर-वत् पाद ताडितः

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्‍त्रीभिर्यस्य मनो हृतम् ॥ १२ ॥

किम् विद्यया किम् तपसा किम् त्यागेन श्रुतेन वा किम् विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम्

स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् ।
योऽहमीश्वरतां प्राप्य स्‍त्रीभिर्गोखरवज्जित: ॥ १३ ॥

स्व-अर्थस्य अकोविदम् धिक् माम् मूर्खम् पण्डित-मानिनम् यः अहम् ईश्वरताम् प्राप्य स्त्रीभिः गो-खर-वत् जितः

सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् ।
न तृप्यत्यात्मभू: कामो वह्निराहुतिभिर्यथा ॥ १४ ॥

सेवतः वर्ष-पूगान् मे उर्वश्याः अधर आसवम् न तृप्यति आत्म-भूः कामः वह्निः आहुतिभिः यथा

पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभु: ।
आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥ १५ ॥

पुंश्चल्या अपहृतम् चित्तम् कः नु अन्यः मोचितुम् प्रभुः आत्म-आराम ईश्वरम् ऋते भगवन्तम् अधोक्षजम्

बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मते: ।
मनोगतो महामोहो नापयात्यजितात्मन: ॥ १६ ॥

बोधितस्य अपि देव्या मे सु-उक्त वाक्येन दुर्मतेः मनः-गतः महा-मोहः न अपयाति अजित-आत्मनः

किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतस: ।
द्रष्टु: स्वरूपाविदुषो योऽहं यदजितेन्द्रिय: ॥ १७ ॥

किम् एतया नः अपकृतम् रज्ज्वा वा सर्प-चेतसः द्रष्टुः स्वरूप अविदुषः यः अहम् यत् अजित-इन्द्रियः

क्व‍ायं मलीमस: कायो दौर्गन्ध्याद्यात्मकोऽशुचि: ।
क्व‍ गुणा: सौमनस्याद्या ह्यध्यासोऽविद्यया कृत: ॥ १८ ॥

क्व अयम् मलीमसः कायः दौर्गन्ध्य आदि आत्मकः अशुचिः क्व गुणाः सौमनस्य आद्याः हि अध्यासः अविद्यया कृतः

पित्रो: किं स्वं नु भार्याया: स्वामिनोऽग्ने: श्वगृध्रयो: ।
किमात्मन: किं सुहृदामिति यो नावसीयते ॥ १९ ॥
तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।
अहो सुभद्रं सुनसं सुस्मितं च मुखं स्‍त्रिय: ॥ २० ॥

पित्रोः किम् स्वम् नु भार्यायाः स्वामिनः अग्नेः श्व-गृध्रयोः किम् आत्मनः किम् सुहृदाम् इति यः न अवसीयते तस्मिन् कलेवरे अमेध्ये तुच्छ-निष्ठे विषज्जते अहो सु-भद्रम् सु-नसम् सु-स्मितम् च मुखम् स्त्रियः

त्वङ्‍मांसरुधिरस्‍नायुमेदोमज्जास्थिसंहतौ ।
विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥

त्वक् मांस रुधिर स्नायु मेदः मज्जा अस्थि संहतौ विट् मूत्र पूये रमताम् कृमीणाम् कियत् अन्तरम्

अथापि नोपसज्जेत स्‍त्रीषु स्‍त्रैणेषु चार्थवित् ।
विषयेन्द्रियसंयोगान्मन: क्षुभ्यति नान्यथा ॥ २२ ॥

अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थ-वित् विषय इन्द्रिय संयोगात् मनः क्षुभ्यति न अन्यथा

अद‍ृष्टादश्रुताद् भावान्न भाव उपजायते ।
असम्प्रयुञ्जत: प्राणान् शाम्यति स्तिमितं मन: ॥ २३ ॥

अदृष्टात् अश्रुतात् भावात् न भावः उपजायते असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितम् मनः

तस्मात् सङ्गो न कर्तव्य: स्‍त्रीषु स्‍त्रैणेषु चेन्द्रियै: ।
विदुषां चाप्यविस्रब्ध: षड्‍वर्ग: किमु माद‍ृशाम् ॥ २४ ॥

तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः विदुषाम् च अपि अविस्रब्धः षट्-वर्गः किम् उ मादृशाम्

श्रीभगवानुवाच
एवं प्रगायन् नृपदेवदेव:
स उर्वशीलोकमथो विहाय ।
आत्मानमात्मन्यवगम्य मां वै
उपारमज्ज्ञानविधूतमोह: ॥ २५ ॥

श्री-भगवान् उवाच एवम् प्रगायन् नृप देव देवः सः उर्वशी-लोकम् अथ उ विहाय आत्मानम् आत्मनि अवगम्य माम् वै उपारमत् ज्ञान विधूत मोहः

ततो दु:सङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभि: ॥ २६ ॥

ततः दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धि-मान् सन्तः एव अस्य छिन्दन्ति मनः व्यासङ्गम् उक्तिभिः

सन्तोऽनपेक्षा मच्चित्ता: प्रशान्ता: समदर्शिन: ।
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहा: ॥ २७ ॥

सन्तः अनपेक्षाः मत्-चित्ताः प्रशान्ताः सम-दर्शिनः निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः

तेषु नित्यं महाभाग महाभागेषु मत्कथा: ।
सम्भवन्ति हि ता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥

तेषु नित्यम् महा-भाग महा-भागेषु मत्-कथाः सम्भवन्ति हि ताः नॄणाम् जुषताम् प्रपुनन्ति अघम्

ता ये श‍ृण्वन्ति गायन्ति ह्यनुमोदन्ति चाद‍ृता: ।
मत्परा: श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥

ताः ये शृण्वन्ति गायन्ति हि अनुमोदन्ति च आदृताः मत्-पराः श्रद्दधानाः च भक्तिम् विन्दन्ति ते मयि

भक्तिं लब्धवत: साधो: किमन्यदवशिष्यते ।
मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥

भक्तिम् लब्धवतः साधोः किम् अन्यत् अवशिष्यते मयि अनन्त-गुणे ब्रह्मणि आनन्द अनुभव आत्मनि

यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ ॥

यथा उपश्रयमाणस्य भगवन्तम् विभावसुम् शीतम् भयम् तमः अप्येति साधून् संसेवतः तथा

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् ।
सन्तो ब्रह्मविद: शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥

निमज्ज्य उन्मज्जताम् घोरे भव अब्धौ परम अयनम् सन्तः ब्रह्म-विदः शान्ताः नौः दृढा इव अप्सु मज्जताम्

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् ।
धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ ॥

अन्नम् हि प्राणिनाम् प्राणः आर्तानाम् शरणम् तु अहम् धर्मः वित्तम् नृणाम् प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम्

सन्तो दिशन्ति चक्षूंषि बहिरर्क: समुत्थित: ।
देवता बान्धवा: सन्त: सन्त आत्माहमेव च ॥ ३४ ॥

सन्तः दिशन्ति चक्षूंषि बहिः अर्कः समुत्थितः देवताः बान्धवाः सन्तः सन्तः आत्मा अहम् एव च

वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिष्पृह: ।
मुक्तसङ्गो महीमेतामात्मारामश्चचार ह ॥ ३५ ॥

वैतसेनः ततः अपि एवम् उर्वश्याः लोक निष्पृहः मुक्त सङ्गः महीम् एताम् आत्म-आरामः चचार ह

११.२७

श्रीउद्धव उवाच
क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो ।
यस्मात्त्वां ये यथार्चन्ति सात्वता: सात्वतर्षभ ॥ १ ॥

श्री-उद्धवः उवाच क्रिया-योगम् समाचक्ष्व भवत् आराधनम् प्रभो यस्मात् त्वाम् ये यथा अर्चन्ति सात्वताः सात्वत-ऋषभ

एतद् वदन्ति मुनयो मुहुर्नि:श्रेयसं नृणाम् ।
नारदो भगवान् व्यास आचार्योऽङ्गिरस: सुत: ॥ २ ॥

एतत् वदन्ति मुनयः मुहुः निःश्रेयसम् नृणाम् नारदः भगवान् व्यासः आचार्यः अङ्गिरसः सुतः

नि:सृतं ते मुखाम्भोजाद् यदाह भगवानज: ।
पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भव: ॥ ३ ॥
एतद् वै सर्ववर्णानामाश्रमाणां च सम्मतम् ।
श्रेयसामुत्तमं मन्ये स्‍त्रीशूद्राणां च मानद ॥ ४ ॥

निःसृतम् ते मुख-अम्भोजात् यत् आह भगवान् अजः पुत्रेभ्यः भृगु-मुख्येभ्यः देव्यै च भगवान् भवः एतत् वै सर्व-वर्णानाम् आश्रमाणाम् च सम्मतम् श्रेयसाम् उत्तमम् मन्ये स्त्री शूद्राणाम् च मान-द

एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् ।
भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५ ॥

एतत् कमल-पत्र-अक्ष कर्म-बन्ध विमोचनम् भक्ताय अनुरक्ताय ब्रूहि विश्व-ईश्वर ईश्वर

श्रीभगवानुवाच
न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव ।
सङ्‌क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वश: ॥ ६ ॥

श्री-भगवान् उवाच न हि अन्तः अनन्त-पारस्य कर्म-काण्डस्य च उद्धव सङ्क्षिप्तम् वर्णयिष्यामि यथा-वत् अनुपूर्वशः

वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मख: ।
त्रयाणामीप्सितेनैव विधिना मां समर्चरेत् ॥ ७ ॥

वैदिकः तान्त्रिकः मिश्रः इति मे त्रि-विधः मखः त्रयाणाम् ईप्सितेन एव विधिना माम् समर्चरेत्

यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुष: ।
यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८ ॥

यदा स्व निगमेन उक्तम् द्विजत्वम् प्राप्य पूरुषः यथा यजेत माम् भक्त्या श्रद्धया तत् निबोध मे

अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विज: ।
द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ ९ ॥

अर्चायाम् स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः द्रव्येण भक्ति-युक्तः अर्चेत् स्व-गुरुम् माम् अमायया

पूर्वं स्‍नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये ।
उभयैरपि च स्‍नानं मन्त्रैर्मृद्ग्रहणादिना ॥ १० ॥

पूर्वम् स्नानम् प्रकुर्वीत धौत दन्तः अङ्ग शुद्धये उभयैः अपि च स्नानम् मन्त्रैः मृत्-ग्रहण-आदिना

सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे ।
पूजां तै: कल्पयेत् सम्यक् सङ्कल्प: कर्मपावनीम् ॥ ११ ॥

सन्ध्या उपास्ति आदि कर्माणि वेदेन आचोदितानि मे पूजाम् तैः कल्पयेत् सम्यक्-सङ्कल्पः कर्म पावनीम्

शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२ ॥

शैली दारु-मयी लौही लेप्या लेख्या च सैकती मनः-मयी मणि-मयी प्रतिमा अष्ट-विधा स्मृता

चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वासावाहने न स्त: स्थिरायामुद्धवार्चने ॥ १३ ॥

चला अचला इति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् उद्वास आवाहने न स्तः स्थिरायाम् उद्धव अर्चने

अस्थिरायां विकल्प: स्यात् स्थण्डिले तु भवेद् द्वयम् ।
स्‍नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥ १४ ॥

अस्थिरायाम् विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम् स्नपनम् तु अविलेप्यायाम् अन्यत्र परिमार्जनम्

द्रव्यै: प्रसिद्धैर्मद्याग: प्रतिमादिष्वमायिन: ।
भक्तस्य च यथालब्धैर्हृदि भावेन चैव हि ॥ १५ ॥

द्रव्यैः प्रसिद्धैः मत्-यागः प्रतिमा-आदिषु अमायिनः भक्तस्य च यथा-लब्धैः हृदि भावेन च एव हि

स्‍नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव ।
स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हवि: ॥ १६ ॥
सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभि: ।
श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७ ॥

स्नान अलङ्करणम् प्रेष्ठम् अर्चायाम् एव तु उद्धव स्थण्डिले तत्त्व-विन्यासः वह्नौ आज्य प्लुतम् हविः सूर्ये च अभ्यर्हणम् प्रेष्ठम् सलिले सलिल-आदिभिः श्रद्धया उपाहृतम् प्रेष्ठम् भक्तेन मम वारि अपि

भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते ।
गन्धो धूप: सुमनसो दीपोऽन्नाद्यं च किं पुन: ॥ १८ ॥

भूरि अपि अभक्त उपाहृतम् न मे तोषाय कल्पते गन्धः धूपः सुमनसः दीपः अन्न-आद्यम् च किम् पुनः

शुचि: सम्भृतसम्भार: प्राग्दर्भै: कल्पितासन: ।
आसीन: प्रागुदग् वार्चेदर्चायां त्वथ सम्मुख: ॥ १९ ॥

शुचिः सम्भृत सम्भारः प्राक् दर्भैः कल्पित आसनः आसीनः प्राक् उदक् वा अर्चेत् अर्चायाम् तु अथ सम्मुखः

कृतन्यास: कृतन्यासां मदर्चां पाणिना मृजेत् ।
कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २० ॥

कृत-न्यासः कृत-न्यासाम् मत्-अर्चाम् पाणिना आमृजेत् कलशम् प्रोक्षणीयम् च यथा-वत् उपसाधयेत्

तदद्भ‍िर्देवयजनं द्रव्याण्यात्मानमेव च ।
प्रोक्ष्य पात्राणि त्रीण्यद्भ‍िस्तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१ ॥

तत् अद्भिः देव-यजनम् द्रव्याणि आत्मानम् एव च प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत्

पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिक: ।
हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२ ॥

पाद्य अर्घ्य आचमनीय अर्थम् त्रीणि पात्राणि देशिकः हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत्

पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।
अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २३ ॥

पिण्डे वायु अग्नि संशुद्धे हृत् पद्म स्थाम् पराम् मम अण्वीम् जीव-कलाम् ध्यायेत् नाद-अन्ते सिद्ध भाविताम्

तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मय: ।
आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४ ॥

तया आत्म-भूतया पिण्डे व्याप्ते सम्पूज्य तत्-मयः आवाह्य अर्चा-आदिषु स्थाप्य न्यस्त-अङ्गम् माम् प्रपूजयेत्

पाद्योपस्पर्शार्हणादीनुपचारान् प्रकल्पयेत् ।
धर्मादिभिश्च नवभि: कल्पयित्वासनं मम ॥ २५ ॥
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ।
उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६ ॥

पाद्य उपस्पर्श अर्हण आदीन् उपचारान् प्रकल्पयेत् धर्म-आदिभिः च नवभिः कल्पयित्वा आसनम् मम पद्मम् अष्ट-दलम् तत्र कर्णिका केसर उज्ज्वलम् उभाभ्याम् वेद-तन्त्राभ्याम् मह्यम् तु उभय सिद्धये

सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् ।
मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७ ॥

सुदर्शनम् पाञ्चजन्यम् गदा असि इषु धनुः हलान् मुषलम् कौस्तुभम् मालाम् श्रीवत्सम् च अनुपूजयेत्

नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ।
महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥ २८ ॥

नन्दम् सुनन्दम् गरुडम् प्रचण्डम् चण्डम् एव च महा-बलम् बलम् च एव कुमुदम् कुमुद-ईक्षणम्

दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् ।
स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभि: ॥ २९ ॥

दुर्गाम् विनायकम् व्यासम् विष्वक्सेनम् गुरून् सुरान् स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण-आदिभिः

चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितै: ।
सलिलै: स्‍नापयेन्मन्त्रैर्नित्यदा विभवे सति ॥ ३० ॥
स्वर्णघर्मानुवाकेन महापुरुषविद्यया ।
पौरुषेणापि सूक्तेन सामभी राजनादिभि: ॥ ३१ ॥

चन्दन उशीर कर्पूर कुङ्कुम अगुरु वासितैः सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति स्वर्ण-घर्म-अनुवाकेन महा-पुरुष-विद्यया पौरुषेण अपि सूक्तेन सामभिः राजन-आदिभिः

वस्त्र‍ोपवीताभरणपत्रस्रग्गन्धलेपनै: ।
अलङ्कुर्वीत सप्रेम मद्भ‍क्तो मां यथोचितम् ॥ ३२ ॥

वस्त्र उपवीत आभरण पत्र स्रक् गन्ध-लेपनैः अलङ्कुर्वीत स-प्रेम मत्-भक्तः माम् यथा उचितम्

पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान् ।
धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चक: ॥ ३३ ॥

पाद्यम् आचमनीयम् च गन्धम् सुमनसः अक्षतान् धूप दीप उपहार्याणि दद्यात् मे श्रद्धया अर्चकः

गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ।
संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४ ॥

गुड पायस सर्पींषि शष्कुली आपूप मोदकान् संयाव दधि सूपान् च नैवेद्यम् सति कल्पयेत्

अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् ।
अन्नाद्यगीतनृत्यानि पर्वणि स्युरुतान्वहम् ॥ ३५ ॥

अभ्यङ्ग उन्मर्दन आदर्श दन्त-धाव अभिषेचनम् अन्न आद्य गीता नृत्यानि पर्वणि स्युः उत अनु-अहम्

विधिना विहिते कुण्डे मेखलागर्तवेदिभि: ।
अग्निमाधाय परित: समूहेत् पाणिनोदितम् ॥ ३६ ॥

विधिना विहिते कुण्डे मेखला गर्त वेदिभिः अग्निम् आधाय परितः समूहेत् पाणिना उदितम्

परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि ।
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७ ॥

परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथा-विधि प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्य अग्नौ भावयेत माम्

तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजै: ।
लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८ ॥
स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ३९ ॥
ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च ।
प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हवि: ॥ ४० ॥
जुहुयान्मूलमन्त्रेण षोडशर्चावदानत: ।
धर्मादिभ्यो यथान्यायं मन्त्रै: स्विष्टिकृतं बुध: ॥ ४१ ॥

तप्त जाम्बू-नद प्रख्यम् शङ्ख चक्र गदा अम्बुजैः लसत् चतुः-भुजम् शान्तम् पद्म किञ्जल्क वाससम् स्फुरत् किरीट कटक कटि-सूत्र वर-अङ्गदम् श्री-वत्स वक्षसम् भ्राजत् कौस्तुभम् वन-मालिनम् ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च प्रास्य आज्य भागौ आघारौ दत्त्वा च आज्य प्लुतम् हविः जुहुयात् मूल-मन्त्रेण षोडश-ऋचा अवदानतः धर्म-आदिभ्यः यथा-न्यायम् मन्त्रैः स्विष्टि-कृतम् बुधः

अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।
मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम् ॥ ४२ ॥

अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिम् हरेत् मूल-मन्त्रम् जपेत् ब्रह्म स्मरन् नारायण-आत्मकम्

दत्त्वाचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् ।
मुखवासं सुरभिमत् ताम्बूलाद्यमथार्हयेत् ॥ ४३ ॥

दत्त्वा आचमनम् उच्छेषम् विष्वक्सेनाय कल्पयेत् मुख-वासम् सुरभि-मत् ताम्बूल-आद्यम् अथ अर्हयेत्

उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम ।
मत्कथा: श्रावयन् श‍ृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४ ॥

उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम मत्-कथाः श्रावयन् शृण्वन् मुहूर्तम् क्षणिकः भवेत्

स्तवैरुच्चावचै: स्तोत्रै: पौराणै: प्राकृतैरपि ।
स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥ ४५ ॥

स्तवैः उच्च-अवचैः स्तोत्रैः पौराणैः प्राकृतैः अपि स्तुत्वा प्रसीद भगवन् इति वन्देत दण्ड-वत्

शिरो मत्पादयो: कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६ ॥

शिरः मत्-पादयोः कृत्वा बाहुभ्याम् च परस्परम् प्रपन्नम् पाहि माम् ईश भीतम् मृत्यु ग्रह अर्णवात्

इति शेषां मया दत्तां शिरस्याधाय सादरम् ।
उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत् पुन: ॥ ४७ ॥

इति शेषाम् मया दत्ताम् शिरसि आधाय स-आदरम् उद्वासयेत् चेत् उद्वास्यम् ज्योतिः ज्योतिषि तत् पुनः

अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् ।
सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थित: ॥ ४८ ॥

अर्चा-आदिषु यदा यत्र श्रद्धा माम् तत्र च अर्चयेत् सर्व-भूतेषु आत्मनि च सर्व-आत्मा अहम् अवस्थितः

एवं क्रियायोगपथै: पुमान् वैदिकतान्त्रिकै: ।
अर्चन्नुभयत: सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९ ॥

एवम् क्रिया-योग पथैः पुमान् वैदिक-तान्त्रिकैः अर्चन् उभयतः सिद्धिम् मत्तः विन्दति अभीप्सिताम्

मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् द‍ृढम् ।
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५० ॥

मत्-अर्चाम् सम्प्रतिष्ठाप्य मन्दिरम् कारयेत् दृढम् पुष्प-उद्यानानि रम्याणि पूजा यात्रा उत्सव आश्रितान्

पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ।
क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१ ॥

पूजा-आदीनाम् प्रवाह-अर्थम् महा-पर्वसु अथ अनु-अहम् क्षेत्र आपण पुर ग्रामान् दत्त्वा मत्-सार्ष्टिताम् इयात्

प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।
पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२ ॥

प्रतिष्ठया सार्व-भौमम् सद्मना भुवन-त्रयम् पूजा-आदिना ब्रह्म-लोकम् त्रिभिः मत्-साम्यताम् इयात्

मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।
भक्तियोगं स लभत एवं य: पूजयेत माम् ॥ ५३ ॥

माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति भक्ति-योगम् सः लभते एवम् यः पूजयेत माम्

य: स्वदत्तां परैर्दत्तां हरेत सुरविप्रयो: ।
वृत्तिं स जायते विड्भुग् वर्षाणामयुतायुतम् ॥ ५४ ॥

यः स्व-दत्ताम् परैः दत्ताम् हरेत सुर-विप्रयोः वृत्तिम् सः जायते विट्-भुक् वर्षाणाम् अयुत अयुतम्

कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च ।
कर्मणां भागिन: प्रेत्य भूयो भूयसि तत् फलम् ॥ ५५ ॥

कर्तुः च सारथेः हेतोः अनुमोदितुः एव च कर्मणाम् भागिनः प्रेत्य भूयः भूयसि तत् फलम्

११.२८

श्रीभगवानुवाच
परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् ।
विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥

श्री-भगवान् उवाच पर स्वभाव कर्माणि न प्रशंसेत् न गर्हयेत् विश्वम् एक-आत्मकम् पश्यन् प्रकृत्या पुरुषेण च

परस्वभावकर्माणि य: प्रशंसति निन्दति ।
स आशु भ्रश्यते स्वार्थादसत्यभिनिवेशत: ॥ २ ॥

पर स्वभाव कर्माणि यः प्रशंसति निन्दति सः आशु भ्रश्यते स्व-अर्थात् असति अभिनिवेशतः

तैजसे निद्रयापन्ने पिण्डस्थो नष्टचेतन: ।
मायां प्राप्नोति मृत्युं वा तद्वन्नानार्थद‍ृक् पुमान् ॥ ३ ॥

तैजसे निद्रया आपन्ने पिण्ड स्थः नष्ट-चेतनः मायाम् प्राप्नोति मृत्युम् वा तद्वत् नाना-अर्थ दृक् पुमान्

किं भद्रं किमभद्रं वा द्वैतस्यावस्तुन: कियत् ।
वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥

किम् भद्रम् किम् अभद्रम् वा द्वैतस्य अवस्तुनः कियत् वाचा उदितम् तत् अनृतम् मनसा ध्यातम् एव च

छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिण: ।
एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥

छाया प्रत्याह्वय आभासाः हि असन्तः अपि अर्थ कारिणः एवम् देह-आदयः भावाः यच्छन्ति आ-मृत्युतः भयम्

आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभु: ।
त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वर: ॥ ६ ॥
तस्मान्न ह्यात्मनोऽन्यस्मादन्यो भावो निरूपित: ।
निरूपितेऽयं त्रिविधा निर्मूला भातिरात्मनि ।
इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७ ॥

आत्मा एव तत् इदम् विश्वम् सृज्यते सृजति प्रभुः त्रायते त्राति विश्व-आत्मा ह्रियते हरति ईश्वरः तस्मात् न हि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः निरूपिते अयम् त्रि-विधा निर्मूला भातिः आत्मनि इदम् गुण-मयम् विद्धि त्रि-विधम् मायया कृतम्

एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८ ॥

एतत् विद्वान् मत् उदितम् ज्ञान विज्ञान नैपुणम् न निन्दति न च स्तौति लोके चरति सूर्य-वत्

प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ।
आद्यन्तवदसज्ज्ञात्वा नि:सङ्गो विचरेदिह ॥ ९ ॥

प्रत्यक्षेण अनुमानेन निगमेन आत्म-संविदा आदि-अन्त-वत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह

श्रीउद्धव उवाच
नैवात्मनो न देहस्य संसृतिर्द्रष्टृद‍ृश्ययो: ।
अनात्मस्वद‍ृशोरीश कस्य स्यादुपलभ्यते ॥ १० ॥

श्री-उद्धवः उवाच न एव आत्मनः न देहस्य संसृतिः द्रष्टृ-दृश्ययोः अनात्म स्व-दृशोः ईश कस्य स्यात् उपलभ्यते

आत्माव्ययोऽगुण: शुद्ध: स्वयंज्योतिरनावृत: ।
अग्निवद्दारुवदचिद्देह: कस्येह संसृति: ॥ ११ ॥

आत्मा अव्ययः अगुणः शुद्धः स्वयम्-ज्योतिः अनावृतः अग्नि-वत् दारु-वत् अचित् देहः कस्य इह संसृतिः

श्रीभगवानुवाच
यावद् देहेन्द्रियप्राणैरात्मन: सन्निकर्षणम् ।
संसार: फलवांस्तावदपार्थोऽप्यविवेकिन: ॥ १२ ॥

श्री-भगवान् उवाच यावत् देह इन्द्रिय प्राणैः आत्मनः सन्निकर्षणम् संसारः फल-वान् तावत् अपार्थः अपि अविवेकिनः

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३ ॥

अर्थे हि अविद्यमाने अपि संसृतिः न निवर्तते ध्यायतः विषयान् अस्य स्वप्ने अनर्थ आगमः यथा

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४ ॥

यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु अनर्थ भृत् सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते

शोकहर्षभयक्रोधलोभमोहस्पृहादय: ।
अहङ्कारस्य द‍ृश्यन्ते जन्म मृत्युश्च नात्मन: ॥ १५ ॥

शोक हर्ष भय क्रोध लोभ मोह स्पृहा आदयः अहङ्कारस्य दृश्यन्ते जन्म मृत्युः च न आत्मनः

देहेन्द्रियप्राणमनोऽभिमानो
जीवोऽन्तरात्मा गुणकर्ममूर्ति: ।
सूत्रं महानित्युरुधेव गीत:
संसार आधावति कालतन्त्र: ॥ १६ ॥

देह इन्द्रिय प्राण मनः अभिमानः जीवः अन्तः आत्मा गुण कर्म मूर्तिः सूत्रम् महान् इति उरुधा इव गीतः संसारे आधावति काल तन्त्रः

अमूलमेतद् बहुरूपरूपितं
मनोवच:प्राणशरीरकर्म ।
ज्ञानासिनोपासनया शितेन-
च्छित्त्वा मुनिर्गां विचरत्यतृष्ण: ॥ १७ ॥

अमूलम् एतत् बहु-रूप रूपितम् मनः वचः प्राण शरीर कर्म ज्ञान असिना उपासनया शितेन छित्त्वा मुनिः गाम् विचरति अतृष्णः

ज्ञानं विवेको निगमस्तपश्च
प्रत्यक्षमैतिह्यमथानुमानम् ।
आद्यन्तयोरस्य यदेव केवलं
कालश्च हेतुश्च तदेव मध्ये ॥ १८ ॥

ज्ञानम् विवेकः निगमः तपः च प्रत्यक्षम् ऐतिह्यम् अथ अनुमानम् आदि अन्तयोः अस्य यत् एव केवलम् कालः च हेतुः च तत् एव मध्ये

यथा हिरण्यं स्वकृतं पुरस्तात्
पश्चाच्च सर्वस्य हिरण्मयस्य ।
तदेव मध्ये व्यवहार्यमाणं
नानापदेशैरहमस्य तद्वत् ॥ १९ ॥

यथा हिरण्यम् सु-अकृतम् पुरस्तात् पश्चात् च सर्वस्य हिरण्-मयस्य तत् एव मध्ये व्यवहार्यमाणम् नाना अपदेशैः अहम् अस्य तद्वत्

विज्ञानमेतत्‍त्रियवस्थमङ्ग
गुणत्रयं कारणकार्यकर्तृ ।
समन्वयेन व्यतिरेकतश्च
येनैव तुर्येण तदेव सत्यम् ॥ २० ॥

विज्ञानम् एतत् त्रि-अवस्थम् अङ्ग गुण-त्रयम् कारण कार्य कर्तृ समन्वयेन व्यतिरेकतः च येन एव तुर्येण तत् एव सत्यम्

न यत् पुरस्तादुत यन्न पश्चा-
न्मध्ये च तन्न व्यपदेशमात्रम् ।
भूतं प्रसिद्धं च परेण यद् यत्
तदेव तत् स्यादिति मे मनीषा ॥ २१ ॥

न यत् पुरस्तात् उत यत् न पश्चात् मध्ये च तत् न व्यपदेश-मात्रम् भूतम् प्रसिद्धम् च परेण यत् यत् तत् एव तत् स्यात् इति मे मनीषा

अविद्यमानोऽप्यवभासते यो
वैकारिको राजससर्ग एष: ।
ब्रह्म स्वयंज्योतिरतो विभाति
ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२ ॥

अविद्यमानः अपि अवभासते यः वैकारिकः राजस सर्गः एषः ब्रह्म स्वयम् ज्योतिः अतः विभाति ब्रह्म इन्द्रिय अर्थ आत्म विकार चित्रम्

एवं स्फुटं ब्रह्मविवेकहेतुभि:
परापवादेन विशारदेन ।
छित्त्वात्मसन्देहमुपारमेत
स्वानन्दतुष्टोऽखिलकामुकेभ्य: ॥ २३ ॥

एवम् स्फुटम् ब्रह्म विवेक-हेतुभिः पर अपवादेन विशारदेन छित्त्वा आत्म सन्देहम् उपारमेत स्व-आनन्द तुष्टः अखिल कामुकेभ्यः

नात्मा वपु: पार्थिवमिन्द्रियाणि
देवा ह्यसुर्वायुर्जलम् हुताश: ।
मनोऽन्नमात्रं धिषणा च सत्त्व-
महङ्कृति: खं क्षितिरर्थसाम्यम् ॥ २४ ॥

न आत्मा वपुः पार्थिवम् इन्द्रियाणि देवाः हि असुः वायुः जलम् हुत-आशः मनः अन्न-मात्रम् धिषणा च सत्त्वम् अहङ्कृतिः खम् क्षितिः अर्थ साम्यम्

समाहितै: क: करणैर्गुणात्मभि-र्गुणो भवेन्मत्सुविविक्तधाम्न: ।
विक्षिप्यमाणैरुत किं नु दूषणंघनैरुपेतैर्विगतै रवे: किम् ॥ २५ ॥

समाहितैः कः करणैः गुण-आत्मभिः गुणः भवेत् मत् सु-विविक्त धाम्नः विक्षिप्यमाणैः उत किम् नु दूषणम् घनैः उपेतैः विगतैः रवेः किम्

यथा नभो वाय्वनलाम्बुभूगुणै-
र्गतागतैर्वर्तुगुणैर्न सज्जते ।
तथाक्षरं सत्त्वरजस्तमोमलै-
रहंमते: संसृतिहेतुभि: परम् ॥ २६ ॥

यथा नभः वायु अनल अम्बु भू गुणैः गत-आगतैः वा ऋतु-गुणैः न सज्जते तथा अक्षरम् सत्त्व-रजः-तमः मलैः अहम्-मतेः संसृति-हेतुभिः परम्

तथापि सङ्ग: परिवर्जनीयो
गुणेषु मायारचितेषु तावत् ।
मद्भ‍‍क्तियोगेन द‍ृढेन यावद्
रजो निरस्येत मन:कषाय: ॥ २७ ॥

तथा अपि सङ्गः परिवर्जनीयः गुणेषु माया-रचितेषु तावत् मत्-भक्ति-योगेन दृढेन यावत् रजः निरस्येत मनः कषायः

यथामयोऽसाधुचिकित्सितो नृणां
पुन: पुन: सन्तुदति प्ररोहन् ।
एवं मनोऽपक्व‍कषायकर्म
कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८ ॥

यथा आमयः असाधु चिकित्सितः नृणाम् पुनः पुनः सन्तुदति प्ररोहन् एवम् मनः अपक्व कषाय कर्म कु-योगिनम् विध्यति सर्व-सङ्गम्

कुयोगिनो ये विहितान्तरायै-
र्मनुष्यभूतैस्‍त्रिदशोपसृष्टै: ।
ते प्राक्तनाभ्यासबलेन भूयो
युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९ ॥

कु-योगिनः ये विहित अन्तरायैः मनुष्य-भूतैः त्रिदश उपसृष्टैः ते प्राक्तन अभ्यास बलेन भूयः युञ्जन्ति योगम् न तु कर्म-तन्त्रम्

करोति कर्म क्रियते च जन्तु:
केनाप्यसौ चोदित आनिपातात् ।
न तत्र विद्वान् प्रकृतौ स्थितोऽपि
निवृत्ततृष्ण: स्वसुखानुभूत्या ॥ ३० ॥

करोति कर्म क्रियते च जन्तुः केन अपि असौ चोदितः आ-निपातात् न तत्र विद्वान् प्रकृतौ स्थितः अपि निवृत्त तृष्णः स्व सुख अनुभूत्या

तिष्ठन्तमासीनमुत व्रजन्तं
शयानमुक्षन्तमदन्तमन्नम् ।
स्वभावमन्यत् किमपीहमान-
मात्मानमात्मस्थमतिर्न वेद ॥ ३१ ॥

तिष्ठन्तम् आसीनम् उत व्रजन्तम् शयानम् उक्षन्तम् अदन्तम् अन्नम् स्व-भावम् अन्यत् किम् अपि ईहमानम् आत्मानम् आत्म-स्थ मतिः न वेद

यदि स्म पश्यत्यसदिन्द्रियार्थं
नानानुमानेन विरुद्धमन्यत् ।
न मन्यते वस्तुतया मनीषी
स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२ ॥

यदि स्म पश्यति असत् इन्द्रिय-अर्थम् नाना अनुमानेन विरुद्धम् अन्यत् न मन्यते वस्तुतया मनीषी स्वाप्नम् यथा उत्थाय तिरोदधानम्

पूर्वं गृहीतं गुणकर्मचित्र-
मज्ञानमात्मन्यविविक्तमङ्ग ।
निवर्तते तत् पुनरीक्षयैव
न गृह्यते नापि विसृज्य आत्मा ॥ ३३ ॥

पूर्वम् गृहीतम् गुण कर्म चित्रम् अज्ञानम् आत्मनि अविविक्तम् अङ्ग निवर्तते तत् पुनः ईक्षया एव न गृह्यते न अपि विसृज्य आत्मा

यथा हि भानोरुदयो नृचक्षुषां
तमो निहन्यान्न तु सद् विधत्ते ।
एवं समीक्षा निपुणा सती मे
हन्यात्तमिस्रं पुरुषस्य बुद्धे: ॥ ३४ ॥

यथा हि भानोः उदयः नृ चक्षुषाम् तमः निहन्यात् न तु सत् विधत्ते एवम् समीक्षा निपुणा सती मे हन्यात् तमिस्रम् पुरुषस्य बुद्धेः

एष स्वयंज्योतिरजोऽप्रमेयो
महानुभूति: सकलानुभूति: ।
एकोऽद्वितीयो वचसां विरामे
येनेषिता वागसवश्चरन्ति ॥ ३५ ॥

एषः स्वयम्-ज्योतिः अजः अप्रमेयः महा-अनुभूतिः सकल-अनुभूतिः एकः अद्वितीयः वचसाम् विरामे येन ईषिताः वाक् असवः चरन्ति

एतावानात्मसम्मोहो यद् विकल्पस्तु केवले ।
आत्मनृते स्वमात्मानमवलम्बो न यस्य हि ॥ ३६ ॥

एतावान् आत्म सम्मोहः यत् विकल्पः तु केवले आत्मन् ऋते स्वम् आत्मानम् अवलम्बः न यस्य हि

यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।
व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७ ॥

यत् नाम आकृतिभिः ग्राह्यम् पञ्च-वर्णम् अबाधितम् व्यर्थेन अपि अर्थ-वादः अयम् द्वयम् पण्डित-मानिनाम्

योगिनोऽपक्व‍योगस्य युञ्जत: काय उत्थितै: ।
उपसर्गैर्विहन्येत तत्रायं विहितो विधि: ॥ ३८ ॥

योगिनः अपक्व-योगस्य युञ्जतः कायः उत्थितैः उपसर्गैः विहन्येत तत्र अयम् विहितः विधिः

योगधारणया कांश्चिदासनैर्धारणान्वितै: ।
तपोमन्त्रौषधै: कांश्चिदुपसर्गान् विनिर्दहेत् ॥ ३९ ॥

योग-धारणया कांश्चित् आसनैः धारणा-अन्वितैः तपः मन्त्र औषधैः कांश्चित् उपसर्गान् विनिर्दहेत्

कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभि: ।
योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शनै: ॥ ४० ॥

कांश्चित् मम अनुध्यानेन नाम सङ्कीऋतन आदिभिः योग-ईश्वर अनुवृत्त्या वा हन्यात् अशुभ-दान् शनैः

केचिद् देहमिमं धीरा: सुकल्पं वयसि स्थिरम् ।
विधाय विविधोपायैरथ युञ्जन्ति सिद्धये ॥ ४१ ॥

केचित् देहम् इमम् धीराः सु-कल्पम् वयसि स्थिरम् विधाय विविध उपायैः अथ युञ्जन्ति सिद्धये

न हि तत् कुशलाद‍ृत्यं तदायासो ह्यपार्थक: ।
अन्तवत्त्वाच्छरीरस्य फलस्येव वनस्पते: ॥ ४२ ॥

न हि तत् कुशल आदृत्यम् तत् आयासः हि अपार्थकः अन्त-वत्त्वात् शरीरस्य फलस्य इव वनस्पतेः

योगं निषेवतो नित्यं कायश्चेत् कल्पतामियात् ।
तच्छ्रद्दध्यान्न मतिमान्योगमुत्सृज्य मत्पर: ॥ ४३ ॥

योगम् निषेवतः नित्यम् कायः चेत् कल्पताम् इयात् तत् श्रद्दध्यात् न मति-मान् योगम् उत्सृज्य मत्-परः

योगचर्यामिमां योगी विचरन् मदपाश्रय: ।
नान्तरायैर्विहन्येत नि:स्पृह: स्वसुखानुभू: ॥ ४४ ॥

योग-चर्याम् इमाम् योगी विचरन् मत्-अपाश्रयः न अन्तरायैः विहन्येत निःस्पृहः स्व सुख अनुभूः

११.२९

श्रीउद्धव उवाच
सुदुस्तरामिमां मन्ये योगचर्यामनात्मन: ।
यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥ १ ॥

श्री-उद्धवः उवाच सु-दुस्तराम् इमाम् मन्ये योग-चर्याम् अनात्मनः यथा अञ्जसा पुमान् सिद्ध्येत् तत् मे ब्रूहि अञ्जसा अच्युत

प्रायश: पुण्डरीकाक्ष युञ्जन्ते योगिनो मन: ।
विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिता: ॥ २ ॥

प्रायशः पुण्डरीक-अक्ष युञ्जन्तः योगिनः मनः विषीदन्ति असमाधानात् मनः-निग्रह कर्शिताः

अथात आनन्ददुघं पदाम्बुजं
हंसा: श्रयेरन्नरविन्दलोचन ।
सुखं नु विश्वेश्वर योगकर्मभि-
स्त्वन्माययामी विहता न मानिन: ॥ ३ ॥

अथ अतः आनन्द-दुघम् पद-अम्बुजम् हंसाः श्रयेरन् अरविन्द-लोचन सुखम् नु विश्व-ईश्वर योग-कर्मभिः त्वत्-मायया अमी विहताः न मानिनः

किं चित्रमच्युत तवैतदशेषबन्धोदासेष्वनन्यशरणेषु यदात्मसात्त्वम् ।
योऽरोचयत् सह मृगै: स्वयमीश्वराणांश्रीमत्किरीटतटपीडितपादपीठ: ॥ ४ ॥

किम् चित्रम् अच्युत तव एतत् अशेष-बन्धो दासेषु अनन्य-शरणेषु यत् आत्म-सात्त्वम् यः अरोचयत् सह मृगैः स्वयम् ईश्वराणाम् श्रीमत् किरीट तट पीडित पाद-पीठः

तं त्वाखिलात्मदयितेश्वरमाश्रितानां
सर्वार्थदं स्वकृतविद् विसृजेत को नु ।
को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै
किं वा भवेन्न तव पादरजोजुषां न: ॥ ५ ॥

तम् त्वा अखिल आत्म दयित ईश्वरम् आश्रीतानाम् सर्व-अर्थ दम् स्व-कृत वित् विसृजेत कः नु कः वा भजेत् किम् अपि विस्मृतये अनु भूत्यै किम् वा भवेत् न तव पाद रजः जुषाम् नः

नैवोपयन्त्यपचितिं कवयस्तवेश
ब्रह्मायुषापि कृतमृद्धमुद: स्मरन्त: ।
योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन्न
आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६ ॥

न एव उपयन्ति अपचितिम् कवयः तव ईश ब्रह्म-आयुषा अपि कृतम् ऋद्ध मुदः स्मरन्तः यः अन्तः बहिः तनु-भृताम् अशुभम् विधुन्वन् आचार्य चैत्त्य वपुषा स्व गतिम् व्यनक्ति

श्रीशुक उवाच
इत्युद्धवेनात्यनुरक्तचेतसा
पृष्टो जगत्क्रीडनक: स्वशक्तिभि: ।
गृहीतमूर्तित्रय ईश्वरेश्वरो
जगाद सप्रेममनोहरस्मित: ॥ ७ ॥

श्री-शुकः उवाच इति उद्धवेन अति-अनुरक्त चेतसा पृष्टः जगत् क्रीडनकः स्व-शक्तिभिः गृहीत मूर्ति त्रयः ईश्वर ईश्वरः जगाद स-प्रेम मनः-हर स्मितः

श्रीभगवानुवाच
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।
यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥

श्री-भगवान् उवाच हन्त ते कथयिष्यामि मम धर्मान् सु-मङ्गलान् यान् श्रद्धया आचरन् मर्त्यः मृत्युम् जयति दुर्जयम्

कुर्यात् सर्वाणि कर्माणि मदर्थं शनकै: स्मरन् ।
मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरति: ॥ ९ ॥

कुर्यात् सर्वाणि कर्माणि मत्-अर्थम् शनकैः स्मरन् मयि अर्पित मनः-चित्तः मत्-धर्म आत्म-मनः रतिः

देशान् पुण्यानाश्रयेत मद्भ‍क्तै: साधुभि: श्रितान् ।
देवासुरमनुष्येषु मद्भ‍क्ताचरितानि च ॥ १० ॥

देशान् पुण्यान् आश्रयेत मत्-भक्तैः साधुभिः श्रितान् देव असुर मनुष्येषु मत्-भक्त आचरितानि च

पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् ।
कारयेद् गीतनृत्याद्यैर्महाराजविभूतिभि: ॥ ११ ॥

पृथक् सत्रेण वा मह्यम् पर्व यात्रा महा-उत्सवान् कारयेत् गीत नृत्य-आद्यैः महा-राज विभूतिभिः

मामेव सर्वभूतेषु बहिरन्तरपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खममलाशय: ॥ १२ ॥

माम् एव सर्व-भूतेषु बहिः अन्तः अपावृतम् ईक्षेत आत्मनि च आत्मानम् यथा खम् अमल-आशयः

इति सर्वाणि भूतानि मद्भ‍ावेन महाद्युते ।
सभाजयन् मन्यमानो ज्ञानं केवलमाश्रित: ॥ १३ ॥
ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव समद‍ृक् पण्डितो मत: ॥ १४ ॥

इति सर्वाणि भूतानि मत्-भावेन महा-द्युते सभाजयन् मन्यमानः ज्ञानम् केवलम् आश्रितः ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके अक्रूरे क्रूरके च एव सम-दृक् पण्डितः मतः

नरेष्वभीक्ष्णं मद्भ‍ावं पुंसो भावयतोऽचिरात् ।
स्पर्धासूयातिरस्कारा: साहङ्कारा वियन्ति हि ॥ १५ ॥

नरेषु अभीक्ष्णम् मत्-भावम् पुंसः भावयतः अचिरात् स्पर्धा असूया तिरस्काराः स अहङ्काराः वियन्ति हि

विसृज्य स्मयमानान् स्वान् द‍ृशं व्रीडां च दैहिकीम् ।
प्रणमेद् दण्डवद् भूमावाश्वचाण्डालगोखरम् ॥ १६ ॥

विसृज्य स्मयमानान् स्वान् दृशम् व्रीडाम् च दैहिकीम् प्रणमेत् दण्ड-वत् भूमौ आ श्व चाण्डाल गो खरम्

यावत् सर्वेषु भूतेषु मद्भ‍ावो नोपजायते ।
तावदेवमुपासीत वाङ्‍मन:कायवृत्तिभि: ॥ १७ ॥

यावत् सर्वेषु भूतेषु मत्-भावः न उपजायते तावत् एवम् उपासीत वाक् मनः काय वृत्तिभिः

सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया ।
परिपश्यन्नुपरमेत् सर्वतो मुक्तसंशय: ॥ १८ ॥

सर्वम् ब्रह्म-आत्मकम् तस्य विद्यया आत्म-मनीषया परिपश्यन् उपरमेत् सर्वतः मुक्त-संशयः

अयं हि सर्वकल्पानां सध्रीचीनो मतो मम ।
मद्भ‍ाव: सर्वभूतेषु मनोवाक्कायवृत्तिभि: ॥ १९ ॥

अयम् हि सर्व कल्पानाम् सध्रीचीनः मतः मम मत्-भावः सर्व-भूतेषु मनः-वाक्-काय-वृत्तिभिः

न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि ।
मया व्यवसित: सम्यङ्निर्गुणत्वादनाशिष: ॥ २० ॥

न हि अङ्ग उपक्रमे ध्वंसः मत्-धर्मस्य उद्धव अणु अपि मया व्यवसितः सम्यक् निर्गुण-त्वात् अनाशिषः

यो यो मयि परे धर्म: कल्प्यते निष्फलाय चेत् ।
तदायासो निरर्थ: स्याद् भयादेरिव सत्तम ॥ २१ ॥

यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेत् तत् आयासः निरर्थः स्यात् भय-आदेः इव सत्-तम

एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् ।
यत् सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२ ॥

एषा बुद्धि-मताम् बुद्धिः मनीषा च मनीषिणाम् यत् सत्यम् अनृतेन इह मर्त्येन आप्नोति मा अमृतम्

एष तेऽभिहित: कृत्‍स्‍नो ब्रह्मवादस्य सङ्ग्रह: ।
समासव्यासविधिना देवानामपि दुर्गम: ॥ २३ ॥

एषः ते अभिहितः कृत्स्नः ब्रह्म-वादस्य सङ्ग्रहः समास व्यास विधिना देवानाम् अपि दुर्गमः

अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।
एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशय: ॥ २४ ॥

अभीक्ष्णशः ते गदितम् ज्ञानम् विस्पष्ट युक्ति मत् एतत् विज्ञाय मुच्येत पुरुषः नष्ट संशयः

सुविविक्तं तव प्रश्न‍ं मयैतदपि धारयेत् ।
सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५ ॥

स-विविक्तम् तव प्रश्नम् मया एतत् अपि धारयेत् सनातनम् ब्रह्म-गुह्यम् परम् ब्रह्म अधिगच्छति

य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।
तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६ ॥

यः एतत् मम भक्तेषु सम्प्रदद्यात् सु-पुष्कलम् तस्य अहम् ब्रह्म-दायस्य ददामि आत्मानम् आत्मना

य एतत् समधीयीत पवित्रं परमं शुचि ।
स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७ ॥

यः एतत् समधीयीत पवित्रम् परमम् शुचि सः पूयेत अहः अहः माम् ज्ञान-दीपेन दर्शयन्

य एतच्छ्रद्धया नित्यमव्यग्र: श‍ृणुयान्नर: ।
मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८ ॥

यः एतत् श्रद्धया नित्यम् अव्यग्रः शृणुयात् नरः मयि भक्तिम् पराम् कुर्वन् कर्मभिः न सः बध्यते

अप्युद्धव त्वया ब्रह्म सखे समवधारितम् ।
अपि ते विगतो मोह: शोकश्चासौ मनोभव: ॥ २९ ॥

अपि उद्धव त्वया ब्रह्म सखे समवधारितम् अपि ते विगतः मोहः शोकः च असौ मनः-भवः

नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च ।
अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥

न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च अशुश्रूषोः अभक्ताय दुर्विनीताय दीयताम्

एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च ।
साधवे शुचये ब्रूयाद् भक्ति: स्याच्छूद्रयोषिताम् ॥ ३१ ॥

एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र योषिताम्

नैतद् विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते ।
पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२ ॥

न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यम् अवशिष्यते पीत्वा पीयूषम् अमृतम् पातव्यम् न अवशिष्यते

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।
यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विध: ॥ ३३ ॥

ज्ञाने कर्मणि योगे च वार्तायाम् दण्ड-धारणे यावान् अर्थः नृणाम् तात तावान् ते अहम् चतुः-विधः

मर्त्यो यदा त्यक्तसमस्तकर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्त्वं प्रतिपद्यमानो
मयात्मभूयाय च कल्पते वै ॥ ३४ ॥

मर्त्यः यदा त्यक्त समस्त कर्मा निवेदित-आत्मा विचिकीर्षितः मे तदा अमृतत्वम् प्रतिपद्यमानः मया आत्म-भूयाय च कल्पते वै

श्रीशुक उवाच
स एवमादर्शितयोगमार्ग-
स्तदोत्तम:श्लोकवचो निशम्य ।
बद्धाञ्जलि: प्रीत्युपरुद्धकण्ठो
न किञ्चिदूचेऽश्रुपरिप्लुताक्ष: ॥ ३५ ॥

श्री-शुकः उवाच सः एवम् आदर्शित योग-मार्गः तदा उत्तमः-श्लोक वचः निशम्य बद्ध-अञ्जलिः प्रीति उपरुद्ध कण्ठः न किञ्चित् ऊचे अश्रु परिप्लुत अक्षः

विष्टभ्य चित्तं प्रणयावघूर्णं
धैर्येण राजन् बहु मन्यमान: ।
कृताञ्जलि: प्राह यदुप्रवीरं
शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६ ॥

विष्टभ्य चित्तम् प्रणय अवघूर्णम् धैर्येण राजन् बहु-मन्यमानः कृत-अञ्जलिः प्राह यदु-प्रवीरम् शीर्ष्णा स्पृशन् तत् चरण-अरविन्दम्

श्रीउद्धव उवाच
विद्रावितो मोहमहान्धकारो
य आश्रितो मे तव सन्निधानात् ।
विभावसो: किं नु समीपगस्य
शीतं तमो भी: प्रभवन्त्यजाद्य ॥ ३७ ॥

श्री-उद्धवः उवाच विद्रावितः मोह महा-अन्धकारः यः आश्रितः मे तव सन्निधानात् विभावसोः किम् नु समीप-गस्य शीतम् तमः भीः प्रभवन्ति अज आद्य

प्रत्यर्पितो मे भवतानुकम्पिना
भृत्याय विज्ञानमय: प्रदीप: ।
हित्वा कृतज्ञस्तव पादमूलं
कोऽन्यं समीयाच्छरणं त्वदीयम् ॥ ३८ ॥

प्रत्यर्पितः मे भवता अनुकम्पिना भृत्याय विज्ञान-मयः प्रदीपः हित्वा कृत-ज्ञः तव पाद-मूलम् कः अन्यम् समीयात् शरणम् त्वदीयम्

वृक्णश्च मे सुद‍ृढ: स्‍नेहपाशो
दाशार्हवृष्ण्यन्धकसात्वतेषु ।
प्रसारित: सृष्टिविवृद्धये त्वया
स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९ ॥

वृक्णः च मे सु-दृढः स्नेह-पाशः दाशार्ह-वृष्णि-अन्धक-सात्वतेषु प्रसारितः सृष्टि विवृद्धये त्वया स्व-मायया हि आत्म सु-बोध हेतिना

नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रति: स्यादनपायिनी ॥ ४० ॥

नमः अस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् यथा त्वत् चरण-अम्भोजे रतिः स्यात् अनपायिनी

श्रीभगवानुवाच
गच्छोद्धव मयादिष्टो बदर्याख्यं ममाश्रमम् ।
तत्र मत्पादतीर्थोदे स्‍नानोपस्पर्शनै: शुचि: ॥ ४१ ॥
ईक्षयालकनन्दाया विधूताशेषकल्मष: ।
वसानो वल्कलान्यङ्ग वन्यभुक् सुखनि:स्पृह: ॥ ४२ ॥
तितिक्षुर्द्वन्द्वमात्राणां सुशील: संयतेन्द्रिय: ।
शान्त: समाहितधिया ज्ञानविज्ञानसंयुत: ॥ ४३ ॥
मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् ।
मय्यावेशितवाक्‌चित्तो मद्धर्मनिरतो भव ।
अतिव्रज्य गतीस्तिस्रो मामेष्यसि तत: परम् ॥ ४४ ॥

श्री-भगवान् उवाच गच्छ उद्धव मया आदिष्टः बदरी-आख्यम् मम आश्रमम् तत्र मत्-पाद तीर्थ उदे स्नान उपस्पर्शनैः शुचिः ईक्षया अलकनन्दायाः विधूत अशेष कल्मषः वसानः वल्कलानि अङ्ग वन्य भुक् सुख निःस्पृहः तितिक्षुः द्वन्द्व-मात्राणाम् सु-शीलः संयत-इन्द्रियः शान्तः समाहित धिया ज्ञान विज्ञान संयुतः मत्तः अनुशिक्षितम् यत् ते विविक्तम् अनुभावयन् मयि आवेशित वाक् चित्तः मत्-धर्म निरतः भव अतिव्रज्य गतीः तिस्रः माम् एष्यसि ततः परम्

श्रीशुक उवाच
स एवमुक्तो हरिमेधसोद्धव:
प्रदक्षिणं तं परिसृत्य पादयो: ।
शिरो निधायाश्रुकलाभिरार्द्रधी-
र्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५ ॥

श्री-शुकः उवाच सः एवम् उक्तः हरि-मेधसा उद्धवः प्रदक्षिणम् तम् परिसृत्य पादयोः शिरः निधाय अश्रु-कलाभिः आर्द्र धीः न्यषिञ्चत् अद्वन्द्व-परः अपि अपक्रमे

सुदुस्त्यजस्‍नेहवियोगकातरो
न शक्नुवंस्तं परिहातुमातुर: ।
कृच्छ्रं ययौ मूर्धनि भर्तृपादुके
बिभ्रन्नमस्कृत्य ययौ पुन: पुन: ॥ ४६ ॥

सु-दुस्त्यज स्नेह वियोग कातरः न शक्नुवन् तम् परिहातुम् आतुरः कृच्छ्रम् ययौ मूर्धनि भर्तृ पादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः

ततस्तमन्तर्हृदि सन्निवेश्य
गतो महाभागवतो विशालाम् ।
यथोपदिष्टां जगदेकबन्धुना
तप: समास्थाय हरेरगाद् गतिम् ॥ ४७ ॥

ततः तम् अन्तः हृदि सन्निवेश्य गतः महा-भागवतः विशालाम् यथा उपदिष्टाम् जगत् एक बन्धुना तपः समास्थाय हरेः अगात् गतिम्

य एतदानन्दसमुद्रसम्भृतं
ज्ञानामृतं भागवताय भाषितम् ।
कृष्णेन योगेश्वरसेविताङ्‍‍घ्रिणा
सच्छ्रद्धयासेव्य जगद् विमुच्यते ॥ ४८ ॥

यः एतत् आनन्द समुद्र सम्भृतम् ज्ञान अमृतम् भागवताय भाषितम् कृष्णेन योग-ईश्वर सेवित अङ्घ्रिणा सत् श्रद्धया आसेव्य जगत् विमुच्यते

भवभयमपहन्तुं ज्ञानविज्ञानसारं
निगमकृदुपजह्रे भृङ्गवद् वेदसारम् ।
अमृतमुदधितश्चापाययद् भृत्यवर्गान्
पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९ ॥

भव भयम् अपहन्तुम् ज्ञान-विज्ञान सारम् निगम कृत् उपजह्रे भृङ्ग-वत् वेद-सारम् अमृतम् उदधितः च अपाययत् भृत्य-वर्गान् पुरुषम् ऋषभम् आद्यम् कृष्ण-संज्ञम् नतः अस्मि

११.३०

श्रीराजोवाच
ततो महाभागवत उद्धवे निर्गते वनम् ।
द्वारवत्यां किमकरोद् भगवान् भूतभावन: ॥ १ ॥

श्री-राजा उवाच ततः महा-भागवते उद्धवे निर्गते वनम् द्वारवत्याम् किम् अकरोत् भगवान् भूत भावनः

ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभ: ।
प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥

ब्रह्म-शाप उपसंसृष्टे स्व-कुले यादव-ऋषभः प्रेयसीम् सर्व-नेत्राणाम् तनुम् सः कथम् अत्यजत्

प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकु:
कर्णाविष्टं न सरति ततो यत् सतामात्मलग्नम् ।
यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां
द‍ृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयु: ॥ ३ ॥

प्रत्याक्रष्टुम् नयनम् अबलाः यत्र लग्नम् न शेकुः कर्ण आविष्टम् न सरति ततः यत् सताम् आत्म लग्नम् यत् श्रीः वाचाम् जनयति रतिम् किम् नु मानम् कवीनाम् दृष्ट्वा जिष्णोः युधि रथ-गतम् यत् च तत्-साम्यम् ईयुः

श्री ऋषिरुवाच
दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान् ।
द‍ृष्ट्वासीनान् सुधर्मायां कृष्ण: प्राह यदूनिदम् ॥ ४ ॥

श्री-ऋषिः उवाच दिवि भुवि अन्तरिक्षे च महा-उत्पातान् समुत्थितान् दृष्ट्वा आसीनान् सु-धर्मायाम् कृष्णः प्राह यदून् इदम्

श्रीभगवानुवाच
एते घोरा महोत्पाता द्वार्वत्यां यमकेतव: ।
मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवा: ॥ ५ ॥

श्री-भगवान् उवाच एते घोराः महा उत्पाताः द्वार्वत्याम् यम केतवः मुहूर्तम् अपि न स्थेयम् अत्र नः यदु-पुङ्गवाः

स्‍त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वित: ।
वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ ६ ॥

स्त्रियः बालाः च वृद्धाः च शङ्ख-उद्धारम् व्रजन्तु इतः वयम् प्रभासम् यास्यामः यत्र प्रत्यक् सरस्वती

तत्राभिषिच्य शुचय उपोष्य सुसमाहिता: ।
देवता: पूजयिष्याम: स्‍नपनालेपनार्हणै: ॥ ७ ॥

तत्र अभिषिच्य शुचयः उपोष्य सु-समाहिताः देवताः पूजयिष्यामः स्नपन आलेपन अर्हणैः

ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम् ।
गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभि: ॥ ८ ॥

ब्राह्मणान् तु महा-भागान् कृत स्वस्ति-अयनाः वयम् गो भू हिरण्य वासोभिः गज अश्व रथ वेश्मभिः

विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् ।
देवद्विजगवां पूजा भूतेषु परमो भव: ॥ ९ ॥

विधिः एषः हि अरिष्ट घ्नः मङ्गल-अयनम् उत्तमम् देव द्विज गवाम् पूजा भूतेषु परमः भवः

इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विष: ।
तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथै: ॥ १० ॥

इति सर्वे समाकर्ण्य यदु-वृद्धाः मधु-द्विषः तथा इति नौभिः उत्तीर्य प्रभासम् प्रययुः रथैः

तस्मिन् भगवतादिष्टं यदुदेवेन यादवा: ।
चक्रु: परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥ ११ ॥

तस्मिन् भगवता आदिष्टम् यदु-देवेन यादवाः चक्रुः परमया भक्त्या सर्व श्रेयः उपबृंहितम्

ततस्तस्मिन् महापानं पपुर्मैरेयकं मधु ।
दिष्टविभ्रंशितधियो यद्‌द्रवैर्भ्रश्यते मति: ॥ १२ ॥

ततः तस्मिन् महा पानम् पपुः मैरेयकम् मधु दिष्ट विभ्रंशित धियः यत् द्रवैः भ्रश्यते मतिः

महापानाभिमत्तानां वीराणां द‍ृप्तचेतसाम् ।
कृष्णमायाविमूढानां सङ्घर्ष: सुमहानभूत् ॥ १३ ॥

महा-पान अभिमत्तानाम् वीराणाम् दृप्त चेतसाम् कृष्ण-माया विमूढानाम् सङ्घर्षः सु-महान् अभूत्

युयुधु: क्रोधसंरब्धा वेलायामाततायिन: ।
धनुर्भिरसिभिर्भल्ल‍ै‌र्गदाभिस्तोमरर्ष्टिभि: ॥ १४ ॥

युयुधुः क्रोध संरब्धाः वेलायाम् आततायिनः धनुर्भिः असिभिः भल्लैः गदाभिः तोमर ऋष्टिभिः

पतत्पताकै रथकुञ्जरादिभि:
खरोष्ट्रगोभिर्महिषैर्नरैरपि ।
मिथ: समेत्याश्वतरै: सुदुर्मदा
न्यहन्शरैर्दद्भ‍िरिव द्विपा वने ॥ १५ ॥

पतत्-पताकैः रथ कुञ्जर आदिभिः खर उष्ट्र गोभिः महिषैः नरैः अपि मिथः समेत्य अश्वतरैः सु-दुर्मदाः न्यहन् शरैः दद्भिः इव द्विपाः वने

प्रद्युम्नसाम्बौ युधि रूढमत्सराव्-
अक्रूरभोजावनिरुद्धसात्यकी ।
सुभद्रसङ्ग्रामजितौ सुदारुणौ
गदौ सुमित्रासुरथौ समीयतु: ॥ १६ ॥

प्रद्युम्न-साम्बौ युधि रूढ मत्सरौ अक्रूर-भोजौ अनिरुद्ध-सात्यकी सुभद्र-सङ्ग्रामजितौ सु-दारुणौ गदौ सुमित्रा-सुरथौ समीयतुः

अन्ये च ये वै निशठोल्मुकादय:
सहस्रजिच्छतजिद्भ‍ानुमुख्या: ।
अन्योन्यमासाद्य मदान्धकारिता
जघ्नुर्मुकुन्देन विमोहिता भृशम् ॥ १७ ॥

अन्ये च ये वै निशठ-उल्मक-आदयः सहस्रजित्-शतजित्-भानु-मुख्यः अन्योन्यम् आसाद्य मद अन्ध-कारिताः जघ्नुः मुकुन्देन विमोहिताः भृशम्

दाशार्हवृष्ण्यन्धकभोजसात्वता
मध्वर्बुदा माथुरशूरसेना: ।
विसर्जना: कुकुरा: कुन्तयश्च
मिथस्तु जघ्नु: सुविसृज्य सौहृदम् ॥ १८ ॥

दाशार्ह-वृष्णि-अन्धक-भोज-सात्वताः मधु-अर्बुदाः माथुर-शूरसेनाः विसर्जनाः कुकुराः कुन्तयः च मिथः तु जघ्नुः सु-विसृज्य सौहृदम्

पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च
स्वस्रीयदौहित्रपितृव्यमातुलै: ।
मित्राणि मित्रै: सुहृद: सुहृद्भ‍ि-
र्ज्ञातींस्त्वहन् ज्ञातय एव मूढा: ॥ १९ ॥

पुत्राः अयुध्यन् पितृभिः भ्रातृभिः च स्वस्रीय दौहित्र पितृव्य मातुलैः मित्राणि मित्रैः सुहृदः सुहृद्भिः ज्ञातीन् तु अहन् ज्ञातयः एव मूढाः

शरेषु हीयमानेषु भज्यमानेसु धन्वसु ।
शस्‍त्रेषु क्षीयमानेषु मुष्टिभिर्जह्रुरेरका: ॥ २० ॥

शरेषु हीयमानेषु भज्यमानेषु धन्वसु शस्त्रेषु क्षीयमानेषु मुष्टिभिः जह्रुः एरकाः

ता वज्रकल्पा ह्यभवन् परिघा मुष्टिना भृता: ।
जघ्नुर्द्विषस्तै: कृष्णेन वार्यमाणास्तु तं च ते ॥ २१ ॥

ताः वज्र-कल्पाः हि अभवन् परिघाः मुष्टिना भृताः जघ्नुः द्विषः तैः कृष्णेन वार्यमाणाः तु तम् च ते

प्रत्यनीकं मन्यमाना बलभद्रं च मोहिता: ।
हन्तुं कृतधियो राजन्नापन्ना आततायिन: ॥ २२ ॥

प्रत्यनीकम् मन्यमानाः बलभद्रम् च मोहिताः हन्तुम् कृत-धियः राजन् आपन्नाः आततायिनः

अथ तावपि सङ्‌क्रु‌द्धावुद्यम्य कुरुनन्दन ।
एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि ॥ २३ ॥

अथ तौ अपि सङ्क्रुद्धौ उद्यम्य कुरु-नन्दन एरका-मुष्टि परिघौ चरन्तौ जघ्नतुः युधि

ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् ।
स्पर्धाक्रोध: क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥ २४ ॥

ब्रह्म-शाप उपसृष्टानाम् कृष्ण-माया आवृत आत्मनाम् स्पर्धा क्रोधः क्षयम् निन्ये वैणवः अग्निः यथा वनम्

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशव: ।
अवतारितो भुवो भार इति मेनेऽवशेषित: ॥ २५ ॥

एवम् नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः अवतारितः भुवः भारः इति मेने अवशेषितः

राम: समुद्रवेलायां योगमास्थाय पौरुषम् ।
तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि ॥ २६ ॥

रामः समुद्र वेलायाम् योगम् आस्थाय पौरुषम् तत्याज लोकम् मानुष्यम् संयोज्य आत्मानम् आत्मनि

रामनिर्याणमालोक्य भगवान् देवकीसुत: ।
निषसाद धरोपस्थे तुष्णीमासाद्य पिप्पलम् ॥ २७ ॥

राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः निषसाद धरा-उपस्थे तुष्णीम् आसाद्य पिप्पलम्

बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया ।
दिशो वितिमिरा: कुर्वन् विधूम इव पावक: ॥ २८ ॥
श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् ।
कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥ २९ ॥
सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् ।
पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ॥ ३० ॥
कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदै: ।
हारनूपुरमुद्राभि: कौस्तुभेन विराजितम् ॥ ३१ ॥
वनमालापरीताङ्गं मूर्तिमद्भ‍िर्निजायुधै: ।
कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ॥ ३२ ॥

बिभ्रत् चतुः-भुजम् रूपम् भ्राजिष्णु प्रभया स्वया दिशः वितिमिराः कुर्वन् विधूमः इव पावकः श्रीवत्स-अङ्कम् घन-श्यामम् तप्त हाटक वर्चसम् कौशेय अम्बर युग्मेन परिवीतम् सु-मङ्गलम् सुन्दर स्मित वक्त्र अब्जम् नील कुन्तल मण्डितम् पुण्डरीक अभिराम अक्षम् स्फुरत् मकर कुण्डलम् कटि-सूत्र ब्रह्म-सूत्र किरीट कटक अङ्गदैः हार नूपुर मुद्राभिः कौस्तुभेन विराजितम् वन-माला परीत अङ्गम् मूर्ति-मद्भिः निज आयुधैः कृत्वा उरौ दक्षिणे पादम् आसीनम् पङ्कज अरुणम्

मुषलावशेषाय:खण्डकृतेषुर्लुब्धको जरा ।
मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ॥ ३३ ॥

मुषल अवशेष अयः खण्ड कृत इषुः लुब्धकः जरा मृग आस्य आकारम् तत् चरणम् विव्याध मृग-शङ्कया

चतुर्भुजं तं पुरुषं द‍ृष्ट्वा स कृतकिल्बिष: ।
भीत: पपात शिरसा पादयोरसुरद्विष: ॥ ३४ ॥

चतुः-भुजम् तम् पुरुषम् दृष्ट्वा सः कृत-किल्बिषः भीतः पपात शिरसा पादयोः असुर-द्विषः

अजानता कृतमिदं पापेन मधुसूदन ।
क्षन्तुमर्हसि पापस्य उत्तम:श्लोक मेऽनघ ॥ ३५ ॥

अजानता कृतम् इदम् पापेन मधुसूदन क्षन्तुम् अर्हसि पापस्य उत्तमः-श्लोक मे अनघ

यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम् ।
वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ ३६ ॥

यस्य अनुस्मरणम् नृणाम् अज्ञान ध्वान्त नाशनम् वदन्ति तस्य ते विष्णो मया असाधु कृतम् प्रभो

तन्माशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् ।
यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ॥ ३७ ॥

तत् मा आशु जहि वैकुण्ठ पाप्मानम् मृग-लुब्धकम् यथा पुनः अहम् तु एवम् न कुर्याम् सत् अतिक्रमम्

यस्यात्मयोगरचितं न विदुर्विरिञ्चो
रुद्रादयोऽस्य तनया: पतयो गिरां ये ।
त्वन्मायया पिहितद‍ृष्टय एतदञ्ज:
किं तस्य ते वयमसद्गतयो गृणीम: ॥ ३८ ॥

यस्य आत्म-योग रचितम् न विदुः विरिञ्चः रुद्र-आदयः अस्य तनयाः पतयः गिराम् ये त्वत्-मायया पिहित दृष्टयः एतत् अञ्जः किम् तस्य ते वयम् असत् गतयः गृणीमः

श्रीभगवानुवाच
मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे ।
याहि त्वं मदनुज्ञात: स्वर्गं सुकृतिनां पदम् ॥ ३९ ॥

श्री-भगवान् उवाच मा भैः जरे त्वम् उत्तिष्ठ कामः एषः कृतः हि मे याहि त्वम् मत्-अनुज्ञातः स्वर्गम् सु-कृतिनाम् पदम्

इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा ।
त्रि: परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४० ॥

इति आदिष्टः भगवता कृष्णेन इच्छा-शरीरिणा त्रिः परिक्रम्य तम् नत्वा विमानेन दिवम् ययौ

दारुक: कृष्णपदवीमन्विच्छन्नधिगम्य ताम् ।
वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ॥ ४१ ॥

दारुकः कृष्ण पदवीम् अन्विच्छन् अधिगम्य ताम् वायुम् तुलसिका-आमोदम् आघ्राय अभिमुखम् ययौ

तं तत्र तिग्मद्युभिरायुधैर्वृतं
ह्यश्वत्थमूले कृतकेतनं पतिम् ।
स्‍नेहप्लुतात्मा निपपात पादयो
रथादवप्लुत्य सबाष्पलोचन: ॥ ४२ ॥

तम् तत्र तिग्म द्युभिः आयुधैः वृतम् हि अश्वत्थ मूले कृत-केतनम् पतिम् स्नेह प्लुत आत्मा निपपात पादयोः रथात् अवप्लुत्य स-बाष्प लोचनः

अपश्यतस्त्वच्चरणाम्बुजं प्रभो
द‍ृष्टि: प्रणष्टा तमसि प्रविष्टा ।
दिशो न जाने न लभे च शान्तिं
यथा निशायामुडुपे प्रणष्टे ॥ ४३ ॥

अपश्यतः त्वत् चरण-अम्बुजम् प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा दिशः न जाने न लभे च शान्तिम् यथा निशायाम् उडुपे प्रणष्टे

इति ब्रुवति सूते वै रथो गरुडलाञ्छन: ।
खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षत: ॥ ४४ ॥

इति ब्रुवति सूते वै रथः गरुड-लाञ्छनः खम् उत्पपात राज-इन्द्र स-अश्व ध्वजः उदीक्षतः

तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च ।
तेनातिविस्मितात्मानं सूतमाह जनार्दन: ॥ ४५ ॥

तम् अन्वगच्छन् दिव्यानि विष्णु प्रहरणानि च तेन अति-विस्मित आत्मानम् सूतम् आह जनार्दनः

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथ: ।
सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥ ४६ ॥

गच्छ द्वारवतीम् सूत ज्ञातीनाम् निधनम् मिथः सङ्कर्षणस्य निर्याणम् बन्धुभ्यः ब्रूहि मत्-दशाम्

द्वारकायां च न स्थेयं भवद्भ‍िश्च स्वबन्धुभि: ।
मया त्यक्तां यदुपुरीं समुद्र: प्लावयिष्यति ॥ ४७ ॥

द्वारकायाम् च न स्थेयम् भवद्भिः च स्व-बन्धुभिः मया त्यक्ताम् यदु-पुरीम् समुद्रः प्लावयिष्यति

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च न: ।
अर्जुनेनाविता: सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८ ॥

स्वम् स्वम् परिग्रहम् सर्वे आदाय पितरौ च नः अर्जुनेन अविताः सर्वे इन्द्रप्रस्थम् गमिष्यथ

त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षक: ।
मन्मायारचितामेतां विज्ञायोपशमं व्रज ॥ ४९ ॥

त्वम् तु मत्-धर्मम् आस्थाय ज्ञान-निष्ठः उपेक्षकः मत्-माया रचिताम् एताम् विज्ञाय उपशमम् व्रज

इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुन: पुन: ।
तत्पादौ शीर्ष्ण्युपाधाय दुर्मना: प्रययौ पुरीम् ॥ ५० ॥

इति उक्तः तम् परिक्रम्य नमः-कृत्य पुनः पुनः तत्-पादौ शीर्ष्णि उपाधाय दुर्मनाः प्रययौ पुरीम्

११.३१

श्रीशुक उवाच
अथ तत्रागमद् ब्रह्मा भवान्या च समं भव: ।
महेन्द्रप्रमुखा देवा मुनय: सप्रजेश्वरा: ॥ १ ॥

श्री-शुकः उवाच अथ तत्र आगमत् ब्रह्मा भवान्या च समम् भवः महा-इन्द्र-प्रमुखाः देवाः मुनयः स प्रजा-ईश्वराः

पितर: सिद्धगन्धर्वा विद्याधरमहोरगा: ।
चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजा: ॥ २ ॥
द्रष्टुकामा भगवतो निर्याणं परमोत्सुका: ।
गायन्तश्च गृणन्तश्च शौरे: कर्माणि जन्म च ॥ ३ ॥

पितरः सिद्ध-गन्धर्वाः विद्याधर-महा-उरगाः चारणाः यक्ष-रक्षांसि किन्नर-अप्सरसः द्विजाः द्रष्टु-कामाः भगवतः निर्याणम् परम-उत्सुकाः गायन्तः च गृणन्तः च शौरेः कर्माणि जन्म च

ववृषु: पुष्पवर्षाणि विमानावलिभिर्नभ: ।
कुर्वन्त: सङ्कुलं राजन् भक्त्या परमया युता: ॥ ४ ॥

ववृषुः पुष्प-वर्षाणि विमान आवलिभिः नभः कुर्वन्तः सङ्कुलम् राजन् भक्त्या परमया युताः

भगवान् पितामहं वीक्ष्य विभूतीरात्मनो विभु: ।
संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ ५ ॥

भगवान् पितामहम् वीक्ष्य विभूतीः आत्मनः विभुः संयोज्य आत्मनि च आत्मानम् पद्म-नेत्रे न्यमील्यत्

लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलम् ।
योगधारणयाग्नेय्यादग्ध्वा धामाविशत् स्वकम् ॥ ६ ॥

लोक अभिरामाम् स्व-तनुम् धारणा ध्यान मङ्गलम् योग-धारणया आग्नेय्या अदग्ध्वा धाम आविशत् स्वकम्

दिवि दुन्दुभयो नेदु: पेतु: सुमनसश्च खात् ।
सत्यं धर्मो धृतिर्भूमे: कीर्ति: श्रीश्चानु तं ययु: ॥ ७ ॥

दिवि दुन्दुभयः नेदुः पेतुः सुमनसः च खात् सत्यम् धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तम् ययुः

देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनि ।
अविज्ञातगतिं कृष्णं दद‍ृशुश्चातिविस्मिता: ॥ ८ ॥

देव-आदयः ब्रह्म-मुख्याः न विशन्तम् स्व-धामनि अविज्ञात गतिम् कृष्णम् ददृशुः च अति-विस्मिताः

सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्रमण्डलम् ।
गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतै: ॥ ९ ॥

सौदामन्याः यथा आकाशे यान्त्याः हित्वा अभ्र-मण्डलम् गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः

ब्रह्मरुद्रादयस्ते तु द‍ृष्ट्वा योगगतिं हरे: ।
विस्मितास्तां प्रशंसन्त: स्वं स्वं लोकं ययुस्तदा ॥ १० ॥

ब्रह्म-रुद्र-आदयः ते तु दृष्ट्वा योग-गतिम् हरेः विस्मिताः ताम् प्रशंसन्तः स्वम् स्वम् लोकम् ययुः तदा

राजन् परस्य तनुभृज्जननाप्ययेहा
मायाविडम्बनमवेहि यथा नटस्य ।
सृष्ट्वात्मनेदमनुविश्य विहृत्य चान्ते
संहृत्य चात्ममहिनोपरत: स आस्ते ॥ ११ ॥

राजन् परस्य तनु-भृत् जनन अप्यय ईहाः माया विडम्बनम् अवेहि यथा नटस्य सृष्ट्वा आत्मना इदम् अनुविश्य विहृत्य च अन्ते संहृत्य च आत्म-महिना उपरतः सः आस्ते

मर्त्येन यो गुरुसुतं यमलोकनीतं
त्वां चानयच्छरणद: परमास्‍त्रदग्धम् ।
जिग्येऽन्तकान्तकमपीशमसावनीश:
किं स्वावने स्वरनयन्मृगयुं सदेहम् ॥ १२ ॥

मर्त्येन यः गुरु-सुतम् यम-लोक नीतम् त्वाम् च आनयत् शरण-दः परम-अस्त्र दग्धम् जिग्ये अन्तक अन्तकम् अपि ईशम् असौ अनीशः किम् स्व अवने स्वः अनयत् मृगयुम् स-देहम्

तथाप्यशेषस्थितिसम्भवाप्यये-
ष्वनन्यहेतुर्यदशेषशक्तिधृक् ।
नैच्छत् प्रणेतुं वपुरत्र शेषितं
मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३ ॥

तथा अपि अशेष स्थिति सम्भव अप्ययेषु अनन्य-हेतुः यत् अशेष शक्ति धृक् न ऐच्छत् प्रणेतुम् वपुः अत्र शेषितम् मर्त्येन किम् स्व-स्थ गतिम् प्रदर्शयन्

य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् ।
प्रयत: कीर्तयेद् भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥ १४ ॥

यः एताम् प्रातः उत्थाय कृष्णस्य पदवीम् पराम् प्रयतः कीर्तयेत् भक्त्या ताम् एव आप्नोति अनुत्तमम्

दारुको द्वारकामेत्य वसुदेवोग्रसेनयो: ।
पतित्वा चरणावस्रैर्न्यषिञ्चत् कृष्णविच्युत: ॥ १५ ॥

दारुकः द्वारकाम् एत्य वसुदेव-उग्रसेनयोः पतित्वा चरणौ अस्रैः न्यषिञ्चत् कृष्ण-विच्युतः

कथयामास निधनं वृष्णीनां कृत्‍स्‍नशो नृप ।
तच्छ्रुत्वोद्विग्नहृदया जना: शोकविर्मूर्च्छिता: ॥ १६ ॥
तत्र स्म त्वरिता जग्मु: कृष्णविश्लेषविह्वला: ।
व्यसव: शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥ १७ ॥

कथयाम् आस निधनम् वृष्णीनाम् कृत्स्नशः नृप तत् श्रुत्वा उद्विग्न हृदयाः जनाः शोक विर्मूर्च्छिताः तत्र स्म त्वरिताः जग्मुः कृष्ण-विश्लेष विह्वलाः व्यसवः शेरते यत्र ज्ञातयः घ्नन्तः आननम्

देवकी रोहिणी चैव वसुदेवस्तथा सुतौ ।
कृष्णरामावपश्यन्त: शोकार्ता विजहु: स्मृतिम् ॥ १८ ॥

देवकी रोहिणी च एव वसुदेवः तथा सुतौ कृष्ण-रामौ अपश्यन्तः शोक-आर्ताः विजहुः स्मृतिम्

प्राणांश्च विजहुस्तत्र भगवद्विरहातुरा: ।
उपगुह्य पतींस्तात चितामारुरुहु: स्‍त्रिय: ॥ १९ ॥

प्राणान् च विजहुः तत्र भगवत् विरह आतुराः उपगह्य पतीन् तात चिताम् आरुरुहुः स्त्रियः

रामपत्न्‍यश्च तद्देहमुपगुह्याग्निमाविशन् ।
वसुदेवपत्न्‍यस्तद्गात्रं प्रद्युम्नादीन् हरे: स्‍नुषा: ।
कृष्णपत्न्‍योऽविशन्नग्निं रुक्‍मिण्याद्यास्तदात्मिका: ॥ २० ॥

राम-पत्न्यः च तत्-देहम् उपगुह्य अग्निम् आविशन् वसुदेव-पत्न्यः तत्-गात्रम् प्रद्युम्न-आदीन् हरेः स्नुषाः कृष्ण-पत्न्यः अविशन् अग्निम् रुक्मिणी-आद्याः तत्-आत्मिकाः

अर्जुन: प्रेयस: सख्यु: कृष्णस्य विरहातुर: ।
आत्मानं सान्त्वयामास कृष्णगीतै: सदुक्तिभि: ॥ २१ ॥

अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह आतुरः आत्मानम् सान्त्वयाम् आस कृष्ण-गीतैः सत्-उक्तिभिः

बन्धूनां नष्टगोत्राणामर्जुन: साम्परायिकम् ।
हतानां कारयामास यथावदनुपूर्वश: ॥ २२ ॥

बन्धूनाम् नष्ट-गोत्राणाम् अर्जुनः साम्परायिकम् हतानाम् कारयाम् आस यथा-वत् अनुपूर्वशः

द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्भ‍गवदालयम् ॥ २३ ॥

द्वारकाम् हरिणा त्यक्ताम् समुद्रः अप्लावयत् क्षणात् वर्जयित्वा महा-राज श्रीमत्-भगवत् आलयम्

नित्यं सन्निहितस्तत्र भगवान् मधुसूदन: ।
स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ २४ ॥

नित्यम् सन्निहितः तत्र भगवान् मधुसूदनः स्मृत्या अशेष-अशुभ हरम् सर्व-मङ्गल मङ्गलम्

स्‍त्रीबालवृद्धानादाय हतशेषान् धनञ्जय: ।
इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ २५ ॥

स्त्री बाल वृद्धान् आदाय हत शेषान् धनञ्जयः इन्द्रप्रस्थम् समावेश्य वज्रम् तत्र अभ्यषेचयत्

श्रुत्वा सुहृद्वधं राजन्नर्जुनात्ते पितामहा: ।
त्वां तु वंशधरं कृत्वा जग्मु: सर्वे महापथम् ॥ २६ ॥

श्रुत्वा सुहृत् वधम् राजन् अर्जुनात् ते पितामहाः त्वाम् तु वंश-धरम् कृत्वा जग्मुः सर्वे महा-पथम्

य एतद् देवदेवस्य विष्णो: कर्माणि जन्म च ।
कीर्तयेच्छ्रद्धया मर्त्य: सर्वपापै: प्रमुच्यते ॥ २७ ॥

यः एतत् देव-देवस्य विष्णोः कर्माणि जन्म च कीर्तयेत् श्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते

इत्थं हरेर्भगवतो रुचिरावतार-
वीर्याणि बालचरितानि च शन्तमानि ।
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
भक्तिं परां परमहंसगतौ लभेत ॥ २८ ॥
कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण: ।
कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् ॥ ५१ ॥

इत्थम् हरेः भगवतः रुचिर अवतार वीर्याणि बाल चरितानि च शम्-तमानि अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः भक्तिम् पराम् परमहंस गतौ लभेत