श्रीमद्भागवतम् पदच्छेद - स्कंध १२

१२.१

श्रीशुक उवाच
योऽन्त्य: पुरञ्जयो नाम भविष्यो बारहद्रथ: ।
तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् ॥ १ ॥
प्रद्योतसंज्ञं राजानं कर्ता यत् पालक: सुत: ।
विशाखयूपस्तत्पुत्रो भविता राजकस्तत: ॥ २ ॥

श्री शुकः उवाच यः अन्त्यः पुरञ्जयः नाम भविष्यः बारहद्रथः तस्य अमात्यः तु शुनकः हत्वा स्वामिनम् आत्म-जम् प्रद्योत-संज्ञम् राजानम् कर्ता यत् पालकः सुतः विशाखयूपः तत्-पुत्रः भविता राजकः ततः

नन्दिवर्धनस्तत्पुत्र: पञ्च प्रद्योतना इमे ।
अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपा: ॥ ३ ॥

नन्दिवर्धनः तत्-पुत्रः पञ्च प्रद्योतनाः इमे अष्ट-त्रिंश उत्तर शतम् भोक्ष्यन्ति पृथिवीम् नृपाः

शिशुनागस्ततो भाव्य: काकवर्णस्तु तत्सुत: ।
क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥ ४ ॥

शिशुनागः ततः भाव्यः काकवर्णः तु तत्-सुतः क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः

विधिसार: सुतस्तस्याजातशत्रुर्भविष्यति ।
दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥ ५ ॥

विधिसारः सुतः तस्य अजातशत्रुः भविष्यति दर्भकः तत्-सुतः भावी दर्भकस्य अजयः स्मृतः

नन्दिवर्धन आजेयो महानन्दि: सुतस्तत: ।
शिशुनागा दशैवैते सष्ट्युत्तरशतत्रयम् ॥ ६ ॥
समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपा: ।
महानन्दिसुतो राजन् शूद्रागर्भोद्भ‍वो बली ॥ ७ ॥
महापद्मपति: कश्चिन्नन्द: क्षत्रविनाशकृत् ।
ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिका: ॥ ८ ॥

नन्दिवर्धनः आजेयः महा-नन्दिः सुतः ततः शिशुनागाः दश एव एते सष्टि उत्तर शत-त्रयम् समाः भोक्ष्यन्ति पृथिवीम् कुरुश्रेष्ठ कलौ नृपाः महानन्दि-सुतः राजन् शूद्रा-गर्भ उद्भवः बली महा-पद्म पतिः कश्चित् नन्दः क्षत्र विनाश-कृत् ततः नृपाः भविष्यन्ति शूद्र-प्रायाः तु अधार्मिकाः

स एकच्छत्रां पृथिवीमनुल्ल‍‌‌ङ्घितशासन: ।
शासिष्यति महापद्मो द्वितीय इव भार्गव: ॥ ९ ॥

सः एक-छत्राम् पृथिवीम् अनुल्लङ्घित शासनः शासिष्यति महापद्मः द्वितीयः इव भार्गवः

तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखा: सुता: ।
य इमां भोक्ष्यन्ति महीं राजानश्च शतं समा: ॥ १० ॥

तस्य च अष्टौ भविष्यन्ति सुमाल्य-प्रमुखाः सुताः ये इमाम् भोक्ष्यन्ति महीम् राजानः च शतम् समाः

नव नन्दान् द्विज: कश्चित् प्रपन्नानुद्धरिष्यति ।
तेषामभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ ११ ॥

नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति तेषाम् अभावे जगतीम् मौर्याः भोक्ष्यन्ति वै कलौ

स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।
तत्सुतो वारिसारस्तु ततश्चाशोकवर्धन: ॥ १२ ॥

सः एव चन्द्रगुप्तम् वै द्विजः राज्ये अभिषेक्ष्यति तत् सुतः वारिसारः तु ततः च अशोकवर्धनः

सुयशा भविता तस्य सङ्गत: सुयश:सुत: ।
शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ।
शतधन्वा ततस्तस्य भविता तद् बृहद्रथ: ॥ १३ ॥

सुयशाः भविता तस्य सङ्गतः सुयशः-सुतः शालिशूकः ततः तस्य सोमशर्मा भविष्यति शतधन्वा ततः तस्य भविता तत् बृहद्रथः

मौर्या ह्येते दश नृपा: सप्तत्रिंशच्छतोत्तरम् ।
समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह ॥ १४ ॥

मौर्याः हि एते दश नृपाः सप्त-त्रिंशत् शत उत्तरम् समाः भोक्ष्यन्ति पृथिवीम् कलौ कुरु-कुल उद्वह

अग्निमित्रस्ततस्तस्मात् सुज्येष्ठो भविता तत: ।
वसुमित्रो भद्रकश्च पुलिन्दो भविता सुत: ॥ १५ ॥
ततो घोष: सुतस्तस्माद् वज्रमित्रो भविष्यति ।
ततो भागवतस्तस्माद् देवभूति: कुरूद्वह ॥ १६ ॥
शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ।
तत: काण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप ॥ १७ ॥

अग्निमित्रः ततः तस्मात् सुज्येष्ठः भविता ततः वसुमित्रः भद्रकः च पुलिन्दः भविता सुतः ततः घोषः सुतः तस्मात् वज्रमित्रः भविष्यति ततः भागवतः तस्मात् देवभूतिः कुरु-उद्वह शुङ्गाः दश एते भोक्ष्यन्ति भूमिम् वर्ष शत अधिकम् ततः काण्वान् इयम् भूमिः यास्यति अल्प-गुणान् नृप

शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु कामिनम् ।
स्वयं करिष्यते राज्यं वसुदेवो महामति: ॥ १८ ॥

शुङ्गम् हत्वा देवभूतिम् काण्वः अमात्यः तु कामिनम् स्वयम् करिष्यते राज्यम् वसुदेवः महा-मतिः

तस्य पुत्रस्तु भूमित्रस्तस्य नारायण: सुत: ।
काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ।
शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ १९ ॥

तस्य पुत्रः तु भूमित्रः तस्य नारायणः सुतः काण्व-अयनाः इमे भूमिम् चत्वारिंशत् च पञ्च च शतानि त्रीणि भोक्ष्यन्ति वर्षाणाम् च कलौ युगे

हत्वा काण्वं सुशर्माणं तद् भृत्यो वृषलो बली ।
गां भोक्ष्यत्यन्ध्रजातीय: कञ्चित् कालमसत्तम: ॥ २० ॥

हत्वा काण्वम् सुशर्माणम् तत्-भृत्यः वृषलः बली गाम् भोक्ष्यति अन्ध्र-जातीयः कञ्चित् कालम् असत्तमः

कृष्णनामाथ तद्भ्राता भविता पृथिवीपति: ।
श्रीशान्तकर्णस्तत्पुत्र: पौर्णमासस्तु तत्सुत: ॥ २१ ॥
लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृप: ।
मेघस्वातिश्चिबिलकादटमानस्तु तस्य च ॥ २२ ॥
अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मज: ।
पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दन: ॥ २३ ॥
चकोरो बहवो यत्र शिवस्वातिररिन्दम: ।
तस्यापि गोमतीपुत्र: पुरीमान् भविता तत: ॥ २४ ॥
मेदशिरा: शिवस्कन्दो यज्ञश्रीस्तत्सुतस्तत: ।
विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञ: सलोमधि: ॥ २५ ॥
एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च ।
षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ॥ २६ ॥

कृष्ण-नाम अथ तत् भ्राता भविता पृथिवी-पतिः श्री-शान्तकर्णः तत् पुत्रः पौर्णमासः तु तत्-सुतः लम्बोदरः तु तत्-पुत्रः तस्मात् चिबिलकः नृपः मेघस्वातिः चिबिलकात् अटमानः तु तस्य च अनिष्टकर्मा हालेयः तलकः तस्य च आत्म-जः पुरीषभीरुः तत् पुत्रः ततः राजा सुनन्दनः चकोरः बहवः यत्र शिवस्वातिः अरिम्दमः तस्य अपि गोमती पुत्रः पुरीमान् भविता ततः मेदशिराः शिवस्कन्दः यज्ञश्रीः तत् सुतः ततः विजयः तत्-सुतः भाव्यः चन्द्रविज्ञः स-लोमधिः एते त्रिंशत् नृ-पतयः चत्वारि अब्द-शतानि च षट्-पञ्चासत् च पृथिवीम् भोक्ष्यन्ति कुरु-नन्दन

सप्ताभीरा आवभृत्या दश गर्दभिनो नृपा: ।
कङ्का: षोडश भूपाला भविष्यन्त्यतिलोलुपा: ॥ २७ ॥

सप्त आभीराः आवभृत्याः दश गर्दभिनः नृपाः कङ्काः षोडश भू-पालाः भविष्यन्ति अति-लोलुपाः

ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्कका: ।
भूयो दश गुरुण्डाश्च मौला एकादशैव तु ॥ २८ ॥

ततः अष्टौ यवनाः भाव्याः चतुः-दश तुरुष्ककाः भूयः दश गुरुण्डाः च मौलाः एकादश एव तु

एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च ।
नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ २९ ॥
भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तै: संस्थिते तत: ।
किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरि: ॥ ३० ॥
शिशुनन्दिश्च तद्भ्राता यशोनन्दि: प्रवीरक: ।
इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३१ ॥

एते भोक्ष्यन्ति पृथिवीम् दश वर्ष-शतानि च नव-अधिकाम् च नवतिम् मौलाः एकादश क्षितिम् भोक्ष्यन्ति अब्द-शतानि अङ्ग त्रीणि तैः संस्थिते ततः किलकिलायाम् नृ-पतयः भूतनन्दः अथ वङ्गिरिः शिशुनन्दिः च तत् भ्राता यशोनन्दिः प्रवीरकः इति एते वै वर्ष-शतम् भविष्यन्ति अधिकानि षट्

तेषां त्रयोदश सुता भवितारश्च बाह्लिका: ।
पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥ ३२ ॥
एककाला इमे भूपा: सप्तान्ध्रा: सप्त कौशला: ।
विदूरपतयो भाव्या निषधास्तत एव हि ॥ ३३ ॥

तेषाम् त्रयोदश सुताः भवितारः च बाह्लिकाः पुष्पमित्रः अथ राजन्यः दुर्मित्रः अस्य तथा एव च एक-कालाः इमे भू-पाः सप्त अन्ध्राः सप्त कौशलाः विदूर-पतयः भाव्याः निषधाः ततः एव हि

मागधानां तु भविता विश्वस्फूर्जि: पुरञ्जय: ।
करिष्यत्यपरो वर्णान् पुलिन्दयदुमद्रकान् ॥ ३४ ॥

मागधानाम् तु भविता विश्वस्फूर्जिः पुरञ्जयः करिष्यति अपरः वर्णान् पुलिन्द-यदु-मद्रकान्

प्रजाश्चाब्रह्मभूयिष्ठा: स्थापयिष्यति दुर्मति: ।
वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि ।
अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥ ३५ ॥

प्रजाः च अब्रह्म भूयिष्ठाः स्थापयिष्यति दुर्मतिः वीर्य-वान् क्षत्रम् उत्साद्य पद्मवत्याम् सः वै पुरि अनु-गङ्गम् आ-प्रयागम् गुप्ताम् भोक्ष्यति मेदिनीम्

सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवा: ।
व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपा: ॥ ३६ ॥

शौराष्ट्र अवन्ती आभीराः च शूराः अर्बुद-मालवाः व्रात्याः द्विजाः भविष्यन्ति शूद्र-प्रायाः जन-अधिपाः

सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् ।
भोक्ष्यन्ति शूद्रा व्रात्याद्या म्‍लेच्छाश्चाब्रह्मवर्चस: ॥ ३७ ॥

सिन्धोः तटम् चन्द्रभागाम् कौन्तीम् काश्मीर-मण्डलम् भोक्ष्यन्ति शूद्राः व्रात्य-आद्याः म्लेच्छाः च अब्रह्म-वर्चसः

तुल्यकाला इमे राजन् म्‍लेच्छप्रायाश्च भूभृत: ।
एतेऽधर्मानृतपरा: फल्गुदास्तीव्रमन्यव: ॥ ३८ ॥

तुल्य-कालाः इमे राजन् म्लेच्छ-प्रायाः च भू-भृतः एते अधर्म अनृत पराः फल्गु-दाः तीव्र मन्यवः

स्त्रीबालगोद्विजघ्नाश्च परदारधनाद‍ृता: ।
उदितास्तमितप्राया अल्पसत्त्वाल्पकायुष: ॥ ३९ ॥
असंस्कृता: क्रियाहीना रजसा तमसावृता: ।
प्रजास्ते भक्षयिष्यन्ति म्‍लेच्छा राजन्यरूपिण: ॥ ४० ॥

स्त्री बाल गो द्विज घ्नाः च पर दार धन आदृताः उदित-अस्त-मित प्रायाः अल्प-सत्त्व अल्पक-आयुषः असंस्कृताः क्रिया-हीनाः रजसा तमसा आवृताः प्रजाः ते भक्षयिष्यन्ति म्लेच्छाः राजन्य-रूपिणः

तन्नाथास्ते जनपदास्तच्छीलाचारवादिन: ।
अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिता: ॥ ४१ ॥

तत्-नाथाः ते जन-पदाः तत् शील आचार वादिनः अन्योन्यतः राजभिः च क्षयम् यास्यन्ति पीडिताः

१२.२

श्रीशुक उवाच
ततश्चानुदिनं धर्म: सत्यं शौचं क्षमा दया ।
कालेन बलिना राजन् नङ्‌क्ष्यत्यायुर्बलं स्मृति: ॥ १ ॥

श्री-शुकः उवाच ततः च अनुदिनम् धर्मः सत्यम् शौचम् क्षमा दया कालेन बलिना राजन् नङ्क्ष्यति आयुः बलम् स्मृतिः

वित्तमेव कलौ नृणां जन्माचारगुणोदय: ।
धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ २ ॥

वित्तम् एव कलौ नॄणाम् जन्म आचार गुण उदयः धर्म न्याय व्यवस्थायाम् कारणम् बलम् एव हि

दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके ।
स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥ ३ ॥

दाम्-पत्ये अभिरुचिः हेतुः माया एव व्यावहारिके स्त्रीत्वे पुंस्त्वे च हि रतिः विप्रत्वे सूत्रम् एव हि

लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम् ।
अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वच: ॥ ४ ॥

लिङ्गम् एव आश्रम-ख्यातौ अन्योन्य आपत्ति कारणम् अवृत्त्या न्याय दौर्बल्यम् पाण्डित्ये चापलम् वचः

अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु ।
स्वीकार एव चोद्वाहे स्न‍ानमेव प्रसाधनम् ॥ ५ ॥

अनाढ्यता एव असाधुत्वे साधुत्वे दम्भः एव तु स्वी-कारः एव च उद्वाहे स्नानम् एव प्रसाधनम्

दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् ।
उदरंभरता स्वार्थ: सत्यत्वे धार्ष्ट्यमेव हि ।
दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम् ॥ ६ ॥

दूरे वारि अयनम् तीर्थम् लावण्यम् केश धारणम् उदरम्-भरता स्व-अर्थः सत्यत्वे धार्ष्ट्यम् एव हि दाक्ष्यम् कुटुम्ब-भरणम् यशः अर्थे धर्म-सेवनम्

एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ।
ब्रह्मविट्‍क्षत्रशूद्राणां यो बली भविता नृप: ॥ ७ ॥

एवम् प्रजाभिः दुष्टाभिः आकीर्णे क्षिति-मण्डले ब्रह्म विट् क्षत्र शूद्राणाम् यः बली भविता नृपः

प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभि: ।
आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ॥ ८ ॥

प्रजाः हि लुब्धैः राजन्यैः निर्घृणैः दस्यु धर्मभिः आच्छिन्न दार द्रविणाः यास्यन्ति गिरि काननम्

शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजना: ।
अनावृष्टय‍ा विनङ्‌क्ष्यन्ति दुर्भिक्षकरपीडिता: ॥ ९ ॥

शाक मूल आमिष क्षौद्र फल पुष्प अष्टि भोजनाः अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष कर पीडिताः

शीतवातातपप्रावृड्‌‌हिमैरन्योन्यत: प्रजा: ।
क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया ॥ १० ॥

शीत वात आतप प्रावृत् हिमैः अन्योन्यतः प्रजाः क्षुत् तृड्भ्याम् व्याधिभिः च एव सन्तप्स्यन्ते च चिन्तया

त्रिंशद्विंशतिवर्षाणि परमायु: कलौ नृणाम् ॥ ११ ॥

त्रिंशत् विंशति वर्षाणि परम-आयुः कलौ नृणाम्

क्षीयमाणेषु देहेषु देहिनां कलिदोषत: ।
वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२ ॥
पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।
चौर्यानृतवृथाहिंसानानावृत्तिषु वै नृषु ॥ १३ ॥
शूद्रप्रायेषु वर्णेषुच्छागप्रायासु धेनुषु ।
गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥ १४ ॥
अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।
विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५ ॥
इत्थं कलौ गतप्राये जनेषु खरधर्मिषु ।
धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति ॥ १६ ॥

क्षीयमाणेषु देहेषु देहिनाम् कलि-दोषतः वर्ण-आश्रम-वताम् धर्मे नष्टे वेद-पथे नृणाम् पाषण्ड-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु चौर्य अनृत वृथा-हिंसा नाना वृत्तिषु वै नृषु शूद्र-प्रायेषु वर्णेषु छाग-प्रायासु धेनुषु गृह-प्रायेषु आश्रमेषु यौन-प्रायेषु बन्धुषु अणु-प्रायासु ओषधीषु शमी-प्रायेषु स्थास्नुषु विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु इत्थम् कलौ गत-प्राये जनेषु खर-धर्मिषु धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति

चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मन: ।
धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥ १७ ॥

चर-अचर गुरोः विष्णोः ईश्वरस्य अखिल आत्मनः धर्म-त्राणाय साधूनाम् जन्म कर्म अपनुत्तये

शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मन: ।
भवने विष्णुयशस: कल्कि: प्रादुर्भविष्यति ॥ १८ ॥

शम्भल-ग्राम मुख्यस्य ब्राह्मणस्य महा-आत्मनः भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति

अश्वमाशुगमारुह्य देवदत्तं जगत्पति: ।
असिनासाधुदमनमष्टैश्वर्यगुणान्वित: ॥ १९ ॥
विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युति: ।
नृपलिङ्गच्छदो दस्यून्कोटिशो निहनिष्यति ॥ २० ॥

अश्वम् आशु-गम् आरुह्य देवदत्तम् जगत्-पतिः असिना असाधु-दमनम् अष्ट ऐश्वर्य गुण अन्वितः विचरन् आशुना क्षौण्याम् हयेन अप्रतिम द्युतिः नृप-लिङ्ग छदः दस्यून् कोटिशः निहनिष्यति

अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।
वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम् ।
पौरजानपदानां वै हतेष्वखिलदस्युषु ॥ २१ ॥

अथ तेषाम् भविष्यन्ति मनांसि विशदानि वै वासुदेव अङ्ग राग अति-पुण्य गन्ध अनिल स्पृशाम् पौर जान-पदानाम् वै हतेषु अखिल दस्युषु

तेषां प्रजाविसर्गश्च स्थविष्ठ: सम्भविष्यति ।
वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ २२ ॥

तेषाम् प्रजा विसर्गः च स्थविष्ठः सम्भविष्यति वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते

यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरि: ।
कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी ॥ २३ ॥

यदा अवतीर्णः भगवान् कल्किः धर्म-पतिः हरिः कृतम् भविष्यति तदा प्रजा-सूतिः च सात्त्विकी

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।
एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४ ॥

यदा चन्द्रः च सूर्यः च तथा तिष्य बृहस्पती एक-राशौ समेष्यन्ति भविष्यति तदा कृतम्

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवा: ।
ते त उद्देशत: प्रोक्ता वंशीया: सोमसूर्ययो: ॥ २५ ॥

ये अतीताः वर्तमानाः ये भविष्यन्ति च पार्थिवाः ते ते उद्देशतः प्रोक्ताः वंशीयाः सोम-सूर्ययोः

आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् ।
एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६ ॥

आरभ्य भवतः जन्म यावत् नन्द अभिषेचनम् एतत् वर्ष सहस्रम् तु शतम् पञ्च-दश-उत्तरम्

सप्तर्षीणां तु यौ पूर्वौ द‍ृश्येते उदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं द‍ृश्यते यत् समं निशि ॥ २७ ॥
तेनैव ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।
ते त्वदीये द्विजा: काल अधुना चाश्रिता मघा: ॥ २८ ॥

सप्त-ऋषीणाम् तु यौ पूर्वौ दृश्येते उदितौ दिवि तयोः तु मध्ये नक्षत्रम् दृश्यते यत् समम् निशि तेन एव ऋषयः युक्ताः तिष्ठन्ति अब्द-शतम् नृणाम् ते त्वदीये द्विजाः काले अधुना च आश्रिताः मघाः

विष्णोर्भगवतो भानु: कृष्णाख्योऽसौ दिवं गत: ।
तदाविशत् कलिर्लोकं पापे यद् रमते जन: ॥ २९ ॥

विष्णोः भगवतः भानुः कृष्ण-आख्यः असौ दिवम् गतः तदा अविशत् कलिः लोकम् पापे यत् रमते जनः

यावत् स पादपद्माभ्यां स्पृशनास्ते रमापति: ।
तावत् कलिर्वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ ३० ॥

यावत् सः पाद-पद्माभ्याम् स्पृशन् आस्ते रमा-पतिः तावत् कलिः वै पृथिवीम् पराक्रन्तुम् न च अशकत्

यदा देवर्षय: सप्त मघासु विचरन्ति हि ।
तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मक: ॥ ३१ ॥

यदा देव-ऋषयः सप्त मघासु विचरन्ति हि तदा प्रवृत्तः तु कलिः द्वादश अब्द-शत आत्मकः

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षय: ।
तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥

यदा मघाभ्यः यास्यन्ति पूर्व-आषाढाम् महा-ऋषयः तदा नन्दात् प्रभृति एषः कलिः वृद्धिम् गमिष्यति

यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाहनि ।
प्रतिपन्नं कलियुगमिति प्राहु: पुराविद: ॥ ३३ ॥

यस्मिन् कृष्णः दिवम् यातः तस्मिन् एव तदा अहनि प्रतिपन्नम् कलि-युगम् इति प्राहुः पुरा विदः

दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुन: कृतम् ।
भविष्यति तदा नृणां मन आत्मप्रकाशकम् ॥ ३४ ॥

दिव्य अब्दानाम् सहस्र अन्ते चतुर्थे तु पुनः कृतम् भविष्यति तदा नॄणाम् मनः आत्म-प्रकाशकम्

इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि ।
तथा विट्‌शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥ ३५ ॥

इति एषः मानवः वंशः यथा सङ्ख्यायते भुवि तथा विट् शूद्र विप्राणाम् ताः ताः ज्ञेयाः युगे युगे

एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् ।
कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥ ३६ ॥

एतेषाम् नाम लिङ्गानाम् पुरुषाणाम् महा-आत्मनाम् कथा मात्र अवशिष्टानाम् कीर्तिः एव स्थिता भुवि

देवापि: शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशज: ।
कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७ ॥

देवापिः शान्तनोः भ्राता मरुः च इक्ष्वाकु-वंश-जः कलाप-ग्रामे आसाते महा योग-बल अन्वितौ

ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ ।
वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यत: ॥ ३८ ॥

तौ इह एत्य कलेः अन्ते वासुदेव अनुशिक्षितौ वर्ण-आश्रम युतम् धर्मम् पूर्व-वत् प्रथयिष्यतः

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥

कृतम् त्रेता द्वापरम् च कलिः च इति चतुः-युगम् अनेन क्रम योगेन भुवि प्राणिषु वर्तते

राजन्नेते मया प्रोक्ता नरदेवास्तथापरे ।
भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गता: ॥ ४० ॥

राजन् एते मया प्रोक्ताः नर-देवाः तथा अपरे भूमौ ममत्वम् कृत्वा अन्ते हित्वा इमाम् निधनम् गताः

कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च ।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यत: ॥ ४१ ॥

कृमि विट् भस्म संज्ञा अन्ते राज-नाम्नः अपि यस्य च भूत ध्रुक् तत्-कृते स्व-अर्थम् किम् वेद निरयः यतः

कथं सेयमखण्डा भू: पूर्वैर्मे पुरुषैर्धृता ।
मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ ४२ ॥

कथम् सा इयम् अखण्डा भूः पूर्वैः मे पुरुषैः धृता मत्-पुत्रस्य च पौत्रस्य मत्-पूर्वा वंश-जस्य वा

तेजोऽबन्नमयं कायं गृहीत्वात्मतयाबुधा: ।
महीं ममतया चोभौ हित्वान्तेऽदर्शनं गता: ॥ ४३ ॥

तेजः अप् अन्न मयम् कायम् गृहीत्वा आत्मतया अबुधाः महीम् ममतया च उभौ हित्वा अन्ते अदर्शनम् गताः

ये ये भूपतयो राजन् भुञ्जते भुवमोजसा ।
कालेन ते कृता: सर्वे कथामात्रा: कथासु च ॥ ४४ ॥

ये ये भू-पतयः राजन् भुञ्जते भुवम् ओजसा कालेन ते कृताः सर्वे कथा-मात्राः कथासु च

१२.३

श्री शुक उवाच:
द‍ृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूरियम् ।
अहो मा विजिगीषन्ति मृत्यो: क्रीडनका नृपा: ॥ १ ॥

श्री-शुकः उवाच दृष्ट्वा आत्मनि जये व्यग्रान् नृपान् हसति भूः इयम् अहो मा विजिगीषन्ति मृत्योः क्रीडनकाः नृपाः

काम एष नरेन्द्राणां मोघ: स्याद् विदुषामपि ।
येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपा: ॥ २ ॥

कामः एषः नर-इन्द्राणाम् मोघः स्यात् विदुषाम् अपि येन फेन-उपमे पिण्डे ये अति-विश्रम्भिताः नृपाः

पूर्वं निर्जित्य षड्‌वर्गं जेष्यामो राजमन्त्रिण: ।
तत: सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥
एवं क्रमेण जेष्याम: पृथ्वीं सागरमेखलाम् ।
इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥

पूर्वम् निर्जित्य षट्-वर्गम् जेष्यामः राज-मन्त्रिणः ततः सचिव पौर आप्त करि-इन्द्रान् अस्य कण्टकान् एवम् क्रमेण जेष्यामः पृथ्वीम् सागर मेखलाम् इति आशा बद्ध हृदयाः न पश्यन्ति अन्तिके अन्तकम्

समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।
कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥

समुद्र-आवरणाम् जित्वा माम् विशन्ति अब्धिम् ओजसा कियत् आत्म-जयस्य एतत् मुक्तिः आत्म-जये फलम्

यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह ।
गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धय: ॥ ६ ॥

याम् विसृज्य एव मनवः तत्-सुताः च कुरु-उद्वह गताः यथा-आगतम् युद्धे ताम् माम् जेष्यन्ति अबुद्धयः

मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रह: ।
जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७ ॥

मत्-कृते पितृ-पुत्राणाम् भ्रातॄणाम् च अपि विग्रहः जायते हि असताम् राज्ये ममता बद्ध चेतसाम्

ममैवेयं मही कृत्स्‍ना न ते मूढेति वादिन: ।
स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपा: ॥ ८ ॥

मम एव इयम् मही कृत्स्ना न ते मूढ इति वादिनः स्पर्धमानाः मिथः घ्नन्ति म्रियन्ते मत्-कृते नृपाः

श्रीशुक उवाच
पृथु: पुरूरवा गाधिर्नहुषो भरतोऽर्जुन: ।
मान्धाता सगरो राम: खट्‌वाङ्गो धुन्धुहा रघु: ॥ ९ ॥
तृणबिन्दुर्ययातिश्च शर्याति: शन्तनुर्गय: ।
भगीरथ: कुवलयाश्व: ककुत्स्थो नैषधो नृग: ॥ १० ॥
हिरण्यकशिपुर्वृत्रो रावणो लोकरावण: ।
नमुचि: शम्बरो भौमो हिरण्याक्षोऽथ तारक: ॥ ११ ॥
अन्ये च बहवो दैत्या राजानो ये महेश्वरा: ।
सर्वे सर्वविद: शूरा: सर्वे सर्वजितोऽजिता: ॥ १२ ॥
ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिण: ।
कथावशेषा: कालेन ह्यकृतार्था: कृता विभो ॥ १३ ॥

पृथुः पुरूरवाः गाधिः नहुषः भरतः अर्जुनः मान्धाता सगरः रामः खट्वाङ्गः धुन्धुहा रघुः तृणबिन्दुः ययातिः च शर्यातिः शन्तनुः गयः भगीरथः कुवलयाश्वः ककुत्स्थः नैषधः नृगः हिरण्यकशिपुः वृत्रः रावणः लोक-रावणः नमुचिः शम्बरः भौमः हिरण्याक्षः अथ तारकः अन्ये च बहवः दैत्याः राजानः ये महा-ईश्वराः सर्वे सर्व-विदः शूराः सर्वे सर्व-जितः अजिताः ममताम् मयि अवर्तन्त कृत्वा उच्चैः मर्त्य-धर्मिणः कथा-अवशेषाः कालेन हि अकृत-अर्थाः कृताः विभो

कथा इमास्ते कथिता महीयसां
विताय लोकेषु यश: परेयुषाम् ।
विज्ञानवैराग्यविवक्षया विभो
वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥

कथाः इमाः ते कथिताः महीयसाम् विताय लोकेषु यशः परेयुषाम् विज्ञान वैराग्य विवक्षया विभो वचः विभूतीः न तु पारम-अर्थ्यम्

यस्तूत्तम:श्लोकगुणानुवाद:
सङ्गीयतेऽभीक्ष्णममङ्गलघ्न: ।
तमेव नित्यं श‍ृणुयादभीक्ष्णं
कृष्णेऽमलां भक्तिमभीप्समान: ॥ १५ ॥

यः तु उत्तमः-श्लोक गुण अनुवादः सङ्गीयते अभीक्ष्णम् अमङ्गल-घ्नः तम् एव नित्यम् शृणुयात् अभीक्ष्णम् कृष्णे अमलाम् भक्तिम् अभीप्समानः

श्रीराजोवाच
केनोपायेन भगवन् कलेर्दोषान् कलौ जना: ।
विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६ ॥

श्री-राजा उवाच केन उपायेन भगवन् कलेः दोषान् कलौ जनाः विधमिष्यन्ति उपचितान् तत् मे ब्रूहि यथा मुने

युगानि युगधर्मांश्च मानं प्रलयकल्पयो: ।
कालस्येश्वररूपस्य गतिं विष्णोर्महात्मन: ॥ १७ ॥

युगानि युग-धर्मान् च मानम् प्रलय कल्पयोः कालस्य ईश्वर-रूपस्य गतिम् विष्णोः महा-आत्मनः

श्रीशुक उवाच
कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत: ।
सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८ ॥

श्री-शुकः उवाच कृते प्रवर्तते धर्मः चतुः-पात् तत् जनैः धृतः सत्यम् दया तपः दानम् इति पादाः विभोः नृप

सन्तुष्टा: करुणा मैत्रा: शान्ता दान्तास्तितिक्षव: ।
आत्मारामा: समद‍ृश: प्रायश: श्रमणा जना: ॥ १९ ॥

सन्तुष्टाः करुणाः मैत्राः शान्ताः दान्ताः तितिक्षवः आत्म-आरामाः सम-दृशः प्रायशः श्रमणाः जनाः

त्रेतायां धर्मपादानां तुर्यांशो हीयते शनै: ।
अधर्मपादैरनृतहिंसासन्तोषविग्रहै: ॥ २० ॥

त्रेतायाम् धर्म-पादानाम् तुर्य अंशः हीयते शनैः अधर्म-पादैः अनृत हिंसा असन्तोष विग्रहैः

तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटा: ।
त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥

तदा क्रिया तपः निष्ठाः न अति-हिंस्राः न लम्पटाः त्रै-वर्गिकाः त्रयी वृद्धाः वर्णाः ब्रह्म-उत्तराः नृप

तप:सत्यदयादानेष्वर्धं ह्रस्वति द्वापरे ।
हिंसातुष्टय‍नृतद्वेषैर्धर्मस्याधर्मलक्षणै: ॥ २२ ॥

तपः सत्य दया दानेषु अर्धम् ह्रस्वति द्वापरे हिंसा अतुष्टि अनृत द्वेषैः धर्मस्य अधर्म-लक्षणैः

यशस्विनो महाशीला: स्वाध्यायाध्ययने रता: ।
आढ्या: कुटुम्बिनो हृष्टा वर्णा: क्षत्रद्विजोत्तरा: ॥ २३ ॥

यशस्विनः महा-शीलाः स्वाध्याय-अध्ययने रताः आढ्याः कुटुम्बिनः हृष्टाः वर्णाः क्षत्र-द्विज-उत्तराः

कलौ तु धर्मपादानां तुर्यांशोऽधर्महेतुभि: ।
एधमानै: क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥

कलौ तु धर्म-पादानाम् तुर्य-अंशः अधर्म हेतुभिः एधमानैः क्षीयमाणः हि अन्ते सः अपि विनङ्क्ष्यति

तस्मिन् लुब्धा दुराचारा निर्दया: शुष्कवैरिण: ।
दुर्भगा भूरितर्षाश्च शूद्रदासोत्तरा: प्रजा: ॥ २५ ॥

तस्मिन् लुब्धाः दुराचाराः निर्दयाः शुष्क-वैरिणः दुर्भगाः भूरि-तर्षाः च शूद्र-दास-उत्तराः प्रजाः

सत्त्वं रजस्तम इति द‍ृश्यन्ते पुरुषे गुणा: ।
कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥

सत्त्वम् रजः तमः इति दृश्यन्ते पुरुषे गुणाः काल-सञ्चोदिताः ते वै परिवर्तन्ते आत्मनि

प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याज्ज्ञाने तपसि यद् रुचि: ॥ २७ ॥

प्रभवन्ति यदा सत्त्वे मनः बुद्धि इन्द्रियाणि च तदा कृत-युगम् विद्यात् ज्ञाने तपसि यत् रुचिः

यदा कर्मसु काम्येषु भक्तिर्यशसि देहिनाम् ।
तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् ॥ २८ ॥

यदा कर्मसु काम्येषु भक्तिः यशसि देहिनाम् तदा त्रेता रजः-वृत्तिः इति जानीहि बुद्धि-मन्

यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सर: ।
कर्मणां चापि काम्यानां द्वापरं तद् रजस्तम: ॥ २९ ॥

यदा लोभः तु असन्तोषः मानः दम्भः अथ मत्सरः कर्मणाम् च अपि काम्यानाम् द्वापरम् तत् रजः-तमः

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।
शोकमोहौ भयं दैन्यं स कलिस्तामस: स्मृत: ॥ ३० ॥

यदा माया अनृतम् तन्द्रा निद्रा हिंसा विषादनम् शोक मोहौ भयम् दैन्यम् सः कलिः तामसः स्मृतः

तस्मात् क्षुद्रद‍ृशो मर्त्या: क्षुद्रभाग्या महाशना: ।
कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसती: ॥ ३१ ॥

तस्मात् क्षुद्र-दृशः मर्त्याः क्षुद्र-भाग्याः महा-अशनाः कामिनः वित्त-हीनाः च स्वैरिण्यः च स्त्रियः असतीः

दस्यूत्कृष्टा जनपदा वेदा: पाषण्डदूषिता: ।
राजानश्च प्रजाभक्षा: शिश्न‍ोदरपरा द्विजा: ॥ ३२ ॥

दस्यु-उत्कृष्टाः जन-पदाः वेदाः पाषण्ड दूषिताः राजानः च प्रजा-भक्षाः शिश्न-उदर पराः द्विजाः

अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिन: ।
तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपा: ॥ ३३ ॥

अव्रताः बटवः अशौचाः भिक्षवः च कुटुम्बिनः तपस्विनः ग्राम-वासाः न्यासिनः अत्यर्थ-लोलुपाः

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रिय: ।
शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसा: ॥ ३४ ॥

ह्रस्व-कायाः महा-आहाराः भूरि-अपत्याः गत-ह्रियः शश्वत् कटुक भाषिण्यः चौर्य माया उरु-साहसाः

पणयिष्यन्ति वै क्षुद्रा: किराटा: कूटकारिण: ।
अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥

पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः अनापदि अपि मंस्यन्ते वार्ताम् साधु जुगुप्सिताम्

पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् ।
भृत्यं विपन्नं पतय: कौलं गाश्चापयस्विनी: ॥ ३६ ॥

पतिम् त्यक्ष्यन्ति निर्द्रव्यम् भृत्याः अपि अखिल-उत्तमम् भृत्यम् विपन्नम् पतयः कौलम् गाः च अपयस्विनीः

पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदा: ।
ननान्‍द‍ृश्यालसंवादा दीना: स्त्रैणा: कलौ नरा: ॥ ३७ ॥

पितृ भ्रातृ सुहृत् ज्ञातीन् हित्वा सौरत सौहृदाः ननान्दृ श्याल संवादाः दीनाः स्त्रैणाः कलौ नराः

शूद्रा: प्रतिग्रहीष्यन्ति तपोवेषोपजीविन: ।
धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥

शूद्राः प्रतिग्रहीष्यन्ति तपः वेष उपजीविनः धर्मम् वक्ष्यन्ति अधर्म-ज्ञाः अधिरुह्य उत्तम-आसनम्

नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिता: ।
निरन्ने भूतले राजननावृष्टिभयातुरा: ॥ ३९ ॥
वासोऽन्नपानशयनव्यवायस्न‍ानभूषणै: ।
हीना: पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजा: ॥ ४० ॥

नित्यम् उद्विग्न मनसः दुर्भिक्ष कर कर्शिताः निरन्ने भू-तले राजन् अनावृष्टि भय आतुराः वासः अन्न पान शयन व्यवाय स्नान भूषणैः हीनाः पिशाच-सन्दर्शाः भविष्यन्ति कलौ प्रजाः

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदा: ।
त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥

कलौ काकिणिके अपि अर्थे विगृह्य त्यक्त सौहृदाः त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि

न रक्षिष्यन्ति मनुजा: स्थविरौ पितरावपि ।
पुत्रान् भार्यां च कुलजां क्षुद्रा: शिश्न‍ोदरंभरा: ॥ ४२ ॥

न रक्षिष्यन्ति मनुजाः स्थविरौ पितरौ अपि पुत्रान् भार्याम् च कुल-जाम् क्षुद्राः शिश्न-उदरम् भराः

कलौ न राजन्जगतां परं गुरुं
त्रिलोकनाथानतपादपङ्कजम् ।
प्रायेण मर्त्या भगवन्तमच्युतं
यक्ष्यन्ति पाषण्डविभिन्नचेतस: ॥ ४३ ॥

कलौ न राजन् जगताम् परम् गुरुम् त्रि-लोक नाथ आनत पाद-पङ्कजम् प्रायेण मर्त्याः भगवन्तम् अच्युतम् यक्ष्यन्ति पाषण्ड विभिन्न चेतसः

यन्नामधेयं म्रियमाण आतुर:
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्तकर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जना: ॥ ४४ ॥

यत् नामधेयम् म्रियमाणः आतुरः पतन् स्खलन् वा विवशः गृणन् पुमान् विमुक्त कर्म अर्गलः उत्तमाम् गतिम् प्राप्नोति यक्ष्यन्ति न तम् कलौ जनाः

पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् ।
सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तम: ॥ ४५ ॥

पुंसाम् कलि-कृतान् दोषान् द्रव्य देश आत्म सम्भवान् सर्वान् हरति चित्त-स्थः भगवान् पुरुष-उत्तमः

श्रुत: सङ्कीर्तितो ध्यात: पूजितश्चाद‍ृतोऽपि वा ।
नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥

श्रुतः सङ्कीर्तितः ध्यातः पूजितः च आदृतः अपि वा नृणाम् धुनोति भगवान् हृत्-स्थः जन्म-अयुत अशुभम्

यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् ।
एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ४७ ॥

यथा हेम्नि स्थितः वह्निः दुर्वर्णम् हन्ति धातु-जम् एवम् आत्म-गतः विष्णुः योगिनाम् अशुभ-आशयम्

विद्यातप:प्राणनिरोधमैत्री-
तीर्थाभिषेकव्रतदानजप्यै: ।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा
यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥

विद्या तपः प्राण-निरोध मैत्री तीर्थ-अभिषेक व्रत दान जप्यैः न अत्यन्त शुद्धिम् लभते अन्तः-आत्मा यथा हृदि-स्थे भगवति अनन्ते

तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥ ४९ ॥

तस्मात् सर्व-आत्मना राजन् हृदि-स्थम् कुरु केशवम् म्रियमाणः हि अवहितः ततः यासि पराम् गतिम्

म्रियमाणैरभिध्येयो भगवान् परमेश्वर: ।
आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रय: ॥ ५० ॥

म्रियमाणैः अभिध्येयः भगवान् परम-ईश्वरः आत्म-भावम् नयति अङ्ग सर्व-आत्मा सर्व-संश्रयः

कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण: ।
कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् ॥ ५१ ॥

कलेः दोष-निधेः राजन् अस्ति हि एकः महान् गुणः कीर्तनात् एव कृष्णस्य मुक्त-सङ्गः परम् व्रजेत्

कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखै: ।
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ५२ ॥

कृते यत् ध्यायतः विष्णुम् त्रेतायाम् यजतः मखैः द्वापरे परिचर्यायाम् कलौ तत् हरि-कीर्तनात्

१२.४

श्रीशुक उवाच
कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप ।
कथितो युगमानं च श‍ृणु कल्पलयावपि ॥ १ ॥

श्री-शुकः उवाच कालः ते परम-अणु आदिः द्वि-पर-अर्ध अवधिः नृप कथितः युग-मानम् च शृणु कल्प लयौ अपि

चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते ।
स कल्पो यत्र मनवश्चतुर्दश विशाम्पते ॥ २ ॥

चतुः-युग सहस्रम् तु ब्रह्मणः दिनम् उच्यते सः कल्पः यत्र मनवः चतुर्दश विशाम्-पते

तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता ।
त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ ३ ॥

तत्-अन्ते प्रलयः तावान् ब्राह्मी रात्रिः उदाहृता त्रयः लोकाः इमे तत्र कल्पन्ते प्रलयाय हि

एष नैमित्तिक: प्रोक्त: प्रलयो यत्र विश्वसृक् ।
शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभू: ॥ ४ ॥

एषः नैमित्तिकः प्रोक्तः प्रलयः यत्र विश्व-सृक् शेते अनन्त-आसनः विश्वम् आत्म-सात्-कृत्य च आत्म-भूः

द्विपरार्धे त्वतिक्रान्ते ब्रह्मण: परमेष्ठिन: ।
तदा प्रकृतय: सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥

द्वि-परार्धे तु अतिक्रान्ते ब्रह्मणः परमे-स्थिनः तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै

एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।
अण्डकोषस्तु सङ्घातो विघाट उपसादिते ॥ ६ ॥

एषः प्राकृतिकः राजन् प्रलयः यत्र लीयते अण्ड-कोषः तु सङ्घातः विघाते उपसादिते

पर्जन्य: शतवर्षाणि भूमौ राजन् न वर्षति ।
तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणा: क्षुधार्दिता: ।
क्षयं यास्यन्ति शनकै: कालेनोपद्रुता: प्रजा: ॥ ७ ॥

पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति तदा निरन्ने हि अन्योन्यम् भक्ष्यमाणाः क्षुधा अर्दिताः क्षयम् यास्यन्ति शनकैः कालेन उपद्रुताः प्रजाः

सामुद्रं दैहिकं भौमं रसं सांवर्तको रवि: ।
रश्मिभि: पिबते घोरै: सर्वं नैव विमुञ्चति ॥ ८ ॥

सामुद्रम् दैहिकम् भौमम् रसम् सांवर्तकः रविः रश्मिभिः पिबते घोरैः सर्वम् न एव विमुञ्चति

तत: संवर्तको वह्नि: सङ्कर्षणमुखोत्थित: ।
दहत्यनिलवेगोत्थ: शून्यान् भूविवरानथ ॥ ९ ॥

ततः संवर्तकः वह्निः सङ्कर्षण मुख उत्थितः दहति अनिल-वेग उत्थः शून्यान् भू विवरान् अथ

उपर्यध: समन्ताच्च शिखाभिर्वह्निसूर्ययो: ।
दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ॥ १० ॥

उपरि अधः समन्तात् च शिखाभिः वह्नि सूर्ययोः दह्यमानम् विभाति अण्डम् दग्ध गो-मय पिण्ड-वत्

तत: प्रचण्डपवनो वर्षाणामधिकं शतम् ।
पर: सांवर्तको वाति धूम्रं खं रजसावृतम् ॥ ११ ॥

ततः प्रचण्ड पवनः वर्षाणाम् अधिकम् शतम् परः साम्वर्तकः वाति धूम्रम् खम् रजसा आवृतम्

ततो मेघकुलान्यङ्ग चित्र वर्णान्यनेकश: ।
शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनै: ॥ १२ ॥

ततः मेघ-कुलानि अङ्ग चित्र-वर्णानि अनेकशः शतम् वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः

तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३ ॥

ततः एक-उदकम् विश्वम् ब्रह्म-अण्ड विवर-अन्तरम्

तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे ।
ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४ ॥

तदा भूमेः गन्ध-गुणम् ग्रसन्ति आपः उद-प्लवे ग्रस्त-गन्धा तु पृथिवी प्रलयत्वाय कल्पते

अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसा: ।
ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥
लीयते चानिले तेजो वायो: खं ग्रसते गुणम् ।
स वै विशति खं राजंस्ततश्च नभसो गुणम् ॥ १६ ॥
शब्दं ग्रसति भूतादिर्नभस्तमनुलीयते ।
तैजसश्चेन्द्रियाण्यङ्ग देवान् वैकारिको गुणै: ॥ १७ ॥
महान् ग्रसत्यहङ्कारं गुणा: सत्त्वादयश्च तम् ।
ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ १८ ॥
न तस्य कालावयवै: परिणामादयो गुणा: ।
अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९ ॥

अपाम् रसम् अथ तेजः ताः लीयन्ते अथ नीरसाः ग्रसते तेजसः रूपम् वायुः तत्-रहितम् तदा लीयते च अनिले तेजः वायोः खम् ग्रसते गुणम् सः वै विशति खम् राजन् ततः च नभसः गुणम् शब्दम् ग्रसति भूत-आदिः नभः तम् अनु लीयते तैजसः च इन्द्रियाणि अङ्ग देवान् वैकारिकः गुणैः महान् ग्रसति अहङ्कारम् गुणाः सत्त्व-आदयः च तम् ग्रसते अव्याकृतम् राजन् गुणान् कालेन चोदितम् न तस्य काल अवयवैः परिणाम-आदयः गुणाः अनादि अनन्तम् अव्यक्तम् नित्यम् कारणम् अव्ययम्

न यत्र वाचो न मनो न सत्त्वं
तमो रजो वा महदादयोऽमी ।
न प्राणबुद्धीन्द्रियदेवता वा
न सन्निवेश: खलु लोककल्प: ॥ २० ॥
न स्वप्नजाग्रन्न च तत् सुषुप्तं
न खं जलं भूरनिलोऽग्निरर्क: ।
संसुप्तवच्छून्यवदप्रतर्क्यं
तन्मूलभूतं पदमामनन्ति ॥ २१ ॥

न यत्र वाचः न मनः न सत्त्वम् तमः रजः वा महत् आदयः अमी न प्राण बुद्धि इन्द्रिय देवताः वा न सन्निवेशः खलु लोक-कल्पः न स्वप्न जाग्रत् न च तत् सुषुप्तम् न खम् जलम् भूः अनिलः अग्निः अर्कः संसुप्त-वत् शून्य-वत् अप्रतर्क्यम् तत् मूल-भूतम् पदम् आमनन्ति

लय: प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा ।
शक्तय: सम्प्रलीयन्ते विवशा: कालविद्रुता: ॥ २२ ॥

लयः प्राकृतिकः हि एषः पुरुष अव्यक्तयोः यदा शक्तयः सम्प्रलीयन्ते विवशाः काल विद्रुताः

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् ।
द‍ृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् ॥ २३ ॥

बुद्धि इन्द्रिय अर्थ रूपेण ज्ञानम् भाति तत् आश्रयम् दृश्यत्व अव्यतिरेकाभ्याम् आदि-अन्त-वत् अवस्तु यत्

दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग् भवेत् ।
एवं धी: खानि मात्राश्च न स्युरन्यतमाद‍ृतात् ॥ २४ ॥

दीपः चक्षुः च रूपम् च ज्योतिषः न पृथक् भवेत् एवम् धीः खानि मात्राः च न स्युः अन्यतमात् ऋतात्

बुद्धेर्जागरणं स्वप्न: सुषुप्तिरिति चोच्यते ।
मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥

बुद्धेः जागरणम् स्वप्नः सुषुप्तिः इति च उच्यते माया-मात्रम् इदम् राजन् नानात्वम् प्रत्यक्-आत्मनि

यथा जलधरा व्योम्नि भवन्ति न भवन्ति च ।
ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥ २६ ॥

यथा जल-धराः व्योम्नि भवन्ति न भवन्ति च ब्रह्मणि इदम् तथा विश्वम् अवयवि उदय अप्ययात्

सत्यं ह्यवयव: प्रोक्त: सर्वावयविनामिह ।
विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तव: ॥ २७ ॥

सत्यम् हि अवयवः प्रोक्तः सर्व-अवयविनाम् इह विना अर्थेन प्रतीयेरन् पटस्य इव अङ्ग तन्तवः

यत् सामान्यविशेषाभ्यामुपलभ्येत स भ्रम: ।
अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत् ॥ २८ ॥

यत् सामान्य विशेषाभ्याम् उपलभ्येत सः भ्रमः अन्योन्य अपाश्रयात् सर्वम् आदि-अन्त-वत् अवस्तु यत्

विकार: ख्यायमानोऽपि प्रत्यगात्मानमन्तरा ।
न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥ २९ ॥

विकारः ख्यायमानः अपि प्रत्यक्-आत्मानम् अन्तरा न निरूप्यः अस्ति अणुः अपि स्यात् चेत् चित्-समः आत्म-वत्

न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव ॥ ३० ॥

न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते नानात्वम् छिद्रयोः यद्वत् ज्योतिषोः वातयोः इव

यथा हिरण्यं बहुधा समीयते
नृभि: क्रियाभिर्व्यवहारवर्त्मसु ।
एवं वचोभिर्भगवानधोक्षजो
व्याख्यायते लौकिकवैदिकैर्जनै: ॥ ३१ ॥

यथा हिरण्यम् बहुधा समीयते नृभिः क्रियाभिः व्यवहार-वर्त्मसु एवम् वचोभिः भगवान् अधोक्षजः व्याख्यायते लौकिक वैदिकैः जनैः

यथा घनोऽर्कप्रभवोऽर्कदर्शितो
ह्यर्कांशभूतस्य च चक्षुषस्तम: ।
एवं त्वहं ब्रह्मगुणस्तदीक्षितो
ब्रह्मांशकस्यात्मन आत्मबन्धन: ॥ ३२ ॥

यथा घनः अर्क प्रभवः अर्क दर्शितः हि अर्क अंश-भूतस्य च चक्षुषः तमः एवम् तु अहम् ब्रह्म-गुणः तत्-ईक्षितः ब्रह्म-अंशकस्य आत्मनः आत्म-बन्धनः

घनो यदार्कप्रभवो विदीर्यते
चक्षु: स्वरूपं रविमीक्षते तदा ।
यदा ह्यहङ्कार उपाधिरात्मनो
जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥

घनः यदा अर्क-प्रभवः विदीर्यते चक्षुः स्वरूपम् रविम् ईक्षते तदा यदा हि अहङ्कारः उपाधिः आत्मनः जिज्ञासया नश्यति तर्हि अनुस्मरेत्

यदैवमेतेन विवेकहेतिना
मायामयाहङ्करणात्मबन्धनम् ।
छित्त्वाच्युतात्मानुभवोऽवतिष्ठते
तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ ३४ ॥

यदा एवम् एतेन विवेक हेतिना माया-मय अहङ्करण आत्म बन्धनम् छित्त्वा अच्युत आत्म अनुभवः अवतिष्ठते तम् आहुः आत्यन्तिकम् अङ्ग सम्प्लवम्

नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।
उत्पत्तिप्रलयावेके सूक्ष्मज्ञा: सम्प्रचक्षते ॥ ३५ ॥

नित्यदा सर्व-भूतानाम् ब्रह्म-आदीनाम् परम्-तप उत्पत्ति प्रलयौ एके सूक्ष्म-ज्ञाः सम्प्रचक्षते

कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा ।
परिणामिनामवस्थास्ता जन्मप्रलयहेतव: ॥ ३६ ॥

काल स्रोतः जवेन आशु ह्रियमाणस्य नित्यदा परिणामिनाम् अवस्थाः ताः जन्म प्रलय हेतवः

अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।
अवस्था नैव द‍ृश्यन्ते वियति ज्योतिषामिव ॥ ३७ ॥

अनादि-अन्त-वता अनेन कालेन ईश्वर मूर्तिना अवस्थाः न एव दृश्यन्ते वियति ज्योतिषाम् इव

नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लय: ।
आत्यन्तिकश्च कथित: कालस्य गतिरीद‍ृशी ॥ ३८ ॥

नित्यः नैमित्तिकः च एव तथा प्राकृतिकः लयः आत्यन्तिकः च कथितः कालस्य गतिः ईदृशी

एता: कुरुश्रेष्ठ जगद्विधातु-
र्नारायणस्याखिलसत्त्वधाम्न: ।
लीलाकथास्ते कथिता: समासत:
कार्त्स्‍न्येन नाजोऽप्यभिधातुमीश: ॥ ३९ ॥

एताः कुरु-श्रेष्ठ जगत्-विधातुः नारायणस्य अखिल-सत्त्व-धाम्नः लीला-कथाः ते कथिताः समासतः कार्त्स्न्येन न अजः अपि अभिधातुम् ईशः

संसारसिन्धुमतिदुस्तरमुत्तितीर्षो-
र्नान्य: प्लवो भगवत: पुरुषोत्तमस्य ।
लीलाकथारसनिषेवणमन्तरेण
पुंसो भवेद् विविधदु:खदवार्दितस्य ॥ ४० ॥

संसार सिन्धुम् अति-दुस्तरम् उत्तितीर्षोः न अन्यः प्लवः भगवतः पुरुष-उत्तमस्य लीला-कथा रस निषेवणम् अन्तरेण पुंसः भवेत् विविध दुःख दव अर्दितस्य

पुराणसंहितामेतामृषिर्नारायणोऽव्यय: ।
नारदाय पुरा प्राह कृष्णद्वैपायनाय स: ॥ ४१ ॥

पुराण संहिताम् एताम् ऋषिः नारायणः अव्ययः नारदाय पुरा प्राह कृष्ण-द्वैपायनाय सः

स वै मह्यं महाराज भगवान् बादरायण: ।
इमां भागवतीं प्रीत: संहितां वेदसम्मिताम् ॥ ४२ ॥

सः वै मह्यम् महाराज भगवान् बादरायणः इमाम् भागवतीम् प्रीतः संहिताम् वेद-सम्मिताम्

इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये ।
दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्ट: शौनकादिभि: ॥ ४३ ॥

इमाम् वक्ष्यति असौ सूतः ऋषिभ्यः नैमिष-आलये दीर्घ-सत्रे कुरु-श्रेष्ठ सम्पृष्टः शौनक-आदिभिः

१२.५

श्रीशुक उवाच
अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरि: ।
यस्य प्रसादजो ब्रह्मा रुद्र: क्रोधसमुद्भ‍व: ॥ १ ॥

श्री-शुकः उवाच अत्र अनुवर्ण्यते अभीक्ष्णम् विश्व-आत्मा भगवान् हरिः यस्य प्रसाद जः ब्रह्मा रुद्रः क्रोध समुद्भवः

त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।
न जात: प्रागभूतोऽद्य देहवत्त्वं न नङ्‌क्ष्यसि ॥ २ ॥

त्वम् तु राजन् मरिष्ये इति पशु-बुद्धिम् इमाम् जहि न जातः प्राक् अभूतः अद्य देह-वत् त्वम् न नङ्क्ष्यसि

न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।
बीजाङ्कुरवद् देहादेर्व्यतिरिक्तो यथानल: ॥ ३ ॥

न भविष्यसि भूत्वा त्वम् पुत्र पौत्र आदि रूप-वान् बीज अङ्कुर वत् देह-आदेः व्यतिरिक्तः यथा अनलः

स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मन: स्वयम् ।
यस्मात् पश्यति देहस्य तत आत्मा ह्यजोऽमर: ॥ ४ ॥

स्वप्ने यथा शिरः छेदम् पञ्चत्व-आदि आत्मनः स्वयम् यस्मात् पश्यति देहस्य ततः आत्मा हि अजः अमरः

घटे भिन्ने घटाकाश आकाश: स्याद् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुन: ॥ ५ ॥

घटे भिन्ने घट-आकाशः आकाशः स्यात् यथा पुरा एवम् देहे मृते जीवः ब्रह्म सम्पद्यते पुनः

मन: सृजति वै देहान् गुणान् कर्माणि चात्मन: ।
तन्मन: सृजते माया ततो जीवस्य संसृति: ॥ ६ ॥

मनः सृजति वै देहान् गुणान् कर्माणि च आत्मनः तत् मनः सृजते माया ततः जीवस्य संसृतिः

स्‍नेहाधिष्ठानवर्त्यग्निसंयोगो यावदीयते ।
तावद्दीपस्य दीपत्वमेवं देहकृतो भव: ।
रज:सत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥

स्नेह अधिष्ठान वर्ति अग्नि संयोगः यावत् ईयते तावत् दीपस्य दीपत्वम् एवम् देह-कृतः भवः रजः-सत्त्व-तमः वृत्त्या जायते अथ विनश्यति

न तत्रात्मा स्वयंज्योतिर्यो व्यक्ताव्यक्तयो: पर: ।
आकाश इव चाधारो ध्रुवोऽनन्तोपमस्तत: ॥ ८ ॥

न तत्र आत्मा स्वयम्-ज्योतिः यः व्यक्त-अव्यक्तयोः परः आकाशः इव च आधारः ध्रुवः अनन्त उपमः ततः

एवमात्मानमात्मस्थमात्मनैवामृश प्रभो ।
बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥

एवम् आत्मानम् आत्म-स्थम् आत्मना एव आमृश प्रभो बुद्ध्या अनुमान-गर्भिण्या वासुदेव-अनुचिन्तया

चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षक: ।
मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥

चोदितः विप्र-वाक्येन न त्वाम् धक्ष्यति तक्षकः मृत्यवः न उपधक्ष्यन्ति मृत्यूनाम् मृत्युम् ईश्वरम्

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।
एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ॥ ११ ॥
दशन्तं तक्षकं पादे लेलिहानं विषाननै: ।
न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मन: ॥ १२ ॥

अहम् ब्रह्म परम् धाम ब्रह्म अहम् परमम् पदम् एवम् समीक्ष्य च आत्मानम् आत्मनि आधाय निष्कले दशन्तम् तक्षकम् पादे लेलिहानम् विष-आननैः न द्रक्ष्यसि शरीरम् च विश्वम् च पृथक् आत्मनः

एतत्ते कथितं तात यदात्मा पृष्टवान् नृप ।
हरेर्विश्वात्मनश्चेष्टां किं भूय: श्रोतुमिच्छसि ॥ १३ ॥

एतत् ते कथितम् तात यत् आत्मा पृष्टवान् नृप हरेः विश्व-आत्मनः चेष्टाम् किम् भूयः श्रोतुम् इच्छसि

१२.६

सूत उवाच
एतन्निशम्य मुनिनाभिहितं परीक्षिद्
व्यासात्मजेन निखिलात्मद‍ृशा समेन ।
तत्पादमूलमुपसृत्य नतेन मूर्ध्ना
बद्धाञ्जलिस्तमिदमाह स विष्णुरात: ॥ १ ॥

सूतः उवाच एतत् निशम्य मुनिना अभिहितम् परीक्षित् व्यास-आत्म-जेन निखिल आत्म दृशा समेन तत् पाद-मूलम् उपसृत्य नतेन मूर्ध्ना बद्ध-अञ्जलिः तम् इदम् आह सः विष्णु-रातः

राजोवाच
सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना ।
श्रावितो यच्च मे साक्षादनादिनिधनो हरि: ॥ २ ॥

राजा उवाच सिद्धः अस्मि अनुगृहीतः अस्मि भवता करुणा-आत्मना श्रावितः यत् च मे साक्षात् अनादि निधनः हरिः

नात्यद्भ‍ुतमहं मन्ये महतामच्युतात्मनाम् ।
अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रह: ॥ ३ ॥

न अति-अद्भुतम् अहम् मन्ये महताम् अच्युत-आत्मनाम् अज्ञेषु ताप तप्तेषु भूतेषु यत् अनुग्रहः

पुराणसंहितामेतामश्रौष्म भवतो वयम् ।
यस्यां खलूत्तम:श्लोको भगवाननुवर्ण्यते ॥ ४ ॥

पुराण-संहिताम् एताम् अश्रौष्म भवतः वयम् यस्याम् खलु उत्तमः-श्लोकः भगवान् अनुवर्ण्यते

भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् ।
प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ॥ ५ ॥

भगवन् तक्षक आदिभ्यः मृत्युभ्यः न बिभेमि अहम् प्रविष्टः ब्रह्म निर्वाणम् अभयम् दर्शितम् त्वया

अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे ।
मुक्तकामाशयं चेत: प्रवेश्य विसृजाम्यसून् ॥ ६ ॥

अनुजानीहि माम् ब्रह्मन् वाचम् यच्छामि अधोक्षजे मुक्त काम-आशयम् चेतः प्रवेश्य विसृजामि असून्

अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया ।
भवता दर्शितं क्षेमं परं भगवत: पदम् ॥ ७ ॥

अज्ञानम् च निरस्तम् मे ज्ञान विज्ञान निष्ठया भवता दर्शितम् क्षेमम् परम् भगवतः पदम्

सूत उवाच
इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणि: ।
जगाम भिक्षुभि: साकं नरदेवेन पूजित: ॥ ८ ॥

सूतः उवाच इति उक्तः तम् अनुज्ञाप्य भगवान् बादरायणिः जगाम भिक्षुभिः साकम् नर-देवेन पूजितः

परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना ।
समाधाय परं दध्यावस्पन्दासुर्यथा तरु: ॥ ९ ॥
प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्‍मुख: ।
ब्रह्मभूतो महायोगी नि:सङ्गश्छिन्नसंशय: ॥ १० ॥

परीक्षित् अपि राज-ऋषिः आत्मनि आत्मानम् आत्मना समाधाय परम् दध्यौ अस्पन्द असुः यथा तरुः प्राक्-कूले बर्हिषि आसीनः गङ्गा-कूले उदक्-मुखः ब्रह्म-भूतः महा-योगी निःसङ्गः छिन्न संशयः

तक्षक: प्रहितो विप्रा: क्रुद्धेन द्विजसूनुना ।
हन्तुकामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥ ११ ॥

तक्षकः प्रहितः विप्राः क्रुद्धेन द्विज सूनुना हन्तु-कामः नृपम् गच्छन् ददर्श पथि कश्यपम्

तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् ।
द्विजरूपप्रतिच्छन्न: कामरूपोऽदशन्नृपम् ॥ १२ ॥

तम् तर्पयित्वा द्रविणैः निवर्त्य विष-हारिणम् द्विज-रूप प्रतिच्छन्नः काम-रूपः अदशत् नृपम्

ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना ।
बभूव भस्मसात् सद्य: पश्यतां सर्वदेहिनाम् ॥ १३ ॥

ब्रह्म-भूतस्य राज-ऋषेः देहः अहि गरल अग्निना बभूव भस्म-सात् सद्यः पश्यताम् सर्व-देहिनाम्

हाहाकारो महानासीद् भुवि खे दिक्षु सर्वत: ।
विस्मिता ह्यभवन् सर्वे देवासुरनरादय: ॥ १४ ॥

हाहा-कारः महान् आसीत् भुवि खे दिक्षु सर्वतः विस्मिताः हि अभवन् सर्वे देव असुर नर आदयः

देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगु: ।
ववृषु: पुष्पवर्षाणि विबुधा: साधुवादिन: ॥ १५ ॥

देव दुन्दुभयः नेदुः गन्धर्व-अप्सरसः जगुः ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः

जन्मेजय: स्वपितरं श्रुत्वा तक्षकभक्षितम् ।
यथा जुहाव सङ्‌क्रुद्धो नागान् सत्रे सह द्विजै: ॥ १६ ॥

जन्मेजयः स्व-पितरम् श्रुत्वा तक्षक भक्षितम् यथा आजुहाव सङ्क्रुद्धः नागान् सत्रे सह द्विजैः

सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् ।
द‍ृष्ट्वेन्द्रं भयसंविग्नस्तक्षक: शरणं ययौ ॥ १७ ॥

सर्प-सत्रे समिद्ध अग्नौ दह्यमानान् महा-उरगान् दृष्ट्वा इन्द्रम् भय संविग्नः तक्षकः शरणम् ययौ

अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् ।
उवाच तक्षक: कस्मान्न दह्येतोरगाधम: ॥ १८ ॥

अपश्यन् तक्षकम् तत्र राजा पारीक्षितः द्विजान् उवाच तक्षकः कस्मात् न दह्येत उरग अधमः

तं गोपायति राजेन्द्र शक्र: शरणमागतम् ।
तेन संस्तम्भित: सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥ १९ ॥

तम् गोपायति राज-इन्द्र शक्रः शरणम् आगतम् तेन संस्तम्भितः सर्पः तस्मात् न अग्नौ पतति असौ

पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधी: ।
सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ २० ॥

पारीक्षितः इति श्रुत्वा प्राह ऋत्विजः उदार धीः सह इन्द्रः तक्षकः विप्राः न अग्नौ किम् इति पात्यते

तच्छ्रुत्वाजुहुवुर्विप्रा: सहेन्द्रं तक्षकं मखे ।
तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ २१ ॥

तत् श्रुत्वा आजुहुवुः विप्राः सह इन्द्रम् तक्षकम् मखे तक्षक आशु पतस्व इह सह इन्द्रेण मरुत्-वता

इति ब्रह्मोदिताक्षेपै: स्थानादिन्द्र: प्रचालित: ।
बभूव सम्भ्रान्तमति: सविमान: सतक्षक: ॥ २२ ॥

इति ब्रह्म उदित आक्षेपैः स्थानात् इन्द्रः प्रचालितः बभूव सम्भ्रान्त मतिः स-विमानः स-तक्षकः

तं पतन्तं विमानेन सहतक्षकमम्बरात् ।
विलोक्याङ्गिरस: प्राह राजानं तं बृहस्पति: ॥ २३ ॥

तम् पतन्तम् विमानेन सह-तक्षकम् अम्बरात् विलोक्य आङ्गिरसः प्राह राजानम् तम् बृहस्पतिः

नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् ।
अनेन पीतममृतमथ वा अजरामर: ॥ २४ ॥

न एषः त्वया मनुष्य-इन्द्र वधम् अर्हति सर्प-राट् अनेन पीतम् अमृतम् अथ वै अजर अमरः

जीवितं मरणं जन्तोर्गति: स्वेनैव कर्मणा ।
राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदु:खयो: ॥ २५ ॥

जीवितम् मरणम् जन्तोः गतिः स्वेन एव कर्मणा राजन् ततः अन्यः न अस्ति अस्य प्रदाता सुख-दुःखयोः

सर्पचौराग्निविद्युद्‌भ्य: क्षुत्तृड्‌व्याध्यादिभिर्नृप ।
पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् ॥ २६ ॥

सर्प चौर अग्नि विद्युद्भ्यः क्षुत् तृट् व्याधि आदिभिः नृप पञ्चत्वम् ऋच्छते जन्तुः भुङ्क्ते आरब्ध कर्म तत्

तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम् ।
सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥ २७ ॥

तस्मात् सत्रम् इदम् राजन् संस्थीयेत आभिचारिकम् सर्पाः अनागसः दग्धाः जनैः दिष्टम् हि भुज्यते

सूत उवाच
इत्युक्त: स तथेत्याह महर्षेर्मानयन् वच: ।
सर्पसत्रादुपरत: पूजयामास वाक्पतिम् ॥ २८ ॥

सूतः उवाच इति उक्तः सः तथा इति आह महा-ऋषेः मानयन् वचः सर्प-सत्रात् उपरतः पूजयाम् आस वाक्-पतिम्

सैषा विष्णोर्महामायाबाध्ययालक्षणा यया ।
मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभि: ॥ २९ ॥

सा एषा विष्णोः महा-माया अबाध्यया अलक्षणा यया मुह्यन्ति अस्य एव आत्म-भूताः भूतेषु गुण वृत्तिभिः

न यत्र दम्भीत्यभया विराजिता
मायात्मवादेऽसकृदात्मवादिभि: ।
न यद्विवादो विविधस्तदाश्रयो
मनश्च सङ्कल्पविकल्पवृत्ति यत् ॥ ३० ॥
न यत्र सृज्यं सृजतोभयो: परं
श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् ।
तदेतदुत्सादितबाध्यबाधकं
निषिध्य चोर्मीन् विरमेत तन्मुनि: ॥ ३१ ॥

न यत्र दम्भी इति अभया विराजिता माया आत्म-वादे असकृत् आत्म-वादिभिः न यत् विवादः विविधः तत्-आश्रयः मनः च सङ्कल्प विकल्प वृत्ति यत् न यत्र सृज्यम् सृजता उभयोः परम् श्रेयः च जीवः त्रिभिः अन्वितः तु अहम् तत् एतत् उत्सादित बाध्य बाधकम् निषिध्य च ऊर्मीन् विरमेत तत् मुनिः

परं पदं वैष्णवमामनन्ति तद्
यन्नेति नेतीत्यतदुत्सिसृक्षव: ।
विसृज्य दौरात्म्यमनन्यसौहृदा
हृदोपगुह्यावसितं समाहितै: ॥ ३२ ॥

परम् पदम् वैष्णवम् आमनन्ति तत् यत् न इति न इति इति अतत् उत्सिसृक्षवः विसृज्य दौरात्म्यम् अनन्य सौहृदाः हृदा उपगुह्य अवसितम् समाहितैः

त एतदधिगच्छन्ति विष्णोर्यत् परमं पदम् ।
अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥ ३३ ॥

ते एतत् अधिगच्छन्ति विष्णोः यत् परमम् पदम् अहम् मम इति दौर्जन्यम् न येषाम् देह गेह जम्

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ३४ ॥

अति-वादान् तितिक्षेत न अवमन्येत कञ्चन न च इमम् देहम् आश्रित्य वैरम् कुर्वीत केनचित्

नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे ।
यत्पादाम्बुरुहध्यानात् संहितामध्यगामिमाम् ॥ ३५ ॥

नमः भगवते तस्मै कृष्णाय अकुण्ठ-मेधसे यत् पाद-अम्बु-रुह ध्यानात् संहिताम् अध्यगाम् इमाम्

श्रीशौनक उवाच
पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभि: ।
वेदाश्च कथिता व्यस्ता एतत् सौम्याभिधेहि न: ॥ ३६ ॥

श्री-शौनकः उवाच पैल-आदिभिः व्यास-शिष्यैः वेद-आचार्यैः महा-आत्मभिः वेदाः च कथिताः व्यस्ताः एतत् सौम्य अभिधेहि नः

सूत उवाच
समाहितात्मनो ब्रह्मन् ब्रह्मण: परमेष्ठिन: ।
हृद्याकाशादभून्नादो वृत्तिरोधाद् विभाव्यते ॥ ३७ ॥

सूतः उवाच समाहित-आत्मनः ब्रह्मन् ब्रह्मणः परमे-स्थिनः हृदि आकाशात् अभूत् नादः वृत्ति-रोधात् विभाव्यते

यदुपासनया ब्रह्मन् योगिनो मलमात्मन: ।
द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥ ३८ ॥

यत् उपासनया ब्रह्मन् योगिनः मलम् आत्मनः द्रव्य क्रिया कारक आख्यम् धूत्वा यान्ति अपुनः-भवम्

ततोऽभूत्‍त्रिवृदोंकारो योऽव्यक्तप्रभव: स्वराट् ।
यत्तल्ल‍िङ्गं भगवतो ब्रह्मण: परमात्मन: ॥ ३९ ॥

ततः अभूत् त्रि-वृत् ओंकारः यः अव्यक्त प्रभवः स्व-राट् यत् तत् लिङ्गम् भगवतः ब्रह्मणः परम-आत्मनः

श‍ृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यद‍ृक् ।
येन वाग् व्यज्यते यस्य व्यक्तिराकाश आत्मन: ॥ ४० ॥
स्वधाम्नो ब्राह्मण: साक्षाद् वाचक: परमात्मन: ।
स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥ ४१ ॥

शृणोति यः इमम् स्फोटम् सुप्त-श्रोत्रे च शून्य-दृक् येन वाक् व्यज्यते यस्य व्यक्तिः आकाशे आत्मनः स्व-धाम्नः ब्रह्मणः साक्षात् वाचकः परम-आत्मनः सः सर्व मन्त्र उपनिषत् वेद बीजम् सनातनम्

तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह ।
धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तय: ॥ ४२ ॥

तस्य हि आसन् त्रयः वर्णाः अ-कार-आद्याः भृगु-उद्वह धार्यन्ते यैः त्रयः भावाः गुण नाम अर्थ वृत्तयः

ततोऽक्षरसमाम्नायमसृजद् भगवानज: ।
अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥

ततः अक्षर समाम्नायम् असृजत् भगवान् अजः अन्त-स्थ उष्म स्वर स्पर्श ह्रस्व-दीर्घ आदि लक्षणम्

तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभु: ।
सव्याहृतिकान् सोंकारांश्चातुर्होत्रविवक्षया ॥ ४४ ॥

तेन असौ चतुरः वेदान् चतुर्भिः वदनैः विभुः स-व्याहृतिकान् स-ओंकारान् चातुः-होत्र विवक्षया

पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् ।
ते तु धर्मोपदेष्टार: स्वपुत्रेभ्य: समादिशन् ॥ ४५ ॥

पुत्रान् अध्यापयत् तान् तु ब्रह्म-ऋषीन् ब्रह्म कोविदान् ते तु धर्म उपदेष्टारः स्व-पुत्रेभ्यः समादिशन्

ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतै: ।
चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभि: ॥ ४६ ॥

ते परम्परया प्राप्ताः तत्-तत् शिष्यैः धृत-व्रतैः चतुः-युगेषु अथ व्यस्ताः द्वापर-आदौ महा-ऋषिभिः

क्षीणायुष: क्षीणसत्त्वान् दुर्मेधान् वीक्ष्य कालत: ।
वेदान्ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिता: ॥ ४७ ॥

क्षीण-आयुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः वेदान् ब्रह्म-ऋषयः व्यस्यन् हृदि-स्थ अच्युत चोदिताः

अस्मिन्नप्यन्तरे ब्रह्मन् भगवान्लोकभावन: ।
ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ ४८ ॥
पराशरात् सत्यवत्यामंशांशकलया विभु: ।
अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ ४९ ॥

अस्मिन् अपि अन्तरे ब्रह्मन् भगवान् लोक भावनः ब्रह्म ईश आद्यैः लोक-पालैः याचितः धर्म-गुप्तये पराशरात् सत्यवत्याम् अंश अंश कलया विभुः अवतीर्णः महा-भाग वेदम् चक्रे चतुः-विधम्

ऋगथर्वयजु:साम्नां राशीरुद्‍धृत्य वर्गश: ।
चतस्र: संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥ ५० ॥

ऋक्-अथर्व-यजुः-साम्नाम् राशीः उद्धृत्य वर्गशः चतस्रः संहिताः चक्रे मन्त्रैः मणि-गणाः इव

तासां स चतुर: शिष्यानुपाहूय महामति: ।
एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभु: ॥ ५१ ॥

तासाम् सः चतुरः शिष्यान् उपाहूय महा-मतिः एक-एकाम् संहिताम् ब्रह्मन् एक-एकस्मै ददौ विभुः

पैलाय संहितामाद्यां बह्‌वृचाख्यां उवाच ह ।
वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ ५२ ॥
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।
अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ ५३ ॥

पैलाय संहिताम् आद्याम् बहु-ऋच-आख्यम् उवाच ह वैशम्पायन-संज्ञाय निगद-आख्यम् यजुः-गणम् साम्नाम् जैमिनये प्राह तथा छन्दोग-संहिताम् अथर्व-अङ्गिरसीम् नाम स्व-शिष्याय सुमन्तवे

पैल: स्वसंहितामूचे इन्द्रप्रमितये मुनि: ।
बाष्कलाय च सोऽप्याह शिष्येभ्य: संहितां स्वकाम् ॥ ५४ ॥
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्‍‍याय भार्गव ।
पराशरायाग्निमित्र इन्द्रप्रमितिरात्मवान् ॥ ५५ ॥
अध्यापयत् संहितां स्वां माण्डूकेयमृषिं कविम् ।
तस्य शिष्यो देवमित्र: सौभर्यादिभ्य ऊचिवान् ॥ ५६ ॥

पैलः स्व-संहिताम् ऊचे इन्द्रप्रमितये मुनिः बाष्कलाय च सः अपि आह शिष्येभ्यः संहिताम् स्वकाम् चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव पराशराय अग्निमित्रे इन्द्रप्रमितिः आत्म-वान् अध्यापयत् संहिताम् स्वाम् माण्डूकेयम् ऋषिम् कविम् तस्य शिष्यः देवमित्रः सौभरि-आदिभ्यः ऊचिवान्

शाकल्यस्तत्सुत: स्वां तु पञ्चधा व्यस्य संहिताम् ।
वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७ ॥

शाकल्यः तत्-सुतः स्वाम् तु पञ्चधा व्यस्य संहिताम् वात्स्य-मुद्गल-शालीय गोखल्य-शिशिरेषु अधात्

जातूकर्ण्यश्च तच्छिष्य: सनिरुक्तां स्वसंहिताम् ।
बलाकपैलजाबालविरजेभ्यो ददौ मुनि: ॥ ५८ ॥

जातूकर्ण्यः च तत्-शिष्यः स-निरुक्ताम् स्व-संहिताम् बलाक-पैल-जाबाल-विरजेभ्यः ददौ मुनिः

बाष्कलि: प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ।
चक्रे वालायनिर्भज्य: काशारश्चैव तां दधु: ॥ ५९ ॥

बाष्कलिः प्रति-शाखाभ्यः वालखिल्य-आख्य संहिताम् चक्रे वालायनिः भज्यः काशारः च एव ताम् दधुः

बह्‌वृचा: संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृता: ।
श्रुत्वैतच्छन्दसां व्यासं सर्वपापै: प्रमुच्यते ॥ ६० ॥

बहु-ऋचाः संहिताः हि एताः एभिः ब्रह्म-ऋषिभिः धृताः श्रुत्वा एतत् छन्दसाम् व्यासम् सर्व-पापैः प्रमुच्यते

वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् ।
यच्चेरुर्ब्रह्महत्यांह: क्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥

वैशम्पायन-शिष्याः वै चरक अध्वर्यवः अभवन् यत् चेरुः ब्रह्म-हत्या अंहः क्षपणम् स्व-गुरोः व्रतम्

याज्ञवल्‍क्यश्च तच्छिष्य आहाहो भगवन् कियत् ।
चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ ६२ ॥

याज्ञवल्क्यः च तत्-शिष्यः आह अहो भगवन् कियत् चरितेन अल्प-साराणाम् चरिष्ये अहम् सु-दुश्चरम्

इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया ।
विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥

इति उक्तः गुरुः अपि आह कुपितः याहि अलम् त्वया विप्र-अवमन्त्रा शिष्येण मत्-अधीतम् त्यज आशु इति

देवरातसुत: सोऽपि छर्दित्वा यजुषां गणम् ।
ततो गतोऽथ मुनयो दद‍ृशुस्तान् यजुर्गणान् ॥ ६४ ॥
यजूंषि तित्तिरा भूत्वा तल्ल‍ोलुपतयाददु: ।
तैत्तिरीया इति यजु:शाखा आसन् सुपेशला: ॥ ६५ ॥

देवरात-सुतः सः अपि छर्दित्वा यजुषाम् गणम् ततः गतः अथ मुनयः ददृशुः तान् यजुः-गणान् यजूंसि तित्तिराः भूत्वा तत् लोलुपतया आददुः तैत्तिरीयाः इति यजुः-शाखाः आसन् सु-पेशलाः

याज्ञवल्‍क्यस्ततो ब्रह्मंश्छन्दांस्यधिगवेषयन् ।
गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥

याज्ञवल्क्यः ततः ब्रह्मन् छन्दांसि अधि गवेषयन् गुरोः अविद्यमानानि सु-उपतस्थे अर्कम् ईश्वरम्

श्रीयाज्ञवल्‍क्य उवाच
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां
ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक एव
क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान विसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥

श्री-याज्ञवल्क्यः उवाच ओं नमः भगवते आदित्याय अखिल-जगताम् आत्म-स्वरूपेण काल-स्वरूपेण चतुः-विध भूत-निकायानाम् ब्रह्म-आदि स्तम्ब-पर्यन्तानाम् अन्तः-हृदयेषु बहिः अपि च आकाशः इव उपाधिना अव्यवधीयमानः भवान् एकः एव क्षण-लव-निमेष अवयव उपचित संवत्सर-गणेन अपाम् आदान विसर्गाभ्याम् इमाम् लोक यात्राम् अनुवहति

यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर
अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन बीजावभर्जन भगवत: समभिधीमहि तपन
मण्डलम् ॥ ६८ ॥

यत् उ ह वाव विबुध-ऋषभ सवितः अदः तपति अनुसवनम् अहः अहः आम्नाय-विधिना उपतिष्ठमानानाम् अखिल-दुरित वृजिन बीज अवभर्जन भगवतः समभिधीमहि तपन मण्डलम्

य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासु गणाननात्मन: स्वयमात्मान्तर्यामी
प्रचोदयति ॥ ६९ ॥

यः इह वाव स्थिर-चर-निकराणाम् निज-निकेतनानाम् मनः-इन्द्रिय-असु-गणान् अनात्मनः स्वयम् आत्म अन्तः-यामी प्रचोदयति

य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया
परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयति ॥ ७० ॥

यः एव इमम् लोकम् अति-कराल वदन अन्धकार-संज्ञ अजगर ग्रह गिलितम् मृतकम् इव विचेतनम् अवलोक्य अनुकम्पया परम-कारुणिकः ईक्षया एव उत्थाप्य अहः अहः अनु-सवनम् श्रेयसि स्व-धर्म-आख्य आत्म-अवस्थाने प्रवर्तयति

अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस्तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हण:
॥ ७१ ॥

अवनि-पतिः इव असाधूनाम् भयम् उदीरयन् अटति परितः आशा-पालैः तत्र तत्र कमल-कोश अञ्जलिभिः उपहृत अर्हणः

अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितमहमयातयामयजुष्काम उपसरामीति ॥ ७२


अथ ह भगवन् तव चरण-नलिन-युगलम् त्रि-भुवन गुरुभिः अभिवन्दितम् अहम् अयात-याम यजुः-कामः उपसरामि इति

सूत उवाच
एवं स्तुत: स भगवान् वाजिरूपधरो रवि: ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादित: ॥ ७३ ॥

सूतः उवाच एवम् स्तुतः सः भगवान् वाजि-रूप धरः रविः यजूंषि अयात-यामानि मुनये अदात् प्रसादितः

यजुर्भिरकरोच्छाखा दशपञ्च शतैर्विभु: ।
जगृहुर्वाजसन्यस्ता: काण्वमाध्यन्दिनादय: ॥ ७४ ॥

यजुर्भिः अकरोत् शाखाः दश पञ्च शतैः विभुः जगृहुः वाज-सन्यः ताः काण्व-माध्यन्दिन-आदयः

जैमिने: सामगस्यासीत् सुमन्तुस्तनयो मुनि: ।
सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥ ७५ ॥

जैमिनेः सम-गस्य आसीत् सुमन्तुः तनयः मुनिः सुत्वान् तु तत्-सुतः ताभ्याम् एक-एकाम् प्राह संहिताम्

सुकर्मा चापि तच्छिष्य: सामवेदतरोर्महान् ।
सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ॥ ७६ ॥
हिरण्यनाभ: कौशल्य: पौष्यञ्जिश्च सुकर्मण: ।
शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तम: ॥ ७७ ॥

सुकर्मा च अपि तत्-शिष्यः साम-वेद-तरोः महान् सहस्र-संहिता भेदम् चक्रे साम्नाम् ततः द्विज हिरण्यनाभः कौशल्यः पौष्यञ्जिः च सुकर्मणः शिष्यौ जगृहतुः च अन्यः आवन्त्यः ब्रह्म-वित्-तमः

उदीच्या: सामगा: शिष्या आसन् पञ्चशतानि वै ।
पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान् प्रचक्षते ॥ ७८ ॥

उदीच्याः साम-गाः शिष्याः आसन् पञ्च-शतानि वै पौष्यञ्जि-आवन्त्ययोः च अपि तान् च प्राच्यान् प्रचक्षते

लौगाक्षिर्माङ्गलि: कुल्य: कुशीद: कुक्षिरेव च ।
पौष्यञ्जिशिष्या जगृहु: संहितास्ते शतं शतम् ॥ ७९ ॥

लौगाक्षिः माङ्गलिः कुल्यः कुशीदः कुक्षिः एव च पौष्यञ्जि-शिष्याः जगृहुः संहिताः ते शतम् शतम्

कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिता: ।
शिष्य ऊचे स्वशिष्येभ्य: शेषा आवन्त्य आत्मवान् ॥ ८० ॥

कृतः हिरण्यनाभस्य चतुः-विंशति संहिताः शिष्यः ऊचे स्व-शिष्येभ्यः शेषाः आवन्त्यः आत्म-वान्

१२.७

सूत उवाच
अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् ।
संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥

सूतः उवाच अथर्व-वित् सुमन्तुः च शिष्यम् अध्यापयत् स्वकाम् संहिताम् सः अपि पथ्याय वेददर्शाय च उक्तवान्

शौक्लायनिर्ब्रह्मबलिर्मोदोष: पिप्पलायनि: ।
वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श‍ृणु ।
कुमुद: शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २ ॥

शौक्लायनिः ब्रह्मबलिः मोदोषः पिप्पलायनिः वेददर्शस्य शिष्याः ते पथ्य-शिष्यान् अथो शृणु कुमुदः शुनकः ब्रह्मन् जाजलिः च अपि अथर्व-वित्

बभ्रु: शिष्योऽथाङ्गिरस: सैन्धवायन एव च ।
अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥

बभ्रुः शिष्यः अथ अङ्गिरसः सैन्धवायनः एव च अधीयेताम् संहिते द्वे सावर्ण आद्याः तथा अपरे

नक्षत्रकल्प: शान्तिश्च कश्यपाङ्गिरसादय: ।
एते आथर्वणाचार्या: श‍ृणु पौराणिकान् मुने ॥ ४ ॥

नक्षत्रकल्पः शान्तिः च कश्यप-आङ्गिरस-आदयः एते आथर्वण-आचार्याः शृणु पौराणिकान् मुने

त्रय्यारुणि: कश्यपश्च सावर्णिरकृतव्रण: ।
वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥

त्रय्यारुणिः कश्यपः च सावर्णिः अकृत-व्रणः वैशम्पायन-हारीतौ षट् वै पौराणिकाः इमे

अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् ।
एकैकामहमेतेषां शिष्य: सर्वा: समध्यगाम् ॥ ६ ॥

अधीयन्त व्यास-शिष्यात् संहिताम् मत्-पितुः मुखात् एक-एकाम् अहम् एतेषाम् शिष्यः सर्वाः समध्यगाम्

कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रण: ।
अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिता: ॥ ७ ॥

कश्यपः अहम् च सावर्णिः राम-शिष्यः अकृतव्रणः अधीमहि व्यास-शिष्यात् चत्वारः मूल-संहिताः

पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् ।
श‍ृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारत: ॥ ८ ॥

पुराण-लक्षणम् ब्रह्मन् ब्रह्म-ऋषिभिः निरूपितम् शृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्र अनुसारतः

सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुरपाश्रय: ॥ ९ ॥
दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदु: ।
केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १० ॥

सर्गः अस्य अथ विसर्गः च वृत्ति रक्षा अन्तराणि च वंशः वंश-अनुचरितम् संस्था हेतुः अपाश्रयः दशभिः लक्षणैः युक्तम् पुराणम् तत् विदः विदुः केचित् पञ्च-विधम् ब्रह्मन् महत् अल्प व्यवस्थया

अव्याकृतगुणक्षोभान्महतत्रिस्त्रवृतोऽहम: ।
भूतसूक्ष्मेन्द्रियार्थानां सम्भव: सर्ग उच्यते ॥ ११ ॥

अव्याकृत गुण-क्षोभात् महतः त्रि-वृतः अहमः भूत-सूक्ष्म इन्द्रिय अर्थानाम् सम्भवः सर्गः उच्यते

पुरुषानुगृहीतानामेतेषां वासनामय: ।
विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥ १२ ॥

पुरुष अनुगृहीतानाम् एतेषाम् वासना-मयः विसर्गः अयम् समाहारः बीजात् बीजम् चर अचरम्

वृत्तिर्भूतानि भूतानां चराणामचराणि च ।
कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥ १३ ॥

वृत्तिः भूतानि भूतानाम् चराणाम् अचराणि च कृता स्वेन नृणाम् तत्र कामात् चोदनया अपि वा

रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।
तिर्यङ्‌मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विष: ॥ १४ ॥

रक्षा अच्युत-अवतार ईहा विश्वस्य अनु युगे युगे तिर्यक् मर्त्य ऋषि देवेषु हन्यन्ते यैः त्रयी-द्विषः

मन्वन्तरं मनुर्देवा मनुपुत्रा: सुरेश्वरा: ।
ऋषयोऽशांवताराश्च हरे: षड्‌विधमुच्यते ॥ १५ ॥

मनु-अन्तरम् मनुः देवाः मनु-पुत्राः सुर-ईश्वराः ऋषयः अंश-अवताराः च हरेः षट्-विधम् उच्यते

राज्ञां ब्रह्मप्रसूतानां वंश त्रैकालिकोऽन्वय: ।
वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६ ॥

राज्ञाम् ब्रह्म-प्रसूतानाम् वंशः त्रै-कालिकः अन्वयः वंश-अनुचरितम् तेषाम् वृत्तम् वंश-धराः च ये

नैमित्तिक: प्राकृतिको नित्य आत्यन्तिको लय: ।
संस्थेति कविभि: प्रोक्तश्चतुर्धास्य स्वभावत: ॥ १७ ॥

नैमित्तिकः प्राकृतिकः नित्यः आत्यन्तिकः लयः संस्था इति कविभिः प्रोक्तः चतुर्धा अस्य स्वभावतः

हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारक: ।
यं चानुशायिनं प्राहुरव्याकृतमुतापरे ॥ १८ ॥

हेतुः जीवः अस्य सर्ग-आदेः अविद्या कर्म-कारकः यम् च अनुशायिनम् प्राहुः अव्याकृतम् उत अपरे

व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु ।
मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्रय: ॥ १९ ॥

व्यतिरेक अन्वयः यस्य जाग्रत् स्वप्न सुषुप्तिषु माया-मयेषु तत् ब्रह्म जीव-वृत्तिषु अपाश्रयः

पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु ।
बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २० ॥

पद-अर्थेषु यथा द्रव्यम् सत्-मात्रम् रूप-नामसु बीज-आदि पञ्चता-अन्तासु हि अवस्थासु युत-अयुतम्

विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् ।
योगेन वा तदात्मानं वेदेहाया निवर्तते ॥ २१ ॥

विरमेत यदा चित्तम् हित्वा वृत्ति-त्रयम् स्वयम् योगेन वा तदा आत्मानम् वेद ईहायाः निवर्तते

एवंलक्षणलक्ष्याणि पुराणानि पुराविद: ।
मुनयोऽष्टादश प्राहु: क्षुल्लकानि महान्ति च ॥ २२ ॥

एवम् लक्षण-लक्ष्याणि पुराणानि पुरा-विदः मुनयः अष्टादश प्राहुः क्षुल्लकानि महान्ति च

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं ।
नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।
वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥

ब्राह्मम् पाद्मम् वैष्णवम् च शैवम् लैङ्गम् स-गारुडम् नारदीयम् भागवतम् आग्नेयम् स्कान्द भविष्यम् मार्कण्डेयम् स-वामनम् वाराहम् मात्स्यम् कौर्मम् च ब्रह्माण्ड-आख्यम् त्रि-षट्

ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुने: ।
शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५ ॥

ब्रह्मन् इदम् समाख्यातम् शाखा-प्रणयनम् मुनेः शिष्य शिष्य-प्रशिष्याणाम् ब्रह्म-तेजः विवर्धनम्

१२.८

श्रीशौनक उवाच
सूत जीव चिरं साधो वद नो वदतां वर ।
तमस्यपारे भ्रमतां नृणां त्वं पारदर्शन: ॥ १ ॥

श्री-शौनकः उवाच सूत जीव चिरम् साधो वद नः वदताम् वर तमसि अपारे भ्रमताम् नॄणाम् त्वम् पार-दर्शनः

आहुश्चिरायुषमृषिं मृकण्डतनयं जना: ।
य: कल्पान्ते ह्युर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥
स वा अस्मत्कुलोत्पन्न: कल्पेऽस्मिन् भार्गवर्षभ: ।
नैवाधुनापि भूतानां सम्प्लव: कोऽपि जायते ॥ ३ ॥
एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।
वटपत्रपुटे तोकं शयानं त्वेकमद्भ‍ुतम् ॥ ४ ॥
एष न: संशयो भूयान् सूत कौतूहलं यत: ।
तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मत: ॥ ५ ॥

आहुः चिर-आयुषम् ऋषिम् मृकण्डु-तनयम् जनाः यः कल्प-अन्ते हि उर्वरितः येन ग्रस्तम् इदम् जगत् सः वै अस्मत्-कुल उत्पन्नः कल्पे अस्मिन् भार्गव-ऋषभः न एव अधुना अपि भूतानाम् सम्प्लवः कः अपि जायते एकः एत अर्णवे भ्राम्यन् ददर्श पुरुषम् किल वट-पत्र पुटे तोकम् शयानम् तु एकम् अद्भुतम् एषः नः संशयः भूयान् सूत कौतूहलम् यतः तम् नः छिन्धि महा-योगिन् पुरानेषु अपि सम्मतः

सूत उवाच
प्रश्न‍स्त्वया महर्षेऽयं कृतो लोकभ्रमापह: ।
नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥

सूतः उवाच प्रश्नः त्वया महा-ऋषे अयम् कृतः लोक भ्रम अपहः नारायण-कथा यत्र गीता कलि-मल अपहा

प्राप्तद्विजातिसंस्कारो मार्कण्डेय: पितु: क्रमात् ।
छन्दांस्यधीत्य धर्मेण तप:स्वाध्यायसंयुत: ॥ ७ ॥
बृहद्‌व्रतधर: शान्तो जटिलो वल्कलाम्बर: ।
बिभ्रत् कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥
कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।
अग्‍न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥
सायं प्रात: स गुरवे भैक्ष्यमाहृत्य वाग्यत: ।
बुभुजे गुर्वनुज्ञात: सकृन्नो चेदुपोषित: ॥ १० ॥
एवं तप:स्वाध्यायपरो वर्षाणामयुतायुतम् ।
आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥

प्राप्त द्वि-जाति संस्कारः मार्कण्डेयः पितुः क्रमात् छन्दांसि अधीत्य धर्मेण तपः स्वाध्याय संयुतः बृहत्-व्रत धरः शान्तः जटिलः वल्कल-अम्बरः बिभ्रत् कमण्डलुम् दण्डम् उपवीतम् स-मेखलम् कृष्ण-अजिनम् स-अक्ष-सूत्रम् कुशान् च नियम-ऋद्धये अग्नि अर्क गुरु विप्र आत्मसु अर्चयन् सन्ध्ययोः हरिम् सायम् प्रातः सः गुरवे भैक्ष्यम् आहृत्य वाक्-यतः बुभुजे गुरु-अनुज्ञातः सकृत् न उ चेत् उपोषितः एवम् तपः-स्वाध्याय-परः वर्षाणाम् अयुत-अयुतम् आराधयन् हृषीक-ईशम् जिग्ये मृत्युम् सु-दुर्जयम्

ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे ।
नृदेवपितृभूतानि तेनासन्नतिविस्मिता: ॥ १२ ॥

ब्रह्मा भृगुः भवः दक्षः ब्रह्म-पुत्राः च ये अपरे नृ देव पितृ भूतानि तेन आसन् अति-विस्मिताः

इत्थं बृहद्‌व्रतधरस्तप:स्वाध्यायसंयमै: ।
दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥

इत्थम् बृहत्-व्रत-धरः तपः-स्वाध्याय-संयमैः दध्यौ अधोक्षजम् योगी ध्वस्त क्लेश अन्तः-आत्मना

तस्यैवं युञ्जतश्चित्तं महायोगेन योगिन: ।
व्यतीयाय महान् कालो मन्वन्तरषडात्मक: ॥ १४ ॥

तस्य एवम् युञ्जतः चित्तम् महा-योगेन योगिनः व्यतीयाय महान् कालः मनु-अन्तर षट् आत्मकः

एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।
तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥ १५ ॥

एतत् पुरन्दरः ज्ञात्वा सप्तमे अस्मिन् किल अन्तरे तपः विशङ्कितः ब्रह्मन् आरेभे तत् विघातनम्

गन्धर्वाप्सरस: कामं वसन्तमलयानिलौ ।
मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥

गन्धर्व-अप्सरसः कामम् वसन्त मलय-अनिलौ मुनये प्रेषयाम् आस रजः-तोक मदौ तथा

ते वै तदाश्रमं जग्मुर्हिमाद्रे: पार्श्व उत्तरे ।
पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥

ते वै तत् आश्रमम् जग्मुः हिम-अद्रेः पार्श्वे उत्तरे पुष्पभद्रा नदी यत्र चित्रा-आख्या च शिला विभो

तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।
पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥
मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् ।
मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥
वायु: प्रविष्ट आदाय हिमनिर्झरशीकरान् ।
सुमनोभि: परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥

तत् आश्रम-पदम् पुण्यम् पुण्य द्रुम लता अञ्चितम् पुण्य द्विज कुल आकीर्णम् पुण्य अमल जल-आशयम् मत्त भ्रमर सङ्गीतम् मत्त कोकिल कूजितम् मत्त बर्हि नट-आटोपम् मत्त द्विज कुल आकुलम् वायुः प्रविष्टः आदाय हिम निर्झर शीकरान् सुमनोभिः परिष्वक्तः ववौ उत्तम्भयन् स्मरम्

उद्यच्चन्द्रनिशावक्त्र: प्रवालस्तबकालिभि: ।
गोपद्रुमलताजालैस्तत्रासीत् कुसुमाकर: ॥ २१ ॥

उद्यत् चन्द्र निशा वक्त्रः प्रवाल स्तबक आलिभिः गोप द्रुम लता जालैः तत्र आसीत् कुसुम-आकरः

अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकै: ।
अद‍ृश्यतात्तचापेषु: स्व:स्त्रीयूथपति: स्मर: ॥ २२ ॥

अन्वीयमानः गन्धर्वैः गीत वादित्र यूथकैः अदृश्यत आत्त चाप-इषुः स्वः-स्त्री-यूथ पतिः स्मरः

हुत्वाग्निं समुपासीनं दद‍ृशु: शक्रकिङ्करा: ।
मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥

हुत्वा अग्निम् समुपासीनम् ददृशुः शक्र किङ्कराः मीलित अक्षम् दुराधर्षम् मूर्ति-मन्तम् इव अनलम्

ननृतुस्तस्य पुरत: स्त्रियोऽथो गायका जगु: ।
मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥

ननृतुः तस्य पुरतः स्त्रियः अथ उ गायकाः जगुः मृदङ्ग वीणा पणवैः वाद्यम् चक्रुः मनः-रमम्

सन्दधेऽस्त्रं स्वधनुषि काम: पञ्चमुखं तदा ।
मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥

सन्दधे अस्त्रम् स्व-धनुषि कामः पञ्च-मुखम् तदा मधुः मनः रजः-तोकः इन्द्र-भृत्याः व्यकम्पयन्

क्रीडन्त्या: पुञ्जिकस्थल्या: कन्दुकै: स्तनगौरवात् ।
भृशमुद्विग्नमध्याया: केशविस्रंसितस्रज: ॥ २६ ॥
इतस्ततोभ्रमद्‌‌दृष्टेश्चलन्त्या अनुकन्दुकम् ।
वायुर्जहार तद्वास: सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥

क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तन गौरवात् भृशम् उद्विग्न मध्यायाः केश विस्रंसित स्रजः इतः ततः भ्रमत् दृष्टेः चलन्त्याः अनु कन्दुकम् वायुः जहार तत्-वासः सूक्ष्मम् त्रुटित मेखलम्

विससर्ज तदा बाणं मत्वा तं स्वजितं स्मर: ।
सर्वं तत्राभवन्मोघमनीशस्य यथोद्यम: ॥ २८ ॥

विससर्ज तदा बाणम् मत्वा तम् स्व जितम् स्मरः सर्वम् तत्र अभवत् मोघम् अनीशस्य यथा उद्यमः

त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।
दह्यमाना निववृतु: प्रबोध्याहिमिवार्भका: ॥ २९ ॥

ते इत्थम् अपकुर्वन्तः मुनेः तत् तेजसा मुने दह्यमानाः निववृतुः प्रबोध्य अहिम् इव अर्भकाः

इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनि: ।
यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥

इति इन्द्र-अनुचरैः ब्रह्मन् धर्षितः अपि महा-मुनिः यत् न अगात् अहमः भावम् न तत् चित्रम् महत्सु हि

द‍ृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् ।
श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात् परम् ॥ ३१ ॥

दृष्ट्वा निस्तेजसम् कामम् स-गणम् भगवान् स्व-राट् श्रुत्वा अनुभावम् ब्रह्म-ऋषेः विस्मयम् समगात् परम्

तस्यैवं युञ्जतश्चित्तं तप:स्वाध्यायसंयमै: ।
अनुग्रहायाविरासीन्नरनारायणो हरि: ॥ ३२ ॥

तस्य एवम् युञ्जतः चित्तम् तपः स्वाध्याय संयमैः अनुग्रहाय आविरासीत् नर-नारायणः हरिः

तौ शुक्लकृष्णौ नवकञ्जलोचनौ
चतुर्भुजौ रौरववल्कलाम्बरौ ।
पवित्रपाणी उपवीतकं त्रिवृत्
कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥
पद्माक्षमालामुत जन्तुमार्जनं
वेदं च साक्षात्तप एव रूपिणौ ।
तपत्तडिद्वर्णपिशङ्गरोचिषा
प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥

तौ शुक्ल-कृष्णौ नव-कञ्ज लोचनौ चतुः-भुजौ रौरव वल्कल अम्बरौ पवित्र पाणी उपवीतकम् त्रि-वृत् कमण्डलुम् दण्डम् ऋजुम् च वैणवम् पद्म-अक्ष मालाम् उत जन्तु-मार्जनम् वेदम् च साक्षात् तपः एव रूपिणौ तपत् तडित् वर्ण पिशङ्ग रोचिषा प्रांशू दधानौ विबुध-ऋषभ अर्चितौ

ते वै भगवतो रूपे नरनारायणावृषी ।
द‍ृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥ ३५ ॥

ते वै भगवतः रूपे नर-नारायणौ ऋषी दृष्ट्वा उत्थाय आदरेण उच्चैः ननाम अङ्गेन दण्ड-वत्

स तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशय: ।
हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥

सः तत् सन्दर्शन आनन्द निर्वृत आत्म इन्द्रिय आशयः हृष्ट रोमा अश्रु पूर्ण अक्षः न सेहे तौ उदीक्षितुम्

उत्थाय प्राञ्जलि: प्रह्व औत्सुक्यादाश्लिषन्निव ।
नमो नम इतीशानौ बभाशे गद्गदाक्षरम् ॥ ३७ ॥

उत्थाय प्राञ्जलिः प्रह्वः औत्सुक्यात् आश्लिषन् इव नमः नमः इति ईशानौ बभाषे गद्गद अक्षरम्

तयोरासनमादाय पादयोरवनिज्य च ।
अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥

तयोः आसनम् आदाय पादयोः अवनिज्य च अर्हणेन अनुलेपेन धूप माल्यैः अपूजयत्

सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।
पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥

सुखम् आसनम् आसीनौ प्रसाद अभिमुखौ मुनी पुनः आनम्य पादाभ्याम् गरिष्ठौ इदम् अब्रवीत्

श्रीमार्कण्डेय उवाच
किं वर्णये तव विभो यदुदीरितोऽसु:
संस्पन्दते तमनु वाङ्‌मनइन्द्रियाणि ।
स्पन्दन्ति वै तनुभृतामजशर्वयोश्च
स्वस्याप्यथापि भजतामसि भावबन्धु: ॥ ४० ॥

श्री-मार्कण्डेयः उवाच किम् वर्णये तव विभो यत् उदीरितः असुः संस्पन्दते तम् अनु वाक् मनः इन्द्रियाणि स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोः च स्वस्य अपि अथ अपि भजताम् असि भाव-बन्धुः

मूर्ती इमे भगवतो भगवंस्त्रिलोक्या:
क्षेमाय तापविरमाय च मृत्युजित्यै ।
नाना बिभर्ष्यवितुमन्यतनूर्यथेदं
सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभि: ॥ ४१ ॥

मूर्ती इमे भगवतः भगवन् त्रि-लोक्याः क्षेमाय ताप विरमाय च मृत्यु जित्यै नाना बिभर्षि अवितुम् अन्य तनूः यथा इदम् सृष्ट्वा पुनः ग्रससि सर्वम् इव ऊर्ण-नाभिः

तस्यावितु: स्थिरचरेशितुरङ्‍‍घ्रिमूलं
यत्स्थं न कर्मगुणकालरज: स्पृशन्ति ।
यद् वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं
ध्यायन्ति वेदहृदया मुनयस्तदाप्‍त्यै ॥ ४२ ॥

तस्य अवितुः स्थिर-चर ईशितुः अङ्घ्रि-मूलम् यत्-स्थम् न कर्म-गुण-काल रजः स्पृशन्ति यत् वै स्तुवन्ति निनमन्ति यजन्ति अभीक्ष्णम् ध्यायन्ति वेद-हृदयाः मुनयः तत्-आप्त्यै

नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्ते:
क्षेमं जनस्य परितोभिय ईश विद्म: ।
ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्य:
कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥

न अन्यम् तव अङ्घ्रि उपनयात् अपवर्ग-मूर्तेः क्षेमम् जनस्य परितः भियः ईश विद्मः ब्रह्मा बिभेति अलम् अतः द्वि-परार्ध धिष्ण्यः कालस्य ते किम् उत तत्-कृत भौतिकानाम्

तद् वै भजाम्यृतधियस्तव पादमूलं
हित्वेदमात्मच्छदि चात्मगुरो: परस्य ।
देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं
विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥

तत् वै भजामि ऋत-धियः तव पाद-मूलम् हित्वा इदम् आत्म-छदि च आत्म-गुरोः परस्य देह-आदि अपार्थम् असत् अन्त्यम् अभिज्ञ-मात्रम् विन्देत ते तर्हि सर्व मनीषित अर्थम्

सत्त्वं रजस्तम इतीश तवात्मबन्धो
मायामया: स्थितिलयोदयहेतवोऽस्य ।
लीला धृता यदपि सत्त्वमयी प्रशान्त्यै
नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥

सत्त्वम् रजः तमः इति ईश तव आत्म-बन्धो माया-मयाः स्थिति-लय-उदय हेतवः अस्य लीलाः धृताः यत् अपि सत्त्व-मयी प्रशान्त्यै न अन्ये नृणाम् व्यसन मोह भियः च याभ्याम्

तस्मात्तवेह भगवन्नथ तावकानां
शुक्लां तनुं स्वदयितां कुशला भजन्ति ।
यत् सात्वता: पुरुषरूपमुशन्ति सत्त्वं
लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥

तस्मात् तव इह भगवन् अथ तावकानाम् शुक्लाम् तनुम् स्व-दयिताम् कुशलाः भजन्ति यत् सात्वताः पुरुष रूपम् उशन्ति सत्त्वम् लोकः यतः अभयम् उत आत्म-सुखम् न च अन्यत्

तस्मै नमो भगवते पुरुषाय भूम्ने
विश्वाय विश्वगुरवे परदैवताय ।
नारायणाय ऋषये च नरोत्तमाय
हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥

तस्मै नमः भगवते पुरुषाय भूम्ने विश्वाय विश्व-गुरवे पर-दैवताय नारायणाय ऋषये च नर-उत्तमाय हंसाय संयत-गिरे निगम-ईश्वराय

यं वै न वेद वितथाक्षपथैर्भ्रमद्धी:
सन्तं स्वकेष्वसुषु हृद्यपि द‍ृक्पथेषु ।
तन्माययावृतमति: स उ एव साक्षा-
दाद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥

यम् वै न वेद वितथ अक्ष-पथैः भ्रमत् धीः सन्तम् स्वकेषु असुषु हृदि अपि दृक्-पथेषु तत्-मायया आवृत मतिः सः उ एव साक्षात् आद्यः तव अखिल-गुरोः उपसाद्य वेदम्

यद्दर्शनं निगम आत्मरह:प्रकाशं
मुह्यन्ति यत्र कवयोऽजपरा यतन्त: ।
तं सर्ववादविषयप्रतिरूपशीलं
वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥

यत् दर्शनम् निगमे आत्म रहः प्रकाशम् मुह्यन्ति यत्र कवयः अज-पराः यतन्तः तम् सर्व-वाद विषय प्रतिरूप शीलम् वन्दे महा-पुरुषम् आत्म निगूढ बोधम्

१२.९

सूत उवाच
संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।
नारायणो नरसख: प्रीत आह भृगूद्वहम् ॥ १ ॥

सूतः उवाच संस्तुतः भगवान् इत्थम् मार्कण्डेयेन धी-मता नारायणः नर-सखः प्रीतः आह भृगु-उद्वहम्

श्रीभगवानुवाच
भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना ।
मयि भक्त्यानपायिन्या तप:स्वाध्यायसंयमै: ॥ २ ॥

श्री-भगवान् उवाच भोः भोः ब्रह्म-ऋषि वर्यः असि सिद्धः आत्म-समाधिना मयि भक्त्या अनपायिन्या तपः स्वाध्याय संयमैः

वयं ते परितुष्टा: स्म त्वद् बृहद्‌व्रतचर्यया ।
वरं प्रतीच्छ भद्रं ते वरदोऽस्मि त्वदीप्सितम् ॥ ३ ॥

वयम् ते परितुष्टाः स्म त्वत् बृहत्-व्रत चर्यया वरम् प्रतीच्छ भद्रम् ते वर-दः अस्मि त्वत्-ईप्सितम्

श्रीऋषिरुवाच
जितं ते देवदेवेश प्रपन्नार्तिहराच्युत ।
वरेणैतावतालं नो यद् भवान् समद‍ृश्यत ॥ ४ ॥

श्री-ऋषिः उवाच जितम् ते देव-देव-ईश प्रपन्न आर्ति-हर अच्युत वरेण एतावता अलम् नः यत् भवान् समदृश्यत

गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् ।
मनसा योगपक्वेन स भवान् मेऽक्षिगोचर: ॥ ५ ॥

गृहीत्वा अज-आदयः यस्य श्रीमत् पाद-अब्ज दर्शनम् मनसा योग-पक्वेन सः भवान् मे अक्षि गो-चरः

अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।
द्रक्ष्ये मायां यया लोक: सपालो वेद सद्भ‍िदाम् ॥ ६ ॥

अथ अपि अम्बुज-पत्र अक्ष पुण्य-श्लोक शिखामणे द्रक्ष्ये मायाम् यया लोकः स-पालः वेद सत् भिदाम्

सूत उवाच
इतीडितोऽर्चित: काममृषिणा भगवान् मुने ।
तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वर: ॥ ७ ॥

सूतः उवाच इति ईडितः अर्चितः कामम् ऋषिणा भगवान् मुने तथा इति सः स्मयन् प्रागात् बदरी-आश्रमम् ईश्वरः

तमेव चिन्तयन्नर्थमृषि: स्वाश्रम एव स: ।
वसन्नग्‍न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥ ८ ॥
ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।
क्‍वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुत: ॥ ९ ॥

तम् एव चिन्तयन् अर्थम् ऋषिः स्व-आश्रमे एव सः वसन् अग्नि अर्क सोम अम्बु भू वायु वियत् आत्मसु ध्यायन् सर्वत्र च हरिम् भाव-द्रव्यैः अपूजयत् क्वचित् पूजाम् विसस्मार प्रेम प्रसर सम्प्लुतः

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुने: ।
उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥

तस्य एकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः उपासीनस्य सन्ध्यायाम् ब्रह्मन् वायुः अभूत् महान्

तं चण्डशब्दं समुदीरयन्तं
बलाहका अन्वभवन् कराला: ।
अक्षस्थविष्ठा मुमुचुस्तडिद्भ‍ि:
स्वनन्त उच्चैरभिवर्षधारा: ॥ ११ ॥

तम् चण्ड-शब्दम् समुदीरयन्तम् बलाहकाः अनु अभवन् करालाः अक्ष स्थविष्ठाः मुमुचुः तडिद्भिः स्वनन्तः उच्चैः अभि वर्ष धाराः

ततो व्यद‍ृश्यन्त चतु:समुद्रा:
समन्तत: क्ष्मातलमाग्रसन्त: ।
समीरवेगोर्मिभिरुग्रनक्र-
महाभयावर्तगभीरघोषा: ॥ १२ ॥

ततः व्यदृश्यन्त चतुः समुद्राः समन्ततः क्ष्मा-तलम् आग्रसन्तः समीर वेग ऊर्मिभिः उग्र नक्र महा-भय आवर्त गभीर घोषाः

अन्तर्बहिश्चाद्भ‍िरतिद्युभि: खरै:
शतह्रदाभिरुपतापितं जगत् ।
चतुर्विधं वीक्ष्य सहात्मना मुनि-
र्जलाप्लुतां क्ष्मां विमना: समत्रसत् ॥ १३ ॥

अन्तः बहिः च अद्भिः अति-द्युभिः खरैः शत-ह्रदाभिः उपतापितम् जगत् चतुः-विधम् वीक्ष्य सह आत्मना मुनिः जल आप्लुताम् क्ष्माम् विमनाः समत्रसत्

तस्यैवमुद्वीक्षत ऊर्मिभीषण:
प्रभञ्जनाघूर्णितवार्महार्णव: ।
आपूर्यमाणो वरषद्भ‍िरम्बुदै:
क्ष्मामप्यधाद् द्वीपवर्षाद्रिभि: समम् ॥ १४ ॥

तस्य एवम् उद्वीक्षतः ऊर्मि भीषणः प्रभञ्जन आघूर्णित वाः महा-अर्णवः आपूर्यमानः वरषद्भिः अम्बु-दैः क्ष्माम् अप्यधात् द्वीप वर्ष अद्रिभिः समम्

सक्ष्मान्तरिक्षं सदिवं सभागणं
त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् ।
स एक एवोर्वरितो महामुनि-
र्बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥

स क्ष्मा अन्तरिक्षम् स-दिवम् स-भा-गणम् त्रै-लोक्यम् आसीत् सह दिग्भिः आप्लुतम् सः एकः एव उर्वरितः महा-मुनिः बभ्राम विक्षिप्य जटाः जड अन्ध वत्

क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलै-
रुपद्रुतो वीचिनभस्वता हत: ।
तमस्यपारे पतितो भ्रमन् दिशो
न वेद खं गां च परिश्रमेषित: ॥ १६ ॥

क्षुत् तृट् परीतः मकरैः तिमिङ्गिलैः उपद्रुतः वीचि नभस्वता आहतः तमसि अपारे पतितः भ्रमन् दिशः न वेद खम् गाम् च परिश्रम-इषितः

क्‍वचिन्मग्नो महावर्ते तरलैस्ताडित: क्‍वचित् ।
यादोभिर्भक्ष्यते क्‍वापि स्वयमन्योन्यघातिभि: ॥ १७ ॥
क्‍वचिच्छोकं क्‍वचिन्मोहं क्‍वचिद्दु:खं सुखं भयम् ।
क्‍वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दित: ॥ १८ ॥

क्वचित् मग्नः महा-आवर्ते तरलैः ताडितः क्वचित् यादोभिः भक्ष्यते क्व अपि स्वयम् अन्योन्य घातिभिः क्वचित् शोकम् क्वचित् मोहम् क्वचित् दुःखम् सुखम् भयम् क्वचित् मृत्युम् अवाप्नोति व्याधि आदिभिः उत अर्दितः

अयुतायुतवर्षाणां सहस्राणि शतानि च ।
व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मन: ॥ १९ ॥

अयुत अयुत वर्षाणाम् सहस्राणि शतानि च व्यतीयुः भ्रमतः तस्मिन् विष्णु-माया आवृत आत्मनः

स कदाचिद् भ्रमंस्तस्मिन् पृथिव्या: ककुदि द्विज: ।
न्याग्रोधपोतं दद‍ृशे फलपल्ल‍वशोभितम् ॥ २० ॥

सः कदाचित् भ्रमन् तस्मिन् पृथिव्याः ककुदि द्विजः न्याग्रोध-पोतम् ददृशे फल पल्लव शोभितम्

प्रागुत्तरस्यां शाखायां तस्यापि दद‍ृशे शिशुम् ।
शयानं पर्णपुटके ग्रसन्तं प्रभया तम: ॥ २१ ॥

प्राक्-उत्तरस्याम् शाखायाम् तस्य अपि ददृशे शिशुम् शयानम् पर्ण-पुटके ग्रसन्तम् प्रभया तमः

महामरकतश्यामं श्रीमद्वदनपङ्कजम् ।
कम्बुग्रीवं महोरस्कं सुनसं सुन्दरभ्रुवम् ॥ २२ ॥
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।
विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥ २३ ॥
पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् ।
श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥
चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् ।
मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मित: ॥ २५ ॥

महा-मरकत श्यामम् श्रीमत् वदन-पङ्कजम् कम्बु ग्रीवम् महा उरस्कम् सु-नसम् सुन्दर-भ्रुवम् श्वास एजत् अलक आभातम् कम्बु श्री कर्ण दाडिमम् विद्रुम अधर भासा ईषत् शोणायित सुधा स्मितम् पद्म-गर्भ अरुण अपाङ्गम् हृद्य हास अवलोकनम् श्वास एजत् वलि संविग्न निम्न नाभि दल उदरम् चारु अङ्गुलिभ्याम् पाणिभ्याम् उन्नीय चरण-अम्बुजम् मुखे निधाय विप्र-इन्द्रः धयन्तम् वीक्ष्य विस्मितः

तद्दर्शनाद् वीतपरिश्रमो मुदा
प्रोत्फुल्ल‍हृत्पद्मविलोचनाम्बुज: ।
प्रहृष्टरोमाद्भ‍ुतभावशङ्कित:
प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥

तत्-दर्शनात् वीत परिश्रमः मुदा प्रोत्फुल्ल हृत्-पद्म विलोचन-अम्बुजः प्रहृष्ट रोमा अद्भुत-भाव शङ्कितः प्रष्टुम् पुरः तम् प्रससार बालकम्

तावच्छिशोर्वै श्वसितेन भार्गव:
सोऽन्त: शरीरं मशको यथाविशत् ।
तत्राप्यदो न्यस्तमचष्ट कृत्‍स्‍नशो
यथा पुरामुह्यदतीव विस्मित: ॥ २७ ॥

तावत् शिशोः वै श्वसितेन भार्गवः सः अन्तः शरीरम् मशकः यथा अविशत् तत्र अपि अदः न्यस्तम् अचष्ट कृत्स्नशः यथा पुरा अमुह्यत् अतीव विस्मितः

खं रोदसी भागणानद्रिसागरान्
द्वीपान् सवर्षान् ककुभ: सुरासुरान् ।
वनानि देशान् सरित: पुराकरान्
खेटान् व्रजानाश्रमवर्णवृत्तय: ॥ २८ ॥
महान्ति भूतान्यथ भौतिकान्यसौ
कालं च नानायुगकल्पकल्पनम् ।
यत् किञ्चिदन्यद् व्यवहारकारणं
ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥

खम् रोदसी भा-गणान् अद्रि सागरान् द्वीपान् स-वर्षान् ककुभः सुर-असुरान् वनानि देशान् सरितः पुर आकरान् खेटान् व्रजान् आश्रम-वर्ण वृत्तयः महान्ति भूतानि अथ भौतिकानि असौ कालम् च नाना-युग-कल्प कल्पनम् यत् किञ्चित् अन्यत् व्यवहार-कारणम् ददर्श विश्वम् सत् इव अवभासितम्

हिमालयं पुष्पवहां च तां नदीं
निजाश्रमं यत्र ऋषी अपश्यत ।
विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै
बहिर्निरस्तो न्यपतल्ल‍याब्धौ ॥ ३० ॥

हिमालयम् पुष्प-वहाम् च ताम् नदीम् निज-आश्रमम् यत्र ऋषी अपश्यत विश्वम् विपश्यन् श्वसितात् शिशोः वै बहिः निरस्तः न्यपतत् लय-अब्धौ

तस्मिन् पृथिव्या: ककुदि प्ररूढं
वटं च तत्पर्णपुटे शयानम् ।
तोकं च तत्प्रेमसुधास्मितेन
निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।
अभ्ययादतिसङ्‌‌‌क्लिष्ट: परिष्वक्तुमधोक्षजम् ॥ ३२ ॥

तस्मिन् पृथिव्याः ककुदि प्ररूढम् वटम् च तत् पर्ण-पुटे शयानम् तोकम् च तत् प्रेम सुधा स्मितेन निरीक्षितः अपाङ्ग निरीक्षणेन अथ तम् बालकम् वीक्ष्य नेत्राभ्याम् धिष्ठितम् हृदि अभ्ययात् अति-सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम्

तावत् स भगवान् साक्षाद् योगाधीशो गुहाशय: ।
अन्तर्दध ऋषे: सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥

तावत् सः भगवान् साक्षात् योग-अधीशः गुहा-शयः अन्तर्दधे ऋषेः सद्यः यथा ईहा अनीश निर्मिता

तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लव: ।
तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत्स्थित: ॥ ३४ ॥

तम् अनु अथ वटः ब्रह्मन् सलिलम् लोक-सम्प्लवः तिरोधायि क्षणात् अस्य स्व-आश्रमे पूर्व-वत् स्थितः

१२.१०

सूत उवाच
स एवमनुभूयेदं नारायणविनिर्मितम् ।
वैभवं योगमायायास्तमेव शरणं ययौ ॥ १ ॥

सूतः उवाच सः एवम् अनुभूय इदम् नारायण-विनिर्मितम् वैभवम् योग-मायायाः तम् एव शरणम् ययौ

श्रीमार्कण्डेय उवाच
प्रपन्नोऽस्म्यङ्‍‍घ्रिमूलं ते प्रपन्नाभयदं हरे ।
यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ २ ॥

श्री-मार्कण्डेयः उवाच प्रपन्नः अस्मि अङ्घ्रि-मूलम् ते प्रपन्न अभय-दम् हरे यत्-मायया अपि विबुधाः मुह्यन्ति ज्ञान-काशया

सूत उवाच
तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् ।
रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृत: ॥ ३ ॥

सूतः उवाच तम् एवम् निभृत-आत्मानम् वृषेण दिवि पर्यटन् रुद्राण्या भगवान् रुद्रः ददर्श स्व-गणैः वृतः

अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत ।
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ ४ ॥

अथ उमा तम् ऋषिम् वीक्ष्य गिरिशम् समभाषत पश्य इमम् भगवन् विप्रम् निभृत आत्म-इन्द्रिय-आशयम्

निभृतोदझषव्रातो वातापाये यथार्णव: ।
कुर्वस्य तपस: साक्षात् संसिद्धिं सिद्धिदो भवान् ॥ ५ ॥

निभृत उद झष-व्रातः वात अपाये यथा अर्णवः कुरु अस्य तपसः साक्षात् संसिद्धिम् सिद्धि-दः भवान्

श्रीभगवानुवाच
नैवेच्छत्याशिष: क्‍वापि ब्रह्मर्षिर्मोक्षमप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ६ ॥

श्री-भगवान् उवाच न एव इच्छति आशिषः क्व अपि ब्रह्म-ऋषिः मोक्षम् अपि उत भक्तिम् पराम् भगवति लब्धवान् पुरुषे अव्यये

अथापि संवदिष्यामो भवान्येतेन साधुना ।
अयं हि परमो लाभो नृणां साधुसमागम: ॥ ७ ॥

अथ अपि संवदिष्यामः भवानि एतेन साधुना अयम् हि परमः लाभः नृणाम् साधु-समागमः

सूत उवाच
इत्युक्त्वा तमुपेयाय भगवान् स सतां गति: ।
ईशान: सर्वविद्यानामीश्वर: सर्वदेहिनाम् ॥ ८ ॥

सूतः उवाच इति उक्त्वा तम् उपेयाय भगवान् सः सताम् गतिः ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम्

तयोरागमनं साक्षादीशयोर्जगदात्मनो: ।
न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ॥ ९ ॥

तयोः आगमनम् साक्षात् ईशयोः जगत्-आत्मनोः न वेद रुद्ध धी-वृत्तिः आत्मानम् विश्वम् एव च

भगवांस्तदभिज्ञाय गिरिशो योगमायया ।
आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वर: ॥ १० ॥

भगवान् तत् अभिज्ञाय गिरिशः योग-मायया आविशत् तत् गुहा-आकाशम् वायुः छिद्रम् इव ईश्वरः

आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् ।
त्र्यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम् ॥ ११ ॥
व्याघ्रचर्माम्बरं शूलधनुरिष्वसिचर्मभि: ।
अक्षमालाडमरुककपालं परशुं सह ॥ १२ ॥
बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मित: ।
किमिदं कुत एवेति समाधेर्विरतो मुनि: ॥ १३ ॥

आत्मनि अपि शिवम् प्राप्तम् तडित् पिङ्ग जटा धरम् त्रि-अक्षम् दश-भुजम् प्रांशुम् उद्यन्तम् इव भास्करम् व्याघ्र चर्म अम्बरम् शूल धनुः इषु असि चर्मभिः अक्ष-माला डमरुक कपालम् परशुम् सह बिभ्राणम् सहसा भातम् विचक्ष्य हृदि विस्मितः किम् इदम् कुतः एव इति समाधेः विरतः मुनिः

नेत्रे उन्मील्य दद‍ृशे सगणं सोमयागतम् ।
रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनि: ॥ १४ ॥

नेत्रे उन्मील्य ददृशे स-गणम् स-उमया आगतम् रुद्रम् त्रि-लोक एक-गुरुम् ननाम शिरसा मुनिः

तस्मै सपर्यां व्यदधात् सगणाय सहोमया ।
स्वागतासनपाद्यार्घ्यगन्धस्रग्धूपदीपकै: ॥ १५ ॥

तस्मै सपर्याम् व्यदधात् स-गणाय सह उमया सु-आगत आसन पाद्य अर्घ्य गन्ध स्रक् धूप दीपकैः

आह त्वात्मानुभावेन पूर्णकामस्य ते विभो ।
करवाम किमीशान येनेदं निर्वृतं जगत् ॥ १६ ॥

आह तु आत्म-अनुभावेन पूर्ण-कामस्य ते विभो करवाम किम् ईशान येन इदम् निर्वृतम् जगत्

नम: शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।
रजोजुषेऽथ घोराय नमस्तुभ्यं तमोजुषे ॥ १७ ॥

नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च रजः-जुषे अथ घोराय नमः तुभ्यम् तमः-जुषे

सूत उवाच
एवं स्तुत: स भगवानादिदेव: सतां गति: ।
परितुष्ट: प्रसन्नात्मा प्रहसंस्तमभाषत ॥ १८ ॥

सूतः उवाच एवम् स्तुतः सः भगवान् आदि-देवः सताम् गतिः परितुष्टः प्रसन्न-आत्मा प्रहसन् तम् अभाषत

श्रीभगवानुवाच
वरं वृणीष्व न: कामं वरदेशा वयं त्रय: ।
अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥ १९ ॥

श्री-भगवान् उवाच वरम् वृणीष्व नः कामम् वर-द ईशाः वयम् त्रयः अमोघम् दर्शनम् येषाम् मर्त्यः यत् विन्दते अमृतम्

ब्राह्मणा: साधव: शान्ता नि:सङ्गा भूतवत्सला: ।
एकान्तभक्ता अस्मासु निर्वैरा: समदर्शिन: ॥ २० ॥
सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वर: ॥ २१ ॥

ब्राह्मणाः साधवः शान्ताः निःसङ्गाः भूत-वत्सलाः एक-अन्त-भक्ताः अस्मासु निर्वैराः सम-दर्शिनः स-लोकाः लोक-पालाः तान् वन्दन्ति अर्चन्ति उपासते अहम् च भगवान् ब्रह्मा स्वयम् च हरिः ईश्वरः

न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।
नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥ २२ ॥

न ते मयि अच्युते अजे च भिदाम् अणु अपि चक्षते न आत्मनः च जनस्य अपि तत् युष्मान् वयम् ईमहि

न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिता: ।
ते पुनन्त्युरुकालेन यूयं दर्शनमात्रत: ॥ २३ ॥

न हि अप्-मयानि तीर्थानि न देवाः चेतन-उज्झिताः ते पुनन्ति उरु-कालेन यूयम् दर्शन-मात्रतः

ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूपं त्रयीमयम् ।
बिभ्रत्यात्मसमाधानतप:स्वाध्यायसंयमै: ॥ २४ ॥

ब्राह्मणेभ्यः नमस्यामः ये अस्मत्-रूपम् त्रयी-मयम् बिभ्रति आत्म-समाधान तपः स्वाध्याय संयमैः

श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि व: ।
शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभि: ॥ २५ ॥

श्रवणात् दर्शनात् वा अपि महा-पातकिनः अपि वः शुध्येरन् अन्त्य-जाः च अपि किम् उ सम्भाषण-आदिभिः

सूत उवाच
इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् ।
वचोऽमृतायनमृषिर्नातृप्यत् कर्णयो: पिबन् ॥ २६ ॥

सूतः उवाच इति चन्द्र-ललामस्य धर्म-गुह्य उपबृंहितम् वचः अमृत-अयनम् ऋषिः न अतृप्यत् कर्णयोः पिबन्

स चिरं मायया विष्णोर्भ्रामित: कर्शितो भृशम् ।
शिववागमृतध्वस्तक्लेशपुञ्जस्तमब्रवीत् ॥ २७ ॥

सः चिरम् मायया विष्णोः भ्रामितः कर्शितः भृशम् शिव वाक्-अमृत ध्वस्त क्लेश-पुञ्जः तम् अब्रवीत्

श्रीमार्कण्डेय उवाच
अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् ।
यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वरा: ॥ २८ ॥

श्री-मार्कण्डेयः उवाच अहो ईश्वर लीला इयम् दुर्विभाव्या शरीरिणाम् यत् नमन्ति ईशितव्यानि स्तुवन्ति जगत्-ईश्वराः

धर्मं ग्राहयितुं प्राय: प्रवक्तारश्च देहिनाम् ।
आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ २९ ॥

धर्मम् ग्राहयितुम् प्रायः प्रवक्तारः च देहिनाम् आचरन्ति अनुमोदन्ते क्रियमाणम् स्तुवन्ति च

नैतावता भगवत: स्वमायामयवृत्तिभि: ।
न दुष्येतानुभावस्तैर्मायिन: कुहकं यथा ॥ ३० ॥

न एतावता भगवतः स्व-माया मय वृत्तिभिः न दुष्येत अनुभावः तैः मायिनः कुहकम् यथा

सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्य य: ।
गुणै: कुर्वद्भ‍िराभाति कर्तेव स्वप्नद‍ृग् यथा ॥ ३१ ॥
तस्मै नमो भगवते त्रिगुणाय गुणात्मने ।
केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ ३२ ॥

सृष्ट्वा इदम् मनसा विश्वम् आत्मना अनुप्रविश्य यः गुणैः कुर्वद्भिः आभाति कर्ता इव स्वप्न-दृक् यथा तस्मै नमः भगवते त्रि-गुणाय गुण-आत्मने केवलाय अद्वितीयाय गुरवे ब्रह्म-मूर्तये

कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात् ।
यद्दर्शनात् पूर्णकाम: सत्यकाम: पुमान् भवेत् ॥ ३३ ॥

कम् वृणे नु परम् भूमन् वरम् त्वत् वर-दर्शनात् यत् दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत्

वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।
भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ ३४ ॥

वरम् एकम् वृणे अथ अपि पूर्णात् काम-अभिवर्षणात् भगवति अच्युताम् भक्तिम् तत्-परेषु तथा त्वयि

सूत उवाच
इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।
तमाह भगवाञ्छर्व: शर्वया चाभिनन्दित: ॥ ३५ ॥

सूतः उवाच इति अर्चितः अभिष्टुतः च मुनिना सु-उक्तया गिरा तम् आह भगवान् शर्वः शर्वया च अभिनन्दितः

कामो महर्षे सर्वोऽयं भक्तिमांस्त्वमधोक्षजे ।
आकल्पान्ताद् यश: पुण्यमजरामरता तथा ॥ ३६ ॥

कामः महा-ऋषे सर्वः अयम् भक्ति-मान् त्वम् अधोक्षजे आ-कल्प-अन्तात् यशः पुण्यम् अजर-अमरता तथा

ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।
ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ ३७ ॥

ज्ञानम् त्रै-कालिकम् ब्रह्मन् विज्ञानम् च विरक्ति-मत् ब्रह्म-वर्चस्विनः भूयात् पुराण-आचार्यता अस्तु ते

सूत उवाच
एवं वरान् स मुनये दत्त्वागात् त्र्यक्ष ईश्वर: ।
देव्यै तत्कर्म कथयन्ननुभूतं पुरामुना ॥ ३८ ॥

सूतः उवाच एवम् वरान् सः मुनये दत्त्वा अगात् त्रि-अक्षः ईश्वरः देव्यै तत्-कर्म कथयन् अनुभूतम् पुरा अमुना

सोऽप्यवाप्तमहायोगमहिमा भार्गवोत्तम: ।
विचरत्यधुनाप्यद्धा हरावेकान्ततां गत: ॥ ३९ ॥

सः अपि अवाप्त महा-योग महिमा भार्गव-उत्तमः विचरति अधुना अपि अद्धा हरौ एक-अन्तताम् गतः

अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमत: ।
अनुभूतं भगवतो मायावैभवमद्भ‍ुतम् ॥ ४० ॥

अनुवर्णितम् एतत् ते मार्कण्डेयस्य धी-मतः अनुभूतम् भगवतः माया-वैभवम् अद्भुतम्

एतत् केचिदविद्वांसो मायासंसृतिरात्मन: ।
अनाद्यावर्तितं नृणां कादाचित्कं प्रचक्षते ॥ ४१ ॥

एतत् केचित् अविद्वांसः माया-संसृतिः आत्मनः अनादि आवर्तितम् नॄणाम् कादाचित्कम् प्रचक्षते

य एवमेतद् भृगुवर्य वर्णितं
रथाङ्गपाणेरनुभावभावितम् ।
संश्रावयेत् संश‍ृणुयादु तावुभौ
तयोर्न कर्माशयसंसृतिर्भवेत् ॥ ४२ ॥

यः एवम् एतत् भृगु-वर्य वर्णितम् रथ-अङ्ग-पाणेः अनुभाव भावितम् संश्रावयेत् संशृणुयात् उ तौ उभौ तयोः न कर्म-आशय संसृतिः भवेत्

१२.११

श्रीशौनक उवाच
अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् ।
समस्ततन्त्रराद्धान्ते भवान् भागवत तत्त्ववित् ॥ १ ॥

श्री-शौनकः उवाच अथ इमम् अर्थम् पृच्छामः भवन्तम् बहु-वित्-तमम् समस्त तन्त्र राद्ध-अन्ते भवान् भागवत तत्त्व-वित्

तान्त्रिका: परिचर्यायां केवलस्य श्रिय: पते: ।
अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यै: ॥ २ ॥
तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम् ।
येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ॥ ३ ॥

तान्त्रिकाः परिचर्यायाम् केवलस्य श्रियः पतेः अङ्ग उपाङ्ग आयुध आकल्पम् कल्पयन्ति यथा च यैः तत् नः वर्णय भद्रम् ते क्रिया-योगम् बुभुत्सताम् येन क्रिया नैपुणेन मर्त्यः यायात् अमर्त्यताम्

सूत उवाच
नमस्कृत्य गुरून् वक्ष्ये विभूतीर्वैष्णवीरपि ।
या: प्रोक्ता वेदतन्त्राभ्यामाचार्यै: पद्मजादिभि: ॥ ४ ॥

सूतः उवाच नमस्कृत्य गुरून् वक्ष्ये विभूतीः वैष्णवीः अपि याः प्रोक्ताः वेद-तन्त्राभ्याम् आचार्यैः पद्मज-आदिभिः

मायाद्यैर्नवभिस्तत्त्वै: स विकारमयो विराट् ।
निर्मितो द‍ृश्यते यत्र सचित्के भुवनत्रयम् ॥ ५ ॥

माया-आद्यैः नवभिः तत्त्वैः सः विकार-मयः विराट् निर्मितः दृश्यते यत्र स-चित्के भुवन-त्रयम्

एतद् वै पौरुषं रूपं भू: पादौ द्यौ: शिरो नभ: ।
नाभि: सूर्योऽक्षिणी नासे वायु: कर्णौ दिश: प्रभो: ॥ ६ ॥
प्रजापति: प्रजननमपानो मृत्युरीशितु: ।
तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यम: ॥ ७ ॥
लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्‍ना स्मयो भ्रम: ।
रोमाणि भूरुहा भूम्नो मेघा: पुरुषमूर्धजा: ॥ ८ ॥

एतत् वै पौरुषम् रूपम् भूः पादौ द्यौः शिरः नभः नाभिः सूर्यः अक्षिणी नासे वायुः कर्णौ दिशः प्रभोः प्रजा-पतिः प्रजननम् अपानः मृत्युः ईशितुः तत्-बाहवः लोक-पालाः मनः चन्द्रः भ्रुवौ यमः लज्जा उत्तरः अधरः लोभः दन्ताः ज्योत्स्ना स्मयः भ्रमः रोमाणि भू-रुहाः भूम्नः मेघाः पुरुष मूर्ध-जाः

यावानयं वै पुरुषो यावत्या संस्थया मित: ।
तावानसावपि महापुरुषो लोकसंस्थया ॥ ९ ॥

यावान् अयम् वै पुरुषः यावत्या संस्थया मितः तावान् असौ अपि महा-पुरुषः लोक-संस्थया

कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यज: ।
तत्प्रभा व्यापिनी साक्षात् श्रीवत्समुरसा विभु: ॥ १० ॥

कौस्तुभ-व्यपदेशेन स्व-आत्म ज्योतिः बिभर्ति अजः तत्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः

स्वमायां वनमालाख्यां नानागुणमयीं दधत् ।
वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत् स्वरम् ॥ ११ ॥
बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले ।
मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् ॥ १२ ॥

स्व-मायाम् वन-माला-आख्याम् नाना-गुण मयीम् दधत् वासः छन्दः-मयम् पीतम् ब्रह्म-सूत्रम् त्रि-वृत् स्वरम् बिभर्ति साङ्ख्यम् योगम् च देवः मकर-कुण्डले मौलिम् पदम् पारमेष्ठ्यम् सर्व-लोक अभयम् करम्

अव्याकृतमनन्ताख्यमासनं यदधिष्ठित: ।
धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते ॥ १३ ॥

अव्याकृतम् अनन्त-आख्यम् आसनम् यत्-अधिष्ठितः धर्म-ज्ञान-आदिभिः युक्तम् सत्त्वम् पद्मम् इह उच्यते

ओज:सहोबलयुतं मुख्यतत्त्वं गदां दधत् ।
अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् ॥ १४ ॥
नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम् ।
कालरूपं धनु: शार्ङ्गं तथा कर्ममयेषुधिम् ॥ १५ ॥

ओजः-सहः-बल युतम् मुख्य-तत्त्वम् गदाम् दधत् अपाम् तत्त्वम् दर वरम् तेजः-तत्त्वम् सुदर्शनम् नभः-निभम् नभः-तत्त्वम् असिम् चर्म तमः-मयम् काल-रूपम् धनुः शार्ङ्गम् तथा कर्म-मय इषु-धिम्

इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम् ।
तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् ॥ १६ ॥

इन्द्रियाणि शरान् आहुः आकूतीः अस्य स्यन्दनम् तत्-मात्राणि अस्य अभिव्यक्तिम् मुद्रया अर्थ-क्रिया-आत्मताम्

मण्डलं देवयजनं दीक्षा संस्कार आत्मन: ।
परिचर्या भगवत आत्मनो दुरितक्षय: ॥ १७ ॥

मण्डलम् देव-यजनम् दीक्षा संस्कारः आत्मनः परिचर्या भगवतः आत्मनः दुरित क्षयः

भगवान् भगशब्दार्थं लीलाकमलमुद्वहन् ।
धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् ॥ १८ ॥

भगवान् भग-शब्द अर्थम् लीला-कमलम् उद्वहन् धर्मम् यशः च भगवान् चामर-व्यजने अभजत्

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् ।
त्रिवृद्‌वेद: सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ १९ ॥

आतपत्रम् तु वैकुण्ठम् द्विजाः धाम अकुतः-भयम् त्रि-वृत् वेदः सुपर्ण-आख्यः यज्ञम् वहति पूरुषम्

अनपायिनी भगवती श्री: साक्षादात्मनो हरे: ।
विष्वक्सेनस्तन्त्रमूर्तिर्विदित: पार्षदाधिप: ।
नन्दादयोऽष्टौ द्वा:स्थाश्च तेऽणिमाद्या हरेर्गुणा: ॥ २० ॥

अनपायिनी भगवती श्रीः साक्षात् आत्मनः हरेः विष्वक्सेनः तन्त्र-मूर्तिः विदितः पार्षद-अधिपः नन्द-आदयः अष्टौ द्वाः-स्थाः च ते अणिमा-आद्याः हरेः गुणाः

वासुदेव: सङ्कर्षण: प्रद्युम्न: पुरुष: स्वयम् ।
अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहोऽभिधीयते ॥ २१ ॥

वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् अनिरुद्धः इति ब्रह्मन् मूर्ति-व्यूहः अभिधीयते

स विश्वस्तैजस: प्राज्ञस्तुरीय इति वृत्तिभि: ।
अर्थेन्द्रियाशयज्ञानैर्भगवान् परिभाव्यते ॥ २२ ॥

सः विश्वः तैजसः प्राज्ञः तुरीयः इति वृत्तिभिः अर्थ इन्द्रिय आशय ज्ञानैः भगवान् परिभाव्यते

अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम् ।
बिभर्ति स्म चतुर्मूर्तिर्भगवान् हरिरीश्वर: ॥ २३ ॥

अङ्ग उपाङ्ग आयुध आकल्पैः भगवान् तत् चतुष्टयम् बिभर्ति स्म चतुः-मूर्तिः भगवान् हरिः ईश्वरः

द्विजऋषभ स एष ब्रह्मयोनि: स्वयंद‍ृक्
स्वमहिमपरिपूर्णो मायया च स्वयैतत् ।
सृजति हरति पातीत्याख्ययानावृताक्षो
विवृत इव निरुक्तस्तत्परैरात्मलभ्य: ॥ २४ ॥

द्विज-ऋषभ सः एषः ब्रह्म-योनिः स्वयम्-दृक् स्व-महिम परिपूर्णः मायया च स्वया एतत् सृजति हरति पाति इति आख्यया अनावृत अक्षः विवृतः इव निरुक्तः तत्-परैः आत्म लभ्यः

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोपवनिताव्रजभृत्यगीत-
तीर्थश्रव: श्रवणमङ्गल पाहि भृत्यान् ॥ २५ ॥

श्री-कृष्ण कृष्ण-सख वृष्णि ऋषभ अवनि ध्रुक् राजन्य-वंश दहन अनपवर्ग वीर्य गोविन्द गोप वनिता व्रज भृत्य गीत तीर्थ श्रवः श्रवण मङ्गल पाहि भृत्यान्

य इदं कल्य उत्थाय महापुरुषलक्षणम् ।
तच्चित्त: प्रयतो जप्‍त्वा ब्रह्म वेद गुहाशयम् ॥ २६ ॥

यः इदम् कल्ये उत्थाय महा-पुरुष-लक्षणम् तत्-चित्तः प्रयतः जप्त्वा ब्रह्म वेद गुहा-शयम्

श्रीशौनक उवाच
शुको यदाह भगवान् विष्णुराताय श‍ृण्वते ।
सौरो गणो मासि मासि नाना वसति सप्तक: ॥ २७ ॥
तेषां नामानि कर्माणि नियुक्तानामधीश्वरै: ।
ब्रूहि न: श्रद्दधानानां व्यूहं सूर्यात्मनो हरे: ॥ २८ ॥

श्री-शौनकः उवाच शुकः यत् आह भगवान् विष्णु-राताय शृण्वते सौरः गणः मासि मासि नाना वसति सप्तकः तेषाम् नामानि कर्माणि नियुक्तानाम् अधीश्वरैः ब्रूहि नः श्रद्दधानानाम् व्यूहम् सूर्य-आत्मनः हरेः

सूत उवाच
अनाद्यविद्यया विष्णोरात्मन: सर्वदेहिनाम् ।
निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते ॥ २९ ॥

सूतः उवाच अनादि अविद्यया विष्णोः आत्मनः सर्व-देहिनाम् निर्मितः लोक-तन्त्रः अयम् लोकेषु परिवर्तते

एक एव हि लोकानां सूर्य आत्मादिकृद्धरि: ।
सर्ववेदक्रियामूलमृषिभिर्बहुधोदित: ॥ ३० ॥

एकः एव हि लोकानाम् सूर्यः आत्मा आदि-कृत् हरिः सर्व-वेद क्रिया मूलम् ऋषिभिः बहुधा उदितः

कालो देश: क्रिया कर्ता करणं कार्यमागम: ।
द्रव्यं फलमिति ब्रह्मन् नवधोक्तोऽजया हरि: ॥ ३१ ॥

कालः देशः क्रिया कर्ता करणम् कार्यम् आगमः द्रव्यम् फलम् इति ब्रह्मन् नवधा उक्तः अजया हरिः

मध्वादिषु द्वादशसु भगवान् कालरूपधृक् ।
लोकतन्त्राय चरति पृथग्द्वादशभिर्गणै: ॥ ३२ ॥

मधु-आदिषु द्वादशसु भगवान् काल-रूप धृक् लोक-तन्त्राय चरति पृथक् द्वादशभिः गणैः

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ ३३ ॥

धाता कृतस्थली हेतिः वासुकिः रथकृत् मुने पुलस्त्यः तुम्बुरुः इति मधु-मासम् नयन्ति अमी

अर्यमा पुलहोऽथौजा: प्रहेति: पुञ्जिकस्थली ।
नारद: कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ ३४ ॥

अर्यमा पुलहः अथौजाः प्रहेतिः पुञ्जिकस्थली नारदः कच्छनीरः च नयन्ति एते स्म माधवम्

मित्रोऽत्रि: पौरुषेयोऽथ तक्षको मेनका हहा: ।
रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ ३५ ॥

मित्रः अत्रिः पौरुषेयः अथ तक्षकः मेनका हहाः रथस्वनः इति हि एते शुक्र-मासम् नयन्ति अमी

वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहू: ।
शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ ३६ ॥

वसिष्ठः वरुणः रम्भा सहजन्यः तथा हुहूः शुक्रः चित्रस्वनः च एव शुचि-मासम् नयन्ति अमी

इन्द्रो विश्वावसु: श्रोता एलापत्रस्तथाङ्गिरा: ।
प्रम्‍लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ॥ ३७ ॥

इन्द्रः विश्वावसुः श्रोताः एलापत्रः तथा अङ्गिराः प्रम्लोचा राक्षसः वर्यः नभः-मासम् नयन्ति अमी

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगु: ।
अनुम्‍लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ ३८ ॥

विवस्वान् उग्रसेनः च व्याघ्रः आसारणः भृगुः अनुम्लोचा शङ्खपालः नभस्य-आख्यम् नयन्ति अमी

पूषा धनञ्जयो वात: सुषेण: सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥ ३९ ॥

पूषा धनञ्जयः वातः सुषेणः सुरुचिः तथा घृताची गौतमः च इति तपः-मासम् नयन्ति अमी

ऋतुर्वर्चा भरद्वाज: पर्जन्य: सेनजित्तथा ।
विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ ४० ॥

ऋतुः वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा विश्वः ऐरावतः च एव तपस्य-आख्यम् नयन्ति अमी

अथांशु: कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।
विद्युच्छत्रुर्महाशङ्ख: सहोमासं नयन्त्यमी ॥ ४१ ॥

अथ अंशुः कश्यपः तार्क्ष्यः ऋतसेनः तथा उर्वशी विद्युच्छत्रुः महाशङ्खः सहः-मासम् नयन्ति अमी

भग: स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चम: ।
कर्कोटक: पूर्वचित्ति: पुष्यमासं नयन्त्यमी ॥ ४२ ॥

भगः स्फूर्जः अरिष्टनेमिः ऊर्णः आयुः च पञ्चमः कर्कोटकः पूर्वचित्तिः पुष्य-मासम् नयन्ति अमी

त्वष्टा ऋचीकतनय: कम्बलश्च तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजिद् धृतराष्ट्र इषम्भरा: ॥ ४३ ॥

त्वष्टा ऋचीक-तनयः कम्बलः च तिलोत्तमा ब्रह्मापेतः अथ शतजित् धृतराष्ट्रः इषम्-भराः

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ ४४ ॥

विष्णुः अश्वतरः रम्भा सूर्यवर्चाः च सत्यजित् विश्वामित्रः मखापेतः ऊर्ज-मासम् नयन्ति अमी

एता भगवतो विष्णोरादित्यस्य विभूतय: ।
स्मरतां सन्ध्ययोर्नृणां हरन्त्यंहो दिने दिने ॥ ४५ ॥

एताः भगवतः विष्णोः आदित्यस्य विभूतयः स्मरताम् सन्ध्ययोः नॄणाम् हरन्ति अंहः दिने दिने

द्वादशस्वपि मासेषु देवोऽसौ षड्‌भिरस्य वै ।
चरन् समन्तात्तनुते परत्रेह च सन्मतिम् ॥ ४६ ॥

द्वादशसु अपि मासेषु देवः असौ षड्भिः अस्य वै चरन् समन्तात् तनुते परत्र इह च सत्-मतिम्

सामर्ग्यजुर्भिस्तल्ल‍िङ्गैऋर्षय: संस्तुवन्त्यमुम् ।
गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रत: ॥ ४७ ॥
उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजका: ।
चोदयन्ति रथं पृष्ठे नैऋर्ता बलशालिन: ॥ ४८ ॥

साम-ऋक्-यजुर्भिः तत्-लिङ्गैः ऋषयः संस्तुवन्ति अमुम् गन्धर्वाः तम् प्रगायन्ति नृत्यन्ति अप्सरसः अग्रतः उन्नह्यन्ति रथम् नागाः ग्रामण्यः रथ-योजकाः चोदयन्ति रथम् पृष्ठे नैरृताः बल-शालिनः

वालखिल्या: सहस्राणि षष्टिर्ब्रह्मर्षयोऽमला: ।
पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ॥ ४९ ॥

वालखिल्याः सहस्राणि षष्टिः ब्रह्म-ऋषयः अमलाः पुरतः अभिमुखम् यान्ति स्तुवन्ति स्तुतिभिः विभुम्

एवं ह्यनादिनिधनो भगवान् हरिरीश्वर: ।
कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यज: ॥ ५० ॥

एवम् हि अनादि निधनः भगवान् हरिः ईश्वरः कल्पे कल्पे स्वम् आत्मानम् व्यूह्य लोकान् अवति अजः

१२.१२

सूत उवाच
नमो धर्माय महते नम: कृष्णाय वेधसे ।
ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥

सूतः उवाच नमः धर्माय महते नमः कृष्णाय वेधसे ब्रह्मणेभ्यः नमस्कृत्य धर्मान् वक्ष्ये सनातनान्

एतद् व: कथितं विप्रा विष्णोश्चरितमद्भ‍ुतम् ।
भवद्भ‍िर्यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥

एतत् वः कथितम् विप्राः विष्णोः चरितम् अद्भुतम् भवद्भिः यत् अहम् पृष्टः नराणाम् पुरुष उचितम्

अत्र सङ्कीर्तित: साक्षात् सर्वपापहरो हरि: ।
नारायणो हृषीकेशो भगवान् सात्वतां पति: ॥ ३ ॥

अत्र सङ्कीर्तितः साक्षात् सर्व-पाप हरः हरिः नारायणः हृषीकेशः भगवान् सात्वताम् पतिः

अत्र ब्रह्म परं गुह्यं जगत: प्रभवाप्ययम् ।
ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥

अत्र ब्रह्म परम् गुह्यम् जगतः प्रभव अप्ययम् ज्ञानम् च तत्-उपाख्यानम् प्रोक्तम् विज्ञान संयुतम्

भक्तियोग: समाख्यातो वैराग्यं च तदाश्रयम् ।
पारीक्षितमुपाख्यानं नारदाख्यानमेव च ॥ ५ ॥

भक्ति-योगः समाख्यातः वैराग्यम् च तत्-आश्रयम् पारीक्षितम् उपाख्यानम् नारद आख्यानम् एव च

प्रायोपवेशो राजर्षेर्विप्रशापात् परीक्षित: ।
शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षित: ॥ ६ ॥

प्राय-उपवेशः राज-ऋषेः विप्र-शापात् परीक्षितः शुकस्य ब्रह्म-ऋषभस्य संवादः च परीक्षितः

योगधारणयोत्क्रान्ति: संवादो नारदाजयो: ।
अवतारानुगीतं च सर्ग: प्राधानिकोऽग्रत: ॥ ७ ॥

योग-धारणया उत्क्रान्तिः संवादः नारद-अजयोः अवतार-अनुगीतम् च सर्गः प्राधानिकः अग्रतः

विदुरोद्धवसंवाद: क्षत्तृमैत्रेययोस्तत: ।
पुराणसंहिताप्रश्न‍ो महापुरुषसंस्थिति: ॥ ८ ॥

विदुर-उद्धव संवादः क्षत्तृ-मैत्रेययोः ततः पुराण-संहिता प्रश्नः महा-पुरुष संस्थितिः

तत: प्राकृतिक: सर्ग: सप्त वैकृतिकाश्च ये ।
ततो ब्रह्माण्डसम्भूतिर्वैराज: पुरुषो यत: ॥ ९ ॥

ततः प्राकृतिकः सर्गः सप्त वैकृतिकाः च ये ततः ब्रह्म-अण्ड सम्भूतिः वैराजः पुरुषः यतः

कालस्य स्थूलसूक्ष्मस्य गति: पद्मसमुद्भ‍व: ।
भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा ॥ १० ॥

कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म समुद्भवः भुवः उद्धरणे अम्भोधेः हिरण्याक्ष-वधः यथा

ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।
अर्धनारीश्वरस्याथ यत: स्वायम्भुवो मनु: ॥ ११ ॥

ऊर्ध्व तिर्यक् अवाक् सर्गः रुद्र सर्गः तथा एव च अर्ध-नारी ईश्वरस्य अथ यतः स्वायम्भुवः मनुः

शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा ।
सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापते: ॥ १२ ॥

शतरूपा च या स्त्रीणाम् आद्या प्रकृतिः उत्तमा सन्तानः धर्म-पत्नीनाम् कर्दमस्य प्रजापतेः

अवतारो भगवत: कपिलस्य महात्मन: ।
देवहूत्याश्च संवाद: कपिलेन च धीमता ॥ १३ ॥

अवतारः भगवतः कपिलस्य महा-आत्मनः देवहूत्याः च संवादः कपिलेन च धी-मता

नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् ।
ध्रुवस्य चरितं पश्चात्पृथो: प्राचीनबर्हिष: ॥ १४ ॥
नारदस्य च संवादस्तत: प्रैयव्रतं द्विजा: ।
नाभेस्ततोऽनु चरितमृषभस्य भरतस्य च ॥ १५ ॥

नव-ब्रह्म समुत्पत्तिः दक्ष-यज्ञ विनाशनम् ध्रुवस्य चरितम् पश्चात् पृथोः प्राचीनबर्हिषः नारदस्य च संवादः ततः प्रैयव्रतम् द्विजाः नाभेः ततः अनुचरितम् ऋषभस्य भरतस्य च

द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।
ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थिति: ॥ १६ ॥

द्वीप-वर्ष-समुद्राणाम् गिरि-नदी उपवर्णनम् ज्योतिः-चक्रस्य संस्थानम् पाताल नरक स्थितिः

दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्तति: ।
यतो देवासुरनरास्तिर्यङ्‌नगखगादय: ॥ १७ ॥

दक्ष-जन्म प्रचेतोभ्यः तत्-पुत्रीणाम् च सन्ततिः यतः देव-असुर-नराः तिर्यक्-नग-खग-आदयः

त्वाष्ट्रस्य जन्म निधनं पुत्रयोश्च दितेर्द्विजा: ।
दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मन: ॥ १८ ॥

त्वाष्ट्रस्य जन्म-निधनम् पुत्रयोः च दितेः द्विजाः दैत्य-ईश्वरस्य चरितम् प्रह्रादस्य महा-आत्मनः

मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।
मन्वन्तरावताराश्च विष्णोर्हयशिरादय: ॥ १९ ॥

मनु-अन्तर अनुकथनम् गज-इन्द्रस्य विमोक्षणम् मनुअन्तर-अवताराः च विष्णोः हयशिरा-आदयः

कौर्मं मात्स्यं नारसिंहं वामनं च जगत्पते: ।
क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् ॥ २० ॥

कौर्मम् मात्स्यम् नारसिंहम् वामनम् च जगत्-पतेः क्षीर-उद मथनम् तद्वत् अमृत-अर्थे दिव-ओकसाम्

देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।
इक्ष्वाकुजन्म तद्वंश: सुद्युम्नस्य महात्मन: ॥ २१ ॥

देव-असुर महा-युद्धम् राज-वंश अनुकीर्तनम् इक्ष्वाकु-जन्म तत्-वंशः सुद्यम्नस्य महा-आत्मनः

इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।
सूर्यवंशानुकथनं शशादाद्या नृगादय: ॥ २२ ॥

इला-उपाख्यानम् अत्र उक्तम् तारा-उपाख्यानम् एव च सूर्य-वंश अनुकथनम् शशाद-आद्याः नृग-आदयः

सौकन्यं चाथ शर्याते: ककुत्स्थस्य च धीमत: ।
खट्‌वाङ्गस्य च मान्धातु: सौभरे: सगरस्य च ॥ २३ ॥

सौकन्यम् च अथ शर्यातेः ककुत्स्थस्य च धी-मतः खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च

रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।
निमेरङ्गपरित्यागो जनकानां च सम्भव: ॥ २४ ॥

रामस्य कोशल-इन्द्रस्य चरितम् किल्बिष-अपहम् निमेः अङ्ग-परित्यागः जनकानाम् च सम्भवः

रामस्य भार्गवेन्द्रस्य नि:क्षत्रीकरणं भुव: ।
ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥
दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तित: ॥ २६ ॥

रामस्य भार्गव-इन्द्रस्य निःक्षत्री-करणम् भुवः ऐलस्य सोम-वंशस्य ययातेः नहुषस्य च दौष्मन्तेः भरतस्य अपि शान्तनोः तत् सुतस्य च ययातेः ज्येष्ठ-पुत्रस्य यदोः वंशः अनु-कीर्तितः

यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वर: ।
वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥

यत्र अवतीर्णः भगवान् कृष्ण-आख्यः जगत्-ईश्वरः वसुदेव-गृहे जन्म ततः वृद्धिः च गोकुले

तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विष: ।
पूतनासुपय:पानं शकटोच्चाटनं शिशो: ॥ २८ ॥
तृणावर्तस्य निष्पेषस्तथैव बकवत्सयो: ।
अघासुरवधो धात्रा वत्सपालावगूहनम् ॥ २९ ॥

तस्य कर्माणि अपाराणि कीर्तितानि असुर-द्विषः पूतना असु पयः पानम् शकट उच्चाटनम् शिशोः तृणावर्तस्य निष्पेषः तथा एव बक-वत्सयोः अघ-असुर वधः धात्रा वत्स-पाल अवगूहनम्

धेनुकस्य सहभ्रातु: प्रलम्बस्य च सङ्‍क्षय: ।
गोपानां च परित्राणं दावाग्ने: परिसर्पत: ॥ ३० ॥

धेनुकस्य सह-भ्रातुः प्रलम्बस्य च सङ्क्षयः गोपानाम् च परित्राणम् दाव-अग्नेः परिसर्पतः

दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम् ।
व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतै: ॥ ३१ ॥
प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ।
गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ॥ ३२ ॥
यज्ञाभिषेक: कृष्णस्य स्त्रीभि: क्रीडा च रात्रिषु ।
शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिन: ॥ ३३ ॥

दमनम् कालियस्य अहेः महा-अहेः नन्द-मोक्षणम् व्रत-चर्या तु कन्यानाम् यत्र तुष्टः अच्युतः व्रतैः प्रसादः यज्ञ-पत्नीभ्यः विप्राणाम् च अनुतापनम् गोवर्धन-उद्धारणम् च शक्रस्य सुरभेः अथ यज्ञ-अभिषेकः कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु शङ्खचूडस्य दुर्बुद्धेः वधः अरिष्टस्य केशिनः

अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयो: ।
व्रजस्त्रीणां विलापश्च मथुरालोकनं तत: ॥ ३४ ॥

अक्रूर आगमनम् पश्चात् प्रस्थानम् राम-कृष्णयोः व्रज-स्त्रीणाम् विलापः च मथुरा-आलोकनम् ततः

गजमुष्टिकचाणूरकंसादीनां तथा वध: ।
मृतस्यानयनं सूनो: पुन: सान्दीपनेर्गुरो: ॥ ३५ ॥

गज मुष्टिक-चाणूर कंस आदीनाम् तथा वधः मृतस्य आनयनम् सूनोः पुनः सान्दीपनेः गुरोः

मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।
कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजा: ॥ ३६ ॥

मथुरायाम् निवसता यदु-चक्रस्य यत् प्रियम् कृतम् उद्धव-रामाभ्याम् युतेन हरिणा द्विजाः

जरासन्धसमानीतसैन्यस्य बहुशो वध: ।
घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३७ ॥

जरासन्ध समानीत सैन्यस्य बहुशः वधः घातनम् यवन-इन्द्रस्य कुशस्थल्याः निवेशनम्

आदानं पारिजातस्य सुधर्माया: सुरालयात् ।
रुक्‍मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरे: ॥ ३८ ॥

आदानम् पारिजातस्य सुधर्मायाः सुर-आलयात् रुक्मिण्याः हरणम् युद्धे प्रमथ्य द्विषतः हरेः

हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।
प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३९ ॥

हरस्य जृम्भणम् युद्धे बाणस्य भुज कृन्तनम् प्राग्ज्योतिष-पतिम् हत्वा कन्यानाम् हरणम् च यत्

चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मते: ।
शम्बरो द्विविद: पीठो मुर: पञ्चजनादय: ॥ ४० ॥
माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।
भारावतरणं भूमेर्निमित्तीकृत्य पाण्डवान् ॥ ४१ ॥

चैद्य पौण्ड्रक शाल्वानाम् दन्तवक्रस्य दुर्मतेः शम्बरः द्विविदः पीठः मुरः पञ्चजन-आदयः माहात्म्यम् च वधः तेषाम् वाराणस्याः च दाहनम् भार अवतरणम् भूमेः निमित्ती-कृत्य पाण्डवान्

विप्रशापापदेशेन संहार: स्वकुलस्य च ।
उद्धवस्य च संवादो वसुदेवस्य चाद्भ‍ुत: ॥ ४२ ॥
यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णय: ।
ततो मर्त्यपरित्याग आत्मयोगानुभावत: ॥ ४३ ॥

विप्र-शाप अपदेशेन संहारः स्व-कुलस्य च उद्धवस्य च संवादः वसुदेवस्य च अद्भुतः यत्र आत्म-विद्या हि अखिला प्रोक्ता धर्म-विनिर्णयः ततः मर्त्य परित्यागः आत्म-योग अनुभावतः

युगलक्षणवृत्तिश्च कलौ नृणामुपप्लव: ।
चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४४ ॥

युग लक्षण वृत्तिः च कलौ नॄणाम् उपप्लवः चतुः-विधः च प्रलयः उत्पत्तिः त्रि-विधा तथा

देहत्यागश्च राजर्षेर्विष्णुरातस्य धीमत: ।
शाखाप्रणयनमृषेर्मार्कण्डेयस्य सत्कथा ।
महापुरुषविन्यास: सूर्यस्य जगदात्मन: ॥ ४५ ॥

देह-त्यागः च राज-ऋषेः विष्णु-रातस्य धी-मतः शाखा प्रणयनम् ऋषेः मार्कण्डेयस्य सत्-कथा महा-पुरुष विन्यासः सूर्यस्य जगत्-आत्मनः

इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि व: ।
लीलावतारकर्माणि कीर्तितानीह सर्वश: ॥ ४६ ॥

इति च उक्तम् द्विज-श्रेष्ठाः यत् पृष्टः अहम् इह अस्मि वः लीला-अवतार कर्माणि कीर्तितानि इह सर्वशः

पतित: स्खलितश्चार्त: क्षुत्त्वा वा विवशो गृणन् ।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात् ॥ ४७ ॥

पतितः स्खलितः च आर्तः क्षुत्त्वा वा विवशः गृणन् हरये नमः इति उच्चैः मुच्यते सर्व-पातकात्

सङ्कीर्त्यमानो भगवाननन्त:
श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्यशेषं
यथा तमोऽर्कोऽभ्रमिवातिवात: ॥ ४८ ॥

सङ्कीर्त्यमानः भगवान् अनन्तः श्रुत अनुभावः व्यसनम् हि पुंसाम् प्रविश्य चित्तम् विधुनोति अशेषम् यथा तमः अर्कः अभ्रम् इव अति-वातः

मृषा गिरस्ता ह्यसतीरसत्कथा
न कथ्यते यद् भगवानधोक्षज: ।
तदेव सत्यं तदुहैव मङ्गलं
तदेव पुण्यं भगवद्गुणोदयम् ॥ ४९ ॥

मृषाः गिरः ताः हि असतीः असत्-कथाः न कथ्यते यत् भगवान् अधोक्षजः तत् एव सत्यम् तत् उ ह एव मङ्गलम् तत् एव पुण्यम् भगवत्-गुण उदयम्

तदेव रम्यं रुचिरं नवं नवं
तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नृणां
यदुत्तम:श्लोकयशोऽनुगीयते ॥ ५० ॥

तत् एव रम्यम् रुचिरम् नवम् नवम् तत् एव शश्वत् मनसः महा-उत्सवम् तत् एव शोक-अर्णव शोषणम् नृणाम् यत् उत्तमःश्लोक यशः अनुगीयते

न यद् वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद् ध्वाङ्‍क्षतीर्थं न तु हंससेवितं
यत्राच्युतस्तत्र हि साधवोऽमला: ॥ ५१ ॥

न यत् वचः चित्र-पदम् हरेः यशः जगत् पवित्रम् प्रगृणीत कर्हिचित् तत् ध्वाङ्क्ष तीर्थम् न तु हंस सेवितम् यत्र अच्युतः तत्र हि साधवः अमलाः

तद्वाग्विसर्गो जनताघसम्प्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि य-
च्छृण्वन्ति गायन्ति गृणन्ति साधव: ॥ ५२ ॥

तत् वाक् विसर्गः जनता अघ सम्प्लवः यस्मिन् प्रति-श्लोकम् अबद्धवति अपि नामानि अनन्तस्य यशः अङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुत: पुन: शश्वदभद्रमीश्वरे
न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५३ ॥

नैष्कर्म्यम् अपि अच्युत भाव वर्जितम् न शोभते ज्ञानम् अलम् निरञ्जनम् कुतः पुनः शश्वत् अभद्रम् ईश्वरे न हि अर्पितम् कर्म यत् अपि अनुत्तमम्

यश:श्रियामेव परिश्रम: परो
वर्णाश्रमाचारतप:श्रुतादिषु ।
अविस्मृति: श्रीधरपादपद्मयो-
र्गुणानुवादश्रवणादरादिभि: ॥ ५४ ॥

यशः श्रियाम् एव परिश्रमः परः वर्ण-आश्रम-आचार तपः श्रुत आदिषु अविस्मृतिः श्रीधर पाद-पद्मयोः गुण-अनुवाद श्रवण आदर आदिभिः

अविस्मृति: कृष्णपदारविन्दयो:
क्षिणोत्यभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्मभक्तिं
ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५५ ॥

अविस्मृतिः कृष्ण-पद-अरविन्दयोः क्षिणोति अभद्राणि च शम् तनोति सत्त्वस्य शुद्धिम् परम-आत्म भक्तिम् ज्ञानम् च विज्ञान विराग युक्तम्

यूयं द्विजाग्र्या बत भूरिभागा
यच्छश्वदात्मन्यखिलात्मभूतम् ।
नारायणं देवमदेवमीश-
मजस्रभावा भजताविवेश्य ॥ ५६ ॥

यूयम् द्विज-अग्र्याः बत भूरि-भागाः यत् शश्वत् आत्मनि अखिल आत्म-भूतम् नारायणम् देवम् अदेवम् ईशम् अजस्र भावाः भजत आविवेश्य

अहं च संस्मारित आत्मतत्त्वं
श्रुतं पुरा मे परमर्षिवक्त्रात् ।
प्रायोपवेशे नृपते: परीक्षित:
सदस्यृषीणां महतां च श‍ृण्वताम् ॥ ५७ ॥

अहम् च संस्मारितः आत्म-तत्त्वम् श्रुतम् पुरा मे परम-ऋषि वक्त्रात् प्राय-उपवेशे नृपतेः परीक्षितः सदसि ऋषीणाम् महताम् च शृण्वताम्

एतद्व: कथितं विप्रा: कथनीयोरुकर्मण: ।
माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५८ ॥

एतत् वः कथितम् विप्राः कथनीय उरु-कर्मणः माहात्म्यम् वासुदेवस्य सर्व-अशुभ विनाशनम्

य एतत् श्रावयेन्नित्यं यामक्षणमनन्यधी: ।
श्लोकमेकं तदर्धं वा पादं पादार्धमेव वा ।
श्रद्धावान् योऽनुश‍ृणुयात् पुनात्यात्मानमेव स: ॥ ५९ ॥

यः एतत् श्रावयेत् नित्यम् याम-क्षणम् अनन्य-धीः श्लोकम् एकम् तत्-अर्धम् वा पादम् पाद-अर्धम् एव वा श्रद्धा-वान् यः अनुशृणुयात् पुनाति आत्मानम् एव सः

द्वादश्यामेकादश्यां वा श‍ृण्वन्नायुष्यवान्भवेत् ।
पठत्यनश्न‍न् प्रयतस्पूतो भवति पातकात् ॥ ६० ॥

द्वादश्याम् एकादश्याम् वा शृण्वन् आयुष्य-वान् भवेत् पठति अनश्नन् प्रयतः पूतः भवति पातकात्

पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।
उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६१ ॥

पुष्करे मथुरायाम् च द्वारवत्याम् यत-आत्म-वान् उपोष्य संहिताम् एताम् पठित्वा मुच्यते भयात्

देवता मुनय: सिद्धा: पितरो मनवो नृपा: ।
यच्छन्ति कामान् गृणत: श‍ृण्वतो यस्य कीर्तनात् ॥ ६२ ॥

देवताः मुनयः सिद्धाः पितरः मनवः नृपाः यच्छन्ति कामान् गृणतः शृण्वतः यस्य कीर्तनात्

ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।
मधुकुल्या घृतकुल्या: पय:कुल्याश्च तत्फलम् ॥ ६३ ॥

ऋचः यजूंषि सामानि द्विजः अधीत्य अनुविन्दते मधु-कुल्याः घृत-कुल्याः पयः-कुल्याः च तत् फलम्

पुराणसंहितामेतामधीत्य प्रयतो द्विज: ।
प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६४ ॥

पुराण-संहिताम् एताम् अधीत्य प्रयतः द्विजः प्रोक्तम् भगवता यत् तु तत् पदम् परमम् व्रजेत्

विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् ।
वैश्यो निधिपतित्वं च शूद्र: शुध्येत पातकात् ॥ ६५ ॥

विप्रः अधीत्य आप्नुयात् प्रज्ञाम् राजन्य उदधि-मेखलाम् वैश्यः निधि पतित्वम् च शूद्रः शुध्येत पातकात्

कलिमलसंहतिकालनोऽखिलेशो
हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।
इह तु पुनर्भगवानशेषमूर्ति:
परिपठितोऽनुपदं कथाप्रसङ्गै: ॥ ६६ ॥

कलि मल-संहति कालनः अखिल-ईशः हरिः इतरत्र न गीयते हि अभीक्ष्णम् इह तु पुनः भगवान् अशेष-मूर्तिः परिपठितः अनु-पदम् कथा-प्रसङ्गैः

तमहमजमनन्तमात्मतत्त्वं
जगदुदयस्थितिसंयमात्मशक्तिम् ।
द्युपतिभिरजशक्रशङ्कराद्यै-
र्दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६७ ॥

तम् अहम् अजम् अनन्तम् आत्म-तत्त्वम् जगत् उदय स्थिति संयम आत्म-शक्तिम् द्यु-पतिभिः अज-शक्र-शङ्कर-आद्यैः दुरवसित स्तवम् अच्युतम् नतः अस्मि

उपचितनवशक्तिभि: स्व आत्म-
न्युपरचितस्थिरजङ्गमालयाय ।
भगवत उपलब्धिमात्रधाम्ने
सुरऋषभाय नम: सनातनाय ॥ ६८ ॥

उपचित नव-शक्तिभिः स्वे आत्मनि उपरचित स्थिर जङ्गम आलयाय भगवते उपलभ्धि-मात्र धाम्ने सुर ऋषभाय नमः सनातनाय

स्वसुखनिभृतचेतास्तद्वय‍ुदस्तान्यभावो-
ऽप्यजितरुचिरलीलाकृष्टसारस्तदीयम् ।
व्यतनुत कृपया यस्तत्त्वदीपं पुराणं
तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६९ ॥

स्व-सुख निभृत चेताः तत् व्युदस्त अन्य-भावः अपि अजित रुचिर लीला आकृष्ट सारः तदीयम् व्यतनुत कृपया यः तत्त्व-दीपम् पुराणम् तम् अखिल-वृजिन-घ्नम् व्यास-सूनुम् नतः अस्मि

१२.१३

सूत उवाच
यं ब्रह्मा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यै: स्तवै-
र्वेदै: साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगा: ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदु: सुरासुरगणा देवाय तस्मै नम: ॥ १ ॥

सूतः उवाच यम् ब्रह्मा वरुण-इन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैः वेदैः स अङ्ग पद-क्रम उपनिषदैः गायन्ति यम् साम-गाः ध्यान अवस्थित तत्-गतेन मनसा पश्यन्ति यम् योगिनः यस्य अन्तम् न विदुः सुर-असुर-गणाः देवाय तस्मै नमः

पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना-
न्निद्रालो: कमठाकृतेर्भगवत: श्वासानिला: पान्तु व: ।
यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां
यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ २ ॥

पृष्ठे भ्राम्यत् अमन्द मन्दर-गिरि ग्राव-अग्र कण्डूयनात् निद्रालोः कमठ-आकृतेः भगवतः श्वास अनिलाः पान्तु वः यत् संस्कार कला अनुवर्तन-वशात् वेला-निभेन अम्भसाम् यात-आयातम् अतन्द्रितम् जल-निधेः न अद्य अपि विश्राम्यति

पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने ।
दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥

पुराण सङ्ख्या सम्भूतिम् अस्य वाच्य प्रयोजने दानम् दानस्य माहात्म्यम् पाठ-आदेः च निबोधत

ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टि च ।
श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥ ४ ॥
दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।
मार्कण्डं नव वाह्नं च दशपञ्च चतु:शतम् ॥ ५ ॥
चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च ।
दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ ६ ॥
चतुर्विंशति वाराहमेकाशीतिसहस्रकम् ।
स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥
कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।
एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥
एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृत: ।
तत्राष्टदशसाहस्रं श्रीभागवतमिष्यते ॥ ९ ॥

ब्राह्मम् दश सहस्राणि पाद्मम् पञ्च-ऊन-षष्टि च श्री-वैष्णवम् त्रयः-विंशत् चतुः-विंशति शैवकम् दश-अष्टौ श्री-भागवतम् नारदम् पञ्च-विंशति मार्कण्डम् नव वाह्नम् च दश-पञ्च-चतुः-शतम् चतुः-दश भविष्यम् स्यात् तथा पञ्च-शतानि च दश-अष्टौ ब्रह्म-वैवर्तम् लैङ्गम् एकादश एव तु चतुः-विंशति वाराहम् एकाशीति-सहस्रकम् स्कान्दम् शतम् तथा च एकम् वामनम् दश कीर्तितम् कौर्मम् सप्त-दश आख्यातम् मात्स्यम् तत् तु चतुः-दश एक-ऊन-विंशत् सौपर्णम् ब्रह्माण्डम् द्वादश एव तु एवम् Pउराण चतुः-लक्षः उदाहृतः तत्र अष्ट-दश-साहस्रम् श्री-भागवतम् इष्यते

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।
स्थिताय भवभीताय कारुण्यात् सम्प्रकाशितम् ॥ १० ॥

इदम् भगवता पूर्वम् ब्रह्मणे नाभि-पङ्कजे स्थिताय भव भीताय कारुण्यात् सम्प्रकाशितम्

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।
हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् ॥ ११ ॥
सर्ववेदान्तसारं यद ब्रह्मात्मैकत्वलक्षणम् ।
वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥

आदि मध्य अवसानेषु वैराग्य आख्यान संयुतम् हरि-लीला कथा-व्रात अमृत आनन्दित सत्-सुरम् सर्व-वेदान्त सारम् यत् ब्रह्म आत्म-एकत्व लक्षणम् वस्तु अद्वितीयम् तत्-निष्ठम् कैवल्य एक प्रयोजनम्

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।
ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥

प्रौष्ठपद्याम् पौर्णमास्याम् हेम-सिंह समन्वितम् ददाति यः भागवतम् सः याति परमाम् गतिम्

राजन्ते तावदन्यानि पुराणानि सतां गणे ।
यावद्भ‍ागवतं नैव श्रूयतेऽमृतसागरम् ॥ १४ ॥

राजन्ते तावत् अन्यानि पुराणानि सताम् गणे यावत् भागवतम् न एव श्रूयते अमृत-सागरम्

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।
तद्रसामृततृप्तस्य नान्यत्र स्याद्रति: क्‍वचित् ॥ १५ ॥

सर्व-वेदान्त सारम् हि श्री-भागवतम् इष्यते तत् रस-अमृत तृप्तस्य न अन्यत्र स्यात् रतिः क्वचित्

निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।
वैष्णवानां यथा शम्भु: पुराणानामिदं तथा ॥ १६ ॥

निम्न-गानाम् यथा गङ्गा देवानाम् अच्युतः यथा वैष्णवानाम् यथा शम्भुः पुराणानाम् इदम् तथा

क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।
तथा पुराणव्रातानां श्रीमद्भ‍ागवतं द्विजा: ॥ १७ ॥

क्षेत्राणाम् च एव सर्वेषाम् यथा काशी हि अनुत्तमा तथा पुराण-व्रातानाम् श्रीमत्-भागवतम् द्विजाः

श्रीमद्भ‍ागवतं पुराणममलं यद्वैष्णवानां प्रियं
यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।
तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं
तच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमुच्येन्नर: ॥ १८ ॥

श्रीमत्-भागवतम् पुराणम् अमलम् यत् वैष्णवानाम् प्रियम् यस्मिन् पारमहंस्यम् एकम् अमलम् ज्ञानम् परम् गीयते तत्र ज्ञान-विराग-भक्ति-सहितम् नैष्कर्म्यम् आविष्कृतम् तत् शृण्वन् सु-पठन् विचारण-परः भक्त्या विमुच्येत् नरः

कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीप: पुरा
तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा ।
योगीन्द्राय तदात्मनाथ भगवद्राताय कारुण्यत-
स्तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥

कस्मै येन विभासितः अयम् अतुलः ज्ञान प्रदीपः पुरा तत्-रूपेण च नारदाय मुनये कृष्णाय तत्-रूपिणा योगि-इन्द्राय तत्-आत्मना अथ भगवत्-राताय कारुण्यतः तत् शुद्धम् विमलम् विशोकम् अमृतम् सत्यम् परम् धीमहि

नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।
य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥

नमः तस्मै भगवते वासुदेवाय साक्षिणे यः इदम् कृपया कस्मै व्याचचक्षे मुमुक्षवे

योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।
संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥

योगि-इन्द्राय नमः तस्मै शुकय ब्रह्म-रूपिणे संसार-सर्प दष्टम् यः विष्णु-रातम् अमूमुचत्

भवे भवे यथा भक्ति: पादयोस्तव जायते ।
तथा कुरुष्व देवेश नाथस्त्वं नो यत: प्रभो ॥ २२ ॥

भवे भवे यथा भक्तिः पादयोः तव जायते तथा कुरुष्व देव-ईश नाथः त्वम् नः यतः प्रभो

नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् ।
प्रणामो दु:खशमनस्तं नमामि हरिं परम् ॥ २३ ॥

नाम-सङ्कीर्तनम् यस्य सर्व-पाप प्रणाशनम् प्रणामः दुःख शमनः तम् नमामि हरिम् परम्