श्रीमद्भागवतमहापुराणम्

द्वादश: स्कन्ध:

प्रथम: अध्याय:


स्वधामानुगते कृष्णे यदुवंशविभूषणे ।
कस्य वंशोऽभवत् पृथ्व्यामेतदाचक्ष्व मे मुने ॥१॥


स्व-धाम-अनुगते कृष्णे to own realm having gone, Krishna,
राजा-उवाच - The King said -
यदु-वंश-विभूषणे of the Yadu clan the jewel,
कस्य वंश:-अभवत् पृथ्व्याम्- whose line came on the earth
एतत्-आचक्ष्व मे मुने this tell me, O Sage!

योऽन्त्य: पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप ।
तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् ॥२॥


श्री शुक-उवाच - Shree Shuka said -
य:-अन्त्य: पुरञ्जय: नाम he, who, the last to be, Puranjaya by name,
भाव्य: बार्हद्रथ: नृप will be, of the Brihadratha, O King!
तस्य-आमात्य:-तु शुनक: his minister, indeed, Shunaka,
हत्वा स्वामिनम्-आत्मजम् assassinating the master, own son,.

प्रद्योतसंज्ञं राजानं कर्ता यत् पालक: सुत: ।
विशाखयूपस्तत्पुत्रो भविता राजकस्तत: ॥३॥


प्रद्योत-संज्ञम् राजानम् कर्ता Pradyota named, king will make,
यत् पालक: सुत: whose Paalaka, the son,
विशाखयूप:-तत्-पुत्र: Vishaakhyupa, his son,
भविता राजक:-तत: will be Raajaka, (the son) then

नन्दिवर्धनस्तत्पुत्र: पञ्च प्रद्योतना इमे ।
अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपा: ॥४॥


नन्दिवर्धन:-तत्-पुत्र: Nandivardhana, his son,
पञ्च प्रद्योतना इमे the five Pradyotanas, these,
अष्ट-त्रिंश-उत्तर-शतम् eight, thirty, more hundred (138)
भोक्ष्यन्ति पृथिवीम् नृपा: will rule the earth, the kings

शिशुनागस्ततो भाव्य: काकवर्णस्तु तत्सुत: ।
क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥५॥


शिशुनाग:-तत: भाव्य: Shishunaaga after that will be,
काकवर्ण:-तु तत्-सुत: Kaakavarna, indeed, his son,
क्षेमधर्मा तस्य सुत: Kshemdharmaa, his son,
क्षेत्रज्ञ: क्षेमधर्म-ज: Kshetragya, will be Kshemdharmaa born of

विधिसार: सुतस्तस्याजातशत्रुर्भविष्यति ।
दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥६॥


विधिसार: सुत:-तस्य- Vidhisaara, the son, his,
अजातशत्रु:-भविष्यति Ajaatashatru will be,
दर्भक:-तत्-सुत: भावी Darbhaka, his son will be,
दर्भकस्य-अजय: स्मृत: of Darbhaka, Ajaya is known as

नन्दिवर्धन आजेयो महानन्दि: सुतस्तत: ।
शिशुनागा दशैवैते षष्टयुत्तरशतत्रयम् ॥७॥


नन्दिवर्धन आजेय: Nandivardhana of Ajaya
महानन्दि: सुत:-तत: Mahaanandi son of his,
शिशुनागा: दश-एव-एते the Shishunaagas ten only these,
षष्टि-उत्तर-शत-त्रयम् sixty more hundreds three (360)

समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपा: ।
महानन्दिसुतो राजन् शूद्रीगर्भोद्भवो बली ॥८॥


समा:-भोक्ष्यन्ति पृथिवीम् years, will rule the earth
कुरुश्रेष्ठ कलौ नृपा: O Foremost of the Kurus! In Kali, the kings
महानन्दि-सुत: राजन् Mahaanandi's son, O King!
शूद्री-गर्भ-उद्भव: बली of Shudra woman's womb born, the strong

महापद्मपति: कश्चिन्नन्द: क्षत्रविनाशकृत् ।
ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिका: ॥९॥


महापद्म-पति: कश्चित्- of Mahaapadma (riches), the owner, some
नन्द: क्षत्र-विनाश-कृत् Nanda, of the Kshatriyas ruin's cause,
तत: नृपा: भविष्यन्ति after that, the kings will be
शूद्र-प्राया:-तु-अधार्मिका: Shudras mostly, indeed, unvirtuous

स एकच्छत्रां पृथिवीमनुल्लङ्घितशासन: ।
शासिष्यति महापद्मो द्वितीय इव भार्गव: ॥१०॥


स: एकच्छत्राम् पृथिवीम्- he, under one sceptre, the earth
अनुल्लङ्घित-शासन: uninterrupted will be the ruler
शासिष्यति महापद्म: ruling, the Mahaapadma,
द्वितीय इव भार्गव: second like Bhrigu's son (Parashuraama)

तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखा: सुता: ।
य इमां भोक्ष्यन्ति महीं राजान: स्म शतं समा: ॥११॥


तस्य च-अष्टौ भविष्यन्ति his, and eight, will be
सुमाल्य-प्रमुखा: सुता: Sumaalya the eldest, sons
य: इमाम् भोक्ष्यन्ति महीम् who this will rule, the earth,
राजान: स्म शतम् समा: the kings, for hundred years

नव नन्दान् द्विज: कश्चित् प्रपन्नानुद्धरिष्यति ।
तेषामभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥१२॥


नव नन्दान् द्विज: कश्चित् the nine Nandas, a Braahmana, some,
प्रपन्नान्-उद्धरिष्यति the unagreeables, will uproot,
तेषाम्-अभावे जगतीम् in their absence, the earth
मौर्या: भोक्ष्यन्ति वै कलौ the Mauryas will rule indeed in Kaliyuga

स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।
तत्सुतो वारिसारस्तु ततश्चाशोकवर्धन: ॥१३॥


स: एव चन्द्रगुप्तम् वै he only, Chandragupta, indeed,
द्विज: राज्ये-अभिषेक्ष्यति Braahmana, on the throne will install,
तत्-सुत: वारिसार:-तु his son Vaarisaara, indeed,
तत:-च-अशोकवर्धन: from him and Ashokavardhana

सुयशा भविता तस्य सङ्गत: सुयश:सुत: ।
शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ॥१४॥


सुयशा भविता तस्य Suyashaa, will be his
सङ्गता सुयस: सुता: Sangataa of Suyasha, the sons,
शालिशूक:-तत:-तस्य Shaalishooka, then, his,
सोमशर्मा भविष्यति Somasharmaa will be

शतधन्वा ततस्तस्य भविता तद् वृहद्रथ: ।

मौर्या ह्येते दश नृपा: सप्तत्रिंशच्छतोत्तरम् ।
समा भोक्ष्यन्ति पृथिवीम् कलौ कुरुकुलोद्वह ॥१५॥


शतधन्वा तत:-तस्य Shatadhanvaa from him, his
भविता तद् वृहद्रथ: will be that Brihadratha
मौर्या: हि-एते दश नृपा: Mauryas indeed these, ten kings,
सप्त-त्रिंशत्-शत-उत्तरम् seven thirty hundred more (137)
समा भोक्ष्यन्ति पृथिवीम् years will rule the earth
कलौ कुरु-कुल-उद्वह in Kaliyuga, O of Kuru's line the jewel!

हत्वा वृहद्रथम् मौर्यं तस्य सेनापति: कलौ ।

पुष्यमित्रस्तु शुङ्गाह्व: स्वयम् राज्यम् करिष्यति ।
अग्निमित्रस्ततस्तस्मात् सुज्येष्ठोऽथ भविष्यति ॥१६॥


हत्वा वृहद्रथम् मौर्यम् assassinating Brihadratha, the Mauryas,
तस्य सेनापति: कलौ his army general, in Kaliyuga,
पुष्यमित्र:-तु शुङ्ग-अह्व: Pushyamitra, indeed, Shunga named,
स्वयम् राज्यम् करिष्यति himself will rule
अग्निमित्र:-तत:-तस्मात् Agnimitra will be then, from him,
सुज्येष्ठ:-अथ भविष्यति Sujyeshtha then will be

वसुमित्रो भद्रकश्च पुलिन्दो भविता तत: ।
ततो घोष: सुतस्तस्माद् वज्रमित्रो भविष्यति ॥१७॥


वसुमित्र: भद्रक:-च Vasumitra will be his son, then Bhadraka, and
पुलिन्द: भविता तत: Pulindaas, will be from him,
तत: घोष: सुत:-तस्मात् from him Ghosha son, from him
वज्रमित्र: भविष्यति Vajramitra will be

ततो भागवतस्तस्माद् देवभूतिरिति श्रुत: ।
शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ॥१८॥


तत: भागवत:-तस्मात् from him, Bhaagavata, from him
देवभूति:-इति श्रुत: Devabhooti, so, known,
शुङ्गा दश-एते भोक्ष्यन्ति Shungas, ten these will enjoy
भूमिम् वर्ष-शत-अधिकम् the earth, years hundreds more

तत: कण्वानियं भूमिर्यास्यत्यल्पगुणान् नृप ।
शुङ्गं हत्वा देवभूतिं कण्वोऽमात्यस्तु कामिनम् ॥१९॥


तत: कण्वान्-इयम् भूमि:- after that, to Kanvas this earth
यास्यति-अल्प-गुणान् नृप will go, the scanty merited, O King!
शुङ्गम् हत्वा देवभूतिम् Shunga, having killed, to Devabhooti,
कण्व:-अमात्य:-तु कामिनम् the Kanva minister, indeed, the lewd,

स्वयं करिष्यते राज्यं वसुदेवो महामति: ।

तस्य पुत्रस्तु भूमित्रस्तस्य नारायण: सुत: ।
नारायणस्य भविता सुशर्मा नाम विश्रुत: ॥२०॥


स्वयम् करिष्यते राज्यम् will himself rule the kingdom
वसुदेव: महामति: Vasudeva, the very clever
तस्य पुत्र:-तु भूमित्र:- his son, indeed Bhoomitra,
तस्य नारायण: सुत: his, Naaraayana, the son,
नारायणस्य भविता of Naaraayana will be
सुशर्मा नाम विश्रुत: Susharmaa named, well known

काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ।
शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥२१॥


काण्वायना: इमे भूमिम् the Kanvas, this earth
चत्वारिंशत्-च पञ्च च for forty and five and
शतानि त्रीणि भोक्ष्यन्ति hundreds three, will enjoy
वर्षाणाम् च कलौ युगे for years and in Kaliyuga

हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली ।
गां भोक्ष्यत्यन्ध्रजातीय: कञ्चित् कालमसत्तम: ॥२२॥


हत्वा काण्वम् सुशर्माणम् killing the Kanva Susharmaa,
तत्-भृत्य: वृषल: बली his servant, Vrishala, the mighty
गाम् भोक्ष्यति-अन्ध्र-जातीय: the earth will enjoy, of Andhra cast
कञ्चित् कालम्-असत्तम: some, for sometime, the wicked

कृष्णनामाथ तद्भ्राता भविता पृथिवीपति: ।
श्रीशान्तकर्णस्तत्पुत्र: पौर्णमासस्तु तत्सुत: ॥२३॥


कृष्ण-नाम-अथ तत्-भ्राता Krishna named, then, his brother
भविता पृथिवीपति: will be the earth's king,
श्रीशान्तकर्ण:-तत्-पुत्र: Shreeshaantakarna, his son,
पौर्णमास:-तु तत्-सुत: Poornamaasa indeed his son

लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृप: ।
मेघस्वानिश्चिबिलकादटमानस्तु तस्य च ॥२४॥


लम्बोदर:-तु तत्-पुत्र:- Lambodara, indeed his son,
तस्मात्-चिबिलक: नृप: from him Chibilaka, the king,
मेघस्वानि:-चिबिलकात्- Meghasvaani from Chibilaka
अटमान:-तु तस्य च Atamaana indeed his and

अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मज: ।
पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दन: ॥२५॥


अनिष्टकर्मा हालेय:- Anishtakarma, Haaleya,
तलक:-तस्य च-आत्मज: Talaka, his and son
पुरीषभीरु:-तत्-पुत्र:- Pureeshbheeru his son,
तत: राजा सुनन्दन: then the king Sunandana

चकोरो बहवो यत्र शिवस्वातिररिन्दम: ।
तस्यापि गोमतीपुत्र: पुरीमान् भविता तत: ॥२६॥


चकोर: बहव: यत्र Chakoras, the Bhavas where,
शिवस्वाति:-अरिन्दम: Shivaswati, the foe chastiser
तस्य-अपि गोमतीपुत्र: his also Gomatiputra,
पुरीमान् भविता तत: Purimaan will be from him

मेद:शिरा: शिवस्कन्दो यज्ञश्रीस्तत्सुतस्तत: ।
विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञ: सलोमधि: ॥२७॥


मेद:शिरा: शिवस्कन्द: Medashiraa, Shivaskanda,
यज्ञश्री:-तत्-सुत:-तत: Yagyashree, his son, from him
विजय:-तत्-सुत: भाव्य:- Vijaya, his sons will be
चन्द्रविज्ञ: सलोमधि: Chandravigya, Lomadhee

एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च ।
षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ॥२८॥


एते त्रिंशत्-नृपतय:- these, thirty kings
चत्वारि-अब्द-शतानि च four years hundreds and
षट्-पञ्चाशत्-च पृथिवीम् six fifty and the earth,
भोक्ष्यन्ति कुरुनन्दन will rule, O of Kurus the delight!

सप्ताभीरा आवभृत्या दश गर्दभिनो नृपा: ।
कङ्का षोडश भूपाला भविष्यन्त्यतिलोलुपा: ॥२९॥


सप्त-अभीरा: आवभृत्या seven Abhiras, of Avabhriti
दश गर्दभिन: नृपा: and ten Gardabhi kings
कङ्का: षोडश भूपाला: Kankas sixteen kings
भविष्यन्ति-अति-लोलुपा: will be very greedy

ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्कका: ।
भूयो दश गुरुण्डाश्च मौना एकादशैव तु ॥३०॥


तत:-अष्टौ यवना: भाव्या: then eight Yavanas will be,
चतुर्दश: तुरुष्कका: fourteen Turushkakas,
भूय: दश गुरुण्डा:-च again ten Gurundas and
मौना: एकादश-एव तु Maunas eleven only indeed

एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च ।
नवाधिकां च नवतिं मौना एकादश क्षितिम् ॥३१॥


एते भोक्ष्यन्ति पृथिवीम् these will rule the earth
दश-वर्ष-शतानि च ten years hundreds and
नव-अधिकाम् च नवतिम् nine more and ninety
मौना: एकादश क्षितिम् Maunas eleven the earth

भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तै: संस्थिते तत: ।
किलिकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरि: ॥३२॥


भोक्ष्यन्ति-अब्द-शताननि-अङ्ग will rule for years hundreds, O Dear Pareekshit!
त्रीणि तै: संस्थिते तत: three, they cease to be, then,
किलिकिलायाम् नृपतय: in Kilikilaa, the kings
भूतनन्द:-अथ वङ्गिरि: Bhootananda then Vangiri

शिशुनन्दिश्च तद्भ्राता यज्ञोनन्दि: प्रवीरका: ।
इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥३३॥


शिशुनन्दिन्-च तत्-भ्राता Shishunandin, and his brother,
यज्ञोनन्दि: प्रवीरका: Yagyonandi, Praveeraka,
इति-एते वै वर्ष-शतम् thus these, indeed for years hundred
भविष्यन्ति-अधिकानि षट् will be more six

तेषां त्रयोदश सुता भवितारश्च बाह्लिका: ।
पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥३४॥


तेषाम् त्रयोदश सुता: of them thirteen sons
भवितार:-च बाह्लिका: will be and Baahlikas,
पुष्पमित्रो:-अथ राजन्य: of Pushpamitra then the Kshatriya
दुर्मित्र:-अस्य तथा-एव च Durmitra his, also and

एककाला इमे भूपा: सप्तान्ध्रा: सप्त कोसला: ।
विदूरपतयो भाव्या निषधास्तत एव हि ॥३५॥


एक-काला: इमे भूपा: at one time, these kings
सप्त-आन्ध्रा: सप्त कोसला: seven of Aandhra, seven of Kosala,
विदूर-पतय: भाव्या: the Vidoora kings, will be
निषधा:-तत: एव हि of Nishadhaa from them only indeed

मागधानां तु भविता विश्वस्फूर्जि: पुरञ्जय: ।
करिष्यत्यपरो वर्णान् पुलिन्दयदुमद्रकान् ॥३६॥


मागधानाम् तु भविता of the Maagadhaas indeed will be
विश्वस्फूर्जि: पुरञ्जय: Vishvasphoorji, Punranjaya,
करिष्यति-अपर: वर्णान् will convert the higher casts
पुलिन्द-यदु-भद्रकान् into Pulinda, Yadu and Bhadrakas

प्रजाश्चाब्रह्मभूयिष्ठा: स्थापयिष्यति दुर्मति: ।

वीर्यवान् क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि ।
अनुगङ्गामाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥३७॥


प्रजा:-च-अब्रह्म-भूयिष्ठा: public and non-Braahmanas, mainly,
स्थापयिष्यति दुर्मति: will establish, the evil minded,
वीर्यवान् क्षत्रम्-उत्साद्य the mighty the Kshatriyas usurping,
पद्मवत्याम् स: वै पुरि in Padmaavati, he, indeed, the city,
अनुगङ्गाम्-आप्रयागम् along the Ganges, till Prayaaga,
गुप्ताम् भोक्ष्यति मेदिनीम् guarded, will rule the earth

सौरष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवा: ।
व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपा: ॥३८॥


सौरष्ट्र-अवन्त्य-अभीरा:-च of Sauraashtra, Avantis, Aabheeraas and
शूरा: अर्बुद-मालवा: Shooras, Arbudas and Maalavas,
व्रात्या: द्विजा भविष्यन्ति lowly the Braahmanas will become
शूद्र-प्राया: जनाधिपा: Shudras almost the kings

सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् ।
भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चस: ॥३९॥


सिन्धो:-तटम् चन्द्रभागाम् the Sindhu banks and of Chandrabhaagaa
कौन्तीम् काश्मीर-मण्डलम् Kaunti and the Kashmir territory
भोक्ष्यन्ति शूद्रा व्रात्याद्या will rule the Shudras, the fallen Braahmanas
म्लेच्छा:-च-अब्रह्म-वर्चस: Mlechchas and devoid of Vedic course

तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृत: ।
एतेऽधर्मानृतपरा: फल्गुदास्तीव्रमन्यव: ॥४०॥


तुल्य-काला: इमे राजन् of same time, these, O King!
म्लेच्छ-प्राया:-च भूभृत: Mlechchas almost, and the kings
एते-अधर्म-अनृत-परा: these, unrighteousness, falsehood inclined
फल्गुदा:-तीव्र-मन्यव: poor givers, and short tempered

स्त्रीबालगोद्विजघ्नाश्च परदारधनादृता: ।
उदितास्तमितप्राया अल्पसत्त्वाल्पकायुष: ॥४१॥


स्त्री-बाल-गो-द्विज-घ्ना:-च of women, children, cows, Braahmanas killers,
स्त्री-बाल-गो-द्विज-घ्ना:-च of women, children, cows, Braahmanas killers, and
पर-दार-धन-आदृता: others wives and wealth coveters
उदिता-अस्तमित-प्राया: now rising now setting like
अल्प-सत्त्व-अल्पक-आयुष: of little strength, and short lived

असंस्कृता: क्रियाहीना रजसा तमसाऽऽवृता: ।
प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिण: ॥४२॥


असंस्कृता: क्रिया-हीना: devoid of rites, righteous actions
रजसा तमसा-आवृता: by Rajas and Tamas covered,
प्रजा:-ते भक्षयिष्यन्ति the public, they, will suck
म्लेच्छा: राजन्य-रूपिण: the Mlechchas, in kings garbs

तन्नाथास्ते जनपदास्तच्छीलाचारवादिन: ।
अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिता: ॥४३॥


तत्-नाथा:-ते जनपदा:- their masters, those people
तत्-शील-आचार-वादिन: their behaviour, ways of life, and talks
अन्य-अन्यत: राजभि:-च by one another and from the kings
क्षयम् यास्यन्ति पीडिता: to ruin will go oppressed
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे प्रथम: अध्याय: ॥१॥ Thus ends the first discourse in Book Twelve of the great and glorious

द्वितीय: अध्याय:

श्री शुक उवाच - Shree Shuka said -

ततश्चानुदिनं धर्म: सत्यं शौचं क्षमा दया ।
कालेन बलिना राजन् नङ्क्ष्यत्यायुर्बलं स्मृति: ॥१॥


तत:-च-अनुदिनम् धर्म: then, and, day by day, righteousness,
सत्यम् शौचम् क्षमा दया truth, purity, forgiveness, compassion,
कालेन बलिना राजन् by Time the mighty, O King!
नङ्क्ष्यति-आयु:-बलम् स्मृति: will decline age, strength, memory

वित्तमेव कलौ नृणां जन्माचारगुणोदय: ।
धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥२॥


वित्तम्-एव कलौ नृणाम् wealth alone in Kali for the people
जन्म-आचार-गुण-उदय: of pedigree, morality, merit the measure
धर्म-न्याय-व्यवस्थायाम् of righteousness, and fairness, establishment
कारणम् बलम्-एव हि determining mighty only indeed (will be)

दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके ।
स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥३॥


दाम्पत्ये-अभिरुचि:-हेतु:- in marrying, liking (will be) the criteria
माया-एव व्यावहारिके wealth alone in business dealings,
स्त्रीत्वे पुंस्त्वे च हि रति:- in masculinity and felinity indeed sexuality
विप्रत्वे सूत्रम्-एव हि in being a Braahmana, thread alone indeed

लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम् ।
अवृत्या न्यायदौर्बल्यं पाण्डित्ये चापलं वच: ॥४॥


लिङ्गम्-एव-आश्रम-ख्यातौ- symbols only of Aashramas the deciding factors
अन्य:-अन्य-आपत्ति-कारणम् each others' objection will be the cause
अवृत्या न्याय-दौर्बल्यम् by not spending, justice will be weak
पाण्डित्ये चापलम् वच: in being scholarly clever talk will be

अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु ।
स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥५॥


अनाढ्यता-एव-असाधुत्वे wealthlessness alone impiousness
साधुत्वे दम्भ एव तु in being pious will be hypocrisy
स्वीकार एव च-उद्वाहे consent only and in marrying
स्नानम्-एव प्रसाधनम् as bathing will be considered make up

दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् ।
उदरम्भरता स्वार्थ: सत्यत्वे धार्ष्ट्यमेव हि ॥६॥


दूरे वारि-अयनम् तीर्थम् at a distance a water body will be holy,
लावण्यम् केश-धारणम् beauty will be wearing long hair,
उदरम्-भरता स्वार्थ: belly filling will be human pursuit,
सत्यत्वे धार्ष्ट्यम्-एव हि truthfulness will be in audacity only indeed

दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम् ।
एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ॥७॥


दाक्ष्यम् कुटुम्ब-भरणम् skill will be considered in feeding the family,
यश:-अर्थे धर्म-सेवनम् for fame righteousness will be practiced
एवम् प्रजाभि:-दुष्टाभि:- thus the public being wicked,
आकीर्णे क्षितिमण्डले spread on earth surface,

ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृप: ।
प्रजा हि लुब्धै: राजन्यैर्निर्घृणैर्दस्युधर्मभि: ॥८॥


ब्रह्म-विट्-क्षत्र-शूद्राणाम् Braahmanas, Vaishyas, Kshatriyas, Shudras, of,
य: बली भविता नृप: who is powerful will be king
प्रजा हि लुब्धै: राजन्यै:- public indeed, by greedy kings
निर्घृणै:-दस्यु-धर्मभि: merciless, robbers like attitude

आछिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ।
शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजना: ॥९॥


आछिन्न-दार-द्रविणा: robbed of wife and wealth,
यास्यन्ति गिरि-काननम् will go to mountains and forests,
शाक-मूल-आमिष-क्षौद्र- leaves roots, meat, honey,
फल-पुष्प-अष्टि-भोजना: flowers fruits seeds as food

अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिता: ।
शीतवातातपप्रावृढ्-हिमैरन्योन्यत: प्रजा: ॥१०॥


अनावृष्ट्या विनङ्क्ष्यन्ति by lack of rains, will perish,
दुर्भिक्ष-कर-पीडिता: by draught, by tax oppressed
शीत-वात-आतप-प्रावृड्-हिमै:- cold, storms, harsh sun, hail storms, snow fall
अन्योन्यत: प्रजा: mutual conflict the people

क्षुत्तृङ्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया।
त्रिंशद्विंशतिवर्षाणि परमायु: कलौ नृणाम् ॥११॥


क्षुत्-तृङ्भ्याम् व्याधिभि:-च-एव from hunger and thirst, disease and also
सन्तप्स्यन्ते च चिन्तया will suffer and by worrying
त्रिंश-द्विंशति-वर्षाणि thirty twenty years
परम्-आयु: कलौ नृणाम् at most, the age in Kaliyuga of men

क्षीयमाणेषु देहेषु देहिनां कलिदोषत: ।
वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥१२॥


क्षीयमाणेषु देहेषु on emaciation of the bodies
देहिनाम् कलि-दोषत: of the embodied, because of the evils of Kali,
वर्ण-आश्रमवताम् धर्मे in Varna, Aashramas, religion
नष्टे वेद-पथे नृणाम् being lost the Vedas course, of the people,

पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।
चौर्यानृतवृथाहिंसानानावृत्तिषु वै नृषु ॥१३॥


पाखण्ड-प्रचुरे धर्मे hearsay extensive in religion,
दस्यु-प्रायेषु राजसु thieves almost the kings,
चौर्य-अनृत-वृथा-हिंसा robbery, falsehood, purposeless violence,
नाना-वृत्तिषु वै नृषु in various livelihoods indeed of people,

शूद्रप्रायेषु वर्णेषुच्छागप्रायासु धेनुषु ।
गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥१४॥


शूद्र-प्रायेषु वर्णेषु Shudras almost the Varnas,
छाग-प्रायासु धेनुषु she goats almost the cows,
गृह-प्रायेषु-आश्रमेषु households almost the Aashramas,
यौन-प्रायेषु बन्धुषु sex almost friendship

अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।
विद्युतप्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥१५॥


अणु-प्रायासु-औषधीषु when small almost will be the herbs,
शमी-प्रायेषु स्थास्नुषु Shami like will be the trees,
विद्युत-प्रायेषु मेघेषु lightening almost will be the clouds,
शून्य-प्रायेषु सद्मसु desolate almost the dwellings

इत्थंकलौ गतप्राये जने तु खरधर्मिणि ।
धर्मत्राणाय सत्वेन भगवानवतरिष्यति ॥१६॥


इत्थम्-कलौ गत-प्राये in this manner, Kali having passed nearly,
जने तु खर-धर्मिणि people indeed donkey like appearing,
धर्म-त्राणाय सत्वेन to righteousness restore, by Sattva,
भगवान्-अवतरिष्यति The Lord will descend

चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मन: ।
धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥१७॥


चर-अचर-गुरो:-विष्णो:- of the mobile immobile preceptor, Vishnu,
ईश्वरस्य-अखिल-आत्मन: The Lord Ruler of entire Souls
धर्म-त्राणाय साधूनाम् righteousness to protect, of the pious
जन्म कर्म-अपनुत्तये the birth, Karmas to eradicate

शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मन: ।
भवने विष्णुयशस: कल्कि: प्रादुर्भविष्यति ॥१८॥


शम्भल-ग्राम-मुख्यस्य of Shambhala village, the chief
ब्राह्मणस्य महात्मन: Braahmana, the high souled,
भवने विष्णुयशस: in the house, of Vishnuyashas
कल्कि: प्रादुर्भविष्यति Kalki will appear

अश्वमाशुगमारुह्य देवदत्तं जगत्पति: ।
असिनासाधुदमनमष्टैश्वर्यगुणान्वित: ॥१९॥


अश्वम्-आशु-गम्-आरुह्य the horse of swift speed, mounted,
देवदत्तम् जगत्पति: Devadutta, The Lord,
असिना-असाधु-दमनम्- by sword, the wicked will subdue
अष्ट-ऐश्वर्य-गुण-अन्वितम् with eight divine powers wielding

विचरन्नाशुना क्षोण्यां हयेनाप्रतिमद्युति: ।
नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति ॥२०॥


विचरन्-आशुना क्षोण्याम् roaming, on the swift, the earth,
हयेन-अप्रतिम-द्युति: horse, of unmatched splendour,
नृप-लिङ्ग-छदी दस्यून् kings insignia flaunting robbers,
कोटिश: निहनिष्यति in thousands will kill

अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।

वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम् ।
पौरजानपदानां वै हतेष्वखिलदस्युषु ॥२१॥


अथ तेषाम् भविष्यन्ति then, theirs will become
मनांसि विशदानि वै minds pure, indeed,
वासुदेव-अङ्ग-राग-अति by, Vaasudeva's body's pigment, very
पुण्य-गन्ध-अनिल-स्पृशाम् divine fragrance air's touch
पौर-जानपदानाम् वै of the city's public, indeed,
हतेषु-अखिल-दस्युषु when are killed all the robbers

तेषां प्रजाविसर्गश्च स्थविष्ठ: सम्भविष्यति ।
वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥२२॥


तेषाम् प्रजा-विसर्ग:-च their progeny taking birth and
स्थविष्ठ: सम्भविष्यति strong will be
वासुदेवे भगवति for Vasudeva The Lord
सत्त्व-मूर्तौ हृदि स्थिते Satva's embodiment in heart established

यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरि: ।
कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी ॥२३॥


यदा-अवतीर्ण:-भगवान् when descends The Lord
कल्कि:-धर्म-पति:-हरि: Kalki, righteousness protector Shree Hari,
कृतम् भविष्यति तदा Krita yuga will be then,
प्रजा-सूति:-च सात्त्विकी public's progeny will be Saatvic

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।
एकराशौ समेष्यन्ति तदा भवति तत् कृतम् ॥२४॥


यदा चन्द्र:-च सूर्य:-च when the Moon and the Sun
तथा तिष्य-बृहस्पती and Jupiter, Pushya constellation,
एक-राशौ समेष्यन्ति in one zodiac house come together,
तदा भवति तत् कृतम् then it will be that Satyuga

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवा: ।
ते ते उद्देशत: प्रोक्ता वंशीया: सोमसूर्ययो: ॥२५॥


ये-अतीता वर्तमाना ये those past, present those
भविष्यन्ति च पार्थिवा: who will be and kings
ते ते उद्देशत: प्रोक्ता of them all in short are mentioned
वंशीया: सोम-सूर्ययो: of the dynasties of Lunar and Solar

आरभ्य भवतो जन्म यावन्नन्दभिषेचनम् ।
एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥२६॥


आरभ्य भवत: जन्म starting from your birth
यावत्-नन्द-अभिषेचनम् till Nanda's coronation,
एतद् वर्ष-सहस्रम् तु this, years thousand, indeed,
शतम् पञ्च-दश-उत्तरम् hundred, five, ten more

सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं दृश्यते यत् समं निशि ॥२७॥


सप्तर्षीणाम् तु यौ पूर्वौ of the Great Bear constellation, the first two
दृश्येते उदितौ दिवि are seen risen in the sky,
तयो:-तु मध्ये नक्षत्रम् in their middle the star
दृश्यते यत् समम् निशि is seen which, in midnight

तेनैत ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।
ते त्वदीये द्विजा: काले अधुना चाश्रिता मघा: ॥२८॥


तेन-एते ऋषय: युक्ता:- with them these Great Bear combined
तिष्ठन्ति-अब्द-शतम् नृणाम् remain for years hundred of the humans
ते त्वदीये द्विजा: काले they on your birth time
अधुना च-आश्रिता: मघा: and now present in Maghaa (constellation)

विष्णोर्भगवतो भानु: कृष्णाख्योऽसौ दिवं गत: ।
तदाविशत् कलिर्लोकं पापे यद् रमते जन: ॥२९॥


विष्णो:-भगवत: भानु: of Vishnu, The Lord, the descent
कृष्ण-आख्य:-असौ दिवम्-गत: Krishna named, this, to heaven ascended,
तदा-आविशत् कलि:-लोकम् then entered Kali in the world
पापे यत् रमते जन: in sin revel when the people

यावत् स पादपद्माभ्यां स्पृशन्नास्ते रमापति: ।
तावत् कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत् ॥३०॥


यावत् स: पाद-पद्माभ्याम् till, He, with feet lotuses
स्पृशन्-आस्ते रमापति: touching remained, The Lord of Laxmi,
तावत् कलि:-वै पृथिवीम् till then, Kali, indeed, the earth
पराक्रान्तुम् न च-अशकत् to prevail was not able

तदा देवर्षय: सप्त मघासु विचरन्ति हि ।
तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मक: ॥३१॥


यदा देव-ऋषय: सप्त when, the Great Bear
मघासु विचरन्ति हि in Maghaa enters, indeed,
तदा प्रवृत्त:-तु कलि:- then, starts indeed Kali
द्वादश-अब्द-शत-आत्मक: twelve years hundred constituting

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षय: ।
तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥३२॥


यदा मघाभ्यो यास्यन्ति when from Maghaa will go away
पूर्वाषाढाम् महर्षय: to Poorvaashadha the Great Bear,
तदा नन्दात् प्रभृति-एष: then, from Nanda and others, this
कलि:-वृद्धिम् गमिष्यति Kali ascendency will gain

यस्मिन् कृष्णो दिवम् यातस्तस्मिन्नेव तदाहनि ।
प्रतिपन्नं कलियुगमिति प्राहु: पुराविद: ॥३३॥


यस्मिन् कृष्ण: दिवम् यात:- in which Krishna to heaven went,
तस्मिन्-एव तदा-अहनि in that only, then, in that day
प्रतिपन्नम् कलि-युगम्- set in Kaliyuga
इति प्राहु: पुरा-विद: so said the ancient knowers

दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुन: कृतम् ।
भविष्यति यदा नृणां मन आत्मप्रकाशकम् ॥३४॥


दिव्य-अब्दानाम् सहस्र-अन्ते divine years thousand at the end
चतुर्थे तु पुन: कृतम् fourth indeed again Krita,
भविष्यति यदा नृणाम् will be when of the people
मन: आत्म-प्रकाशकम् minds, self revealing

इत्येष मानवो वंशो यथा संख्यायते भुवि ।
तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥३५॥


इति-एष: मानव: वंश: thus, this of Manu lineage
यथा संख्यायते भुवि just as is recorded on the earth,
तथा विट्-शूद्र-विप्राणाम् like that of Vaishyas, Shudras and Braahmanas,
ता:-ता: ज्ञेया: युगे युगे all those should be known in every yuga

एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् ।
कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥३६॥


एतेषाम् नाम-लिङ्गानाम् of these, names as their insignia
पुरुषाणाम् महात्मनाम् of the people, the great souls,
कथा-मात्र-अवशिष्टानाम् stories alone remaining
कीर्ति:-एव स्थिता भुवि glory only remains on the earth

देवापि: शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशज: ।
कलापग्राम आसाते महायोगबलान्वितौ ॥३७॥


देवापि: शान्तनो:-भ्राता Devaapi, Shantanoo's brother,
मरु:-च-इक्ष्वाकु-वंश-ज: Maru and in Ikshwaaku race born,
कलापग्राम आसाते in Kalaapagraama are present
महा-योग-बल-अन्वितौ great yogic powers possessed

ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ ।
वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यत: ॥३८॥


तौ-इह-एत्य कले:-अन्ते they here coming at Kali's end,
वासुदेव-अनुशिक्षितौ by Vaasudeva taught
वर्णा-आश्रम-युतम् धर्मम् Varna Aashrama inclusive righteousness
पूर्व-वत् प्रथयिष्यत: before like will establish

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥३९॥


कृतम् त्रेता द्वापरम् च Satyuga, Tretaa, Dwaapara and
कलि:-च-इति चतु:-युगम् Kali and so, this four yugas,
अनेन क्रम-योगेन in this course of sequence
भुवि प्राणिषु वर्तते on the earth among the people follows

राजन्नेते मया प्रोक्ता नरदेवास्तथापरे ।
भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गता: ॥४०॥


राजन्-एते मया प्रोक्ता: O King! These by me spoken of
नर-देवा:-तथा-अपरे the kings and the others,
भूमौ ममत्वम् कृत्वा-अन्ते on the earth possession established, in end
हित्वा-इमाम् निधनम् गता: abandoning it, death attained

कृमिविड्भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च ।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यत: ॥४१॥


कृमि-विड्-भस्म-संज्ञा-अन्ते worms, excrement, ashes, named in the end
राजन्-नाम्न:-अपि यस्य च the king named even whose and
भूत-ध्रुक् तत्-कृते of living beings tormentor, for that (body)
स्वार्थम् किम् वेद having been selfish, what knows
निरय: यत: of hell because

कथं सेयमखण्डा भू: पूर्वैर्मे पुरुषैर्धृता ।
मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥४२॥


कथम् सा-इयम्-अखण्डा भू: how that this entire earth
पूर्वै:-मे पुरुषै:-धृता formerly by my people ruled,
मत्-पुत्रस्य च पौत्रस्य of my son and grandson
मत्-पूर्वा वंशजस्य वा my after progeny or may be

तेजोऽबन्नमयं कायं गृहीत्वाऽऽत्मतयाबुधा: ।
महीं ममतया चोभौ हित्वान्तेऽदर्शनं गता: ॥४३॥


तेज:-अप्-अन्न-मयम् कायम् fire, water, food, consisting of, the body
गृहीत्वा-आत्मतया-अबुधा: holding on as the self, ignorant,
महीम् ममतया च-उभौ the earth's possession, and both
हित्वा-अन्ते-अदर्शनम् गता: quitting in the end, in oblivion go

ये ये भूपतयो राजन् भुञ्जन्ति भुवमोजसा ।
कालेन ते कृता: सर्वे कथामात्रा: कथासु च ॥४४॥


ये ये भूपतय: राजन् all those kings, O King!
भुञ्जन्ति भुवम्-ओजसा rule the earth with valour,
कालेन ते कृता: सर्वे in Time, they reduced all
कथा-मात्रा: कथासु च to stories alone, in the stories and
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वितीयो अध्याय: ॥२॥ Thus ends the second discourse in Book Twelve of the great and glorious

तृतीयोऽध्याय:

श्री शुक उवाच - Shree Shuka said -

दृष्ट्वाऽऽत्मनि जये व्यग्रान् नृपान् हसति भूरियम् ।
अहो मा विजिगीषन्ति मृत्यो: क्रीडनका नृपा: ॥१॥


दृष्ट्वा-आत्मनि जये व्यग्रान् seeing herself to win eager
नृपान् हसति भू:-इयम् the kings, laughs well earth this,
अहो मा विजिगीषन्ति 'O me to win eager
अहो मा विजिगीषन्ति
मृत्यो: क्रीडनका नृपा: of Death are play things the kings

काम एष नरेन्द्राणां मोघ: स्याद् विदुषामपि ।
येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपा: ॥२॥


काम: एष: नरेन्द्राणाम् desire this of the kings
मोघ: स्याद् विदुषाम्-अपि baseless proves to be, of the wise also,
येन फेन-उपमे पिण्डे by which froth like body
ये-अति-विश्रम्भिता: नृपा: who very much depend the kings

पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिण: ।
तत: सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥३॥


पूर्वम् निर्जित्य षड्-वर्गम् first, winning over the six enemies,
जेष्याम: राज-मन्त्रिण: will win the king's ministers,
तत: सचिव-पौर-आप्त then the councillors, of the city the dwellers,
करीन्द्रान्-अस्य कण्टकान् the elephants his the thorn like

एवं क्रमेण जेष्याम: पृथ्वीं सागरमेखलाम् ।
इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥४॥


एवम् क्रमेण जेष्याम: thus gradually will win
पृथ्वीम् सागर-मेखलाम् the earth with the ocean the girdle,
इति-आशा-बद्ध-हृदया: with this hope bound hearts,
न पश्यन्ति-अन्तिके-अन्तकम् do not see, close by, the end

समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा ।
कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥५॥


समुद्र-आवरणाम् जित्वा माम् ocean covered (land) winning me,
विशन्ति-अब्धिम्-ओजसा enter the ocean by valour,
कियत्-आत्म-जयस्य-एतत्- how little for the self control this,
मुक्ति:-आत्म-जये फलम् liberation is for self conquering, the fruit

यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह ।
गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धय: ॥६॥


याम् विसृज्य-एव मनव:- whom (me) giving up, the Manus,
तत्-सुता:-च कुरूद्वह his sons and, O Scion of the Kurus!
गता: यथा-आगतम् युद्धे have gone, as they came, in the battle,
ताम् माम् जेष्यन्ति-अबुद्धय: that me will conquer the stupid ones

मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रह: ।
जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥७॥


मत्-कृते-पितृ-पुत्राणाम् for my sake of father sons
भ्रातृणाम् च-अपि विग्रह: brothers and also discord
जायते हि-असताम् राज्ये arises, indeed of the evil, for kingdom
ममता-बद्ध-चेतसाम् possession inclined minds

ममैवेयं मही कृत्स्ना न ते मूढेति वादिन: ।
स्पर्धमाना मिथो ध्नन्ति म्रियन्ते मत्कृते नृपा: ॥८॥


मम-एव-इयम् मही कृत्स्ना my alone this earth whole,
न ते मूढ-इति वादिन: not yours the stupid, so saying,
स्पर्धमाना मिथ: ध्नन्ति contesting, mutually, kill
म्रियन्ते मत्-कृते नृपा: die, for my sake the kings

पृथु: पुरूरवा गाधिर्नहुषो भरतोऽर्जुन: ।
मान्धाता सगरो राम: खट्वाङ्गो धुन्धुहा रघु: ॥९॥


पृथु: पुरूरवा गाधि:- Prithu, Pururavaa, Gaadhi,
नहुष: भरत:-अर्जुन: Nahusha, Bharata, Arjuna,
मान्धाता सगर: राम: Maandhaataa, Sagara, Raama,
खट्वाङ्ग:-धुन्धुहा रघु: Khatwaanga, Dhundhuhaa, Raghu,

तृणबिन्दुर्ययातिश्च शर्याति: शन्तनुर्गय: ।
भगीरथ: कुवलयाश्व: ककुत्स्थो नैषधो नृग: ॥१०॥


तृणबिन्दु:-ययाति:-च Trinabindu, Yayaati and
शर्याति: शन्तनु:-गय: Sharyaatee, Shantanu, Gaya,
भगीरथ: कुवलया:-च Bhagiratha, Kuvalayaashva and
ककुस्थ: नैषध: नृग: Kakutstha, Naishadha, Nriga,…
ककुस्थ: नैषध: नृग: Kakutstha, Naishadha, Nriga,… Trinabindu, Yayaati and Sharyaati, Shantanu, Gaya, Bhagiratha,

हिरण्यकशिपुर्वृत्रो रावणो लोकरावण: ।
नमुचि: शम्बरो भौमो हिरण्याक्षोऽथ तारक: ॥११॥


हिरण्यकशिपु:-वृत्र: Hiranyakashipu, Vritra,
रावण: लोक-रावण: Raavana, the people tormentor,
नमुचि: शम्बर: भौम: Namuchi, Shambara, Bhauma,
हिरण्याक्ष:-अथ तारक: Hiranyaaksha, then, Taaraka,…
हिरण्याक्ष:-अथ तारक: Hiranyaaksha, then, Taaraka,… Hiranyakashipu, Vritra, Raavana, the people's tormentor, Namuchi,

अन्ये च बहवो दैत्या राजानो ये महेश्वरा: ।
सर्वे सर्वविद: शूरा: सर्वे सर्वजितोऽजिता: ॥१२॥


अन्ये च बहव: दैत्या: others and many demons,
राजान: ये महेश्वरा: kings, those suzerain rulers,
सर्वे सर्व-विद: शूरा: all, all knowers, valorous,
सर्वे सर्व-जित:-अजिता: all, all conquerors, invincible,…
सर्वे सर्व-जित:-अजिता: all, all conquerors, invincible,… These, and the other demons and kings, and all those suzerain rulers,

ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिण: ।
कथावशेषा: कालेन ह्यकृतार्था: कृता विभो ॥१३॥


ममताम् मयि-अवर्तन्त possessiveness in me placing,
कृत्वा-उच्चै:-मर्त्य-धर्मिण: living exalted, mortal by nature,
कथा-अवशेषा: कालेन stories merely remaining, by Time,
हि-अकृत-अर्था: कृता विभो indeed, unfulfilled objects, rendered, O Mighty
हि-अकृत-अर्था: कृता विभो indeed, unfulfilled objects, rendered, O Mighty One!

कथा इमास्ते कथिता महीयसां विताय लोकेषु यश: परेयुषाम् ।
विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥१४॥


कथा इमा:-ते कथिता stories, these, to you, are told,
महीयसाम् विताय लोकेषु of the great, spread in worlds,
यश: परेयुषाम् fame , of who have passed,
विज्ञान-वैराग्य-विवक्षया for the knowledge and dispassion to teach
विभो वचो-विभूती: O lord! Of speech is decoration,
न तु पारम्-आर्थ्यम् not indeed of the highest truth

यस्तूत्तमश्लोकगुणानुवाद: संगीयतेऽभीक्ष्णममङ्गलघ्न: ।
तमेव नित्यं शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समान: ॥१५॥


य:-तु-उत्तम-श्लोक- who ever, indeed of highly Renowned's
गुण-अनुवाद: संगीयते- virtues extols, sings of,
अभीक्ष्णम्-अमङ्गल-घ्न: constantly, evils destroyer
तम्-एव नित्यम् शृणुयात्- Him alone daily may listen to,
अभीक्ष्णम् कृष्णे-अमलाम् always in Krishna pure
भक्तिम्-अभीप्समान: devotion desiring
राजा-उवाच - The King said -

केनोपायेन भगवन् कलेर्दोषान् कलौ जना: ।
विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥१६॥


केन-उपायेन भगवन् by what method, O Lord!
कले:-दोषान् कलौ जना: of Kali the evils, in Kali the people,
विधमिष्यन्ति-उपचितान्- will destroy, the increasing,
तत्-मे ब्रूहि यथा मुने that to me do say, how, O Sage!

युगानि युगधर्मांश्च मानं प्रलयकल्पयो: ।
कालस्येश्वररूपस्य गतिं विष्णोर्महात्मन: ॥१७॥


युगानि युग-धर्मान्-च of the yugas, of the yugas' characteristics,
मानम् प्रलय-कल्पयो: duration of dissolution and creation
कालस्य-ईश्वर-रूपस्य of Time, of The Lord, a form,
गतिम् विष्णो:-महात्मन: potency of Vishnu, the great soul
श्री शुक-उवाच - Shree Shuka said -

कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत: ।
सत्यं दया तपो दानमिति पादा विभोर्नृप ॥१८॥


कृते प्रवर्तते धर्म:- in Satyuga, is founded righteousness
चतु:-पाद्-तत्-जनै:-धृत: on four legs, which are by people held,
सत्यम् दया तप: दानम्- truth, compassion, asceticism, charity,
इति पादा: विभो:-नृप thus the legs, (of integral virtue), O Ruler of men!

सन्तुष्टा: करुणा मैत्रा: शान्ता दान्तास्तितिक्षव: ।
आत्मारामा: समदृश: प्रायश: श्रमणा जना: ॥१९॥


सन्तुष्टा: करुणा: मैत्रा: contented, compassionate, friendly,
शान्ता: दान्ता:-तितिक्षव: peaceful, self-controlled, forbearing,
आत्मारामा: समदृश: revel in the self, look upon with equal eye,
प्रायश: श्रमणा जना: generally, involved in practice, the people

त्रेतायां धर्मपादानां तुर्यांशो हीयते शनै: ।
अधर्मपादैरनृतहिंसासन्तोषविग्रहै: ॥२०॥


त्रेतायाम् धर्म-पादानाम्- in Tretaa, of the righteousness legs,
तुर्य-अंश: हीयते शनै: fourth part wasted gradually,
अधर्म-पादै:-अनृत-हिंसा- by falsehood legs, falsehood, violence,
असन्तोष-विग्रहै: discontent, discord

तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटा: ।
त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥२१॥


तदा क्रिया-तप:-निष्ठा then, rituals and austerities believe in
न-अति-हिंस्रा: न लम्पटा: not very violent, not deceitful,
त्रैवर्गिका:-त्रयी-वृद्धा the three objectives pursue, in Vedas are apt
वर्णा: ब्रह्म-उत्तरा: नृप in the Varnas, Braahmanas are superior, O King!

तप: सत्यदयादानेष्वर्धं ह्रसति द्वापरे ।
हिंसातुष्ट्यनृतद्वेषैर्धर्मस्याधर्मलक्षणै: ॥२२॥


तप: सत्य-दया-दानेषु- of austerities, Truth, compassion, charity,
अर्धम् ह्रसति द्वापरे one half is destroyed in Dwaapara,
हिंसा-अतुष्टि-अनृत-द्वेषै:- by violence, discontent, falsehood, discord,
धर्मस्य-अधर्म-लक्षणै: of righteousness, of non-virtue, the signs

यशस्विनो महाशाला: स्वाध्यायाध्ययने रता: ।
आढ्या: कुटुम्बिनो हृष्टा वर्णा: क्षत्रद्विजोत्तरा: ॥२३॥


यशस्विन: महा-शाला: given to glory, and great sacrifices,
स्वाध्याय-अध्ययने रता: self-study and learning engaged in,
आढ्या: कुटुम्बिन: हृष्टा: well-to-do, family people, strong,
वर्णा: क्षत्र-द्विज-उत्तरा: of Varnas', Kshatriyas, Braahmanas, the best

कलौ तु धर्महेतूनां तूर्यांशोऽधर्महेतुभि: ।
एधमानै: क्षीयमाणो ह्यन्ते सोऽपि विनङ्क्ष्यति ॥२४॥


कलौ तु धर्म-हेतूनाम् in Kali, indeed, of the Righteousness the causes,
तूर्य-अंश:-अधर्म-हेतुभि: four parts of virtue-less-ness the causes
एधमानै: क्षीयमाण: having increased, being destroyed,
हि-अन्ते स:-अपि विनङ्क्ष्यति indeed, in the end, that also is destroyed

तस्मिँल्लुब्धा दुराचारा निर्दया: शुष्कवैरिण: ।
दुर्भगा भूरितर्षाश्च शूद्रदाशोत्तरा: प्रजा: ॥२५॥


तस्मिन्-लुब्धा: दुराचारा: in that, (time) greedy, immoral,
निर्दया: शुष्क-वैरिण: merciless, need-lessly hostile,
दुर्भगा: भूरि-तर्षा:-च unfortunate, with great covetedness,
शूद्र-दाश-उत्तरा: प्रजा: Shudras, fisherman the leading people

सत्वं रजस्तम इति दृश्यन्ते पुरुषे गुणा: ।
कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥२६॥


सत्वम् रज:-तम: इति Sattva, Rajas and Tamas these,
दृश्यन्ते पुरुषे गुणा: are seen in men the Gunas,
काल-सञ्चोदिता:-ते वै by Time prompted they, indeed,
परिवर्तन्त आत्मनि keep changing in the self

प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याज्ज्ञाने तपसि यद् रुचि: ॥२७॥


प्रभवन्ति यदा सत्त्वे established when in Sattva,
मन:-बुद्धि-इन्द्रियाणि च the mind, intellect and senses
तदा कृत-युगम् विद्यात्- then, Krita yuga, know,
ज्ञाने तपसि यत् रुचि: in knowledge, austerities, in that, interest

यदा धर्मार्थकामेषु भक्तिर्भवति देहिनाम् ।
तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् ॥२८॥


यदा धर्म-अर्थ-कामेषु when in righteousness, wealth, and pleasure
भक्ति:-भवति देहिनाम् inclination is present, in the embodied
तदा त्रेता रजो:-वृत्ति- then, Treta, of Rajas active,
इति जानीहि बुद्धिमन् this, know, O Intelligent One!

यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सर: ।
कर्मणां चापि काम्यानां द्वापरं तद् रजस्तम: ॥२९॥


यदा लोभ:-तु-असन्तोष: when, greed, and non-contentment,
मान: दम्भ:-अथ मत्सर: pride, hypocrisy, then jealousy
कर्मणाम् च-अपि काम्यानाम् of deeds, and also desired,
द्वापरम् तत् रज:-तम: Dwaapara, that, of Rajas Tamas

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।
शोको मोहो भयं दैन्यं स कलिस्तामस: स्मृत: ॥३०॥


यदा माया-अनृतम् तन्द्रा when, duplicity, falsehood, drowsiness,
निद्रा हिंसा विषादनम् excessive sleep, violence, grief
शोक: मोह: भयम् दैन्यम् lamenting, infatuation, fear, helplessness,
स: कलि:-तामस: स्मृत: that Kali, of Tamas is known

यस्मात् क्षुद्रदृशो मर्त्या: क्षुद्रभाग्या महाशना: ।
कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसती: ॥३१॥


यस्मात् क्षुद्र-दृश: मर्त्या: because of which, short sighted are mortals,
क्षुद्र-भाग्या: महा-अशना: with little luck, much eaters,
कामिन: वित्त-हीना:-च desiring, wealth-less, and
स्वैरिण्य:-च स्त्रिय:-असती: free willed, and women unchaste

दस्यूत्कृष्टा जनपदा वेदा: पाखण्डदूषिता: ।
राजानश्च प्रजाभक्षा: शिश्नोदरपरा द्विजा: ॥३२॥


दस्यु-उत्कृष्टा: जन-पदा: robbers abound in the cities,
वेदा: पाखण्ड-दूषिता: Vedas are by heretics rendered impure,
राजान:-च प्रजा-भक्षा: the kings and are public exploiters,
शिश्नोदर-परा द्विजा: sexual urge and hunger satisfiers are Braahmanas

अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिन: ।
तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपा: ॥३३॥


अव्रता: वटव:-अशौचा: non-keepers of vows, students, impure,
भिक्षव:-च कुटुम्बिन: beggars and householders,
तपस्विन: ग्राम-वासा ascetics in villages will live,
न्यासिन:-अति-अर्थ-लोलुपा: recluses will be very wealth greedy

ह्रस्वकाया महाहारा भूर्यपत्या गतह्रिय: ।
शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसा: ॥३४॥


ह्रस्व-काया: महा-आहारा: small bodied, voracious,
भूरि-अपत्या: गत-ह्रिय: having many children, without shame,
शश्वत्-कटुक-भाषिण्य: always harsh spoken
शौर्य-माया-उरु-साहसा: courageous, given to wiles and dare devils

पणयिष्यन्ति वै क्षुद्रा: किराटा: कूटकारिण: ।
अनापद्यपि मंस्यन्ते वार्तां साधूजुगुप्सिताम् ॥३५॥


पणयिष्यन्ति वै क्षुद्रा: will trade, indeed, low minded
किराटा: कूट-कारिण: of low casts, fraud transactions
अनापदि-अपि मंस्यन्ते not in distress, also, will consider
वार्ताम् साधू-जुगुप्सिताम् pursuits by the noble condemned

पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् ।
भृत्यं विपन्नं पतय: कौलं गाश्चापयस्विनी: ॥३६॥


पतिम् त्यक्ष्यन्ति निर्द्रव्यम् masters will leave the money less
भृत्या: अपि-अखिल-उत्तमम् the servants, even if most superior
भृत्यम् विपन्नम् पतय: the servants in trouble, the masters
कौलम् गा:-च-अपयस्विनी: the hereditary, cow and without milk

पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदा: ।
ननान्दृश्यालसंवादा दीना: स्त्रैणा: कलौ नरा: ॥३७॥


पितृ-भ्रातृ-सुह्त्-ज्ञातीन् father, brother, friends, kinsmen,
हित्वा सौरत-सौहृदा: neglecting, for sexual satisfaction making friends,
ननान्दृ-श्याल-संवादा: sister-in-laws, brother in-laws consulting,
दीना: स्त्रैणा: कलौ नरा: miserable, womanizers, of Kaliyuga the men

शूद्रा: प्रतिग्रहीष्यन्ति तपोवेषोपजीविन: ।
धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥३८॥


शूद्रा: प्रतिग्रहीष्यन्ति Shudras will accept gifts
तप:-वेष-उपजीविन: hermits posing as, making a living
धर्मम् वक्ष्यन्ति-अधर्मज्ञा righteousness will preach non-knowers of virtues
अधिरुह्य-उत्तम-आसनम् ascending the exalted seats

नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिता: ।
निरन्ने भूतले राजन्ननावृष्टिभयातुरा: ॥३९॥


नित्यम्-उद्विग्न-मनस: always worried minded,
दुर्भिक्ष-कर-कर्शिता: by famine and taxes oppressed,
निरन्ने भूतले राजन्- devoid of grain on the earth surface, O King!
अनावृष्टि-भय-आतुरा: by draught fear stressed

वासोऽन्नपानशयनव्यवायस्नानभूषणै: ।
हीना: पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजा: ॥४०॥


वास:-अन्न-पान-शयन- clothes, food, drinks, bed,
व्यवाय-स्नान-भूषणै: sexual enjoyment, bath, ornaments,
हीना: पिशाच-सन्दर्शा: without, fiend like
भविष्यन्ति कलौ प्रजा: will be in Kaliyuga the people

कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदा: ।
त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥४१॥


कलौ-काकिणिके-अपि-अर्थे in Kali, for pennies even sake
विगृह्य त्यक्त-सौहृदा: quarrelling, giving up good will,
त्यक्ष्यन्ति च प्रियान् प्राणान् will abandon dear ones, and life
हनिष्यन्ति स्वकान्-अपि killing will take own even

न रक्षिष्यन्ति मनुजा: स्थविरौ पितरावपि ।
पुत्रान् सर्वार्थकुशलान् क्षुद्रा: शिश्नोदरम्भरा: ॥४२॥


न रक्षिष्यन्ति मनुजा: will not maintain people,
स्थविरौ पितरौ-अपि aged parents even
पुत्रान् सर्व-अर्थ-कुशलान् sons in all matters clever
क्षुद्रा: शिश्नोदरम्-भरा: petty sexual and hunger urge satisfying

कलौ न राजञ्जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् ।
प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाखण्डविभिन्नचेतस: ॥४३॥


कलौ न राजन्- in Kaliyuga, do not, O King!
जगताम् परम् गुरुम् त्रिलोक-नाथ- worlds' supreme preceptor, three world's
आनत-पाद-पङ्कजम् bowed at the feet lotus
प्रायेण मर्त्या generally mortals
भगवन्तम्-अच्युतम् यक्ष्यन्ति The Lord Invincible worship,
पाखण्ड-विभिन्न-चेतस: by heretics perverted minded

यन्नामधेयं म्रियमाण आतुर: पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जना: ॥४४॥


यत्-नामधेयम् म्रियमाण आतुर: Whose name, when dying, afflicted,
पतन् स्खलन् वा falling, stumbling, or
विवश: गृणन् पुमान् helplessly uttering, a person
विमुक्त-कर्म-अर्गल freed of Karma's chains
उत्तमाम् गतिम् प्राप्नोति the supreme state attains
यक्ष्यन्ति न तम् कलौ जना: worship not Him in Kaliyuga, the people

पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् ।
सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तम: ॥४५॥


पुंसाम् कलि-कृतान् दोषान् of the people, by Kali caused evils
द्रव्य-देश-आत्म-सम्भवान् from things, place or mind arising,
सर्वान् हरति चित्त-स्थ: all steals away in the mind enthroned
भगवान् पुरुषोत्तम: The Lord, The Person Supreme

श्रुत: सङ्कीर्तितो ध्यात: पूजितश्चादृतोऽपि वा ।
नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥४६॥


श्रुत: सङ्कीर्तित: ध्यात: heard of, glorified, meditated upon,
पूजित:-च-आदृत:-अपि वा worshipped and honoured even or,
नृणाम् धुनोति भगवान् of the people beats away, The Lord
हृद्-स्थ: जन्म-अयुत-अशुभम् in the heart present, births ten thousand sins

यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् ।
एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥४७॥


यथा हेम्नि स्थित: वह्नि:- as, in gold, dwelling, fire,
दुर्वर्णम् हन्ति धातुजम् impurities, destroys of metals caused,
एवम्-आत्म-गत: विष्णु:- so, in the minds present Lord Vishnu
योगिनाम्-अशुभ-आशयम् of the yogis the evil Karmas

विद्यातप:प्राणनिरोधमैत्रीतीर्थाभिषेकव्रतदानजप्यै: ।
नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥४८॥


विद्या-तप:-प्राण-निरोध- by learning, asceticism, breath control,
मैत्री-तीर्थ-अभिषेक- friendliness, pilgrimage bathing,
व्रत-दान-जप्यै: austerities, charity, chanting,
न-अत्यन्त-शुद्धिम् लभते- do not very much purity bring,
अन्तरात्मा यथा to the internal mind, as
हृदि-स्थे भगवति-अनन्ते in the mind enthroned The Lord Infinite

तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥४९॥


तस्मात् सर्वात्मना राजन् therefore, with all your heart, O King!
हृदि-स्थम् कुरु केशवम् in the heart install Lord Keshava,
म्रियमाण: हि-अवहित:- about to die, indeed, with concentration,
तत: यासि पराम् गतिम् then will attain the supreme goal

म्रियमाणैरभिध्येयो भगवान् परमेश्वर: ।
आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रय: ॥५०॥


म्रियमाणै:-अभिध्येय: by those about to die, should be meditated upon
भगवान् परमेश्वर: The Lord, The Supreme Ruler,
आत्म-भावम् नयति-अङ्ग to Self form will take, O Dear Pareekshit!
सर्व-आत्मा सर्व-संश्रय: of all The Soul, of all The Shelter

कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण: ।
कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् ॥५१॥


कले:-दोष-निधे: राजन्- of Kali, of evils the store, O King!
अस्ति हि-एक: महान् गुण: is one only great quality
कीर्तनात्-एव कृष्णस्य by chanting only Krishna's (names)
मुक्त-सङ्ग: परम् व्रजेत् freed of association, the Supreme achieves

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखै: ।
द्वापरे परिचर्यायां कलौ तत्-हरिकीर्तनात् ॥५२॥


कृते यत् ध्यायत: विष्णुम् in Krita, that (which), by contemplating on Vishnu,
त्रेतायाम् यजत: मखै: in Tretaa, by performing sacrifices,
द्वापरे परिचर्यायाम् in Dwaapara, by worshipping, (is achieved)
कलौ तत्-हरि-कीर्तनात् in Kali, that (is achieved) by Hari's chantings
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे तृतीय: अध्याय: ॥३॥ Thus ends the third discourse in Book Twelve of the great and glorious
श्रीमद्भागवत् महापुराणम्

चतुर्थ: अध्याय:

श्री शुक उवाच - Shree Shuka said -

कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप ।
कथितो युगमानं च शृणु कल्पलयावपि ॥१॥


काल:-ते परमाणु-आदि Time, to you, from scratch the beginning,
द्वि-परार्ध-अवधि:-नृप to two Paraardha period, O King!
कथित: युग-मानम् च is told about, of the Yugas the duration and,
शृणु कल्प-लयौ-अपि hear of the creation and dissolution also

चतुर्युगसहस्रं च ब्रह्मणो दिनमुच्यते ।
स कल्पो यत्र मनवश्चतुर्दश विशाम्पते ॥२॥


चतु:-युग-सहस्रम् च of the four yugas, one thousand and
ब्रह्मण: दिनम्-उच्यते of Brahmaa's day is called
स: कल्प: यत्र मनव:- that is Kalpa, where the Manus
चतुर्दश विशाम्पते fourteen are there, O King!

तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता ।
त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥३॥


तत्-अन्ते प्रलय:-तावान् at its end, Dissolution, of that many,
ब्राह्मी रात्रि:-उदाहृता Brahmaa's night is stated
त्रय: लोका: इमे तत्र the three worlds these, in that
कल्पन्ते प्रलयाय हि are merged in Dissolution only

एष नैमित्तिक: प्रोक्त: प्रलयो यत्र विश्वसृक् ।
शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभू: ॥४॥


एष: नैमित्तिक: प्रोक्त: this, Naimittika is called
प्रलय: यत्र विश्वसृक् Pralaya, where, The World's Creator
शेते-अनन्त-आसन: विश्वम्- sleeps on Ananta's bed, the world
आत्मसात्-कृत्य च-आत्मभू: in Self contained, and the self-born, (Brahmaa)

द्विपरार्धे त्वतिक्रान्ते ब्रह्मण: परमेष्ठिन: ।
तदा प्रकृतय: सप्त कल्पन्ते प्रलयाय वै ॥५॥


द्विपरार्धे तु-अतिक्रान्ते two Paraardhaas having passed,
ब्रह्मण: परमेष्ठिन: of Brahmaa, The Supreme Jiva,
तदा प्रकृतय: सप्त then, the Prakriti seven,
कल्पन्ते-प्रलयाय वै gather for Pralaya indeed

एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।
आण्डकोशस्तु सङ्घातो विघात उपसादिते ॥६॥


एष: प्राकृतिक: राजन् this, is Praakritika, O King!
प्रलय: यत्र लीयते Pralaya, where is dissolved
आण्ड-कोश:-तु the cosmic egg even,
सङ्घात: विघात: उपसादिते by the five elements dissolution, the cause
सङ्घात: विघात: उपसादिते by the five elements dissolution, the cause presented

पर्जन्य: शतवर्षाणि भूमौ राजन् न वर्षति ।
तदा निरन्ने ह्यन्योन्यं भक्षमाणा: क्षुधार्दिता: ॥७॥


पर्जन्य: शत-वर्षाणि rains for hundred years
भूमौ राजन् न वर्षति on earth, O King! Do not rain
तदा नि:-अन्ने हि-अन्य:-अन्यम् then, without grains, indeed, one-another
भक्षमाणा: क्षुधा-अर्दिता: eating, hunger tormented

क्षयं यास्यन्ति शनकै: कालेनोपद्रुता: प्रजा: ।
सामुद्रं दैहिकं भौमं रसं सांवर्तको रवि: ॥८॥


क्षयम् यास्यन्ति शनकै: to destruction proceed gradually
कालेन-उपद्रुता: प्रजा: by Time persecuted, the people,
सामुद्रम् दैहिकम् भौमम् of the ocean, the living bodies, and earth,
रसम् सांवर्तक: रवि: waters (suck) the dissolution's Sun

रश्मिभि: पिबते घोरै: सर्वं नैव विमुञ्चति ।
तत: संवर्तको वह्नि: सङ्कर्षणमुखोत्थित: ॥९॥


रश्मिभि: पिबते घोरै: by the rays sucked fierce,
सर्वम् न-एव विमुञ्चति all, does not even release
तत: संवर्तक: वह्नि: then, the dissolution fire,
सङ्कर्षण-मुख-उत्थित: from Sankarshana's mouth sprung

दहत्यनिलवेगोत्थ: शून्यान् भूविवरानथ ।
उपर्यध: समन्ताच्च शिखाभिर्वह्निसूर्ययो: ॥१०॥


दहति-अनिल-वेग-उत्थ: burns, by air blowing, aroused
शून्यान् भूविवरान्-अथ the desolate earth spots, then,
उपर्यध: समन्तात्-च up and down, and all around,
शिखाभि:-वह्नि-सूर्ययो: by the flames of fire and Sun

दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ।
तत: प्रचण्डपवनो वर्षाणामधिकं शतम् ॥११॥


दह्यमानम् विभाति-अण्डम् when burning, looks like the (cosmic) egg
दग्ध-गोमय-पिण्ड-वत् burning cow dung ball like
तत: प्रचण्ड-पवन: then fierce wind (blows)
वर्षाणाम्-अधिकम् शतम् for years more than a hundred

पर: सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम् ।
ततो मेघकुलान्यङ्ग चित्रवर्णान्यनेकश: ॥१२॥


पर: सांवर्तक: वाति then, strong dissolution, blows
धूम्रम् खम् रजसा-आवृतम् smoke the sky by dust covered,
तत: मेघ-कुलानि-अङ्ग then clusters of clouds, O Dear!
चित्र-वर्णानि-अनेकश: of various colours many

शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनै: ।
तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥१३॥


शतम् वर्षाणि वर्षन्ति for a hundred years rain
नदन्ति रभस-स्वनै: resound with loud sounds
तत: एक-उदकम् विश्वम् then in one sheet of water, the world
ब्रह्म-अण्ड-विवर-अन्तरम् the cosmic egg, in its hollow (covers)

तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे ।
ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥१४॥


तदा भूमे:-गन्ध-गुणम् then, of the earth, smell property
ग्रसन्ति-आप: उदप्लवे will devour the waters, of dissolution,
ग्रस्त-गन्धा तु पृथिवी devoid of smell, indeed, the earth
प्रलयत्वाय कल्पते for dissolution is ready

अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसा: ।
ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥१५॥


अपाम् रसम्-अथ: तेज:- of the waters, taste, then, fire,
ता: लीयन्ते-अथ नीरसा: they become then tasteless,
ग्रसते तेजस: रूपम् devours fires form
वायु:-तत्-रहितम् तदा the wind, without that then

लीयते चानिले तेजो वायो: खं ग्रसते गुणम् ।
स वै विशति खं राजंस्ततश्च नभसो गुणम् ॥१६॥


लीयते च-अनिले तेज: merges with wind, fire,
वायो: खम् ग्रसते गुणम् of wind devours the sky, the property (touch)
स: वै विशति खम् राजन्- that, indeed, enters into sky, O King!
तत:-च नभस: गुणम् then and of sky the property

शब्दं ग्रसति भूतादिर्नभस्तमनुलीयते ।
तैजसश्चेन्द्रियाण्यङ्ग देवान् वैकारिको गुणै: ॥१७॥


शब्दम् ग्रसति भूतादि:- sound is devoured by Bhootas (Tamasic Ahankaara)
नभ:-तम्-अनुलीयते sky in that is dissolved,
तैजस:-च-इन्द्रियाणि-अङ्ग by Taijasa and the Indriyas, O Dear!
देवान् वैकारिक: गुणै: the gods of Indriyas by Saattvik Ahankaara

महान् ग्रसत्यहङ्कारं गुणा: सत्वादयश्च तम् ।
ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥१८॥


महान् ग्रसति-अहङ्कारम् Mahat-tatva devours the Ahankaara,
गुणा: सत्-आदय:-च तम् the Gunas, Sattva and others, and that,
ग्रसते-अव्याकृतम् राजन् devours, unmanifest Prakriti, O King!
गुणान् कालेन चोदितम् the Gunas, by Time prompted

न तस्य कालावयवै: परिणामादयो गुणा: ।
अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥१९॥


न तस्य काल-अवयवै: not its (Prakriti's), by Time's divisions,
परिणाम-आदय: गुणा: modifications and other qualities,
अनादि-अनन्तम्-अव्यक्तम् beginning-less, end-less, unmanifest,
नित्यम् कारणम्-अव्ययम् constant, the Cause non decaying

न यत्र वाचो न मनो न सत्वं तमो रजो वा महदादयोऽमी ।
न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेश: खलु लोककल्प: ॥२०॥


न यत्र वाच: न मन: not where speech, not mind,
न सत्वम् तम: रज: वा not Sattva, Tamas, Rajas or,
महत्-आदय:-अमी Mahaa-tatva, and others,
न प्राण-बुद्धि-इन्द्रिय- not breath, intellect, senses,
देवता वा न सन्निवेश: the gods, or, are not present,
खलु लोक-कल्प: indeed, lokas' locations

न स्वप्नजाग्रन्न च तत् सुषुप्तं न खं जलं भूरनिलोऽग्निरर्क: ।
संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति ॥२१॥


न स्वप्न-जाग्रत्- no dream, waking,
न च तत् सुषुप्तम् न खम् not and the deep sleep, not sky,
जलम् भू:-अनिल:-अग्नि:-अर्क: water, earth, wind, fire, Sun,
संसुप्त-वत्-शून्य-वत्- in deep slumber like, vacuum like,
अप्रतर्क्यम् तत्-मूल-भूतम् beyond conception, that (state), the root cause
पदम्-आमनन्ति state is declared

लय: प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा ।
शक्तय: सम्प्रलीयन्ते विवशा: कालविद्रुता: ॥२२॥


लय: प्राकृतिक: हि-एष: dissolution, Praakritika (Pralaya) indeed this is,
पुरुष-अव्यक्तयो:-यदा of Supreme Person and unmanifest Prakriti, when,
शक्तय: सम्प्रलीयन्ते potencies are withdrawn
विवशा: काल-विद्रुता: helplessly, by Time compelled

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् ।
दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् ॥२३॥


बुद्धि-इन्द्रिय-अर्थ-रूपेण intellect, Indriyas and their objects, in the form
ज्ञानम् भाति तत्-आश्रयम् consciousness shines, on it supported
दृश्यत्व-अव्यतिरेकाभ्याम्- being perceptible, having no existence,
आदि-अन्त-वत्-अवस्तु यत् beginning and end like, is unreal that

दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग् भवेत् ।
एवं धी: खानि मात्राश्च न स्युरन्यतमादृतात् ॥२४॥


दीप:-चक्षु:-च रूपम् च light, eye, and colour, and
ज्योतिष: न पृथक् भवेत् from fire do not different become
एवम् धी: खानि-मात्रा:-च so also, intellect, sense objects and
न स्यु:-अन्यतम्-आदृतात् do not become different from Brahman

बुद्धेर्जागरणं स्वप्न: सुषुप्तिरिति चोच्यते ।
मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥२५॥


बुद्धे:-जागरणम् स्वप्न: of intellect, wakefulness, dreaming
सुषुप्ति:-इति च-उच्यते deep sleep this and is said
माया-मात्रम्-इदम् राजन् to be illusion mere, this, O King!
नानात्वम् प्रत्यक्-आत्मनि varieties attributed to Self

यथा जलधरा व्योम्नि भवन्ति न भवन्ति च ।
ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥२६॥


यथा जलधरा: व्योम्नि as the clouds in the sky
भवन्ति न भवन्ति च are, not are and
ब्रह्मणि-इदम् तथा विश्वम्- in Brahman this and the universe
अवयवि-आदि-अप्ययात् in parts, because of having beginning and end

सत्यं ह्यवयव: प्रोक्त: सर्वावयविनामिह ।
विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तव: ॥२७॥


सत्यम् हि-अवयव: प्रोक्त: real indeed the parts are called,
सर्व-अवयविनाम्-इह of all the objects here,
विना-अर्थेन प्रतीयेरन् without meaning are observed
पटस्य-इव-अङ्ग तन्तव: of cloth like, O Dear! The threads

यत् सामान्यविशेषाभ्यामुपलभ्येत स भ्रम: ।
अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत् ॥२८॥


यत् सामान्य-विशेषाभ्याम्- that which as cause, effect
उपलभ्येत स: भ्रम: is grasped, that is illusion
अन्योन्य-अपाश्रयात् on one another are dependent,
सर्वम्-आदि-अन्त-वत्-अवस्तु यत् all that beginning and end having, unreal that

विकार: ख्यायमानोऽपि प्रत्यगात्मानमन्तरा ।
न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥२९॥


विकार: ख्यायमान:-अपि modification, though seeming to be,
प्रत्यक्-आत्मानम्-अन्तरा from Brahman the Self is different
न निरूप्य:-अस्ति-अणु:-अपि not explainable is in the least, even,
स्यात्-चेत्-चित्-सम आत्मवत् is if so, will be conscious like, Self like

न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव ।३०॥


न हि सत्यस्य नानात्वम्- not indeed is of The Real diversity
अविद्वान् यदि मन्यते an ignorant if believes,
नानात्वम् छिद्रयो:-यत्-वत्- in diversity, of a hollow, that like
ज्योतिषो:-वातयो:-इव of the Sun, of the air like

यथा हिरण्यं बहुधा समीयते नृभि: क्रियाभिर्व्यवहारवर्त्मसु ।
एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनै: ॥३१॥


यथा हिरण्यम् बहुधा just as gold, many times,
समीयते नृभि: क्रियाभि:- is wrought by men in forms
व्यवहार-वर्त्मसु for practical use purpose,
एवम् वचोभि:-भगवान्-अधोक्षज: like that, by words The Lord, beyond senses,
व्याख्यायते लौकिक- is explained in secular
वैदिकै:-जनै: and Vedic parlance, by people

यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तम: ।
एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धन: ॥३२॥


यथा घन:-अर्क-प्रभव:- just as cloud is Sun's product
अर्क-दर्शित: हि-अर्क-अंश by Sun is seen, indeed, of Sun the part,
भूतस्य च चक्षुष:-तम: born and of the eye is darkness
एवम् तु-अहम् ब्रह्म-गुण: like that, indeed, ego, has source in Brahman
तत्-ईक्षित: ब्रह्म-अंशकस्य- by Him is seen, of Brahman's part
आत्मन: आत्म-बन्धन: the Jiva, of Jiva is the bondage

घनो यदार्कप्रभवो विदीर्यते चक्षु: स्वरूपं रविमीक्षते तदा ।
यदा अहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥३३॥


घन: यदा-अर्क-प्रभव: विदीर्यते cloud, when, of Sun the product, scatter,
चक्षु: स्व-रूपम् रविम्- eyes, own form The Sun
ईक्षते तदा observes then,
यदा अहङ्कार उपाधि:- when ego, the conjunct (of Jiva)
आत्मन: जिज्ञासया नश्यति by Self enquiry is destroyed,
तर्हि-अनुस्मरेत् then remembers, (its true nature)

यदैवमेतेन विवेकहेतिना मायामयाहङ्कारणात्मबन्धनम् ।
छित्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥३४॥


यदा-एवम्-एतेन विवेक-हेतिना when thus, by this wisdom dagger
मायामय-अहङ्कारण- Maayaa projected ego,
आत्म-बन्धनम् The Self bondage,
छित्वा-अच्युत-आत्मा-अनुभव:- cut off, the perfect Self is realized,
अवतिष्ठते तम्-आहु:- (the Jiva) remains, (fulfilled) that is called
अन्तिकम्-अङ्ग सम्प्लवम् The Ultimate, O dear! Dissolution

नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।
उत्पत्तिप्रलयावेके सूक्ष्मज्ञा: सम्प्रचक्षते ॥३५॥


नित्यदा सर्व-भूतानाम् constantly, of all beings
ब्रह्मा-आदीनाम् परम्-तप of Brahma and others, O Tormentor of foes!
उत्पत्ति-प्रलयौ-एके creation, dissolution, some
सूक्ष्मज्ञा: सम्प्रचक्षते subtle knowledge having, declare

कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा ।
परिणामिनामवस्थास्ता जन्मप्रलयहेतव: ॥३६॥


काल-स्रोत:-जवेन-आशु by Time stream's force, rapidly,
ह्रियमाणस्य नित्यदा worn away every moment
परिणामिनाम्-अवस्था:- of the changing things, the state,
ता: जन्म-प्रलय-हेतव: they are of appearance dissolution the cause

अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।
अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥३७॥


अनादि-अन्त-वत्-अनेन without beginning endless like by this,
कालेन-ईश्वर-मूर्तिना Time, of The Almighty the form
अवस्था न-एव दृश्यन्ते stages are not seen
वियति ज्योतिषाम्-इव in the sky of the luminaries like

नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लय: ।
आत्यन्तिकश्च कथित: कालस्य गतिरीदृशी ॥३८॥


नित्य: नैमित्तिक:-च-एव Nitya (constant) Naimittika (occasional) and also
तथा प्राकृतिक: लय: and Praakritika (final) dissolution
आत्यन्तिक:-च कथित: Aatyantika (everlasting) and is described,
कालस्य गति:-ईदृशी of Time the course is such

एता: कुरुश्रेष्ठ जगद्विधातुर्नारायणस्याखिलसत्वधाम्न: ।
लीलाकथास्ते कथिता: समासत: कार्त्स्न्येन नाजोऽप्यभिधातुमीश: ॥३९॥


एता: कुरु-श्रेष्ठ these, O Scion of the Kurus!
जगत्-विधातु:-नारायणस्य- of the universe creator's Naaraayana's,
अखिल-सत्व-धाम्न: of all potencies Holder's
लीला-कथा:-ते कथिता: sports and stories to you are told,
समासत: कार्त्स्न्येन in short extensively,
न-अज:-अपि-अभिधातुम्-ईश: not Brahmaa also to say is capable

संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्य: प्लवो भगवत: पुरुषोत्तमस्य ।
लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद् विविधदु:खदवार्दितस्य ॥४०॥


संसार-सिन्धुम्-अति-दुस्तरम्- the material world ocean very difficult to cross,
उत्तितीर्षो:-न-अन्य: प्लव: for one willing to cross, not another boat,
भगवत: पुरुषोत्तमस्य of The Lord Purushottama
लीला-कथा-रस-निषेवणम्- sporting stories nectar imbibing
अन्तरेण पुंस: भवेत् by the heart, of the men, may become,
विविध-दु:ख-दव-अर्दितस्य various sorrows wild fire tormented

पुराणसंहितामेतामृषिर्नारायणॊऽव्यय: ।
नारदाय पुरा प्राह कृष्णद्वैपायनाय स: ॥४१॥


पुराण-संहिताम्-एताम्- Puraana compilation this
ऋषि:-नारायण:-अव्यय: Rishi Naaraayana immortal
नारदाय पुरा प्राह to Naarada in the past said
कृष्णद्वैपायनाय स: to Krishna Dwepaayana he

स वै मह्यं महाराज भगवान् बादरायण: ।
इमां भागवतीं प्रीत: संहितां वेदसम्मिताम् ॥४२॥


स: वै मह्यम् महाराज He indeed, to me, O Great King!
भगवान् बादरायण: The Lord Baadaraayana
इमाम् भागवतीम् प्रीत: this divine, delighted,
संहिताम् वेद-सम्मिताम् compilation by the Vedas equal to

एतां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये ।
दीर्घसत्रे कुरुश्रेष्ठ सम्पुष्ट: शौनकादिभि: ॥४३॥


एताम् वक्ष्यति-असौ सूत this, will expound this Soota,
ऋषिभ्य: नैमिष-आलये to the sages in Naimisha forest
दीर्घ-सत्रे कुरु-श्रेष्ठ in the large congregation, O Jewel of Kurus!
सम्पुष्ट: शौनक-आदिभि: requested by Shaunaka and others,
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे चतुर्थ: अध्याय: ॥४॥ Thus ends the fourth discourse in Book Twelve of the great and glorious

पञ्चम: अध्याय:

श्री शुक उवाच - Shree Shuka said -

अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरि: ।
यस्य प्रसादजो ब्रह्मा रुद्र क्रोधसमुद्भव: ॥१॥


अत्र-अनुवर्ण्यते-अभीक्ष्णम् here, is described again and again
विश्व-आत्मा भगवान् हरि: of the universe, The Soul, Lord Shree Hari,
यस्य प्रसादज: ब्रह्मा by Whose exaltation is born Brahmaa,
रुद्र: क्रोध-समुद्भव: Rudra, by anger is born

त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।
न जात: प्रागभूतोऽद्य देहवत्त्वं न नङ्क्ष्यसि ॥२॥


त्वम् तु राजन् मरिष्ये-इति you, certainly, O King! Will die, this
पशु-बुद्धिम्-इमाम् जहि brute like mind this give up
न जात: प्राक्-अभूत:-अद्य was not born before, was born now,
देह-वत्-त्वम् न नङ्क्ष्यसि body like, you will not perish

न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।
वीजाङ्कुरवद् देहादेर्व्यतिरिक्तो यथानल: ॥३॥


न भविष्यसि भूत्वा त्वम् will not be being born, you,
पुत्र-पौत्र-आदि-रूपवान् as son, grandson others, in the form
वीज-अङ्कुर-वत् देह-आदे: seed plant like, as body the beginning,
व्यतिरिक्त: यथा-अनल: distinct like fire

स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मन: स्वयम् ।
यस्मात् पश्यति देहस्य तत आत्मा ह्यजोऽमर: ॥४॥


स्वप्ने यथा शिर:-छेदम् in dream just as head cut off
पञ्चत्व-आदि-आत्मन: स्वयम् at death and such, of the self itself
यस्मात् पश्यति देहस्य by which sees of the body,
तत: आत्मा हि-अज:-अमर: so that, self indeed, is unborn undying

घटे भिन्ने यथाऽऽकाश आकाश: स्यात् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुन: ॥५॥


घटे भिन्ने यथा-आकाश: pitcher having broken, as the space
आकाश: स्यात् यथा पुरा the space becomes like before,
एवम् देहे मृते जीव: like that, on the body dying, the Jiva
ब्रह्म सम्पद्यते पुन: Brahma becomes again

मन: सृजति वै देहान् गुणान् कर्माणि चात्मन: ।
तन्मन: सृजते माया ततो जीवस्य संसृति: ॥६॥


मन: सृजति वै देहान् mind creates the bodies,
गुणान् कर्माणि च-आत्मन: objects and actions and for the self,
तत्-मन: सृजते माया that mind is created by Maayaa
तत: जीवस्य संसृति: from that, of Jiva is transmigration

स्नेहाधिष्ठानवर्त्यग्निसंयोगो यावदीयते ।

ततो दीपस्य दीपत्वमेवं देह्कृतो भव: ।
रज:सत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥७॥


स्नेह-अधिष्ठान-वर्ती- oil, the container, wick,
अग्नि-संयोग: यावत्-ईयते by fire's conjunction, till when remains
तत: दीपस्य दीपत्वम्- till then, is the lighted lamp's lightedness,
एवम् देह-कृत भव: like that, body generated of the Jiva
रज:-सत्त्व-तम:-वृत्त्या by Rajas, Sattva and Tamas, action
जायते-अथ विनश्यति is born then is destroyed

न तत्रात्मा स्वयं ज्योतिर्यो व्यक्ताव्यक्तयो: पर: ।
आकाश इव चाधारो ध्रुवोऽनन्तोपमस्तत: ॥८॥


न तत्र-आत्मा not there, the soul,
स्वयम् ज्योति:-य: self effulgent which,
व्यक्त-अव्यक्तयो: पर: from the physical astral (body) beyond
आकाश इव च-आधार: sky like and the support
ध्रुव:-अनन्त-उपम:-तत: is immutable, endless and unparalleled, so

एवमात्मानमात्मस्थमात्मनैवामृश प्रभो ।
बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥९॥


एवम्-आत्मानम्- thus, The Self
आत्म-स्थम्-आत्मना- in the Self organism encased, by The Self
एव-आमृश प्रभो alone investigate, O King!
बुद्ध्या-अनुमान-गर्भिण्या by the intellect, intuition deep,
वासुदेव-अनुचिन्तया and by Vaasudeva constantly thinking of

चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षक: ।
मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥१०॥


चोदित: विप्र-वाक्येन prompted by the Braahmana's words
न त्वाम् धक्ष्यति तक्षक: not you will burn Takshaka,
मृत्य: न-उपधक्ष्यन्ति death will not burn (you)
मृत्यूनाम् मृत्युम्-ईश्वरम् of all modes of deaths, is Death, The Lord

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।
एवं समीक्षन्नात्मानमात्मन्याधाय निष्कले ॥११॥


अहम् ब्रह्म परम् धाम 'I am Brahma, the Supreme support,
अहम् ब्रह्म परम् धाम
ब्रह्म-अहम् परमम् पदम् Brahma am I, the Supreme goal,'
एवम् समीक्षन्-आत्मानम्- so, identifying yourself,
आत्मनि-आधाय निष्कले in the Self place, The Absolute

दशन्तं तक्षकं पादे लेलिहानं विषाननै: ।
न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मन: ॥१२॥


दशन्तम् तक्षकम् पादे biting Takshaka, in the foot,
लेलिहानम् विष-आननै: licking with poisonous fangs,
न द्रक्ष्यसि शरीरम् च will not see, the body, and,
विश्वम् च पृथक्-आत्मन: the world and different from The Self

एतत्ते कथितं तात यथाऽऽत्मा पृष्टवान् नृप ।
हरेर्विश्वात्मनश्चेष्टां किं भूय: श्रोतुमिच्छसि ॥१३॥


एतत्-ते कथितम् तात this to you is said, O Dear Son!
यथा-आत्मा पृष्टवान् नृप how of Self you asked O King!
हरे:-विश्व-आत्मन:-चेष्टाम् of Shree Hari of the universe The Self, exploits
किम् भूय: श्रोतुम्-इच्छसि what again to hear desire
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे पञ्चम: अध्याय: ॥५॥ Thus ends the fifth discourse in Book Twelve of the great and glorious

षष्ठ: अध्याय:

सूत उवाच - Soota said -

एतन्निशम्य मुनिनाभिहितं परीक्षिद् व्यासात्मजेन निखिलात्मदृशा समेन ।
तत्पादमूलमुपसृत्य नतेन मूर्ध्ना बद्धाञ्जलिस्तमिदमाह स विष्णुरात: ॥१॥


एतत्-निशम्य मुनिना-अभिहितम् this hearing, from the sage described,
परीक्षित् व्यास-आत्मजेन Pareekshit, by Vyaasa's son,
निखिल-आत्मदृशा समेन whole universe like self seeing, with equal sight,
तत्-पाद-मूलम्-उपसृत्य to his feet bottom approached
नतेन मूर्ध्ना बद्ध-अञ्जलि:- with bowed head, joined palms,
तम्-इदम्-आह स: विष्णुरात: to him this said, he, by Vishnu protected
राजा-उवाच - The King said -

सिद्धोऽस्म्यनुगृहीतोस्मि भवता करुणात्मना ।
श्रावितो यच्च मे साक्षादनादिनिधनो हरि: ॥२॥


सिद्ध:-अस्मि-अनुगृहीत:-अस्मि fulfilled of purpose am I, obliged am I,
भवता करुण-आत्मना by you compassionate self,
श्रावित: यत्-च मे told, in that and to me,
साक्षात्-अनादि-निधन: हरि: directly of without beginning, end, Shree Hari

नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् ।

अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रह: ॥३।
न-अति-अद्भुतम्-अहम् मन्ये not very surprising I consider
महताम्-अच्युत-आत्मनाम् of the great souled, The Immortal Lord minded
अज्ञेषु ताप-तप्तेषु for the ignorant, by agonies tormented,
भूतेषु यत्-अनुग्रह: living beings, that grace

पुराणसंहितामेतामश्रौष्म भवतो वयम् ।
यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते ॥४॥


पुराण-संहिताम्-एताम् Puraana compilation this
श्रौष्म भवत: वयम् heard from you, we,
यस्याम् खलु-उत्तम-श्लोक: in which indeed, highly famed
भगवान्-अनुवर्ण्यते The Lord is described

भगवंस्तक्षकादिभ्यो मृत्युभ्यो न विभेम्यहम् ।
प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ॥५॥


भगवन्-तक्षकादिभ्य: O Lord! From Takshaka and others
मृत्युभ्य: न विभेमि-अहम् from deaths, not am afraid I
प्रविष्ट: ब्रह्म निर्वाणम्- have entered Brahma realization
अभयम् दर्शितम् त्वया fearlessness shown by you

अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे ।
मुक्तकामाशयं चेत: प्रवेश्य विसृज्याम्यसून् ॥६॥


अनुजानीहि माम् ब्रह्मन् permit me, O Lord!
वाचम् यच्छामि-अधोक्षजे speech hold, in The Lord beyond sense perception
मुक्त-काम-आशय: चेत: devoid of desires craving mind
प्रवेश्य विसृज्यामि-असून् entering, will give up life

अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया ।
भवता दर्शितं क्षेमं परं भगवत: पदम् ॥७॥


अज्ञानम् च निरस्तम् मे ignorance and destroyed mine
ज्ञान-विज्ञान-निष्ठया by the knowledge and its Realization with faith
भवता दर्शितम् क्षेमम् by you directed the beneficial
परम् भगवत: पदम् Supreme The Lord's state
सूत उवाच - Soota said -

इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणि: ।
जगाम भिक्षुभि: साकं नरदेवेन पूजित: ॥८॥


इति-उक्त:-तम्-अनुज्ञाप्य so told, him taking leave of,
भगवान् बादरायणि: divine Shree Shuka
जगाम भिक्षुभि: साकम् went away with the ascetics,
नरदेवेन पूजित: by the king worshipped

परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना ।
समाधाय परं दध्यावस्पन्दासुर्यथा तरु: ॥९॥


परीक्षित्-अपि राजर्षि:- Pareekshit also, the royal sage,
आत्मनि-आत्मानम्-आत्मना in The Self, the Self by The Self,
समाधाय परम् दध्यौ- placing, The Supreme meditated on,
अस्पन्द-असु:-यथा तरु: breathless life, like a tree

प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुख: ।
ब्रह्मभूतो महायोगी नि:सङ्गश्छिन्नसंशय: ॥१०॥


प्राक्-कूले बर्हिषि-आसीन: with pointing Kusha's mat sitting on,
गङ्गा-कूले उदङ्मुख: on The Gangaa bank, North facing
ब्रह्म-भूत: महा-योगी identified with Brahman, the great Yogi,
नि:सङ्ग:-छिन्न-संशय: without attachments, resolved of doubts

तक्षक: प्रहितो विप्रा: क्रुद्धेन द्विजसूनुना ।
हन्तुकामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥११॥


तक्षक: प्रहित: विप्रा: Takshaka, directed, O Braahmanas!
क्रुद्धेन द्विज-सूनुना by the enraged, Braahmana son (Shringi)
हन्तु-काम: नृपम् गच्छन् to kill desiring, to the king when going,
ददर्श पथि कश्यपम् saw on the way Kashyapa

तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् ।
द्विजरूपप्रतिच्छन्न: कामरूपोऽदशन्नृपम् ॥१२॥


तम् तर्पयित्वा द्रविणै:- him, satisfying with money,
निवर्त्य विष-हारिणम् sending him back, the poison counter actor,
द्विज-रूप-प्रतिच्छन्न: Braahmana's form assuming,
काम-रूप:-अदशत्-नृपम् on will taking forms, bit the King,

ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना ।
बभूव भस्मसात् सद्य: पश्यतां सर्वदेहिनाम् ॥१३॥


ब्रह्म-भूतस्य राजर्षे:- with Brahma having become one, of the King
देह:-अहि-गरल-अग्निना body, by the snake's poison fire
बभूव भस्मसात् सद्य: became ash, instantly,
पश्यताम् सर्व-देहिनाम् as looked on all the embodied beings

हाहाकारो महानासीद् भुवि खे दिक्षु सर्वत: ।
विस्मिता ह्यभवन् सर्वे देवासुरनरादय: ॥१४॥


हाहाकार: महान-आसीत् outcry terrible was
भुवि खे दिक्षु सर्वत: on earth, in sky, in quarters, everywhere
विस्मिता: हि-अभवन् सर्वे: wonder struck of course became all
देव-असुर-नर-आदय: the gods, demons, men and others

देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगु: ।
ववृषु: पुष्पवर्षाणि विबुधा: साधुवादिन: ॥१५॥


देव-दुन्दुभय: नेदु:- gods trumpets sounded,
गन्धर्वा-अप्सरस: जगु: Gandharvas, Apsaras, sang,
ववृषु: पुष्प-वर्षाणि showered flower rains,
विबुधा: साधु-वादिन: gods shouts of applauses raised

जनमेजय: स्वपितरं श्रुत्वा तक्षकभक्षितम् ।
यथा जुहाव संक्रुद्धो नागान् सत्रे सह द्विजै: ॥१६॥


जनमेजय: स्व-पितरम् Janmejaya, own father
श्रुत्वा तक्षक-भक्षितम् hearing by Takshaka bitten,
यथा जुहाव संक्रुद्ध: ritually offered as oblation, enraged,
नागान् सत्रे सह द्विजै: the snakes, in sacrifice, with the Braahmanas

सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् ।
दृष्ट्वेन्द्रं भयसंविग्नस्तक्षक: शरणं ययौ ॥१७॥


सर्प-सत्रे समिद्ध-अग्नौ in the snake sacrifice enflamed fire,
दह्यमानान् महा-उरगान् burning the great snakes
दृष्ट्वा-इन्द्रम् भय-संविग्न:- seeing, to Indra with fear agitated,
तक्षक: शरणम् ययौ Takshaka for protection went

अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् ।
उवाच तक्षक: कस्मान्न दह्येतोरगाधम: ॥१८॥


अपश्यन्-तक्षकम् तत्र not seeing Takshaka, there,
राजा पारीक्षित: द्विजान् the king, born of Pareekshita, to Braahmanas
उवाच तक्षक: कस्मात्-न said, 'Takshaka why not us
दह्येत-उरग-अधम: is burning, the wicked snake'

तं गोपायति राजेन्द्र शक्र: शरणमागतम् ।
तेन संस्तम्भित: सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥१९॥


तम् गोपायति राजेन्द्र him has hidden, O Ruler of kings!
शक्र: शरणम्-आगतम् Indra, in protection having reached,
तेन संस्तम्भित: सर्प:- by him is held back the snake,
तस्मात्-न-अग्नौ पतति-असौ therefore, not in fire falls he

पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधी: ।
सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥२०॥


पारीक्षित इति श्रुत्वा Pareekshita son this hearing,
प्राह-ऋत्विज उदार-धी: said, O Presiding priests, the highly intelligent,
सह-इन्द्र:-तक्षक: विप्रा with Indra, Takshaka, O Braahmanas,
न-अग्नौ किम्-इति पात्यते not in fire why not is made to fall

तच्छ्रुत्वाऽऽजुहुवुर्विप्रा: सहेन्द्रं तक्षकं मखे ।
तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥२१॥


तत्-श्रुत्वा-आजुहुवु:-विप्रा: that hearing, invoked the Braahmanas,
सह-इन्द्रम् तक्षकम् मखे with Indra, Takshaka in the sacrifice,
तक्षक-आशु पतस्व-इह 'Takshaka! Soon fall here,
तक्षक-आशु पतस्व-इह
सह-इन्द्रेण मरुत्वता with Indra, having the Maruts'

इति ब्रह्मोदिताक्षेपै: स्थानादिन्द्र: प्रचालित: ।
बभूव सम्भ्रान्तमति: सविमान: सतक्षक: ॥२२॥


इति ब्रह्म-उदित-आक्षेपै: thus, by the Braahmanas cajoled,
स्थानात्-इन्द्र: प्रचालित: from his abode, Indra was moved,
बभूव सम्भ्रान्त-मति: became paranoid minded,
स-विमान: स-तक्षक: with his aerial car and with Takshaka

तं पतन्तं विमानेन सहतक्षकमम्बरात् ।
विलोक्याङ्गिरस: प्राह राजानं तं बृहस्पति: ॥२३॥


तम् पतन्तम् विमानेन him falling from the aerial car,
सह-तक्षकम्-अम्बरात् with Takshaka from the sky
विलोक्य-आङ्गिरस: प्राह seeing, Angirasa's son said,
राजानम् तम् बृहस्पति: to the king, him Brihaspati

नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् ।
अनेन पीतममृतमथ वा अजरामर: ॥२४॥


न-एष त्वया मनुष्येन्द्र not this, by you, O King!
वधम्-अर्हति सर्प-राट् to be killed is possible, the snake king,
अनेन पीतम्-अमृतम्- by him is drunk nectar,
अथ वा अजर-अमर: now, is without decay and without death

जीवितं मरणं जन्तोर्गति: स्वेनैव कर्मणा ।
राजंस्ततोऽन्यो नान्यस्य प्रदाता सुखदु:खयो: ॥२५॥


जीवितम् मरणम् जन्तो:- life and death of a living being
गति: स्वेन-एव कर्मणा existence (is) by own only doings,
राजन्-तत:-अन्य: न-अन्यस्य O King! Therefore, another is not of the other
प्रदाता सुख-दु:खयो: giver of happiness and sorrow

सर्पचौराग्निविद्युद्भ्य: क्षुत्तृड्व्याध्यादिभिर्नृप ।
पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् ॥२६॥


सर्प-चौर-अग्नि-विद्युद्भ्य: by snake, thief, fire, lightening,
क्षुत्-तृड्-व्याध-आदिभि:-नृप hunger, thirst, disease, and others, O King!
पञ्चत्वम्-ऋच्छते जन्तु:- death attains a being,
भुङ्क्त आरब्ध-कर्म तत् experiences of the former actions that

तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम् ।
सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥२७॥


तस्मात् सत्रम्-इदम्-राजन् therefore, sacrifice, this, O King!
संस्थीयेत-अभिचारिकम् may be stopped, malevolent,
सर्पा: अनागस: दग्धा: snakes, innocent are burnt
जनै:-दिष्टम् हि भुज्यते by people previous results are reaped
सूत उवाच - Soota said -

इत्युक्त: स तथेत्याह महर्षेर्मानयन् वच: ।
सर्पसत्रादुपरत: पूजयामास वाक्पतिम् ॥२८॥


इति-उक्त: स: तथा-इति-आह so told, he 'so be it', said,
महर्षे:-मानयन् वच: of the holy sage respecting the words
सर्प-सत्रात्-उपरत: from the snake sacrifice desisting,
पूजयामास वाक्पतिम् worshipped the Master of speech, Brihaspati

सैषा विष्णोर्महामायाबाध्ययालक्षणा यया ।
मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभि: ॥२९॥


सा-एषा विष्णो:-महा-माया- that this is Vishnu's great (potency) Maayaa
अबाध्यया-अलक्षणा यया in avertable, unconceivable, by which,
मुह्यन्ति-अस्य-एव-आत्म-भूता (beings) deluded from His alone Self formed,
भूतेषु गुण-वृत्तिभि: in fellow beings, by Gunas passion forces

न यत्र दम्भीत्यभया विराजिता मायाऽऽत्मवादेऽसकृदात्मवादिभि: ।
न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् ॥३०॥


न यत्र दम्भी-इति-अभया not where, in arrogant, thus, fearless
विराजिता माया-आत्मवादे- stays Maaya, in Self inquiry,
असकृत्-आत्म-वादिभि: always, of Self the exponents
न यत्-विवाद: विविध:- not is for Him discussion various
तत्-आश्रय: मन:-च on that (Maayaa) supported mind and
सङ्कल्प-विकल्प वृत्ति यत् ideation and doubt is nature whose

नयत्र सृज्यं सृजतोभयो: परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् ।
तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन् विरमेत् स्वयं मुनि: ॥३१॥


न-यत्र सृज्यम् सृजत-उभयो: in whom, Karma, and the material both,
परम् श्रेय:-च जीव:- beyond adjunct, and Jiva,
त्रिभि:-अन्वित:-तु-अहम् by the three accompanied, indeed, ego,
तत्-एतत्-उत्सादित- that this, not capable of
बाध्य-बाधकम् निषिध्य being opposed, nor of opposing, renouncing,
च-उर्मीन् विरमेत् स्वयम् मुनि: and waves, revel in Self a sage

परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षव: ।
विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितै: ॥३२॥


परम् पदम् वैष्णवम्-आमनन्ति The Supreme State of Vishnu, consider to be,
तत् यत्-न-इति न-इति- that which, 'not this, not this,'
अतत्-उत्सिसृक्षव: rejecting, realization seeker,
विसृज्य दौरात्म्यम्- giving up wrong identification (of body etc.,)
अनन्य-सौहृदा हृदा- with unmatched devotion, with heart
उपगुह्य-अवसितम् समाहितै: embracing, have achieved by meditation

त एतदधिगच्छन्ति विष्णोर्यत् परमं पदम् ।
अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥३३॥


ते एतत्-अधिगच्छन्ति they, this achieve,
विष्णो:-यत् परमम् पदम् Vishnu's that Supreme State,
अहम् मम-इति दौर्जन्यम् of 'me, mine,' this evil notion
न येषाम् देह-गेहजम् not whose arising from body home

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥३४॥


अतिवादान्-तितिक्षेत abuses bear with,
न-अवमन्येत कञ्चन do not disrespect anyone,
न च-इमम् देहम्-आश्रित्य not and this body supported by
वैरम् कुर्वीत केनचित् hostility enter with anyone

नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे ।
यत्पादाम्बुरुहध्यानात् संहितामध्यगामिमाम् ॥३५॥


नम: भगवते तस्मै Salutations to The Lord, Him,
कृष्णाय-अकुण्ठ-मेधसे to Krishna, of infinite knowledge,
यत्-पाद-अम्बुरुह-ध्यानात् Whose feet lotuses meditating by,
संहिताम्-अध्यगाम्-इमाम् the compilation learnt this (Bhaagavatam)
शौनक उवाच - Shaunaka said -

पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभि: ।
वेदाश्च कतिधा व्यस्ता एतत् सौम्याभिधेहि न: ॥३६॥


पैल-आदिभि:-व्यास-शिष्यै:- by Paila and other, Vyaasa's decuples,
वेदा-आचार्यै:-महात्मभि: by Veda's teachers, the great souls,
वेदा:-च कतिधा: व्यस्ता: Vedas, and in how many divided,
एतत् सौम्य-अभिधेहि न: this, O Revered One! Relate to us
सूत उवाच - Soota said -

समाहितात्मनो ब्रह्मन् ब्रह्मण: परमेष्ठिन: ।
हृद्याकाशादभून्नादो वृत्तिरोधाद् विभाव्यते ॥३७॥


समाहित-आत्मन: ब्रह्मन् meditating, on Self, O Brahman Shaunaka!
ब्रह्मण: परमेष्ठिन: of Brahman the highest in creation,
हृद्य-आकाशात्-अभूत्-नाद: in the heart cavity arose a sound,
वृत्ति-रोधात् विभाव्यते by controlling the senses is percieved

यदुपासनया ब्रह्मन् योगिनो मलमात्मन: ।
द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥३८॥


यत्-उपासनया ब्रह्मन् by concentrating on which, O Braahmanas!
योगिन: मलम्-आत्मन: the yogis impurities of the mind,
द्रव्य-क्रिया-कारक-आख्यम् Adhibhoota, Adhyaatma, and Adhidaiva, called
धूत्वा यान्ति-अपुनर्भवम् shaking off, attain to not again being born

ततोऽभूत्त्रिवृदोङ्कारो योऽव्यक्तप्रभव: स्वराट् ।
यत्तल्लिङ्गं भगवतो ब्रह्मण: परमात्मन: ॥३९॥


तत:-अभूत्-त्रि-वृत्-ओङ्कार: from that, (sound) originated three parts OM
य:-अव्यक्त प्रभव: स्वराट् which is of unmanifest, the origin, self effulgent
यत्-तत्-लिङ्गम् भगवत: which that is the mark of The Lord,
ब्रह्मण: परमात्मन: of Brahman, The Supreme Spirit

शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् ।
येन वाग् व्यज्यते यस्य व्यक्तिराकाश आत्मन: ॥४०॥


शृणोति य: इमम् स्फोटम् hears who this sound,
सुप्त-श्रोत्रे च शून्य-दृक् on closed ears, and closed eyes,
येन वाक् व्यज्यते यस्य by which Vedas originate, whose
व्यक्ति:-आकाश आत्मन: origination is from the cavity of The Supreme Self

स्वधाम्नो ब्रह्मण: साक्षाद् वाचक: परमात्मन: ।
स: सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥४१॥


स्व-धाम्न: ब्रह्मण: साक्षात् of own origin, of Brahman directly
वाचक: परमात्मन: expressive, of The Supreme Spirit,
स: सर्व-मन्त्र-उपनिषत्- that, of all Mantra, Upanishads,
वेद-बीजम् सनातनम् Vedas' seed, eternal

तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह ।
धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तय: ॥४२॥


तस्य हि-आसन्-त्रय: वर्णा: of that indeed were three alphabets,
अकार-आद्या: भृगूद्वह 'A' and others, O Jewel of the Bhrigus!
अकार-आद्या: भृगूद्वह
धार्यन्ते यै:-त्रय: भावा: upheld by which are three entities,
गुण-नाम-अर्थ-वृत्तय: Gunas, names, meaning, and states

ततोऽक्षरसमाम्नायमसृजद् भगवानज: ।
अन्त:स्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥४३॥


तत:-अक्षर-समाम्नायम्- then, the alphabets' set
असृजत् भगवान्-अज: created the almighty Brahma, (the Birth-less)
अन्त:स्थ-ऊष्म-स्वर-स्पर्श- semi-vowels, aspirants, vowels, sibilants,
ह्रस्व-दीर्घ-आदि-लक्षणम् short and long such demarcations

तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभु: ।
सव्याहृतिकान् सोङ्कारांश्चातुर्होत्रविवक्षया ॥४४॥


तेन-असौ चतुर: वेदान् by that, He, the four Vedas,
चतुर्भि:-वदनै:-विभु: from four mouths, the mighty,
स-व्याहृतिकान् स-ओङ्कारान्- with the Vyaahriti, with AUM sound,
चातुर्होत्र-विवक्षया to the four officiating priests, directing

पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् ।
ते तु धर्मोपदेष्टार: स्वपुत्रेभ्य: समादिशन् ॥४५॥


पुत्रान्-अध्यापयत्-तान्-तु to the sons taught them indeed,
ब्रह्म-ऋषीन् ब्रह्म-कोविदान् the Braahmana sages, in Vedas, the experts,
ते तु धर्म-उपदेष्टार: they indeed of righteousness advocates,
स्व-पुत्रेभ्य: समादिशन् to own sons taught

ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतै: ।
चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभि: ॥४६॥


ते परम्परया प्राप्ता:- they, from generation to generation, received,
तत्-शिष्यै:-धृत-व्रतै: by their pupils, observing vows,
चतु:-युगेषु-अथ व्यस्ता: in four parts, then divided,
द्वापर-आदौ महर्षिभि: in Dwaapara beginning, by the great seers

क्षीणायुष: क्षीणसत्त्वान् दुर्मेधान् वीक्ष्य कालत: ।
वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिता: ॥४७॥


क्षीण-आयुष: क्षीण-सत्त्वान् short lived, deficient in energy,
दुर्मेधान् वीक्ष्य कालत: dull witted, seeing, because of Time,
वेदान् ब्रह्म-ऋषय: व्यस्यन् the Vedas, the Braahmana seers, rearranged
हृदि-स्थ-अच्युत-चोदिता: in the hearts residing The Immortal Lord, prompted
हृदि-स्थ-अच्युत-चोदिता: in the hearts residing The Immortal Lord, prompted by

अस्मिन्नप्यन्तरे ब्रह्मन् भगवाँल्लोकभावन: ।
ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥४८॥


अस्मिन्-अपि-अन्तरे ब्रह्मन् in this, also, Manvantara, O Sage Shaunaka!
भगवान्-लोक-भावन: The Lord, of the universe the life giver,
ब्रह्मेश-आद्यै:-लोक-पालै:- Brahmaa, Shankara and other guardians,
याचित: धर्म-गुप्तये requested, for righteousness protection

पराशरात् सत्यवत्यामंशांशकलया विभु: ।
अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥४९॥


पराशरात् सत्यवत्याम्- from Paraashara, in Satyavati,
अंशांशकलया विभु: the part of the part of The Lord,
अवतीर्ण: महाभाग descended the highly blessed,
वेदम् चक्रे चतु:-विधम् the Vedas rendered in four parts

ऋगथर्वयजु:साम्नां राशीनुद्धृत्य वर्गश: ।
चतस्र: संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥५०॥


ऋक्-अथर्व-यजु:-साम्नाम् of Rik, Atharva, Yajur, Saama,
राशीन्-उद्धृत्य वर्गश: material picking up, categorizing,
चतस्र: संहिता:-चक्रे four compilations, formed,
मन्त्रै:-मणि-गणा: इव by the Mantras, (there in) gems collections like

तासां स चतुर: शिष्यानुपाहूय महामति: ।
एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभु: ॥५१॥


तासाम् स: चतुर: शिष्यान्- of them, he, four pupils
उपाहूय महामति: summoned, of mighty intellect,
एक-एकाम् संहिताम् ब्रह्मन्- one each compilation, O Brahman!
एक-एकस्मै ददौ विभु: to one each gave, O Shaunaka!

पैलाय संहितामाद्यां बह्वृचाख्यामुवाच ह ।
वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥५२॥


पैलाय संहिताम्-आद्याम् to Paila the compilation first, (Rik)
बह्वृच-आख्याम्-उवाच ह Brihavricha, called, taught indeed,
वैशम्पायन-संज्ञाय to Vaishampaayana named, (pupil)
निगद-आख्यम् यजु:-गणम् Nigada called, of the Yajur compilation

साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।
अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥५३॥


साम्नाम् जैमिनये प्राह Saama to Jaimini said,
तथा छन्दोग-संहिताम् and the Chandoga Samhitaa
अथर्व-अङ्गिरसीम् नाम Atharva, the Angeerasi, named,
स्व-शिष्याय सुमन्तवे to own pupil Sumantu

पैल: स्वसंहितामूच इन्द्रप्रमितये मुनि: ।
बाष्कलाय च सोऽप्याह शिष्येभ्य: संहितां स्वकाम् ॥५४॥


पैल: स्व-संहिताम्-ऊचे Paila, own Samhitaa spoke to
इन्द्रप्रमितये मुनि: Indrapramiti sage,
बाष्कलाय च स:-अपि-आह to Baashkala and he also said,
शिष्येभ्य: संहिताम् स्वकाम् to the pupils, Samhitaa own

चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव ।
पराशरायाग्निमित्रे इन्द्रप्रमितिरात्मवान् ॥५५॥


चतुर्धा व्यस्य बोध्याय in four arranging, to Bodhya,
याज्ञवल्क्याय भार्गव to Yaagyavalkya, O Scion of the Bhrigus'!
पराशराय-अग्निमित्रे to Paraashara, and to Agnimitra,
इन्द्रप्रमिति:-आत्मवान् Indrapramiti, the self controlled

अध्यापयत् संहितां स्वां माण्डूकेयमृषिं कविम् ।
तस्य शिष्यो देवमित्र: सौभर्यादिभ्य ऊचिवान् ॥५६॥


अध्यापयत् संहिताम् स्वाम् taught Samhitaa, his own,
माण्डूकेयम्-ऋषिम् कविम् to Maandookeya Rishi, the learned,
तस्य शिष्य: देवमित्र: his student, Devamitra,
सौभरि-आदिभ्य: ऊचिवान् to Saubhari and others taught

शाकल्यस्तत्सुत: स्वां तु पञ्चधा व्यस्य संहिताम्।
वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥५७॥


शाकल्य:-तत्-सुत: स्वाम् तु Shaakalya, his son, own indeed
पञ्चधा व्यस्य संहिताम् in five divided the compilation,
वात्स्य-मुद्गल-शालीय- to Vaatsya, Mudgala, Shaaleeya,
गोखल्य-शिशिरेषु-अधात् Gokhalya, Shishira, taught

जातूकर्ण्यश्च तच्छिष्य: सनिरुक्तां स्वसंहिताम् ।
बलाकपैजवैतालविरजेभ्यो ददौ मुनि: ॥५८॥


जातूकर्ण्य:-च तत्-शिष्य: Jaatukarnya, and his pupil,
स-निरुक्ताम् स्व-संहिताम् with the Nirukta, own compilation,
बलाक-पैज-वैताल- to Balaaka, Paija, Vaitaala,
विरजेभ्य: ददौ मुनि: Viraja gave the sage

वाष्कलि: प्रतिशाखाभ्यो बालखिल्याख्यसंहिताम् ।
चक्रे बालायनिर्भज्य: कासारश्चैव तां दधु: ॥५९॥


वाष्कलि: प्रति-शाखाभ्य: Baashkala, from all the branches,
बालखिल्य-आख्य-संहिताम् the Baalakhilya named compilation,
चक्रे बालायनि:-भज्य: compiled, to Baalaayani, Bhajya,
कासार:-च-एव ताम् दधु: Kaasaara and also that gave

बह्वृचा: संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृता: ।
श्रुत्वैतच्छन्दसां व्यासं सर्वपापै: प्रमुच्यते ॥६०॥


बह्वृचा: संहिता: हि-एता: the Mantras, of Rik Veda, compilation, indeed,
बह्वृचा: संहिता: हि-एता: the Mantras, of Rik Veda, compilation, indeed, these,
एभि:-ब्रह्मर्षिभि:-धृता: by these, Braahmana sages were learnt,
श्रुत्वा-एतत्-छन्दसाम् व्यासम् hearing this of the Mantras the arrangement,
सर्व-पापै: प्रमुच्यते from all sins is absolved

वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् ।
यच्चेरुर्ब्रह्महत्यांह:क्षपणं स्वगुरोर्व्रतम् ॥६१॥


वैशम्पायन-शिष्या: वै Vaishampaayana disciples, indeed
चरकाध्वर्यव:-अभवन् Charakadvaryavas became,
यत्-चेरु:-ब्रह्म-हत्याम्- who performed, Braahminicide
अह:-क्षपणम् स्व-गुरो:-व्रतम् sin penance for own preceptor, the vow

याग्यवल्क्यश्च तच्छिष्य आहाहो भगवन् कियत् ।
चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥६२॥


याग्यवल्क्य:-च तत्-शिष्य: Yaagyavalkya, and, his disciple,
आह-अहो भगवन् कियत् said, 'O! Venerable Sir! How much
चरितेन-अल्प-साराणाम् by the performance of low strength,
चरिष्ये-अहम् सुदुश्चरम् I will carry out the difficult (course)

इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया ।
विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥६३॥


इति-उक्त:-गुरु:-अपि-आह so told, the preceptor, also said,
कुपित: याहि-अलम् त्वया enraged, 'go away, enough of you'
विप्रा-अवमन्त्रा शिष्येण Braahmanas are ridiculed by a disciple,
मत्-अधीतम् त्यज-आशु-इति my taught, give up at once, thus

देवरातसुत: सोऽपि च्छर्दित्वा यजुषां गणम् ।
ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥६४॥


देवरातसुत: स:-अपि Devaraata's son, (Yaagyavalkya), he also,
छर्दित्वा यजुषाम् गणम् vomited of the Yajur Veda, the portions
तत: गत:-अथ मुनय: from there went away, then the sages
ददृशु:-तान् यजु:-गणान् saw them, the Yajur portions

यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददु: ।
तैत्तिरीया इति यजु:शाखा आसन् सुपेशला: ॥६५॥


यजूंषि तित्तिरा भूत्वा the Yajur Veda's potions, partridge becoming,
तत्-लोलुपतया-आददु: by them enamoured, took up,
तैत्तिरीया इति यजु:-शाखा Taitiriyaa thus, Yajur branches
आसन् सुपेशला: became attractive

याज्ञवल्क्यस्ततो ब्रह्म्न् छन्दांस्यधिगवेषयन् ।
गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥६६॥


याज्ञवल्क्य:-तत: ब्रह्म्न् Yaagyavalkya, then, O Braahmana sage!
छन्दांसि-अधिगवेषयन् Mantras, to obtain looking for,
गुरो:-अविद्यमानानि with the preceptor not present,
सूपतस्थे-अर्कम्-ईश्वरम् well worshipped The Sun Almighty
याज्ञवल्क्य उवाच - Yaagyavalkya said -
ऊँ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां
ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक
एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ॥६७॥


ऊँ नमो भगवते आदित्याय- OM! Salutations to almighty Sun!
अखिल-जगताम्-आत्म-स्वरूपेण of the entire universe soul form,
काल-स्वरूपेण चतु:-विध- Time form, of four types,
भूत-निकायानाम् the beings collective,
ब्रह्मा-आदि-स्तम्ब-पर्यन्तानाम्- from Brahmaa to straw down to,
अन्त:-हृदयेषु बहि:-अपि च-आकाश in the inner heart outside also, the sky,
इव-उपाधिना-अव्यव-धीयमान: like attributes, unlimited conditions upholding,
भवान्-एक: एव क्षण-लव-निमेष- You, one alone, in instant, moment, eye
अवयव-उपचित-संवत्सर-गणेन- parts made up years collections,
अपाम्-आदान-विसर्गाभ्याम्- of the waters, taking and releasing,
इमाम् लोक-यात्राम्-अनुवहति of this world, the journey carry on
दुरितवृजिनबीजावभर्जन भगवत: समभिधीमहि तपनमण्डलम् ॥६८॥


यत्-उ ह वाव विबुध-ऋषभ That, indeed, surely, of the gods the scion,
सवित:-अद:-तपति-अनुसवनम्- Sun burn, yonder, every three times,
अह:-अह:-अम्नाय-विधिना- day after day, by the manner of the Vedas,
उपतिष्ठमानानाम्-अखिल- those waiting upon You, entire,
दुरित-वृजिन-बीज-अवभर्जन sins sufferings, seeds burning away
भगवत: समभिधीमहि O Lord! Devoutly contemplate on You,
तपन-मण्डलम् The burning orb
य इह वाव स्थिरचरनिकराणां निजनिकेतनानां
मन-इन्द्रियासुगणाननात्मन: स्वयमात्मान्तर्यामी
प्रचोदयति ॥६९॥


य: इह वाव स्थिर-चर-निकराणाम् who, here, certainly, mobile, immobile,
य: इह वाव स्थिर-चर-निकराणाम् who, here, certainly, mobile, immobile, multitudes
निज-निकेतनानाम् (Your) own bodies constituting,
मन-इन्द्रिय-असु-गणान्- mind, senses, vital airs, collectively,
अनात्मन: स्वयम्-आत्मा-अन्तर्यामी material, by Your Self, The Inner controller,
प्रचोदयति direct
य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रहगिलितं
मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक
ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने
प्रवर्तयत्यवनिपतिरिवासाधूनां भयमुदीरयन्नटति ॥७०॥


य: एव-इमम् लोकम्- (You) who, only, this world,
अति-कराल-वदन-अन्धकार- by the very fierce faced, darkness,
संज्ञा-अजगर-ग्रह-गिलितम् called python diabolical, swallowed,
मृतकम्-इव विचेतनम्- dead like, unconscious,
अवलोक्य-अनुकम्पया seeing, with compassion,
परम-कारुणिक ईक्षया-एव- by supreme compassion, by sight only,
उत्थाप्य-अह:-अह:-अनुसवनम् arousing, day after day, one after other thrice,
श्रेयसि स्व-धर्म-आख्य- in wellbeing bringing own duties, called,
आत्मा-अवस्थाने प्रवर्तयति- self upliftment engage,
अवनि-पति:-इव-असाधूनाम् the earth's Lord, like, of the wicked
भयम्-उदीरयन्-अटति fear generating, go about
परित आशापालैस्तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हण: ॥७१॥


परित: आशा-पालै:- surrounded by the quarters' guardians,
तत्र तत्र कमल-कोश- here there, with lotus buds,
अञ्जलिभि:-उपहृत-अर्हण: in joined palms, brought offerings
न्दितमहमयातयामयजु: काम उपसरामीति ॥७२॥


अथ ह भगवन्- now, certainly, O Almighty!
तव चरण-नलिन-युगलम् Your feet lotus pair,
त्रिभुवन-गुरुभि:-वन्दितम्- by the three world's preceptors worshipped
अहम्-अयातयाम-यजु: काम I, the unknown, Yajur desiring,
उपसरामि-इति have come, thus,
सूत उवाच - Soota said -

एवं स्तुत: स भगवान् वाजिरूपधरो हरि: ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादित: ॥७३॥


एवम् स्तुत: स: भगवान् thus extolled, he, The mighty,
वाजि-रूप-धर: हरि: horse form assuming, The Sun god,
यजूंषि-अयातयामानि the Yajur portions, unknown,
मुनये-अदात् प्रसादित: to the sage, gave pleased

यजुर्भिरकरोच्छाखा दशपञ्च शतैर्विभु: ।
जगृहुर्वाजसन्यस्ता: काण्वमाध्यन्दिनादय: ॥७४॥


यजुर्भि:-अकरोत्-शाखा of the Yajur, made branches,
दश-पञ्च शतै:-विभु: fifteen, of the hundreds, the powerful,
जगृहु:-वाजसनि:-ता: learnt the Vaajasanis those,
काण्व-माध्यन्दिन-आदय: Kaanva, Maadhyandin and others

जैमिने: सामगस्यासीत् सुमन्तुस्तनयो मुनि: ।
सुन्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥७५॥


जैमिने: सामगस्य-आसीत् of Jaimini, the Saama Veda chanter's was,
सुमन्तु:-तनय: मुनि: Sumantu the son, sage,
सुन्वान्-तु तत्-सुत:-ताभ्याम्- Sunvaan, and, his son, to them both,
एक-एकाम् प्राह संहिताम् one each imparted the compilation

सुकर्मा चापि तच्छिष्य: सामवेदतरोर्महान् ।
सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज: ॥७६॥


सुकर्मा च-अपि तत्-शिष्य: Sukarmaa and also his disciple,
सामवेद-तरो:-महान् of the Saama Veda tree great,
सहस्र-संहिता-भेदम् चक्रे a thousand compiled divisions made
साम्नाम् तत: द्विज: of the Psalms, then, the Braahmana

हिरण्यनाभ: कौसल्य: पौष्यञ्जिश्च सुकर्मण: ।
शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तम: ॥७७॥


हिरण्यनाभ: कौसल्य: Hiranyanaabha, of Kausalas,
पौष्यञ्जि:-च सुकर्मण: Paushyanji and of Sukarma,
शिष्यौ जगृहतु:-च-अन्य: the two disciples, learnt, and the other,
आवन्त्य: ब्रह्म-वित्तम: Aavantya, of the Brahman knowers the foremost

उदीच्या: सामगा: शिष्या आसन् पञ्चशतानि वै ।
पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान् प्रचक्षते ॥७८॥


उदीच्या: सामगा: शिष्या: from the North, Saama Veda chanters, disciples
आसन् पञ्च-शतानि वै were, five hundred, indeed,
पौष्यञ्ज्या-अवन्त्ययो:-च-अपि of Paushyanji, of Aavantya, and also,
तान्-च प्राच्यान् प्रचक्षते to them and Praachyas, (ancients) are called

लौगाक्षिर्माङ्गलि: कुल्य: कुसीद: कुक्षिरेव च ।
पौष्यञ्जिशिष्या जगृहु: संहितास्ते शतं शतम् ॥७९॥


लौगाक्षि:-मङ्गलि: कुल्य: Laugaakshi, Maangali, Kulya,
कुसीद: कुक्षि:-एव च Kusida, Kukshi also and
पौष्यञ्जि-शिष्या: जगृहु: Paushyanji's disciples learnt
संहिता:-ते शतम् शतम् the compilations, hundred each

कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिता: ।
शिष्य ऊचे स्वशिष्येभ्य: शेषा आवन्त्य आत्मवान् ॥८०॥


कृत: हिरण्यनाभस्य Krita, Hiranynanabha's
चतुर्विंशति-संहिता: twenty four, compilations,
शिष्य: ऊचे स्व-शिष्येभ्य: the disciple, taught to his own pupils,
शेषा: आवन्त्य: आत्मवान् the rest, Aavantya, the self controlled
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे वेद शाखाप्रणयनं नाम षष्ठ:
अध्याय: ॥६॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे वेद शाखाप्रणयनं नाम षष्ठ:
अध्याय: ॥६॥ Thus ends the sixth discourse entitled 'The classification of the Vedas

सप्तम: अध्याय:

सूत उवाच - Soota said -

अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् ।
संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥१॥


अथर्व-वित् सुमन्तु:-च of Atharva the knower, Sumantu, and,
शिष्यम्-अध्यापयत् स्वकाम् to disciple taught own,
संहिताम् स:-अपि पथ्याय compilation, he also to Pathya,
वेददर्शाय् च-उक्तवान् Vedadarsha and taught

शौक्लायनिर्ब्रह्मबलिर्मोदोष: पिप्पलायनि: ।
वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु ॥२॥


शौक्लायनि:-ब्रह्मबलि:- Shauklaayani, Brahmabali,
मोदोष: पिप्पलायनि: Modosha, Pippalaayani
वेददर्शस्य शिष्या:-ते of Vedadarsha, disciples, they,
पथ्य-शिष्यान्-अथ: शृणु of Pathya disciples now hear

कुमुद: शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ।

बभ्रु: शिष्योऽथाङ्गिरस: सैन्धवायन एव च ।
अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथापरे ॥३॥


कुमुद: शुनक: ब्रह्मन् Kumuda, Shunaka, O Brahman!
जाजलि:-च-अपि-अथर्ववित् Jaajali and also Atharvaveda's knowers
बभ्रु: शिष्य:-अथ-अङ्गिरस: Babhroo, disciple, then, of Angirasa's line,
सैन्धवायन: एव च Saindhavaayan, also and,
अधीयेताम् संहिते द्वे learnt compilations two,
सावर्ण्य-आद्या:-तथा-अपरे the Saavarnee and others, and the others

नक्षत्रकल्प: शान्तिश्च कश्यपाङ्गिरसादय: ।
एते आथर्वणाचार्या: शृणु पौराणिकान् मुने ॥४॥


नक्षत्रकल्प: शान्ति:-च Nakshatrakalpa, Shaanti and
कश्यप-अङ्गिरस-आदय: Kashyapa, Angirasa and others,
एते आथर्वण-आचार्या: these were of Atharvaveda's, teachers,
शृणु पौराणिकान् मुने hear of the Puraana teachers, O Sage!

त्रय्यारुणि: कश्यपश्च सावर्णिरकृतव्रण: ।
वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥५॥


त्रय्यारुणि: कश्यप:-च Trayyaaruni, Kashyapa and
सावर्णि:-अकृतव्रण: Saavarni, Akritavrana,
वैशम्पायन-हारीतौ Vaishampaayana, Haarita,
षड् वै पौराणिका इमे six indeed, Puraana teachers, these

अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् ।
एकैकामहमेतेषां शिष्य: सर्वा: समध्यगाम् ॥६॥


अधीयन्त व्यास-शिष्यात् learnt from Vyaasa's disciple,
संहिताम् मत्-पितु:-मुखात् the compilation, from my father's mouth,
एक्-एकाम्-अहम्-एतेषाम् शिष्य: one each, I, of them the disciple,
सर्वा: समध्यगाम् all learnt

कश्यपोऽहं सावर्णी रामशिष्योऽकृतब्रण: ।
अधीमहि व्यासशिष्याच्चतस्रो मूलसंहिता: ॥७॥


कश्यप:-अहम् सावर्णी Kashyapa, myself, Saavarnee,
रामशिष्य:-अकृतब्रण: Parashuraama's disciple, Akritavrana,
अधीमहि व्यास-शिष्यात्- learnt from Vyaasa's disciple, (Romaharshana),
चतस्र: मूल-संहिता: four original compilations

पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् ।
शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारत: ॥८॥


पुराण लक्षणम् ब्रह्मन् of Puraanas, the characteristics, O Brahman!
ब्रह्मर्षिभि:-निरूपितम् by Braahmana sages determined,
शृणुष्व बुद्धिम्-आश्रित्य do hear, applying the mind,
वेद-शास्त्र-अनुसारत: the Vedas and Shaastra according to

सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुरपाश्रय: ॥९॥


सर्ग:-अस्य-अथ विसर्ग:-च Sarga, of it, then, Visarga, and
वृत्ती: रक्षा-अन्तराणि च Vritti, Rakshaa, Manvantaras, and
वंश: वंश-अनुचरितम् Vansha, Vansha Anucharitam
संस्था हेतु:-अपाश्रय: Sansthaa, Hetu, Apaashraya

दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदु: ।
केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥१०॥


दशभि:-लक्षणै:-युक्तम् ten characteristics comprising of
पुराणम् तत्-विद: विदु: the Puranas, its knowers know,
केचित् पञ्च-विधम् ब्रह्मन् some, five types, O Brahman!
महत्-अल्प-व्यवस्थया by great and small divisions

अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहम: ।
भूतमात्रेन्द्रियार्थानां सम्भव: सर्ग उच्यते ॥११॥


अव्याकृत-गुण-क्षोभात्- unmanifest (Prakriti's) Gunas' equilibrium (unbalancing),
महत:-त्रिवृत:-अहम: Mahat, the threefold Ahankaara,
भूतमात्र-इन्द्रिय-अर्थानाम् elements subtle, the senses, the objects
सम्भव: सर्ग उच्यते evolution, Sarga, (creation) is called

पुरुषानुगृहीतानामेतेषां वासनामय: ।
विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥१२॥


पुरुष-अनुगृहीतानाम्- by The Supreme Person's grace
एतेषाम् वासनामय: of these, with past Karmas latent,
विसर्ग:-अयम् समाहार: Visarga is this collective
बीजाद् बीजम् चर-अचरम् from seed to seed, of mobile and immobile

वृत्तिर्भूतानि भूतानां चराणामचराणि च ।
कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥१३॥


वृत्ति:-भूतानि भूतानाम् sustenance, elements of the beings
चराणाम्-अचराणि च of the mobile immobile and
कृत: स्वेन नृणाम् is decided by themselves, the human beings,
तत्र कामात्-चोदनया-अपि वा there again, by desire, by scriptural ordinance,
तत्र कामात्-चोदनया-अपि वा there again, by desire, by scriptural ordinance, also or

रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।
तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विष: ॥१४॥


रक्षा-अच्युत-अवतार-ईहा for protection, of The Immortal, descent, desire,
विश्वस्य-अनु युगे युगे of universe, Yuga after Yuga,
तिर्यक्-मर्त्य-ऋषि-देवेषु as birds, beasts, human beings, Rishi, gods,
हन्यन्ते यै:-त्रयी-द्विष: kill, by which Veda's enemies

मन्वन्तरं मनुर्देवा मनुपुत्रा: सुरेश्वर: ।
ऋषयोंऽशावतारश्च हरे: षड्विधमुच्यते ॥१५॥


मन्वन्तरम् मनु:-देवा: Manvantara, Manu, gods,
मनु-पुत्रा: सुरेश्वर: Manu sons, Indra,
ऋषय:-अंश-अवतार:-च हरे: (seven) Rishis, part manifestation and of Shree
ऋषय:-अंश-अवतार:-च हरे: (seven) Rishis, part manifestation and of Shree Hari,
षट्-विधम्-उच्यते six types is called

राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वय: ।
वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥१६॥


राज्ञाम् ब्रह्म-प्रसूतानाम् of the kings, from Brahmaa born,
वंश:-त्रैकालिक-अन्वय: the line, over the three times, the descendents
वंश-अनुचरितम् तेषाम् of the lineage, (honour, prestige), Vanshanucharita,
वृत्तम् वंशधरा:-च ये the account the Vanshadharas and they

नैमितिक: प्राकृतिको नित्य आत्यन्तिको लय: ।
संस्थेति कविभि: प्रोक्ता चतुर्धास्य स्वभावत: ॥१७॥


नैमितिक: प्राकृतिक: Naimitika, Praakritika,
नित्य: आत्यन्तिक: लय: Nitya, Aatyantika, of dissolution
संस्था-इति कविभि: प्रोक्ता: 'Sansthaa' thus, by the wise is said,
संस्था-इति कविभि: प्रोक्ता:
चतुर्धा:-अस्य स्वभावत: of four types its, by nature

हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारक: ।
यं चानुशयिनं प्राहुरव्याकृतमुतापरे ॥१८॥


हेतु:-जीव:-अस्य सर्ग-आदे:- 'Hetu', the cause is Jiva, of this creations etc.,
अविद्या-कर्म-कारक: because of ignorance, Karmas' doer,
यम् च-अनुशयिनम् प्राहु:- whom, and dormant say,
अव्याकृतम्-उत-अपरे unmanifest indeed others

व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु ।
मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्रय: ॥१९॥


व्यतिरेक-अन्वय: यस्य difference, state whose (Jiva)
जाग्रत्-स्वप्न-सुषुप्तिषु in wakefulness, dream and deep sleep
मायामयेषु तद् ब्रह्म consisting of Maaya, that is Brahma,
जीव-वृत्तिषु-अपाश्रय: in the Jiva's states, is Apaashraya

पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु ।
बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥२०॥


पदार्थेषु यथा द्रव्यम् in objects, like the material,
सन्-मात्रम् रूप-नामसु present only, in form and name,
बीज-आदि-पञ्चतान्तासु in the seed beginning with uptill death,
हि-अवस्थासु युत-अयुतम् indeed, the states, (Brahma) is and is not

विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् ।
योगेन वा तदाऽऽत्मानं वेदेहाया निवर्तते ॥२१॥


विरमेत यदा चित्तम् becomes still when the mind,
हित्वा वृत्ति-त्रयम् स्वयम् giving up the states three, by itself,
योगेन वा तदा-आत्मानम् by yoga, or then, The Self,
वेद-ईहाया निवर्तते knows, from activities withdraws

एवं लक्षणलक्ष्याणि पुराणानि पुराविद: ।
मुनयोऽष्टादश प्राहु: क्षुल्लकानि महान्ति च ॥२२॥


एवम् लक्षण-लक्ष्याणि thus characterized by the distinctions,
पुराणानि पुराविद: the Puraanas, the ancient's knowers,
मुन:-अष्टादश प्राहु: sages, eighteen said of,
क्षुल्लकानि महान्ति च small big and

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडम् ।
नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥२३॥


ब्राह्मम्-पाद्मम् वैष्णवम् च Braahma, Paadma, Vishnu, and
शैवम् लैङ्गम् स-गारुडम् Shiva, Linga, with Garuda
नारदीयम् भागवतम्-आग्नेयम् of Naarada, of Bhaagavatam, of Agni,
स्कान्द-संज्ञितम् Skanda, named

भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।
वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥२४॥


भविष्यम् ब्रह्मवैवर्तम् Bhavishya, Brahmavaivarta,
मार्कण्डेयम् स-वामनम् Maarkandeya, with Vaamana,
वाराहम् मात्स्यम् कौर्मम् च Vaaraaha, Maatsya, Kaurma,
ब्रह्माण्ड-आख्यम्-इति त्रिषट् Brahmaanda, named, thus three times six

ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुने: ।
शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥२५॥


ब्रह्मन्-इदम् समाख्यातम् O Brahman! This is duly narrated,
शाखा-प्रणयनम् मुने: the branches classified, of sage Vyaasa
शिष्य-शिष्य-प्रशिष्याणाम् pupils, their pupils and their pupils,
ब्रह्म-तेज:-विवर्धनम् Brahmanic glory which intensifies
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तम: अध्याय: ॥७॥ Thus ends the seventh discourse in Book Twelve of the great and glorious

अष्टम: अध्याय:

शौनक उवाच - Shaunaka said -

सूत जीव चिरं साधो वद नो वदतां वर ।
तमस्यपारे भ्रमतां नृणां त्वं पारदर्शन: ॥१॥


सूत जीव चिरम् साधो O Soota! Live eternally, O Noble One!
वद न: वदताम् वर do say, to us, O Of the speakers the best!
तमस्य-पारे भ्रमताम् नृणाम् in darkness endless, of wandering men
त्वम् पारदर्शन: you are the way out pointer

आहुश्चिरायुषमृषिं मृकण्डतनयं जना: ।
य: कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत् ॥२॥


आहु:-चिर्-आयुषम्-ऋषिम् say, long living the sage,
मृकण्ड-तनयम् जना: Mrikanda's son, the people
य: कल्प-अन्ते उर्वरित: who at Kalpa's end, remained alive
येन ग्रस्तम्-इदम् जगत् by which was swallowed this world

स वा अस्मत्कुलोत्पन्न: कल्पेऽस्मिन् भार्गवर्षभ: ।
नैवाधुनापि भूतानां सम्प्लव: कोऽपि जायते ॥३॥


स: वा अस्मत्-कुल-उत्पन्न: he, however, in our race born,
कल्पे-अस्मिन् भार्गव-ऋषभ: in Kalpa this, of Bhrigu's the foremost,
न-एव-अधुना-अपि भूतानाम् not also, till now even of the beings
सम्प्लव: क:-अपि जायते deluge, any also has taken place

एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।
वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम् ॥४॥


एक एव-अर्णवे भ्राम्यन् in one only ocean (water's sheet) drifting,
ददर्श पुरुषम् किल saw The Supreme Purusha, undoubtedly,
वट-पत्र-पुटे तोकम् शयानम् on Banayan leaf cup, babe sleeping,
तु-एकम्-अद्भुतम् indeed, one uncommon

एष न: संशयो भूयान् सूत कौतूहलं यत: ।
तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मत: ॥५॥


एष: न: संशय: भूयान् this is our confusion great,
सूत कौतूहलम् यत: O Soota! Curiosity because of which,
तम् न:-छिन्धि महा-योगिन् that ours resolve, O Great Yogi!
पुराणेषु-अपि सम्मत: in the Purana's also esteemed
सूत उवाच - Soota said -

प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापह: ।
नारायणकथा यत्र गीता कलिमलापहा ॥६॥


प्रश्न:-त्वया महर्षे-अयम् question, by you, O Great sage! this,
कृत: लोक-भ्रम-अपह: put, of the world's misconception to dispel
नारायण-कथा यत्र Naaraayana's story where,
गीता कलि-मल-अपहा is sung, of Kali's impurities discarding

प्राप्तद्विजातिसंस्कारो मार्कण्डेय: पितु: क्रमात् ।
छन्दांस्यधीत्य धर्मेण तप: स्वाध्यायसंयुत: ॥७॥


प्राप्त-द्विजाति-संस्कार: attaining the Braahmana's race rites
मार्कण्डेय: पितु: क्रमात् Maarkandeya, from father, in course of time,
छन्दांसि-अधीत्य धर्मेण Vedas having studied, righteously,
तप: स्वाध्याय-संयुत: with austerities and self study combined

बृहद्व्रतधर: शान्तो जटिलो बल्कलाम्बर: ।
बिभ्रत् कमण्डलुं दण्डमुपवीतं समेखलम् ॥८॥


बृहत्-व्रतधर: शान्त: extensive vow observer, free from passions,
जटिल: बल्कल-अम्बर: with matted locks, barks clothed in,
बिभ्रत् कमण्डलुम् दण्डम्- adorning Kamandalu, a staff,
उपवीतम् स-मेखलम् sacred thread, with Mekhalaa

कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये ।
अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥९॥


कृष्ण-अजिनम् साक्ष-सूत्रम् black buck skin, Rudraaksha rosary,
कुशान्-च नियम-ऋद्धये Kusha grass and, rules to keep up,
अग्नि-अर्क-गुरु-विप्र-आत्मसु- fire, Sun, preceptor, Braahmana, in the self,
अर्चयन् सन्ध्ययो:-हरिम् worshipping morning and evening, Shree Hari

सायं प्रात: स गुरवे भैक्ष्यमाहृत्य वाग्यत: ।
बुभुजे गुर्वनुज्ञात: सकृन्नो चेदुपोषित: ॥१०॥


सायम् प्रात: स: गुरवे evening and morning he for the preceptor
भैक्ष्यम्-आहृत्य वाक्-यत: food brought, speech controlled,
बुभुजे गुरु-अनुज्ञात: ate when preceptor permitted
सकृत्-नो चेत्-उपोषित: at one time, otherwise remained without food

एवं तप:स्वाध्यायपरो वर्षाणामयुतायुतम् ।
आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥११॥


एवम् तप:-स्वाध्याय-पर: in this manner, in austerities, studies engaged,
वर्षाणाम्-अयुत-अयुतम् for years crores,
आराधयन् हृषीकेशम् worshipping The Controller of the Senses, Shree Hari
जिग्ये मृत्युम् सुदुर्जयम् conquered Death, difficult to conquer

ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे ।
नृदेवपितृभूतानि तेनासन्नतिविस्मिता: ॥१२॥


ब्रह्मा भृगु:-भव: दक्ष: Brahmaa, Bhrigu, Lord Shiva, Daksha,
ब्रह्म-पुत्रा:-च ये परे Brahmaa's sons, and those others,
नृ-देव-पितृ-भूतानि men, gods, manes, created beings,
तेन-आसन्-अति-विस्मिता: by him became very amazed

इत्थं बृहद्व्रतधरस्तप:स्वाध्यायसंयमै: ।
दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना: ॥१३॥


इत्थम् बृहद्-व्रत-धर:- in this manner, the great vow observer,
तप: स्वाध्याय-संयमै: with austerities, self-study, self control,
दध्यौ-अधोक्षजम् योगी contemplated on The Controller of Senses, Yogi,
ध्वस्त-क्लेश-अन्तर-आत्मना: having shattered distress of inside the mind

तस्यैवं युज्जतश्चित्तं महायोगेन योगिन: ।
व्यतीयाय महान् कालो मन्वन्तरषडात्मक: ॥१४॥


तस्य-एवम्- युज्जत:-चित्तम् his thus, engaged mind,
महा-योगेन योगिन: by great yoga, of the Yogi,
व्यतीयाय महान् काल: passed away long period,
मन्वन्तर-षडात्मक: Manvantaras, six

एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।
तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥१५॥


एतत् पुरन्दर: ज्ञात्वा this, Indra coming to know,
सप्तमे-अस्मिन् किल-अन्तरे in the seventh only Manvantara,
तप:-विशङ्कित: ब्रह्मन्- austerities, alarmed by, O Shaunaka!
आरेभे तत्-विघातनम् started that disrupting

गन्धर्वाप्सरस: कामं वसन्तमलयानिलौ ।
मुनये प्रेषयामास रजस्तोकमदौ तथा ॥१६॥


गन्धर्व-अप्सरस: कामम् Gandharvas, Apsaras, Kaama deva,
वसन्त-मलय-अनिलौ spring and Malaya breeze,
मुनये प्रेषयामास to the sage sent,
रज:-तोक-मदौ तथा Rajas' child (greed) pride and

ते वै तदाश्रमं जग्मुर्हिमाद्रे: पार्श्व उत्तरे ।
पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥१७॥


ते वै तत्-आश्रमम् जग्मु:- they, indeed to the hermitage proceeded,
हिमाद्रे: पार्श्व उत्तरे of Himaalaya's slopes in the north
पुष्पभद्रा नदी यत्र Pushpabhadra river is where,
चित्र-आख्या च शिला विभो Chitra named and rock, O Powerful Sage!

तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् ।
पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥१८॥


तत्-आश्रम-पदम् पुण्यम् that hermitage area, hallowed,
पुण्य-द्रुम-लता-अञ्चितम् with holy trees creepers, marked,
पुण्य-द्विज-कुल-आकीर्णम् holy Braahmana's families crowded,
पुण्य-अमल-जल-आशयम् sacred pure water pools

मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् ।
मत्तवर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥१९॥


मत्त-भ्रमर-सङ्गीतम् intoxicated bees melodiously hummed,
मत्त-कोकिल-कूजितम् joyous cuckoos chirped,
मत्त-वर्हि-नट-आटोपम् overjoyed peacocks danced artistically
मत्त-द्विज-कुल-आकुलम् intoxicated birds' flocks contained of

वायु: प्रविष्ट आदाय हिमनिर्झरशीकरान् ।
सुमनोभि: परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥२०॥


वायु: प्रविष्ट आदाय the breeze entered bringing along
हिम-निर्झर-शीकरान् snow flake showers,
सुमनोभि: परिष्वक्त: by flowers embraced,
ववौ-उत्तम्भयन् स्मरम् blew arousing love

उद्यच्चन्द्रनिशावक्त्र: प्रवालस्तबकालिभि: ।
गोपद्रुमलताजालैस्तत्रासीत् कुसुमाकर: ॥२१॥


उद्यत्-चन्द्र-निशा-वक्त्र: with rising Moon, evening,
प्रवाल-स्तबक-आलिभि: with tender leaves bunches,
गोपद्रुम-लता-जालै:- many branches trees and creepers, netted,
तत्र-आसीत् कुसुमाकर: there was spring and flower bunches

अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकै: ।
अदृश्यतात्तचापेषु: स्व:स्त्रीयूथपति: स्मर: ॥२२॥


अन्वीयमान: गन्धर्वै:- followed by Gandharvas,
गीत-वादित्र-यूथकै: with vocal and instrumental musicians, groups,
अदृश्यत-आत्त-चाप-इषु: was seen holding bow and arrows
स्व:-स्त्री-यूथपति: स्मर: celestial damsels' leader, god of love

हुत्वाग्निं समुपासीनं ददृशु: शक्रकिङ्करा: ।
मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥२३॥


हुत्वा-अग्निम् समुपासीनम् oblated in the fire, well seated,
ददृशु: शक्र-किङ्करा: saw Indra's servants,
मीलित-अक्षम् दुराधर्षम् closed eyed, formidable,
मूर्तिमन्तम्-इव-अनलम् human form like fire

ननृतुस्तस्य पुरत: स्त्रियोऽथो गायका जगु: ।
मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥२४॥


ननृतु:-तस्य पुरत: स्त्रिय:- danced in his front the women
अथ: गायका: जगु: then the singers sang,
मृदङ्ग-वीणा-पणवै:- with drums and Veenaa and trumpets,
वाद्यम् चक्रु:-मनोरमम् instrumental music made pleasing

सन्दधेऽस्त्रं स्वधनुषि काम: पञ्चमुखं तदा ।
मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥२५॥


सन्दधे-अस्त्रम् स्व-धनुषि set the weapon, (arrow) on his own bow,
काम: पञ्च-मुखम् तदा Love, five pointed then,
मधु:-मन: रजस्तोक: spring, the mind, Rajas' child, greed,
इन्द्र-भृत्या व्यकम्पयन् Indra's servants agitating

क्रीडन्त्या: पुञ्जिकस्थल्या: कन्दुकै: स्तनगौरवात् ।
भृशमुद्विग्नमध्याया: केशविस्रंसितस्रज: ॥२६॥


क्रीडन्त्या: पुञ्जिकस्थल्या: while playing of Poonjikasthalee (the Apsaraa),
कन्दुकै: स्तन-गौरवात् with ball, because of heavy breast,
भृशम्-उद्विग्न-मध्याया: again and again unstable the slender waisted,
केश-विस्रंसित-स्रज: from the hair fell the flower garland

इतस्ततोभ्रमद्दृष्टेश्चलन्त्या अनुकन्दुकम् ।
वायुर्जहार तद्वास: सूक्ष्मं त्रुटितमेखलम् ॥२७॥


इत:-तत:-भ्रमत्-दृष्टे:- here and there wandering eyes,
चलन्त्या: अनुकन्दुकम् following after the ball,
वायु:-जहार तत्-वास: wind swept her garment,
सूक्ष्मम् त्रुटित-मेखलम् small, broken waist band

विससर्ज तदा बाणं मत्वा तं स्वजितं स्मर: ।
सर्वं तत्राभवन्मोघमनीशस्य यथोद्यम: ॥२८॥


विससर्ज तदा बाणम् darted, then the arrow,
मत्वा तम् स्व-जितम् स्मर: considering him by himself won over, Cupid,
सर्वम् तत्र-अभवत्-मोघम्- all there, became futile
अनीशस्य यथा-उद्यम: of the unlucky like endeavours

तं इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने ।
दह्यमाना निववृतु: प्रबोध्याहिमिवार्भका: ॥२९॥


तम् इत्थम्-अपकुर्वन्त: him, thus, offending,
मुने:-तत्-तेजसा मुने of the sage, by his glory, O Sage!
दह्यमाना: निववृतु: scorched, withdrew,
प्रबोध्य-अहिम्-इव-अर्भका: arousing snake like children

इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनि: ।
यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥३०॥


इति-इन्द्र-अनुचरै:-ब्रह्मन् in this manner, by Indra's servant's, O Holy one!
धर्षित:-अपि महामुनि: annoyed even though, the great sage
यत्-न-अगात्-अहम: भावम् in that, did not entertain ego feeling,
न तत्-चित्रम् महत्सु हि not that is strange in the noble, indeed

दृष्ट्वा निस्तेजं कामं सगणं भगवान् स्वराट् ।
श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात् परम् ॥३१॥


दृष्ट्वा निस्तेजम् कामम् observing cheerless Love,
सगणम् भगवान् स्वराट् with his entourage, The mighty Indra
श्रुत्वा-अनुभावम् ब्रह्मर्षे:- and hearing of the glory of the Braahmana sage,
विस्मयम् समगात् परम् wonder struck was highly

तस्यैवं युञ्जतश्चित्तं तप:स्वाध्यायसंयमै: ।
अनुग्रहायाविरासीन्नरनारायणो हरि: ॥३२॥


तस्य-एवम् युञ्जत:-चित्तम् his, in this manner, engaging his mind
तप:-स्वाध्याय-संयमै: in austerities, study and self control,
अनुग्रहाय-अविरासीत्- to grace, appeared,
नर-नारायण: हरि: as Nara-Naaraayana, Shree Hari

तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ ।
पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम् ॥३३॥


तौ शुक्ल-कृष्णौ नव-कञ्ज- they both, fair and dark, fresh blooming
लोचनौ चतु:-भुजौ lotus eyed, four armed,
रौरव-वल्कल-अम्बरौ black buck skin and bark clad in,
पवित्र-पाणी उपवीतकम् Kusha in hands, with sacred thread,
त्रिवृत् कमण्डलुम् of three threads, holding Kamandalus,
दण्डम्-ऋजुम् च वैणवम् staff straight and of bamboo

पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात्तप एव रूपिणौ ।
तपत्तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ ॥३४॥


पद्म-अक्ष-मालाम्-उत lotus seed string indeed,
जन्तु-मार्जनम् वेदम् च insect clearing, Vedas and
साक्षात्-तप एव रूपिणौ directly, asceticism only personifying,
तपत्-तडित्-वर्ण-पिशङ्ग- blazing lightening coloured golden
रोचिषा प्रांशू दधानौ by lustre, tall physique
विबुध-ऋषभ-अर्चितौ by gods top most worshipped

ते वै भगवतो रूपे नरनारायणावृषी ।
दृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥३५॥


ते वै भगवत: रूपे they, surely gods forms,
नर-नारायणौ-ऋषी Nara-Naaraayana Rishis,
दृष्ट्वा-उत्थाय-आदरेण-उच्चै:- seeing, arising respectfully, loudly,
ननाम-अङ्गेन दण्डवत् greeted, with the body fallen like a staff

स तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशय: ।
हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥३६॥


स: तत्-सन्दर्शन-आनन्द- he, by their exalted sight's joy
निर्वृत-आत्म-इन्द्रिय-आशय: forgetting his own self, senses and mind,
हृष्ट-रोमा-अश्रु-पूर्ण-अक्ष: with on end the hair, tearful eyes,
न सेहे तौ-उत्-उदीक्षितुम् was not able to indeed see them

उत्थाय प्राञ्जलि: प्रह्व औत्सुक्यादाश्लिषन्निव ।
नमो नम इतीशानौ बभाषे गद्गदाक्षर: ॥३७॥


उत्थाय प्राञ्जलि: प्रह्व standing up, with joined palms bending low,
औत्सुक्यात्-आश्लिषन्-इव longingly, embracing like,
नमो नम इति-ईशानौ 'Salutations! Salutations' thus to the two Lords,
नमो नम इति-ईशानौ
बभाषे गद्गद्-अक्षर: spoke in faltering words

तयोरासनमादाय पादयोरवनिज्य च ।
अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥३८॥


तयो:-आसनम्-आदाय to Them seat offering ,
पादयो:-अवनिज्य च feet washing and,
अर्हणेन-अनुलेपेन with water, sandal paste,
धूप-माल्यै:-अपूजयत् with incense and garlands worshipped

सुखमासनमासीनौ प्रसादाभिमुखौ मुनी ।
पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥३९॥


सुखम्-आसनम्-आसीनौ comfortably, on the seat seated,
प्रसाद-अभिमुखौ मुनी favourably disposed the sages,
पुन:-आनम्य पादाभ्याम् again prostrating, in the feet,
गरिष्ठौ-इदम्-अब्रवीत् the exalted, this said,
मार्कण्डेय उवाच - Maarkandeya said -

किं वर्णये तव विभो यदुदीरितोऽसु: संस्पन्दते तमनु वाङ्मनइन्द्रियाणि ।
स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धु: ॥४०॥


किम् वर्णये तव विभो how do I extol You, O Almighty!
यत्-उदीरित:-असु: संस्पन्दते by Whose prompting life force functions,
तम्-अनु वाक्-मन-इन्द्रियाणि that following speech, mind and senses,
स्पन्दन्ति वै तनुभृताम्- function, indeed of the embodied,
अज-शर्वयो:-च स्वस्य-अपि- of Brahmaa and Lord Shiva also, mine also,
अथ-अपि भजताम्-असि भावबन्धु: even then, to those who worship, are soul
अथ-अपि भजताम्-असि भावबन्धु: even then, to those who worship, are soul friend

मूर्ती इमे भगवतो भगवंस्त्रिलोक्या: क्षेमाय तापविरमाय च मृत्युजित्यै ।
नाना विभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभि: ॥४१॥


मूर्ती इमे भगवत: भगवन्- two forms these of Your Lordships, O Lord!
त्रि-लोक्या: क्षेमाय ताप- for the three worlds' benefit, sufferings
विरमाय च मृत्यु-जित्यै curtailing for, and for Death winning over
नाना विभर्षि-अवितुम्- various take on forms to redeem
अन्य-तनू:-यथा-इदम् सृष्ट्वा other bodies, like this one, creating,
पुन:-ग्रससि सर्वम्-इव-ऊर्ण-नाभि: again devour, all like the spider in the
पुन:-ग्रससि सर्वम्-इव-ऊर्ण-नाभि: again devour, all like the spider in the navel

तस्यावितु: स्थिरचरेशितुरङ्घ्रिमूलं यत्स्थं न कर्मगुणकालरुज: स्पृशन्ति ।
यद् वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै ॥४२॥


तस्य-अवितु: स्थिर-चर-ईशितु:- His, The Saviour, of immobile , mobile, The
अङ्घ्रि-मूलम् यत्-स्थम् न feet soles, those, which remaining at, do not
कर्म-गुण-काल-रुज: स्पृशन्ति of Karma, Gunas, Time caused impurities, touch
यद् वै स्तुवन्ति निनमन्ति who indeed extol, bow to,
यजन्ति-अभीक्ष्णम् ध्यायन्ति worship, regularly, meditate upon,
वेद-हृदया मुनय:-तत्-आप्त्यै Vedas holding in the heart, the sages, that to
वेद-हृदया मुनय:-तत्-आप्त्यै Vedas holding in the heart, the sages, that to attain

नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्ते: क्षेमं जनस्य परितोभिय ईश विद्म: ।
ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्य: कालस्य ते किमुत तत्कृतभौतिकानाम् ॥४३॥


न-अन्यम् तव-अङ्घ्रि-उपनयात्- not another, Your feet resorting to
अपवर्ग-मूर्ते: क्षेमम् जनस्य of The Liberation Embodied! benefit of men,
परित:-भिय: ईश विद्म: all around fear (generating), All Mighty, know,
ब्रह्मा बिभेति-अलम्-अत: Brahmaa is afraid enough, from it,
द्विपरार्ध-धिष्ण्य: कालस्य ते for two Paraardha age, of Time Yours,
किम्-उत तत्-कृत-भौतिकानाम् what of by it caused, of the beings

तद् वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरो: परस्य ।
देहाद्यपार्थमसदन्त्यमभिज्ञमात्रम् विन्देत ते तर्हि सर्वमनीषितार्थम् ॥४४॥


तद् वै भजामि-ऋत-धिय:- so, indeed (I) worship with pure mind,
तव पाद-मूलम् हित्वा-इदम्- Your feet soles, abandoning this,
आत्म-च्छदि च-आत्म-गुरो: परस्य Self concealing, and of Self The Preceptor,
आत्म-च्छदि च-आत्म-गुरो: परस्य Self concealing, and of Self The Preceptor, Supreme
देह-आदि-अपार्थम्-असत्-अन्त्यम्- body and other meaningless false, transient,
अभिज्ञ-मात्रम् विन्देत ते an experience merely, attains, from You
तर्हि सर्व-मनीषित-अर्थम् then, all sought objects

सत्वं रजस्तम इतीश तवात्मबन्धो मायामया: स्थितिलयोदयहेतवोऽस्य ।
लीला धृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥४५॥


सत्वम् रज:-तम: इति-ईश तव- Sattva, Rajas, Tamas, these O Almighty Lord!
आत्म-बन्धो: मायामया: O of Souls The Friend! Are illusion creating
स्थिति-लय-उदय- of continuance dissolution, appearance,
हेतव:-अस्य लीला धृता are cause of this, by (You) pastimes carrying on
यत्-अपि सत्त्वमयी that even the Sattva consisting
प्रशान्त्यै न-अन्ये नृणाम् is for peace, not the other, for men,
व्यसन-मोह-भिय:-च याभ्याम् suffering infatuation fear and by which two

तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति ।
यत् सात्वता: पुरुषरूपमुशन्ति सत्वं लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥४६॥


तस्मात्-तव-इह भगवन्-अथ therefore, Your, here, O Lord! Then,
तावकानाम् शुक्लाम् तनुम् of Your devotees the pure form
स्व-दयिताम् कुशला भजन्ति to themselves dear, the wise worship
यत् सात्वता: पुरुष-रूपम्-उशन्ति because devotees The Supreme Person recognize
सत्वम् लोक: यत:-अभयम्- Sattva the abode, from where is fearlessness,
उत-आत्म-सुखम् न च-अन्यत् indeed, Self-Realization bliss, not and by others

तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदेवतायै ।
नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥४७॥


तस्मै नम: भगवते to Him Salutations, The Lord
पुरुषाय भूम्ने विश्वाय Supreme Person, All Pervading, as The World,
विश्व-गुरवे पर-देवतायै of the universe The Preceptor, Supreme Deity
नारायणाय ऋषये च Naaraayana the sage, and
नर-उत्तमाय हंसाय Nara the immaculate, Pure,
संयत-गिरे निगम-ईश्वराय controlled speech, of The Vedas The Promoter

यं वै न वेद वितथाक्षपथैर्भ्रमद्भी: सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु ।
तन्माययाऽऽवृतमति: स उ एव साक्षादाद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥४८॥


यम् वै न वेद Whom indeed does not know, (the one)
वितथ-अक्ष-पथै:-भ्रमद्भी: by false senses paths wandering,
सन्तम् स्व-खेषु-असुषु present in his own senses, vital air,
हृदि-अपि दृक्-पथेषु in heart also, in the sense objects
तत्-मायया-आवृत-मति: by His Maaya clouded judgement
स: उ एव साक्षात्- he indeed also directly
आद्य:-तव-अखिल-गुरो:- the primary You, The universal Preceptor
उपसाद्य वेदम् gaining the Vedas

यद्दर्शनं निगम आत्मरह:प्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्त: ।
तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् ॥४९॥


यत्-दर्शनम् निगम Whose sight, of the Vedas
आत्म-रह:-प्रकाशम् Self secret reveals
मुह्यन्ति यत्र bewildered where
कवय:-अज-परा यतन्त: the experts, Brahmaa and others striving,
तम् सर्व-वाद-विषय Him of all the philosophies, the Subject,
प्रतिरूप-शीलम् वन्दे confirming the concepts, I bow
महा-पुरुषम्-आत्म- The Great Person, in body
निगूढ-बोधम् hidden, the knowledge
इति श्रीमद्भागवते महापुराण पारमहंस्यां संहितायां द्वादशस्कन्धे अष्टम: अध्याय: ॥८॥ Thus ends the eighth discourse in Book Twelve of the great and glorious

नवम: अध्याय:

सूत उवाच - Soota said -

संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता ।
नारायणो नरसख: प्रीत आह भृगूद्वहम् ॥१॥


संस्तुत: भगवान्-इत्थम् extolled The Lord, thus,
मार्कण्डेयेन धीमता by Maarkandeya, the learned,
नारायण: नरसख: Naaraayana, Nara as friend,
प्रीत: आह भृगु-उद्वहम् delighted said to the jewel of the Bhrigus
श्री भगवान्-उवाच - The Lord said -

भो भो ब्रह्मर्षिवर्यासि सिद्ध आत्मसमाधिना ।
मयि भक्तयानपायिन्या तप:स्वाध्यायसंयमै: ॥२॥


भो भो ब्रह्मर्षि-वर्य-असि Oh O! of the Braahmana sages the best, you are
सिद्ध आत्म-समाधिना fulfilled of purpose, by mind concentration,
मयि भक्तया-अनपायिन्या in Me by devotion unceasing,
तप:-स्वाध्याय-संयमै: and austerities, self study and self control

वयं ते परितुष्टा: स्म त्वद्बृहद्व्रतचर्यया ।
वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम् ॥३॥


वयम् ते परितुष्टा: स्म We with you very pleased are
त्वत्-बृहत्-व्रत-चर्यया by your great vow (of celibacy) undertaking
वरम् प्रतीच्छ भद्रम् ते boon ask for, May all be well with you,
वरद-ईशात्-अभीप्सितम् of the boon givers' The Lord, coveted
ऋषि:-उवाच - The sage said -

जितं ते देवदेवेश प्रपन्नार्तिहराच्युत ।
वरेणैतावतालं नो यद् भवान् समदृश्यत ॥४॥


जितम् ते देवदेवेश testified, your, (nature) O Lord of the lords,
प्रपन्-आर्ति-हर-अच्युत of shelter seekers' agony Dispeller, Immortal Lord!
वरेण-एतावत्-अलम् न: यत् with boon this much is enough, for us, that,
भवान् समदृश्यत You have been percieved

गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् ।
मनसा योगपक्वेन स भवान् मेऽक्षगोचर: ॥५॥


गृहीत्वा-अज-आदय: यस्य obtaining Brahmaa and others, Whose
श्रीमत्-पाद-अब्ज-दर्शनम् glorious feet lotus sight,
मनसा योग-पक्वेन by mind with yoga practice matured,
स: भवान् मे-अक्ष-गोचर: That You, to my senses is percieved

अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे ।
द्रक्ष्ये मायां यया लोक: सपालो वेद सद्भिदाम् ॥६॥


अथ-अपि-अम्बुज-पत्र-अक्ष then even, O Lotus petal eyed Lord!
पुण्य-श्लोक-शिखा-मणे O of sacred renowned people's crest jewel!
द्रक्ष्ये मायाम् यया लोक: will see Maayaa, by which the worlds
सपाल: वेद सद्भिदाम् with the guardians know of the Truth, the diversity
सूत उवाच - Soota said -

इतीडितोऽर्चित: काममृषिणा भगवान् मुने ।
तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वर: ॥७॥


इति-ईडित:-अर्चित: कामम्- so told, worshipped desireably,
ऋषिणा भगवान् मुने by the sage, The Lord, O Shaunaka!
तथा-इति स: स्मयन् प्रागाद् 'that be it', He smilingly proceeded
तथा-इति स: स्मयन् प्रागाद्
बदरी-आश्रमम्-ईश्वर: to Badrikaashrama, Almighty

तमेव चिन्तयन्नर्थमृषि: स्वाश्रम एव स: ।
वसन्नग्न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥८॥


तम्-एव चिन्तयन्-अर्थम्- Him alone , thinking of, the object (promised)
ऋषि: स्व-आश्रमे एव स: the sage in own hermitage only, he,
वसन्-अग्नि-अर्क-सोम- remaining, in fire, Sun, Moon,
अम्बु-भू-वायु-वियत्-आत्मसु Water, Earth, Air, Sky, Self,

ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् ।
क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुत: ॥९॥


ध्यायन् सर्वत्र च हरिम् meditated, everywhere and Shree Hari,
भाव-द्रव्यै:-अपूजयत् with mental objects worshipped,
क्वचित् पूजाम् विसस्मार sometimes to worship forgot,
प्रेम-प्रसर-सम्प्लुत: with emotions over flooding carried away

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुने: ।
उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥१०॥


तस्य-एकदा भृगु-श्रेष्ठ as he, one day, The jewel of the Bhrigus'
पुष्पभद्रा-तटे मुने: on Pushpabhadra bank, the sage,
उपासीनस्य सन्ध्यायाम् sat, in the evening,
ब्रह्मन् वायु:-अभूत्-महान् O Brahman sage! Wind blew strong

तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् कराला: ।
अक्षस्थविष्ठा मुमुचुस्तडिद्भि: स्वनन्त उच्चैरभिवर्षधारा: ॥११॥


तम् चण्ड-शब्दम् समुदीरयन्तम् that, with its terrible noise creating,
बलाहका: अन्वभवन् कराला: the clouds became fierce,
अक्ष-स्थविष्ठा: मुमुचु:-तडिद्भि: axis thick let out, with lightning
स्वनन्त: उच्चै:-अभिवर्ष-धारा: flashing, loudly, poured rain streams

ततो व्यदृश्यन्त चतु:समुद्रा: समन्तत: क्ष्मातलमाग्रसन्त: ।
समीरवेगोर्मिभिरुग्रनक्रमहाभयावर्तगभीरघोषा: ॥१२॥


तत: व्यदृश्यन्त चतु:-समुद्रा: then, were seen the four oceans,
समन्तत: क्ष्मा-तलम्-आग्रसन्त: from all sides, the earth's surface devouring,
समीर-वेग-उर्मिभि:-उग्र-नक्र by wind's speed waves agitated crocodiles,
महा-भय-आवर्त-गभीर-घोषा: very frightening whirlpools with rumbling sounds

अन्तर्बहिश्चाद्भिरतिद्युभि: खरै: शतह्रदाभीरुपतापितं जगत् ।
चतुर्विधं वीक्ष्य सहात्मना मुनिर्जलाप्लुतां क्ष्मां विमना: समत्रसत् ॥१३॥


अन्त:-बहि:-च-अद्भि:-अति-द्युभि: inside outside and with waters, very bright,
खरै: शत-ह्रदाभि:-उपतापितम् जगत् with sharp hundreds lightening tormented
खरै: शत-ह्रदाभि:-उपतापितम् जगत् with sharp hundreds lightening tormented universe
चतु:-विधम् वीक्ष्य सह-आत्मना four fold, seeing, along with himself,
मुनि:-जल-आप्लुताम् क्ष्माम् the sage, with water deluged earth,
विमना: समत्रसत् was dismayed and perturbed

तस्यैवमुद्वीक्षत ऊर्मिभीषण: प्रभञ्जनाघूर्णितवार्महार्णव: ।
आपूर्यमाणो वरषद्भिरम्बुदै: क्ष्मामप्यधाद् द्वीपवर्षाद्रिभि: समम् ॥१४॥


तस्य-एवम्-उद्वीक्षत ऊर्मि-भीषण: as he thus looked on, waves terrible,
प्रभञ्जन-आघूर्णित-वार्मह-अर्णव: violent wind tossing the deluging ocean
आपूर्यमाण: वरषद्भि:-अम्बुदै: submerged with raining clouds
क्ष्माम्-अपि-अधाद् the earth, also submerged,
द्वीप-वर्षा-अद्रिभि: समम् along with Dvipas and Varshas and mountains

सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् ।
स एक एवोर्वरितो महामुनिर्बभ्राम विक्षिप्य जटा जडान्धवत् ॥१५॥


सक्ष्म-अन्तरिक्षम् स-दिवम् with the earth, the aerial region, with the
सक्ष्म-अन्तरिक्षम् स-दिवम् with the earth, the aerial region, with the heavens,
सभागणम् त्रैलोक्यम्-आसीत् with the hosts of luminaries, the three worlds were
सह दिग्भि:-आप्लुतम् along with the quarters plunged
स: एक एव-उर्वरित: he one alone, was saved,
महामुनि:-बभ्राम the great sage, wandered
विक्षिप्य जटा जड-अन्ध-वत् tossing the matted locks stupid blind like

क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैरुपद्रुतो वीचीनभस्वता हत: ।
तमस्यपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषित: ॥१६॥


क्षुत्-तृट्-परीत: मकरै:- hunger thirst oppressed, by crocodiles
तिमिङ्गिलै:-उपद्रुत: whales assailed,
वीची-नभस्वता हत: by waves sky high beaten,
तमस्य-पारे पतित: of darkness endless fallen
भ्रमन् दिश: न वेद wandering, direction not knowing,
खम् गाम् च परिश्रम-ईषित: sky, earth and with exhaustion overcome

क्वचिद् गतो महावर्ते तरलैस्ताडित: क्वचित् ।
यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभि: ॥१७॥


क्वचिद् गत: महा-वर्ते sometimes fell in a great whirlpool,
तरलै:-ताडित: क्वचित् by waves beaten about sometimes,
यादोभि:-भक्ष्यते क्व-अपि by aquatic creature eaten at some places,
स्वयम्-अन्योन्य-घातिभि: themselves by each other eaten

क्वचिच्छोकं क्वचिन्मोहं क्वचिद् दु:खं सुखं भयम् ।
क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दित: ॥१८॥


क्वचित्-शोकम् क्वचित्-मोहम् at times grief, sometimes infatuation,
क्वचिद् दु:खम् सुखम् भयम् sometimes, sorrow, joy, fear,
क्वचित्-मृत्युम्-अवाप्नोति at times death experienced,
व्याध्य-आदिभि:-उत-अर्दित: by diseases and others indeed was afflicted

अयुतायुतवर्षाणां सहस्राणि शतानि च ।
व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मन: ॥१९॥


अयुत-अयुत-वर्षाणाम् millions and millions of years,
सहस्राणि शतानि च thousands and hundreds
व्यतीयु:-भ्रमत:-तस्मिन् passed, drifting in that (deluge)
विष्णु-माया-आवृत-आत्मन: by Vishnu's Maayaa clouded himself

स कदाचिद् भ्रमंस्तस्मिन् पृथिव्या: ककुदि द्विज: ।
न्यग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥२०॥


स: कदाचिद् भ्रमन्-तस्मिन् he once drifting, in there,
पृथिव्या: ककुदि द्विज: on earth's hillock, the Braahmana,
न्यग्रोध-पोतम् ददृशे banyan tree young saw
फल-पल्लव-शोभितम् with fruits and tender leaves adorned

प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।
शयानं पर्णपुटके ग्रसन्तं प्रभया तम: ॥२१॥


प्राक्-उत्तरस्याम् शाखायाम् on the north eastern branch
तस्य-अपि ददृशे शिशुम् of that also, saw a babe
शयानम् पर्ण-पुटके sleeping on a leaf tender,
ग्रसन्तम् प्रभया तम: swallowing by the lustre, the darkness

महामरकतश्यामं श्रीमद्वदनपङ्कजम् ।
कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥२२॥


महा-मरकत-श्यामम् valuable emerald greenish
श्रीमद्-वदन-पङ्कजम् beautiful face lotus like,
कम्बु-ग्रीवम् महो-अस्कम् conch shaped neck, broad chest
सुनासम् सुन्दर-भ्रुवम् shapely nose, and charming eyebrows

श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।
विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥२३॥


श्वास-एजत्-अलका-आभातम् by breath waving curls graced,
कम्बु-श्री-कर्ण-दाडिमम् conch like beautiful ears, with pomegranate flowers,
विद्रुम-अधर-भास-ईषत्- coral lips lustre somewhat
शोणायित-सुधा-स्मितम् crimson nectar like smile

पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् ।
श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम् ॥२४॥


पद्म-गर्भ-अरुण-अपाङ्गम् of a lotus's insides like red eyes' ends,
हृद्य-हास-अवलोकनम् heart captivating smile and glance
श्वास-एजत्-वलि-संविग्न- with breath heaving, big
निम्न-नाभि-दलोदरम् deep navel, fig tree leaves like belly

चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् ।
मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मित: ॥२५॥


चारु-अङ्गुलिभ्याम् पाणिभ्याम्- with charming fingers, hands,
उन्नीय चरण-अम्बुजम् lifting foot lotus
मुखे निधाय विप्रेन्द्र: in the mouth placing, The Braahmana's foremost
धयन्तम् वीक्ष्य विस्मित: sucking seeing was amazed

तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुज: ।
प्रहृष्ठरोमाद्भुतभावशङ्कित: प्रष्टुं पुरस्तं प्रससार बालकम् ॥२६॥


तत्-दर्शनात् वीत-परिश्रम: by that sight, disappeared fatigue,
मुदा प्रोत्फुल्ल-हृत्-पद्म with delight blooming of heart lotus
विलोचन-अम्बुज: eyes lotuses
प्रहृष्ठ-रोमा-अद्भुत-भाव: with rising on end the hair, awe filled,
शङ्कित: प्रष्टुम् पुर:-तम् doubtful, to ask in front of him,
प्रससार बालकम् approached the child

तावच्छिशोर्वै श्वसितेन भार्गव: सोऽन्त:शरीरं मशको यथाविशत् ।
तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुरामुह्यदतीव विस्मित: ॥२७॥


तावत्-शिशो:-वै श्वसितेन then, of the child, indeed, with the breath,
भार्गव: स:-अन्त:-शरीरम् Bhaargava, he, inside the body
मशक: यथा-अविशत् mosquito like entered,
तत्र-अपि-अद: न्यस्तम्-अचष्ट there also, the universe set up saw
कृत्स्नश: यथा पुरा the whole, like before,
मुह्यत्-अतीव विस्मित: was perplexed and very astonished

खं रोदसी भगणानद्रिसागरान् द्वीपान् सवर्षान् ककुभ: सुरासुरान् ।
वनानि देशान् सरित: पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तय: ॥२८॥


खम् रोदसी भगणान्- aerial region, heaven earth, hosts of luminaries,
अद्रि-सागरान् द्वीपान् स-वर्षान् mountains, oceans, islands, with divisions
ककुभ: सुर-असुरान् directions, gods, demons,
वनानि देशान् सरित: forests, countries, rivers,
पुर-आकरान् खेटान् व्रजान्- towns, mines, residences of farmers, dwellings,
आश्रम-वर्ण-वृत्तय: hermitages, the Varnas, and their functions

महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम् ।
यत् किञ्चिदन्यद् व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् ॥२९॥


महान्ति भूतानि-अथ भौतिकानि- gross elements, beings, then, material objects
असौ कालम् च नाना-युग- this Time, and various Yugas,
कल्प-कल्पनम् Kalpas conceived
यत् किञ्चित्-अन्यत् whatever other
व्यवहार-कारणम् ददर्श विश्वम् worldly living causes, saw the world,
सत्-इव-अवभासितम् real like projected

हिमालयं पुष्पवहां च तां नदीं निजाश्रमं तत्र ऋषीनपश्यत् ।
विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ ॥३०॥


हिमालयम् पुष्पवहाम् च ताम् नदीम् Himalayas, Pushpabhadra, and that river,
निज-आश्रमम् तत्र ऋषीन्-अपश्यत् own hermitage, there the sages saw,
विश्वम् विपश्यन्-श्वसितात्- the world, on looking, by the breath,
शिशो:-वै बहि:-निरस्त: of the child, indeed, outside came
न्यपतत्-लय-अब्धौ fell in the deluge ocean

तस्मिन् पृथिव्या: ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् ।
तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ॥३१॥


तस्मिन् पृथिव्या: ककुदि therein, on the earth's elevation,
प्ररूढम् वटम् च growing banyan and
तत्-पर्ण-पुटे शयानम् on its leaf surface lying
तोकम् च तत्-प्रेम-सुधा-स्मितेन a babe, and his loving nectar like smile,
निरीक्षित:-अपाङ्ग-निरीक्षणेन watching with sidelong gaze

अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।
अभ्ययादतिसंक्लिष्ट: परिष्वक्तुमधोक्षजम् ॥३२॥


अथ तम् बालकम् वीक्ष्य then that child seeing,
नेत्राभ्याम् धिष्ठितम् हृदि by the eyes enthroned in the heart,
अभ्ययात्-अति-संक्लिष्ट: proceeded, very afflicted,
परिष्वक्तुम्-अधोक्षजम् to embrace Lord Vishnu

तावत् स भगवान् साक्षाद् योगाधीशो गुहाशय: ।
अन्तर्दध ऋषे: सद्यो यथेहानीशनिर्मिता ॥३३॥


तावत् स: भगवान् just then, That Lord
साक्षात् योगाधीश: गुहाशय: Himself, The Master of Yoga, in hearts dwelling,
अन्तर्दध ऋषे: सद्य: disappeared, of the sage instantly
यथा-इह-अनीश-निर्मिता like here, of the unlucky undertaking

तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लव: ।
तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत् स्थित: ॥३४॥


तम्-अनु-अथ वट: ब्रह्मन् Him, following, then, banyan tree, O Sage!
सलिलम् लोक-सम्प्लव: the water, the universal deluge
तिरोधायि क्षणात्-अस्य disappeared, in a moment, his,
स्व-आश्रमे पूर्व-वत् स्थित: in own hermitage before like stood
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्नं नाम नवम:
अध्याय: ॥९॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्नं नाम नवम:
अध्याय: ॥९॥ Thus ends the ninth discourse entitled 'Maarkandeya witnesses (the

दशम: अध्याय:

सूत उवाच - Soota said -

स एवमनुभूयेदं नारायणविनिर्मितम् ।
वैभवं योगमायायास्तमेव शरणं ययौ ॥१॥


स: एवम्-अनुभूय-इदम् he, in this manner, experiencing this
नारायण-विनिर्मितम् by Naaraayana displayed,
वैभवम् योग-मायाया:- the glory of Yoga Maayaa,
तम्-एव शरणम् ययौ Him alone for protection sought
मार्कण्डेय उवाच - Maarkandeya said -

प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे ।
यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥२॥


प्रपन्न:-अस्मि-अङ्घ्रि-मूलम् ते taken shelter have I in feet sole Your
प्रपन्न-अभयदम् हरे to the resorted security giver, O Shree Hari!
यत्-मायया-अपि विबुधा: in that, by Maayaa, even the wise
मुह्यन्ति ज्ञान-काशया are deluded, to be knowledge repositories
सूत उवाच - Soota said -

तमेवं निभृतात्मानं वृषेण दिवि पर्यटन् ।
रुद्राण्या भगवान् रुद्रो ददर्श स्वगणिर्वृत: ॥३॥


तम्-एवम् निभृत-आत्मानम् him, thus, collected minded,
वृषेण दिवि पर्यटन् by the bull heavens journeying,
रुद्राण्या भगवान् रुद्र: with Rudraanee, Lord Rudra
ददर्श स्व-गणै:-वृत: saw, with his attendents accompanied

अथोमा तमृषिं वीक्ष्य गिरिशं समभाषत ।
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥४॥


अथ-उमा तम्-ऋषिम् वीक्ष्य then, Umaa, that sage, on seeing,
गिरिशम् समभाषत to Gresham said,
पश्य-इमम् भगवन् विप्रम् 'Look at this, O Lord! Braahmana,
पश्य-इमम् भगवन् विप्रम्
निभृत-आत्म-इन्द्रिय-आशयम् of steady mind, senses and body'

निभृतोदझषव्रातं वातापाये यथार्णवम् ।
कुर्वस्य तपस: साक्षात् संसिद्धिं सिद्धिदो भवान् ॥५॥


निभृत-उद-झष-व्रातम् 'stilled of water, fishes' multitudes,
निभृत-उद-झष-व्रातम्
वातापाये यथा-अर्णवम् on the storm having subsided, like ocean,
कुरु-अस्य तपस: साक्षात् Do his asceticism directly
संसिद्धिम् सिद्धिद: भवान् fruitful, fruit giver are You'
श्रीभगवान्-उवाच - The Glorious Lord said -

नैवेच्छत्याशिष: क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥६॥


न-एव-इच्छति-आशिष: क्व-अपि not even wishes blessing any
ब्रह्मर्षि:-मोक्षम्-अपि-उत the Braahmana sage beatitude even indeed,
भक्तिम् पराम् भगवति devotion supreme in The Lord
लब्धवान् पुरुषे-अव्यये has attained in The Lord immortal

अथापि संवदिष्यामो भवान्येतेन साधुना ।
अयं हि परमो लाभो नृणां साधुसमागम: ॥७॥


अथ-अपि संवदिष्याम: then even, will talk
भवानी-एतेन साधुना O Bhavaani! With this sage
अयम् हि परम: लाभ: this indeed is supreme gain
नृणाम् साधु-समागम: of men, with sages meeting
सूत उवाच - Soota said -

इत्युक्त्वा तमुपेयाय भगवान् स सतां गति: ।
ईशान: सर्वविद्यानामीश्वर: सर्वदेहिनाम् ॥८॥


इति-उक्त्वा तम्-उपेयाय so saying, him approached,
भगवान् स: सताम् गति: The Lord, He, of the righteous the resort,
ईशान: सर्व-विद्यानाम्- Master of all sciences,
ईश्वर: सर्व-देहिनाम् The Ruler of all embodied beings

तयोरागमनं साक्षादीशयोर्जगदात्मनो: ।
न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च ॥९॥


तयो:-अगमनम् साक्षात्- of them both coming, directly,
ईशयो:-जगत्-आत्मनो: of The Sovereigns of the universe, of The Souls,
न वेद रुद्ध-धी-वृत्ति:- did not know, with suspended mental activities,
आत्मानम् विश्वम्-एव च himself and the world even

भगवांस्तदभिज्ञाय गिरीशो योगमायया ।
आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वर: ॥१०॥


भगवान्-तत्-अभिज्ञाय The Lord, that knowing,
गिरीश: योग-मायया the Ruler of Kailaasha, by Yoga Maayaa,
आविशत्-तत्-गुहा-आकाशम् entered the cavity of his heart
वायु:-छिद्रम्-इव-ईश्वर: air a hole like, The Lord

आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् ।
त्र्यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम् ॥११॥


आत्मनि-अपि शिवम् प्राप्तम् in himself also Shiva finding,
तडित्-पिङ्ग-जटा-धरम् lightening like yellow matted locks adorning,
त्र्यक्षम् दश-भुजम् प्रांशुम्- three eyed, ten armed, tall
उद्यन्तम्-इव भास्करम् rising like sun

व्याघ्रचर्माम्बरधरं शूलखट्वाङ्गचर्मभि: ।
अक्षमालाडमरुककपालासिधनु: सह ॥१२॥


व्याघ्र-चर्म-अम्बर-धरम् tiger skin as lion cloth wearing,
शूल-खट्वाङ्ग-चर्मभि: a club, foot of bedstead, shield,
अक्ष-माला-डमरुक- Rudraaksha rosary, Damaru,
कपाल-असि-धनु: सह skull, sword, bow, with

बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मित: ।
किमिदं कुत एवेति समाधेर्विरतो मुनि: ॥१३॥


बिभ्राणम् सहसा भातम् displaying suddenly, shining
विचक्ष्य हृदि विस्मित: percieving, in the heart, amazed,
किम्-इदम् कुत: एव-इति what is this, from where indeed this, so,
समाधे:-विरत: मुनि: from trance woke up the sage

नेत्रे उन्मील्य ददृशे सगणं सोमयाऽऽगतम् ।
रुद्रं त्रिलोकैकगुरुं ननाम् शिरसा मुनि: ॥१४॥


नेत्रे उन्मील्य ददृशे on eyes opening, saw
स-गणम् स-उमया-आगतम् with the attendents, with Paarvati, come,
रुद्रम् त्रिलोक-एक-गुरुम् Rudra, of the three worlds the one preceptor,
ननाम् शिरसा मुनि: bowed with head the sage

तस्मै सपर्या व्यदधात् सगणाय सहोमया ।
स्वागतासनपाद्यार्घ्यगन्धस्रग्धूपदीपकै: ॥१५॥


तस्मै सपर्या व्यदधात् to Him worship extended,
स-गणाय सह-उमया with the attendents, with Paarvati,
स्वागत-आसन-पाद्य-अर्घ्य- with welcoming, seat, feet washing water,
गन्ध-स्रक्-धूप-दीपकै: sandal paste, garland, incense, lamp

आह चात्मानुभावेन पूर्णकामस्य ते विभो ।
करवाम किमीशान येनेदं निर्वृतं जगत् ॥१६॥


आह च-आत्म-अनुभावेन said and 'through Self Realization
पूर्ण-कामस्य ते विभो fulfilled of desires, for You, O Omnipresent Lord!
करवाम किम्-ईशान should do what desired,
येन-इदम् निर्वृतम् जगत् by whom this fulfilled is the world'

नम: शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।
रजोजुषेऽप्यघोराय नमस्तुभ्यं तमोजुषे ॥१७॥


नम: शिवाय शान्ताय Salutations to Lord Shiva, the peaceful,
सत्त्वाय प्रमृडाय च Saattvik, delighting and,
रज:-जुषे-अपि-अघोराय Raja combined of, even, unfrightful,
नम:-तुभ्यम् तम:-जुषे salutations to You, Tamas assuming,
सूत उवाच - Soota said -

एवं स्तुत: स भगवानादिदेव सतां गति:।
परितुष्ट्: प्रसन्नात्मा प्रहसंस्तमभाषत ॥१८॥


एवम् स्तुत: स: भगवान्- thus, extolled, He, The Lord,
आदि-देव: सताम् गति: the foremost of the gods, the resort of righteous
परितुष्ट: प्रसन्न-आत्मा- highly pleased, happy at soul,
प्रहसन्-तम्-अभाषत laughingly, to him said
श्री भगवान उवाच - The Lord said -

वरं वृणीष्व न: कामं वरदेशा वयं त्रय: ।
अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥१९॥


वरम् वृणीष्व न: कामम् boon ask of Us, as desired
वरद-ईशा: वयम् त्रय: boon Giver Lords we three are
अमोघम् दर्शनम् येषाम् not in vain is sight of whom
मर्त्य: यत् विन्दते-अमृतम् mortal man so that attains immortality

ब्राह्मणा: साधव: शान्ता नि:सङ्गा भूतवत्सला: ।
एकान्तभक्ता अस्मासु निर्वैरा: समदर्शिन: ॥२०॥


ब्राह्मणा: साधव: शान्ता: Braahmanas, pious, tranquil,
नि:सङ्गा: भूत-वत्सला: unattached, to the beings compassionate,
एकान्त-भक्ता: अस्मासु singularly devoted to Us,
निर्वैरा: समदर्शिन: having no enemies, look upon all equally

सलोका लोकपालास्तान् वन्दन्त्यर्चन्त्युपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिरीश्वर: ॥२१॥


स-लोका: लोकपाला:-तान् along with the spheres, the guardians, them
वन्दन्ति-अर्चन्ति-उपासते honour, worship and attend,
अहम् च भगवान् ब्रह्मा Myself, and Lord Brahmaa
स्वयम् च हरि:-ईश्वर: Himself, and Shree Hari the Almighty

न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते ।
नात्मनश्च जनस्यापि तद् युष्मान् वयमीमहि ॥२२॥


न ते मयि-अच्युते-अजे च not they, in Me, Lord Vishnu, Brahmaa and
भिदाम्-अणु-अपि चक्षते differentiate least also, observe
न-आत्मन:-च जनस्य-अपि not in themselves and people also,
तत् युष्मान् वयम्-ईमहि therefore, you all, we honour you

न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिता: ।
ते पुनन्त्युरुकालेन यूयं दर्शनमात्रत: ॥२३॥


न हि-अम्मयानि तीर्थानि not indeed, water bodies are sacred places,
न देवा:-चेतन-उज्झिता: not indeed, gods are consciousness devoid idols
ते पुनन्ति-उरु-कालेन they purify after along time,
यूयम् दर्शन-मात्रत: you all by sight alone

ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूपं त्रयीमयम् ।
बभ्रत्यात्मसमाधानतप:स्वाध्यायसंयमै: ॥२४॥


ब्राह्मणेभ्य: नमस्याम: to the Braahmanas, we bow
ये-अस्मत्-रूपम् त्रयीमयम् who, are Our forms Vedic
बभ्रति-आत्म-समाधान cherish, through concentration of mind,
तप:-स्वाध्याय-संयमै: austerities, self-study, and self-control

श्रवणाद् दर्शनाद् वापि महापातकिनोऽपि व: ।
शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभि: ॥२५॥


श्रवणात् दर्शनात् वा-अपि by hearing of you, by seeing you, or also,
महा-पातकिन:-अपि व: great sinners, even, you,
शुध्येरन्-अन्त्यजा:-च-अपि are purified, lowly born's, and also
किम्-उ सम्भाषण-आदिभि: what of by conversing and so on
सूत उवाच - Soota said -

इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् ।
वचोऽमृतायनमृषिर्नातृप्यत् कर्णयो: पिबन् ॥२६॥


इति चन्द्रललामस्य thus, His, Moon crescent on the head
धर्म-गुह्य-उपबृंहितम् righteousness deep full of
वच:-अमृतायनम्- words of nectar the abode,
ऋषि:-न-अतृप्यत् कर्णयो: पिबन् the sage was not sated, with ears drinking

स चिरं मायया विष्णोर्भ्रामित: कर्शितो भृशम् ।
शिववागमृतध्वस्तक्लेशपुञ्जस्तमब्रवीत् ॥२७॥


स: चिरम् मायया विष्णो:- he, for long by Maayaa of Lord Vishnu
भ्रामित: कर्शित: भृशम् made to wander, emaciated much,
शिव-वाक्-अमृत-ध्वस्त- by Lord Shiva's word nectar had destroyed
क्लेश-पुञ्ज:-तम्-अब्रवीत् the afflictions' lot, to Him said,
ऋषि:-उवाच - The sage said -

अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् ।
यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वरा: ॥२८॥


अहो ईश्वर-लीला-इयम् ’Oh! Of Almighty Lord pastime this
अहो ईश्वर-लीला-इयम्
दुर्विभाव्या शरीरिणाम् difficult to understand by embodied beings
यत्-नमन्ति-ईशितव्यानि in that, they bow to those who are commanded
स्तुवन्ति जगदीश्वरा: glorify of the universe The Rulers

धर्मं ग्राहयितुं प्राय: प्रवक्तारश्च देहिनाम् ।
आचरन्त्यनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥२९॥


धर्मम् ग्राहयितुम् प्राय: righteousness, to teach, generally,
प्रवक्तार:-च देहिनाम् the teachers of embodied beings
आचरन्ति-अनुमोदन्ते behave, recommend
क्रियमाणम् स्तुवन्ति च and when enacted, applaud it

नैतावता भगवत: स्वमायामयवृत्तिभि: ।
न दुष्येतानुभावस्तैर्मायिन: कुहकं यथा ॥३०॥


न-एतावता भगवत: not by this much, of The Lord,
स्व-मायामय-वृत्तिभि: by Their own Maayaa's doings
न दुष्येत-अनुभाव:-तै:- is not marred glory by those,
मायिन: कुहकम् यथा of the tricksters tricks like

सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्य य: ।
गुणै: कुर्वद्भिराभाति कर्तेव स्वप्नदृग् यथा ॥३१॥


सृष्ट्वा-इदम् मनसा विश्वम्- having created this by thought, the world,
आत्मना-अनुप्रविश्य य: by Himself afterwards entering, Who,
गुणै: कुर्वद्भि:-आभाति by the Gunas acting like seems,
कर्ता-इव स्वप्न-दृक् यथा doer like the dream watcher just as

तस्मै नमो भगवते त्रिगुणाय गुणात्मने ।
केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥३२॥


तस्मै नम: भगवते to Him I bow, to The Almighty
त्रिगुणाय गुण-आत्मने having the three Gunas, The Controller of Gunas,
केवलाय-अद्वितीयाय The Only One, without a second,
गुरवे ब्रह्म-मूर्तये The Preceptor, of Vedas the form

कं वृणे तु परं भूमन् वरं त्वद् वरदर्शनात् ।
यद्दर्शनात् पूर्णकाम: सत्यकाम: पुमान् भवेत् ॥३३॥


कम् वृणे तु परम् भूमन् what boon should I ask, great, O Omnipresent!
वरम् त्वत् वर-दर्शनात् better than that of Your the best sight,
यत्-दर्शनात् पूर्ण-काम: by which sight, fulfilled of desire,
सत्य-काम: पुमान् भवेत् true of resolve man becomes

वरमेकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।
भगवत्यच्युतां भक्तिं तत्परेषु तथा त्वयि ॥३४॥


वरम्-एकम् वृणे-अथ-अपि boon one, ask, then even
पूर्णात् काम-अभिवर्षणात् of (You) The Self-sufficient, The showerers of
पूर्णात् काम-अभिवर्षणात् of (You) The Self-sufficient, The showerers of boons,
भगवति-अच्युताम् भक्तिम् in The Almighty, unwavering devotion,
तत्-परेषु तथा त्वयि to Him devote, and in You
सूत उवाच - Soota said -

इत्यर्चितोऽभिष्टुतश्च मुनिना सूक्तया गिरा ।
तमाह भगवाञ्छर्व: शर्वया चाभिनन्दित: ॥३५॥


इति-अर्चित:-अभिष्टुत:-च thus, worshipped and extolled
मुनिना सूक्तया गिरा by the sage, with sweet words,
तम्-आह भगवान्-शर्व: to him said Lord Shiva,
शर्वया च-अभिनन्दित: by Paarvati supported

कामो महर्षे सर्वोऽयं भक्तिमांस्त्वमधोक्षजे ।
आकल्पान्तात् यश: पुण्यमजरामरता तथा ॥३६॥


काम: महर्षे सर्व:-अयम् desired, O sage! All this
भक्तिमान्-त्वम्-अधोक्षजे devoted you are to Lord Vishnu,
आकल्प-अन्तात्-यश: पुण्यम्- till Kalpa's end, (may) fame pure,
अजर-अमरता तथा devoid of old age and immortality (be yours) so as

ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।
ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥३७॥


ज्ञानम् त्रैकालिकम् ब्रह्मन् knowledge of three Times, O great sage!
विज्ञानम् च विरक्तिमत् Self-Realization and dispassionate
ब्रह्म-वर्चस्विन: भूयात् to you with Brahmanic glory, may be,
पुराण-आचार्यता-अस्तु ते of Puraanas' teacher ship may be to you

एवं वरान् स मुनये दत्वागात्त्र्यक्ष ईश्वर: ।
देव्यै तत्कर्म कथयन्ननुभूतम् पुरामुना ॥३८॥


सूत उवाच - Soota said -
एवम् वरान् स: मुनये दत्वा- in this manner, boons He, to the sage granting,
अगात्-त्रि-अक्ष ईश्वर: withdrew, The Three Eyed Lord,
देव्यै तत्-कर्म कथयन्- to the Goddess, his deeds relating,
अनुभूतम् पुरा-अमुना the experienced before by Him

सोऽप्यवाप्तमहायोगमहिमा भार्गवोत्तम: ।
विचरत्यधुनाप्यद्धा हरावेकान्ततां गत: ॥३९॥


स:-अपि-अवाप्त-महायोग- he also, attaining the great Yoga,
महिमा भार्गव-उत्तम: the glory, of the Bhrigus' the scion,
विचरति-अधुना-अपि-अद्धा goes about today also clearly
हरौ-एकान्तताम् गत: in Shree Hari exclusively devoted

अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमत: ।
अनुभूतं भगवतो मायावैभवमद्भुतम् ॥४०॥


अनुवर्णितम्-एतत्-ते is narrated to you,
मार्कण्डेयस्य धीमत: of Maarkandeya, the wise,
अनुभूतम् भगवत: experience of The Lord's
माया-वैभवम्-अद्भुतम् Maayaa's glory wonderful

एतत् केचिदविद्वांसो मायासंसृतिमात्मन: ।
अनाद्यावर्तितं नृणां कादाचित्कं प्रचक्षते ॥४१॥


एतत् केचित्-अविद्वांस: this, some not learned,
माया-संसृतिम्-आत्मन: of Maayaa's evolution of The Self,
अनादि-आवर्तितम् नृणाम् is beginingless, repeated of men,
कादाचित्कम् प्रचक्षते not often happens, say

य एवमेतद् भृगुवर्य वर्णितं रथाङ्गपाणेरनुभावभावितम् ।
संश्रावयेत् संशृणुयादु तावुभौ तयोर्न कर्माशयसंसृतिर्भवेत् ॥४२॥


य: एवम्-एतत् भृगु-वर्य whoever, thus, this, O of Bhrigu's foremost!
वर्णितम् रथ-अङ्ग-पाणे:- described, of the wheel in hand Holder's
अनुभाव-भावितम् glory extensive
संश्रावयेत् संशृणुयात्-उ narrates, hears, definitely,
तौ-उभौ तयो:-न they both, of them does not
कर्म-आशय-संसृति:- of Karmas' latencies brought about transmigration
भवेत् happens
इति श्रीमद्भागवते महापुराणे पारहहंस्यां संहितायां द्वादशस्कन्धे दशम: अध्याय: ॥१०॥ Thus ends the tenth discourse in Book Twelve of the great and glorious

एकादश: अध्याय:

शौनक उवाच - Shaunaka said -

अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम् ।
समस्ततन्त्रराद्धान्ते भवान् भागवततत्ववित् ॥१॥


अथ-इमम्-अर्थम् पृच्छाम: now, this implication, will ask,
भवन्तम् बहु-वित्तमम् to you, of many subjects knower
समस्त-तन्त्र-राद्ध-अन्ते of all the scriptures established conclusion
भवान् भागवत-तत्व-वित् you of The Lord the essence knower

तान्त्रिका: परिचर्यायां केवलस्य श्रिय: पते: ।
अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यै: ॥२॥


तान्त्रिका: परिचर्यायाम् the knowers of Tantra, when worshipping
केवलस्य श्रिय: पते: of The One Alone, Goddess Laxmi's spouse,
अङ्गोपाङ्-आयुध-आकल्पम् various limbs, weapons, ornaments,
कल्पयन्ति यथा च यै: imagine as, and by which

तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम् ।
येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ॥३॥


तत्-न: वर्णय भद्रम् ते that, to us describe, May good betide you!
क्रिया-योगम् बुभुत्सताम् Kriyaa yoga, (to us) eager to know,
येन क्रिया-नैपुणेन by which, active expertise,
मर्त्य: यायात्-अमर्त्यताम् a mortal goes to immortality
सूत उवाच - Soota said -

नमस्कृत्य गुरून् वक्ष्ये विभूतीर्वैष्णवीरपि ।
या: प्रोक्ता वेदतन्त्राभ्यामाचार्यै: पद्मजादिभि: ॥४॥


नमस्कृत्य गुरून् वक्ष्ये bowing to (my) preceptors, I will say
विभूती:-वैष्णवी:-अपि glories of Lord Vishnu even,
या: प्रोक्ता वेद-तन्त्राभ्याम्- which is spoken of by the Vedas and Tantras,
आचार्यै: पद्मज-आदिभि: preceptors, The Lotus born and others

मायाद्यैर्नवभिस्तत्त्वै: स विकारमयो विराट् ।
निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ॥५॥


माया-आद्यै:-नवभि:-तत्त्वै: by Maayaa (Prakriti) and other nine elements
स: विकारमय: विराट् He, having modifications, the huge Spirit,
निर्मित: दृश्यते यत्र created is seen where
सचित्के भुवन त्रयम् along with the consciousness of Spirit, worlds three

एतद् वै पौरुषं रूपं भू: पादौ द्यौ: शिरो नभ: ।
नाभि: सूर्योऽक्षिणी नासे वायु: कर्णौ दिश: प्रभो: ॥६॥


एतद् वै पौरुषम् रूपम् this certainly is of The Purusha, the form,
भू: पादौ द्यौ: शिर: नभ: earth feet, heaven head, sky
नाभि: सूर्य:-अक्षिणी नासे navel, Sun eyes, nostrils
वायु: कर्णौ दिश: प्रभो: air, ears quarters, of The Lord

प्रजापति: प्रजननमपानो मृत्युरीशितु: ।
तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यम: ॥७॥


प्रजापति: प्रजननम्- Prajaapati, generative organs,
अपान: मृत्यु:-ईशितु: anus, Death of The Lord,
तत्-बाहव: लोकपाला: His arms are guardians of the spheres,
मन:-चन्द्र: भ्रुवौ यम: mind is Moon, eye-brows god of death

लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रम: ।
रोमाणि भूरुहा भूम्नो मेघा: पुरुषमूर्धजा: ॥८॥


लज्जा-उत्तर:-अधर: लोभ: modesty the upper, the lower lip greed,
दन्ता: ज्योत्सना स्मय: भ्रम: teeth, moonlight, smile Maayaa,
रोमाणि भूरुहा: भूम्न: body hair the trees, of The Infinite Lord,
मेघा: पुरुष-मूर्धजा: clouds of The Cosmic Person, the hair

यावानयं वै पुरुषो यावत्या संस्थया मित: ।
तावानसावपि महापुरुषो लोकसंस्थया ॥९॥


यावान्-अयम् वै पुरुष: to as much (measure) indeed, The Purusha
यावत्या संस्थया मित: to that much measure mutually (the mortal man)
तावान्-असौ-अपि that much This also
महापुरुष: लोक-संस्थया The Cosmic Person by the sphere's measures

कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यज: ।
तत्प्रभा व्यापिनी साक्षात् श्रीवत्समुरसा विभु: ॥१०॥


कौस्तुभ-व्यपदेशेन Kaustubha, in the form of
स्व-आत्म-ज्योति:-बिभर्ति-अज: own Self lustre adorns The Birthless,
तत्-प्रभा व्यापिनी साक्षात् its splendour diffusive, directly,
श्रीवत्सम्-उरसा विभु: as Shree Vatsa, on the chest (wears) The Omnipresent

स्वमायां वनमालाख्यां नानागुणमयी दधत् ।
वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत् स्वरम् ॥११॥


स्व-मायाम् वनमाला-आख्याम् own Maayaa, Vanamaala named,
नाना-गुणमयी दधत् various Gunas having, adorns,
वास:-छन्दोमयम् पीतम् attire, Vedas consisting of, yellow,
ब्रह्म-सूत्रम् त्रिवृत् स्वरम् the sacred thread, the three sound (AUM)

विभर्ति सांख्यं योगं च देवो मकरकुण्डले ।
मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् ॥१२॥


विभर्ति सांख्यम् योगम् च flaunts Saankhya Yoga and
देव: मकर-कुण्डले The Lord as alligator ear-rings
मौलिम् पदम् पारमेष्ठ्यम् as the diadem, realm of Brahmaa
सर्व-लोक-अभयङ्करम् to all the worlds fearlessness granting

अव्याकृतमनन्ताख्यमासनं यदधिष्ठित: ।
धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते ॥१३॥


अव्याकृतम्-अनन्त-आख्यम्- the Unmanifest, Shesha, named,
आसनम् यत्-अधिष्ठित: seat, on which reclines,
धर्म-ज्ञान-अदिभि:-युक्तम् righteousness, wisdom and others consisting of
सत्त्वम् पद्मम्-इह-उच्यते Sattva, the Lotus here is called

ओज:सहोबलयुतं मुख्यतत्त्वं गदां दधत् ।
अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् ॥१४॥


ओज: सह:-बल-युतम् vitality, with strength accompanied,
मुख्य-तत्त्वम् गदाम् दधत् the primary element, (vital air), mace wielding
अपाम् तत्त्वम् दर-वरम् water element conch superior
तेज:-तत्त्वम् सुदर्शनम् fire element The Sudarshana, (the discus)

नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम् ।
कालरूपं धनु: शार्ङ्गं तथा कर्ममयेषुधिम् ॥१५॥


नभ:-निभम् नभ:-तत्त्वम्- sky like clear, the ether element
असिम् चर्म तमोमयम् sward, the shield Tamas representing,
काल-रूपम् धनु: शार्ङ्गम् Time representing the bow Shaaranga,
तथा कर्ममय-ईषुधिम् and Karma representing the quiver

इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम् ।
तन्मात्राण्यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् ॥१६॥


इन्द्रियाणि शरान्-आहु:- the senses, arrows are called,
आकूती:-अस्य स्यन्दनम् the cosmic mind, (action) His chariot,
तन्मात्राणि-अस्य-अभिव्यक्तिम् the subtle elements its (chariot's) exterior,
मुद्रयार्थ-क्रिया-आत्मताम् Madras' meaning, position of hands, action Own

मण्डलं देवयजनं दीक्षा संस्कार आत्मन: ।
परिचर्या भगवत आत्मनो दुरितक्षय: ॥१७॥


मण्डलम् देव-यजनम् the orb of the Sun is Lord's worship
दीक्षा संस्कार आत्मन: initiation the ritual of the Self,
परिचर्या भगवत service of The Lord
आत्मन: दुरित-क्षय: of ones own sins eradication

भगवान् भगशब्दार्थं लीलाकमलमुद्वहन् ।
धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् ॥१८॥


भगवान् भग-शब्द-अर्थम् The Lord, 'Bhaga' word's meaning,
लीला-कमलम्-उद्वहन् in the playfully lotus, carrying,
धर्मम् यश:-च भगवान्- righteousness renown and The Lord
चामर-व्यजने-अभजत् in the chawries and fan maintains

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् ।
त्रिवृद्वेद: सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥१९॥


आतपत्रम् तु वैकुण्ठम् umbrella like indeed Vaikuntha (His realm)
द्विजा धाम-अकुतोभयम् O Braahmanas! The realm without fear,
त्रिवृद्-वेद: सुपर्ण-आख्य: three parts of Veda, as Suparna, (Gaduda)
यज्ञम् वहति पूरुषम् the sacrifices carries and The Primary Person

अनपायिनी भगवती श्री: साक्षादात्मनो हरे: ।

विष्वक्सेनस्तन्त्रमूर्तिर्विदित: पार्षदाधिप: ।
नन्दादयोऽष्टौ द्वा:स्थाश्च तेऽणिमाद्या हरेर्गुणा: ॥२०॥


अनपायिनी भगवती श्री: inseparable, Goddess Shree,
साक्षात्-आत्मनो हरे: Herself is the Soul of Shree Hari,
विष्वक्सेन:-तन्त्र-मूर्ति:- Vishvaksena, the Tantras personifying,
विदित: पार्षद्-अधिप: is known as the attendant chief,
नन्द-आदय:-अष्टौ द्वा:-स्था:- Nanda and the others, eight gate keepers,
ते-अणिमा-आद्या: हरे:-गुणा: are those Animaa and others of Shree Hari's
ते-अणिमा-आद्या: हरे:-गुणा: are those Animaa and others of Shree Hari's attributes

वासुदेव: सङ्कर्षण: प्रद्युम्न: पुरुष: स्वयम् ।
अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहोऽभिधीयते ॥२१॥


वासुदेव: सङ्कर्षण: Vasudeva, Sankarshana,
प्रद्युम्न: पुरुष: स्वयम् Pradyumna, The Supreme Person, Himself,
अनिरुद्ध: इति ब्रह्मन् Aniruddha, thus, O Braahmana sage!
मूर्तिव्यूह:-अभिधीयते in forms four is known to be

स विश्वस्तैजस: प्राज्ञस्तुरीय इति वृत्तिभि: ।
अर्थेन्द्रियाशयज्ञानैर्भगवान् परिभाव्यते ॥२२॥


स: विश्व:-तैजस: प्राज्ञ:- He, Vishva, Taijasa, Praagya,
तुरीय इति वृत्तिभि: Tureeya, by these states,
अर्थ-इन्द्रिय-आशय-ज्ञानै:- by material, senses, mind and Knowledge
भगवान् परिभाव्यते Bhagavaan is contemplated upon

अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम् ।
बिभर्ति स्म चतुर्मूर्तिर्भगवान् हरिरीश्वर: ॥२३॥


अङ्ग-उपाङ्ग-आयुध-आकल्पै:- limbs, attendents (as limbs) weapons, ornaments
भगवान्-तत्-चतुष्टयम् The Lord, these four,
बिभर्ति स्म चतु:-मूर्ति:- assumes the four forms
भगवान् हरि:-ईश्वर: The Lord, Shree Hari

द्विजऋषभ स एष ब्रह्मयोनि: स्वयंदृक् स्वमहिमपरिपूर्णो मायया च स्वयैतत् ।
सृजतिहरतिपातीत्याख्ययानावृताक्षो विवृत इव निरुक्तस्तत्परैरात्मलभ्य: ॥२४॥


द्विज-ऋषभ स: एष: O of the Braahmanas the Best! He This,
ब्रह्म-योनि: स्वयम्-दृक् of Vedas The Source, self-effulgent,
स्व-महिम-परिपूर्ण: in own glory perfect,
मायया-च स्वया-एतत् by Maayaa of His own, this,
सृजति-हरति-पाति-इति- creates, dissolves, preserves, thus,
आख्यया-अनावृत-अक्ष: by names, undiminished of consciousness,
विवृत: इव निरुक्त:- differentiated like is described,
तत्-परै:-आत्म-लभ्य: by His devotees in The Self attainable

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोपवनिताव्रजभृत्यगीततीर्थश्रव: श्रवणमङ्गल पाहि भृत्यान् ॥२५॥


श्रीकृष्ण कृष्ण-सख वृष्णि-ऋषभ- O glorious Krishna, Arjuna's friend, Vrishnees
अवनि-ध्रुक्-राजन्य-वंश-दहन- the earth's enemies, Kshatriya race fire,
अनपवर्ग-वीर्य गोविन्द of undiminished power, Govinda,
गोप-वनिता-व्रज-भृत्य by cowherd women, Vraja lovers, (devotees)
गीत-तीर्थ-श्रव: sung of, holy to hear,
श्रवण-मङ्गल पाहि भृत्यान् to hear auspicious, protect Your votaries

य इदं कल्य उत्थाय महापुरुषलक्षणम् ।
तच्चित्त: प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥२६॥


य: इदम् कल्य उत्थाय who-so-ever, in the morning arising,
महा-पुरुष-लक्षणम् of The Mighty Person's description
तत्-चित्त: प्रयत: जप्त्वा in Him mind fixing, repeats,
ब्रह्म वेद गुह-आशयम् Brahman will know, in heart enshrined
शौनक उवाच - Shaunaka said -

शुको यदाह भगवान् विष्णुराताय शृण्वते ।
सौरो गणो मासि मासि नाना वसति सप्तक: ॥२७॥


शुक: यत्-आह भगवान् Shuka, that which said, the lord
विष्णुराताय शृण्वते to Vishnu's protégé, Pareekshit, when listening
सौरो गणो मासि मासि the Sun's batch, every month
नाना वसति सप्तक: in various (states) remain the seven

तेषां नामानि कर्माणि संयुक्तानामधीश्वरै: ।
ब्रूहि न: श्रद्धानानां व्यूहं सूर्यात्मनो हरे: ॥२८॥


तेषाम् नामानि कर्माणि their, names functions
संयुक्तानाम्-अधीश्वरै: combined with the deities (presiding over them)
ब्रूहि न: श्रद्धानानाम् do tell us, who are full of reverence
व्यूहम् सूर्य-आत्मन: हरे: the entourage of Sun personified Shree Hari,
सूत उवाच- Soota said -

अनाद्यविद्यया विष्णोरात्मन: सर्वदेहिनाम् ।
निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते ॥२९॥


अनादि-अविद्यया विष्णो:- by the beginning-less Maayaa, of Vishnu,
आत्मन: सर्व-देहिनाम् the very soul of all embodied beings,
निर्मित: लोक-तन्त्र:-अयम् is created, the worlds' activating, this (Sun)
लोकेषु परिवर्तते in the worlds courses

एक एव हि लोकानां सूर्य आत्माऽऽदिकृत्-हरि: ।
सर्ववेदक्रियामूलमृषिभिर्बहुधोदित: ॥३०॥


एक: एव हि लोकानाम् सूर्य: one alone indeed of the worlds' is Sun,
आत्मा-आदि-कृत्-हरि: the soul, the primary activator, Shree Hari,
सर्व-वेद-क्रिया-मूलम्- of all the Veda's rites the source,
ऋषिभि:-बहुधा-उदित: by the sages is in various names called

कालो देश: क्रिया कर्ता करणं कार्यमागम: ।
द्रव्यं फलमिति ब्रह्मन् नवधोक्तोऽजया हरि: ॥३१॥


काल: देश: क्रिया कर्ता as Time, place, activity, the doer,
करणम् कार्यम्-आगम: an instrument, a duty, sacred text,
द्रव्यम् फलम्-इति ब्रह्मन् material, fruit, thus, O Braahmana sage!
नवधा-उक्त:-अजया हरि: by nine names, is called, because of Maayaa, Shree
नवधा-उक्त:-अजया हरि: by nine names, is called, because of Maayaa, Shree Hari

मध्वादिषु द्वादशसु भगवान् कालरूपधृक् ।
लोकतन्त्राय चरति पृथग्द्वादशभिर्गणै: ॥३२॥


मधु-आदिषु द्वादशसु in Madhu maas (spring season) and twelve,
भगवान् काल-रूप-धृक् The Lord, Time form assuming,
लोक-तन्त्राय चरति for the world's going on, moves,
पृथक्-द्वादशभि:-गणै: with different twelve attendant batches

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥३३॥


धाता कृतस्थली Dhaataa (Sun), Kritasthali (Apsaraa)
हेति:-वासुकी Heti (Raakshasha) Vaasuki (snake)
रथकृत्-मुने Rathakrit (Yaksha), O Sage!
पुलस्त्य:-तुम्बुरु:-इति Pulastya (the sage) Tumburu (Gandharva), these
मधु-मासम् नयन्ति-अमी Madhu maas, month of spring take forward, these

अर्यमा पुलहोऽथौजा: प्रहेति: पुञ्जिकस्थली ।
नारद: कच्छनीरश्च नयन्त्ये स्म माधवम् ॥३४॥


अर्यमा पुलह:-अथौजा: Aryamaa, Pulaha, Athaujaa,
प्रहेति पुञ्जिकस्थली Praheti, Poonjikasthalee,
नारद: कच्छनीर:-च Naarada, Kacchaneera, and
नयन्त्ये स्म माधवम् carry forward Maadhava maas, (Vaishaakha)

मित्रोऽत्रि: पौरुषेयोऽथ तक्षको मेनका हहा: ।
रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥३५॥


मित्र:-अत्रि: पौरुषेय:-अथ Mitra, Atri, Paurusheya, then,
तक्षक: मेनका हहा: Takshaka, Menakaa, Hahaa,
रथस्वन इति हि-एते Rathasvana, thus, indeed, these
शुक्र-मासम् नयन्ति-अमी Shukra maas, month of Jyeshthaa, will run it

वसिष्ठॊ वरुणो रम्भा सहजन्यस्तथा हुहू: ।
शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥४६॥


वसिष्ठ: वरुण: रम्भा Vashishtha, Varuna, Rambhaa,
सहजन्य:-तथा हुहू: Sahajanya, and Huhoo
शुक्र:-चित्रस्वन:-च-एव Shukra, Chitrasvana and also,
शुचि-मासम् नयन्ति-अमी Shuchi maas, month of Aashaadha, will run this

इन्द्रो विश्वावसु: श्रोता एलापत्रस्तथाङ्गिरा: ।
प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ॥३७॥


इन्द्र: विश्वावसु: श्रोता Indra, Vishwaavasu, Shrotaa,
एलापत्र:-तथा-अङ्गिरा: Elaapatra, and Angiraa,
प्रम्लोचा राक्षस: वर्य: Pramalocha, the Raakshasa Varya,
नभ:-मासम् नयन्ति-अमी Nabha maas, Shraavana month, will take these

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगु: ।
अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥३८॥


विवस्वान्-उग्रसेन:-च Vivasvaan, Ugrasena, and
व्याघ्र: आसारण: भृगु: Vyaaghra, Aasaarana, Bhrigu,
अनुम्लोचा शङ्खपाल: Anumlochaa Shankhapaala
नभस्य-आख्यम् Nabha named, month of Bhaadrapada
नयन्ति-अमी will take this

पूषा धनञ्जयो वात: सुषेण: सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥३९॥


पूषा धनञ्जय: वात: Pooshaa, Dhananjaya, Vaata,
सुषेण: सुरुचि:-तथा Sushena, Suruchi and
घृताची गौतम:-च-इति Ghritaachi, Gautama and, thus,
तप:-मासम् नयन्ति-अमी Tapa maas, month of Maagha will take it

क्रतुर्वर्चा भरद्वाज: पर्जन्य: सेनजित्तथा ।
विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥४०॥


क्रतु:-वर्चा भरद्वाज: Kratu, Varchaa, Bharadvaaja,
पर्जन्य: सेनजित्-तथा Parjanya, Senajit, and
विश्व ऐरावत:-च-एव Vishva, Airaawata, and also,
तपस्या-आख्यम् नयन्ति-अमी Tapasyaa named, Phaalguna month will take

अथांशु: कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।
विद्युच्छत्रुर्महाशङ्ख: सहोमासं नयन्त्यमी ॥४१॥


अथ-अंशु: कश्यप:-तार्क्ष्य then, Anshu, Kashyapa, Taarkshya,
ऋतसेन:-तथा-उर्वशी Ritasena, and Urvashi,
विद्युच्छत्रु:-महाशङ्ख: Vidyutshatru, Mahaashankha,
सहो-मासम् नयन्ति-अमी Saho maas, month of Maargasheersha will run

भग: स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चम: ।
कर्कोटक: पूर्वचित्ति: पुष्यमासं नयन्त्यमी ॥42॥


भग: स्फूर्ज:-अरिष्टनेमि:- Bhaga, Sphoorja, Arishtanemi,
ऊर्ण आयु:-च पञ्चम: Oorna, Aayu, and the five,
कर्कोटक: पूर्वचित्ति: Karkotaka Poorvachitti
पुष्य मासम् नयन्ति-अमी Pushya maas, Pausa month will run

त्वष्टा ऋचीकतनय: कम्बलश्च तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजिद् धृतराष्ट्र इषम्भरा: ॥४३॥


त्वष्टा ऋचीक-तनय: Twashtaa, Richeeka's son, (Jamadagni),
कम्बल:-च तिलोत्तमा Kambala, and Tilottamaa
ब्रह्मापेतो:-अथ शतजित् Brahmaapeta, then, Shatajit,
धृतराष्ट्र: इषम्भरा: Dhritaraashtra, of Isha maas, (Aashwin), fulfillers

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥४४॥


विष्णु:-अश्वतर: रम्भा Vishnu, Ashvatara, Rambhaa,
सूर्यवर्चा:-च सत्यजित् Sooryavarchaa, and Satyajit,
विश्वामित्र: मखापेत: Vishwaamitra, Makhaapeta,
ऊर्ज-मासम् नयन्ति-अमी Oorja maas, month of Kaartika, fulfil these

एता भगवतो विष्णोरादित्यस्य विभूतय: ।
स्मरतां सन्ध्ययोर्नृणां हरन्त्यंहो दिने दिने ॥४५॥


एता: भगवत: विष्णो:- these are of Lord Vishnu
आदित्यस्य विभूतय: The Sun's glories,
स्मरताम् सन्ध्ययो:-नृणाम् remembering in morning and evening, of men
हरन्ति-अंह: दिने दिने steal away the sins, day by day

द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै ।
चरन् समन्तात्तनुते परत्रेह च सन्मतिम् ॥४६॥


द्वादशसु-अपि मासेषु in twelve even months,
देव:-असौ षड्भि:-अस्य वै The Lord, this, with six of His indeed,
चरन् समन्तात्-तनुते coursing round, spreads
परत्र-इह च सत्-मतिम् hereafter, here and good sense

सामर्ग्यजुर्भिस्तल्लिङ्गैरृषय: संस्तुवन्त्यमुम् ।
गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रत: ॥४७॥


साम-ऋग्-यजुर्भि:-तत्-लिङ्गै:- with Saama, Rig, Yajur, His glories,
ऋषय: संस्तुवन्ति-अमुम् the sages, extol Him,
गन्धर्वा:-तम् प्रगायन्ति Gandharvas, of Him sing,
नृत्यन्ति-अप्सरस:-अग्रत: dance the Apsaras, in front

उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजका: ।
चोदयन्ति रथं पृष्ठे नैर्ऋता बलशालिन: ॥४८॥


उन्नह्यन्ति रथम् नागा: tightly knit together the chariot, the Naagas,
ग्रामण्य: रथ-योजका: the Yakshakas, chariot keep ready,
चोदयन्ति रथम् पृष्ठे push the chariot from back
नैर्ऋता: बल-शालिन: the Raakshashas, of great strength

बालखिल्या: सहस्राणि षष्टिर्ब्रह्मर्षयोऽमला: ।
पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ॥४९॥


बालखिल्या: सहस्राणि Baalakhilyaas, thousands
षष्टि:-ब्रह्म-ऋषय:-अमला: sixty, divine sages pure,
पुरत:-अभिमुखम् यान्ति in front, facing proceed,
स्तुवन्ति स्तुतिभि:-विभुम् extol with hymns The Lord

एवं ह्यनादिनिधनो भगवान् हरिरीश्वर: ।
कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यज: ॥५०॥


एवम् हि-अनादि-निधन: in this manner only, beginning-less, end-less
भगवान् हरि:-ईश्वर: The Lord, Shree Hari, The Mighty
कल्पे कल्पे स्वम्-आत्मानम् in every Kalpa, His own Self
व्यूह्य लोकान्-अवति-अज: dividing, the worlds protects, The birth-less
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे आदित्यव्यूहविवरणं नाम
एकादश: अध्याय: ॥११॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे आदित्यव्यूहविवरणं नाम
एकादश: अध्याय: ॥११॥ Thus ends the eleventh discourse entitled 'A description of the Sun-god (presiding under different names over the twelve months of a year) with

द्वादश: अध्याय:

सूत उवाच - Soota said -

नमो धर्माय महते नम: कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥१॥


नम: धर्माय महते I bow to virtues exalted,
नम: कृष्णाय वेधसे bow to Krishna, The universe creator
ब्राह्मणेभ्य: नमस्कृत्य to the Braahmanas bowing,
धर्मान् वक्ष्ये सनातनान् virtues will speak of, the eternal

एतद् व: कथितं विप्रा विष्णोश्चरितमद्भुतम् ।
भवद्भिर्यदहं पृष्टो नराणां पुरुषोचितम् ॥२॥


एतत् व: कथितम् विप्रा: this to you all is told, O Braahmanas!
विष्णो:-चरितम्-अद्भुतम् of Vishnu the story wonderful,
भवद्भि:-यत्-अहम् पृष्ट: by you all which I was asked of,
नराणाम् पुरुष-उचितम् for the men with manlike traces

अत्र सङ्कीर्तित: साक्षात् सर्वपापहरो हरि: ।
नारायणो हृषीकेशो भगवान् सात्वतां पति: ॥३॥


अत्र सङ्कीर्तित: साक्षात् in this is praised Himself,
सर्व-पाप-हर: हरि: of all sins The Dispeller, Shree Hari,
नारायण: हृषीकेश: Lord Naaraayana, The Ruler of the senses,
भगवान् सात्वताम् पति: The Lord of the devotees The Protector

अत्र ब्रह्म परं गुह्यं जगत: प्रभवाप्ययम् ।
ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥४॥


अत्र ब्रह्म परम् गुह्यम् here, Brahman, the highly mysterious,
जगत: प्रभव-अपि-अयम् of universe, creation, end also He
ज्ञानम् च तत्-उपाख्यानम् the knowledge and its awakening, (Realization)
प्रोक्तम् विज्ञान-संयुतम् is said about, enlightenment accompanied with

भक्तियोग: समाख्यातो वैराग्यं च तदाश्रयम् ।
पारीक्षितमुपाख्यानं नारदाख्यानमेव च ॥५॥


भक्ति-योग: समाख्यात: of devotion the discipline is well discussed
वैराग्यम् च तत्-आश्रयम् Vairaagya (dispassion) and its support,
पारीक्षितम्-उपाख्यानम् of Pareekshit the story,
नारद-आख्यानम्-एव च of Naarada the story also and

प्रायोपवेशो राजर्षेर्विप्रशापात् परीक्षित: ।
शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षित: ॥६॥


प्रायोपवेश: राजर्षे:- fast until death of the royal sage,
विप्र-शापात् परीक्षित: by the Braahmana's curse, of Pareekshit,
शुकस्य ब्रह्म-ऋषभस्य of Shuka of the Braahmana's the foremost
संवाद:-च परीक्षित: dialogue and of Pareekshit

योगधारणयोत्क्रान्ति: संवादो नारदाजयो: ।
अवतारानुगीतं च सर्ग: प्राधानिकोऽग्रत: ॥७॥


योग-धारणया-उत्क्रान्ति: through Yogic concentration, ascent,
संवाद: नारद-अजयो: dialogue between Naarada and Brahmaa,
अवतार-अनुगीतम् च the descents sequentially described and
सर्ग: प्राधानिक:-अग्रत: cosmic evolution from Prakriti, from the beginning

विदुरोद्धवसंवाद: क्षत्तमैत्रेययोस्तत: ।
पुराणसंहिताप्रश्नो महापुरुषसंस्थिति: ॥८॥


विदुर-उद्धव-संवाद: of Vidura, Uddhava, the dialogue,
क्षत्त-मैत्रेययो:-तत: of Vidura and Maitreya, then,
पुराण-संहिता-प्रश्न: of Puraana the collection inquiry
महापुरुष-संस्थिति: of The Supreme Person's state, (at delusion)

तत: प्राकृतिक: सर्ग: सप्त वैकृतिकाश्च ये ।
ततो ब्रह्माण्डसम्भूतिर्वैराज: पुरुषो यत: ॥९॥


तत: प्राकृतिक: सर्ग: after that, of Prakriti, the evolution
सप्त वैकृतिका:-च ये (developing into) seven categories, and which
तत: ब्रह्म-अण्ड-सम्भूति:- then, of cosmic egg evolution,
वैराज: पुरुष: यत: The Cosmic Person from where

कालस्य स्थूलसूक्ष्मस्य गति: पद्मसमुद्भव: ।
भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा ॥१०॥


कालस्य स्थूल-सूक्ष्मस्य of Time, gross and subtle,
गति: पद्म-समुद्भव: the states, of Lotus the appearance,
भुव: उद्धरणे-अम्भोधे:- in the earth's uplifting from the ocean,
हिरण्याक्ष-वध: यथा Hiranyaaksha's slaying, as

ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।
अर्धनारीनरस्याथ यत: स्वायम्भुवो मनु: ॥११॥


ऊर्ध्व-तिर्यक्-अवाक्-सर्ग: of the higher, subhuman, subterranean creation,
रुद्र-सर्ग:-तथा-एव-च Rudra's creation, also even and,
अर्ध-नारी-नरस्य-अथ of half woman man then,
यत: स्वायम्भुव: मनु: from which Swaayambhuva Manu

शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा ।
सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापते: ॥१२॥


शतरूपा च या स्त्रीणाम्- Shataroopaa and who, of the woman
आद्या प्रकृति:-उत्तमा the first, pattern foremost
सन्तान: धर्म-पत्नीनाम् the progeny, virtues of the wedded wives,
कर्दमस्य प्रजापते: of Kardama the lord of creation

अवतारो भगवत: कपिलस्य महात्मन: ।
देवहूत्याश्च संवाद: कपिलेन च धीमत: ॥१३॥


अवतार: भगवत: descent of The Lord,
कपिलस्य महात्मन: of Kapila The Supreme,
देवहूत्या:-च संवाद: Devahooti's and conversation,
कपिलेन च धीमत: with Kapila and the embodiment of wisdom

नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् ।
ध्रुवस्य चरितं पश्चात्पृथो: प्राचीनवर्हिष: ॥१४॥


नव-ब्रह्म-समुत्पत्ति:- of the nine lords of creation, the progeny,
दक्ष-यज्ञ-विनाशनम् Daksha's Yagya's destruction,
ध्रुवस्य चरितम् पश्चात्- Dhruva's narrative, after that,
पृथो: प्राचीनवर्हिष: of King Prithu, then of Praacheenabarhi

नारदस्य च संवादस्तत: प्रैयव्रतं द्विजा: ।
नाभेस्ततोऽनुचरितमृषभस्य भरतस्य च ॥१५॥


नारदस्य च संवाद:- And of Naarada, the dialogue,
तत: प्रैयव्रतम् द्विजा: then of Priyavrata, O Braahmanas!
नाभे:-तत:-अनुचरितम्- of Naabhi, then the narrative
ऋषभस्य भरतस्य च of Rishabha and Bharata

द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।
ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थिति: ॥१६॥


द्वीप-वर्ष-समुद्राणाम् continents, their divisions, oceans,
गिरि-नदी-उपवर्णनम् mountains, rivers, description,
ज्योति:-चक्रस्य संस्थानम् of the luminous spheres the disposition,
पाताल-नरक-स्थिति: of subterranean worlds' infernal regions' location

दक्ष जन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्तति: ।
यतो देवासुरनरास्तिर्यङ्नगखगादय: ॥१७॥


दक्ष जन्म प्रचेतोभ्य:- Daksha's birth from the Praachetas,
तत्-पुत्रीणाम् च सन्तति: his daughters' progeny,
यत: देवा-असुर-नरा:- from whom gods, demons, human beings,
तिर्यङ्-नग-खग-आदय: animals, immobile, birds and others

त्वाष्ट्रस्य जन्म निधनं पुत्रयोश्च दितेर्द्विजा: ।
दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मन: ॥१८॥


त्वाष्ट्रस्य जन्म निधनम् Twashtra's son Vritraasura's birth, death
पुत्रयो:-च दिते:-द्विजा: of the two sons of Diti, O Braahmanas!
दैत्य-ईश्वरस्य चरितम् of the demons' the lord's narration,
प्रह्लादस्य महात्मन: of Prahlaada, the high souled

मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।
मन्वन्तरावताराश्च विष्णोर्हयशिरादय: ॥१९॥


मन्वन्तर-अनुकथनम् of the Manvantaras the account,
गजेन्द्रस्य विमोक्षणम् of the King of elephants, deliverance,
मन्वन्त-अवतारा:-च in the Manvantaras, the descents and
विष्णो:-हय-शिर-आदय: of Lord Vishnu, Hayagreeva and others

कौर्मं धान्वन्तरं मात्स्यं वामनं च जगत्पते: ।
क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् ॥२०॥


कौर्मम् धान्वन्तरम् मात्स्यम् of divine Tortoise, of Lord Dhanvantaree, of
कौर्मम् धान्वन्तरम् मात्स्यम् of divine Tortoise, of Lord Dhanvantaree, of divine Fish,
वामनम् च जगत्पते: of divine dwarf, and of the Universe's Ruler,
क्षीरोद-मथनम् तत्-वत् milk ocean churning, that like,
अमृत-अर्थे दिवौकसाम् for nectar's sake, of the gods

देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।
इक्ष्वाकुजन्म तद्वंश: सुद्युम्नस्य महात्मन: ॥२१॥


देव-असुर-महा-युद्धम् of the gods, demons the great combat,
राज-वंश-अनुकीर्तनम् of the kings' genealogy, the description,
इक्ष्वाकु-जन्म तत्-वंश: Ikshvaaku's birth, his genealogy,
सुद्युम्नस्य महात्मन: of Sudyumna, the great soul

इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।
सूर्यवंशानुकथनं शशादाद्या नृगादय: ॥२२॥


इला-उपाख्यानम्-अत्र-उक्तम् Ilaa's narrative is here given,
तारा-उपाख्यानम्-एव च Taaraa's narrative also and
सूर्य-वंश-अनुकथनम् of Solar dynasty the description,
शशाद-आद्या: नृगादय: of Shashaada and Nriga, and other kings

सौकन्यं चाथ शर्याते: ककुत्स्थस्य च धीमत: ।
खट्वाङ्गस्य च मान्धातु: सौभरे: सगरस्य च ॥२३॥


सौकन्यम् च-अथ शर्याते: of Sukanyaa, and then, of Sharyaati,
ककुत्स्थस्य च धीमत: of Kakustha and the wise,
खट्वाङ्गस्य च मान्धातु: of Khatwaanga, and Maandhaataa,
सौभरे: सगरस्य च of Saubhari and Sagara

रामस्य कोसलेन्द्रस्य चरितं किल्बिषापहम् ।
निमेरङ्गपरित्यागो जनकानां च सम्भव: ॥२४॥


रामस्य कोसल-इन्द्रस्य of Raama, of Kausalas the Ruler,
चरितम् किल्बिष-अपहम् the narrative, sins removing
निमे:-अङ्ग-परित्याग: of Nimi the body casting off,
जनकानाम् च सम्भव: of the Janaka's and origin

रामस्य भार्गवेन्द्रस्य नि:क्षत्रकरणम् भुव: ।
ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥२५॥


रामस्य भार्गव-इन्द्रस्य of Parashuraama, of Bhrigu's the scion,
नि:क्षत्र-करणम् भुव: sans Kshatriyas rendering the earth,
ऐलस्य सोम-वंशस्य of Aila, (Pururavaa), of the Lunar line,
ययाते:-नहुषस्य च of Yayaati and Nahusha

दौष्यन्तेर्भरतस्यापि शन्तनोस्तत्सुतस्य च ।
ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तित: ॥२६॥


दौष्यन्ते:-भरतस्य-अपि of Dushyanta's son, Bharata also,
शन्तनो:-तत्-सुतस्य च of Shantanu and his son,
ययाते:-ज्येष्ठ-पुत्रस्य of Yayaati's eldest son (Yadu)
यदो:-वंश-अनुकीर्तित: of Yadu's lineage the description

यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वर: ।
वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥२७॥


यत्र-अवतीर्ण: भगवान्- where descended The Lord
कृष्ण-आख्य: जगत्-ईश्वर: Krishna named, of the universe The Ruler,
वसुदेव-गृहे जन्म in Vasudeva's house, the birth,
तत: वृद्धि:-च गोकुले then, growing up and in Gokula

तस्य कर्माण्यापाराणि कीर्तितान्यसुरद्विष: ।
पूतनासुपय:पानं शकटोच्चाटनं शिशो: ॥२८॥


तस्य कर्माणि-अपाराणि His exploits endless,
कीर्तितानि-असुर-द्विष: are highlighted, of The demons' enemy,
पूतना-असु-पय:-पानम् of Pootana's life with milk drinking
शकट-उच्चाटनम् शिशो: the cart's upturning by Him as a child

तृणावर्तस्य निष्पेषस्तथैव वकवत्सयो: ।
धेनुकस्य सहभ्रातु: प्रलम्बस्य च संक्षय: ॥२९॥


तृणावर्तस्य निष्पेष:- of Trinaavarta, the crushing,
तथा-एव वक-वत्सयो: and also, of Bakaasura and Vatsa, the calf,
धेनुकस्य सह-भ्रातु: of Dhenuka, with the brother,
प्रलम्बस्य च संक्षय: of Pralamba and the destruction

गोपानां च परित्राणं दावाग्ने: परिसर्पत: ।
दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम् ॥३०॥


गोपानाम् च परित्राणम् of the Gopas' and saving
दावा-अग्ने: परिसर्पत: from forest fire, spreading,
दमनम् कालियस्य-अहे:- of strangling of Kaaliya, the snake,
महा-अहे:-नन्द-मोक्षणम् from the great snake Nanda's deliverance

व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतै: ।
प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ॥३१॥


व्रत-चर्या तु कन्यानाम् vow observing of the maidens
यत्र तुष्ट:-अच्युत: व्रतै: where is satisfied The Immortal Lord by vows
प्रसाद: यज्ञ-पत्नीभ्य: grace on sacrifice conducting Braahmanas' wives
विप्राणाम् च-अनुतापनम् of the Braahmanas and repentance

गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ।
यज्ञाभिषेकं कृष्णस्य स्त्रीभि: क्रीडा च रात्रिषु ॥३२॥


गोवर्धन-उद्धारणम् च of Govardhana, the uplifting, and
शक्रस्य सुरभे:-अथ of Indra and Surabhi, the cow, then,
यज्ञ-अभिषेकम् कृष्णस्य for sacrifice bathed with milk, Krishna,
स्त्रीभि: क्रीडा च रात्रिषु with the damsels pastimes and for nights

शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिन: ।
अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयो: ॥३३॥


शङ्खचूडस्य दुर्बुद्धे:- of Shankhachooda, the evil minded
वध:-अरिष्टस्य केशिन: the slaying, of Arishta and Keshi
अक्रूर-आगमनम् पश्चात् of Akroora's coming, afterwards
प्रस्थानम् राम-कृष्णयो: the departure of Balaraama and Krishna

व्रजस्त्रीणां विलापश्च मथुरालोकनं तत: ।
गजमुष्टिकचाणूरकंसादीनां च यो वध: ॥३४॥


व्रज-स्त्रीणाम् विलाप:-च of the Vraja women's wailing, and
मथुरा-आलोकनम् तत: Mathura's touring after that,
गज-मुष्टिक-चाणूर- of the elephant, Mushtika, Chaanoora,
कंस-आदीनाम् च य: वध: Kansa and others' that killing

मृतस्यानयनं सूनो: पुन: सान्दीपनेर्गुरो: ।

मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।
कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजा: ॥३५॥


मृतस्य-आनयनम् सूनो: of the dead, bringing of son
पुन: सान्दीपने:-गुरो: again, of Sandeepani preceptor,
मथुरायाम् निवसता in Mathura, when living
यदुचक्रस्य यत्-प्रियम् of the Yadu clan, the good
कृतम्-उद्धव-रामाभ्याम् doing, with Uddhava and Balaraama
युतेन हरिणा द्विजा: accompanied, by Shree Hari, O Braahmanas!

जरासन्धसमानीतसैन्यस्य बहुशो वध: ।
घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥३६॥


जरासन्ध-समानीत- by Jaraasandha led
सैन्यस्य बहुश: वध: of army many times, killing
घातनम् यवन-इन्द्रस्य destruction of the Yavana king, (Kaalayavana)
कुशस्थल्या: निवेशनम् of Kushasthali (Dwaarakaa) founding

आदानं पारिजातस्य सुधर्माया: सुरालयात् ।
रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरे: ॥३७॥


आदानम् पारिजातस्य bringing of Paareejaatas (tree)
सुधर्माया: सुर-आलयात् of Sudharmaa, (meeting hall) from gods' realm
रुक्मिण्या: हरणम् युद्धे Rukmini's abduction, in the battle,
प्रमथ्य द्विषत: हरे: crushing the enemies of Shree Hari

हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।
प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥३८॥


हरस्य जृम्भणम् युद्धे of Lord Shiva using the Jimbhranam in battle,
बाणस्य भुज-कृन्तनम् of Bakaasura's arms severing,
प्राग्ज्योतिष-पतिम् हत्वा of Praagjyotish's ruler (Narakaasura) having
प्राग्ज्योतिष-पतिम् हत्वा of Praagjyotish's ruler (Narakaasura) having killed,
कन्यानाम् हरणम् च यत् of the maidens taking and which

चैद्यपौण्ड्रकशाल्वानां दन्तवक्त्रस्य दुर्मते: ।
शम्बरो द्विविद: पीठो मुर: पञ्चजनादय: ॥३९॥


चैद्य-पौण्ड्रक-शाल्वानाम् of Chaidya, (Shishupaala) Paundraka, Shaalva,
दन्तवक्त्रस्य दुर्मते: Dantavaktra, the evil minded,
शम्बर: द्विविद: पीठ: of Shambara, Dvivida, Peetha,
मुर: पञ्चजन-आदय: Mura, Panchajana, and others

माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।
भारावतरणं भूमेर्निमित्तीकृत्य पाण्डवान् ॥४०॥


माहात्म्यम् च वध:-तेषाम् glorifying of The Lord, and killing of them (demons)
वाराणस्या:-च दाहनम् of Vaaraanasi and set on fire,
भार-अवतरणम् भूमे:- burden relieving of the earth
निमित्ती-कृत्य पाण्डवान् instrumentalizing the Paandavas

विप्रशापापदेशेन संहार: स्वकुलस्य च ।
उद्धवस्य च संवादो वासुदेवस्य चाद्भुत: ॥४१॥


विप्र-शाप-अपदेशेन संहार: by the Braahmana's curse effect, destruction
स्व-कुलस्य च of (His) own race and
उद्धवस्य च संवाद: Uddhava's and dialogue
वासुदेवस्य च-अद्भुत: of Vaasudeva and wonderful

यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णय: ।
ततो मर्त्यपरित्याग आत्मयोगानुभावत: ॥४२॥


यत्र-आत्म-विद्या हि-अखिला in which of Self knowledge indeed, entire,
प्रोक्ता धर्म-विनिर्णय: is expounded duties of human beings, conclusively
तत: मर्त्य-परित्याग: then, the mortal (garb) giving up,
आत्म-योग-अनुभावत: by (His) own Yogic power using

युगलक्षणवृत्तिश्च कलौ नृणामुपप्लव: ।
चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥४३॥


युग-लक्षण-वृत्ति:-च of Yugas the characteristics, conduct and
कलौ नृणाम्-उपप्लव: in Kali, of the men, perversion,
चतु:-विध:-च प्रलय: four types and Pralaya,
उत्पत्ति:-त्रि-विधा तथा creation three types and

देहत्यागश्च राजर्षेर्विष्णुरातस्य धीमत: ।

शाखाप्रणयनमृषेर्मार्कण्डेयस्य सत्कथा ।
महापुरुषविन्यास: सूर्यस्य जगदात्मन: ॥४४॥


देह-त्याग:-च राजर्षे: body casting off and of the royal sage,
विष्णुरातस्य धीमत: of Vishnu's favoured, the wise,
शाखा-प्रणयनम्- branches dividing into of (Vedas)
ऋषे:-मार्कण्डेयस्य सत्-कथा of sage Maarkandeya, the holy narrative,
महा-पुरुष-विन्यास: of The Supreme Person's disposition,
सूर्यस्य जगदात्मन: of The Sun (the entourage), the world's Soul

इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि व: ।
लीलावतारकर्माणि कीर्तितानीह सर्वश: ॥४५॥


इति च-उक्तम् द्विजश्रेष्ठा: this and is said, O Best of Braahmanas!
यत्-पृष्ट:-अहम्-इह-अस्मि व: which is asked to me, here am, by you all
लीला-अवतार-कर्माणि the sportive avataaras, and exploits,
कीर्तितानि-इह सर्वश: are highlighted here in totality

पतित: स्खलितश्चार्त: क्षुत्त्वा विवशो ब्रुवन् ।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात् ॥४६॥


पतित: स्खलित:-च-आर्त: fallen, tripped, and afflicted,
क्षुत्त्वा विवश: ब्रुवन् sneezing, helplessly, uttering
हरये नम: इति-उच्चै:- to Hari I bow' this loudly
मुच्यते सर्व-पातकात् is absolved of all sins

सङ्कीर्त्यमानो भगवाननन्त: श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवात: ॥४७॥


सङ्कीर्त्यमान: भगवान्-अनन्त: chanting, of The Lord Eternal
श्रुत-अनुभाव: व्यसनम् हि पुंसाम् hearing glories, sorrows of men,
प्रविश्य चित्तम् विधुनोति-अशेषम् entering the mind, washes away total
यथा तम:-अर्क:-अभ्रम्-इव-अति-वात: just as darkness Sun, clouds like much
यथा तम:-अर्क:-अभ्रम्-इव-अति-वात: just as darkness Sun, clouds like much wind

मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद् भगवानधोक्षज: ।
तदेव सत्यं तदुहैव मङ्गलं तदेव पुण्यं भगवद्गुणोदयम् ॥४८॥


मृषा: गिर:-ता: हि-असती:- false speech those indeed are ignoble,
असत्-कथा न कथ्यते baseless stories, do not speak
यद् भगवान्-अधोक्षज: which of The Lord Vishnu, beyond sense perception
तत्-एव सत्यम् तत्-उह-एव that alone is true, that indeed only
मङ्गलम् तत्-एव पुण्यम् is benedictory, that alone is meritorious,
भगवत्-गुण-उदयम् of The Lord's glories is fountainhead

तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नृणां यदुत्तमश्लोकयशोऽनुगीयते ॥४९॥


तत्-एव रम्यम् रुचिरम् नवम् नवम् that alone is enchanting, beautiful, ever new,
तत्-एव शश्वत्- that alone is eternal
मनस: महा-उत्सवम् of the mind great rejoicing,
तत्-एव शोक-अर्णव-शोषणम् that alone of the sorrow ocean's drying up,
नृणाम् यत्-उत्तमश्लोक- of men, which of The Sacred renowned (Vishnu's)
यश:-अनुगीयते glory is constantly sung

न तद् वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद् ध्वाङ्क्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमला: ॥५०॥


न तद् वच:-चित्र-पदम् not that speech, floral,
हरे:-यश: जगत्-पवित्रम् of Hari the glory, world sanctifying,
प्रगृणीत कर्हिचित् utters, ever
तत् ध्वाङ्क्ष-तीर्थम् that is leftovers for crows thrown, wallowing in,
न तु हंस-सेवितम् not indeed by the wise entertained,
यत्र-अच्युत:-तत्र हि where The Immortal Lord, (is sung of) there alone
साधव:-अमला: the noble sinless

स वाग्विसर्गो जनताघसंप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यच्छ्रण्वन्ति गायन्ति गृणन्ति साधव: ॥५१॥


स: वाक्-विसर्ग: that of speech is composition,
जनता-अघ-संप्लव: of people's sin washing away,
यस्मिन्-प्रति-श्लोकम्- in which every verse
अबद्धवति-अपि uncomposed even,
नामानि-अनन्तस्य names of The Immortal
यश:-अङ्कितानि-यत्-शृण्वन्ति glories marked with, which hear
गायन्ति गृणन्ति साधव: sing and repeat the pious

नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् ।
कुत: पुन: शश्वदभद्रमीश्वरे न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥५२॥


नैष्कर्म्यम्-अपि-अच्युत- desire-less action, even, of Immortal Lord
भाव-वर्जितम् न शोभते thoughts devoid of, do not adorn
ज्ञानम्-अलम् निरञ्जनम् the knowledge, enough without blemish,
कुत: पुन: शश्वत्-अभद्रम्- where then, eternally, unconsecrated
ईश्वरे न हि-अर्पितम् to The Lord, not indeed is dedicated,
कर्म यत्-अपि-अनुत्तमम् the action, how ever much superior

यश:श्रियामेव परिश्रम: परो वर्णाश्रमाचारतप:श्रुतादिषु ।
अविस्मृति: श्रीधरपादपद्मयोर्गुणानुवादश्रवणादिभिर्हरे: ॥५३॥


यश:-श्रियाम्-एव परिश्रम: पर: glory prosperity alone, of pains extreme,
वर्ण-आश्रम-आचार- in Varna, Aashrama, behaviour
तप:-श्रुत-आदिषु austerities, learning of scriptures and others,
अविस्मृति: श्रीधर- non-forgetting of Shree Laxmi's spouses'
पाद-पद्मयो:-गुण-अनुवाद- feet lotuses, qualities repeatedly
श्रवण-आदिभि:-हरे: hearing, and so on of Shree Hari

अविस्मृति: कृष्णपदारविन्दयो: क्षिणोत्यभद्राणि शमं तनोति च ।
सत्त्वस्य शुद्धिं परमात्मभक्तिं ज्ञानं च विज्ञानविरागयुक्तम् ॥५४॥


अविस्मृति: कृष्ण-पद-अरविन्दयो: non-forgetting of Krishna's feet lotuses,
क्षिणोति-अभद्राणि depreciates evil,
शमम् तनोति च peace enhances and
सत्त्वस्य शुद्धिम् of intellect purity,
परमात्म-भक्तिम् of The Supreme Spirit's devotion,
ज्ञानम् च विज्ञान-विराग-युक्तम् knowledge and enlightenment dispassion coupled
ज्ञानम् च विज्ञान-विराग-युक्तम् knowledge and enlightenment dispassion coupled with

यूयं द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम् ।
नारायणं देवमदेवमीशमजस्रभावा भजताविवेश्य ॥५५॥


यूयम् द्विज-अग्र्या: you all, of Braahmana's the foremost,
बत भूरिभागा: surely are highly blessed
यत्-शश्वत्-आत्मनि- in that, eternally, in your self
अखिल-आत्म-भूतम् of all The Inner Controller
नारायणम् देवम्-अदेवम्-ईशम्- Naaraayana, the God, without a god, The Lord
अजस्र-भावा भजत-अविवेश्य with constant devotion worship, installed

अहं च संस्मारित आत्मतत्त्वं श्रुतं पुरा मे परमर्षिवक्त्रात् ।
प्रायोपवेशे नृपते: परीक्षित: सदस्यृषीणां महतां च शृण्वताम् ॥५६॥


अहम् च संस्मारित I and am reminded
आत्म-तत्त्वम् श्रुतम् पुरा मे The Spirit's essence, heard before, by me,
परम-ऋषि-वक्त्रात् from the great seer's mouth,
प्रायोपवेशे नृपते: परीक्षित: (when, for) fast until death, of Pareekshit
सदसि-ऋषीणाम् in the congregation of sages,
महताम् च शृण्वताम् and the exalted and hearing

एतद्व: कथितं विप्रा: कथनीयोरुकर्मण: ।
माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥५७॥


एतत्-व: कथितम् विप्रा: this to you is told, O Braahmanas!
कथनीय-उरु-कर्मण: worthy of narration of the great exploits
माहात्म्यम् वासुदेवस्य the supreme glory of Vaasudeva,
सर्व-अशुभ-विनाशनम् of all evils the destroyer

य एवं श्रावयेन्नित्यं यामक्षणमनन्यधी: ।
श्रद्धावान् योऽनुशृणुयात् पुनात्यात्मानमेव स: ॥५८॥


य: एवम् श्रावयेत्-नित्यम् who thus, repeats daily,
याम-क्षणम्-अनन्य-धी: three hours, one moment, unwavering mind
श्रद्धावान् य:-अनुशृणुयात् with reverence, who hears,
पुनाति-आत्मानम्-एव स: purifies, himself also he

द्वादश्यामेकादश्यां वा शृण्वन्नायुष्यवान् भवेत् ।
पठत्यनश्नन् प्रयतस्ततो भवत्यपातकी ॥५९॥


द्वादश्याम्-एकादश्याम् वा on the twelfth, eleventh or (days)
शृण्वन्-आयुष्यवान् भवेत् hearing long lived becomes,
पठति-अनश्नन् प्रयत:- reads without food, devotedly
तत: भवति-अपातकी then becomes sin-less

पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।
उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥६०॥


पुष्करे मथुरायाम् च in Pushkara, Mathura and
द्वारवत्याम् यत-आत्मवान् in Dwaarakaa, with controlled mind,
उपोष्य संहिताम्-एताम् fasting, compilation this
पठित्वा मुच्यते भयात् reading, is freed from fear

देवता मुनय: सिद्धा: पितरो मनवो नृपा: ।
यच्छन्ति कामान् गृणत: शृण्वतो यस्य कीर्तनात् ॥६१॥


देवता मुनय: सिद्धा: the gods, sages, Siddhas,
पितर: मनव: नृपा: manes, Manus, kings
यच्छन्ति कामान् गृणत: confer the desired, repeating,
शृण्वत: यस्य कीर्तनात् hearing Whose chantings

ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।
मधुकुल्या घृतकुल्या: पय:कुल्याश्च तत्फलम् ॥६२॥


ऋच: यजूंषि सामानि Rik, Yajur, Saamaas
द्विज:-अधीत्य-अनुविन्दते Braahmanas reading, entertain
मधु-कुल्या घृत-कुल्या: honey streams, ghee streams,
पय:-कुल्या:-च तत्-फलम् milk streams, and its reward

पुराणसंहितामेतामधीत्य प्रयतो द्विज: ।
प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥६३॥


पुराण-संहिताम्-एताम्- Puranas compilation this,
अधीत्य प्रयत: द्विज: having studied, devoutly, a Braahmana,
प्रोक्तम् भगवता यत्-तु spoken of by The Lord which, indeed,
तत्-पदम् परमम् व्रजेत् that state, highest, reaches

विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् ।
वैश्यो निधिपतित्वं च शूद्र: शुद्धयेत पातकात् ॥६४॥


विप्र:-अधीत्य-आप्नुयात् प्रज्ञाम् Braahmana, studying, gains insight
राजन्य-उदधि-मेखलाम् Kshatriya, up to the ocean as girdle, (the land)
वैश्य: निधि-पतित्वम् च Vaishya, of treasury ownership, and
शूद्र: शुद्धयेत पातकात् Shoodra, is purified of sins

कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।
इह तु पुनर्भगवानशेषमूर्ति: परिपठितोऽनुपदं कथाप्रसङ्गै: ॥६५॥


कलि-मल-संहति-कालन:- of Kali the impurities' mound, The Destroyer,
अखिल-ईश: हरि इतर्-अत्र of all The Ruler, Shree Hari, other than here
न गीयते हि-अभीक्ष्णम् are not sung of, indeed frequently,
इह तु पुन:-भगवान्-अशेष-मूर्ति: here indeed, again, The Lord with all forms
परिपठित:-अनुपदम् is celebrated on every step
कथा-प्रसङ्गै: in narrative episodes

तमहमजमनन्तमात्मतत्त्वं जगदुदयस्थितिसंयमात्मशक्तिम् ।
द्युपतिभिरजशक्रशङ्कराद्यैर्दुरवसितस्तवमच्युतं नतोऽस्मि ॥६६॥


तम्-अहम्-अजम्-अनन्तम्- to Him, I The birth-less, end-less,
आत्म-तत्त्वम् जगत्-उदय- the consciousness principle, of universe appearance,
स्थिति-संयम-आत्म-शक्तिम् continuance, dissolution, own potency,
द्युपतिभि:-अज-शक्र-शङ्कर- by lord of spheres, Brahmaa, Indra, Shankara
आद्यै:-दुरवसित-स्तवम्- and others, not knowing glorification,
अच्युतम् नत:-अस्मि to The Infinite Lord, bowed am I

उपचितनवशक्तिभि: स्व आत्मन्युपरचितस्थिरजङ्गमालयाय ।
भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नम: सनातनाय ॥६७॥


उपचित-नव-शक्तिभि: by collecting the nine potencies,
स्व आत्मनि-उपरचित- in Own Self evolved
स्थिर-जङ्गम-आलयाय to The immobile mobile abode,
भगवत: उपलब्धि मात्र-धाम्ने The Lord's consciousness alone the state,
सुर-ऋषभाय of the gods' the foremost,
नम: सनातनाय I bow to The Eternal

स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽप्यजितरुचिरलीलाकृष्टसारस्तदीयम् ।
व्यतनुत कृपया यस्तत्त्वदीपं पुराणं तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥६८॥


स्व-सुख-निभृत-चेता:- in own blissfulness revelling minded,
तत्-व्युदस्त-अन्य-भाव:- so, abandoning other notions,
अपि-अजित-रुचिर-लीला- though, of The Invincible charming stories,
आकृष्ट-सार:-तदीयम् attracted by, the substance in there,
व्यतनुत कृपया य:- brought out, compassionately who,
तत्त्व-दीपम् पुराणम् the Truth revealing Puraana,
तम्-अखिल-वृजिन-घ्नम् to that entire sins destroyer
व्यास-सूनुम् नत:-अस्मि Vyaasa's son (Shuka) bowed am I
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अर्थ निरूपणं नाम द्वादश:
अध्याय: ॥१२॥


श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अर्थ निरूपणं नाम द्वादश:
अध्याय: ॥१२॥ Thus ends the twelfth discourse entitled 'A Synopsis of all the twelve

त्रयोदश: अध्याय:

सूत उवाच - Soota said -
यं ब्रह्मा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यै: स्तवै:

र्वेदै: साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगा: ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदु: सुरासुरगणा देवाय तस्मै नम: ॥१॥


यम् ब्रह्मा वरुण-इन्द्र-रुद्र-मरुत: Whom, Brahmaa, Varuna, Indra, Rudra, Marutas,
स्तुन्वन्ति दिव्यै: स्तवै: extol with divine hymns,
वेदै: स-अङ्ग-पद-क्रम-उपनिषदै:- Vedas, with parts, verses, sequentially, with
गायन्ति यम् सामगा: sing of Whom the singers of Saamaveda
ध्यान-अवस्थित-तत्-गतेन in meditation fixed, by that established
मनसा पश्यन्ति यम् योगिनो: mind perceive Whom the Yogis,
यस्य-अन्तम् न विदु: सुर- Whose end do not known the gods,
असुर-गणा: देवाय तस्मै नम: demons hosts, to That glorious Lord I bow

न्निद्रालो: कमठाकृतेर्भगवत: श्वासानिला: पान्तु व: ।
यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां
यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥२॥


पृष्ठे भ्राम्यत्-अमन्द मन्दर-गिरि- on the back revolving, of colossal Mandaara
ग्राव-अग्र-कण्डूयनात्-निद्रालो: rocks' ends by scratching, drowsy
कमठ-आकृते:-भगवत: of Tortoise formed The Lord,
श्वास-अनिला: पान्तु व: breath airs, may protect you all
यत्-संस्कार-कला-अनुवर्तन-वशात् of which, the impetus, part, following adhering
यत्-संस्कार-कला-अनुवर्तन-वशात् of which, the impetus, part, following adhering to,
वेला-निभेन-अम्भसाम् ebb and tide like of the waters,
यात-आयातम्-अतन्द्रितम् going and coming, unabated,
जलनिधे:-न-अद्य-अपि विश्राम्यति of the ocean not today also rests

पुराणसंख्यासम्भूतिमस्य वाच्यप्रयोजने ।
दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥३॥


पुराण-संख्या-सम्भूतिम्- of this Purana's numbers, in total,
अस्य वाच्य-प्रयोजने of this, of the theme, object,
दानम् दानस्य माहात्म्यम् the gifting, of gifting the value,
पाठ-आदे:-च निबोधत of reading and so on, listen to

ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टि च ।
श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥४॥


ब्राह्मम् दश-सहस्राणि the Braahma ten thousand (shlokas)
पाद्मम् पञ्चोनषष्टि च Padma (Puraana) fifty five (thousand) and
श्रीवैष्णवम् त्रयोविंशत्- Shree Vishnu, twenty three (thousand)
चतुर्विंशति शैवकम् twenty four (thousand) Shiva (Puraana)

दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति: ।
मार्कण्डं नव वाह्नं च दशपञ्च चतु:शतम् ॥५॥


दशाष्टौ श्रीभागवतम् sixteen (thousand) in Shree Bhaagavatam
नारदम् पञ्चविंशति: in Naarada twenty five (thousand)
मार्कण्डम् नव वाह्नम् च in Maarkandeya nine (thousand) in Agni and
दशपञ्च चतु:शतम् fifteen thousand and four hundred

चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च ।
दशाष्टौ ब्रह्मवैवर्तं लिङ्गमेकादशैव तु ॥६॥


चतुर्दश भविष्यम् स्यात्- fourteen (thousand) in Bhavishya should be,
तथा पञ्चशतानि च also five hundred and,
दशाष्टौ ब्रह्मवैवर्तम् eighteen (thousand) in Brahmavaivarta,
लिङ्गम्-एकादश-एव तु in Linga eleven (thousand) only indeed

चतुर्विंशति वाराहमेकाशीतिसहस्रकम् ।
स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥७॥


चतुर्विंशति वाराहम्- twenty (thousand) in Varaaha,
एकाशीति-सहस्रकम् eighty one thousand
स्कान्दम् शतम् तथा च-एकम् Skanda, hundred also and one,
वामनम् दश कीर्तितम् Vaamana ten thousand is reputed

कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।
एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥८॥


कौर्मम् सप्तदश-आख्यातम् the Kurma seventeen (thousand) is declared
मात्स्यम् तत्-तु चतुर्दश Matsya, that indeed fourteen (thousand)
एकोनविंशत्-सौपर्णम् nineteen (thousand) of Gaduda Puraana,
ब्रह्माण्डम् द्वादश-एव तु of Brahmaanda twelve (thousand) only indeed

एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृत: ।
तत्राष्टादशसाहस्रं श्रीभागवतमिष्यते ॥९॥


एवम् पुराण-सन्दोह:- thus, the Puraanas' collection
चतुर्लक्ष उदाहृत: of four lakhs is ascertained
तत्र-अष्टादश-साहस्रम् there, eighteen thousand
श्रीभागवतम्-इष्यते of Shree Bhaagavatam are recognized

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।
स्थिताय भवभीताय कारुण्यात् सम्प्रकाशितम् ॥१०॥


इदम् भगवता पूर्वम् this, by The Almighty Lord, for the first time,
ब्रह्मणे नाभि-पङ्कजे to Brahmaa, in the navel lotus
स्थिताय भव-भीताय seated, of transmigration afraid
कारुण्यात् सम्प्रकाशितम् graciously revealed

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।
हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् ॥११॥


आदि-मध्य-अवसानेषु in the beginning, middle, end,
वैराग्य-आख्यान-संयुतम् dispassion legends combined with,
हरि-लीला-कथा-व्रात- Shree Hari's pastimes' stories' multitudes,
अमृत-आनन्दित-सत्-सुरम् nectar bliss to the righteous and gods

सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।
वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥१२॥


सर्व-वेदान्त-सारम् यत् of all the Veda's the substance, which,
ब्रह्म-आत्मा-एकत्व-लक्षणम् of Brahma and the soul, oneness, the pointer
वस्तु-अद्वितीयम् तत्-निष्ठम् Reality, without a second, that relating to,
कैवल्य-एक-प्रयोजनम् detachment the one object

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।
ददाति यो भागवतं स याति परमां गतिम् ॥१३॥


प्रौष्ठपद्याम् पौर्णमास्याम् in Bhaadrapada (August) month, full moon,
हेम-सिंह-समन्वितम् gold throne placed on,
ददाति य: भागवतम् gifts, who Bhaagavata,
स: याति परमाम् गतिम् he attains the highest state

राजन्ते तावदन्यानि पुराणानि सतां गणे ।
यावन्न दृश्यते साक्षाच्छ्रीमद्भागवतं परम् ॥१४॥


राजन्ते तावत्-अन्यानि luminous till then are other
पुराणानि सताम् गणे Puraanas among the righteous assembly,
यावत्-न दृश्यते साक्षात्- until is not seen directly
श्रीमद्भागवतम् परम् Shreemad Bhaagavatam Supreme

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।
तद्रसामृततृप्तस्य नान्यत्र स्याद्रति: क्वचित् ॥१५॥


सर्व-वेदान्त-सारम् हि of all the Veda's conclusive substance, indeed,
श्रीभागवतम्-इष्यते Shreemad Bhaagavatam is considered to be
तत्-रस-अमृत-तृप्तस्य that juice nectarine sated
न-अन्यत्र स्यात्-रति: क्वचित् not anywhere becomes delighted ever

निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।
वैष्णवानां यथा शम्भु: पुराणानामिदं तथा ॥१६॥


निम्नगानाम् यथा गङ्गा of the rivers as is Gangaa,
देवानाम्-अच्युत: यथा of the gods The Immortal Lord Vishnu, just as,
वैष्णवानाम् यथा शम्भु: of the votaries of Vishnu, just as is Lord Shiva,
पुराणानाम्-इदम् तथा of the Puraanas' this is likewise (superior)

क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा: ।
तथा पुराणव्रातानां श्रीमद्भागवतं द्विजा: ॥१७॥


क्षेत्राणाम् च-एव सर्वेषाम् of the holy places and also entire,
यथा काशी हि-अनुत्तमा just as Kaashi indeed is unsurpassed
तथा पुराण-व्रातानाम् like that, of the Puraana collection
श्रीमद्भागवतम् द्विजा: is Shreemad Bhaagavatam O Braahmanas!
श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं

यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।
तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं
तच्छ्रुण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नर: ॥१८॥


श्रीमद्भागवतम् पुराणम्-अमलम् Shreemad Bhaagavata, Puraana, flawless,
यत्-वैष्णवानाम् प्रियम् which to Vaishnava is dear,
यस्मिन् पारम-हंस्यम्-एकम्- in which, of The Supreme Reality, The One,
अमलम् ज्ञानम् परम् गीयते devoid of Maaya, Knowledge Supreme is expounded,
तत्र ज्ञान-विराग-भक्ति-सहितम् there, Knowledge, Dispassion, Devotion with
नैष्कर्म्यम्-आविष्कृतम् withdrawal from all activity is discovered
तत्-शृण्वन् विपठन् विचारण- that hearing, studying, pondering
पर: भक्त्या विमुच्येत्-नर: given to, with devotion, liberated is man
कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीप: पुरा

तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा ।
स्तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥१९॥


कस्मै येन विभासित:- for Brahmaa, by Whom (Naaraayana) enlightened
अयम्-अतुल: ज्ञान-प्रदीप: पुरा this unmatched wisdom lamp, in beginning,
तत्-रूपेण च नारदाय मुनये in his (Brahma's form Naaraayana) to Naarada Muni
कृष्णाय तत्-रूपिणा to Krishna (Vedavyaasa) in Naarada's form
योग-इन्द्राय तत्-आत्म-नाथ to Yoga's prince Shuka, in his own self master
भगवत्-राताय कारुण्यत:- to The Lord's devotee (Pareekshit) graciously
तत्-शुद्धम् विमलम् विशोकम्- that pure flawless sorrow less
अमृतम् सत्यम् परम् धीमहि nectre Reality highest we meditate upon

नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।
य: इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥२०॥


नम:-तस्मै भगवते Salutations to That Lord
वासुदेवाय साक्षिणे Vaasudeva, The Witness,
य: इदम् कृपया कस्मै Who, this out of compassion to Brahmaa
व्याचचक्षे मुमुक्षवे taught, eager for liberation

योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।
संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥२१॥


योगीन्द्राय नम:-तस्मै to of Yogis the prince, salutations to him,
शुकाय ब्रह्म-रूपिणे to Shuka, in Brahman's form
संसार-सर्प-दष्टम् य: by mundane existence snake bitten, who,
विष्णु-रातम्-अमूमुचत् Vishnu's votary (Pareekshit) redeemed

भवे भवे यथा भक्ति: पादयोस्तव जायते ।
तथा कुरुष्व देवेश नाथस्त्वं नो यत: प्रभो ॥२२॥


भवे भवे यथा भक्ति: birth after birth, so that devotion
पादयो:-तव जायते in feet of Your's may arise
तथा कुरुष्व देवेश so ordain O Lord of gods,
नाथ:-त्वम् न: यत: प्रभो Protector You, ours because are O Almighty

नामसङ्कीर्तनं यस्य सर्वपापप्रणनाशनम् ।
प्रणामो दु:खशमनस्तं नमामि हरिं परम् ॥२३॥


नाम-सङ्कीर्तनम् यस्य names chanting Whose
सर्व-पाप-प्रणनाशनम् of all sins is eradicator
प्रणाम: दु:ख-शमन:-तम् salutation to the sorrows' alleviator, Him,
नमामि हरिम् परम् bow I Shree Hari The Supreme
इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादश साहस्र्याम् पारमहंस्यां संहितायां
द्वादशस्कन्धे त्रयोदश: अद्याय: ॥१३॥


इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादश साहस्र्याम् पारमहंस्यां संहितायां
द्वादशस्कन्धे त्रयोदश: अद्याय: ॥१३॥



इति द्वादश: स्कन्ध: सम्पूर्ण: ।
सम्पूर्णोऽयम् ग्रन्थ:। ॥हरि ओम् तत् सत्॥ Thus ends the thirteenth discourse in Book Twelve of the great and